सामग्री पर जाएँ
भारतकोश
संग्रह पर लौटें

बृहन्नारदीय पुराण (संस्कृत मूल व हिन्दी व्याख्या)

Brihan Naradiya Purana with Sanskrit & Hindi Commentary

महर्षि व्यास द्वारा

स्रोत: चौखम्बा संस्कृत संस्थान · चौखम्बा संस्कृत संस्थान (उद्गम)

DevanagariSanskritpublished1,008 पृष्ठ

८६२ नारदीयपुराणम् प्रायश्चित्तविधिश्चाग्नेरुत्पत्तिश्च सुरागमः। देवदीक्षा शिवस्तोत्रं नानापातकनाशनम् ॥६३॥ कपालमोचनाख्यानं महाकालवनस्थितिः। तीर्थं कनकलेशस्य सर्वपापनाशनम् ॥६४॥ कुण्डमप्सरसंज्ञं च सरो रुद्रस्य पुण्यदम्। कुण्डेशं च विद्याघ्रं मर्कटेश्वरतीर्थकम् ॥६५॥ स्वर्गद्वारं चतुःसिन्धुतीर्थं शंकरवापिका। शंकरार्कं गन्धवतीतीर्थं पापनाशनम् ॥६६॥ दशाश्वमेधिकानंशतीर्थे च हरिसिद्धिदम्। पिशाचिकादिलाभा हनुमत्कवचेश्वरौ ॥६७॥ महाकालेशयात्रा च वल्मीकेश्वरतीर्थकम्। शुक्ले च पञ्चमे चाऽथ कुशास्थल्याः प्रदक्षिणाः ॥६८॥ अक्रूरसंज्ञकस्त्वेकपादं चंद्रार्कवैभवम्। करमेशाह्वयंतीर्थं च लट्ठकेशाख्यतीर्थकम् ॥६९॥ मार्कण्डेशं यज्ञवापी सोमेशं नरकांतकम्। केदारेश्वररामे शसौभाग्येशनरार्ककम् ॥१००॥ केशवार्कं शक्तिभेदं स्वर्णसारमुखानि च। ओंकारेशादितीर्थानि अंधकश्रुतिकीर्तनम् ॥१०१॥ कालारण्ये लिंगसंख्या स्वर्णशृंगाभिधानकम्। कुशास्थल्या अवंत्याश्चोज्जयिन्या अभिधानकम् ॥१०२॥ पद्मावती वै कुमुद्वत्यमरावतीनामकम्। विशालाप्रतिकल्पाख्यानं च ज्वरशांतकम् ॥१०३॥ शिवानामादिकफलं नागोद्गीता शिवस्तुतिः। हिरण्याक्षवधाख्यानं तीर्थं सुन्दरकुण्डकम् ॥१०४॥ नीलगंगापुष्कराख्यं विष्यवासनतीर्थकम्। पुरुषोत्तमसंज्ञानं तु सत्तीर्थं चाघनाशनम् ॥१०५॥ गोमती वामनं कुण्डो विष्णोर्नामसहस्रकम्। वीरेश्वरसरः कालभैरवस्य च तीर्थकम् ॥१०६॥ महिमा नागपंचम्या नृसिंहस्य जयंतिका। कुटुम्बेश्वरयात्रा च देवसाधककीर्तनम् ॥१०७॥ कर्करराजाख्यतीर्थं च विघ्नेशादिसुरोहनम्। रुद्रकुण्डप्रभृतिषु बहुतीर्थनिरूपणम् ॥१०८॥ यावाष्टतीर्थजा पुण्या रेवामाहात्म्यमुच्यते। धर्मपुत्रस्य वैराग्यो मार्कण्डेयेन संगमः ॥१०९॥ प्राप्रीयानुभवाख्यानममृतापरिकीर्त्तनम्। कल्पे कल्पे पृथङ् नाम नर्मदायाः प्रकीर्तितम् ॥११०॥ स्तवमार्षं नार्मदं च कालरात्रिकथा ततः। महादेवस्तुतिः पश्चात्पृथक्कल्पकथाद्भुता ॥१११॥

विधि, अग्निरुत्पत्ति, सुरागमन, देवदीक्षा, सकलपापनाशन शिवस्तोत्र, कपालमोचनाख्यान, महाकालवनस्थिति, सर्वपापनाशी कनकलेशतीर्थ, अप्सरःकुण्ड, पुण्यदायक रुद्रसर, कुण्डवेश, विद्याघ्र, मर्कटेश्वर तीर्थ, स्वर्गद्वार, चतुः सिंधुतीर्थ, शंकरवापिका, शंकरार्क, पापनाशीगन्धवतीतीर्थ, दशाश्वमेवतीर्थ, हरिसिद्धिदायक, अनंशतीर्थ, पिशाचिकादि यात्रा, हनुमत्कवचेश्वर, महाकालेशयात्रा, वल्मीकेश्वरतीर्थ, शुक्रतीर्थ, कुशस्थली की प्रदक्षिणा ॥६३-९८॥ अक्रूर नामक तीर्थ, एकपादतीर्थ, चंद्रार्कवैभवतीर्थ, करमेशतीर्थ, लट्ठकेशतीर्थ, मार्कण्डेशतीर्थ यज्ञवापी, सोमेश, नरकांतक, केदारेश्वर, रामेश, भाग्येश, नरार्क, केशवार्क, शक्तिभेद, स्वर्णसारमुख, ओंकारेशादि तीर्थ, अंधकश्रुतिकीर्तन, कालारण्य में लिंगसंख्या, स्वर्णशृंग की कथा, कुशस्थली, अवन्ती और उज्जयिनी का कथानक, पद्मावती, कुमुद्वती, अमरावती और विशालाप्रतिकल्प का आख्यान, ज्वरशांतक, शिवानामादिक फल, नाग द्वारा की गई शिव स्तुति, हिरण्याक्षवधाख्यानतीर्थ, सुन्दरकुण्डक, नीलगंगा, पुष्कर, विष्यवासनतीर्थ, पापनाशन पुरुषोत्तम तीर्थ, गोमती, वामनकुण्ठ, विष्णुलहस्रनामतीर्थ ॥९९-१०५॥ वीरेश्वरसर, कालभैरवतीर्थ, नागपंचमीमहिमा, नृसिंहजयन्ती, कुटुम्बेश्वरयात्रा, देवसाधककीर्तन, कर्कराज- तीर्थ, विघ्नेशादिसुरोहन, रुद्रकुण्ड आदि अनेक तीर्थों का निरूपण, अष्टतीर्थ की पवित्र यात्रा, रेवामाहात्म्य, धर्मपुत्र का वैराग्य, उनका मार्कण्डेय के साथ संगम, प्राग्रीयानुभवाख्यान, अमृतापरिकीर्तन, प्रतिकल्प में नर्मदा का पृथक्-पृथक् नामनिर्देश, नर्मदा की आर्षस्तुति, कालरात्रिकथा, महादेवस्तुति, पृथक्-पृथक् कल्पों की मद्भुत

चतुरधिकशततमोऽध्यायः [८६३]

विशल्याख्यानकं पश्चाज्जालेश्वरकथा तथा । गौरीव्रतसमाख्यानं त्रिपुरज्वालनं ततः ॥११२॥ देहपातविधानं च कावेरीसंगमस्ततः । दारुतीर्थं ब्रह्मावर्तं यत्रेश्वरकथानकम् ॥११३॥ अग्नितीर्थं रवितीर्थं मेघनादादिदारुकम् । देवतीर्थं नर्मदेशं कपिलाख्यं करंजकम् ॥११४॥ कुण्डलेशं पिप्पलादं विमलेशं च शूलभित् । शचीहरणमाख्यानमभ्रकस्य वधस्ततः ॥११५॥ शलभेदोद्भवो यत्र दानधर्माः पृथग्विधाः । आख्यानं दीर्घतपस ऋष्यशृंगकथा ततः ॥११६॥ चित्रसेनकथा पुण्या काशिराज्यस्य लक्षणम् । ततो देवशिलाख्यानं शबरीतीर्थकान्वितम् ॥११७॥ व्याधाख्यानं ततः पुण्यं पुष्करिण्यर्कतीर्थकम् । आप्रत्येश्वरतीर्थं च शक्ततीर्थं करोटिकम् ॥११८॥ कुमारेशमगस्त्येशमानंदेशं च मातृजम् । लोकेशं धनदेशं च मंगलेशं च कामजम् ॥११९॥ नागेशं चापि गोपारं गौतमं शंखचूडकम् । नारदेशं नंदिकेशं वरुष्णेश्वरतीर्थकम् ॥१२०॥ वधिस्कंदादितीर्थानि हनूमन्तेश्वरं ततः । रामेश्वरादितीर्थानि सोमेशं विंगलेश्वरम् ॥१२१॥ ऋणमोक्षं कपिलेशं पूतकेशं जलेशयम् । चंडार्क यमतीर्थं च कालहोडीशं वनादिके ॥१२२॥ नारायणं च कोटीशं व्यासतीर्थं प्रभासकम् । नागेशसंकर्षणकं प्रश्रयेश्वरतीर्थकम् ॥१२३॥ ऐरंडीसंगमं पुण्यं सुवर्णशिलतीर्थकम् । करजं कामहं तीर्थं भांडीरो रोहिणीभवम् ॥१२४॥ चक्रतीर्थं धौतपापं स्कंदमांगिरसाह्वयम् । कोटितीर्थ मयोन्याख्यमंगाराख्यं त्रिलोचनम् ॥१२५॥ इन्द्रेशं कंबुकेशं च सोमेशं कोहनं शकम् । नामंदं चार्कमाग्नेयं भार्गवेश्वरमुत्तमम् ॥१२६॥ ब्राह्मं देवं च मार्गेशमादिवाराहकेश्वरम् । रामेशमथ सिद्धेशमाहल्यं कंकटेश्वरम् ॥१२७॥ शाक्रं सौम्यं च नादेशं तोयेशं रुक्मिणीभवम् । योजनेशं वराहेशं द्वादशीशिवतीर्थकम् ॥१२८॥ सिद्धेशं मंगलेशं च लिंगवाराहतीर्थकम् । कुण्डेशं श्वेतवाराहं गर्भावेशं रवीश्वरम् ॥१२९॥ शुक्लादीनि च तीर्थानि हुंकारस्वामितीर्थकम् । संगमेशं नहुषेशं मोक्षणं पञ्चगोपकम् नागशार्वं च सिद्धेशं मार्कण्डाङ्करतीर्थके ॥१३०॥


कथा, विशल्याख्यान, जालेश्वरकथा, गौरीव्रताख्यान, त्रिपुरज्वालन, ॥१०६-११२॥ देहपातविधान, कावेरीसंगम, दारुतीर्थ, ब्रह्मावर्त, ईश्वरकथानक, अग्नितीर्थ, रवितीर्थ, मेघनादादिदारुक, देवतीर्थ, नर्मदेश, कपिल, करंजक, कुंडलेश, पिप्पलाद, विमलेश, शूलभित्, शचीहरण का आख्यान, अभ्रकवध, शूलभेद का उद्भव, पृथक्-पृथक् दानधर्मों का कथन, दीर्घतपा का आख्यान, ऋष्यशृंगकथा, चित्रसेनकथा, काशी के राज्य का लक्षण, देवशिला- ख्यान, शबरीतीर्थ, व्याध का आख्यान, पुष्करिण्यर्कतीर्थ, आप्रत्येश्वरतीर्थ, शक्ततीर्थ, करोटिक, ॥११३-११८॥ कुमारेश, अगस्त्येश, आनंदेश, मातृज, लोकेश, धनदेश, मंगलेश, कामज, नागेश, गोपार, गौतम, शंखचूड, नारदेश, नंदिकेश, वरुणीश्वरतीर्थ, दधिस्कंध आदि तीर्थ, हनूमहेश्वर, रामेश्वर आदि तीर्थ, सोमेश, पिंगलेश, ऋणमोक्ष, कपिलेश, पूतिकेश, जलेशय, चंडार्क, यमतीर्थ, कालहोडीश, वनादिक, नारायण, कोटीश, व्यासतीर्थ, प्रभासक, नागेश-संकर्षणक, प्रश्रयेश्वरतीर्थ, पवित्र ऐरंडीसंगम, सुवर्णशिलतीर्थ, करंज, कामह, भांडीर, रोहिणीभव, चक्रतीर्थ, धौतपाप, स्कंद, आंगिरस, कोटितीर्थ, अयोनित, अंगार, त्रिलोचन, इंद्रेश, कंबुकेश, सोमेश, कोहन, शक, नामंद, आर्क, आग्नेय, उत्तम भार्गवेश्वर ॥११९-१२६॥ ब्राह्म, देव, मार्गेश, आदि वाराहकेश्वर, रामेश, सिद्धेश, आहल्य, कंकटेश, शाक्र, सौम्य, आदेश, तोयेश, रुक्मिणीभव, योजनेश, वराहेश, द्वादशीशिवतीर्थ, सिद्धेश, मंगलेश, लिंगवाराहतीर्थ, कुंडेश, श्वेतवाराह, गर्भावेश, रवीश्वर, शुक्ल आदि तीर्थ, हुंकारस्वामितीर्थ, संगमेश, नारकेश,

८६४ नारदीयपुराणम्

कामोदशूलारोपाख्ये मांडव्यं गोपकैश्वरम् । कपिलेशं पिंगलेशं भूतेशं गांगगौतमे ॥१३१॥ आश्वमेधं भृगुकच्छं केदारेशं च पापनुत् । कलकलेशं जालेशं शालग्रामं वराहकम् ॥१३२॥ चंद्रप्रभासमादित्यं श्रीपत्याख्यं च हंसकम् । मूल्यस्थानं च शलेशमुग्राख्यं चित्रदैवकम् ॥१३३॥ शिखीशं कोटितीर्थं च दशकन्यं सुवर्णकम् । ऋणमोक्षं भारभूति पुंखांबुडि च डिंडिमम् ॥१३४॥ आमलेशं कपालेशं शृंगैरंडीभवं ततः । कोटितीर्थं लोटणेशं फलस्तुतिरत: परम् ॥१३५॥ दृमिजंगलमाहात्म्ये रोहिताश्वकथा ततः । धुंधुसारसमाख्यानं वधोपायस्ततोऽस्य वै ॥१३६॥ वधो धुंधोस्ततः पश्चात्ततश्चित्रवहोद्भवः । महिमास्य ततश्चंडीशप्रभावो रतीश्वरः ॥१३७॥ केदारेशो लक्षतीर्थं ततोविष्णुपदीभवम् । मुखारं चवनांधास्यं ब्रह्मणश्च सरस्ततः ॥१३८॥ चक्राख्यं ललिताख्यानं तीर्थं च बहुगोमयम् । रुद्रावर्तं च मार्कंडं तीर्थं पापप्रणाशनम् ॥१३६॥ श्रवणेशं शुद्धपटं देवांघ्रप्रेततीर्थकम् । जिह्वोदतीर्थं संभूतिः शिवोद्भेदं फलस्तुतिः ॥१४०॥ एष खंडो ह्यवन्त्याख्यः शृण्वतां पापनाशनः । अतः परं नागराख्यः खण्डः षष्ठोऽभिधीयते ॥१४१॥ लिंगोत्पत्तिसमाख्यानं हरिश्चन्द्रकथा शुभा । विश्वामित्रस्य माहात्म्यं त्रिशंकुस्वर्गतिस्तथा ॥१४२॥ हाटकेश्वरमाहात्म्ये वृत्रासुरवधस्तथा । नागबिलं शंखतीर्थमचलेश्वरवर्णनम् ॥१४३॥ चमत्कारपुराख्यानं चमत्कारकरं परम् । गयशीर्षं बालशाख्यं बालमंडं मृगाह्वयम् ॥१४४॥ विष्णुपार्दं च गोकर्णं युगरूपं समाश्रयः । सिद्धेश्वरं नागसरः सप्तार्येयं ह्यगस्तकम् ॥१४५॥ भ्रूणगतं नलेशं च भैष्मं वैडूरमर्ककम् । शारमिष्ठं सोमनाथं च दौर्गमातंजकेश्वरम् ॥१४६॥ जामदग्न्यवधाख्यानं नैःक्षत्रियकथानकम् । रामह्रदं नागपुरं बड्लिंगं चैव यज्ञभूः ॥१४७॥ मुण्डीरादित्रिकार्कं च सतीपरिणयाह्वयम् । रुद्रशीर्षं च यागेशं बालखिल्यं च गारुडम् ॥१४८॥

मोक्षण, पंचगोपक, नागश्राव, सिद्धेश, मार्कंड, अक्रूरतीर्थ, कामोद, शूलारोप, मांडव्य, गोपकैश्वर, कपिलेश, पिंगलेश, भूतेश, गांग, गौतम, आश्वमेध, भृगुकच्छ, केदारेश, पापनुत, कलकलेश, जालेश, शालग्राम, वराह ॥१२७-१३२॥ चंद्रप्रभासम, आदित्य, श्रीपति, हंसक, मूल्यस्थान, शूलैश, उग्राख्य, चित्रदैवक, शिखीश, कोटितीर्थ, दशकन्य, सुवर्णक, ऋणमोक्ष, भारभूति, पुंखा, मुंडि, डिंडिम, आमलेश, कपालेश, शृंगैरंडीभव, कोटितीर्थ, लोटणीश, फलस्तुति, कृमिजंगलमाहात्म्य, रोहिताश्वकथा, धुंधुमारसमाख्यान, धुंधुमारवधोपाय, धुंधुवध, चित्तवह की उत्पत्ति, चंडीशप्रभाव, रतीश्वर, केदारेश, लक्षतीर्थ, विष्णुपदीतीर्थ, मुखार, च्यवन, अंधास्य, ब्रह्मसर, चक्राख्यान, ललिताख्यान, बहुगोमयतीर्थ, रुद्रावर्त, पापनाशी मार्कण्डतीर्थ, श्रवणेश, शुद्धपट, देवांध्रप्रेततीर्थ, जिह्वोदतीर्थ, संभूतिशिवोद्भेद और फलस्तुति—इतने विषयों का वर्णन है। यह अवन्तीखंड श्रोताओं के पातक को नष्ट करता है ॥१३३-१४०१/२॥ अब इसके उपरान्त नागर नामक छठे खंड के बारे में सुनो। इसमें लिंगोत्पत्तिवर्णन, कल्याणमयी हरिश्चन्द्रकथा, विश्वामित्र का आख्यान, त्रिशंकु का स्वर्गगमन, हाटकेश्वरमाहात्म्य, वृत्रासुरवध, नागबिल, शंखतीर्थ, अचलेश्वरवर्णन, चमत्कारपुराख्यान, चमत्कारतीर्थ, गयशीर्ष, बालशांख्य, बालमंड, मृगांज्ञकतीर्थ, विष्णुपायतीर्थ, गोकर्ण, युगरूप, सिद्धेश्वर, नागसर, सप्तार्षेयतीर्थ, अगस्त्यक, भ्रूणगतं, नलेश, भैष्म, वैदूर, अर्कक, शामिष्ठ, सोमनाथ, दौर्ग, आतंजकेश्वर, जामदग्न्यवधाख्यान, नैःक्षत्रियकथानक, रामह्रद, नागपुर, बह्वलिंग, यज्ञभू ॥१४१-१४७॥ मुंडीर आदि त्रिकार्क, सतीपरिणयतीर्थ, रुद्रशीर्ष, यागेश, बालखिल्य, गारुड, लक्ष्मोद्भव,

चतुरधिकशततमोऽध्यायः ८६५ लक्ष्मीशापः सप्तविंशसोमप्रासादमेव च । अंबाबद्धं पांडुकाख्यमाग्नेयं ब्रह्मकुण्डकम् ॥१४८½॥ गोमुखं लोहयष्ट्याख्यमजापालेश्वरी तथा । शानेश्वरं राजवापी रामेशो लक्ष्मणेस्वरः ॥१५०॥ कुशेशाख्यं लवेशाख्यं लिंगं सर्वोत्तमोत्तमम् । अष्टषष्टिसमाख्यानं दमयंत्यास्त्रिजातकम् ॥१५१॥ ततो वै रेवती वाव भक्तिकातीर्थसंभवः । क्षेमंकरी च केदारं शुक्लतीर्थमुखारकम् ॥१५२॥ सत्यसंधेश्वराख्यानं तथा कर्णोत्पलाकथा । अटेश्वरं याज्ञवल्क्यं गौर्यं गाणेशमेव च ॥१५३॥ ततो वास्तुपदाऽऽख्यानमजागृहकथानकम् । सौभाग्यांधुश्च शूलेशं धर्मराजकथानकम् ॥१५४॥ मिष्टान्नदेश्वराख्यानं गाणापत्यत्रयं ततः । जाबालिचरितं चैव मकरेशकथा ततः ॥१५५॥ कालेश्वर्यंधकाख्यानं कुण्डमाप्सरसं तथा । पुष्यादित्यं रोहिताश्वं नागरोत्पत्तिकीर्तनम् ॥१५६॥ भार्गवं चरितं चैव वैश्वामैत्रं ततः परम् । सारस्वतं पैप्पलादं कंसारीशं च पैंडकम् ॥१५७॥ ब्रह्मणो यज्ञचरितं सावित्र्याख्यानसंयुतम् । रैवतं भार्तयज्ञाख्यं मुख्यतीर्थनिरीक्षणम् ॥१५८॥ कौरवं हाटकेशाख्यं प्रभासं क्षेत्रकत्रयम् । पौष्करं नैमिषं धार्ममरण्यत्रितयं स्मृतम् ॥१५९॥ वाराणसी द्वारकाख्यावन्त्याख्येति पुरीत्रयम् । वृन्दावनं खांडवाख्यमद्रं काख्यं वनत्रयम् ॥१६०॥ कल्पः शालस्तथा नन्दिग्रामत्रयमनुत्तमम् । असिशुक्लपितृसंज्ञं तीर्थत्रयमुदाहृतम् ॥१६१॥ श्यूर्बुंदो रैवतश्चैव पर्वतत्रयमुत्तमम् । नदीनां त्रितयं गंगा नर्मदा च सरस्वती ॥१६२॥ सार्द्धकोटित्रयफलमेकैकं चैषु कीर्तितम् । कपिका शंखतीर्थं चामरकं बालमण्डनम् ॥१६३॥ हाटकेश्वरफलप्रदं प्रोक्तं चतुष्टयम् । सांबादित्यं श्राद्धकल्पं यौधिष्ठिरमथांधकम् ॥१६४॥ जलशायि चतुर्मासमशून्यशयनव्रतम् । मंकणेशं शिवरात्रिसुलापुरुषदानकम् ॥१६५॥ पृथ्वीदानं वानकेशं कपालमोचनेश्वरम् । पापपिंडं मासर्लिंगं युगमानादिकीर्तनम् ॥१६६॥ निवेशशाकंभर्याख्या रुद्रैकादशकीर्तनम् । दानमाहात्म्यकथनं द्वादशादित्यकीर्तनम् ॥१६७॥

सत्ताईस सोमप्रासाद, अंबाबद्ध, पाण्डुक, आग्नेय, ब्रह्मकुंड, गोमुख, लोहयष्टि, अजापालेश्वरी, शानेश्वर, राजवापी, रामेश, लक्ष्मणीश्वर, कुशेश, लवैश, सर्वोत्तम लिंग, अष्टषष्टि-आख्यान नामक तीर्थ, दमयंती-त्रिजातक, रेवतीवापी, भक्तिकातीर्थ, क्षेमंकरी, केदार, शुक्लतीर्थ, मुखारक, सत्यसंधेश्वर का आख्यान, कर्णोत्पलाकथा, अटेश्वर, याज्ञवल्क्य, गौर्य, गाणेश ॥१४८-१५३॥ वास्तुपदाख्यान, अजागृहकथानक, सौभाग्यांधु, शूलेश, धर्मराजकथानक, मिष्ठान्नदे- श्वराख्यान, गाणपत्यत्रय, जाबालिचरित, मकरेशकथा, कालेश्वरी तथा अन्धक का आख्यान, अप्सरःकुंड, पुष्यादित्य, रोहिताश्व, नागरोत्पत्तिकीर्तन, भार्गवचरित, वैश्वामित्रचरित, सारस्वत, पैप्पलाद, कंसारीश, पिंडक, ब्रह्मयज्ञ- चरित, सावित्री-आख्यान, रैवत, भार्तयज्ञाख्यान, मुख्यतीर्थनिरीक्षण, कौरव, हाटकेक्ष, तथा प्रभास, नामक तीन क्षेत्र पुष्कर, निमिष तथा धर्म, नामक तीन अरण्य वाराणसी, द्वारका तथा मनु नामक तीन गाँव, असि, शुल्क, तथा, पित्तर, नामक तीन तीर्थ, श्री, अर्बुद तथा रैवत नामक तीन पर्वत, गंगा, नर्मदा तथा सरस्वती नामक तीन नदियों का वर्णन है । इनमें एक-एक का फल साढ़े तीन करोड़ तीर्थों का सा है । कपिका, शंखतीर्थ चॉमरक तथा बालमंडन--ये चारों हाटकेश्वरक्षेत्र के समान फलदायक हैं । इनके अतिरिक्त पार्वती एवम् आदित्य की कथा श्राद्धकल्प, युधिष्ठिर तथा अन्धक का संवाद, जलशायीव्रत, चातुर्मास्यव्रत, अशून्यशयनव्रत, मंकरीश, शिवरात्रि, तुलापुरुषदान, पृथ्वीदान, वानकेश, कपालमोचनेश्वर, पापपिंड, मासलिंग, युगमानादिकीर्तन, निवेश तथा शाकंभरी का आख्यान, एकादश रुद्रों का कीर्तन, दानमाहात्म्य, कथन और द्वादश आदित्यों का कीर्तन नागरखंड में किया गया है । अब प्रभासखंड के बारे में सुनो ॥१५४-१६७½॥

[Header] ८३६ नारदीयपुराणम्

इत्येष नागरः खंडः प्रभासाख्योऽधुनोच्यते । सोमेशो यत्र विश्वेशोऽर्कस्थलं पुण्यदं महत् ॥१६८॥ सिद्धेश्वरादिकाख्यानं पृथगत्र प्रकीर्तितम् । अग्नितीर्थं कपर्दीशं केदारेशं गतिप्रदम् ॥१६९॥ भौमभं रवचण्डीशभास्करेन्द्रकुजेश्वराः । बुधेज्यभृगुसौरागुशिखीशा हरविग्रहाः ॥१७०॥ सिद्धेश्वराद्याः पंचान्ये रुद्रास्तत्र व्यवस्थिताः । वरारोहा ह्यजा पाला मंगला ललितेश्वरी ॥१७१॥ लक्ष्मीशो वाडवेशश्चोर्वीशः कामेश्वरस्तथा । गौरीशवरुणेशाख्यं दुर्वासैशं गणेश्वरम् ॥१७२॥ कुमारेशं चण्डकल्पं शकुलीश्वरसंज्ञकम् । ततः प्रोक्तोऽथ कोटीशबालब्रह्मादिसत्कथा ॥१७३॥ नरकेशसंवर्त्तेशनिधीश्वरकथा ततः । बलभद्रेश्वरस्याथ गंगाया गणपस्य च ॥१७४॥ जांबवत्याख्यसरितः पांडुकूपस्य सत्कथा । शतमेधलक्षमेधकोटिमेधकथा ततः ॥१७५॥ दुर्वासाकंघटस्थानहिरण्यासंगमोत्कथा । नगरार्कस्य कृष्णस्य संकर्षणसमुद्रयोः ॥१७६॥ कुमार्याः क्षेत्रपालस्य ब्रह्नेशस्य कथा पृथक् । पिंगलासंगमेशस्य शंकरार्कघटेशयोः ॥१७७॥ ऋषितोर्थस्य नंदार्कश्रितकूपस्य कीर्तनम् । ससोपानस्य पर्णार्कन्यंकुमत्योः कथाऽद्भुता ॥१७८॥ वाराहस्वामि वृत्तांतं छायालिंगाह्नगुल्फयोः । कथा कनकनंदायाः कुतींगंगेशयोस्तथा ॥१७९॥ चमसोट्भेदविदुरत्रिलोकेशकथा ततः । संकणेशत्रैपुरेशषंडतीर्थकथास्तथा ॥१८०॥ सूर्यप्राची वीक्षणयोरुमानाथकथा तथा । भूद्धारशूलस्थलयोश्चच्यवनार्कशयोस्तथा ॥१८१॥ अजापालेशबालाकंपुकुबेरस्थलजा कथा । ऋषितोया कथा पुण्या संगालेश्वरकीर्तनम् ॥१८२॥ नारदादित्यकथनं नारायणनिरूपणम् । तप्तकुण्डस्य माहात्म्यं मूलचंडीशवर्णनम् ॥१८३॥ चतुर्वक्त्रगणाध्यक्षकलंबेश्वरयोः कथा । गोपालस्वामिवकुलस्वामिनोर्मरुतां कथा ॥१८४॥ क्षेमार्कोग्न्नतविघ्नेशजलस्वामिकथा ततः । कालमेघस्य रुक्मिण्या दुर्वासेश्वरभद्रयोः ॥१८५॥ शंखावर्तमोक्षतीर्थगोष्पदाच्युतसद्मनाम् । जालेश्वरस्य हुँकारेश्वरचंडीशयोः कथा ॥१८६॥

इस खंड में सोमेश, विश्वेश, महत्पुण्यदायक अर्कस्थल, सिद्धेश्वर आदि का आख्यान, अग्नितीर्थ, कपर्दीश, केदारेश, भौम, भैरव, चंडोश, भास्कर, अंगारकेश्वर, बुध, इज्य, भृगु, सौर, आगु, शिखीश, सिद्धेश्वर आदि हर- विग्रह तथा अन्य पांच रुद्रों का अवस्थान, वरारोहा, अजा, पाला, मंगला, ललितेश्वरी, लक्ष्मीश, वाडवेश, उर्वीश, कामेश्वर, गोरीश, वरुणेश, दुर्वासैश, गणेश्वर कुमारेश, चंडकल्प, शकुलीश्वर, कोटीश तथा बाल ब्रह्म आदि की सत्यकथा, नरकेश, ॥१६८-१७३॥ संवर्त्तश तथा निधीश्वर की कथा, बलभद्रेश्वर, गंगा, गणप, जांबवती नामक सरिता, पांडुकूप, शतमेध, लक्षमेध, कोटिमेध, दुर्वासा, अर्क, घटस्थान हिरण्यासंगम, नगरार्क, कृष्ण, संकर्षण, समुद्र, कुमारी, क्षेत्रपाल, ब्रह्नेश, पिंगलासंगमेश, शंकरार्क, घटेश, ऋषितीर्थ, नंदार्कश्रितकूप, सशोपान, पर्णार्क, न्यंकुमती, ॥१७४-१७८॥ वाराहस्वामी, का वृत्तान्त, छायालिंग, गुल्फ, कनकनंदा, कुंती, गंगेश, चमस उद्भेद विदुर, त्रिलोकेश, संकणेश, त्रैपुरेश, षंडतीर्थ, सूर्यपली, त्रोक्षण, उमानाथ, भूद्धार, शूलस्थल, च्यवन, अर्कश, अजापालेश, बालार्क, कुबेरस्थल, ऋषितोया, संगालेश्वर, नारद, आदित्य, नारायण, तप्तकुंड, मूलचंडीश, चतुर्वक्त्र, गणाध्यक्ष, कलंबेश्वर, गोपालस्वामी, वकुलस्वामी, मरुत्, ॥१७९-१८४॥ क्षेमार्क, उन्नत, विघ्नेश, जलस्वामी, कालमेघ, रुक्मिणी, दुर्वासा, ईश्वरभद्र, शंखावर्त, मोक्षतीर्थ, गोष्पद, अच्युतसद्म, जालेश्वर, हुँकारेश्वर, चंडीश, आशापुर, विघ्नेश, कलाकुंड, कपिलेश, जरद्गवचिव,

चतुरधिकशततमोऽध्यायः \hfill ८६७

आशापुरस्थविघ्नेशकलाकुण्डकथाद्भुता । कपिलेशस्य च कथा जरद्गवशिवस्य च ॥१८७॥ नलककोटिश्वरयोर्हाटकेश्वरजा कथा । नारदेशयंत्रभूषादुर्गकूटगणेशजा ॥१८८॥ सुपर्णेलाख्यभैरव्योर्भल्लतीर्थभवा कथा । कीर्तनं कर्देमालस्य गुप्तसोमेश्वरस्य च ॥१८९॥ बहुस्वर्णेशशृंगेशकोटीश्वरकथा ततः । मार्कंडेश्वरकोटीशदामोदरगृहोत्कथा ॥१९०॥ स्वर्णरेखा ब्रह्मकुण्डं कुन्तीभीमेश्वरौ तथा । मृगीकुण्डं च सर्वस्वं क्षेत्रे वस्त्रापथे स्मृतम् ॥१९१॥ दुर्गाभिल्लेशगंगेशरेवतानां कथाद्भुता । ततोऽर्बुदेश्वरकथा अचलेश्वरकीर्तनम् ॥१९२॥ नागतीर्थस्य च कथा वसिष्ठाश्रमवर्णनम् । भद्रकर्णस्य माहात्म्यं त्रिनेत्रस्य ततः परम् ॥१९३॥ केदारस्य च माहात्म्यं तीर्थागमनकीर्तनम् । कोटीश्वररूपतीर्थहृषीकेशकथास्ततः ॥१९४॥ सिद्धेशशुक्रे श्वरयोर्मणिकर्णीशकीर्तनम् । पंगुतीर्थयमतीर्थवाराहतीर्थवर्णनम् ॥१९५॥ चंद्रप्रभासपिंडोदश्रीमाताशुक्लतीर्थजम् । कात्यायन्याश्च माहात्म्यं ततः पिडारकस्य च ॥१९६॥ ततः कनकखलस्याथ चक्रमानुषतीर्थयोः । कपिलाग्नितीर्थकथा तथा रक्तानुबंधजा ॥१९७॥ गणेशपार्थेश्वरयोर्यात्रायामुज्ज्वलस्य च । चंडीस्थाननागोद्भवशिवकुंडमहेशजा ॥१९८॥ कामेश्वरस्य मार्कंडेयोत्पत्तेश्च कथा ततः । उद्दालकेशसिद्धेशगततीर्थकथा पृथक् ॥१९९॥ श्रीदेवखातोत्पत्तिश्च व्यासगौतमतीर्थयोः । कुलसंतारमाहात्म्यं रामकोट्याह्वतीर्थयोः ॥२००॥ चंद्रोद्भे देशानशृंगब्रह्मस्थानोद्भवोऽद्भुतम् । त्रिपुष्कररुद्रह्रवगुहेश्वरकथा शुभा ॥२०१॥ अविमुक्तस्य माहात्म्यमुमामाहेश्वरस्य च । महौजसः प्रभावश्च जंबूतीर्थस्य वर्णनम् ॥२०२॥ गंगाधरमिश्रकयोः कथा वाथ फलस्तुतिः । द्वारकायाश्च माहात्म्यं चंद्रशर्मकथानकम् ॥२०३॥ जागराद्यर्चनाद्याढ्या व्रतमेकादशीभवम् । महाद्वादशिकाख्यानं प्रह्लादवर्षिसमागमः ॥२०४॥ दुर्वासस उपाख्यानं यवोपक्रमकीर्तनम् । गोमत्युत्पत्तिकथनं तस्यां स्नानादिजं फलम् ॥२०५॥ चक्रतीर्थस्य माहात्म्यं गोमत्युदधिसंगमः । सनकादिह्रदाख्यानं नृगतीर्थकथा ततः ॥२०६॥


नलककोटिश्वर, हाटकेश्वर, नारदेश, यंत्र, भूषा, दुर्ग, कूट, गणेश, सुवर्णला, भैरवी, भल्लतीर्थ, कर्देमाल, गुप्त- सोमेश्वर, बहुस्वर्णेश, शृंगेश, कोटीश्वर, मार्कंडेश्वर, कोटीश, दामोदरगृह ॥१८५-१९०॥ स्वर्णरेखा, ब्रह्मकुण्ड, कुंती, भीमेश्वर, मृगीकुंड, वस्त्रापथक्षेत्र, दुर्गा, भिल्लेश, गंगेश, रेवत, अर्बुदेश्वर, अचलेश्वर, नागतीर्थ, वसिष्ठाश्रम, भद्रकर्ण, त्रिनेत्र, केदार, तीर्थगमन, कोटीश्वररूपतीर्थ, हृषीकेश, सिद्धेश, शुक्रेश, मणिकर्णीश, पंगुतीर्थ, यमतीर्थ, वाराहतीर्थ ॥१९१-१९५॥ चंद्रप्रभास, पिंडोद, श्रीमाता, शुक्लतीर्थ, कात्यायनी, पिंडारक, कनखल, चन्द्र, मानुषतीर्थ, कपिलाग्नि- तीर्थ, रक्तानुबंध, गणेश, पार्थेश्वर, उज्जवलयात्रा, चंडीस्थान, नागोद्भव, शिवकुंड, महेश, कामेश्वर, मार्कंडेयोत्पत्ति उद्दालकेश, सिद्धेश, गततीर्थ, श्रीदेवमाता की उत्पत्ति, व्यास तथा गौतमतीर्थ, कुलसंतार, रामतीर्थ, कोटितीर्थ ॥१९ ६-२००॥ चंद्रोद्भव, ईशानशृंग, ब्रह्मस्थानोद्भव, त्रिपुष्कर, रुद्रह्रद, गुहेश्वर और अविमुक्त की कथा, उमा तथा महातेजस्वी महेश्वर के प्रभाव का वर्णन, जंबूतीर्थ की कथा, गंगाधर तथा मिश्रक की कथा और फलस्तुति, द्वारका माहात्म्य, चंद्रशर्मा का कथानक, जागर आदि पूजन का आख्यान, एकादशीव्रत, महाद्वादशी का आख्यान, प्रह्लाद और ऋषि का समागम, दुर्वासा का उपाख्यान, यात्रा के उपक्रम का कीर्तन, गोमती की उत्पत्ति कथा, उसमें स्नान आदि करने का फल, चक्रतीर्थ का माहात्म्य, गोमती और सागर का संगम, सनक आदि ह्रदों का आख्यान,

११३ ना० पु०

८६८ नारदीयपुराणम् गोप्रचारकथा पुण्या गोपीनां द्वारकागमः । गोपीसरः समाख्यानं ब्रह्मतीर्थादिकीर्तनम् ॥२०७॥ पंचनद्यागमाख्यानं नानाख्यानसमन्वितम् । शिवलिंगगदातीर्थकृष्णपूजादिकीर्तनम् ॥२०८॥ त्रिविक्रमस्य मूर्ताख्या दुर्वासःकृष्णसं कथा । कुशदैत्यवधोच्चारविशेषाचंनं फलम् ॥२०६॥ गोमत्यां द्वारकायां च तीर्थागमनकीर्तनम् । कृष्णमंदिरसंप्रेक्षा द्वारवत्यभिषेचनम् ॥२१०॥ तत्रतीर्थावासकथा द्वारकापुण्यकीर्तनम् । इत्येष सप्तमः प्रोक्तः खंडः प्रभासिको द्विजाः ॥२११॥ : स्कांदे सर्वोत्तरकथे शिवमाहात्म्यवर्णने । लिखित्त्वैतन्तु यो दद्याद्धेमशूलसमन्वितम् ॥२१२॥ माध्यां सत्कृत्य विप्राय स शैवे मोदते पदे ॥२१३॥ इति श्रीबृहन्नारदीयपुराणे पूर्व० बृहदुपाख्याने चतुर्थपादे स्कंदपुराणानुक्रमणीवर्णनं नाम चतुरधिकशततमोऽध्यायः

पञ्चाधिकशततमोऽध्यायः ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि पुराणं वामनाभिधम् । त्रिविक्रमचरित्राढ्यं दशसाहस्रसंख्य कम् ॥१॥ कूर्मकल्पसमाख्यानं वर्गत्रयकथानकम् । भागद्वयसमायुक्तं वक्तृश्रोतृशुभावहम् ॥२॥

नृतीर्थकथा ॥२०१-२०६॥ गोप्रचारकथा, गोपियों का द्वारिका गमन, गोपीसर का आख्यान, ब्रह्मतीर्थ आदि कीर्तन, पंचनदी समागम कथा, विविध आख्यान, शिवलिंग, गदातीर्थ तथा कृष्णपूजा आदि का कीर्तन, त्रिविक्रम की मूर्ति कथा, दुर्वासा और कृष्ण की कथा, कुशदैत्यवध, विशेष पूजन का फल, गोमती तथा द्वारका में तीर्थों के आगमन का फल, कृष्णमंदिर का निरीक्षण, द्वारवती-अभिषेक, द्वारका में तीर्थों के निवास की कथा और द्वारका पुण्यकीर्तन-इतने विषय वर्णित हैं। द्विज ! यह प्रभास नामक सातवां खंड कहा गया है। इसमें स्कन्द- पुराण के उत्तरार्ध की समस्त कथायें तथा शिव का माहात्म्य वर्णित हुआ है। जो व्यक्ति स्कंद पुराण को लिखकर माघींपूर्णिमा के दिन ब्राह्मण की पूजा करके स्वर्ण सहित यह पुराण प्रदान करता है, वह सदा शिवलोक में क्रीडा करता है ॥२०७-२१३॥ श्री नारदीयपुराण के पूर्वार्ध में बृहदुपाख्यानयुक्त चतुर्थपाद में स्कंदपुराणानुक्रमणी वर्णन नामक एक सौ चौथा अध्याय समाप्त ॥१०४॥

अध्याय १०५ वामनपुराण की विषयानुक्रमणी श्रीब्रह्मा बोले- वत्स ! सुनो, मैं वामनपुराण को बतलाऊंगा, जिसमें त्रिविक्रम का चरित्र चित्रण किया गया है और श्लोकों की संख्या दश सहस्र है। इसमें कूर्मकल्प का समाख्यान और तीन वर्ग की कथा निरूपित हुई है। यह दो भागों में विभक्त है। इसके सुनने से वक्ता और श्रोता का मंगल होता है ॥१-२॥ इसमें क्रमशः

पञ्चाधिकशततमोऽध्यायः ८६६ पुराणप्रश्नः प्रथमं ब्रह्मशीर्षच्छिदा ततः । कपालमोचनाख्यानं दक्षयज्ञविहिंसनम् ॥३॥ हरस्य कालरूपाख्या कामस्य दहनं ततः । प्रह्लादनारायणयोर्युद्धं देवासुराहवः ॥४॥ सुकेश्यर्कसमाख्यानं ततो भुवनकोशकम् । ततः काम्यव्रताख्यानं श्रीदुर्गाचरितं ततः ॥५॥ तपतीचरितं पश्चात्कुरुक्षेत्रस्य वर्णनम् । सत्यभामामाहात्म्यमतुलं पार्वतीजन्मककीर्तनम् ॥६॥ तपस्तस्या विवाहश्च गौर्युपाख्यानकं ततः । ततः कौशिकोपाख्यानं कुमारचरितं ततः ॥७॥ ततोऽन्धकवधाख्यानं साध्योपाख्यानकं ततः । जाबालिचरितं पश्चादरजायाः कथाद्भुता ॥८॥ अंधकेश्वरयोर्युद्धं गणत्वं चांधकस्य च । मरुतां जन्मकथनं बलेश्च चरितं ततः ॥९॥ ततस्तु लक्ष्म्याश्चरितं त्रैविक्रममतः परम् । प्रह्लादतीर्थयात्रायां प्रोच्यंतेऽथ कथाः शुभाः ॥१०॥ ततश्च धुन्धुचरितं प्रेतोपाख्यानकं ततः । नक्षत्रपुरुषाख्यानं श्रीदामचरितं ततः ॥११॥ त्रिविक्रमचरितांते ब्रह्मप्रोक्तः स्तवोत्तमः । प्रह्लादबलिसंवादे सुतले हरिशंसनम् ॥१२॥ इत्येष पूर्वभागोऽस्य पुराणस्य तवोदितः । शृण्वतोऽस्योत्तरं भागं बृहद्वामनसंज्ञकम् ॥१३॥ माहेश्वरी भागवती सौरी गाणेश्वरी तथा । चतस्रः संहिताश्चात्र पृथक् साहस्त्रसंख्यया ॥१४॥ माहेश्वर्यां तु कृष्णस्य तद्भक्तानां च कीर्तनम् । भागवत्यां जगन्मातुरवतारकथाऽद्भुता ॥१५॥ सौर्यां सूर्यस्य महिमा गदितः पापनाशनः । गाणेश्वर्यां गणेशस्य चरितं च महेशितुः ॥१६॥ इत्येतद्वामनं नाम पुराणं सुविचित्रकम् । पुलस्त्येन समाख्यातं नारदाय महात्मने ॥१७॥ ततो नारदतः प्राप्तं व्यासेन सुमहात्मना । व्यासात्तु लब्धवांश्चैतत् तच्छिष्यो रोमहर्षणः ॥१८॥ स चाख्यास्यति विप्रेभ्यो नैमिषीयेभ्य एव च । एवं परम्पराप्राप्तं पुराणं वामनं शुभम् ॥१९॥ ये पठंति च शृण्वंति तेऽपि यांति परां गतिम् । लिखित्‍वैतत्पुराणं तु यः शरदृतुष्वर्पयेत् ॥२०॥ पुराणप्रश्न, ब्रह्मशीर्षच्छेद, कपालमोचनाख्यान, दक्षयज्ञध्वंस, हर का कालरूपाख्यान, कामदहन, प्रह्लाद और नारायण का युद्ध, देवासुरसंग्राम, सुकेशी और अर्क का आख्यान, भुवनकोश, काम्यव्रताख्यान, श्रीदुर्गाचरित, तपती का चरित कुरुक्षेत्रवर्णन, सत्यभामा का माहात्म्य, पार्वती का अनुपम जन्म वर्णन उनका तप, विवाह, गौरी का उपाख्यान कौशिकी का उपाख्यान, कुमार कार्तिकेय का चरित्र, अंधकवधाख्यान, साध्योपाख्यान, जावालिचरित, अरजा की अद्भुत कथा, अंधक तथा ईश्वर का युद्ध, अंधक की गणत्वप्राप्ति, मरुतों की जन्म- कथा, बलिचरित्र ।।३-९।। लक्ष्मीचरित्र, त्रिविक्रमचरित, प्रह्लादतीर्थयात्रा की अनेक पवित्र कथायें, धुंधुचरित, प्रेतोपाख्यान, नक्षत्रपुरुषाख्यान, श्रीदामा का चरित्र, त्रिविक्रम के चरित्तान्त में ब्रह्मा द्वारा की गई उत्तम स्तुति, प्रह्लाद और बलि के संवाद में सुतल में हरि का वास--इतने विषय वर्णित हुए हैं। पुराण का यह पूर्व भाग तुमसे बतला दिया। इसके बृहद्वामन नामक उत्तर भाग में माहेश्वरी, भागवती, सौरी और गाणेश्वरी नामक चार संहितायें हैं; प्रत्येक संहिता एक सहस्र श्लोकों से पूर्ण है ॥१०-१४॥ माहेश्वरी में कृष्ण तथा उनके भक्तों का कीर्तन, भागवती में जगन्माता की अवतार-कथा, सौरी में पापनाशन सूर्यमाहात्म्य और गाणेश्वरी में महेश गणेश का चरित्र चित्रित हुआ है। पहले इस विचित्र वामन पुराण को पुलस्त्य ने महात्मा नारद से बतलाया। तब नारद से सुमहात्मा व्यास ने प्राप्त किया। व्यास से उनके शिष्य रोमहर्षण ने लाभ किया। उन्होंने नैमिषारण्यवासी विप्रों को सुनाया। इस तरह पवित्र वामनपुराण परंपरा से प्राप्त हुआ है। जो इसका श्रवण तथा पाठ करता है, उसे सद्गति मिलती है। जो मानव इस पुराण को लिखकर शरद् ऋतु में

६०० नारदीयपुराणम् विप्राय वेदविदुषे घृतधेनुसमन्वितम् । स समुद्धृत्य नरकान्नयेत्स्वर्गं पितृन्स्वकान् ॥२१॥ देहान्ते भुक्तभोगोऽसौ याति विष्णोः परं पदम् । ॥२२॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे वामनपुराणानुक्रमणीवर्णनं नाम पञ्चाधिकशततमोऽध्यायः ॥१०५॥ षडधिकशततमोऽध्यायः ब्रह्मोवाच शृणु वत्स मरीचे त्वं पुराणं कूर्मसंज्ञकम् । लक्ष्मीकल्पानुचरितं यत्र कूर्मवपुर्हरिः ॥१॥ धर्मार्थकाममोक्षाणां माहात्म्यं च पृथक्पृथक् । इंद्रद्युम्नप्रसंगेन प्राहर्षिभ्यो दयान्वितः ॥२॥ तत्सप्तदशसाहस्रं सुचतुः संहितं शुभम् । यत्र ब्राह्माः पुरा प्रोक्ता धर्मा नानाविधा मुने ॥३॥ नाना कथाप्रसंगेन नृणां सद्गतिदायकाः । तत्र पूर्वविभागे तु पुराणोपक्रमः पुरा ॥४॥ लक्ष्मींद्रद्युम्नसंवादः कूर्मर्षिगणसंकथा । वर्णाश्रमाचारकथा जगदुत्पत्तिकीर्तनम् ॥५॥ कालसंख्या समासेन लयान्ते स्तवनं विष्णोः । ततः संक्षेपतः सर्गः शांकरं चरितं तथा ॥६॥ सहस्रनाम पार्वत्या योगस्य च निरूपणम् । भृगुवंशसमाख्यानं ततः स्वायम्भुवस्य च ॥७॥ देवादीनां समुत्पत्तिर्दक्षयज्ञाहूतिस्ततः । दक्षसृष्टिकथा पश्चात्कश्यपान्वयकीर्तनम् ॥८॥ आत्रेयवंशकथनं कृष्णस्य चरितं शुभम् । मातंडकणसंवादो व्यासपाण्डवसंकथा ॥६॥ वेदवेत्ता द्विज को घृतधेनु सहित समर्पित करता है, वह अपने पितरों को नरक से उद्धार करके स्वर्ग को पहुँचाता हैं और स्वयं सुखोपभोग करते हुए देहान्त में वैकुण्ठ को जाता है ।।१५-२०।। श्री नारदीयपुराण के पूर्वार्ध में बृहदुपाख्यानयुक्त चतुर्थपाद में वामनपुराणानुक्रमणी वर्णन नामक एक सौ पाँचवां अध्याय समाप्त ॥१०५॥ अध्याय १०६ कूर्मपुराण की विषयानुक्रमणी ब्रह्मा बोले--हे वत्स ! मरीचे ! लक्ष्मीकल्पानुचरित कूर्म नामक पुराण सुनो, जिसमें हरि के कूर्मावतार और धर्म, अर्थ, काम, मोक्ष, के माहात्म्य का पृथक्-पृथक् रूप से वर्णन किया गया है । यह पुराण इंद्रद्युम्न के प्रसंग में दयालु व्यास द्वारा ऋषियों को बतलाया गया है । इसमें चार संहितायें तथा सत्रह हजार श्लोक हैं। मुने ! इसके पूर्व भाग में विविध कथा प्रसंग से मनुष्यों को सद्गति देने वाले अनेक ब्राह्मण धर्मों का प्रतिपादन, पुराणोपक्रम, लक्ष्मी और इंदुद्युम्न का संवाद, कूर्म और ऋषियों का संवाद, वर्णाश्रमाचारकथा, जगदुत्पत्तिकी- र्तन, संक्षेप से कालसंख्या, लयान्त में भगवान् की स्तुति, संक्षेप से सृष्टि वर्णन, शंकरचरित्र, पार्वतीसहस्रनाम,

षडधिकशततमोऽध्यायः ६०१ युगधर्मानुकथनं व्यासजैमिनिकीर्तनम् । वाराणस्याश्च माहात्म्यं प्रयागस्य ततः परम् ॥१०॥ त्रैलोक्यवर्णनं चैव वेदशाखानिरूपणम् । उत्तरेऽस्या विभागे तु पुरा गीतेश्वरी ततः ॥११॥ व्यासगीता ततः प्रोक्ता नानाधर्मप्रबोधिनी । नानाविधानां तीर्थानां माहात्म्यं च पृथक् ततः ॥१२॥ प्रतिसर्गप्रकथनं ब्राह्मीयं संहिता स्मृता । अतः परं भागवतीसंहितार्थं निरूपणम् ॥१३॥ कथिता यत्र वर्णानां पृथग्वृत्तिरुदाहृता । पादेऽस्याः प्रथमे प्रोक्ता ब्राह्मणानां व्यवस्थितिः ॥१४॥ सदाचारात्मिका वत्स भोगसौख्यविवर्द्धनी । द्वितीये क्षत्रियाणां तु वृत्तिः सम्यक्प्रकीर्तिता ॥१५॥ यया स्वाश्रितया पापं विधूयेह व्रजेद्दिवम् । तृतीये वैश्यजातीनां वृत्तिरुक्ता चतुर्विधा ॥१६॥ यया चरितया सम्यल्लभते गतिमुत्तमाम् । चतुर्थेऽस्यास्तथा पादे शूद्रवृत्तिरुदाहृता ॥१७॥ यया संतुष्यति श्रीशो नृणां श्रेयोविवर्द्धनः । पंचमेऽस्यास्ततः पादे वृत्तिः संकरजोदिता ॥१८॥ यया चरितमाप्नोति भाविनों गतिमुत्तमाम् । इत्येषा पंचपद्युक्ता द्वितीया संहिता मुने ॥१९॥ तृतीयात्रोदिता सौरी नृणां कार्यविधायिनी । षोढा षट्कर्मसिद्धिं बोधयन्ती च कामिनाम् ॥२०॥ चतुर्थी वैष्णवी नाम मोक्षदा परिकीर्तिता । चतुष्पदी द्विजातीनां साक्षाद्ब्रह्मस्वरूपिणी ॥२१॥ ताः क्रमात्षट्चतुर्द्विद्विसाहस्राः परिकीर्तिताः । ॥२२॥ एतत्कूर्मपुराणं तु चतुर्वर्गफलप्रदम् । पठतां शृण्वतां नृणां सर्वोत्कृष्टगतिप्रदम् ॥२३॥ लिखितवैतत्तु यो भक्त्या हेमकूर्मसमन्वितम् । ब्राह्मणायायने दद्यात्स याति परमां गतिम् ॥२४॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे कूर्मपुराणानुक्रमणकथनं नाम षडधिकशततमोऽध्यायः ॥१०६॥

योगनिरूपण, युगधर्मकथन, व्यास और जैमिनि की कथा, वाराणसी और प्रयाग का माहात्म्य, त्रैलोक्यवर्णन और वेदशाखानिरूपण--इतने विषय आये हैं ॥१।१-१०१/२॥ उत्तर भाग के ब्राह्मी संहिता में प्रथमतः ईश्वरीगीता, व्यासगीता, नानाविध तीर्थमाहात्म्य, अनेकधर्मकथा तथा प्रतिसर्गनिरूपण किया गया है। भागवती संहिता के प्रथम पाद में, सदाचारयुक्त भोगसौख्य को बढ़ाने वाली ब्राह्मणों की व्यवस्था बताई गई है। द्वितीय पाद में क्षत्रिय की वृत्ति का सम्यक्रूप से प्रतिपादन किया गया है, जिसके अनुष्ठान से निष्पाप होकर क्षत्रिय स्वर्ग को जाते हैं। तृतीय पाद में वैश्यों की चार प्रकार वृत्ति का निरूपण किया गया है, जिसके संपादन से वैश्य उत्तम गति को लाभ करते हैं। चौथे पाद में शूद्रों की वृत्ति का कथन हुआ है, जिसके करने से मानवकल्याणवर्धक नारायण संतुष्ट होते हैं। पाँचवें पाद में संकरों की वृत्ति कथित हुई है, जिसके सम्यक् आचरण से उत्तम गति की प्राप्ति होती है। मुने ! यह पंचपदी द्वितीय संहिता कही गई ॥११-१९॥ तीसरी सौरी संहिता मनुष्यों के कार्य सम्पन्न करने वाली तथा कामियों के छह कर्मों को सिद्ध करने वाली है। चौथी वैष्णवी संहिता मोक्ष देने वाली, चार पादों वाली तथा द्विजातियों के लिये साक्षात् ब्रह्मस्वरूपि- णी है। वे संहितायें क्रमशः छह, चार तथा दो हजार श्लोकों में परिपूर्ण हैं (?)। यह कूर्मपुराण चतुर्वर्ग के फल को देने वाला है। इसके पाठ तथा श्रवण से मानवों को उत्कृष्ट गति मिलती है। जो इस पुराण को लिखकर ब्राह्मण को भक्तिपूर्वक सुवर्णकच्छप सहित यह प्रदान करता है उसे परम गति की प्राप्ति होती है ॥२०-२१॥ श्री नारदीयपुराण के पूर्वार्ध में बृहदुपाख्यानयुक्त चतुर्थपाद में कूर्मपुराणानुक्रमणकथन नामक एक सौ छठा अध्याय समाप्त ॥१०६॥

सप्ताधिकशततमोऽध्यायः ब्रह्मोवाच अथ मात्स्यं पुराणं ते प्रवक्ष्ये द्विजसत्तम । यत्रोक्तं सप्तकल्पानां वृत्तं संक्षिप्य भूतले ॥१॥ व्यासेन वेदविदुषा नारसिंहोपवर्णने । उपक्रम्य तदुद्दिष्टं चतुर्दशसहस्रकम् ॥२॥ मनुमत्स्यसुसंवादो ब्रह्मांडकथनं ततः । ब्रह्मदेवासुरोत्पत्तिर्मारुतोत्पत्तिरेव च ॥३॥ मदनद्वादशी तद्वल्लोकपालाभिपूजनम् । मन्वन्तरसमुद्देशो वैश्यराज्याभिवर्णनम् ॥४॥ सूर्यवैवस्वतोत्पत्तिर्बुधसंगमनं तथा । पितृवंशानुकथनं श्राद्धकालस्तथैव च ॥५॥ पितृतीर्थप्रचारश्च सोमोत्पत्तिस्तथैव च । कीर्तनं सोमवंशस्य ययातिचरितं तथा ॥६॥ कार्तवीर्यस्य चरितं सृष्टवंशानुकीर्तनम् । भृगुशापस्तथा विष्णोर्दशधा जन्मने क्षितौ ॥७॥ कीर्त्तनं पूरुवंशस्य वंशो हौताशनः परम् । क्रियायोगस्ततः पश्चात्पुराणपरिकीर्तनम् ॥८॥ व्रतं नक्षत्रपुरुषं मार्तण्डशयनं तथा । कृष्णाष्टमीव्रतं तद्वद्रोहिणीचन्द्रसंज्ञितम् ॥६॥ तडागविधिमाहात्म्यं पादपोत्सर्ग एव च । सौभाग्यशयनं तद्वदगस्त्यव्रतमेव च ॥१०॥ तथानन्ततृतीयाया रसकल्याणीव्रतं । तथैवानंदकर्याश्च व्रतं सारस्वतं पुनः ॥११॥ उपरागाभिषेकश्च सप्तमीशयनं तथा । भीमाख्या द्वादशी तद्वदनंगशयनं तथा ॥१२॥ अशून्यशयनं तद्वत्तथैवांगारकव्रतम् । सप्तमीसप्तकं तद्वद्विशोकद्वादशीव्रतम् ॥१३॥ मेरुप्रदानं दशधा ग्रहशान्तिस्तथैव च । ग्रहस्वरूपकथनं तथा शिवचतुर्दशी ॥१४॥ तथा सर्वफलत्यागः सूर्यवारव्रतं तथा । संक्रांतिस्नपनं तद्वद्विभूतिद्वादशीव्रतम् ॥१५॥ अध्याय १०७ मत्स्यपुराण की विषयानुक्रमणी ब्रह्मा बोले-द्विजश्रेष्ठ ! अब मात्स्यपुराण तुम्हें सुनाऊँगा, जिसमें भूतलास्थित वेदवेत्ता व्यास ने सात कल्पों का संक्षिप्त वृत्तान्त बतलाया है। उसके उपक्रम में नरसिंह का वर्णन है। वह चौदह हजार श्लोकों से परि- पूर्ण है ॥१-२॥ पहले मनु और मत्स्य का संवाद पश्चात् ब्रह्मांडकथन, ब्रह्मदेव, असुर तथा मरुत् की उत्पत्ति, मदनद्वादशी, लोकपाल पूजा, मन्वन्तरनिर्देश, वैन्यराज्यवर्णन, सूर्यवैवस्वतोत्पत्ति, बुधसंगम, पितृवंशकथन, श्राद्ध- काल, पितृतीर्थप्रचार, सोमोत्पत्ति, सोमवंशकीर्तन, ययातिचरित, कार्तवीर्यचरित, सृष्टवंशकीर्तन, विष्णु का भृगु- शाप, पृथ्वी पर उनका दशावतार ॥३-७॥ पुरुवंशसंकीर्तन, हुताशनवंश, क्रियायोग, पुराण परिकीर्तन, पुरुषव्रत, मार्तंड- शयनव्रत, कृष्णाष्टमीव्रत, रोहिणीचंद्रव्रत, तडागविधिमाहात्म्य, वृक्षोत्सर्ग, सौभाग्यशयन, अगस्त्यव्रत, अनन्ततृती- याव्रत, रसकल्याणीव्रत, भानन्दकारीव्रत, सारस्वतव्रत, उपरागाभिषेक, सप्तमीशयन, भीमाद्वादशीव्रत, अनंगशयनव्रत, अशून्यशयनव्रत, अंगारकव्रत, सप्तमीसप्तकव्रत, विशोकद्वादशीव्रत, मेरुप्रदान, दशधा ग्रहशान्ति, ग्रहस्वरूपकथन, शिवचतुर्दशी, सर्वफलत्याग, सूर्यवारव्रत, संक्रान्तिस्नपन, विभूतिद्वादशीव्रत, षष्टिव्रत का माहात्म्य, स्नानविधिक्रम,

सप्ताधिकशततमोऽध्यायः ६०३ षष्टिव्रतानां माहात्म्यं तथा स्नानविधिक्रमः । प्रयागस्य तु माहात्म्यं द्वीपलोकानुवर्णनम् ॥१६॥ तथांतरिक्षचारश्च ध्रुवमाहात्म्यमेव च । भवनानि सुरेंद्रेणां त्रिपुरोद्योतनं तथा ॥१७॥ पितृप्रवरमाहात्म्यं मन्वंतरविनिर्णयः । चतुर्युगस्य संभूतिर्युगधर्मनिरूपणम् ॥१८॥ वज्रांगस्य तु संभूतिस्तारकोत्पत्तिरेव च । तारकासुरमाहात्म्यं ब्रह्मदेवानुकीर्तनम् ॥१९॥ पार्वतीसंभवस्तद्वत्तथा शिवतपोवनम् । अनंगदेहदाहश्च रतिशोकस्तथैव च ॥२०॥ गौरीतपोवनं तद्वच्छिवेनाथ प्रसादनम् । पार्वतीऋषिसंवादस्तथैवोद्वाहमंगलम् ॥२१॥ कुमारसंभवस्तद्वत्कुमारविजयस्तथा । तारकस्य वधो घोरो नरसिंहोपवर्णनम् ॥२२॥ पद्मोद्भवविसर्गस्तु तथैवांधकघातनम् । वाराणस्यास्तु माहात्म्यं नर्मदायास्तथैव च ॥२३॥ प्रवरानुक्रमस्तद्वत्पितृगाथानुकीर्तनम् । तथोभयमुखीदानं दानं कृष्णाजिनस्य च ॥२४॥ ततः सावित्र्युपाख्यानं राजधर्मास्तथैव च । विविधोत्पातकथनं ग्रहशांतस्तथैव च ॥२५॥ यात्रानिमित्तकथनं स्वप्नमंगलकीर्तने । वामनस्य तु माहात्म्यं वाराहस्य ततः परम् ॥२६॥ समुद्रमथनं तद्वत्कालकूटाभिशांतनम् । देवासुरविमर्दश्च वास्तुविद्या तथैव च ॥२७॥ प्रतिमालक्षणं तद्वद्देवतायतनं तथा । प्रासादलक्षणं तद्वन्मंडपान च लक्षणम् ॥२८॥ भविष्यराज्ञामुद्देशो महादानानुकीर्तनम् । कल्पानुकीर्तनं तद्वत्पुराणेऽस्मिन्प्रकीर्तितम् ॥२९॥ पवित्रमेतत्कल्याणमायुः कीर्तिविवर्द्धनम् । यः पठेच्छृणुयाद्वापि स याति भवनं हरेः ॥३०॥ लिखित्त्वैतत्तु यो दद्याद्धेममत्स्यगवान्वितम् । विप्रायाभ्यर्च्य विषुवे स याति परमं पदम् ॥३१॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे मत्स्यपुराणानुक्रमणीकथनं नाम सप्ताधिकशततमोऽध्यायः ॥१०७॥ प्रयागमाहात्म्य, द्वीपलोकवर्णन ।।८-१६।। अन्तरिक्षसंचरण, ध्रुवमाहात्म्य, सुरेन्द्रभवन, त्रिपुरप्रभाव, पितृप्रवरमा- हात्म्य, मन्वन्तरनिर्णय, चतुर्युगोत्पत्ति, युगधर्मनिरूपण, वज्रांग की उत्पत्ति, तारकोत्पत्ति, तारकासुरमाहात्म्य, ब्रह्म- देवकीर्तनं, पार्वती की उत्पत्ति, शिवतपोवन, कामदेहदाह, रतिशोक, गौरीतपोवन, शिवप्रसादन, पार्वती तथा ऋषि का संवाद, परिणयमंगल ।।१७-२१।। कुमारसंभव, कुमारीविजय, तारकवध, नरसिंहवर्णन, पद्मोद्भवविसर्ग, अंधकपातन, वाराणसी तथा नर्मदा का माहात्म्य, प्रवरानुक्रम, पितृगाथाकीर्तन, उभयमुखीदान, कृष्णाजिनदान, सावित्री-उपाख्यान, राजधर्म, विविधोत्पातकथन, ग्रहशान्ति, यात्रानिमित्तकथन, स्वप्नमंगलकीर्तन, वामनमाहात्म्य, बाराहमाहात्म्य, समुद्रमंथन, कालकूट-निःसरण, देवासुरसंघर्ष, वास्तुविद्या, प्रतिमालक्षण, देवतास्थापन, प्रासादलक्षण, मंडपलक्षण, भविष्य- राजगण का कथन, महादानकीर्तन और कल्पों का कीर्तन इस पुराण में किया गया है। यह पवित्र पुराण कल्याण, आयु तथा कीर्ति को बढ़ाने वाला है जो इसका पाठ और श्रवण करता है, उसे विष्णुलोक की प्राप्ति होती है। इस पुराण को लिखकर विषुवे में (जब दिनरात का मान बराबर होता है) सुवर्ण के मत्स्य तथा गाय सहित यह समर्पित करता है, वह परम पद को प्राप्त करता है ।।२२-३१।। श्री नारदीयपुराण के पूर्वार्ध में बृहदुपाख्यानयुक्त चतुर्थपाद में मत्स्यपुराणानुक्रमणीनिरूपण नामक एक सौ सातवां अध्याय समाप्त ॥१०७॥

अष्टाधिकशततमोऽध्यायः ब्रह्मोवाच मरीचे शृणु वक्ष्यामि पुराणं गारुडं शुभम् । गरुडायाब्रवीत्पृष्टो भगवान्गरुडासनः ॥१॥ एकोनविंशसाहस्रं तार्क्ष्यकल्पकथान्वितम् । पुराणोपक्रमप्रश्नः सर्गः संक्षेपतस्ततः ॥२॥ सूर्यादिपूजनविधिर्दीक्षाविधिस्ततः परम् । श्राद्धपूजा ततः पश्चान्नवव्यूहार्चनं द्विज ॥३॥ पूजाविधानं च तथा वैष्णवं पंजरम् ततः । योगाध्यायस्ततो विष्णोर्नामसाहस्रकीर्तनम् ॥४॥ ध्यानं विष्णोस्ततः सूर्यपूजा मृत्युंजयार्चनम् । मालामंत्रः शिवार्चाथ गणपूजा ततः परम् ॥५॥ गोपालपूजा त्रैलोक्यमोहनश्रीधरार्चनम् । विष्ण्वर्चा पंचतत्त्वार्चा चक्रार्चा देवपूजनम् ॥६॥ न्यासादिसंध्योपास्तिश्च दुर्गाार्चाथ सुरार्चनम् । पूजा माहेश्वरी चातः पवित्रारोपणार्चनम् ॥७॥ मूर्तिध्यानं वास्तुमानं प्रासादानां च लक्षणम् । प्रतिष्ठा सर्वदेवानां पृथक्पूजा विधानतः ॥८॥ योगोऽष्टांगो दानधर्माः प्रायश्चित्तविधिक्रिया । द्वीपेशनरकाख्यानं सूर्यव्यूहश्च ज्योतिषम् ॥९॥ सामुद्रिकं स्वरज्ञानं नवरत्नपरीक्षणम् । माहात्म्यमथ तीर्थानां गयामाहात्म्यमुत्तमम् ॥१०॥ ततो मन्वंतराख्यानं पृथक्पृथग्विभागशः । पित्राख्यानं वर्णधर्मा द्रव्यशुद्धिः समर्पणम् ॥११॥ श्राद्धं विनायकस्यार्चा ग्रहयज्ञस्तथा श्रमाः । जननाख्यं प्रेतशौचं नीतिशास्त्रं व्रतोक्तयः ॥१२॥ अध्याय १०८ गरुड़पुराण की विषयानुक्रमणी ब्रह्मा बोले-वत्स मरीचे ! सुनो, मैं पवित्र गरुडपुराण को बतलाता हूँ। पूछे जाने पर भगवान् श्री कृष्ण ने यह पुराण गरुड से कहा था। यह तार्क्ष्यकल्प की कथा से युक्त एवं उन्नीस हजार श्लोकों से परिपूर्ण है। इसके पूर्व खंड में पुराणोपक्रम का प्रश्न, संक्षेप से सृष्टि वर्णन, सूर्यादिपूजन विधि, 'दीक्षाविधि, श्राद्धपूजा, नव व्यूहादि अर्चना, पूजा-विधान, वैष्णवपंजर, योगाध्याय, विष्णुसहस्रनाम, विष्णुध्यान, सूर्यपूजा, मृत्युंजय की आराधना, मालामंत्र, शिवार्चा, गणपूजा ॥१-५॥ गोपालपूजा, त्रैलोक्यमोहनश्रीधरार्चन, विष्णुपूजा, पंचतत्त्वों की अर्चा, चक्रार्चन, देवपूजन, न्यासादि, संध्योपासन, दुर्गाार्चा, सुरार्चन, माहेश्वरीपूजा, पवित्रारोपणार्चन, मूर्तिध्यान, वास्तुमान, प्रासादों का लक्षण, सकल देवों की प्रतिष्ठा तथा पृथक्-पृथक् पूजाविधान, अष्टांगयोग, दानधर्म, प्रायश्चित्तविधि, द्वीपेश तथा नरकों का आख्यान, सूर्यव्यूह, ज्योतिष, सामुद्रिक, स्वरज्ञान, नवरत्नपरीक्षण, तीर्थमाहात्म्य, उत्तम गयामाहात्म्य, पृथक्-पृथक् रूप से मन्वन्तराख्यान, पित्राख्यान, वर्णधर्म, द्रव्यशुद्धि, समर्पण ॥६-११॥ श्राद्ध, गणेशपूजन, ग्रहयज्ञ, आश्रम, जन्माख्यान, प्रेतशौच, नीतिशास्त्र, व्रतविधान, सूर्यवंश, सोमवंश, हरि

सूर्यवंशः सोमवंशोऽवतारकथनं हरेः । रामायणं हरिवंशो भारताख्यानकं ततः ॥१३॥ आयुर्वेदनिदानं प्राक् चिकित्सा द्रव्यजा गुणाः । रोगघ्नं कवचं वैष्णो गारुडं त्रैपुरो मनुः ॥१४॥ प्रश्नचूडामणिश्चांतो हयायुर्वेदकीर्तनम् । ओषधीनामकथनं ततो व्याकरणोहनम् ॥१५॥ छंदःशास्त्रं सदाचारस्ततः स्नानविधिः स्मृतः । तर्पणं वैश्वदेवं च संध्या पार्वणकर्म च ॥१६॥ नित्यश्राद्धं सर्पिडाख्यं धर्मसारोऽधनिष्कृतिः । प्रतिसंक्रम उक्ताः स्म युगधर्माः कृतेः फलम् ॥१७॥ योगशास्त्रं विष्णुभक्तिर्नमस्कृतिफलं हरेः । माहात्म्यं वैष्णवं चाथ नारसिंहस्तबोत्तमम् ॥१८॥ ज्ञानामृतं गुहाष्टकं स्तोत्रं विष्ण्वर्चनाव्रध्वम् । वेदांतसांख्यसिद्धांतो ब्रह्मज्ञानं तथात्मकम् ॥१९॥ गीतासारः फलोत्कीर्तिः पूर्वखंडोऽयमीरितः । अथास्यैवोत्तरे खंडे प्रेतकल्पः पुरोदितः ॥२०॥ यत्र ताक्ष्र्येण संपृष्टो भगवानाह वाडवाः । धर्मप्रकटनं पूर्वं योगिनां गतिकारणम् ॥२१॥ दानादिकं फलं चापि प्रोक्तमन्त्रौर्ध्वदैहिकम् । यमलोकस्य मार्गस्य वर्णनं च ततः परम् ॥२२॥ षोडशश्राद्धफलको वृत्तांतश्चात्र बर्णितः । निष्कृतिर्यममार्गस्य धर्मराजस्य वैभवम् ॥२३॥ प्रेतपीडाविनिर्देशः प्रेतचिह्न निरूपणम् । प्रेतानां चरिताख्यानं कारणं प्रेततां प्रति ॥२४॥ प्रेतकृत्यविचारश्च सपिंडीकरणोक्तयः । प्रेतत्वमोक्षमाख्यानं दानानि च विमुक्तये ॥२५॥ आवश्यकौत्तमं दानं प्रेतसौख्यकरोहनम् । शारीरकविनिर्देशो यमलोकस्य वर्णनम् ॥२६॥ प्रेतत्वोद्धारकथनं कर्मकर्तृविनिर्णयः । मृत्योः पूर्वक्रियाख्यानं पश्चात्कर्मनिरूपणम् ॥२७॥ मध्यषोडशक श्राद्धं स्वर्गप्राप्तिक्रियोहनम् । सूतकस्याथ संख्यानं नारायणबलिक्रिया ॥२८॥ वृषोत्सर्गस्य माहात्म्यं निषिद्धपरिवर्जनम् । अपमृत्युक्रियोक्तिश्च विपाकः कर्मणां नृणाम् ॥२९॥ कृत्याकृत्यविचारश्च विष्णुष्यानविमुक्तये । स्वर्गसौ विहिताख्यानं स्वर्गसौख्यनिरूपणम् ॥३०॥

का अवतारकथन, रामायण, हरिवंश, भारताख्यान, आयुर्वेदनिदान, प्राथमिक चिकित्सा, द्रव्यगुण, रोगनाशी विष्णुकवच, गारुड़ और त्रैपुरमंत्र, प्रश्नचूड़ामणि, हयायुर्वेदकीर्तन, ओषधिनामकथन, व्याकरण, छंदःशास्त्र, सदा- चार, स्नानविधि, वैश्वदेवतर्पण, संध्या, पार्वणकर्म नित्यश्राद्ध, सपिंडाख्यश्राद्ध, धर्मसार, पापनिवृत्ति, प्रतिसंक्रम, युगधर्म, कर्तव्यफल, योगशास्त्र, विष्णुभक्ति, हरिनमस्कारफल, वैष्णवमाहात्म्य, नारसिंहस्तोत्र, ज्ञानामृत, गुहाष्टक- स्तोत्र, विष्णु की अर्चा, वेदान्त तथा सांख्य का सिद्धान्त, ब्रह्मज्ञान गीतासार तथा फलकथन-इतने विषय वर्णित हैं ॥१२-१९३॥ उत्तर खंड में पहले गरुड़ के पूछने पर भगवान् प्रेतकल्प ही बतलाया । पश्चात् धर्मप्रकटन, योगियों की गति का कारण दानादिक फल, और्ध्वदैहिक मंत्र, यमलोक के भागं का वर्णन, षोडश श्राद्ध का फल वृत्तांत, यममार्ग की निष्कृति, धर्मराज का वैभव, प्रेतपीड़ा का निर्देश, प्रेतचिह्ननिरूपण, प्रेतों के चरित्र का आख्यान, प्रेतत्व प्राप्त होने का कारण, प्रेतकृत्य का विवरण, सपिंडीकरण का आख्यान, प्रेतत्वमोक्षण, मुक्तयर्थं दान, आवश्यक उत्तमदान, प्रेत को सुख पहुंचाने वाली क्रिया, शारीरिक निर्देश, यमलोकवर्णन, प्रेतत्व से उद्धार, कर्म और कर्ता का निर्णय, मृत्यु से पूर्व की क्रिया का आख्यान, कर्मनिरूपण, षोडशश्राद्ध, स्वर्गप्राप्तिक्रिया, सूतकसंख्यान, नारायण बलिक्रिया, ॥२०-२८॥ वृषोत्सर्गमाहात्म्य, निषिद्धत्याग, अपमृत्युक्रियाकथन, मनुष्यों का कर्मविपाक, कृत्याकृत्यविचार, मुक्ति के लिए विष्णुक्यान, स्वर्गगति के संबंध में विहिताख्यान, स्वर्गसौख्यनिरूपण, भूलोकवर्णन, सप्तअधोलोकवर्णन, पंचऊर्ध्व- ११४ ना० पु०

६०६ नारदीयपुराणम् भूर्लोकवर्णनं चैव सप्ताधोलोकवर्णनम् । पंचोर्ध्वलोककथनं ब्रह्मांडस्थितिकीर्तनम् ॥३१॥ ब्रह्मांडानेकचरितं ब्रह्मजीवनिरूपणम् । आत्यंतिकं लयाख्यानं फलस्तुतिनिरूपणम् ॥३२॥ इत्येतद्गारुडं नाम पुराणं भुक्तिमुक्तिदम् । कीर्तितं पापशमनं पठतां शृण्वतां नृणाम् ॥३३॥ लिखित्त्वैतत्पुराणं तु विषुवे यः प्रयच्छति । सौवर्णहंसयुग्माढ्यं विप्राय स दिवं व्रजेत् ॥३४॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे गारुडानुक्रमणीवर्णनं नामाष्टोत्तरशततमोऽध्यायः ॥१०८॥ नवाधिकशततमोऽध्यायः ब्रह्मोवाच शृणु वत्स प्रवक्ष्यामि ब्रह्मांडाख्यं पुरातनम् । यच्च द्वादशसाहस्रमादिकल्पकथायुतम् ॥१॥ प्रक्रियाख्योऽनुषंगाख्य उपोद्घातस्तृतीयकः । चतुर्थ उपसंहारः पादाश्चत्वार एव हि ॥२॥ पूर्वपादद्वयं पूर्वो भागोऽत्र समुदाहृतः । तृतीयो मध्यमो भागश्चतुर्थस्तूत्तरो मतः ॥३॥ लोककथन, ब्रह्मांडस्थितिकीर्तन, ब्रह्मांड के अनेक चरित्र, ब्रह्मजीवनिरूपण, आत्यंतिकलयाख्यान और फलस्तुति- निरूपण इतने विषयों का दिग्दर्शन कराया। यह गरुड़पुराण पढ़ने तथा सुनने वालों के लिए भुक्ति-मुक्तिदायक तथा पापनाशक है। इस पुराण को लिखकर विषुव में जो व्यक्ति ब्राह्मण को युगल स्वर्णहंससहित यह प्रदान करता है, उसे स्वर्ग की प्राप्ति होती है ॥२९-३४॥ श्री नारदीयपुराण के पूर्वार्ध में बृहदुपाख्यानयुक्त चतुर्थपाद में गरुड़ानुक्रमणीवर्णन नामक एक सौ आठवां अध्याय समाप्त ॥१०८॥ अध्याय १०६ ब्रह्माण्डपुराण की विषयानुक्रमणी ब्रह्मा बोले-वत्स ! सुनो; मैं प्राचीन ब्रह्मांडपुराण को कहता हूँ। यह बारह हजार श्लोकों से परिपूर्ण तथा आदि कल्प की कथाओं से युक्त है। इस पुराण के प्रक्रिया, अनुषंग, उपोद्घात और उपसंहार नामक चार पाद हैं। दो पाद इसका पूर्व भाग है, तीसरा पाद मध्यम भाग है और चतुर्थ उत्तर भाग है ॥१-३॥

नवाधिकशततमोऽध्यायः ६०७ आदौ कृत्यसमुद्देशो नैमिषाख्यानकं ततः । हिरण्यगर्भोत्पत्तिश्च लोककल्पनमेव च ॥४॥ एष वै प्रथमः पादो द्वितीयं शृणु मानव । कल्पमन्वन्तराख्यानं लोकज्ञानं ततः परम् ॥५॥ मानसीसृष्टिकथनं रुद्रप्रसववर्णनम् । महादेवविभूतिश्च ऋषिसर्गस्ततः परम् ॥६॥ अग्नीनां विजयश्चाथ कालसद्भाववर्णनम् । प्रियव्रतान्वयोद्देशः पृथिव्यायामविस्तरः ॥७॥ वर्णनं भारतस्यास्य ततोऽन्येषां निरूपणम् । जम्ब्वादिसप्तद्वीपाख्या ततोऽधोलोकवर्णनम् ॥८॥ उर्ध्वलोकानुकथनं ग्रहचारस्ततः परम् । आदित्यव्यूहकथनं देवग्रहानुकीर्तनम् ॥६॥ नीलकंठाद्युपाख्यानं महादेवस्य वैभवम् । अमावास्यानुकथनं युगतत्त्वनिरूपणम् ॥१०॥ यज्ञप्रवर्तनं चाथ युगयोरन्त्ययोः कृतिः । युगप्रजालक्षणं च ऋषिप्रवरवर्णनम् ॥११॥ देवानां व्यसनाख्यानं स्वायंभुवनिरूपणम् । शेषमन्वन्तराख्यानं पृथ्वोदोहनं ततः ॥१२॥ चाक्षुषेऽद्यतने सर्गे द्वितीयोऽङ्घ्रिः पुरोदले । अथोपौद्घातपादे तु सप्तर्षिपरिकीर्तनम् ॥१३॥ प्रजापत्यन्वयस्तस्माद्देवादीनां समुद्भवः । ततो जयाभिलाषश्च मरुदुत्पत्तिकीर्तनम् ॥१४॥ काश्यपेयानुकथनं ऋषिवंशनिरूपणम् । पितृकल्पानुकथनं श्राद्धकल्पस्ततः परम् ॥१५॥ वैवस्वतसमुत्पत्तिः सृष्टिरतस्य ततः परम् । मनुपुत्रान्वयश्चान्तो गान्धर्वस्य निरूपणम् ॥१६॥ इक्ष्वाकुवंशकथनं वंशोऽत्रेः सुमहात्मनः । अमावसोरन्वयश्च रजेश्चरितमद्भुतम् ॥१७॥ ययातिचरितं चाथ यदुवंशनिरूपणम् । कार्तवीर्यस्य चरितं जामदग्न्यं ततः परम् ॥१८॥ वृष्णिवंशानुकथनं सगरस्याथ संभवः । भार्गवस्यान्नुचरितं पितृकार्यवधाश्रयम् ॥१९॥ सगरस्याथ चरितं भार्गवस्य कथा पुनः । देवासुराहवकथा कृष्णाविर्भाववर्णनम् ॥२०॥ इंद्रस्य तु स्तवः पुण्यः शुक्रेण परिकीर्तितः । विष्णुमाहात्म्यकथनं बलिवंशनिरूपणम् ॥२१॥ भविष्यराजचरितं संप्राप्तेऽथ कलौ युगे । समुपोद्घातपादोऽयं तृतीयो मध्यमे बले ॥२२॥ प्रथम पाद में कर्तव्यनिर्देश, नैमिषार्यान, हिरण्यगर्भोत्पत्ति, तथा लोककल्पन—इतने विषय वर्णित हैं। मानद ! दूसरे कल्प को सुनो । उसमें कल्प, मन्वन्तराख्यान, लोकज्ञान, मानसी सृष्टिकथन, रुद्रप्रसववर्णन, महादेव- विभूति, ऋषिसर्ग, अग्नियों का विजय, कालसद्भाववर्णन, प्रियव्रत का वंशवर्णन, पृथिवी का दैर्घ्य और विस्तार, भारतवर्षवर्णन, जम्बू आदि सात द्वीपों का आख्यान, अधोलोकवर्णन, ऊर्ध्वलोककथन, ग्रहचार, आदित्यव्यूहकथन, देवग्रहों का अनुकीर्तन, नीलकंठाख्यान, महादेव का वैभव, अमावास्यानुकथन, युगतत्त्वनिरूपण, यज्ञप्रवर्तन, शेषयुग का कार्य, युगप्रजालक्षण, ऋषिप्रवरवर्णन, देवों का व्यसनावस्थान, स्वायंभुवनिरूपण, अवशिष्ट मन्वन्तरों का आख्यान तथा पृथिवीदोहन--इतने विषयों की चर्चा की गई है । यही दूसरा पाद है, जिसमें चाक्षुष मन्वन्तर का वर्णन है ॥४-१२॥ उपोद्घातपाद में सप्तर्षियों की कथा, प्रजापतिवंशवर्णन, देव आदिकों की उत्पत्ति उनकी विजयाभिलाषा, मरुत् की उत्पत्ति, काश्यपेयानुकथन, ऋषिवंशनिरूपण, पितृकल्पवर्णन, श्राद्धकला, वैवस्वतसमुत्पत्ति, सृष्टिवर्णन, मनुपुत्र-वंश, गान्धर्वनिरूपण, इक्ष्वाकुवंशकथन, महात्मा अत्रि का वंशवर्णन, अमावसुवंशकथन, रजिचरित्र, ययाति- चरित्र यदुवंशनिरूपण, कार्तवीर्यचरित, जामदग्न्यचरित, वृष्णिवंशानुकथन, सगरोत्पत्ति, पितृवधसंबन्धी भार्गवचरित्र, सगरवर्णन, पुनः भार्गव की कथा, देवासुरसंग्रामवर्णन, कृष्णावतारवर्णन, शुक्र द्वारा इंद्र की उत्तम स्तुति, विष्णु- माहात्म्यकथन, बलिवंशनिरूपण, और कलियुग उपस्थित होने पर भविष्यराजचरित चित्रित किया गया है । यही तीसरा उपोद्घात पाद है, जो पुराण का मध्यम भाग कहलाता है ॥१३-२२॥

६०८ नारदीयपुराणम् चतुर्थमुपसंहारं वक्ष्ये खण्डे तथोत्तरे। वैवस्वतांतराख्यानं विस्तरेण यथातथम् ॥२३॥ पूर्वमेव सबुद्धिष्टं संक्षेपादिह कथ्यते । भविष्याणां मनूनां च चरितं हि ततः परम् ॥२४॥ कल्पप्रलयनिर्देशः कालमानं ततः परम् । लोकाश्चतुर्दश ततः कथिताः प्राप्तलक्षणैः ॥२५॥ वर्णनं नरकाणां च विकर्माचरणैस्ततः । मनोमयपुराख्यानं लयः प्राकृतिकस्ततः ॥२६॥ शेषस्याथ पुरस्यापि वर्णनं च ततः परम् । विविधागुणसंबंधाज्जंतूनां कीर्तिता गतिः ॥२७॥ अनिर्देश्याप्रतर्क्यस्य ब्रह्मणः परमात्मनः । अन्वयव्यतिरेकाभ्यां वर्णनं हि ततः परम् ॥२८॥ इत्येष उपसंहारपादो वृत्तः सहोत्तरः । चतुष्पादं पुराणं ते ब्रह्मांडं समुदाहृतम् ॥२६॥ अष्टादशमनौपम्यं सारात्सारतरं द्विज । ब्रह्मांडं यच्चतुर्लक्षं पुराणं येन पठ्यते ॥३०॥ तदेतदस्य गदितमष्टादशधा पृथक् । पाराशर्येण मुनिना सर्वेषामपि मानव ॥३१॥ वस्तुतस्तूपदेष्ट्राथ मुनीनां भावितात्मनाम् । मत्तः श्रुत्वा पुराणानि लोकेभ्यः प्रकाशिर ॥३२॥ मुनयो धर्मशीलास्ते दीनानुग्रहकारिणः । मया चेदं पुराणं तु वसिष्ठाय पुरोदितम् ॥३३॥ तेन शक्तिसुतायोक्तं जातकूण्याय तेन च । व्यासो लब्ध्वा ततश्चैतत्प्रभंजनमुखोद्गतम् ॥३४॥ प्रमाणीकृत्य लोकेऽस्मिन्प्रावर्तयदनुत्तमम् । य इदं कीर्तयेद्भक्त्या शृणोति च समाहितः ॥३५॥ स विधूयेह पापानि याति लोकमनामयम् । लिखित्वातत्पुराणं तु स्वर्णसिंहासनस्थितम् ॥३६॥ वस्त्रेणाच्छादितं यस्तु ब्राह्मणाय प्रयच्छति । स याति ब्रह्मणो लोकं नात्र कार्या विचारणा ॥३७॥ मरीचेऽष्टादशैतानि मया प्रोक्तानि यानि ते । पुराणानि तु संक्षेपाच्छ्रोतव्यानि च विस्तरात् ॥३८॥ अष्टादश पुराणानि यः शृणोति नरोत्तमः । कथयेद्वा विधानेन नेह भूयः स जायते ॥३६॥

अब उत्तर भागस्य चतुर्थ उपसंहार पाद का वर्णन करूँगा। पूर्व में वैवस्वतान्तराख्यान विस्तृत रूप से उक्त होने पर भी इस पाद में संक्षेप से कहा गया है। तदनन्तर भावी मनुष्यों का चरित्र, कल्पप्रलयनिर्देश, काल- मान, चौदह लोकों का कथन, नरकों का वर्णन, कुत्सित कर्मों का आचरण, मनोमयपुराख्यान, प्राकृतिकलय, शेषपुर का वर्णन, गुणों के संपर्क से जीवों की तीन प्रकार की गति, अन्वयव्यतिरेक से अनिर्देश्य तथा अतर्क्य पर- मात्मा ब्रह्म का वर्णन हुआ है। यहो उत्तरखंडीय उपसंहारपाद है। चार पादों से युक्त ब्रह्मांडपुराण तुम्हें बतला दिया गया ॥२३-२९॥ द्विज ! यह अठारहवाँ पुराण है जो सब पुराणों का सार माना गया है। इसमें चार लाख श्लोक भी कहे जाते हैं। पराशरपुत्र व्यास ने इसी पुराण को अठारह भागों में विभक्त करके प्रकाशित किया है। मानव ! संयतात्मा मुनियों को वस्तु तत्त्व का उपदेश देने वाले व्यास ने मुझसे पुराणों को सुनकर लोक में प्रचार किया। दीनों के ऊपर अनुग्रह करने वाले धर्मशील मुनियों ने व्यास से पुराणों को प्राप्त किया। पूर्वकाल में वसिष्ठ से मैंने ब्रह्मांड पुराण को बतलाया था। पश्चात् उन्होंने शक्तिसुत व्यास से और व्यास ने जातूकर्ण्य से कहा। व्यास ने प्रभंजन के मुख से निःसृत इस पुराण को प्राप्त कर लोक में प्रमाणित करके प्रचार किया। वत्स ! जो व्यक्ति समाहित होकर इसका पाठ तथा श्रवण करेगा, वह निष्पाप होकर अक्षयलोक को जायेगा। जो इस पुराण को लिखकर स्वर्ण के सिंहासन पर ऊनी वस्त्र से आच्छादित करके ब्राह्मण को समर्पित करता है, उसे ब्रह्मलोक की प्राप्ति होती है, इसमें विचार करने की आवश्यकता नहीं ॥३०-३७॥ मरीचे ! यह जो मैंने संक्षेप से पुराणों को बतलाया है, उन्हें विस्तार से सुनना चाहिये। जो उत्तम मानव अठारहों पुराणों को विधिपूर्वक सुनता है या कथा करता है, उसका पुनर्जन्म नहीं होता। अभी जो सूत्र रूप में

दशाधिकशततमोऽध्यायः ६०६ सूत्रमेतत्पुराणानां यन्मयोक्तं तवाधुना । तन्नित्यं शीलनीयं हि पुराणफलमिच्छता ॥४०॥ न दांभिकाय पापाय देवगुर्वसुसूयवे । देयं कदापि साधूनां द्विषे न शठाय च ॥४१॥ शांताय शमचित्ताय शुश्रूषाभिरताय च । निर्मत्सराय शुचये देयं सद्धैष्णवाय च ॥४२॥ इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने चतुर्थपादे ब्रह्मांडपुराणानुक्रमणीनिरूपणं नाम नवोत्तरशततमोऽध्यायः ॥१०९॥ दशाधिकशततमोऽध्यायः नारद उवाच पुराणसूत्रमखिलं श्रुतं तव मुखाद्विभो । मरीचये यथा प्रोक्तं ब्रह्मणा परमेष्ठिना ॥१॥ अधुना तु महाभाग तिथीनां वै कथानकम् । क्रमतो मह्यमाख्याहि यथा स्याद्व्रतनिश्चयः ॥२॥ यस्मिन्मासे तु या पुण्या तिथियेन उपासिता । यद्विधानं च पूजादेस्तत्सर्वं वद सांप्रतम् ॥३॥ सनातन उवाच शृणु नारद वक्ष्यामि तिथीनां ते व्रतं पृथक् । तिथीशानुक्रमादेव सर्वसिद्धिविधायकम् ॥४॥ चैत्रे मासि जगद्ब्रह्मा ससर्ज प्रथमेऽहनी । । शुक्लपक्षे समग्रं वै तदा सूर्योदये सति ॥५॥ पुराणों की अनुक्रमणिका तुमसे बतलाई गई है, उसका अनुशीलन पुराणफल के इच्छुक को अवश्य करना चाहिये । पुराण दांभिक, पापी, देव-गुरु के निंदक, साधु-द्रोही तथा शठ को नहीं देना चाहिए । यह शांत, भगवदु- पासक, शुश्रूषु, मत्सरशून्य, पवित्र एवम् वैष्णव को देना चाहिये ॥३८-४२॥ श्री नारदीयपुराण के पूर्वार्ध में बृहदुपाख्यानयुक्त चतुर्थपाद में ब्रह्मांडपुराणानुक्रमणीनिरूपण नामक एक सौ नवां अध्याय समाप्त ॥१०९॥ अध्याय ११० बारह मासों का प्रतिपदाव्रत नारद बोले—विभो ! सूत ! जैसे परमेष्ठी ब्रह्मा ने मरीचि से कहा, उस प्रकार मैं अखिल पुराणों को सुन चुका । महाभाग ! इस समय तिथियों के कथानक को सुनना चाहता हूँ । अतः क्रम से कहिये, जिससे व्रतों का निश्चय हो जाय । जिस मास में जो पवित्र तिथि मानी गई है, जिसने उसकी उपासना की है और उसके पूजन आदि का जो विधान बतलाया गया है, वह सब विस्तार से बताइये ।।१-३।। सनातन बोले— नारद ! सुनो, में सकलसिद्धिदायक तिथियों का व्रत पृथक्-पृथक् क्रमशः बतलाऊंगा । बलि के राज्यकाल में चैत्र मास के शुक्ल पक्ष के प्रथम दिन में सूर्योदय होने के उपरान्त ब्रह्मा ने जगत् की सृष्टि

६१० नारदीयपुराणम् वत्सरादौ वसंतादौ बलिराज्ये तथैव च । पूर्वविद्वैव कर्तव्या प्रतिपत्सर्वदा बुधैः ॥६॥ तत्र कार्या महाशांतिः सर्वकल्मषनाशिनी । सर्वोत्पातप्रशमनी कलिदुष्कृतहारिणी ॥७॥ आयुःप्रदा पुष्टिकरी धनसौभाग्यवर्द्धिनी । मंगल्या च पवित्रा च लोकद्वयसुखावहा ॥८॥ तस्यामादौ तु संपूज्यो ब्रह्मा वह्निवपुर्धरः । पाद्यार्घ्यपुष्पधूपैश्च वस्त्रालंकारभोजनैः ॥६॥ होमैर्बल्युपहारैश्च तथा ब्राह्मणतर्पणैः । ततः क्रमेण देवेभ्यः पूजा कार्या पृथक्पृथक् ॥१०॥ कृत्वोंकारं नमस्कारं कुशोदकतिलाक्षतैः । सवस्त्रं सहिरण्यं च ततो दद्याद्विजातये ॥११॥ दक्षिणां वेदविदुषे व्रतसंपूर्तिहेतवे । एवं पूजाविशेषेण व्रतं स्यात्सौरिसंज्ञकम् ॥१२॥ आरोग्यदं नृणां विप्र तस्मिन्नेव दिने मुने । विद्याव्रतमपि प्रोक्तमस्यामेव तिथौ मुने ॥१३॥ तिलकं नाम च प्रोक्तं कृष्णेनाजातशत्रवे । अथ ज्येष्ठे सिते पक्षे पञ्चम्यां दिवसोदये ॥१४॥ देवोद्यानभवं हृद्यं करवीरं समर्चयेत् । रक्ततन्तुपरीधानं गंधधूपविलेपनैः ॥१५॥ प्ररूढसप्तधान्यैश्च नारंगैर्बीजपूरकैः । अभ्युक्ष्याक्षततोयेन मंत्रेणेत्थं क्षमापयेत् ॥१६॥ करवीर वृक्षावास नमस्ते भानुवल्लभ । दंभोलिमृडदुर्गादिदेवानां सततं प्रिय ॥१७॥ आकृष्णेनेति वेदोक्तमंत्रेणेत्थं क्षमापयेत् । एवं भक्त्या समभ्यर्च्य दत्त्वा विप्राय दक्षिणाम् ॥१८॥ प्रदक्षिणं ततः कुर्यात्पश्चात्स्वभवनं व्रजेत् । नभःशुक्ले प्रतिपदि लक्ष्मीबुद्धिप्रदायकम् ॥१६॥ धर्मार्थकाममोक्षाणां निदानं परमं व्रतम् । सोमवारं समारभ्य सार्धमासत्रयं द्विज ॥२०॥ की, जो वर्ष एवम् वसन्त ऋतु का प्रारंभिक समय माना जाता है । (अतः उस दिन व्रत रखना चाहिये) परन्तु विद्वान् व्यक्ति सदा पूर्वविद्धा ही प्रतिपदा किया करे । उस तिथि को महाशान्ति करनी चाहिये । वह समस्त पापों का नाश करने वाली, अखिल उपद्रवों को शान्त करने वाली, कलि के दुष्कृत का हरण करने वाली, आयु देने वाली, पुष्टिकरी, धनसौभाग्यवर्धिनी, मंगलमयी, पवित्र तथा उभय लोक में सुख देने वाली है ॥४-८॥ इस तिथि में पहले अग्निदेहधारी ब्रह्मा का पाद्य, अर्घ्य, पुष्प, धूप, वस्त्र, अलंकार, भोजन, होम, बलि, उपहार तथा ब्राह्मण भोजन द्वारा पूजन करे । अनन्तर क्रमशः देवताओं की पृथक्-पृथक् पूजा करे, । फिर ओंकार को नमस्कार कर तिल, जल, अक्षत तथा कुश लेकर वस्त्र एवम् सुवर्ण द्विजाति को प्रदान करे । व्रत की पूर्णता के लिए वेदवेत्ता विप्र को दक्षिणा दे । इस प्रकार पूजाविशेष से युक्त व्रत 'सौरि' कहलाता है । विप्र ! उसी दिन विद्याव्रत भी करना चाहिये जो आरोग्य प्रदान करता है मुने ! कृष्ण ने तो अजातशत्रु से उसी तिथि में तिलकव्रत भी करने को कहा है ॥९-१३॥ ज्येष्ठ मास के शुक्ल पक्ष की पूर्णिमा तिथि में सूर्योदय होने पर देवोद्यान के किसी सुन्दर करवीर पुष्प के वृक्ष की अर्चना करे । उसमें लाल डोरे लपेट कर गन्ध, धूप, चन्दन, प्रियंगु, सप्तधान्य, नारंग तथा बीजपूर से पूजन करे । अनन्तर स्वच्छ जल से सिक्त कर मन्त्रपूर्वक इस प्रकार क्षमा प्रार्थना करे—"करवीर ! वृक्षावास ! भानुवल्लभ ! आपको नमस्कार है । आप इन्द्र, शंकर, दुर्गा आदि देवों के सदा प्रिय हैं॥१४-१७॥ पुनः आकृष्णेन इस वेदोक्त मन्त्र से पूजासमाप्ति करते हुए भक्तिपूर्वक ब्राह्मण को दक्षिणा दे । पश्चात् प्रदक्षिणा करके अपने घर को लौटे । द्विज ! श्रावण-शुक्ल की प्रतिपदा में लक्ष्मी, बुद्धि, धर्म, अर्थ, काम एवम् मोक्ष को देने वाला महाव्रत करना चाहिये । सोमवार से लेकर साढ़े तीन मास तक यह व्रत किया जाता है । कार्तिक-कृष्ण-चतुर्दशी को उपवास कर व्रतनिष्ठ व्यक्ति पूर्णिमा में शिव की अर्चना करे और धनवृद्धि के लिये

दशाधिकशततमोऽध्यायः ६११ कार्त्तिकासितभूतायामुपोष्य व्रततत्परः। पूर्णायां शिवमभ्यर्च्य सुवर्णं वंशसंयुतम् ॥२१॥ वायनं सुमहत्पुण्यं देवताप्रीतिवर्धनम् । दद्याद्विप्राय संकल्प्य धनवृद्ध्यै मुनीश्वर ॥२२॥ भाद्रशुक्लप्रतिपदि व्रतं नाम्ना महत्तसम् । व्रतं मौनाह्वयं केचित्प्राहुरत्न शिवोऽर्च्यते ॥२३॥ नैवेद्यं तु पचेन्मौनी षोडशत्रिगुणानि च । फलानि पिष्टपक्वानि दद्याद्विप्राय षोडश ॥२४॥ देवाय षोडशान्यानि भुज्यंते षोडशात्मना । सौवर्णं शिवमभ्यर्च्य कुम्भोपरि विधानवित् ॥२५॥ तत्सर्वं धेनुसहितमाचार्याय प्रदापयेत् । इदं कृत्वा व्रतं विप्र देवदेवस्य शूलिनः ॥२६॥ चतुर्दशाब्दं देहांतं भुक्तभोगः शिवं व्रजेत् । आश्विने सितपक्षस्यां कृत्वाशोकव्रतं नरः ॥२७॥ अशोको जायते विप्र धनधान्यसमन्वितः । अशोकपूजनं तत्र कार्यं नियमतत्परैः ॥२८॥ व्रतान्ते द्वादशे वर्षे मूर्ति चाशोकशाखिनः । समर्प्य गुरवे भक्त्या शिवलोके महीयते ॥२६॥ अस्यामेव प्रतिपदि नवरात्रं समारभेत् । पूर्वाह्णे पूजयेद्देवीं घटस्थापनपूर्वकम् ॥३०॥ अंकुरारोपणं कृत्वा यवैर्गोधूममिश्रितैः । ततः प्रतिदिनं कुर्यादेकभुक्तमयाचितम् ॥३१॥ उपवासं यथाशक्ति पूजापाठजपादिकम् । मार्कण्डेयपुराणोक्तं चरितत्रितयं द्विज ॥३२॥ पठनीयं नवदिनं भुक्तिमुक्ती अभीप्सता । कुमारो पूजनं तत्र प्रशस्तं भोजनादिभिः ॥३३॥ इत्थं कृत्वा व्रतं विप्र सर्वसिद्धयालयो नरः । जायते भुवि दुर्गायाः प्रसादान्नात्र संशयः ॥३४॥ अथोर्जसितपक्षस्यां नवरात्रोदितं चरेत् । विशेषादन्नकूटाख्यं विष्णुप्रीतिविवर्धनम् ॥३५॥ सर्वपाकैः सर्वदोहैः सर्वैः सर्वार्थसिद्धये । कर्तव्यमन्नकूटं तु गोवर्द्धनसमर्चने ॥३६॥ वंशयुक्त सुवर्ण तथा देवप्रीतिवर्धक बाहन विप्र को संकल्प करके दे दे। भाद्र-शुक्ल-प्रतिपदा को महत्तस नामक व्रत करना चाहिये। किन्हीं का कहना है कि यह व्रत मौनसंज्ञक है और कोई कहते हैं कि नहीं यह शिवसंज्ञक है ।।१८-२३।। व्रतो नैवेद्य के लिए पुआ-पकवान आदि पकाये, सोलह पकवान विप्र को और सोलह देवता को समर्पित करके घड़े के ऊपर सुवर्ण निमित शंकर की प्रतिमा का पूजन करे और धेनु सहित वह प्रतिमा आचार्य को अर्पित कर दे। विप्र ! चौदह वर्षों तक जो व्यक्ति पशुपति का यह व्रत करता है, वह सकल भोगों को भोग कर शिवसायुज्य मोक्ष को प्राप्त करता है। द्विज ! आश्विन-शुक्लपक्ष की प्रतिपदा में जो नर अशोकव्रत करता है, वह वीतशोक तथा धनधान्य सम्पन्न हो जाता है। उस दिन नियम-निष्ठा से अशोक पूजन करना चाहिये। बारह वर्षों तक व्रत कर लेनेके उपरान्त अशोकवृक्ष की प्रतिमा भक्तिपूर्वक गुरु को समर्पित करे। ऐसा करने वाला व्यक्ति शिवलोक में पूजित होता है। उक्त प्रतिपदा से नवरात्र-पूजन को आरम्भ करना चाहिये। पूर्वाह्न में घटस्थापन पूर्वक देवी की पूजा करे ।।२४-३०।। (घट के समीप मिट्टी के ऊपर) गेहूँ मिले जवा बोकर प्रतिदिन बिना मांगे मिला अन्न एक बार भोजन करे । यथाशक्ति उपवास, पूजा, पाठ आदि भो किया करे । भुक्ति-मुक्ति के इच्छुक जन उन नवों दिन मार्कंडेय पुराण में कहे गये तीनों चरित्रों (दुर्गासप्तशती) का पाठ करे । उन दिनों भोजन आदि से कुमारियों का सम्मान करना भी प्रशस्त माना गया है। विप्र ! जो मानव इस प्रकार व्रत करता है, वह दुर्गा की कृपा से पृथ्वो पर संपूर्ण ऐश्वर्यों को प्राप्त करता है, इसमें संशय नहीं ।।३१-३४॥ एतदुपरीन्त कातिक-शुक्ल-प्रतिपदा के व्रत को सुनो। उस दिन विष्णु को प्रीति को बढ़ाने वाले अन्नकूट मामक व्रत को करना चाहिए। समस्त अभिलाषाओं की सिद्धि के लिये सब प्राणी पुआ, पकवान, दूध, दही आदि