दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा)
महाकवि दण्डी द्वारा
स्रोत: दशकुमारचरितम् (सटीक - पूर्वपीठिका व मूल कथा) · चौखम्बा संस्कृत सीरीज · 1968 (उद्गम)
३६० दशकुमारचरितम् । [ उत्तरपीठिकायां
३६० दशकुमारचरितम् । [ उत्तरपीठिकायां
कुलवधूनाम् । तस्याहमस्म्युदाहरणभूता । मातृप्रमुखोऽपि ज्ञातिवर्गो माम- वज्ञयैव पश्यति । तेन सुदृष्टां मां कुरु । न चेत्त्यजेयमद्यैव निष्प्रयोजना- न्प्राणान् । आविश्रामाच्च मे रहस्यं न श्राव्यम्' इति पादयोः पपात । (३७) सैनामुत्थाप्योद्वाष्पोवाच - 'वत्से माध्यवस्यः साहसम् । इयमस्मि त्वन्निदेशवर्तिनी । यावति मयोपयोगस्तावति भवाम्यनन्याधी- ना । यद्येवासि निर्विण्णा तपश्चर त्वं मदधिष्ठिता पारलौकिकाय कल्या- णाय । नन्वयमुदर्कः प्राक्तनस्य दुष्कृतस्य, यदनेनाकारेणेदृशेन शीलेन स्वरूपा । मातृप्रमुखः जनन्यादिः । अवज्ञयैव अनादरेणैव । यदा जनन्यपि मामु- पेक्षते तदा का कथाऽन्येषामिति भावः । तेन ज्ञातृवर्गेण स्वभर्त्रा वा । सुदृष्टां सौम- नस्येनावलोकिताम् । यथाहं पत्युर्ज्ञातृवर्गस्य च वल्लभा भवेयं तथा विधेहीति भावः न चेत्-अन्यथा । यदि तथा न करिष्यसीत्यर्थः । त्यजेयं त्यक्ष्यामि । निष्प्र- योजनान् अकिञ्चित्करान् । आविरामात्-यावत्कालपर्यन्तं मे विरामः प्राणत्यागो नभवेत्तावत् । रहस्यं गोप्यम् । न श्राव्यं न कस्यापि पुरतः श्रावणीयं न कथनी- यमिति यावत् । पादयोः प्रव्राजिकायाश्चरणयोः । (३७) सा प्रव्राजिका । एनां निम्ब्रुवतीम् । उद्बाष्पा उद्गताश्रुः । मा अध्य- वस्यः मा कार्षीः । अधि-अवपूर्वक सो धातोलँङि रूपमडागमाभावश्च मा योगात् । साहसं प्राणत्यागरूपं साहसुकर्म । इयम्-अहम् । त्वन्निदेशवर्तिनी-तवाज्ञाका- रिणी । यत्त्वं वदिष्यसि तदेव करिष्यामीत्यर्थः । यावति यत्पर्यन्ते प्रजोजने इति शेषः । मयोपयोगः-मदुपयोगित्वम् । तावति तत्पर्यन्ते । अनन्याधीना-अन्यस्या- धीना न भवतीति तथा । स्वन्मात्राधीनेति भावः । निर्विण्णा-विरागवती । तप- श्चर तपस्यां कुरु । मदधिष्ठिता-मयोपदिष्टा । पारलौकिकाय-परलोके भवं पार- लौकिकं तस्मै । कल्याणाय मङ्गलार्थम् । अयं एतादृशः । उदर्कः परिणामः । प्राक्त- नस्य-पूर्वजन्मकृतस्य । दुष्कृतस्य पापस्य । अनेन-एतादृशेन । आकारेण स्वरू- अपनी कृपादृष्टि मुझपर डालें, अन्यथा मै इन निष्फल प्राणोंको त्याग दूँगी । मैं मरनेतक अपने रहस्य ( गुप्त ) बातोंको न सुनाऊंगी।' ऐसा कहकर वह संन्यासिनीके पैरों पड़ गयी । (३७) उस संन्यासिनीने उसे उठाकर अपनी आँखोंमें आँसू भरकर कहा-हे पुत्री ! ऐसा आत्महत्यारूपी साहसका कार्य मत करो। यह मैं तुम्हारी आज्ञाकारिणी हूँ। जब तक तुम्हारा कार्य मेरे द्वारा हो सकेगा तबतक मैं तुम्हारे अधीन हूँ ! यदि तुम्हें विराग ही उत्पन्न हो गया है, तो तुम परलोकके कल्याण प्राप्त्यर्थ मेरे साथ मेरे
Here is the line-by-line transcription of the text from the image:
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६१ जात्या चैवंभूतया समनुगता सती अकस्मादेव भर्तृद्वेष्यतां गतासि। यदि कश्चिदस्त्युपायः पतिद्रोहप्रतिक्रियायै दर्शयामुम्, मातर्हि ते पटीयसी' इति। ( ३८ ) अथासौ कथञ्चित्क्षणमधोमुखी ध्यात्वा दीर्घोष्णश्वासपूर्व- मवोचत्—'भगवति, पतिरेकदैवतं वनितानाम्, विशेषतः कुलजानाम्। अतस्तच्छुश्रूषणाभ्युपायहेतुभूतं किंचिदाचरणीयम्। अस्त्यस्मत्प्रातिवेश्यो वणिगभिजनेन विभवेन राजान्तरङ्गभावेन च सर्वपौरानतीत्य वर्तते। तस्य कन्या कनकवती नाम मत्समानरूपावयवा ममातिस्निग्धा सखी। पेण। शीलेन स्वभावेन। जात्या वंशेन। समनुगता युक्ता। भर्तृद्वेष्यतां पत्युरप्रि- यताम्। पतिद्रोहप्रतिक्रियायै भर्तृद्वेष्यता दूरीकरणाय। अमुम् उपायम्। मति- र्बुद्धिः। पटीयसी-अतिनिपुणा। (३८) असौ रत्नवती। दीर्घोष्णश्वासपूर्वं-दीर्घमुष्णञ्च निःश्वस्य। एकदैवतं एकमात्रदेवता। वनितानां स्त्रीणाम्। कुलजानां सत्कुलोत्पन्नानाम्। तच्छुश्रूषणेति- तस्य पत्युः शुश्रूषणस्य सेवनस्य यः अभ्युपायस्तस्य हेतुभूतं कारणभूतम् येन मे पतिशुश्रूषा भवेदिति भावः। आचरणीयं विधातव्यम् त्वयेति शेषः। अस्मत्प्रा- तिवेश्यः अस्माकं प्रतिवेशी। अभिजनेन वंशेन। विभवेन धनेन। राजान्तरङ्गभा- वेन-राजवल्लभतया। अतीत्य-अतिक्रम्य। तस्य प्रतिवेशिनः। मत्समानेति मया सामानं तुल्यं रूपं सौन्दर्यमवयवमङ्गञ्च यस्याः सा। अतिस्निग्धा अतिशयस्नेह- शालिनी। तया कनकवत्या। तद्धिमानहर्म्यतले तस्याः सौधकुट्टिमे। ततोऽपि कथनानुसार तप करो। निश्चय ही यह तुम्हारे प्राचीन पापोंके फल हैं कि इतनी सुन्दर आकृति, अच्छा स्वभाव, अच्छी जाति प्राप्त करके भी पतिकी सहसा अप्रिया हो गई हो। यदि पतिके द्रोहको दूर करनेका कोई यत्न होवे तो मुझसे कहो, क्योंकि तुम्हारी बुद्धि प्रखर है। (३८) तत्पश्चात् रत्नवती कुछ देरतक नीचे मुंह करके विचार करने लगी और फिर लम्बी और गरम सांस खींचकर बोली—'हे भगवति ! स्त्रियोंको केवल एक पतिही परमेश्वर हैं। प्रधानतः कुलवतियोंके अधिकरूपेण। अतः ऐसा कोई उपाय करना चाहिये जिससे मेरे पतिकी मुझसे सेवा हो सके। एक वैश्य मेरा पड़ोसी है जो वंशसे, धनसे और राजाका पार्श्ववर्ती होनेसे सभी नगरवासियोंसे बढ़ चढ़कर है। उस वैश्यकी एक पुत्री कनकवती नामकी है जो मेरे अनुरूप अंगवाली है तथा मेरी घनिष्ठ सहचरी भी है। उसके साथ गगनचुम्बी गृहकी छतपर उससे द्विगुणित सजकर विहार करूंगी। आप Nepal Sanskrit University, Balmeeki Campus, Kathmandu
३६२ दशकुमारचरितम् । [ उत्तरपीठिकायां
३६२ दशकुमारचरितम् । [ उत्तरपीठिकायां तया सह तद्विमानहर्म्यतले ततोऽपि द्विगुणमण्डिता विहरिष्यामि। त्वया तु तन्मातृप्रार्थनं सकरुणमभिधाय मत्पतिरेतद्गृहं कथञ्चनानेयः। समी- पगते च युष्मासु क्रीडामत्ता नाम कन्दुकं भ्रंशयेयम्। अथ तमादाय तस्य हस्ते दत्त्वा वक्ष्यसि— 'पुत्र, तवेयं भार्योसखी निधिपतिदत्तस्य सर्वश्रेष्ठि- मुख्यस्य कन्या कनकवती नाम। त्वामियमनवस्थो निष्करुणश्चेति रत्न- वतीनिमित्तमत्यर्थं निन्दति । तदेष कन्दुको विपक्षधनं प्रत्यर्पणीयम्' इति । स तथोक्तो नियतमुन्मुखीभूय तामेव प्रियसखीं मन्यमानो मा बद्धाञ्जलिं याचमानायै मह्यं भूयस्त्वत्प्रार्थितः साभिलाषमर्पयिष्यति । 'तेन रन्ध्रे- कनकवत्यपेक्षयापि। द्विगुणमण्डिता-समधिकविभूषिता। त्वया-परिव्राजिकया। तन्मातृप्रार्थनं तस्याः कनकवत्या मातुर्जनन्याः प्रार्थनं याचनम् । कनकवत्या जननी त्वां द्रष्टुमिच्छतीति सकरुणमभिधाय तमुक्त्वा। एतद्गृहं कनकवतीगेहम् । कथञ्चन-येन केनापि प्रकारेण । आनेयः आनेतव्यः । समीपगते निकटवर्तिनि मत्पत्याविति शेषः। युष्मासु युष्माकमुपरि । क्रीडामत्ता नाम-क्रीडोन्मादिनीव भूत्वा । भ्रंशयेयं पातयिष्यामि । तं कन्दुकम् । तस्य मत्पत्युर्बलभद्रस्य । इयं कनकवती । अनवस्थः अव्यवस्थः चञ्चलमतिरित्यर्थः । तत्तस्मात् । विपक्षधनं विरोधिजनद्रव्यम् । स बलभद्रः । तथा तेन प्रकारेण कथितः । नियतमवश्यम् । उन्मुखीभूय ऊर्ध्वमुखो भूत्वा । मां तामेव प्रियसखीं कनकवतीं मन्यमानः जानन् । याचमानायैकन्दुकं प्रार्थयमानायै । भूयः पुनरपि । त्वत्प्रार्थितः त्वया याचितः । साभिलाषं सस्पृहम् । रन्ध्रेण व्याजेन । उपश्लिष्य आलिङ्ग्य । रागममुरागम् । उसकी (कनकवती की) मातासे करुणापूर्वक प्रार्थना करके मेरे पतिको (कनकवतीकी माता तुम्हें देखना चाहती हैं) किसी प्रकार उस मेरी सखीके घरपर ले आना। जब आप लोग कनकवतीके गृहके समीप आ जायंगी तब मैं आप लोगोंके ऊपर क्रीड़ोन्मत्ताके समान गेंद फेंक दूंगी (गिरा दूंगी)। आप उस गेंदको लेकर मेरे पतिके हाथमें देकर कहियेगा—"हे पुत्र ! सब वणिकोंमें श्रेष्ठ निधिपति नामक सेठकी पुत्री यह कनकवती तुम्हारी पत्नीकी सखी है। यह कनकवती निष्करुण, चंचल स्वभाववाली होनेके कारण तुम्हारी रत्नवतीके प्रेमके बहाने बड़ी निन्दा करती है। अतः इस विपक्षी धनको (गेंदको) उसे वापस कर दीजिये।' इस प्रकारसे कथन करनेपर वह अवश्य ऊपरकी ओर मुख करके मुझे कनकवती समझकर देखेगा। तब मैं बद्धाञ्जली होकर उससे गेंद फेरनेकी प्रार्थना करूंगी और आप भी उससे गेंद फेरनेको कहेंगी तो वह सस्पृह होकर मुझे गेंद दे देगा। फिर मैं उसका व्याज (कपट) के साथ आलिंगन करूंगी एवं प्रेमको
षष्ठोच्छ्वासः ] बालबोधिनीव्याख्यासहितम् । ३६३ णोपश्लिष्य रागमुरुज्वलीकृत्य यथासौ कृतसंकेतो देशान्तरमादाय मां गमिष्यति तथोपपादनीयम्' इति । ( ३६ ) हर्षाभ्युपेतया चानया तथैव संपादितम् । अथैतां कनकव- तीति वृद्धतापसीविप्रलब्धो बलभद्रः सरत्नसाराभरणामादाय निशि नीर- न्ध्रे तमसि प्रावसत् । सा तु तापसी वार्त्तामापादयत्—'मन्देन मया नि- र्निमित्तमुपेक्षिता रत्नवती, श्वशुरौ च परिभूतौ, सुहृदश्चातिवर्तिताः । तद्- त्रैव संसृष्टो जीवितुं जिह्रेमीति बलभद्रः पूर्वेद्युर्मामकथयत् । नूनमसौ तेन उज्ज्वलीकृत्य-वर्धयित्वा । असौ बलभद्रः । कृतसंकेतः-दत्तेङ्गितः । उपपादनीयं विधेयम् । (४१) हर्षेति-हर्षेणानन्देन अभ्युपेतया तथास्त्विति स्वीकृतया । अनया प्रव्रा- जिकया । एतां रत्नवतीं कनकवतीति कृत्वा वृद्धतापसीविप्रलब्धः वृद्धप्रव्राजिका- प्रतारितः । सरत्नसाराभरणांम्-रत्नालङ्काराद्युत्कृष्टधनसहिताम् । नीरन्ध्रे तमसि- गाढान्धकारे । प्रावसत्-देशान्तरमगच्छत् । वार्त्तामापादयत्-वक्ष्यमाणरूपां कथां प्राचारयत् । कीदृशीमित्याह-इत्यन्तेन । मन्देन मूढेन । मया-बलभद्रेण । निर्नि- मित्तं निष्कारणम् । उपेक्षिता त्यक्ता । श्वशुरौ-श्वश्रूश्च श्वशुरश्चेत्येकशेषः । परिभूतौ तिरस्कृतौ । अवमानिताविति यावत् । अतिवर्त्तिताः अतिक्रान्ताः तेषां वचनमपि मयोपेक्षितमिति भावः । अत्रैव अस्मिन्नेव नगरे । संसृष्टः श्वशुरादिभिः सङ्गतः । जिह्रेमि लज्जे । पूर्वेद्युः गतदिवसे । मां वृद्धतापसीमित्यर्थः । नूनं निश्चितम् । असौ रत्नवती । तेन बलभद्रेण । नीता देशान्तरमिति शेषः । व्यक्तिः प्रकाशः एतद्वृ- त्तान्तप्रकटनमिति यावत् । अचिरात् शीघ्रम् । इत्यन्ता वार्त्ता तापस्या प्रचा- बढ़ाकर उसे देशान्तर चलनेके लिय संकेत करूंगी तथा जिस रीतिसे वह मुझे लेकर अन्य देशमें भाग चले ऐसे प्रयत्नोंको करूंगी । (३९) आनन्दके साथ संन्यासिनी द्वारा वह कार्य मेरे कथनानुसार सम्पादित कर दिया गया । तदनन्तर संन्यासिनी द्वारा वंचित होकर वह बलभद्र रत्नवतीको ही कनकवती समझकर मणि, सुवर्ण आदिसे युक्त होकर गाढान्धकारवाली आधी रातमें वहांसे अन्य देशको चला गया । उस संन्यासिनी द्वारा लोगोंमें बात प्रचारित हुई कि उस बलभद्रने कल मुझसे कहा—'हे अम्ब ! निष्कारणही मुझ मूर्खजनके द्वारा रत्नवती उपेक्षिता हुई । श्वसुर-सास आदि भी तिरस्कृत हुए । मित्रोंकी भी सम्मतियां न मानीं । अतः अब यहां इन लोगोंके संग मुझे रहनेमें लज्जा आती है।' इस कारणसे वही वलभद्र अपनी स्त्री रत्नवतीको साथ लेकर परदेश चला गया है । यह बात शीघ्र ही प्रकाशित भी २४ द० कु० उ०
३६४ दशकुमारचरितम् । [ उत्तरपीठिकायां
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ३६४ दशकुमारचरितम् । [ उत्तरपीठिकायां
नीता व्यक्तिश्वाचिराद्भविष्यति' इति । तच्छ्रुत्वा तद्बान्धवास्तदन्वेषणं प्रति शिथिलयतनास्तस्थुः । रत्नवती तु मार्गे कांचित्पण्यदासीं संगृह्य तयोह्य- मानपाथेयाद्युपस्करा खेटकपुरमगमत् । (४०) अमुत्र च व्यवहारकुशलो बलभद्रः स्वल्पेनैव मूलेन महद्धन- मुपार्जयत् । पौराग्रगण्यश्चासीत् । परिजनश्च भूयानर्थवशात्समाजगाम । ततस्तां प्रथमदासीम् 'न कर्म करोषि, दृष्टं मुष्णासि, अप्रियं ब्रवीषि' इति परुषमुक्त्वा बह्वताडयत् । चेटी तु प्रसादकालोपाख्यातरहस्यस्य वृत्तान्तै- कदेशमात्तरोषा निर्बिभेद । तच्छ्रुत्वा लुब्धेन तु दण्डवाहिना पौरवृद्धसं-
रिता । तद्बान्धवाः रत्नवत्याः पित्रादयः । तदन्वेषणं प्रति रत्नवत्याः अनुसन्धान- विषये । शिथिलयतनाः मन्दचेष्टाः । पण्यदासीम्-पण्यं गृहीत्वा या दासी भवति सा ताम् । तया दास्या । उह्यमानेति-उह्यमानः नीयमानः पाथेयाद्युपस्करो भोजनादि- सामग्री यस्याः सा । खेटकपुरं तन्नामकनगरम् । (४०) अमुत्र खेटकनगरे । व्यवहारकुशलः वाणिज्यनिपुणः । मूलेन मूलध- नेन पौराग्रगण्यः-पौराणां नागरिकाणामग्रगण्यः श्रेष्ठः । परिजनः सेवकादिः । भूयान् बहुसंख्यकः । अर्थवशात् धनप्रभावात् । प्रथमदासीं पण्यक्रीताम् । दृष्टं प्रत्यक्षीभूतं वस्तु । मुष्णासि चोरयसि । परुषं कर्कशवचनम् । अताडयत्-अतर्ज्ज- यत् । प्रसादेति-प्रसादकाले रत्नवत्याः प्रसन्नतासमये आख्यातं कथितं यद्रहस्यं गोप्यं वस्तु तस्य । वृत्तान्तस्य रत्नवतीकथितस्य चरितस्यैकदेशं नतु समग्रम् । आत्तरोषा सकोपा । निर्बिभेद प्रकाशितवती । दण्डवाहिना दण्डाधिकारिणा ।
हो जायगी। इसमें सन्देह नहीं है। ऐसी बातें सुनकर रत्नवतीके पिता आदि उसके अन्वेषण करनेमें ढिलाई करने लगे । रत्नवतीने मार्गमें एक नौकरानीको द्रव्यसे खरीद लिया और उसीसे अपने भोजन आदिकी वस्तु को ढुलवाती हुई खेटकपुरमें पहुँची। (४०) उस खेटकपुरमें व्यापारकुशल बलभद्रने थोड़े मूलधनसे विशाल सम्पत्ति अर्जित की । उस नगरका प्रधान नागरिक बन गया धनके कारण उसके बहुतसे नौकर- चाकर हो गये। इसके बाद रत्नवतीने खरीदी हुई प्रथम नौकरानीको कठोर कठोर शब्द सुनाने प्रारम्भ किये-'तुम काम नहीं करती हो, प्रत्यक्ष वस्तुको चुरा लेती हो, कटु भाषण करती हो इत्यादि' और ऐसी झिड़कियां देकर उसे कठोर ताड़ना देने लगी। उस नौकरानीने क्रोधके कारण उन सभी गुप्त रहस्योंको प्रकाशित कर दिया जो गुप्त रहस्य अंशमात्रमें रत्नवती द्वारा प्रसन्नताके समय सुनाये गये थे । नौकरानी द्वारा प्रसिद्ध की हुई इन बातोंको जानकर लोभी दण्डविधायकोंने नगरमें बसनेवाले बूढ़ोंसे
Nepal Sanskrit University, Balmeeki Campus, Kathmandu
[ षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६५ निघौ निधिपतिदत्तस्य कन्यां कनकवतीं मोषेणापहृत्यास्मत्पुरे निवसत्येष दुर्मतिर्बलभद्रः । तस्य सर्वस्वहरणं न भवद्भिः प्रतिबन्धनीयम्' इति नित- रामभर्त्सयंत् । ( ४१ ) भीतं च बलभद्रमभिजगाद रत्नवती—'न भेतव्यम् । ब्रूहि, नैयं निधिपतिदत्तकन्या कनकवती । वलभ्यामेव गृहगुप्तदुहिता रत्नवती नामेयं दत्ता पितृभ्यां मया च न्यायोढा । न चेत्प्रतीथ प्रणिधिं प्रहिणुतास्याः बन्धुपार्श्वम्' इति । बलभद्रस्तुतथोक्त्वा श्रेणीप्रातिभाव्येन तावदवातिष्ठत यावत्तत्पुरलेख्यलब्धवृत्तान्तो गृहगुप्तः खेटकपुरमागत्य सह जामात्रा दुहि तरमतिप्रीतः प्रत्यनैषीत् । तथा दृष्ट्वा रत्नवतीं कनकवतीति भावयतस्तस्यैव पौरैति-पौरेषु नागरिकेषु ये वृद्धास्तेषां समीपे । मोषेण चौर्येण । प्रतिबन्धनीयं व्याहन्तव्यम्-मया तस्य सर्वस्वहरणरूपो दण्डो विधास्यते तत्र भवद्भिविरुद्धैर्न भवितव्यमित्याशयः । अभर्त्सयंत-अतर्जयंत बलभद्र इति शेषः । (४१) मया बलभद्रेण । न्यायोढा न्यायेन विधिना ऊढा विवाहिता । प्र- तीथ-विश्वसिथ यूयमिति शेषः । प्रणिधिं गूढचरम् । प्रहिणुत-प्रेषयत । अस्या रत्नवत्याः । बन्धुपार्श्वं पित्रादेः सकाशम् । तथा-रत्नवत्या यथोक्तं तेन प्रकारेण । श्रेणीप्रातिभाव्येन-श्रेण्याः स्वजातीयवणिवर्गस्य प्रतिभूत्वेन प्रतिनिधित्वेनेति यावत् । तत्पुरेति-तत्पुरस्य वलभीनगरस्य लेख्येन पत्रेण लब्धो वृत्तान्तो येन पूछा कि 'यह बलभद्र दुर्बुद्धिवाला है। निधिपतिकी पुत्री कनकवतीको चुराकर लाया है और इसी खेटकपुरमें रहता है। अतः उसकी सब सम्पत्ति नष्ट होनेमें आप लोग जरा भी प्रतिबन्ध न करें। और ऐसा कहकर उन लोगोंने उसे खूब डरवाया। (४१) भयान्वित बलभद्रको देखकर रत्नवतीने कहा-'भय मत करिये, उन दंडविधायकोंके प्रति जाकर कहिये कि यह निधिपतिदत्तकी पुत्री कनकवती नहीं है। वलभी नगरके गृहगुप्तकी पुत्री रत्नवती नामकी यह महिला है और इसका विवाह इसके माता-पिता आदिने मेरे साथ किया है। यदि आप लोगोंको विश्वास नहीं है तो आप अपने गुप्तचरोंको इसके माता-पिता आदिके समीप भेजकर पूछताछ करा लें। इन बातोंपर सहमत होकर दंडाधिकारियोंने उसे अन्य वणिकोंकी जमानतपर उसी नगरमें रहने दिया तथा वलभी नगरसे लिखित वृत्तान्त भी इस विषयमें मंगवाया। सूचना पाकर गृहगुप्त भी खेटकपुरमें आया और जामाताके साथ अपनी पुत्रीको अति स्नेहके सहित लिवा ले गया। इस रीतिसे कनकवतीको रत्नवती माननेवाले उस बलभद्रके द्वारा
CC-0. In Public Domain. Digitization by eGangotri. Funding: MIDF ३६६ दशकुमारचरितम् । [ उत्तरपीठिकायां बलभद्रस्यातिवल्लभा जाता। तदब्रवीमि-'कामो नाम सङ्कल्पः' इति। (४२) तदनन्तरमसौ नितम्बवतीवृत्तान्तमप्राक्षीत्। सोऽहमब्रवम्- 'अस्ति शूरसेनेषु मथुरा नाम नगरी। तत्र कश्चित्कुलपुत्रः कलासु गणि- कासु चातिरक्तः मित्रार्थं स्वभुजमात्रनिर्व्यूढानेककलहः, कलहकण्टक इति कर्कशैरभिख्यापिताख्यः प्रत्यवात्सीत्। स चैकदा कस्याचिदागन्तोरिश्चित्रका- रस्य हस्ते चित्रपटं ददर्श। तत्र काचिदालेख्यगता युवतिरालोकमात्रेणैव कलहकण्टकस्य कामातुरं चेतश्चकार। स च तमब्रवीत्—'भद्र, विरुद्धमि- वैतत्प्रतिभाति यतः कुलजादुर्लभं वपुः, आभिजात्यशंसिनी च नग्नता, सः । प्रत्यनैषीत् स्वगृहं नीतवान् । आवयतः सन्मसानस्य । अतिवल्लभा अतिप्रिया। (४२) असौ ब्रह्मराक्षसः । सोऽहं-मित्रगुप्तः । शूरसेनेषु तदाख्यदेशेषु । तत्र मथुरायाम् । कुलपुत्रः-सत्कुलोत्पन्नः । कलासु-नृत्यगीतादिषु । गणिकासु वेश्यासु अतिरक्तः-अतिशयासक्तः । मित्रार्थं सुहृन्निमित्तम् । स्वभुजेति-स्वभुजमात्रेण बाहुबलेनैव निर्व्यूढः कृतः अनेकैः बहुभिर्जनैः सह कलहो विवादो येनासौ । कल- हकण्टक इति नाम्ना ख्यात इत्यर्थः । कर्कशैः-कठिनहृदयैः । अभिख्यापिताख्यः- कृतनामधेयः । प्रत्यवात्सीत्-प्रतिवसतिस्म । सः कुलपुत्रः । आगन्तोः देशान्तरा- दागतस्य । तत्र चित्रपटे । आलेख्यगता चित्रस्थिता । आलोकमात्रेण-दर्शनमात्रेण चेतः चित्तम् । स कुलपुत्रः । तं चित्रकारम् । विरुद्धं असदृशम् । प्रतिभाति दृश्यते। कुलजादुर्लभं गणिकासुलभमित्यर्थः । आभिजात्यशंसिनी-कौलीन्यसूचिका । नग्नता वह रत्नवती अति प्रेमपूर्वक चाही जाने लगी। इसी कारणसे कहता हूँ कि 'काम क्या है ? संकल्प है'। (४२) तदनन्तर उस ब्रह्मराक्षस द्वारा नितम्बवतीका वृत्तान्त पूछा गया। जिसके उत्तरमें मैने कहा—'शूरसेन प्रदेशमें एक मथुरा नामकी नगरी है। उस नगरीमें रहने वाला कोई एक उत्तम कुलोत्पन्न युवक नृत्यगीत आदि कलाओंमें तथा वेश्याओंमें बहुत आसक्त था। वह अपने मित्रोंके लिए अपनी भुजाओंके द्वारा अनेक प्रकारके उपद्रव- विवाद आदि अनेक जनोंके साथ करता था। जिस कारण उस नगरके कर्कशोंने (कठिन पुरुषोंने) उसका नाम ही 'कलहकण्टक' रख दिया था। उसने एक दिन किसी दूसरे देशसे आये हुए रंगारीव (चित्रकार के हाथमें एक चित्रपट देखा। उस चित्रमें चित्रित युवतीको देखते ही कलहकण्टकके मनमें कामदेवने आघात कर दिया। उसने उस चित्रकारसे कहा—'हे सौम्य ! यह बात प्रतिकूल मालूम होती है कि इस चित्रगता युवतीका शरीर कुलांगनाओंसे प्रतिकूल है। अर्थात् वेश्याओंके समान है। कुलीनता Nepal Sanskrit University, Balmeeki Campus, Kathmandu
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६७ पाण्डुरा च मुखच्छविः, अनतिपरिभुक्तसुभगा च तनुः, प्रौढतानुविद्धा च दृष्टिः । न चैषा प्रोषितभर्तृका, प्रवासचिह्नस्य वेण्यादेरदर्शनात् । लघ्म चैतद्दक्षिणापार्श्ववर्ति । तदियं वृद्धस्य कस्यचिद्वणिजो नातिपुंस्त्वस्य यथार्हसंभोगालाभपीडिता गृहिणी त्वयातिकौशलाद्यथादृष्टमालिखिता भवितुमर्हति' इति । ( ४३ ) स तमभिप्रशस्याशंसत् — 'सत्यमिदम् । अवन्तिपुर्यामुज्जयि- न्यामनन्तकीर्तिनाम्नः सार्थवाहस्य भार्या यथार्थनामा नितम्बवती नामैषा विनीतता । पाण्डुरा शुभ्रा । मुखच्छविः मुखकान्तिः । अनतीति-नातिपरिभुक्ता स्वल्पपरिभुक्ता अतएव सुभगा मनोहारिणी । प्रौढतेति-प्रौढतया प्रागल्भ्येन अनु- विद्धा युक्ता-उत्तीर्णबालभावतया अचञ्चला । प्रोषितभर्तृका-प्रोषितः प्रवासङ्गतः भर्त्ता यस्याः सा । कार्यान्तरवशाद् यस्या दूरदेशं गतः पतिः । तदनागमदुःखार्त्ता सा स्यात्प्रोषितभर्तृकेति तल्लक्षणम् । अदर्शनादभावात् । यथा लघ्म चिह्नं नखक्ष- तरूपम् । तत्-तस्मादनुमीयते । नातिपुंस्त्वस्य शिथिलपुरुषत्वस्य । यथार्हेति-यथा- र्हस्य तदुचितस्य संभोगस्यालाभेन अप्राप्त्या पीडिता दुःखिता । गृहिणी भार्या । त्वया चित्रकारेण । अतिकौशलात्-नैपुण्यातिशयात् । यथादृष्टं-यथा दृष्टा तथैव । ( ४३ ) सः चित्रकारः । तं कुलपुत्रम् । अभिप्रशस्य प्रशंसां कृत्वा । अशंसत् अकथयत् । इदं त्वया यद् यत् कथितम् । यथार्थनाम-नितम्बस्य पृथुत्वान्नितम्ब- सूचित करनेवाली इसमें नम्रता है । इसके मुखकी कान्ति शुभ्र है । इसकी मनोहारिणी देह स्वल्पभोगित है । इसकी दृष्टि प्रौढत्त्वको वेध चुकी है अर्थात् अचञ्चल है । यह प्रोषितभर्तृका भी ( परदेश गये हुए पतिकी पत्नी ) नहीं है क्योंकि प्रवासमें गये हुए पतिकी स्त्रीके चिह्न, एक वेणी आदि, उसमें नहीं दिखायी देते हैं । इसके दाहिने हाथमें नखक्षत दीखता है जिससे ज्ञात होता है कि यह किसी वृद्ध वैश्यकी वनिता है । जो वृद्ध वैश्यके द्वारा कामेच्छा पूर्ण नहीं प्राप्त कर सकती है अर्थात् पौरुषहीन होनेसे वह ठीक-ठीक सम्भोग नहीं कर सकता, अत एव यह रमणी, सम्भोगक्रीड़ाकी यथोचित प्राप्तिसे वंचित दीखती है । मुझे तो ऐसा ज्ञात होता है कि तुमने ( चित्रकारने ) जैसी इसकी आकृति देखी है ठीक वैसी ही फोटो अपने नैपुण्यसे खींच ली है—चित्रमें चित्रित कर दी है ।' ( ४३ ) उस चित्रकारने, उस कलङ्ककंटककी प्रशंसाकर कहा—'यह बात सत्य है । अवन्तिका नगरी ( उज्जायिनी ) में बसनेवाले सार्थवाह अनन्तकीर्ति नामक व्यक्तिकी पत्नी यह नितम्बवती अनुरूप नामको धारण करनेवाली है । इसके सौन्दर्यगुणको देखकर
३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां
३६८ दशकुमारचरितम् । [ उत्तरपीठिकायां सौन्दर्यविस्मितेन मयैवमालिखिता' इति । स तदैवोन्मनायमानस्तद्दर्श- नाय परिव्राजोज्जयिनीम् । भार्गवो नाम भूत्वा भिक्षानिभेन तद्गृहं प्रविश्य तां ददर्श । दृष्ट्वा चात्यारूढमन्मथो निर्गत्य पौरमुख्येभ्यः श्मशा- नरक्षामयाचत । अलभत च । तत्र लब्धैश्च शवावगुण्ठनपटादिभिः काम- प्यर्हन्तिकां नाम श्रमणिकामुपासाञ्चक्रे । तन्मुखेन च नितम्बवतीमुपांशु मन्त्रयामास । सा चैनां निर्भर्त्सयन्ती प्रत्याचचक्षे । (४४) श्रमणिकामुखाच्च दुष्करशीलभ्रंशां कुलस्त्रियमुपलभ्य रहसि दूतिकामशिक्षयत्-'भूयोऽप्युपतिष्ठ सार्थवाहभार्याम् । ब्रूहि चोपह्वरे वतीति तन्नाम यथार्थमिति भावः । सौन्दर्यविस्मितेन-तत्सौन्दर्यमवलोक्याश्चर्या- न्वितेन । सः कुलपुत्रः उन्मनायमानः उत्कण्ठितः । तद्दर्शनाय तस्या नितम्बवत्या दर्शनार्थम् । परिवव्राज जगाम। भार्गवः दैवज्ञः 'भार्गवौ शुक्रदैवज्ञावि'ति वैजयन्ती। नामेत्यलीके । भिक्षानिभेन-भिक्षाच्छलेन । तद्गृहं नितम्बवतीमन्दिरम् । अत्या- रूढमन्मथः-प्रवृद्धमदनः । श्मशानरक्षां श्मशानरक्षकताम् । तत्र-श्मशाने । शवे- ति-शवानां मृतानां यानि अवगुण्ठनपटादीनि शववेष्टनवस्त्रादीनि तैः । श्रमणिकां बौद्धप्रव्राजिकाम् । उपासांचक्रे सिषेवे । तन्मुखेन-श्रमणिकामुखेन । उपांशु निर्जने । मन्त्रयामास-प्रलोभयामास । सा नितम्बवती । एनां श्रमणिकाम् । प्रत्याचचक्षे- प्रत्याख्यातवती । (४४) दुष्करेति-दुष्करोऽशक्यः शीलस्य चारित्रस्य भ्रंशो नाशो यस्या- म्तादृशीम् । कुलस्त्रियं-कुलवधूम । उपलभ्य ज्ञात्वा । भूयोऽपि पुनरपि । उपतिष्ठ म आश्चर्य्यान्वित हो गया और यह चित्र मेने चित्रित किया' । वह कलहकण्टक उसी समय उत्कण्ठित चित्तसे उस नितम्बवतीके दर्शनार्थ उज्जैन चला गया । भार्गव नामक दैवज्ञ बनकर भिक्षाके बहाने वह नितम्बवतीके घरमें गया और उसको देखा । उसे देखकर अतिकाम आतुर होकर वह कलहकंटक वहांसे निकल आया और नगरीके मुख्य-मुख्य लोगोंसे श्मशानरक्षककी नौकरी मांगी । नौकरी प्राप्त भी कर ली । वहां श्मशानपर मिलनेवाले मृतकोंके कफन आदिसे उसने एक बौद्ध संन्यासिनीको अपने अनुकूल कर लिया । उसी संन्यासिनीके द्वारा उसने एकान्तमें नितम्बवतीके प्रति सन्देश कहलाया । परन्तु उस नितम्बवतीने उस संन्यासिनीको फटकार दिया । (४४) उस संन्यासिनीके मुखसे यह जानकर (कि यह् नितम्बवती कुलांगना है और) कुलांगनाओं द्वारा सुचरित्रका नाश होना कठिन है । फिर से एकान्तमें उसने उस संन्यासिनी से कहा-'हे संन्यासिनी ! तुम फिर एक बार सार्थवाहकी भार्या नितम्बवतीके
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३६६ संसारदोषदर्शनात्समाधिमास्थाय मुमुक्षमाणो मादृशो जनः कुलवधूनां शीलपातने घटत इति क्व घटते । एतदपि त्वामप्युदारया समृद्ध्या रूपे- णातिमानुषेण प्रथमेन वयसोपपन्नां किमितरनारीसुलभं चापलं स्पृष्टं न वेति परीक्षा कृता । तुष्टास्मि तथैवमदुष्टभावतया । त्वामिदानीमुत्पन्ना- पत्यां द्रष्टुमिच्छामि । भर्ता तु भवत्याः केनचिद्दुग्रहेणाधिष्ठितः पाण्डुरोग- दुर्बलो भोगे चासमर्थः स्थितोऽभूत् । न च शक्यं तस्य विघ्नमप्रतिकृत्या पत्यमस्माल्लब्धुम् । अतः प्रसीद । वृक्षवाटिकामेकाकिनी प्रविश्य मदुप- नीतस्य कस्यचिन्मन्त्रवादिनश्छन्नमेव हस्ते चरणमर्पयित्वा तदभिमन्त्रि- गच्छ । सार्थवाहभार्यां नितम्बवतीम् । उपह्वरे-निर्जने । संसारदोषदर्शनात्-संसा- रासारतावलोकनात् । समाधिं योगम् । आस्थाय-आश्रित्य । मुमुक्षमाणः-मुक्ति- मिच्छन् । मादृशः-मत्सदृशो मुमुक्षुः । शीलपातने चरित्रभ्रंशने । घटते यतते । क्व घटते-कथं सम्भवति । एतदपि-यत्तन्मुखेन त्वामकथयत् तदपि । उदारया सम- धिकया समृद्धया सम्पदा । अतिमानुषेण अलौकिकेन रूपेण सौन्दर्येण । प्रथमेन वयसा यौवनेन उपपन्नां युक्ताम् । त्वामपीत्यस्य विशेषणम् । इतरनारी- सुलभम्-अन्यस्त्रीसदृशम् । चापलं चञ्चलता । अदुष्टभावतया-शोभनस्वभाव- तया तवेति शेषः । उत्पन्नापत्यां जातसन्तानाम् । ग्रहेणाधिष्ठितः-दुष्टग्रहेणा- क्रान्तः । पाण्डुरोगेण रोगविशेषेण दुर्बलः शक्तिहीनः । भोगे विषयोपभोगे । तस्य भर्तुः । विघ्नं ग्रहजनितं दोषम् । अप्रतिकृत्य-प्रतीकारमकृत्वा । अपत्यं सन्ता- नम् । अस्मात् भर्तृसकाशात् । मदुपनीतस्य मया उपनीतस्य । मन्त्रवादिनः मन्त्र- ज्ञस्य । छन्नं गुप्तम् । चरणं स्वकीयं पदम् । तदभिमन्त्रितेन-तन्मन्त्रपूतेन चर- समीप जाओ तथा एकान्त में उससे कहो कि सांसारिक असारताके कारणको ज्ञातकर मैं समाधि लगाकर मुक्तिकी इच्छा कर रही हूँ । क्या मेरी जैसी मुक्तिकी इच्छुकाएं संन्यासिनियां कुलांगनाओंके सुचरित्रको नष्ट करनेका उपाय कर सकती हैं ! यह सम्भव कैसे हो सकता है ? मैंने यह जाननेकी चेष्टारूपमें तुम्हारी परीक्षा की थी कि तुम्हारी नयी जवानीकी अवस्था है और तुम अलौकिक सुन्दरी हो, खूब पैसेवाली हो, अतः तुममें अन्य अंगनाओंकी तरह चञ्चलता भी है कि नहीं । परन्तु यह जानकर परम प्रसन्न हूँ कि तुममें असतीत्वके दुर्गुण नहीं हैं । अब मैं तुम्हें सन्तानवती देखना चाहती हूँ । तुम्हारे पति किसी दुष्टग्रहसे आक्रान्त हैं । पाण्डुरोगसे शक्तिहीन होकर विषय करनेमें असमर्थ हैं । अतः अपने पतिके रोगको दूर किये बिना या ग्रहदोषका निवारण किये बिना आपके पतिसे आपका सन्तान नहीं हो सकती है । अतः प्रसन्न हो । वृक्षवाटिका में अकेली चलो और मेरेद्वारा बुलाये हुए एक मन्त्रशास्त्रीके हाथमें गुप्त रूपसे Nepal Sanskrit University, Balmeeki Campus, Kathmandu
तेन प्रणयकुपिता नाम भूत्वा भर्तारमुरसि प्रहर्तुमर्हसि उपर्यसावुत्तम- धातुपुष्टिमूर्जितापत्योत्पादनक्षमामासादयिष्यति । अनुवर्तिष्यते देवीमि- वात्रभवतीम् । नात्र शङ्का कार्या' इति । (४५) सा तथोक्ता व्यक्तमभ्युपेष्यति नक्तं मां वृक्षवाटिकां प्रवेश्य तामपि प्रवेशयिष्यसि तावतैव त्वयाहमनुगृहीतो भवेयम्' इति । सा तथैवोपाग्राहितवती । सोऽतिप्रीतस्तस्यामेव क्षपायां वृक्षवाटिकायां गतो नितम्बवतीं निर्ग्रन्थिकाप्रयत्नेनोपनीतां पादे परामृशन्निव हेमन्नूपुरमेकमा- णेन । प्रणयकुपिता-मानिनीव । नामेत्यलीकसम्भावनायाम् । उपरि तदन- न्तरम् । असौ तव पतिः । उत्तमधातुपुष्टिं-उत्तमस्योत्कृष्टस्य धातोः शुक्रस्य पुष्टिं वृद्धिम् । उर्जितेति-उर्जितस्य बलवतः अपत्यस्य सन्ततेरुत्पादने जनने क्षमां समर्थाम् । धातुपुष्टिमित्यस्य विशेषणम् । आसादयिष्यति प्राप्स्यति । अनुवर्त्ति- ष्यते अनुसरिष्यति त्वदासक्तो भविष्यति तव पतिरिति शेषः । अत्रभवतीं त्वा- मित्यर्थः । शङ्का संशयः । (४५) सा नितम्बवती । तथोक्ता श्रमणिकया । तथा कथिता । व्यक्तं असन्दिग्धम् । अभ्युपेष्यति-स्वीकरिष्यति-तथा कर्तुमिति शेषः । वृक्षवाटिकां गृहोद्यानम् । प्रवेश्य प्रवेशं कारयित्वा । ताम् नितम्बवतीम् । तावता एतावता कर्मणा । सा श्रमणिका । उपग्राहितवती-नितम्बवतीं स्वीकारयामास । स कलह- कण्टकः । निर्ग्रन्थिकाप्रयत्नेन-श्रमणिकाचेष्टया । निर्ग्रन्थिका बौद्धभिक्षुकी । उप- नीताम् उपस्थापिताम् । पादे नितम्बवत्याश्चरणे । परामृशन् हस्तं चालयन् । अपने चरणोंको अर्पित कर देना । उसके द्वारा अभिमन्त्रित होकर तुम अपने पतिके ऊपर मान करके बैठ जाना । और पतिके द्वारा मान निवारणपर उसके वक्षःस्थलमें एक लात मारना । तदनन्तर तुम्हारा पति उत्तम धातुपुष्टिको प्राप्त कर लेगा और बलवती सन्तान उत्पन्न करनेकी शक्तिवाला हो जायगा । तुम्हारा पति तुम्हें देवीकी तरह मानेगा। इसमें शंका मत करो।' (४५) ऐसा कहनेपर वह नितम्बवती निःसन्देह प्रक्रियाको स्वीकार कर लेगी तब आप (संन्यासिनी) रातमें मुझे उस वृक्षवाटिकामें प्रवेशित कराकर फिर उसे भी प्रवेशित करा देना । आपके द्वारा यह कार्य होनेसे मैं आपका अति आभारी रहूँगा । उस संन्यासिनीने उसी तरहसे उस नितम्बवतीको राजी कर लिया । वह उसी रातमें प्रमुदित होकर वृक्षवाटिकामें गया । संन्यासिनीके प्रयत्न से आयी हुई नितम्बवतीके चरणपर हाथ लगाते हुए उसने एक सुवर्णका नूपुर (पैरका भूषण) खींच लिया और
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३०१ क्षिप्य छुरिकयोरुमूले किंचिदालिख्य द्रुततरमपासरत् । सा तु सान्द्रत्रासा स्वमेव दुर्णयं गर्हमाणा जिघांसन्तीव श्रमणिकां तद्व्रणं भवनदीर्घिकायां प्रक्षाल्य दत्त्वा पटबन्धनं सामयापदेशापरं चापनीय नूपुरं शयनपरा त्रिचतुराणि दिनान्येकान्ते निन्ये । स धूर्तः 'विक्रेष्ये' इति तेन नूपुरेण तमनन्तकीर्तिमुपाससाद । स दृष्ट्वा 'मम गृहिण्या एवैष नूपुरः, कथम- यमुपलब्धस्त्वया' इति तमब्रुवाणं निर्बन्धेन पप्रच्छ । ( ४६ ) स तु 'वणिग्ग्रामस्याग्रे वक्ष्यामि' इति स्थितोऽभूत् । पुनरसौ
आच्छिद्य अवतार्य । छुरिकया शस्त्रिकया । आलिख्य क्षतं कृत्वा । अपासरत् पलायिष्ट । सा नितम्बवती । सान्द्रत्रासा अतिभीता । स्वं निजम् । दुर्णयं अनु- चिताचारम् । गर्हमाणा निन्दन्ती-कथं मया श्रमणिकाविश्वासेन एवं कृतमिति भावः । जिघांसन्तीव हन्तुमिच्छन्तीव । तद्व्रणं तत्क्षतम् । भवनदीर्घिकायां गृहा- न्तर्गतजलाशये । पटबन्धनं-पट्टिकाम् । सामयापदेशा-सामया सरोगा इति अपदेशः छलं यस्याः सा । पादे कश्चन रोगः सञ्जात इति कपटमाश्रित्येति भावः । अपरं अन्यचरणस्थितं नूपुरमपि । अपनीय-अपसार्य । शयनपरा-शयित्वैव । निन्ये यापयामास । स धूर्त्तः कलहकण्टकः । विक्रेष्ये-नूपुरविक्रयं करिष्यामीति कथय- न्नित्यर्थः । अनन्तकीर्त्तिं नितम्बवतीभर्त्तारम् । उपाससाद्-तत्समीपं जगाम । सः अनन्तकीर्त्तिः । उपलब्धः प्राप्तः । तं कलहकण्टकम् । अब्रुवाणं नूपुरप्राप्ति- वृत्तान्तमकथयन्तम् । निर्बन्धेन-आग्रहातिशयेन । ( ४६ ) स कलहकण्टकः । वणिग्ग्रामस्य-वणिक्समुदायस्य । अग्रे पुरतः ।
छूरीसे उसको जाँघमें हल्का प्रहारकर भाग गया । जांघमें प्रहारके पश्चात् वह नितम्बवती अतिभयान्वित हुई और वह अपने अनुचित आचारकी निन्दा करती हुई तथा उस संन्यासिनीको मारने की इच्छा करती हुई ( घर ) लौटी । ( घर आकर ) उसने अपने घावको बावलीमें धोया तथा पट्टी बाँधी । बीमारीका बहाना कर दूसरे नूपुरको दूर करके तीन-चार दिन एकान्तमें पड़ी रही । वह धूर्त्त कलहकंटक 'मैं नूपुरको बेचता हूँ' ऐसा कहते हुए उस अनन्तकीर्तिके समीप उपस्थित हुआ । उसने देखकर कि 'यह नूपुर तो मेरी पत्नीका ही है, इसे इसने कैसे प्राप्त किया ?' ऐसा सोचकर उस कलहकंटकको बुलाकर आग्रहसे उससे नूपुरप्राप्तिका वृत्तान्त पूछा । ( ४६ ) उसने उत्तर दिया कि 'मैं वणिक्समूहके समक्ष इस वृत्तान्तको कहूंगा ।' फिर उस अनन्तकीर्तिने अपनी पत्नीसे दोनों नूपुरोंको भेजनेके लिये सन्देश भेजा ।
३७२ दशकुमारचरितम् । [ उत्तरपीठिकायां
३७२ दशकुमारचरितम् । [ उत्तरपीठिकायां गृहिण्यै 'स्वनूपुरयुगलं प्रेषय' इति संदिदेश । सा च सलज्जं ससाध्वसं चाद्य रात्रौ विश्रामप्रविष्टायां वृक्षवाटिकायां प्रनष्टो ममैकः प्रशिथिलबन्धो नूपुरः । सोऽद्याप्यन्विष्टो न दृष्टः । स पुनरयं द्वितीय इत्यपरं प्राहिणोत् । अनया च वार्तयामुं पुरस्कृत्य स वणिक् वणिग्जनसमाजमाजगाम । स चानुयुक्तो धूर्तः सविनयमावेदयत्—'विदितमेव खलु वः, यथाहं युष्म- दाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि । लुब्धाश्च कदाचिन्म- दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपि श्मशानमधिशये । अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्तीं श्यामाकारां नारीमप- श्यम् । अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यदृच्छया असौ अनन्तकीर्त्तिः। गृहिण्यै-भार्यासकाशे । सन्दिदेश-वार्त्तां प्रेषितवान् । सा नितम्बवती । ससाध्वसं सभयम् । विश्रामेति-विश्रमार्थं प्रविष्टायाम् । प्रनष्टः चरणात्रिपतितः। प्रशिथिलबन्धः शरीरकार्श्यात् श्लथबन्धनः । स नूपुरः । अपरं अन्यं नूपुरम् । अनया वार्त्तया-अनेन वृत्तान्तेन । अमुं नूपुरम् । पुरस्कृत्य गृहीत्वा । अनुयुक्तः पृष्टः । स धूर्त्तः कलहकण्टकः । आवेदयत् अकथयत् । विदितं ज्ञातम् । वः युष्माकम् वणिजामिति शेषः । युष्मदाज्ञया भवतामादेशेन । पितृ- वनं श्मशानम् । तदुपजीवी-तेन श्मशानरक्षणेन उपजीवति जीविकां करोतीत्येवं- शीलः । लुब्धाः धूर्त्ताः। मदर्शनभीरवः मदवलोकनभयशीलाः । निशि रात्रौ । अधिशये तिष्ठामि । अपरेद्युः अन्यस्मिन् दिने । दग्धादग्धं-कियद्दग्धं कियच्चादग्ध- मेतादृशं मृतकं शवम् । चितायाः चितामध्यात् । प्रसभं बलात् । श्यामाकारां कृष्णवर्णाकृतिम् । साध्वसं भयं निगृह्य परित्यज्य सा नारी । मया गृहीता धृता । उसने लज्जा और भयके साथ कहा कि आज रातको मैं विश्रान्तिके लिये वृक्षवाटिका में गयी थी। वहाँपर एक नूपुर, शरीरके कृश होनेके कारण ढीला पड़ गया था, गिर गया । उसे आज भी मैंने खोजा, किन्तु नहीं मिला। अस्तु, यह दूसरा नूपुर मेरे पास है इसे ले जाओ। इस उपर्युक्त कथनके साथ उस अनन्तकीर्तिने उस धूर्त्तको वणिक्- समुदायके समीप उपस्थित किया । वणिकोंद्वारा पूछे जानेपर उस धूर्तने विनयसे कहा—'आप लोगोंको ज्ञात ही है कि मैं आप लोगोंकी आज्ञासे श्मशानमें रक्षक बनकर उसीसे प्राप्त द्रव्यद्वारा अपना जीवन निर्वाह करता हूँ । मेरी उपस्थितिसे डरनेवाले धूर्त्त लोग कदाचित् रातमें शव न जला डालें इसी कारण मैं रातमें भी श्मशान ही में सोता हूँ । गत दिनकी रातमे मैंने चितापर जलनेवाले एक अर्धदग्ध शवको जबर्दस्तीसे खींचती हुई कृष्णवर्णवाली स्त्री देखी। धनके लोभसे भयको त्यागकर मैंने उसे पकड़ा
किञ्चिदुल्लिखितम् । एष च नूपुरश्चरणादाक्षिप्तः । तावत्येव द्रुतगतिः सा पलायिष्ट । सोऽयमस्यागमः । परं भवन्तः प्रमाणम्' इति । (४७) विमर्शेन च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमत- मासीत् । भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्वध्य मर्तुकामा तेन धूर्तेन नक्तमगृह्यत । अनुनीता च 'सुन्दरि, त्वदाकारोन्मा- दितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः । तत्प्रसीदानन्य- शरणायास्मै दासजनाय' इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य सान्त्व- क्षत्रिकया छुरिकया । ऊरुमूले तस्या इति शेषः । यदृच्छया स्वेच्छया । तावति तस्मिन्नेव समये । अस्य नूपुरस्य । आगमः प्राप्तिः । परं अतः परम् । (४७) विमर्शेन-विचारेण । तस्या नितम्बवत्याः । शाकिनीत्वं पिशाचत्वम् । ऐकमत्येन अविसंवादित्वेन । पाशेन रज्वा । उद्वध्य आत्मानं बद्ध्वा । तेन-कल- हकण्टकेन । अगृह्यत गृहीता नितम्बवतीति शेषः । त्वदाकारेति-तव आकारेण आकृत्या उन्मादितेन उन्मादग्रस्तेन । त्वदावर्जने तवायत्तीकरणे भिक्षुकीमुखेन श्रमणिकाद्वारेण । उपन्यस्य कृत्वा । तेषु उपायेषु । असिद्धे निष्फलेषु सत्सु । असाधारणीकृत्य-अन्यवैलक्षण्येनेत्यर्थः । रन्तुं विहर्तुम् । अनन्यशरणाय अनन्य- गतिकाय । अस्मै मह्यमित्यर्थः । प्रयुज्य उक्त्वा । अगल्यन्तरां न विद्यते गत्य- और मेरे हाथमेंकी छुरीसे उसके जांघमें कुछ चोट भी आ गयी । (मैंने जांघमें जानकर छुरी नहीं मारी थी अपितु सहज हीमें लग गयी थी) यह नूपुर मैंने उसके चरणमेंसे खींच लिया । तब वह तेज चालसे भाग गयी । यही इस नूपुरप्राप्तिका वृत्त है । इसके अतिरिक्त मैं कुछ नहीं जानता, आप लोग ही जानें । (४७) सब पुरवासियोंने इस वृत्तसे ऐक्यमत होकर यही निश्चय किया कि यह नितम्बवती पिशाचयोनिकी है । उसके पतिने भी उसे त्याग दिया । उसी श्मशानपर जाकर वह बहुत विलाप करके अपनेको रस्सीसे बांधकर मरनेको इच्छा करने लगी— फांसी लगाकर मरना चाहती थी कि उसी धूर्तने उसे आकर पकड़ लिया । और अनुनय करके कहने लगा—'हे सुन्दरी ! आपकी आकृति और सुन्दरतासे मैं उन्मत्त हो गया था । और आपकी प्राप्तिके लिये भिक्षुकी आदिके मुख द्वारा सन्देश कहलाया । अनेक यत्न किये, परन्तु वे सभी निष्फल हो गये । तब मैंने यह उपाय सोचा कि 'जबतक मैं जीता रहूँगा तबतक तुम्हें ही रमणी बनाये रहूँगा' ऐसा विचारकर उक्त
३७४ दशकुमारचरितम् । [ उत्तरपीठिकायां
३७४ दशकुमारचरितम् । [ उत्तरपीठिकायां शतानि, तामगत्यन्तरामात्मवश्या मकरोत् । तदिदमुक्तम्—'दुष्करसाधनं प्रज्ञा' इति । ( ४८ ) इदमाकर्ण्य ब्रह्मराक्षसो मामपूजयत् । अस्मिन्नेव क्षणे नाति- प्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलाद- पतन् । अहं तु 'कि न्विदम्' इत्युच्चक्षुरालोकयन्कमपि राक्षसं काञ्चिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यम् । कथमपहरत्यकामापि स्त्रियमनाचारो नैर्ऋतः इति गगनगमनमन्दशक्तिरशस्त्रश्चातप्ये । स तु मत्संबन्धी ब्रह्म- राक्षसः 'तिष्ठ तिष्ठ पाप, क्वापहरसि' इति भर्त्सयन्नुत्थाय राक्षसेन समसृज्यत । न्तरमन्यागतिर्यस्यास्ताम् । दुष्करसाधनं प्रज्ञा बुद्धिवलेन दुष्करमपि साधयितुं शक्यते इति भावः । (४८) नातिप्रौढेति-नातिप्रौढानि अनतिपुष्टानि यानि पुंनागमुकुलानि बकुलकलिकाः तद्वत् स्थूलानि । मुक्ताफलानि मौक्तिकानि । अहं मित्रगुप्तः । उच्चक्षुः-ऊर्ध्वीकृतनेत्रः । विचेष्टमानगात्रीं वेपमानावयवाम् । अकामां अनिच्छ- न्तीम् । अनाचारः दुराचारः नैर्ऋतः राक्षसः । गगनेति-गगनगमने आकाशत- ल्लारोहणे मन्दा हीना शक्तिः सामर्थ्यं यस्य सः । अतप्ये तापमभजम् । मत्सम्ब- न्धी-मत्सम्पर्कितः सुहृद्भूत इति यावत् । उत्थाय गगन्नतले इति शेषः । सम- सृज्यत-संस्पृष्टोऽभवत् अयुध्यतेति शेषः । उपायको रचा । अतः हे प्रिये ! इस सेवकपर अनन्यगति होकर प्रसन्न हो । ऐसा कहकर वह कलहकंटक उस नितम्बवतीके चरणोंपर बार-बार शीश धरने लगा । बहु प्रकारसे सान्त्वना देकर उस रमणीको जिसकी दूसरी गति नहीं थी, अपने वशमें कर लिया । इसीसे कहा है-'दुष्कर साधन भी बुद्धिसे साधे जा सकते हैं।' (४८) इन बातोंको श्रवण करके उस ब्रह्मराक्षसने मेरी पूजा की । उसी समय आकाशसे अनतिप्रौढ़ बकुलकी कलीके सदृश मोतीके दाने, जलबिन्दुओंके सहित गिरे । मैंने (मित्रगुप्तने ) 'यह क्या है' ज्ञात करनेके लिये ऊपर नेत्रोंको किया तो देखा कि कोई एक राक्षस किसी कम्पित अङ्गवाली अङ्गनाको पकड़े लिये जा रहा है । यह राक्षस इस अनिच्छित महिलाको क्योंकर जबर्दस्ती पकड़े लिये जा रहा है ?' ऐसा सोचते हुए तथा आकाशमें जानेकी शक्तिमे हीन एवं शस्त्ररहित मैं सन्ताप करने लगा । मेरे सुहृद् उस ब्रह्मराक्षसने कहा—'ठहरो, ठहरो, पापी ! कहां लिये जाते हो ?' इस प्रकारसे डराते हुए वह आकाशकी ओर उड़ा । और वहां उसके साथ संश्लिष्ट हो युद्ध करने लगा ।
[Header] षष्ठोच्छ्वासः] | वासन्तिकी हिन्दीटीकयासहितम् । ३७५
(४९) तां तु रोषादनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादाप- तन्तीमुन्मुखप्रसारितोभयकरः कराभ्यामग्रहीषम् । उपगृह्य च वेपमानां सम्मीलिताक्षीं मदङ्गस्पर्शसुखेनोद्भिन्नरोमाञ्चां तादृशीमेव तामनवतार- यन्नतिष्ठम् । तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैर्मुष्टि- पादप्रहारैश्च परस्परमक्षपयेताम् । पुनरहमतिमृदुनि पुलिनवति कुसुमद- बलाञ्छिते सरस्तीरेऽवरोप्य सस्पृहं निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयम् । (५०) सा हि मया समाश्वास्यमाना तिर्यङ्मामभिनिरूप्य जातप्र-
(४९) तां अपहियमाणां स्त्रियम् । रोषात् क्रोधात् अनपेक्ष्येति-अनपेक्ष्या निरपेक्षतया अपविद्धां त्यक्ताम् । अमरवृक्षमञ्जरी कल्पतरुमञ्जरीम् । उन्मुखेति= उन्मुखौ प्रसारितौ आततीकृतौ उभयकरौ येन सः । उपगृह्य गृहीत्वा । वेपमानां कम्पमानाम् । संमीलिताक्षीम्-निमीलितनयनाम् । मदंगेति-मदङ्गस्य मद्देहस्य स्पर्शेन यत् सुखं तेन । उद्भिन्नरोमाञ्चां उद्गतपुलकाम् । तादृशीं तदवस्थाम् । अनवतारयन्-भूमावस्थापयन् । उभौ राक्षसब्रह्मराक्षसौ । शैलशृङ्गभंगैः पर्व्वत- शिखरशकलैः । पादपैः वृक्षैः । रभसान्मूलितैः-वेगादुत्पाटितैः । मुष्टिपादप्रहारैः मुष्टिप्रहारैः पादप्रहारैश्च । परस्परमन्योन्यम् । अक्षपयेतां नाशितवन्तौ । अति- मृदुनि-अतिकोमले । पुलिनवति-सिकतामये । कुसुमवललाञ्छिते-पुष्पशकल- शोभिते । अवरोप्य स्वभुजादवतार्य तामिति शेषः । सस्पृहं सानुरागम् । निर्वर्ण- यन् निरूपयन् । मत्प्राणैकवल्लभां समहृदयैकदयिताम् । अलक्षयम्-अपश्यम् । (५०) सा कन्दुकावती । समाश्वास्यमाना सान्त्व्यमाना । तिर्यक्-वक्री-
(४९) युद्धके समय रोषके साथ उपेक्षित भावसे परित्यक्त आकाशसे गिरती हुई उस महिलाको कल्पवृक्षकी मञ्जरीके समान ऊपरकी ओर मुख करके तथा दोनों हाथोंको फैलाकर मैंने रोक लिया । रोकनेके पश्चात् निमीलित नयनवाली एवं काँपती हुई तथा मेरे शरीरके स्पर्शसुखसे रोमाञ्चित होनेवाली उस महिलाको मैं उसी दशा में अपने हाथोंपर लिये हुए खड़ा रहा । वे दोनों (राक्षस-ब्रह्मराक्षस) परस्पर वेगसे उखाड़े हुए पहाड़ोंके शिखरोंके टुकड़ोंसे, पेड़ोंसे, मुष्टियोंसे, लातोंसे लड़ते हुए विनष्ट हो गये । फिर मैंने अत्यन्त कोमल बालुकापर जहांपर पुष्पांश पड़े हुए थे, तालाबके किनारे उस रमणीको सानुराग देखा तो प्रतीति हुई कि वह रमणी मेरी हृदयवल्लभा राजपुत्री कन्दुकावती है। (५०) मेरे द्वारा समाश्वासित होनेपर उस रमणीने तिरछी दृष्टिसे जरा मुझे देखा
३७६ दशकुमारचरितम् [ उत्तरपीठिकायां
३७६ दशकुमारचरितम् [ उत्तरपीठिकायां
त्यभिज्ञा सकरुणमरोदीत् । अवादीच्च-'नाथ, त्वद्दर्शनादुपोढरागां तस्मि- न्कन्दुकोत्सवे पुनः सख्या चन्द्रसेनया त्वत्कथाभिरेव समाश्वासितास्मि । त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भ्रात्रा भीमधन्वना इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमुपा- गमम् । तत्र च मामचकमत कामरूप एष राक्षसाधमः । सोऽयं मया भीतयावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् । अत्रैवमवसितोऽ- भूत् । 'अहं च दैवात्तवैव जीवितेशस्य हस्ते पतिता । भद्रं तव' इति । ( ५१ ) श्रुत्वा च तया सहावरुह्य, नावमध्यारोहम् । मुक्ता च नौः प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् । अवरूढाश्च वयमश्रमेण
कृतग्रीवा । अभिनिरूप्य समन्ततो दृष्ट्वा । धातेति-जाता उत्पन्ना प्रत्यभिज्ञा स एवायमिति ज्ञानं यस्याः सा । उपोढरागा-सञ्जातानुरागा । परिजनं दासीवर्गम् । जिहासुः त्यक्तुमिच्छुः । अचकमत-कामयामास । कामरूपः । मायावी । अवधूत- प्रार्थनः-अवधूता तिरस्कृता प्रार्थना यस्य सः । स्फुरन्तीं वेपमानाम् । निगृह्य बला- दाकृष्य । अत्र अस्मिन् पर्वते एवं-ब्रह्मराक्षसेन सह युद्धं कृत्वा । अवसितः समाप्तिं गतः निहत इति यावत् । दैवात् अदृष्टवशात् । जीवितेशस्य पत्युः । भद्रं मङ्गलम् । ( ५१ ) तया कन्दुकावत्या । अवरुह्य पर्वतशिखरादवतीर्य । मुक्ता परि- चञ्चिता । प्रतिवातप्रेरिता अनुकूलवायुचालिता । उपातिष्ठत्-उपाजगाम । अव-
तो पूर्वपरिचितकी स्मृति आ गयी । तब वह करुणस्वरसे रोकर कहने लगी 'हे स्वामिन् ! उस कन्दुकक्रीड़ामें आपके दर्शनसे उद्भूत रागवती होकर मैं अपनी प्रियसखी 'चन्द्रसेना द्वारा आपकी कथा-वार्त्ताओंसे समाश्वासित की गयी। मेरे पापी भाई भीमधन्वाद्वारा आप समुद्रमें डुबवाये गये। यह वृत्त सुनकर मैं अपने परिजन और सहचरियोंको छलकर अपनी आत्महत्याके लिये अकेली क्रीड़ावनमें भाग आयी । उस क्रीड़ावनमें इस मायावी राक्षसाधमने मेरे साथ कामेच्छा प्रकट की । भयान्वित मेरे द्वारा उसकी प्रार्थना तिरस्कृता होनेपर यह राक्षस मुझ कांपती हुई गात्रवालीको जबर्दस्ती पकड़कर ले भागा । वह इस पहाड़पर इस तरह लड़कर मर भी गया । सौभाग्यसे मैं अपने पतिके ( आपके ) हाथोंमें ही आ पड़ी । आप तो कुशलतासे हैं ?' ( ५१ ) इन बातोंको श्रवणकर मैं उस कन्दुुकावतीके साथ पहाड़परसे नीचे उतर आया तथा नावपर सवार हो गया । चलायी हुई नाव अनुकूल पवनके कारण सोधी उसी दामलिप्ता नगरीमें पहुँची । हम लोग बिना परिश्रमके किनारे पर उतर गये ।
षष्ठोच्छ्वासः ] बालविबोधिनीव्याख्यासहितम् । ३७७ 'तनयस्य च तनयायाश्च नाशादनन्यापत्यस्तुङ्गधन्वा सुह्मपतिर्निष्कलः स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तुं प्रतिष्ठते । सह तेन मर्तुमिच्छत्यनन्यनाथोऽनुरक्तः पौरवृद्धलोकः' इत्यश्रुमुखीनां प्रजाना- माक्रन्दमश्रृणुम । (५२) अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्यद्वयं प्रत्यर्पित- वान् । प्रीतेन तेन जामाता कृतोऽस्मि दामलिप्तेश्वरेण । तत्पुत्रो मदनु- जीवी जातः । मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासम- भजत् । ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्य भर्तुस्तव दर्शनोत्सवसुखम- नुभवामि' इति । रूढा तीरमागता । तनयस्य पुत्रस्य भीमधन्वनः । तनयायाः कन्दुकावत्याः । अनन्यापत्यः अनपत्यः । निष्कलो वृद्धः । सकलत्रः सदारः । निष्कलङ्केति निष्क- लङ्के निष्पापे गङ्गारोधसि गङ्गातटे । अनशनेन उपवासेन । उपरन्तुं मर्तुम् । प्रति- ष्ठते यात्रां करोति । तेन राज्ञा तुङ्गधन्वना । अनन्यनाथः अशरणः अश्रुमुखीनां सवाष्पवदनानाम् । आक्रन्दं विलापम् । (५२) अहं मित्रगुप्तः । यथावृत्तं यावत्संघटितम् । तदपत्यद्वयं-भीमधन्वानं कन्दुकावतीञ्च । तेन तुङ्गधन्वना । तत्पुत्रः राजपुत्रो भीमधन्वा । मदाज्ञप्तेन- मदादिष्टेन । अमुना भीमधन्वना । उज्झिता-त्यक्ता । नावसे उतरकर हम लोगोंने आखोंमें आँसू भरे हुए प्रजाजनोंको विलाप करते हुए देखा । बात यह थी कि वृद्ध सुह्मपति महाराज तुंगधन्वा अपने पुत्र भीमधन्वा और पुत्री कन्दुकावतीकी मृत्युसे बड़े दुःखी हुए । साथ ही अन्य सन्तान न होने से उन्होंने निष्कलंकिनी गंगाके किनारे जाकर अपनी रानीके सहित अनशन (उपवास) करके प्राणोंको त्यागनेकी ठानी थी। उसके साथ नगरके वृद्ध लोगोंने भी अपने प्राणोंको अनाथ होनेके कारण तथा राजभक्तिके कारण त्यागना ठाना था । (५२) विलाप सुनने के पश्चात् मैंने महाराज तुंगधन्वाको उनकी दोनों सन्तानें अर्पणकर दीं और सभी घटनाएँ भी बतला दीं। उन महाराज दामलिप्तेश्वरने प्रीतिसे मुझे जामाता बनाया। उनका पुत्र भीमधन्वा मेरा अनुजीवी हुआ। मेरी आज्ञासे उसने प्राणके समान चन्द्रसेनाको त्याग दिया जो कोशदासकी सेविका हो गयी। इसके बाद राजा सिंहवर्माकी सहायताके लिये मैं (मित्रगुप्त) यहांपर आया और हे स्वामिन् ! आपके दर्शनसुखके उत्सवका अनुभव कर रहा हूं।'
CC-0. In Public Domain. Digitization by eGangotri.Funding: MIDF ३७८ दशकुमारचरितम् । [ उत्तरपीठिकायां ( ५३ ) श्रुत्वा 'चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकारः' इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः । स किल करकमलेन किञ्चित्संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलाधरमणिनिरोष्ठ्यवर्णमात्मच- रितमाचचक्ष— इति श्रीदण्डिनः कृतौ दशकुमारचरिते मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः । ( ५३ ) चित्रा विस्मयोत्पादिका । अवसरेषु-योग्यसमयेषु । पुष्कलः प्रचुरः महान् इति यावत् । स्मितेति-स्मितेन मन्दहास्येन अभिषिक्तौ लिप्तौ दन्तच्छदौ ओष्ठाधरौ यस्य सः । मन्त्रगुप्ते तन्नामककुमारे । पातयामास अर्पयामास । स मन्त्रगुप्तः । किञ्चित्संवृताननः-ईषदावृतमुखः । ललितेति-ललितवल्लभया प्रिय- दयितया रभसेनौत्सुक्येन पौर्वापर्यमविचार्यैव वा दत्तं यद्दन्तक्षतं तेन यद् व्यसनं पीडा तेन विह्वलश्चञ्चलोऽधरमणिरधरबिम्बं यस्य सः । निरोष्ठ्यवर्णं तदोष्ठे क्षत- सत्त्वात् ओष्ठ्यवर्णरहितम् । इति श्रीताराचरणभट्टाचार्यकृतायां बालविबोधिनीसमाख्यायां दशकुमारचरितव्याख्यायां मित्रगुप्तचरितं नाम षष्ठ उच्छ्वासः । ( ५३ ) राजवाहनने इन बातोंको सुनकर कहा—दैवगति बड़ी विस्मयकारिणी होती है तथा समयपर पुरुषार्थ भी अति उपकारी होती है । तत्पश्चात् मन्द मुसकान- द्वारा दोनों अधरोंको अनुलिप्त करके देव राजवाहनने हर्षयुक्त विस्फारित नयनोंसे मन्त्रगुप्तकुमारको देखा । तब उस मन्त्रगुप्त ने भी कमलरूपी हाथोंसे ओठको थोड़ा आच्छादित करते हुए अपना वृत्तान्त कहना आरम्भ किया । उसके ओंठपर उसकी सुन्दरी कामिनीद्वारा दन्तक्षत कर दिया गया था । जिस दन्तक्षतकी व्यथासे उसके अधरविम्ब व्याकुल थे । अतः मन्त्रगुप्तने ओष्ठ्यवर्ण रहित वर्णोंमें अपना वर्णन प्रारम्भ किया । इस प्रकार से दशकुमार चरितके मित्रगुप्तचरितके षष्ठ उच्छ्वासकी हिन्दी टीका बालक्रीड़ा समाप्त हुई । Nepal Sanskrit University, Balmeeki Campus, Kathmandu
सप्तमोच्छ्वासः ( १ ) राजाधिराजनन्दन, नगरन्ध्रगतस्य ते गतिं ज्ञास्यन्नहं च गतः कदाचित्कलिङ्गान् । कलिङ्गनगरस्य नात्यासन्नसंस्थितजनदाहस्थान- संसक्तस्य कस्यचित्कान्तारधरणिजस्यास्तीर्णसरसकिसलयसंस्तरे तले निषद्य निद्रालीढदृष्टिरशयिषि । गलति च कालरात्रिशिखण्डजालकान्ध- कारे, चलितरक्षसि क्षरितनीहारे निजनिलयनिलीननिःशेषजने नितान्त- ( २ ) अस्मिन् मन्त्रगुप्तचरिते ओष्ठ्यवर्णान् विहायैव पदानि निबद्धानि कवि- नेति द्रष्टव्यम् । नगरन्ध्रगतस्य पर्वतगुहाप्रविष्टस्य । ते = वाहनस्य । अहं मन्त्रगुप्तः । कलिङ्गान् तदाख्यप्रदेशान् । नात्यासन्नेति-नात्यासन्ने किञ्चिद्दूरे संस्थितमवस्थितं यत् जनदाहस्थानं श्मशानं तत्संसक्तस्य लग्नस्य । कान्तारधर- णscreen णिजस्य आरण्यकभूरुहस्य । आस्तीर्णेति-आस्तीर्णः विस्तारितः सरसकिसलयानां नवीनपल्लवानां संस्तरः शयनीयं यत्र तस्मिन् । तले इत्यस्य विशेषणमेतत् । निषद्य उपविश्य । निद्रालीढदृष्टिः निद्राक्रान्तनयनः । अशयिषि निद्रितोऽभवम् । गलति-नश्यति-अतिक्रामति सतीति यावत् । कालरात्रीति-कालरात्र्याः संहार- रजनीरूपाया भगवत्याः 'कालरात्रिर्महारात्रिर्मोहरात्रिश्च दारुणे'ति सप्तशत्युक्तेः । शिखण्डजालकं केशसमूहस्तद्वत् अन्धकारं यस्मिन् तत्र । चलितानि इतस्ततः सञ्चरणशीलानि रक्षांसि राक्षसा यस्मिन् तत्र । क्षरितो गलितः नीहारो हिमं यस्मिन् तत्र । निजनिलये स्वस्वगृहे निलीनाः स्थिता निःशेषा अखिला जना यस्मिन् तत्र । नितान्तं समधिकं शीतं यत्र तादृशे निशीथेऽर्धरात्रे । घनतरेति (१) [ इस मन्त्रगुप्तके चरितवर्णनमें दण्डि कविने ओष्ठ्यवर्ण रहित वर्णोंमें वर्णन किया है : ऐसा सुन्दर प्रयास शायद ही किसी अन्य उन्नत भाषामें दृष्टिगत हो, आश्चर्य तो यह है कि ओष्ठ्य वर्ण रहित होनेपर भी कथापाठमें कुछ भी अरोचकता वा कठिनताकी प्रतीति नहीं होती है ] मन्त्रगुप्त का चरित्र—राजाधिराजनन्दन ! जब आप पर्वतगुहामें प्रविष्ट हो गये तब आपकी गतिके जाननेके हेतु मैं ( मन्त्रगुप्त ) कलिङ्गदेशमें पर्यटन करते हुए पहुँचा । उस कलिङ्गदेशके समीपमें ही श्मशानकी भूमिसे सटे हुए एक वृक्षके नीचे नूतन पल्लवोंको एकत्र करके उनका बिछौना बनाकर मैं बैठ गया । और निद्रासे भरी आँखोंसे वहीं सो गया। कालरात्रिके केशसमूहके सदृश अन्धेरा होनेपर, राक्षसोंके इधर-उधर गमन करनेसे बर्फके गिरने पर, अपने-अपने गृहोंमें सभी जनोंके सो जानेपर, खूब ठण्ड पड़नेपर आधी रातमें, अत्यन्त सान्द्र तरुओंकी डालियोंके २५ द० कु० उ० Nepal Sanskrit University, Balmeeki Campus, Kathmandu