भारतकोश
संग्रह पर लौटें

गदनिग्रह (आचार्य सोढल - कायचिकित्सा एवं रोग-विनिश्चय सटीक)

Gadanigraha of Acharya Sodhala with Commentary

आचार्य सोढल द्वारा

DevanagariHindipublished286 पृष्ठ

५.] गदनिग्रहः । १६३ मुक्त्वा जीर्णं वपुश्चाम्यमवापुस्तरुणं वयः । वीततन्द्रा-क्लम-श्वासा निरातङ्काः समाहिताः ॥ २७६ ॥ मेधास्मृतिबलोपेताश्चिरकालं तपोधनाः । ब्राह्मं तपो ब्रह्मचर्यं चेरुश्चात्यन्तनिष्ठया ॥ २७७ ॥ आयुष्कामः प्रयुञ्जानो ब्राह्मं हीदं रसायनम् । दीर्घमायुर्बलं चाग्र्यं कामांश्चेष्टान्समश्नुते ॥ २७८ ॥ क्षतक्षीणेऽमृतप्राशावलेहः । जीवकर्षभकौ वीरा जीवन्ती नागरं शठी । पर्ण्यश्चतस्रो द्वे मेदे काकोल्यौ द्वे निदिग्धिके ॥२७९॥ पुनर्नवे द्वे मधुकमात्मगुप्ता शतावरी । ऋद्धिः पुरुषकं भार्गी मृद्वीका बृहती तथा ॥ २८० ॥ शृङ्गाटकी तामलकी पयस्या पिप्पली बला । बदराक्षोटखर्जूरवातामामिषुकाणि च ॥ २८१ ॥ फलानि चैवमन्यानि कल्कान्कुर्वीत कार्षिकान् । धात्रीरसविदारीक्षुच्छागमांसरसान् पयः ॥ २८२ ॥ दत्त्वा प्रस्थोन्मितान् भागान् घृतप्रस्थं विपाचयेत् । प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २८३ ॥ ततो मात्रां प्रयुञ्जीत क्षीरमांसरसाशनः । नष्टशुक्रक्षतक्षीणदुर्बलान् व्याधिकर्षितान् ॥ २८४ ॥ स्त्रीप्रसक्तान् कृशान्वर्णस्वरहीनांश्च बृंहयेत् । कासहिक्काज्वरश्वासतृष्णादाहान् सपैत्तिकान् ॥ २८५॥ निहन्ति छर्दिमूर्च्छाहृद्योनिमूत्रामयापहम् । लघुच्यवनप्राशोऽवलेहः । बिल्वादिपञ्चमूलाब्दबलापर्णीचतुष्टयम् । ऋद्धिकृष्णाशठीपथ्याजीवकर्षभकामृताः ॥ २८६ ॥ द्राक्षा पुनर्नवा मेदे जीवन्ती काकनासिका । उत्पलैलाजशृङ्गयश्च काकोली वृषचन्दनम् ॥ २८७ ॥

१६४ आयुर्वेदीयग्रन्थमाला । [लेहाधिकारः विदारीगोक्षुरव्याघ्रीपौष्करं च पलोन्मितम् । शतानि पञ्च धात्र्याश्च जलद्रोणे विपाचयेत् ॥२८८॥ पलद्वादशके भृष्टा धात्रीस्तास्तैलसर्पिषोः । सितार्धतुलया युक्ताः क्वाथं लौहे पुनः पचेत् ॥ २८९ ॥ द्वे पिप्पल्या पले वांश्याश्चत्वारः षट् च माक्षिकात् । चातुर्जातपलं तस्मिन् सिद्धशीते नियोजयेत् ॥ २९० ॥ हृद्रोगश्वासहृत्कासवातरक्तक्षयार्तिजित् । सेव्योऽयं च्यवनप्राशः स्वर्यो वृष्यो रसायनः ॥२९१॥ शोषेऽमृतप्राशोऽवलेहः । छागमांसरसक्षीरविदारीक्षुरसाढकम् । धात्रीफलरसं चैव मृद्वीकानां रसं घृतम् ॥ २९२ ॥ पृथक्प्रस्थोन्मितैरेतैः पचेत्कर्षसमैर्भिषक् । वाताममधुकाक्षोटशृङ्गाटककसेरुकाः ॥ २९३ ॥ परूषकं शठी भार्गी जीवन्ती च पुनर्नवा । खर्जूरं पिप्पली शृङ्गी ह्यात्मगुप्ता सजीवका ॥ २९४ ॥ सिंही व्याघ्रपदी स्याच्च द्राक्षा तामलकी स्थिरा । बदरं कदरं चैव जीवनीयानि यानि च ॥ २९५ ॥ तत्सिद्धं राजते पात्रे निधेयं साधु साधितम् । प्रस्थार्धं मधुनः शीते शर्करार्धतुलां तथा ॥ २९६ ॥ त्वगेलापत्रमरिचचूर्णं चार्धपलोन्मितम् । विनीय भक्षयेन्मात्रां लिह्याद्वापि यथाबलम् ॥ २९७॥ बलवर्णकरं वृष्यं बृंहणं स्वरबोधनम् । कासश्वासारुचिं हन्यात्तृण्मूर्च्छासृग्दरं तथा ॥ २९८ ॥ परं क्षीणक्षतहितं वन्ध्यापुत्रप्रदायि च । अमृतप्राशनामेदममृतं देवताविव ॥ २९९ ॥ इति श्रीवैद्यसोढलप्रथिते गदनिग्रहेऽवलेहाधिकारः पञ्चमः संपूर्णः ॥

६.] गदनिग्रहः । १६५ ॥ अथातः षष्ठ आसवाधिकारः प्रारभ्यते ॥ कुमार्थासवः । द्रोणमानं कुमार्यास्तु रसं भाण्डे निधापयेत् । तुलार्धं दशमूलं तु तदर्धं पौष्करी जटा ॥ १ ॥ तत्समं धन्वयासं च चित्रार्थं च परिक्षिपेत् । प्रस्थार्थममृता ज्ञेया तदर्थमभया तथा ॥ २ ॥ लोध्रकामलकं पथ्यं मञ्जिष्ठा च कलिद्रुमः । चव्यं च कुष्ठमधुकं कपित्थं सुरदारुकम् ॥ ३ ॥ कृमिशत्रुर्मागधिका भार्गी स्यादष्टवर्गकम् । जीरकं क्रमुको रास्ना शठी रेणुकमेव च ॥ ४ ॥ शृङ्गी निशा प्रियङ्गुश्च मांसी मुस्ता च सारिवा । वासा वरी शक्रबीजं नागकेसरमेव च ॥ ५ ॥ पुनर्नवा समांशानि षड्भिर्द्रोणैर्जलस्य तु । क्वाथयेदनया रीत्या चतुर्थांशं जलं नयेत् ॥ ६ ॥ त्रिंशत्पला च मृद्वीका दन्तसंख्यापलं मधु । गुडस्तुलाचतुष्कं च तदर्धा धातकी भवेत् ॥ ७ ॥ पलद्वयं लवङ्गानि कङ्कोलं मलयोद्भवम् । चातुर्जातं तथा कृष्णा मरिचं जातिपत्रकम् ॥ ८ ॥ आकल्लुकं जातिफलं कपिकच्छुश्च दीप्यकम् । वचा खदिरसारश्च दहनं जीरकं तथा ॥ ९ ॥ यवानी वालकं विश्वा मुस्ता धान्यं हरीतकी । हपुषा तिन्तिडीकं च चूर्णमेषां प्रयोजयेत् ॥ १० ॥ भाण्डे पुराणे सुस्निग्धे धूपिते गन्धभेषजैः । कोष्ठसारे तथा तप्ते भूमौ मासं विनिःक्षिपेत् ॥ ११ ॥ यो रोगी प्रातरुत्थाय पलमेकं तु भक्षयेत् । धातुक्षयं जयेत्कासं श्वासं पञ्चविधं तथा ॥ १२ ॥

१६६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः अशांसि वातरोगांश्च ग्रहणीपाण्डुकामलाः । हलीमकमुदावर्त्तं गुल्मं पञ्चविधं जयेत् ॥ १३ ॥ आध्मानं कुक्षिशूलं च प्रत्याध्मानं गुदग्रहम् । अष्ठीलिकां च हृद्रोगानेतान् व्याधीन्विनिर्जयेत् ॥ १४ ॥ कुमार्यासव इत्येष कथितः शूलपाणिना । द्वितीयः कुमार्यासवः । रसस्तुलार्धं कौमारस्तदर्धंगुडमिश्रितः । चातुर्जातलवङ्गानां सैन्धवस्य निशाद्वयोः ॥ १५ ॥ कुबेरकृष्णामरिचधातकीनां पलं पलम् । पथ्याचूर्णं पलयुगं पलं चाकल्लुकस्य तु ॥ १६ ॥ उग्रगन्धाजातिपत्रीविडङ्गानां पलं पलम् । एकीकृत्य शुचौ भाण्डे पक्षमेकं निधापयेत् ॥ १७ ॥ पलार्धं भक्षयेन्नित्यं गुल्मोदावर्त्तनाशनः । आध्मानं पार्श्वशूलं च जठरार्तिं कफं हरेत् ॥ १८ ॥ मन्दाग्निं शमयेच्छ्वासं कासं हिक्कां क्षयं तथा । यकृत्प्लीहं तथा शोफं नाशयेत्येष सेवितः ॥ १९ ॥ नवविधा आसवयोनिः । त्वक्पत्रकाण्डपुष्पाणि सारमूलफलानि च । धान्यानि च सिता चापि नव आसवयोनयः ॥ २० ॥ द्रव्यसंयोगतः संख्यातीताः पथ्यतमाश्च ते । द्रव्याणां भेदतो वेदवसु(८४)संख्याः प्रकीर्त्तिताः २१ तद्यथा— षड् धान्यासवाः । सुरासौवीरमैरेयधान्याम्लतुषोदकाः । समेदा रससंख्यास्ते आसवा धान्यतो मताः ॥ २२॥ षड्विंशतिः फलासवाः । द्राक्षाखर्जूरकाश्मर्यजम्ब्वामलविभीतकैः । धन्वराजादनैः पद्मातृणशून्यपरूषकैः ॥ २३ ॥

६.] गदनिग्रहः । १६७ कपित्थम्गलिण्डिकाकार्कन्धूबदरीफलैः । पियालपनसप्लक्षन्यग्रोधोदुम्बरैः सह ॥ २४ ॥ कपीनपीलुबकुलाजमोदाशङ्खिनीफलैः । शृङ्गाटाश्वत्थसंयुक्तः षड्विंशाः फलतो मताः ॥ २५॥ एकादश मूलासवाः । विदारिगन्धाश्वगन्धाकृष्णगन्धाशतावरी- । श्यामोरूबूकदन्तीभिर्बिल्ववह्नित्रिवृत्समैः ॥ २६ ॥ मूलैरेकादशैते तु मुनिभिर्मूलतो मताः । विंशतिः सारासवाः । शालप्रियङ्गुस्यन्दनचन्दनखदिरार्जुनैश्च कदरयुतैः । अशनाश्वकर्णसप्तपर्णशमीशिंशिपासहितैः ॥ २७ ॥ अरिमेदतिन्दुकणिहीशुक्तिशिरीषैश्च वञ्जुलसमेतैः । धन्वनमधुकसारैर्विंशतिरात्रेयमुनिनोक्ताः ॥ २८ ॥ दश पुष्पासवाः । पद्मोत्पलनलिनकुमुदसौगन्धिकपौण्डरीकशतपत्रैः । पुष्पैर्मधूकजातैः प्रियङ्गुना धातकीकुसुमैः ॥ २९ ॥ दश पुष्पासवाः पूर्वं मुनिभिः परिकीर्तिताः । चत्वारः काण्डासवाः । चत्वारः काण्डकैः पुण्ड्रेक्षुकाण्डेक्ष्विक्षुवालिकैः ॥३०॥ द्वौ पत्रासवौ । पटोलकतमालाभ्यां द्वौ हि पत्रासवौ मतौ । चत्वारस्त्वगासवाः । तिल्वैलवालुक्रमुकैः सलोध्रैस्त्वकृता हिताः ॥ ३१ ॥ शर्करासवः । शर्करासवं एवैको द्रव्यसंयोगमागतः । आसवानां विकल्पसंस्कारगुणाः । विकल्पा बहुधा ज्ञेयाः संस्कारश्च यथाविधिः ॥ ३२ ॥

१६८ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः स्वयोनिसंस्कृता ह्येते स्वं स्वं कर्म प्रकुर्वते । संयोगसंस्कृतैर्देशकालमात्रस्वभावतः ॥ ३३ ॥ पृथक्तेषां स्वभावांस्तु ज्ञात्वा कार्ये प्रयोजयेत् । श्लोकद्वयमिहार्थे तु मुनिरात्रेय उक्तवान् ॥ ३४ ॥ मनःशरीराग्निवलप्रदानामश्मशोकारुचिनाशनानाम् । हर्षप्रदानां प्रवरासवानामशीतिरुक्ता चतुरुत्तरैषा ॥ ३५ ॥ शरीररोगप्रकृतौ मतानि तत्त्वेन चाहारविनिश्चयाय । उवाच यज्ञःपुरुषादिकेऽस्मिन्मुनिस्तथाग्याणि वरासवांश्च ३६ वातव्याधौ विडङ्गासवः । विडङ्गं पिप्पलीमूलं पाठा धात्र्येलवालुकम् । कुटजत्वक्फलं रास्नां भार्गी पञ्चपलोन्मितान् ॥ ३७ ॥ अष्टद्रोणेऽम्भसः पक्त्वा द्रोणशेषं तु कारयेत् । पूते शीते क्षिपेत्तस्मिन्माक्षिकस्य शतत्रयम् ॥ ३८ ॥ धातक्या विंशतिपलं चूर्णं कृत्वा तु दापयेत् । व्योषस्य तु पलान्यष्टौ त्रिजातद्विपलान्यपि ॥ ३९ ॥ फलिनीहेमतोयानां सरोद्राणां पलं पलम् । घृतभाण्डे समाधाय मासमेकं विधारयेत् ॥ ४० ॥ एष योगो हरत्येव प्रत्यष्ठीलाभभगन्दरान् । ऊरुस्तम्भाश्मरीमेहगण्डमालां सविद्रधिम् ॥ ४१ ॥ आढ्यवातं हनुस्तम्भं विडङ्गाख्यो महासवः । प्रमेहे रोध्रासवः । रोध्रं शठीं पुष्करमूलमेलां मूर्वा विडङ्गं त्रिफलां यवानीम् । चव्यं प्रियङ्गुं क्रमुकं विशालां किराततिक्तं कटुरोहिणीं च ४२ भार्गीनतं चित्रकपिप्पलीनां मूलं सकुष्ठातिविषां च पाठाम् । कलिङ्गकान् केसरमिन्द्रसाह्वं नखं सपत्रं मरिचं प्लवं च ॥ ४३ ॥ द्रोणेऽम्भसः कर्षसमानि पक्त्वा पूते चतुर्भागजलावशेषे । रसेऽर्धमाघे संक्षुनः प्रदक्ष्य पक्षं निधेयो घृतभाजनस्थः ॥ ४४ ॥

६.] गदनिग्रहः । १६९ रोध्रासवोऽयं कफपित्तमेहान्क्षिप्रं निहन्याद्विपलप्रयोगात् । पाण्ड्वामयार्शांस्यर्रुचिं ग्रहण्या दोषं किलासं विविधं च कुष्ठम् ४५ प्रमेहे देवदार्वासवः । देवदारुतुलार्धं तु वासायाः पलविंशतिः । शक्राह्वदन्तीमञ्जिष्ठास्तगरं रजनीद्वयम् ॥ ४६ ॥ रास्ना मुस्तं शिरीषं च कृमिघ्नं खदिरार्जुनौ । भागान्दशपलान्कृत्वा गुडूच्याश्चित्रकस्य च ॥ ४७ ॥ चन्दनस्य यवान्याश्च रोहिण्या वत्सकस्य च । भागान् पञ्चपलानेतानष्टद्रोणेऽम्भसः पचेत् ॥ ४८ ॥ द्रोणशेषे कषाये तु पूते शीते प्रदापयेत् । धातक्याः षोडशपलं माक्षिकस्य तुलात्रयम् ॥ ४९ ॥ चतुःपलं त्रिजाताच्च व्योषस्य च पलद्वयम् । पलद्वयं केसरस्य प्रियङ्गोश्च पलद्वयम् ॥ ५० ॥ घृतभाण्डे निदध्याच्च मासमेकं प्रयत्नतः । प्रमेहान्मूत्रकृच्छ्रांश्च वातरोगान् सुदारुणान् ॥ ५१ ॥ ग्रहण्यर्शोविकारांश्च देवदार्वासवो जयेत् । कुष्ठे कनकारिष्टः । खदिरकषायद्रोणं कुम्भे घृतभाविते समावाप्य । पलिकां मात्रां क्षेप्यां कृत्वा तामेव सूक्ष्मचूर्णं तु ॥ ५२ ॥ त्रिफलात्रिकटुकराजनीकतकत्वग्बाकुचीगुडूच्यश्च । सविडङ्गमत्र मधुपलशतद्वयं प्रक्षिपेत्सर्वम् ॥ ५३ ॥ धातकीपलान्यष्टौ क्वाथे चास्मिन्प्रदेयानि । प्रातः प्रातस्तु पिबेन्नाशयति चिरोत्थितं कुष्ठम् ॥ ५४ ॥ मासेन सर्वरोगान्निहन्ति च शोफमेहांश्च । निर्जितकासश्वासो गुदकीलभगन्दरैर्विनिर्मुक्तः ॥ ५५ ॥ कनकारिष्टं प्रपिबन्भवति पुमान्कनककान्तिश्च । १५

१७० आयुर्वेदौयग्रन्थमाला । [ आसवाधिकारः अर्शसि द्वितीयकनकारिष्टः । नवस्यामलकसैकां कुर्याज्जर्जरीतां तुलाम् । कुडवांशश्व मागध्या विडङ्गं मरिचानि च ॥ ५६ ॥ यवासः पिप्पलीमूलं क्रमुकं चव्यचित्रकौ । मञ्जिष्ठैल्वालुकं रोध्रं पलिकान्युपकल्पयेत् ॥ ५७ ॥ कुष्ठं दारुहरिद्रां च सुराहं सारिवाद्वयम् । मुस्तमिन्द्रयवांश्चैव कुर्यादर्धपलोन्मितान् ॥ ५८ ॥ चत्वारि नागपुष्पस्य पलान्यभिनवस्य च । जलद्रोणद्वयेनैतत्सादधित्वाऽवतारयेत् ॥ ५९ ॥ द्रोणावशेषे पूते च शीते तस्मिन्प्रदापयेत् । मृद्वीकाद्वाढकरसं शीतं निर्यूहसाधितम् ॥ ६० ॥ शर्करायाश्च शुद्धाया दद्याद्द्विगुणितां तुलाम् । कुसुमस्वरसस्यैकमर्धप्रस्थं नवस्य च ॥ ६१ ॥ त्वगेलाप्लवपत्राम्बुसेव्यक्रमुककेसरान् । संचूर्णयित्वा मतिमान्कार्षिकान्संप्रदापयेत् ॥ ६२ ॥ तत्सर्वं स्थापयेत्पक्षं सुचौक्षे घृतभाजने । प्रलिप्ते सर्पिषा किंचिच्छर्करागुरुधूपिते ॥ ६३ ॥ पक्षादूर्ध्वमरिष्टोऽयं कनको नाम विश्रुतः । पेयः खांडुरसो हृद्यः प्रयोगाद्भक्तरोचकः ॥ ६४ ॥ अर्शांसि ग्रहणीदोषमानाहमुदरं ज्वरम् । हृत्पाण्डुरोगश्वयथुगुल्मवर्चोनिलग्रहान् ॥ ६५ ॥ कासान्कफामयांश्चोग्रान्सर्वानेवापकर्षति । वलीपलितखालित्यं दोषजं तु व्यपोहति ॥ ६६ ॥ ग्रहण्यां दुरालभारिष्टः । दुरालभाया द्विप्रस्थं प्रस्थमामलकस्य च । शुण्ठी चित्रकदन्त्योर्द्वे प्रत्यग्रं चाभयाशतम् ॥ ६७ ॥ चतुर्द्रोणेऽम्भसः क्वाथ्यं शीतं द्रोणावशेषितम् ।

६.] गदनिग्रहः । १७१ गुडस्य द्विशतं पूतं मधुनः कुडवान्वितम् ॥ ६८ ॥ तद्धत्प्रियङ्गोः पिप्पल्या विडङ्गानां च चूर्णकम् । कुडवं घृतकुम्भस्थं पक्षादूर्ध्वं पिबेन्नरः ॥ ६९ ॥ ग्रहणीपाण्डुरोगार्शःकुष्ठवीसर्पमेहनुत् । स्वरवर्णकरश्चैव रक्तपित्तकफापहः ॥ ७० ॥ अर्शसि दन्त्यरिष्टः । दन्तीचित्रकमूलानामुभयोः पञ्चमूलयोः । भागान्पलांशानापोथ्य जलद्रोणे विपाचयेत् ॥ ७१ ॥ त्रिपलं त्रिफलायाश्च दलानां तत्र दापयेत् । रसे चतुर्थशेषे तु पूते शीते प्रदापयेत् ॥ ७२ ॥ तुलां गुडस्य तत्तिष्ठेन्मासार्धं घृतभाजने । तन्मात्रया पिबेन्नित्यमर्शेभ्यः स विमुच्यते ॥ ७३ ॥ ग्रहणीपाण्डुरोगघ्नं वातवर्चोऽनुलोमनम् । दीपनं चारुचिहरं दन्त्यरिष्टमिमं विदुः ॥ ७४ ॥ अर्शसि अभयारिष्टः । हरीतकीनां प्रस्थार्धं प्रस्थमामलकस्य च । कपित्थानां दशपलं ततोऽर्धं चेन्द्रवारुणी ॥ ७५ ॥ विडङ्गं पिप्पली रोध्रं मरिचं सैलवालुकम् । द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ७६ ॥ द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् । गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ ७७ ॥ पक्षादूर्ध्वं भवेत्पेया ततो मात्रा यथाबलम् । अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ७८ ॥ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः । कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ७९ ॥ सिद्धोऽयमभयारिष्टः कामलाशिव्रनाशनः । कृमिग्रन्थ्यर्बुदव्यङ्गराजक्ष्मज्वरान्तकृत् ॥ ८० ॥

१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां द्वितीयोऽभयारिष्टः । हरीतकीदलप्रस्थं प्रस्थमामलकस्य च । विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् । पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥ गुडसैकां तुलां वैद्यः संस्थाप्य घृतभाजने । पक्षस्थितं पिबेन्नित्यं ग्रहणीर्शोविकारनुत् ॥ ८३ ॥ प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् । कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥ प्रमेहे तृतीयोऽभयारिष्टः । पलाष्टकांशा वर्षाभूदशमूलार्कचित्रकाः । दन्तीश्यामात्रिवृद्द्द्वाक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥ अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते । द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥ गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा । विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥ संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् । आभयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥ प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् । पाण्डुरोगे मण्डूरारिष्टः । मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥ तद्वल्लोहस्य पत्राणि तिलोत्सेधप्रमाणतः । गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥ निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते । पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥ त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् । अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥

६.] गदनिग्रहः । १७३ दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति । कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥ एषोऽरिष्टस्तु माण्डूरः शोफपाण्ड्वामयापहः । क्षयरोगे पिप्पल्यारिष्टः । पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥ चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् । मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥ पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् । एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥ पलानि दश धातक्या गुडस्य च शतत्रयम् । तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥ ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः । पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥ शोफेऽष्टशतारिष्टः । काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् । शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९ सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेच्चा । शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १०० तक्रारिष्टः । हपुषा सुषवी धान्यमजाजी कारवी शठी । पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥ यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् । मन्दाम्लकटुकं विद्वान् स्थापयेद्धृतभाजने ॥ १०२ ॥ व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् । पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥ दीपनो रोचनो बल्यः कफवातानुलोमनः । १. ‘क्षयक्षयकरः परम्’ इति पाठान्तरम् ।

१७२ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां द्वितीयोऽभयारिष्टः । हरीतकीदलप्रस्थं प्रस्थमामलकस्य च । विशालायाः कपित्थस्य पाठाचित्रकमूलयोः ॥ ८१ ॥ द्वे द्वे पले समापोथ्य द्विद्रोणे साधयेदपाम् । पादशेषे च पूते च रसे तस्मिन्प्रदापयेत् ॥ ८२ ॥ गुडस्यैकां तुलां वैद्यः संस्थाप्य घृतभाजने । पक्षस्थितं पिबेन्नित्यं ग्रहण्यर्शोविकारनुत् ॥ ८३ ॥ प्लीहहृत्पाण्डुरोगघ्नः कामलाविषमज्वरान् । कासं श्वासमुदावर्तं फलारिष्टो व्यपोहति ॥ ८४ ॥ प्रमेहे तृतीयोऽभयारिष्टः । पलाष्टकांशा वर्षाभूर्दशमूलार्कचित्रकाः । दन्ती श्यामात्रिवृद्राक्षाश्चैवं स्युस्त्रिफलाढका ॥ ८५ ॥ अम्बुद्रोणाष्टके पक्त्वा पादशेषे रसे हृते । द्वे गुडस्य तुले पूते तत्पश्चाद्धटके क्षिपेत् ॥ ८६ ॥ गवां मूत्राढकं, प्रस्थौ द्वावयोरजसस्तथा । विडङ्गं कुटजं कुष्ठं चित्रकं मरिचं वचा ॥ ८७ ॥ संचूर्ण्य द्विपलान्यस्मिन्दत्त्वा मासस्थितं पिबेत् । आमयोऽयमरिष्टेन्द्रो मेहार्शःकुष्ठशोफहा ॥ ८८ ॥ प्लीहपाण्ड्वामयान् गुल्मान् जठराणि च नाशयेत् । पाण्डुरोगे मण्डूरारिष्टः । मण्डूरस्य तु शुद्धस्य तुलार्धं परिकल्पितम् ॥ ८९ ॥ तदर्द्धलोहस्य पत्राणि तिलोत्सेधप्रमाणतः । गुडाज्जीर्णात्तु पञ्चाशत्कोलप्रस्थत्रयं तथा ॥ ९० ॥ निकुम्भचित्रकाभ्यां च पले द्वे द्वे सुचूर्णिते । पिप्पलीनां विडङ्गानां कुडवं कुडवं पृथक् ॥ ९१ ॥ त्रींश्चापि त्रिफलाप्रस्थान् जलद्रोणे विपाचयेत् । अर्धमासस्थितो धान्ये पेयोऽरिष्टः प्रमाणतः ॥ ९२ ॥

६.] गदनिग्रहः । १७३ दोषानुभयतः स्राव्य पाण्डुरोगं नियच्छति । कृमीनर्शांसि कुष्ठं च कासश्वासकफामयान् ॥ ९३ ॥ एषोऽरिष्टस्तु माण्डूरः शोफपाण्डामयापहः । क्षयरोगे पिप्पल्यारिष्टः । पिप्पलीरोध्रमरिचपाठाधात्र्येलवालुकम् ॥ ९४ ॥ चव्यचित्रकजन्तुघ्नक्रमुकोशीरचन्दनम् । मुस्ताप्रियङ्गुलवलीहरिद्रामिशिप्लवम् ॥ ९५ ॥ पत्रत्वक्कुष्ठतगरं नागकेसरसंयुतम् । एषामर्धपलान् भागान् द्राक्षां षष्टिपलां क्षिपेत् ॥ ९६ ॥ पलानि दश धातक्या गुडस्य च शतत्रयम् । तोयद्रोणद्वये सिद्धो भवत्येष सुखावहः ॥ ९७ ॥ ग्रहणीपाण्डुरोगार्शःकासगुल्मोदरापहः । पिप्पल्यादिररिष्टोऽयं ज्वरारुचिविनाशनः ॥ ९८ ॥ शोफेऽष्टशतारिष्टः । काश्मर्यधात्रीमरिचाभयाक्षक्षुद्राफलानां तु सपिप्पलीनाम् । शतं शतं क्षौद्रगुडात् पुराणात्तुलां च कुम्भे मधुना प्रलिप्ते ९९ सप्ताहमुष्णे द्विगुणं तु शीते स्थितं जलद्रोणयुतं पिबेन्ना । शोफान्निबन्धान्कफवातजांश्च संहन्त्यरिष्टोऽष्टशतोऽग्निकृच्च १०० तक्रारिष्टः । हपुषा सुषवी धान्यमजाजी कारवी शठी । पिप्पली पिप्पलीमूलं चित्रको गजपिप्पली ॥ १०१ ॥ यवानी चाजमोदा च तच्चूर्णं तक्रसंयुतम् । मन्दाम्लकटुकं विद्वान् स्थापयेद्घृतभाजने ॥ १०२ ॥ व्यक्ताम्लकटुकं जातं तक्रारिष्टं मुखप्रियम् । पाययेन्मात्रया कालेष्वन्नस्य तृषितं त्रिषु ॥ १०३ ॥ दीपनो रोचनो बल्यः कफवातानुलोमनः । १. 'क्षयक्षयकरः परम्' इति पाठान्तरम् ।

१७४ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः गुदश्वयथुकण्ठार्त्तिनाशनो बलवर्धनः ॥ १०४ ॥ अरोचके लघुचुक्रसन्धानम् । गुडक्षौद्रारनालाનાં समस्तूनां यथोत्तरम् । शंसन्ति द्विगुणान्भागान्सम्यक्चुक्रस्य सिद्धये ॥ १०५ ॥ यन्मस्त्वारि शुचौ भाण्डे सक्षौद्रगुडकाञ्जिकम् । धान्यराशौ त्रिरात्रस्थं शुक्तं चुक्रं तदुच्यते ॥ १०६ ॥ मन्दाग्नौ बृहच्चुक्रसन्धानम् । प्रस्थं तण्डुलतोयतस्तुषजलात्प्रस्थत्रयं चाम्लतः प्रस्थार्धं दधितोऽथ मूलकपलान्यष्टौ गुडान्मानिका । मान्यौ शोधितशृङ्गवेरशकलाद् द्वे सिन्धुजातात्पले द्वे कृष्णोषणयोर्निशापलयुगं निःक्षिप्य भाण्डे दृढे ॥१०७॥ स्निग्धे धान्ययवादिराशिनिहितं त्रीन्वासराSubन्वासयेत् ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पाममे । षट् शीतेऽष्टदिनान्यतः परमिदं विस्राव्य संचूर्णितै- श्चातुर्जातपलैः सुसंहितमिदं शुक्तं च चुक्रं ततः ॥१०८॥ हन्याद्वातकफामदोषजनितान्नानाविधानामयान् । दुर्नामानिलशूलगुल्मजठरान्हृत्वाऽनलं दीपयेत् ॥ १०९ ॥ लवङ्गासवः । लवङ्गपिप्पलीलोहमरिचं सैलवालुकम् । द्विपलांशं जलस्यैतच्चतुर्द्रोणे विपाचयेत् ॥ ११० ॥ द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् । गुडस्य द्विशतं तिष्ठेत्तत्सर्वं घृतभाजने ॥ १११ ॥ पक्षादूर्ध्वं जातरसे दद्यान्मात्रां यथाबलम् । अस्याभ्यासादरिष्टस्य गुदजा यान्ति संक्षयम् ॥ ११२ ॥ ग्रहणीपाण्डुहृद्रोगप्लीहगुल्मोदरापहः । कुष्ठशोफारुचिहरो बलवर्णाग्निवर्धनः ॥ ११३ ॥ सद्यः क्षयहरोऽरिष्टः कामलाश्रित्रनाशनः ।

६.] गदनिग्रहः । १७५ कृमिग्रन्थ्यर्बुदव्यङ्गराजयक्ष्मज्वरान्तकृत् ॥ ११४ ॥ प्लीहे रोहीतकासवः । रोहीतकशतमेकं कथितं द्रोणे चतुर्थशेषे तु । तस्मिन्गुडशतमेकं योज्यं शेषैः सुचूर्णितैरेभिः ॥ ११५ ॥ पलमेकं त्रिफलाया देयं त्रिपलं च धातकीपुष्पात् । पलिकं च पञ्चकोलाद्धृतभाण्डे स्थापयेत्पक्षम् ॥ ११६ ॥ ज्वरगुल्मार्शःप्लीहरुग्विग्रहपाण्डुरोगघ्नः । अर्शस्सु गण्डिकाद्रोणः । दद्यात्सलिलद्रोणं कृतमन्येक्षुगण्डिकाद्रोणम् ॥ ११७ ॥ धान्ययवानीदीप्यकपृथ्वौकाश्वेति कुडवांशाः । द्विपलीनाः स्युर्देयास्तेजवतीचव्यचित्रकाजाज्यः ॥ ११८॥ मधुनः कुडवं दत्त्वा घृतरूढे भाजने स्थाप्यः । एष काञ्जिकराजो लवणयुतः कट्कतृणार्द्रकसुगन्धः॥११९॥ दशरात्रात्पातव्यः सलिलं च पुनः पुनर्देयम् । अर्शोभगन्दरगदग्रहणीमेदःप्रमेहदोषांश्च ॥ १२० ॥ नाशयति सेव्यमानो वह्निकरो गण्डिकाद्रोणः । कुष्ठे खदिरासवः । खदिरस्य तुलार्धं तु तत्तुल्यं देवदार्वपि ॥ १२१ ॥ वराया विंशतिर्दान्व्यर्याः पलानां पञ्चविंशतिः । बाकुच्या द्वादशपलांन्यष्टद्रोणेऽम्भसः पचेत् ॥ १२२ ॥ द्रोणशेषे कषाये तु पूते शीते विनिक्षिपेत् । धातक्या विंशतिपलं माक्षिकस्य शतद्वयम् ॥ १२३ ॥ शर्करायास्तुलामेकां चूर्णानीमानि दापयेत् । कङ्कोलकं लवङ्गं च एला जातीफलं त्वचम् ॥ १२४ ॥ केसरं मरिचं पत्रं पलिकान्युपकल्पयेत् । पिप्पलीनां तु कुडवं स्थापयेद्धृतभाजने ॥ १२५ ॥ १ 'वचायाः' इति पाठान्तरम् ।

१७६ आयुर्वेदीयग्रन्थमाला । [आसवाधिकारः मासादूर्ध्वं पिबेन्मात्रामपेक्ष्याग्निबलाबलम् । सर्वकुष्ठहरो ह्येष पाण्डुहृद्रोगकासनुत् ॥ १२६ ॥ कृमिग्रन्ध्यर्बुदग्रन्थिगुल्मप्लीहोदरान्तकृत् । एष वै खदिरारिष्टः कृष्णात्रेयेण पूजितः ॥ १२७ ॥ कुष्ठे द्वितीयः खदिरारिष्टः । खदिरस्य तुलामम्भसि विपचेच्चतुर्द्रोणसंमिते शेषम् । पादं विगृह्य शीते दद्यान्मधुनस्तुलां सार्धाम् ॥ १२८ ॥ वस्त्रविपूते चूर्णं व्योषत्रिफलापिण्डखर्जूरी- । स्वर्णत्वग्बाकुचिकामृताविडङ्गपलाशनाम् ॥ १२९ ॥ धातकिपलषोडशकं दत्त्वा प्रविलोडितं नित्यम् । यावत्षोडशदिवसाः षोडशके मधुतुलां दद्यात् ॥ १३० ॥ मासात्परतः पेयो दत्त्वा मृगनाभिमाषकं पटेबद्धम् । कर्पूरमाषद्वयमेष खदिरासवो महाकुष्ठे ॥ १३१ ॥ क्षयरोगे बब्बुल्यासवः । तुलाद्वयं तु बब्बुल्याश्चतुर्द्रोणेऽम्भसः पचेत् । द्रोणशेषे रसे शीते गुडस्य त्रिशतं क्षिपेत् ॥ १३२ ॥ धातक्याः षोडशपलं पिप्पलीनां पलद्वयम् । जातीलवङ्गकङ्कोलमेलात्वक्पत्रकेसरम् ॥ १३३ ॥ मरिचेन समायुक्तं पलिकांस्तत्र कल्पयेत् । मासमात्रं स्थितो ह्येष बब्बुल्यासवसंज्ञितः ॥ १३४ ॥ क्षयं कुष्ठं प्रमेहांश्च कासश्वासांश्च नाशयेत् । क्षयरोगे पुष्करमूलासवः । तुलां पुष्करमूलस्य तदर्धं तु दुरालभा ॥ १३५ ॥ तदर्धेन तु धान्याकं व्योषाच्च पलविंशतिः । मञ्जिष्ठाकुष्ठमरिचं कपित्थं देवदारु च ॥ १३६ ॥ रोध्रं कृमिघ्नं चविका पिप्पलीमूलमेव च । उशीरकाश्मरिफलं रास्ना भार्ङ्गी च नागरम् ॥ १३७ ॥

६.] गदनिग्रहः । १७७ एषां द्विपलिकान्भागंश्चतुर्द्रोणेऽम्भसः पचेत् । द्रोणशेषे कषाये तु पूते शीते प्रदापयेत् ॥ १३८ ॥ गुडस्य त्रिशतं तत्र धातक्याः पलविंशतिः । मरिचं केसरं श्यामामेलात्वक्पत्रकं पलम् ॥ १३९ ॥ पिप्पलीनां तु कुडवं चूर्णीकृत्य प्रदापयेत् । घृतभाण्डे स्थितं मासं पिबेन्मात्रां यथाबलम् ॥ १४० ॥ क्षयापस्मारकासासृक्शोफगुल्मभगन्दरान् । पुष्करासव इत्येष प्रयोगादेव नाशयेत् ॥ १४१ ॥ क्षयरोगे माचिकासवः । माचिकायाः शतार्धं तु द्रोणेऽपां च विपाचयेत् । चतुर्थशेषे तस्मिंस्तु पूते शीते प्रदापयेत् ॥ १४२ ॥ गुडस्य द्विशतं दत्त्वा तत्सर्वं घृतभाजने । विडङ्गपिप्पलीकृष्णात्वगेलापत्रकेसरैः ॥ १४३ ॥ मरिचैश्च तथा चूर्णं सम्यक्कृत्वा विचक्षणः । क्षिपेच्च पालिकैर्भागैर्घटनीयं समन्ततः ॥ १४४ ॥ ततो यथाबलं पीत्वा कासश्वासगलामयान् । हन्ति यक्ष्माणमत्युग्रमुरःसन्धानकारकः ॥ १४५ ॥ माचिकासव इत्येष ब्रह्मणा निर्मितः पुरा । शोफे पुनर्नवासवः । पुनर्नवे द्वे च पले सपाठे दन्ती गुडूची सह चित्रकेण । निदिग्धिका च त्रिपलानि पक्त्वा द्रोणावशेषे सलिले ततस्तु ॥ पूत्वा रसं द्वे च तुले पुराणाद्गुडान्मधुप्रस्थयुतं सुशीतम् । मासं निदध्याद्धृतभाजनस्थं पल्ले यवानां परतश्च मासात् १४७ चूर्णीकृतैरर्धपलांशकैस्तं हेमत्वगेलामरिचाम्बुपत्रैः । गन्धान्वितं क्षौद्रघृतप्रदिग्धं जीर्णे पिबेद्व्याधिबलं समीक्ष्य १४८ हृत्पाण्डुरोगं श्वयथुं प्रवृद्धं प्लीहभ्रमारोचकमेहगुल्मान् । भगन्दरार्शोजठराणि कासश्वासग्रहण्यामयकुष्ठकण्डूः ॥ १४९ ॥

१७८ आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः शाखानिलं बद्धपुरीषतां च हिक्कां किलासं च हलीमकं च । क्षिप्रं जयेद्वर्णबलायुरोजस्तेजोन्वितो मांसरसान्नभोजी ॥१५०॥ शोफे त्रिफलारिष्टः । फलत्रयं चित्रकपिप्पली च सदीप्यकं लोहरजो विडङ्गम् । चूर्णीकृतं कौडविकं, द्विरंशं क्षौद्रं, पुराणस्य तुलां गुडस्य । मासं निदध्याद्घृतभाजनस्थं यवेषु तानेवं निहन्ति रोगान्१५१ सर्वशोफे वासकासवः । वासकस्य तुले द्वे तु द्विद्रोणेऽपां विपाचयेत् । द्रोणार्धशेषं तत्कृत्वा पूते शीते प्रदापयेत् ॥ १५२ ॥ गुडस्यैकां तुलां तत्र धातक्यास्तु पलोष्टकम् । क्षिपेच्चूर्णीकृतं तस्मिंस्त्वगेलापत्रकेसरम् ॥ १५३ ॥ कङ्कोलव्योषतोयानि पलिकान्युपकल्पयेत् । सम्यक्पक्वं ततो ज्ञात्वा पक्षादूर्ध्वं पिबेदमुम् ॥ १५४ ॥ वासकासव इत्येष सर्वश्वयथुनाशनः । अर्शस्सु शर्करासवः । दुरालभायाः प्रस्थं च चित्रकस्य वृषस्य च ॥ १५५ ॥ पथ्यामलकयोश्चैव पाठाया नागरस्य च । दद्याद्द्विपलिकान्भागाञ्जलद्रोणे विपाचयेत् ॥ १५६ ॥ पादशेषे रसे पूते सुशीते शर्कराशतम् । दत्त्वा कुम्भे दृढे स्थाप्यं मासार्धं घृतभाजने ॥ १५७ ॥ प्रलिप्ते पिप्पलीचव्यप्रियङ्गुमधुसर्पिषा । तस्य मात्रां पिबेत्काले शर्करस्य यथाबलम् ॥ १५८ ॥ अर्शांसि ग्रहणीरोगमुदावर्तमरोचकम् । शकृन्मूत्रानिलोद्गारविबन्धानग्निमार्दवम् ॥ १५९ ॥ हृद्रोगं पाण्डुरोगं च सर्वमेतत्प्रसाधयेत् । १. पुनर्नवासवपठितानित्यर्थः ।

६.] गदनिग्रहः । १७९ ग्रहण्यां द्राक्षासवः । मृद्वीकायाः पलशतं चतुर्द्रोणेऽम्भसः पचेत् ॥ १६० ॥ द्रोणशेषे सुशीते च पूते तस्मिन्प्रदापयेत् । द्वे शते क्षौद्रखण्डाभ्यां धातक्याः प्रस्थमेव च ॥ १६१ ॥ कङ्कोलकलवङ्गे च जातीफलमथैव च । पलांशकानि मरिचत्वगेलापत्रकेसरम् ॥ १६२ ॥ पिप्पली चित्रकं चव्यं पिप्पलीमूलरेणुकम् । घृतभाण्डे स्थितं चेदं चन्दनागुरूधूपिते ॥ १६३ ॥ कर्पूरवासितो ह्येष ग्रहणीदीपनः परः । अर्शसां नाशनः श्रेष्ठ उदावर्तास्रपित्तनुत् ॥ १६४ ॥ जठरकृमिकुष्ठानि व्रणांश्च विविधांस्तथा । अक्षिरोगशिरोरोगगलरोगविनाशनः ॥ १६५ ॥ ज्वरं हन्ति महाव्याधिं पाण्डुरोगं सकामलम् । नाम्ना द्राक्षासवो ह्येष बृंहणो बलवर्णकृत् ॥ १६६ ॥ अर्शसि द्वितीयो द्राक्षासवः । द्राक्षापलशतं दत्त्वा चतुर्द्रोणेऽम्भसः पचेत् । द्रोणशेषे रसे तस्मिन्पूते शीते प्रदापयेत् ॥ १६७ ॥ शर्करायास्तुलां दत्त्वा तत्तुल्यं मधुनस्तथा । पलानि सप्त धातक्याः स्थापयेदाज्यभाजने ॥ १६८ ॥ जातीलवङ्गकक्कोललवलीफलचन्दनैः । कृष्णां त्रिगन्धसंयुक्तां भागैरर्धपलांशकैः ॥ १६९ ॥ त्रिःसप्ताहाद्भवेत्पेयं तत्र मात्रा यथाबलम् । नाम्ना द्राक्षासवो ह्येष नाशयेद्गुदकीलकान् ॥ १७० ॥ शोफारोचकहृत्पाण्डुरक्तपित्तभगन्दरान् । गुल्मोदरकृमिग्रन्थिक्षतशोषज्वरान्तकृत् ॥ १७१ ॥ वातपित्तप्रशमनः शस्तश्च बलवर्णकृत् ।

१८० आयुर्वेदीयग्रन्थमाला । [ आसवाधिकारः ग्रहण्यां बीजकासवः । बीजकात्षोडशपलं त्रिफलायाश्च विंशतिः ॥ १७२ ॥ द्राक्षायाः पञ्च लाक्षायाः सप्त द्रोणे तथाऽम्भसि । साध्यं पादावशेषे च पूतशीते प्रदापयेत् ॥ १७३ ॥ शर्करायास्तुलां प्रस्थं क्षौद्रं दद्याच्च कार्षिकम् । व्योषव्याघ्रनखोशीरं क्रमुकं सैलवालुकम् ॥ १७४ ॥ मधुकं कुष्ठमित्येतच्चूर्णितं घृतभाजने । यवेषु दशरात्रस्थं ग्रीष्मे, द्विः शिशिरे स्थितम् ॥ १७५ ॥ पिबेत्तद्ग्रहणीपाण्डुरोगार्शःशोफगुल्मनुत् । मूत्रकृच्छ्राश्मरीकुष्ठकामलासन्निपातनुत् ॥ १७६ ॥ अर्शसि पील्वासवः । द्रोणं पीलुरसस्य वस्त्रगलितं न्यस्तं हविर्भाजने युञ्जीत द्विपलैर्मदामधुफलाखर्जूरधात्रीफलैः । पाठामाद्रिदुरालभाम्लविदुलव्योषत्वगेलोल्लकैः स्पृक्काकोललवङ्गवेल्लचपलामूलाथिकैः पालिकैः॥१७७॥ गुडशतविनियोजितं निवाते निहितमिदं प्रपिबेच्च पक्षमात्रात् । निशमयति गुदाङ्कुरान्सगुल्मा- ननलबलं प्रबलं संविधत्ते ॥ १७८ ॥ रक्तपित्ते उशीरासवः । उशीरं पद्मकं रोध्रं प्रियङ्गुं नीलमुत्पलम् । प्रपौण्डरीकं काश्मीरं ह्रीबेरं धन्वयासकम् ॥ १७९ ॥ सेव्यं किराततिक्तं च पटोलं काञ्चनारकम् । पद्मं शाल्मलिनिर्यासं न्यग्रोधोदुम्बरं शठीम् ॥ १८० ॥ मञ्जिष्ठां पर्पटं जम्बू भागानैतान्पलोन्मितान् । सूक्ष्मचूर्णीकृतान् दद्याद्राक्षायाः पलविंशतिम् ॥ १८१ ॥ धातक्याः षोडशपलं तोयद्रोणे विनिक्षिपेत् ।