भारतकोश
संग्रह पर लौटें

गान्धर्व तन्त्र (शैव-शाक्त आगम - मन्त्र-रहस्य, यन्त्र एवं देवतोपासना सटीक)

Gandharva Tantra with Hindi Commentary

शिव-पार्वती संवाद द्वारा

DevanagariHindipublished446 पृष्ठ

वक्त्रकोटिसहस्रैस्तु जिह्वाकोटिशतैरपि । वर्णितुं नैव शक्येयं श्रीविद्या षोडशाक्षरी ॥ ५४ १॥ षोडशार्णा महाविद्या सर्वतन्त्रेषु गोपिता । तव स्नेहान्महेशानि गन्धर्वे वै प्रकाशिता ॥ ५५ ॥ इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे विद्याभेदोद्धारनिरूपणं नाम द्वितीयः पटलः ॥ २ ॥ १ 'शक्येऽह श्रीविद्या षोडशाक्षरीम्' ख पाठः ।

तृतीयः पटलः । देव्युवाच देवदेव जगन्नाथ भक्तानामार्तिनाशन । पञ्चपञ्चाक्षरीं विद्यां पञ्चमीं सर्वकामदाम् ॥ १ ॥ अधुना कथयेशान समग्रां पापनाशिनीम् । ईश्वर उवाच दुर्लभा पञ्चमी विद्या पञ्चकूटात्मिका शुभा ॥ २ ॥ भुक्तिमुक्तिप्रदा शुद्धा सुखदा दुःखनाशिनी । शृणु देवि प्रवच्यामि¹ यथा सा चिन्त्यते परा ॥ ३ ॥ गुरुभक्तेन शुद्धेन साधकेन सुबुद्धिना । देवी पञ्चात्मकं सर्वं जगदेतच्चराचरम् ॥ ४ ॥ पृथिव्यापस्तथा तेजो वायुराकाशमेव च । पृथिवी ब्राह्मणी शक्तिर्जलं नारायणी तथा ॥ ५ ॥ तेजो रुद्रस्य रुद्राणी वायुरीशस्य चेश्वरी । माहेश्वरी तथाकाशं शक्तिर्महेश्वरस्य च ॥ ६ ॥ - पञ्चदेवात्मकं पञ्च पञ्चमीपञ्चशक्तयः । या शक्तिः सर्वभूतानां जगच्चैतन्यरूपिणी ॥ ७ ॥ सा * एव पञ्चमीविद्या जगदाधाररूपिणी । सा एव हि जगत्सर्वं सा एव परमा कला ॥ ८ ॥

१ 'ख्या' ख पाठ ।

  • सन्धेरभाव ऽप्येष. एवमग्रेपि बोध्यम् ।

तृतीयः पटलः । १७ नान्यत् परतरं देवि विद्यते तद्वहिष्कृते । पञ्चविंशतितत्त्वेन कूटके पञ्च देवताः ॥ ९ ॥ आदौ कामेश्वरी ज्ञेया ततो वज्रेश्वरी शुभा । तृतीया भगमाला च तुर्या त्रिपुरसुन्दरी ॥ १० ॥ श्रीमत्त्रिपुरसुन्दर्याश्चिन्तनीया परा कला । सा एव पञ्चमी शक्तिः परब्रह्मस्वरूपिणी ॥ ११ ॥ परमानन्दरूपं यज्जगतां कारणं महत् । तस्या देव्यास्तु तद्रूपमुदयास्तविवर्जितम् ॥ १२ ॥ स्थूलत्वे स्थूलरूपा सा सूक्ष्मत्वे सूक्ष्मरूपिणी । स्थूलसूक्ष्मप्रभेदेन जगत्कारणरूपिणी ॥ १३ ॥ योऽसौ विश्वेश्वरो देवो विश्वं व्याप्य स्थितश्च यः । सैव विश्वेश्वरी देवी व्यापकत्वेन संस्थिता ॥ १४ ॥ नित्या सा सुखरूपा च महासुखशुभप्रदा । तत्स्वरूपानन्दमयी परमानन्दरूपिणी ॥ १५ ॥ किं पुनः शक्तिरूपेण परब्रह्मस्वरूपिणी । तस्याः पुनः पुनः सृष्टिर्जायते लीयते सदा ॥ १६ ॥ तस्माच्छक्तिः प्रधाना च शक्त्या व्याप्तमिदं जगत् । सर्वदानन्दहृदयश्चाद्वैतानन्दपारगः ॥ १७ ॥ समयाचारसंपन्नो भोगी भोगपरायणः । सदा ज्ञानविशुद्धात्मा गुरुभक्तो जितेन्द्रियः ॥ १८ ॥ गन्धर्वरूपवान् भूत्वा पञ्चमीं समुपासयेत् । पृथिव्यां मान (वो?वः) श्रेष्ठो यदि जानाति पञ्चमीम् ॥ १९ ॥

१८ गन्धर्वतन्त्रे । शापभ्रष्टेन गन्धर्वो न नरो दैवयोगतः । यो जानाति महाविद्यां पञ्चकूटात्मिकां पराम् ॥ २० ॥ स भवेत् खचरो देवि षण्मासान्नात्र संशयः । सदा ज्ञानविशुद्धात्मा मोक्षभागी भवेन्नरः ॥ २१ ॥ भोगेन लभते मुक्तिं यदि जानाति पञ्चमीम् । पञ्चपञ्चाक्षरीं विद्यां योऽसौ जानाति साधकः ॥ २२ ॥ स पूज्यः सर्वलोकेषु स देवो नतु मानुषैः¹ । त्रिकूटमेवं² कूटेषु कूटमेकं त्रिपञ्चकम् ॥ २३ ॥ पञ्चपञ्चाक्षरी विद्या त्रिकूटा पञ्चकूटकैः । पञ्चविंशतितत्त्वेन वर्णरूपेण संस्थिता ॥ २४ ॥ एकवर्णे त्रिकूटे च त्रिकूटे पञ्च देवताः । एकवर्णे पञ्चदश देवताः परिकीर्तिताः ॥ २५ ॥ पञ्चविंशतितत्त्वेन त्रिकूटे पञ्चसंख्यया । पञ्चसप्ततिपूर्वाणि तेन तासां शतत्रयम् ॥ २६ ॥ पञ्चकूटान्विता विद्या परा सौभाग्यसुन्दरी । वर्णरूपेण सा देवी जगदाधाररूपिणी ॥ २७ ॥ अक्षरात् सर्वमुत्पन्नं जगदेतच्चराचरम् । नित्यमेकाक्षरं ब्रह्म अक्षरं परमं पदम् * ॥ २८ ॥ जप्यमेकाक्षरं ब्रह्म आदिकूटान्तमध्यगम् । जप्त्वा तत्साधयेत् सर्वं बहुजप्तेनं³ किं फलम् ॥ २९ ॥ तदेव परमं गुह्यं महासौभाग्यदायकम् । १ 'मानव' ख पाठः । २ 'क' क पाठः । ३ 'जाप्येन' ख पाठः ।

  • सकृज्जप्त्वाक्षर मन्त्रं ब्रह्मभूयाय कल्पते । इत्यधिक. ख पाठः ।

तृतीयः पटलः । १६ तदेव पञ्चकूटं तु पञ्चतत्त्वेन पञ्चमी ॥ ३० ॥ † कामं विष्णुयुतं शक्तिर्माया शक्रश्च पार्वति । पश्चाद् देवि महामायाबीजं चान्ते नियोजयेत् ॥ ३१ ॥ ‡ शिवबीजं समुद्धृत्य शक्तिबीजं तदन्तरम् । तदधः कामबीजं तु भूर्व्योमानलसंयुक्तम् ॥ ३२ ॥ चतुर्थस्वरसंयुक्तमर्द्धेन्दुबिन्दुभूषितम् । प्रथमं कामराजस्य कूटं त्रैलोक्यपूजितम् ॥ ३३ ॥ मध्यकूटं प्रवक्ष्यामि कामराजस्य मध्यगम् । अतिगुह्यतरं देवि स्नेहाद् वक्ष्यामि केवलम् ॥ ३४ ॥ ✠ वियद्विष्णुयुतं देवि मादनं तदनन्तरम् । तदधो हंसबीजं तु इन्द्रबीजं समुद्धरेत् ॥ ३५ ॥ विष्णोः पदं वह्नियुतं मायाबीजं समुद्धरेत् । मध्यकूटमिदं प्रोक्तं महासौभाग्यदायकम् ॥ ३६ ॥ तुरीयं तु प्रवक्ष्यामि शृणु देवि सुदुर्लभम् । § कामबीजं महेशानि शिवबीजं ततः परम् ॥ ३७ ॥ तदधो वायुबीजं तु इन्द्रबीजं नियोजयेत् । वियद् वह्निसमायुक्तं चतुर्थस्वरभूषितम् ॥ ३८ ॥ † काम. क विष्णुयुतोऽकारोपेत., शक्ति. ए माया ई शक्रो ल महामाया ह्री इत्येतत्पञ्चमीविद्याया प्रथम वग्भवकूटम् । ‡ मध्यकूटत्रय कामराजस्य । तत्र शिव ह शक्ति. स कामः क भू ल व्योमानलेत्या- दिना ह्रीँ, इति कामराजस्य प्रथम कूटम् । ✠ वियत् ह विष्णुयुतमकारोपेतम् । मादन क हस. ह इन्द्र. ल विष्णोः पदमि- त्यादिना ह्रीं, इति कामराजस्य मध्यम कूटम् । § काम. क शिव. ह वायु. य इन्द्र ल वियदित्यादिना ह्री, इति कामराजस्य तृतीय कूटम् ।

अर्द्धेन्दुबिन्दुसंयुक्तं चतुर्थं कूटमुत्तमम् । शक्तिकूटं प्रवक्ष्यामि शृणु देवि सुदुर्लभम् ॥ ३६ ॥ यच्छ्रुत्वा साधकाः सर्वे लभन्ते मुक्तिमुत्तमाम् ।

  • प्राणबीजं समुद्धृत्य कामबीजं समुद्धरेत् ॥ ४० ॥ इन्द्रबीजं तथा दे(वि?वी) क्रमेण विनियोजयेत् । सान्तं वह्निसमायुक्तं चतुर्थस्वरसंयुतम् ॥ ४१ ॥ नादबिन्दुकलायुक्तं शक्तिकूटं समुद्धरेत् । फलं चास्या विशेषेण साधनं च वरानने ॥ ४२ ॥ कथितव्यं मया देवि¹ संक्षेपात् कथ्यतेऽधुना । एषा विद्या महाविद्या गुह्याद् गुह्यतमा प्रिये ॥ ४३ ॥ भोगदा मोक्षदा चैव सर्वकामार्थसिद्धिदा । वाग्भवं प्रथमं कूटं शक्तिकूटं तु पञ्चमम् ॥ ४४ ॥ मध्यकूटत्रयं देवि काम(बी?रा)जं मनोहरम् । काम(बी?रा)जं प्रवक्ष्यामि कूटभेदेन तच्छृणु ॥ ४५ ॥ ज्ञात्वा तत्साधयेद् देवि असाध्यमपि भूतले । सौभाग्यं प्रथमं कूटं महासौभाग्यदायकम् ॥ ४६ ॥ त्रिकूटमेककूटेन काम(बी?रा)जं महत्पर²म् । एवं कूटत्रयेणैव नित्या सौभाग्यसुन्दरी ॥ ४७ ॥ एकत्र पञ्चकूटेन नित्यं कूटत्रयान्विता । दुर्लभा सर्वलोकेषु महासौभाग्यसुन्दरी ॥ ४८ ॥ एतस्या एव विद्याया मध्यकूटस्य मध्यमम् ।
  • प्राणो ह काम क इन्द्र ल देवी स सान्तमित्यादिना ह्रीं इति शक्तिकूटम् । १ 'महादेवि' क पाठ । २ 'दम्' क पाठ ।

तृतीयः पटलः । ०२१ जप्त्वाऽनन्दमयो भूत्वा सर्वकाममुपालभेत् ॥ ४६ ॥ इयं स्वप्नावती नाम्ना विद्या त्रैलोक्यविश्रुता । आकर्षणकरी विद्या जगदाह्लादकारिणी ॥ ५० ॥ साधनं च प्रवक्ष्यामि यस्मादाकर्षणं भवेत् । स्वर्गे म(र्ते?र्त्ये) च पाताले नारीणां पुरुषस्य च ॥ ५१ ॥ नार्यो वश्या विशेषेण वशं (जा?या)ति जगत्त्रयम् । भोगदा मोक्षदा चैषा विद्या गन्धर्वसेविता ॥ ५२ ॥ महाभोगवती विद्या महदैश्वर्यदायिनी । तथा मधुमतीसिद्धिर्जायतेऽस्याः प्रसादतः ॥ ५३ ॥ बृहत्त्वं च लघुत्वं च दर्शनादर्शने तथा । प्रवेशं परकायस्य कामरूपो भवेद् ध्रुवम् ॥ ५४ ॥ पुंसां रूपं स्त्रियो रूपं यच्चान्यद्रूपमुत्तमम् । सर्वं तत् परमं रूपं तस्या एव न संशयः ॥ ५५ ॥ कान्तिस्तुष्टिस्तथा पुष्टिः श्रद्धा लज्जा दया घृणा । धृतिः शान्तिस्तथा ऋद्धिः सिद्धिर्बुद्धिर्मतिः क्षमा ॥ ५६ ॥ महामाया महाबुद्धिर्महाविद्या महोदया । महामहत्करी विद्या ब्रह्मविद्यैव केवला ॥ ५७ ॥ महाभूतदिने नक्तं श्मशाने यदि साधकः । सहस्रैकप्रमाणेण किं न सिध्यति भूतले ॥ ५८ ॥ यो जपेत् पञ्चमीं विद्यां परां त्रैलोक्यमातृकाम् । स नरो देवदेवेशो महादेव इवापरः ॥ ५९ ॥ भोगारमा लभते भुक्तिं नानाभोगेन केवलम् ।

भुनक्ति बहुलान् भोगान् रसान्नानाविधानपि ॥ ६० ॥ यद् ब्रुवन्त्यक्षरं लोके भुनक्ति बहुलं सुखम् । शून्यागारे विहारे च चिन्त(येन्नो?यन्त्यो) जपेत्पराम् ॥६१॥ आकर्षणं भवेत्तस्य सर्वकामं ततो लभेत् । प्रथमानन्दहृदयो द्वितीय(म?मु)पभोगवान् ॥ ६२ ॥ तृतीयमुपभोगेन चतुर्थमपि कामयेत् । पञ्चमं प्रथमं पुण्यं मन्त्रसिद्धिकरं परम् ॥ ६३ ॥ पञ्चमं तु विशेषेण भोगयेत् कामयेत् सदा । पञ्चमाभ्यसनाद्धीरः पूजाया लभते फलम् ॥ ६४ ॥ कुण्डगोलोद्भवैर्द्रव्यैः स्वयम्भूकुसुमेन च । रोचनाकुंकुमाभ्यां च जपमालां प्रलेपयेत् ॥ ६५ ॥ कर्पूरागुरुकस्तूरीरोचनाकुंकुमेन च । जपमालामुपस्कृत्य प्रतिष्ठां विधिवच्चरेत् ॥ ६६ ॥ तद्द्रवै रचताञ्छुद्वान् सं(श्रा?स्रा)व्य च पुनः पुनः । वारिणा शोधितं कृत्वा सिन्दूरे निक्षिपेत् ततः ॥ ६७ ॥ पटे चित्रमये शुद्धे नक्तं यः पूजयेन्नरः । जप्त्वा विद्यां च मालायां सर्वकाममुपालभेत् ॥ ६८ ॥ आनीय कन्यकां दिव्यां प्रमदां यौवनोन्नताम् । उचितां मूलमन्त्रेण सुशीलां चारुहासि(हीं?नीम् ) ॥६६॥ सर्वदानन्दहृदयां घृणालज्जाविवर्जिताम् । गुरुभक्तां सुवेशां च देवतापूजने रताम् ॥ ७० ॥ तस्या गात्रे न्यसेन्मन्त्री पञ्चकामाञ् शरानपि ।

तृतीयः पटलः । • २३ पञ्चकूटं न्यसेन्मन्त्री पञ्चाशन्मातृकां न्यसेत् ॥ ७१ ॥ दिव्यमालां समादाय साधको विजितेन्द्रियः । सहस्रैकप्रमाणे न जपेत् स्वप्नावतीं ततः ॥ ७२ ॥ अनेनैव विधानेन भवेदाकर्षणं महत् । तस्यास्तु मदनागारे पूजयेत् परमेश्वरीम् ॥ ७३ ॥

  • सर्वसंक्षोभिणीं मुद्रां बद्ध्वा योनिं प्रचालयेत् । कामेश्वरीस्वरूपां तां चिन्तयेत् साधकोत्तमः ॥ ७४ ॥ कामेश्वरस्वरूपं च आत्मानमपि भावयन् । स्वयमक्षोभितो भूत्वा साधकः पञ्चमं चरन् ॥ ७५ ॥ तस्याः पुष्पं स्वयं यावद् १ रक्षणीयं प्रयत्नतः । ताम्बूलगन्धपुष्पैश्च प्रत्यहं पूजयेच्च ताम् ॥ ७६ ॥ नानारसान्नपानेन तृप्तिमाचर्य यत्नतः । वस्त्रालंकारभूषाद्यैस्तस्याः सन्तोषमानयेत् ॥ ७७ ॥ यथाकाले तथा पुष्पं स्वयं तद्गोप्यरूपतः । गृहीत्वा तु प्रयत्नेन स्वयंभूकुसुमं हि तत् ॥ ७८ ॥ स्वयंभूकुसुमं दिव्यं त्रैलोक्येष्वपि दुर्लभम् । प्राप्नोति साधकश्रेष्ठो दुर्लभं साधयेद्भुवि ॥ ७९ ॥ स्वयंभूपुष्पयोगेन साक्षतेन सदार्चयेत् । विद्यां स्वप्नावतीं जप्त्वा क्षिप्रमाकर्षणं भवेत् ॥ ८० ॥ देवताश्च ग्रहा नागा दानवा राक्षसाश्च ये ।

  • तल्लक्षणं-यथा मध्यमामध्यगे कृत्वा कनिष्ठाङ्गुष्ठरोधितै । तर्जन्यौ दण्डवत् कृत्वा मध्यमोपर्यनामिके । क्षोभाभिधाना मुद्रेयं सर्वसंक्षोभकारिणी ॥ इति । १ 'प्राग्वत्' ख पाठ ।

राजानश्च स्त्रियः सर्वा नित्यं वश्या भवन्ति हि ॥ ८१ ॥ स्वयंभूकुसुमैः पूजां प्रत्यहं यः समाचरेत् । जप्त्वा वै दिव्यमालायां सर्वकाममुपालभेत् ॥ ८२ ॥ पार्वत्युवाच पुराप्येकादशी विद्या भवता कथिता मयि । नाराधिता मया यस्मात्तस्मान्मृत्युवशं गता ॥ ८३ ॥ सारात्सारतरां विद्यां श्रोतुमिच्छामि सांप्रतम् । ईश्वर उवाच एकादशाक्षरी विद्या भैरव्याः कथिता पुरा ॥ ८४ ॥ इदानीं तव प्रीत्यर्थं कथयामि तथा पराम् । ꕤमादनं गोत्रभि(च्छा?त्सा)न्तो रेफमायार्धचन्द्रवान् ।८५। नादबिन्दुसमायुक्तो वाग्भवः परमेश्वरि । ब्रह्मा च गगनं शक्रो नकुलीशोऽनलः शशी ॥ ८६ ॥ माया बिन्दुः सनादेन काम(बी?रा)जं समुद्धरेत् । शक्तिर्मादनशक्रश्च हरो वह्नीन्दुमायया ॥ ८७ ॥ कलानादसमाक्रान्तः कथितः कामदो मनुः । यस्मै कस्मै न दातव्यो बान्धवाय च पार्वति ॥ मनुर्विमृ(ष्य?श्य)दातव्यो ज्येष्ठपुत्राय धीमते ॥ ८८ ॥ ──────── ○ ──────── इति श्रीगन्धर्वतन्त्रे पार्वतीश्वरसंवादे पञ्चमीविद्योद्धारप्रयोगादि- निरूपणं नाम तृतीयः पटलः ॥ ३ ॥ ꕤ मादन क गोत्रभित् ल सान्तेत्यादिना ह्रीं, इति वाग्भवम् । ब्रह्मा क गगन ह शक्र ल नकु- लीश इत्यादिना ह्रीं, इति कामराजम् । शक्ति स मादन क शक्र ल हर इत्यादिना ह्रीं, इति शक्तिकूटम् । इयमेकादशाक्षरी भैरवी विद्या ।

चतुर्थः पटलः । —————— पार्वत्युवाच देवदेव महादेव लोकानां हितकारक । यत्सूचितं पुरा नाथ किमर्थं न प्रकाशितम् ॥ १ ॥ राजराजेश्वरीदेव्यास्त्रिपुरायाः शुभावहम् । कवचं यदि मे प्रीतः कथयस्व वृषध्वज ॥ २ ॥ ईश्वर उवाच लक्षवारसहस्राणि वारितासि पुनःपुनः १। स्त्रीस्वभावान्महादेवि पुनस्त्वं परिपृच्छसि ॥ ३ ॥ अत्यन्तं दुर्लभं गुह्यं कवचं सर्वकामदम् । तथापि कथयाम्यद्य तव प्रीत्या वरानने ॥ ४ ॥ त्रैलोक्यमोहनं नाम त्रिषु लोकेषु दुर्लभम् । सर्वसौभाग्यजननं भोगमोक्षफलप्रदम् ॥ ५ ॥ यद्धृत्वा दानवान् विष्णुर्निजघान सुदारुणान् । लोकान् वितनुते ब्रह्मा संहर्त्ताहं यतः प्रिये ॥ ६ ॥ धनाधिपः कुबेरोऽपि यतः सर्वे दिगीश्वराः³। नैतत्परतरं गुह्यं प्रतिजाने हि² पार्वति ॥ ७ ॥ वेदशास्त्रपुराणेषु सारमेतद्वरानने । पुत्रदारादिसहितं शिरो देयं कथंचन ॥ ८ ॥ न देयं कवचं गुह्यं प्राणैः कण्ठगतैरपि ।


१ 'र' क पाठ । २ 'जानीहि' क पाठ । ३ 'वो' क. पाठ. ।

शृणु सर्वाङ्गसुभगे दिव्यं कवचमुत्तमम् ॥ ९ ॥ राजराजेश्वरीदेव्याः कवचस्य ऋषिः शिवः । छन्दो विराड् देवता च महात्रिपुरसुन्दरी ॥ १० ॥ हंसः शक्तिः परा बीजं रमाबीजं च कीलकम् । धर्मार्थकाममोक्षेषु विनियोगः प्रकीर्तितः ॥ ११ ॥ त्रिपुरा त्रिविधा पातु मम सर्वार्थसिद्धये । ऐंक्लींसौः वदने बाला पातु सर्वार्थसिद्धिदा ॥ १२ ॥ हेंस्त्रैं-हसकलरी-हस्रौः कण्ठे पातु महादेवी श्रीमत्त्रिपुरभैरवी हृदयेऽव्यान्महेशानी महात्रिपुरसुन्दरी ॥ १३ ॥ राजराजेश्वरीविद्या षोडशी या महोदया । ब्रह्मरन्ध्रे सदा पातु कमला परमेश्वरी ॥ १४ ॥ गिरिराजसुता देवी पातु नित्यं च शीर्षके । कामबीजं ललाटेऽव्याद्वाग्बीजं कण्ठदेशके ॥ १५ ॥ सौः पातुं मे तथा पार्श्वे प्रणवो बाहुमूलके । शंभुप्रिया सदा पातु बाह्वोर्दक्षिणसव्ययोः ॥ १६ ॥ विष्णुप्रिया सदा पातु मणिबन्धद्वये तथा । पार्वतीशः करे पातु नेत्रे नक्षत्रवल्लभः ॥ १७ ॥ श्रोत्रे रतिप्रियः पातु घ्राणे शक्रः सदावतु । पृष्ठदेशे सदा पातु पार्वती परमेश्वरी ॥ १८ ॥ हँसौः श्वासे चैव निःश्वासे पातां परमसिद्धिदौ । कामः कामे सदा पातु पिनाकी लिङ्गगोचरे ॥ १९ ॥ १ ‘हैंस्त्र’ ‘हेस्रौ क पाठ । २ ‘तुन’ ख पाठ.। ३ ‘हुद’ ख पाठः । ४ ‘हेसो,’ क, पाठ.।

चतुर्थः पटलः । २७ पृथ्वी सर्वा(श?स)के पातु हृल्लेखा हृदयेऽवतु । स्तनौ विष्णुप्रिया पातु कुचौ च स पुरान्तकः ॥ २० ॥ नेत्रे वज्रधरः पातु माया वै जठरेऽवतु । पदद्वन्द्वे च सौः पातु ऐं जिह्वानिलयेऽवतु ॥ २१ ॥ ह्रींकारः सर्वदा पातु दन्तोष्ठयोर्वरानने । शीर्षादिपादपर्यन्तं सर्वाङ्गं भुवनेश्वरी ॥ २२ ॥ रक्षाहीनं च यत् स्थानं वर्जितं कवचेन तु । तत्सर्वं परमेशानि पातु नित्यं हरिप्रिया ॥ २३ ॥ आधारे वाग्भवः पातु कामराजो हृदि प्रिये । शक्तिकूटं तथा पातु भ्रुवोर्मध्ये च पार्वति ॥ २४ ॥ शीर्षे कूटत्रयं पातु ललाटे सर्वमन्त्रकः । अष्टाविंशतिवर्णोयं मुखवृत्ते सदावतु ॥ २५ ॥ षोडशीयं महाविद्या ब्रह्मविद्यैव केवला । भोगमोक्षप्रदा देवी केवलात्मस्वरूपिणी ॥ २६ ॥ कामेश्वरी ललाटेऽव्यान्मुखे तु भगमालिनी । दक्षनेत्रे सदा पातु नित्यं (दीक्षा?क्लिन्ना) महोदया ॥ २७॥ भीरुण्डा वामनेत्रेऽव्यात् कर्णौ वै वह्निवासिनी । महा(विद्ये?वज्रे)श्वरी पातु वामकर्णप्रदेशके ॥ २८ ॥ दक्षनासापुटे पातु शिवदूती महेश्वरी । वामनासापुटे पातु त्वरिता सर्वसिद्धिदा ॥ २६ ॥ दक्षगण्डे सदा पातु नित्यं मां कुलसुन्दरी । १ ‘ति’ ख पाठः ।

त्रैलोक्यविमला पातु वामगण्डप्रदेशके ॥ ३० ॥ ओष्ठे॑ नीलपताकाव्याद् अधरे विजयावतु । ऊर्ध्वदन्ते सदा पातु देवी मां सर्वमङ्गला ॥ ३१ ॥ अधोदन्तप्रदेशेऽव्यानित्यं ज्वालांशुमालिनी । विचित्रा सर्वदा पातु नित्यं मूर्धनि पार्वति ॥ ३२ ॥ आसां प्रधानभूता या महात्रिपुरसुन्दरी । षोडशी सा सदा पातु मुखे वै परमेश्वरी ॥ ३३ ॥ पृष्ठदेशे सदा पान्तुं गुरवस्त्रिविधाश्च ते । पादयोः सर्वदा पातु त्रिपुरा परमेश्वरी ॥ ३४ ॥ जानुदेशे सदा पातु देवी मां त्रिपुरेश्वरी । ऊरुद्वये सदा पातु देवी त्रिपुरसुन्दरी ॥ ३५ ॥ त्रिपुरवासिनी देवी कटिदेशे सदावतु । त्रिपुराश्रीश्च मां नित्यं गुह्यदेशे सदावतु ॥ ३६ ॥ मूलाधारे सदा पातु देवी त्रिपुरमालिनी । नाभौ त्रिपुरसिद्धाव्यात् त्रिपुरा(च?म्बा) सदा हृदि ॥३७ ब्रह्मरन्ध्रे सदा पातु महात्रिपुरसुन्दरी । आसां तु मन्त्रबीजानि प्रोक्तस्थानेषु विन्यसेत् ॥ ३८ पाषाण्डगणमध्ये तु बुद्धो मां परिरक्षतु । ब्रह्माव्याद् ब्रह्मसंघांते शिवो मां योगसिद्धये ॥ ३६ ॥ ज्ञाने मां भास्करः पातु मोक्षे नारायणः प्रभुः । या शक्तिः सर्वभूतानां विद्याविद्येति गीयते ॥ ४० ॥ सा शक्तिः सर्वदा पातु स्त्रीपुत्रधनसंपदि ।

चतुर्थः पटलः । • २६ अणिमा पश्चिमे पातु लघिमा चोत्तरेऽवतु ॥ ४१ ॥ पूर्वतः पातु महिमा ईशिता दक्षिणेऽवतु । वशिताँ वायुनिलये ईशे प्राकाम्यसिद्धिदा ॥ ४२ ॥ भुक्तिसिद्धिस्तथाग्नेये पात्विच्छासिद्धी राक्षसे । अधः पातु प्राप्तिसिद्धिर्मोक्षसिद्धिस्तथोर्ध्वके ॥ ४३ ॥ ब्रह्माणी संध्ययोः पातु माहेश्वरी दिवावतु । मध्याह्ने पातु कौमारी रात्रौ च शक्रवल्लभा ॥ ४४ ॥ ब्राह्मे मुहूर्त्तके पातु वैष्णवी सर्वसिद्धिदा । निशीथे पातु वाराही चामुण्डा श(क्र?त्रु)विग्रहे ॥ ४५ ॥ महोत्साहे महालक्ष्मीः पातु नित्यं महेश्वरी । शीर्षे संक्षोभिणी पातु (तारि?द्रावि)णी हृदयेऽवतु ॥४६॥ आकर्षिणी शिखायां तु कवचे पातु वश्यदा । उन्मादिनी तथा नेत्रे सर्वगात्रे महाङ्कुशा ॥ ४७ ॥ त्रिखण्डा भुजयोः पातु बीजे बीजस्वरूपिणी । खेचरी पादयोः पातु योनिमुद्रा च सर्वतः ॥ ४८ ॥ (स?का)माकर्षणरूपाव्यात् सर्दाकर्षणकर्मणि ! बुद्ध्याकर्षणरूपांऽव्यात् परबुद्धिविकर्षणे ॥ ४६ ॥ अहंकारे सदा पातु अहंकारविकर्षणी । शब्दाकर्षणरूपाव्याच्छब्दाकर्षणकर्मणि ॥ ५० ॥ स्पर्शाकर्षणरूपा मां पातु स्पर्शनकर्मणि । रूपाकर्षणरूपाव्यात् पररूपविकर्षणे ॥ ५१ ॥ १ ‘स्वा’ क पाठ. । २ ‘स्वा’ क. पाठ । ३ ‘कामा’ ख पाठः ।

रसाकर्षणरूपाव्याद् रसे वै परमेश्वरी । गन्धाकर्षणरूपा मां पातु गन्धे च सर्वदा ॥ ५२ ॥ चित्ताकर्षणरूपा मां पायादाकृष्टिकर्मणि । धैर्याकर्षणरूपा तु पातु धैर्यविधौ सदा ॥ ५३ ॥ स्मृत्याकर्षणरूपाव्याज्ज्ञानाकर्षणकर्मणि । नामाकर्षणरूपाव्यान्नामव्याहरणे सदा ॥ ५४ ॥ बीजाकर्षणरूपा मां सर्वबीजप्ररोपणे । परजीवाकर्षणे पात्वात्माकर्षणरूपिणी ॥ ५५ ॥ अमृताकर्षिणी पातु अमृतीकरणे सदा । शरीराकर्षिणी पातु सदा शरीररक्षणे ॥ ५६ ॥ अनङ्गकुसुमा पातु पुरतः सर्वकर्मणि । अनङ्गमेखला पातु पृष्ठतः परमेश्वरी ॥ ५७ ॥ अनङ्गमदना पातु वामतो मे महेश्वरी । दक्षिणे सर्वदा पातु अनङ्गमदनातुरा ॥ ५८ ॥ नित्यं चानङ्गरेखाव्यादूर्ध्वं मम सदा प्रिये । अनङ्गवेगिनी पातु अधो मे परमेश्वरी ॥ ५९ ॥ तथानङ्गांकुशा नित्यं पातु मां दिक्षु सर्वदा । अनङ्गमालिनी पातु विदिक्षु मम सर्वदा ॥ ६० ॥ सर्वसंक्षोभिणी चोध्र्वे पातु मां जगदीश्वरी । सर्वविद्राविणी चाधो दिक्षु सर्वविकर्षणी ॥ ६१ ॥ सर्वाह्लादकरी शक्तिर्विदिक्षु परिरक्षतु ।

सर्वसंमोहिनी पातु समन्तात् परमेश्वरी ॥ ६२ ॥ अन्तर्बहिश्च मां पातु सर्वस्तम्भनकारिणी । तथैव पातु मां नित्यमाकाशे सर्वजृम्भणी ॥ ६३ ॥ पाताले चैव मां पातु सर्ववश्यकरी तथा । देवलोके सदा पातु सर्वरञ्जनकारिणी ॥ ६४ ॥ सर्वोन्मदनशक्तिर्मां भूतले परिरक्षतु । सर्वार्थसाधनी शक्तिः पायाद्भूतगणालये ॥ ६५ ॥ सिद्धानामालये पातु सर्वसंपत्तिपूरणी । राक्षसानां च यक्षाणां सर्वमन्त्रमयी गृहे ॥ ६६ ॥ असुराणां निवासे तु सर्वद्वन्द्वक्षयंकारी । सर्वसिद्धिप्रदा देवी पातु राजगृहे सदा ॥ ६७ ॥ सर्वसंपत्प्रदा पातु स्वगृहे सर्वसंपदि । सर्वप्रियङ्करी पातु सर्वलोकेषु सर्वदा ॥ ६८ ॥ सर्वमङ्गलकार्येऽव्यात् सर्वमङ्गलकारिणी । सर्वकामप्रदा देवी सर्वकार्येषु सर्वदा ॥ ६९ ॥ ऐश्वर्ये सर्वदा पातु सर्वैश्वर्यप्रदायिनी । सर्वमृत्युप्रशमनी पायान्नित्यं ममालये ॥ ७० ॥ सर्वारम्भे सदा पातु सर्वविघ्नविनाशिनी । देहसौन्दर्यकाले तु पातु सर्वाङ्गसुन्दरी ॥ ७१ ॥ सर्वसौभाग्यकाले तु सर्वसौभाग्यदायिनी । सर्वज्ञा च गृहे पातु सर्वशक्तिमयी रणे ॥ ७२ ॥ सर्वैश्वर्यप्रदा मार्गे सर्वज्ञानमयी जले । १ 'कर्मणि' क. पाठ. । २ 'सर्वदुःखविमोचिनी' क. पाठः ।

सर्वव्याधिषु सर्वत्र सर्वव्याधिविनाशिनी ॥ ७३ ॥ पर्वते पातु प्रबला सर्वाधारस्वरूपिणी । सर्वपापहरा पातु सर्वकर्मसु सर्वदा ॥ ७४ ॥ सर्वानन्दकरी देवी नानाघकृतगोचरे । सर्ववैरिभये पातु सर्वरक्षास्वरूपिणी ॥ ७५ ॥ सर्वसंकल्पकार्येषु सर्वेप्सितफलप्रदा । वशिनी वश्यकार्येऽव्यात् कामेशी स्तम्भनेऽवतु ॥ ७६ । मोहने मोदिनी पातु विमलोच्चाटनेऽवतु । अरुणा पातु मां वादे जैयिनी जल्पकर्मणि ॥ ७७ ॥ सर्वेश्वरी काम्यकार्ये कौलिनी भेदकर्मणि । जृम्भणे सर्वदा पा(तु?न्तु) शराः पञ्च महेश्वरि ॥ ७८ । धनुर्मोहविधौ पातु पाशस्तु वश्यकर्मणि । महातेजोमयः पातु स्तम्भने मां तथाङ्कुशः ॥ ७९ ॥ सर्वज्ञा हृदये पातु नित्य(कृता?तृप्तिः) च शीर्षके । अनादिबोधिका पातु नित्यं शिखाप्रदेशके ॥ ८० ॥ कवचे मां स्वतन्त्राव्यात् नेत्रे नित्यमलुप्तिका । अचिन्त्यशक्ति(व?र)स्त्रेषु पायात् परंमसिद्धिदा ॥ ८१ ॥ कामेश्वरी रतौ पातु युद्धे वज्रेश्वरी तथा । नित्यं पातु महेशानी श्रीकामे भगमालिनी ॥ ८२ ॥ रसे रूपे च गन्धे च शब्दे स्पर्शे च पातु माम् । सर्वानन्दमयी देवी महात्रिपुरसुन्दरी ॥ ८३ ॥

ईशाने वटुकः पातु आग्नेय्यां योगिनीगणाः । त्वगसृङ्मांसमेदोऽस्थिमज्जशुक्राणि पान्तु नः ॥ ८४ ॥ क्षेत्रेशो नैर्ऋते पातु गणेशो वायुमन्दिरे । मातङ्गवनिता पातु शेषिका कुलसुन्दरी ॥ ८५ ॥ शक्तिर्मां सर्वदा पातु मूलाधारनिवासिनी । इतीदं कवचं देवि त्रिषु लोकेषु दुर्लभम् ॥ ८६ ॥ यन्नोक्तं डामरे तन्त्रे यन्नोक्तं रुद्रयामले । सर्वतन्त्रेषु यन्नोक्तं गन्धर्वे प्रकटीकृतम् ॥ ८७ ॥ तव प्रीत्या महादेवि गोपनीयं प्रयत्नतः । तव नाम्नि स्मृते देवि सर्वयज्ञफलं लभेत् ॥ ८८ ॥ सर्वत्रैव जयप्राप्तिर्वाञ्छा सर्वत्र सिध्यति । नाम्नः शतगुणं स्तोत्रं व्याख्यानं चापि तच्छतम् ॥ ८६ ॥ तस्माच्छतगुणं ध्यानं ध्यानाच्छतगुणो मनुः । मन्त्राच्छतगुणं देवि कवचं ते मयोदितम् ॥ ६० ॥ यस्मै कस्मै न दातव्यं सुगोप्यमतिदुर्लभम् । न देयं परशिष्याय कृपणाय सुरेश्वरि ॥ ६१ ॥ शिष्याय भक्तिहीनाय चुम्बकाय तथैव च । गुरुभक्तिविहीनाय परहिंसारताय च ॥ ६२ ॥ निन्दकाय कुशीलाय दाम्भिकाय महेश्वरि । अभक्तेभ्योऽपि पुत्रेभ्यो दत्त्वा मृत्युमवाप्नुयात् ॥ ६३ ॥ यो ददाति निषिद्धेभ्यः कवचं मन्मुखाच्च्युतम् । तस्य नश्यन्ति देवेशि विद्यायुःकीर्त्तिसंचयाः ॥ ६४ ॥

तं हिंसन्ति च योगिन्यो मदीयशासनात् प्रिये । परे नरकमाप्नोति जन्मकोटिशतानि च ॥ ९५ ॥ सर्वलक्षणयुक्ताय यन्त्रमन्त्ररताय च । शिष्याय शान्तचित्ताय गुरुभक्तिरताय च ॥ ९६ ॥ उदके लवणं लीनं यथा भवति पार्वति । मनो भवति वै लीनं पादयोः श्रीगुरोः प्रिये ॥ ९७ ॥ तदा देयं महद्गुह्यं कृपया चातिदुर्लभम् । गुरोः पादप्रसादेन श्रीविद्या यदि लभ्यते ॥ ९८ ॥ तथैव कवचं देवि त्रिषु लोकेषु दुर्लभम् । स च देवो हरः साक्षात् तत्पत्नी परमेश्वरी ॥ ९९ ॥ प्रमादादपि देवेशि श्रीगुरोर्नाम नाददेत् । यस्य भक्तिर्गुरौ नित्यं वर्तते देव¹वत् प्रिये ॥ १०० ॥ तस्य मन्त्रस्य यन्त्रस्य सिद्धिर्भवति नान्यथा । कवचस्य तथा सिद्धिर्गु²टिकायाश्च सुन्दरि ॥ १०१ ॥ इदं कवचमज्ञात्वा यो जपेत् सुन्दरीं पराम् । नवलक्षं प्रजप्त्वापि * तस्य विद्या न सिध्यति ॥ १०२ ॥ शुचिः समाहितो भूत्वा भक्तिश्रद्धासमन्वितः । सर्वभूतलये सुप्ते निशायामर्धरात्रके ॥ १०३ ॥ हेतुयुक्तो महेशानि निर्जने पशुवर्जिते । रक्तासनोपविष्टस्तु रक्ताभरणभूषितः ॥ १०४ ॥ ताम्बूलपूरितमुखो धूपामोदसुगन्धितः । संस्थाप्य वामभागे तु शक्तिं स्वामिपरायणाम् ॥ १०५ ॥ १ 'त' क पाठ । २ 'र्द्धा' क पाठ. । * ऐश पाठ. ।