भारतकोश
संग्रह पर लौटें

गौतम धर्मसूत्र (हिन्दी व्याख्या सहित)

Gautama Dharmasutra Hindi

महर्षि गौतम द्वारा

स्रोत: Gautama Dharmasutram with Hindi Commentary (उद्गम)

DevanagariHindipublished360 पृष्ठ

सानुवाद-मिताक्षरावृत्तिसहितानि २४७

दर्शनं गवामग्नेर्वेत्यौशनसं नियमकालादन्यत्र । जाबालिगृहे द्विजग्रहणा- च्छूद्रस्य न विधिर्न प्रतिषेधः ॥ २२ ॥

चण्डाल आदि अपवित्र व्यक्ति को देखने पर प्राणायाम करके सूर्य का दर्शन करे ॥ २२ ॥

अभोज्यभोजनेऽमेध्यप्राशने वा निष्पुरीषीभावः ॥ २३ ॥

नित्यमभोज्यं केशकीटावपन्नमित्यारभ्याभोज्यान्युक्तानि । तानि च बहुप्रकाराणि । जातिदुष्टानि लशुनादीनि । कालदुष्टानि पर्युषितादीनि । परिग्रहदुष्टान्युत्सृष्टादीनामन्नानि । संसर्गदुष्टानि केशकीटायुपहतानि । क्रियादुष्टान्याचमनोत्थानव्यपेतादीनि । तेषामभोज्यानां भोजने च । मेध्यं पवित्रम् । अमेध्यमपरिशुद्धं स्थानपात्रपाकस्पर्शप्रदात्रादिना । तेषाममेध्यानां प्राशने च निष्पुरीषीभावः कार्यः । यथा निष्पुरीषमुदरं भवति तथा कार्यम् ॥ २३ ॥

अभोज्य पदार्थ का भोजन करने पर तथा अपवित्र पदार्थ निगलने पर उस समय तक उपवास करे जबतक पेट पूर्णतः खाली न हो जाय ॥ २३ ॥

तत्कथम्—

त्रिरात्रावर[ म् ]भोजनम् ॥ २४ ॥

तिस्रो रात्रीर्न किञ्चिद् भुञ्जीत । न किञ्चित्खादयेत् । न किंचित्पिबेत् । एवं निष्पुरीषीभावोऽवाप्यते । अवरग्रहणाच्चतूरात्रादेरपि भावः( लाभः ) । परमेण सप्तरात्रम् । तथा चाऽऽपस्तम्बः-अभोज्यं भुक्त्वा नैष्पुरीष्यं तत्सप्तरात्रेणावाप्यत इति ॥ २४ ॥

इसके लिये वह कम से कम तीन दिन और रात तक उपवास करे ॥ २४ ॥

सप्तरात्रं वा स्वयंशीर्णान्युपभुञ्जानः फलान्यनति-

क्रामन् ॥ २५ ॥

शुध्यतीति शेषः । अथवा नोपवसेत् किंतु स्वयंशीर्णानि स्वयंपतितानि फलानि भुञ्जानोऽनतिक्रामन्नस्वादुफलोपलम्भे तदतिक्रमेण स्वादुफलान्तरग्रहणार्थमगच्छन्सप्तरात्रमेवं कुर्वन् शुध्यति ॥ २५ ॥

अथवा सात दिन-रात तक स्वयं गिरे हुए फलों को खाकर रहने से पवित्र होता है ॥ २५ ॥

प्राक्पञ्चनखेभ्यश्छर्दनं घृतप्राशनं च ॥ २६ ॥

तत्रैवाभोज्यप्रकरणे पञ्चनखाश्च शल्यकेत्यादिभिरष्टभिः सूत्रैर्यान्त्य-

२४८ गौतमधर्मसूत्राणि

भोज्यान्युक्तानि तेभ्यः प्राग्यान्यभोज्यानि नित्यमभोज्यमित्यादिभिरेकोन- विंशतिसूत्रैरुक्तानि तेषु भुक्तेषु च्छर्दयित्वा घृतं प्राश्य विशुध्यति । एवं च पूर्व्वकं प्रायश्चित्तद्वयं स्वभावदुष्टेषु पञ्चनखादिष्वेवावतिष्ठते । अत्र विष्णुः—मलानां मज्जानामन्यतरस्य प्राशने चान्द्रायणं कुर्य्याल्लशुनपला- ण्डुगृञ्जनतजविड्वराहग्रामकुक्कुटनरमांसभक्षणे च सर्वेष्वेतेषु द्विजा- तीनां प्रायश्चित्तं पुनः संस्कारः । बृहस्पतिः—अलेह्यानामपेयानामभक्ष्याणां च भक्षणे । रेतोमूत्रपुरीषाणां शुद्धिश्चान्द्रायणं स्मृतम् ॥ अङ्गिराः—अलेह्यानामपेयानामभक्ष्याणां च भक्षणे । रेतोमूत्रपुरीषाणामृषिकृच्छ्रो विशोधनम् ॥ पद्मोदुम्बरबिल्वानां कुशपर्णपलाशयोः । एतेषामुदकं पीत्वा तमेनैव विशुध्यति ॥ काश्यपः—लशुनपलाण्डुगृञ्जनकुकुटभक्षणे मेदःशुक्रपानेऽयाज्य- याजनेऽभोज्यभोजनेऽभक्ष्यभक्षणेऽगम्यागमने चैवं प्रायश्चित्तं ब्राह्मणेभ्यो निवेद्य षड्रात्रोपोषितश्चीर्णान्ते प्राच्यामुदीच्यां दिशि गत्वा यत्र ग्राम्य- पशूनां शब्दो न श्रूयते तस्मिन्देशेऽग्निं प्रज्वाल्य ब्रह्मासनमास्तीर्य तत्प्र- णीतेन विधिना पुनःसंस्कारमर्हति । सुमन्तुः—लशुनपलाण्डुगृञ्जनभक्षणे वीरश्राद्धे सूतिकाभोज्यान्नमधुमांसमूत्ररेतोमेध्याभक्ष्यभक्षणे सावित्र्यष्ट- सहस्रेण मूर्ध्नि संपातानवनयेत् । एतान्येवाऽऽतुरस्य भिषक्क्रियायामप्रति- षिद्धानि भवन्ति । यानि चान्यान्येवंप्रकाराणि तेष्वप्यदोषः। पलाण्डुं लशुनं चैव गृञ्जनं कवकं तथा । चत्वार्य्यज्ञानतो जग्ध्वा तप्तकृच्छ्रं चरेद् द्विजः ॥ मनुस्तु—छत्राकं विड्वराहं च लशुनं ग्रामकुक्कुटम् । पलाण्डुं गृञ्जनं चैव मत्या भुक्त्वा पतेद् द्विजः ॥ अमत्यैतानि षड् जग्ध्वा कृच्छ्रं सांतपनं चरेत् । यतिचान्द्रायणं वाऽपि शेषेषूपवसेदहः ॥ संवत्सरस्यैकमपि चरेत्कृच्छ्रं द्विजोत्तमः । अज्ञातभुक्तशुद्ध्यर्थं ज्ञातस्य तु विशेषतः ॥ शातातपः—लशुनपलाण्डुगृञ्जनकुकुम्भरशरकवकामेध्यभक्षणे तप्तकृच्छ्रः । विष्णुः—वृन्ताककवकाशने सांतपनम् । पैठीनसिः—लशुनपलाण्डु गृञ्जन- भक्षणे प्राजापत्यम् । देवलः-अभक्ष्यभक्षणे कृच्छ्रम् । पैठोनसिः— अभक्ष्यभक्षणे तप्तकृच्छ्रम् । संवर्तः— अभोज्यभोजनं कृत्वा ब्रह्मक्षत्रविशां गणः ।

सानुवाद-मिताक्षरावृत्तिसहितानि २४९

गोमूत्रयावकाहारः सप्तरात्रेण शुध्यति ॥
**बृहस्पतिः—**पीत्वा शुक्लकषायाणि भुक्त्वा चान्नं विगर्हितम् ।
भवेदप्रयतो विप्रः कर्मणः स्यादधोगतिः ॥
**विष्णुः—**दधिवर्जितानि सर्वशुक्लानि चात्र प्राश्योपवसेदिति प्रकृतम् ।
**शङ्खः—**लोहितान्वृक्षनिर्यासान्ब्रश्चनप्रभवांस्तथा ॥
भुक्त्वा ऋबीसपक्वं ( ? ) च त्रिरात्रं तु व्रती भवेत् ।
**शङ्खलिखितौ—**सर्वासां द्विस्तनीनां क्षीरप्राशनेऽजावर्जमेतदेव । अत्र षड्रात्रमभोजनं चान्द्रायणं चेति प्रकृतम् । अनिर्दशाविगोक्षीरप्राशने तदहरभोजनं सचैलस्नानं च । शातातपः—
उष्ट्रीक्षीरमविक्षीरमन्नं च मृतसूतके ।
चोरस्यान्नं नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् ॥
**पैठीनसिः—**अविखरोष्ट्रमानुषदुग्धप्राशने पुनरुपनयनं प्राजापत्यं च । **बौधायनः—**अवेः पयःपाने कृच्छ्रोऽन्यत्र गव्यात् । गवि त्रिरात्रोपवासः । शङ्खः—
अनिर्देशाया गोः क्षीरमाजं माहिषमेव च ।
गोश्च क्षीरं विवत्सायाः स्यन्दिन्याश्च तथा पयः ॥
संधिन्यमेध्यभक्षायाः पीत्वा पक्षव्रतं चरेत् ।
क्षीराणि यान्यपेयानि तद्विकाराशने बुधः ॥
सप्तरात्रव्रतं कुर्याद्यदेतत्परिकीर्तितम् ।

**सुमन्तुः—**एकशफोष्ट्रस्यन्दिन्यविक्षीरप्राशने गोमहिष्यजानां चानिर्दशाहानां क्षीरप्राशने त्रिरात्रं यावकस्त्रिषवणं च । **विष्णुः—**गोजाविमहिषीवर्जं सर्वपयांसि च तान्यप्यनिर्देशाहानि स्यन्दिनोसंधिनीविवत्साक्षीरं चामेध्यभुजश्च क्षीरं प्राश्योपवसेदिति प्रकृतम् । **हारीतः—**अनुक्तानां सत्त्वानां भक्षणेऽतिकृच्छ्रो ग्राम्याणां चान्द्रायणम् । यमः—
वराहैकशफानां च काककुक्कुटयोस्तथा ।
क्रव्यादानां च सर्वेषामभक्ष्या ये च कीर्तिताः ॥
मांसमूत्रपुरीषाणि प्राश्य गोमांसमेव च ।
श्वगोमायुकपीनां च तप्तकृच्छ्रं विशोधनम् ॥
उपोष्य द्वादशाहं वा कूष्माण्डैर्जुहुयाद् घृतम् ।
**वसिष्ठः—**श्वकुक्कुटग्राम्यसूकरकाकगृध्रभासवायसपारावतमानुष्काकोलूकानां मांसादने सप्तरात्रमुपवासो निष्पुरीषीभावो घृतप्राशनं पुनः संस्कारश्च कार्यः ।

२५० गौतमधर्मसूत्राणि

बिडालकाकाखूच्छिष्टं जग्ध्वा च नकुलस्य च । केशकोटावपन्नं च पिबेद् ब्रह्मसुवर्चलाम् ॥ केशकीटावपन्नं च स्त्रीभिः खादंस्तथैव च । श्वोदक्याभ्यां च संस्पृष्टं पञ्चगव्येन शुध्यति ॥ **यमः—**माक्षिकं फाणितं शाकं गोरसं लवणं घृतम् । एतानि हस्तदत्तानि भुक्त्वा सांतपनं चरेत् ॥ **शङ्खः—**एकपङ्क्त्युपविष्टानां विषमं यः प्रयच्छति । यश्चैवाश्नात्ययं सर्वः कुर्याद् ब्रह्महणि व्रतम् ॥ **यमः—**ब्राह्मणक्षत्रियविशां शूद्राणां सहभोजनम् । प्राजापत्यं तप्तकृच्छ्रमतिकृच्छ्रं तथैव च ॥ चान्द्रायणमिति प्रोक्तं प्रायश्चित्तं क्रमेण तु । **शातातपः—**योऽगृहीत्वा विवाहाग्निं गृहस्थ इति मन्यते ॥ अन्नं तस्य न भोक्तव्यं वृथापाको हि स स्मृतः । वृथापाकस्य भुक्त्वाऽन्नं प्रायश्चित्तं चरेद् द्विजः ॥ प्राणायामं त्रिरभ्यस्य घृतं प्राश्य विशुध्यति ।

**अङ्गिराः—**ब्रह्मक्षत्रविशां भुक्त्वा न दोषोऽस्त्यग्निहोत्रिणाम् ॥

सूतके शाव आशौचे अस्थिसंचयनात्परम् । चाण्डालः श्वपचः क्षत्ता सूतो वैदेहकस्तथा ॥ मागधायोगवौ चैव सप्तैतेऽन्त्यावसायिनः । अन्त्यावसायिनामन्नमश्नीयाद्यस्तु कामतः ॥ स तु चान्द्रायणं कुर्यात्तप्तकृच्छ्रमथापि वा । **यमः—**ब्राह्मणान्नं ददच्छूद्रः शूद्रान्नं ब्राह्मणो ददत् ॥ उभावेतावभोज्यान्नौ भुक्त्वा चान्द्रायणं चरेत् ॥ २६ ॥

यदि उपर्युक्त अभोज्य पदार्थों में पाँच नख वाले पशुओं से पहले गिनाये गये किसी पदार्थ का भोजन किया हो तो उसे उगल कर फिर घृत पीने पर शुद्धि होती है ॥ २६ ॥

आक्रोशानृतहिंसासु त्रिरात्रं परमं तपः ॥ २७ ॥

महापातकोपपातकयुक्तादन्यत्राऽऽक्रोशे सताऽसता वा दोषेणातिवादे साक्ष्यादिविषयादन्यत्रानृते तत्रोक्तत्वात् । प्राणिभ्योऽन्यत्र हिंसायाम् । प्राणिसूक्तत्वात् । एतेषु निमित्तेषु परमं तपः परमेण त्रिरात्रमनशनं ब्रह्मचर्यं कर्तव्यम् । परमग्रहणादेकरात्रादेरपि लाभः । तत्र ब्राह्मण आक्रोशे त्रिरात्रं, क्षत्रिये द्विरात्रं, वैश्य एकरात्रं, शूद्रेऽहरिति व्यवस्था । अनृतेऽ-

सानुवाद-मिताक्षरावृत्तिसहितानि २५१

प्येवम्। फलाफलाद्यपेक्षया ब्राह्मणादिस्वामिकेषु वृक्षादिषु हिंसायाम- प्येवम्। अत्र प्रजापतिः—

अनृते सोमपः कुर्यात्त्रिरात्रं परमं तपः। पूर्णाहुतिं वा जुहुयात्सप्त ते अग्न इत्यृचा॥ इति। अनृतोक्तौ ष्ठीवने च दन्तस्पर्शन एव च। पतितानां च संभाषे दक्षिणं श्रवणं स्पृशेत्॥ इति।

इदं परिहासादिनिमित्तानृतविषयम्। हारीतः—

प्रत्याश्रुत्यानृतं ब्रूयान्मिथ्या सत्यमथापि वा। स तप्तकृच्छ्रसहितं चरेच्चान्द्रायणव्रतम्॥

प्रजापतिः—मांसं भुक्त्वा ब्रह्मचारी पुनः संस्कारमर्हति।

अभ्यास ऐन्दवं चैव नैष्ठिको द्विगुणं चरेत्॥ वनस्थस्त्रिगुणं कुर्याद्यतिः कुर्याच्चतुर्गुणम्। मांसाशनेऽनृतोक्तौ च शवनिर्हरणे तथा॥ इति॥ २७॥

दोष देकर भर्त्सना करने, झूठ बोलने और दूसरे की हिंसा करने पर तीन दिन-रात का व्रत करे॥ २७॥

आक्रोशे विशेषः—

सत्यवाक्ये वारुणीमानवीभिर्होमः॥ २८॥

आक्रोशे सत्यवाक्ये सति वारुणीभिर्मानवीमिश्राऽऽज्यहोमः कर्तव्यः। त्रिरात्रं परममित्येव। “यत्किंचेदम्” “इमं मे वरुण” “तन्त्वा यामि” “अवते हेड” इति वारुण्यः। अग्निरुक्थे पुरोहित इत्यारभ्याध्यायपरिसमाप्तेर्मानव्य ऋच एकोनषष्टिर्मनुना दृष्टाः। तास्वन्त्याश्चतस्रो मक्षू देववत इत्याद्यास्तैत्तिरीयके सौमारौद्रयामिक्षौ धाय्यत्वेन विनियुक्ताः। असावादित्य इत्यस्मिन्ननुवाके मानवीऋचो धाय्ये कुर्यादिति। सूत्रकारोऽप्याह-मानवीऋचौ धाय्ये मक्षू देववत इत्येतासां द्वे इति। तत्रान्त्यभिरभिश्चतसृभिर्होम इत्येके। अन्ये तु ऋग्वेदपठिताभिः सर्वाभिमृग्भिरिति॥ २८॥

यदि आक्रोश सत्य हो तो मनु के वरुण-सूक्तों का उच्चारण करते हुए होम करे॥ २८॥

विवाहमैथुननमार्त्तसंयोगेष्वदोषमेकेऽनृतम्॥ २९॥

विवाहकाले कन्यावरयोरसत्स्वपि गुणेषु कथितेष्विदं ते दास्यामीति प्रतिश्रुत्याप्रदाने च न दोषः। तथा मैथुनसंयोग इदं ते दास्यामीत्युक्त्वा

२५२ गौतमधर्मसूत्राणि

मैथुने कृते तस्यादानेऽपि न दोषः । नर्म परिहासस्तत्संयोगेऽनृतवचने न दोषः । तद्यथा भोक्तुकामं गृहमागतं श्यालादिकं प्रत्युच्यते—एहि मन्य ओदनं भोक्ष्यसे भुक्तः सोऽतिथिभिरित्येवंप्रायम् । आर्तसंयोग आर्तस्य दुःखोपशमायामृतवचने न दोषः । तेनैतेषु निमित्तेष्वनृतवचनेषु न प्रायश्चित्तमिति ॥ २९ ॥

कुछ आचार्यों के मतानुसार विवाह, मैथुन, उपहास में तथा रोगी व्यक्ति को सान्त्वना देने के लिए असत्यभाषण का दोष नहीं होता ॥ २९ ॥

न तु खलु गुर्वर्थेषु ॥ ३० ॥

गुरुप्रयोजनेषु विवाहादिष्वप्यनृतं न वक्तव्यम् ॥ ३० ॥

गुरु के सम्बन्ध में विवाहादि किसी स्थिति में असत्य भाषण न करे ॥ ३० ॥

कस्माद्यतः—

सप्त पुरुषानितश्च परतश्च हन्ति मनसाऽपि गुरोरनृतं
वदन्नल्पेष्वप्यर्थेषु ॥ ३१ ॥

इत इत्यात्मानं निर्दिशति । आत्मानमारभ्य सप्त पुरुषान्पुत्रपौत्रादीन्परतश्च सप्त पुरुषान्पितृपितामहादीन्हन्ति पीडयति पापेन योजयतीति । मनसाऽपि गुरोरनृतं चिन्तयन्नल्पेष्वपि प्रयोजनेषु किमङ्ग महत्सु वाचा वदन्निति ॥ ३१ ॥

क्योंकि यदि वह छोटी बात के लिए मन से भी गुरु के प्रति असत्य भाषण करने पर सात पहले की पीढ़ियों तथा सात बाद की पीढ़ियों का नाश करता है ॥ ३१ ॥

अन्त्यावसायिनीगमने कृच्छ्राब्दः ॥ ३२ ॥

अन्त्यावसायिनीनां गमने मैथुनाचरणे कृच्छ्राब्दः प्रायश्चित्तं संवत्सरं प्राजापत्यविधिनाऽवस्थानम् । बुद्धिपूर्व इदम् ॥ ३२ ॥

निम्नवर्ण की स्त्री से संभोग करने पर एक वर्ष तक कृच्छ्र व्रत करे ॥ ३२ ॥

अमत्या द्वादशरात्रः ॥ ३३ ॥

कृच्छ्रे प्रकृते द्वादशरात्रग्रहणं पराकोपसंग्रहणार्थम् । तथा च—
अन्त्यजानां तु गमने भोजने च प्रमापणे ।
पराकेन विशुद्धः स्याद्भगवानङ्गिरा ब्रवीत् ॥ इति ।
इदमपि रेतःसेकात्प्रागेवोपरतस्य । ऊर्ध्वं तु वासिष्ठम्—द्वादशरात्र-

सानुवाद-मिताक्षरावृत्तिसहितानि २५३

मब्भक्षो द्वादशरात्रमुपवसेदश्वमेधावभृथं वा गच्छेत् । एतेन चाण्डाली- व्यवायो व्याख्यात इति ॥ ३३ ॥

अनिच्छा पूर्वक उपर्युक्त पाप करने पर बारह दिन-रात तक वही तप करे ॥ ३३ ॥

उदक्यागमने त्रिरात्र [ त्रिरात्रः ] ॥ ३४ ॥

उदक्यागमने सति ब्रह्मचर्यानशनादिना प्रायश्चित्तेन त्रिरात्रो गमयितव्यः । बुद्धिपूर्वे सकृद्गमन इदम् । अभ्यासे मानवम्—

अमानुषीषु गोवर्जमुदक्यायामयोनिषु ।
रेतः सिक्त्वा जले चैव कृच्छ्रं सांतपनं चरेत् ॥ इति ।

अबुद्धिपूर्वे सकृद्गमने शातातपोक्तम् । अनुदकमूत्रपुरीषकरणे च काकस्पर्शने सचैलस्नानं महाव्याहृतिभिर्होमश्च । रजस्वलागमने चैवमिति । अभ्यासे वासिष्ठम्—रजस्वलागमने शुक्लम्ऋषभं दद्यात्कृष्णपिङ्गमिवि [ द्विरुक्तिरुक्तार्था ] ॥ ३४ ॥

मासिक धर्म के समय स्त्री से संभोग करने पर तीन दिन-रात वही व्रत करे ॥ ३४ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने पञ्चमोऽध्यायः ॥ ५ ॥

अथ तृतीयप्रश्ने षष्ठोऽध्यायः

रहस्यं प्रायश्चित्तं वक्ष्यते—

रहस्यं प्रायश्चित्तमविख्यातदोषस्य ॥ १ ॥

यस्य पापस्य दोषः परैर्न विख्यातस्तस्य प्रायश्चित्तं रहस्यं भवति। यथा परैर्न ज्ञायते तथा कर्तव्यमिति यावत्। यैर्विना यत्पातकं कर्तुं न शक्यते तद्व्यतिरिक्तैर्ज्ञातत्वं निषिध्यते। तेन पारदार्ये पतितसंवासे च तैर्ज्ञातत्वेऽपि वक्ष्यमाणं भवत्येव ॥ १ ॥

जिस व्यक्ति का पाप दूसरों को न ज्ञात हो वह गुप्त रूप से प्रायश्चित्त करे ॥ १ ॥

चतुऋचं तरत्समन्दीत्यप्सु जपेदप्रतिग्राह्यं प्रतिजिघृ-
क्षन्नप्रतिगृह्य वा ॥ २ ॥

जातिदुष्टस्य वा कर्मदुष्टस्य वा पुरुषस्य स्वभूतं स्वयंदुष्टं च कृष्णाजिनाद्यप्रतिग्राह्यम्। गत्यभावादप्रतिजिघृक्षन्नप्रतिग्रहीतुमिच्छंस्तरत्समन्दी धावतीति चतुर्ऋचं सूक्तमप्सु जपेत्। नाभिदघ्ने जले स्थित इत्येके। निमग्न इत्यन्ये। प्रतिगृह्य वा प्रतिग्रहात्पश्चाद्वा जपेत्। एवं तुल्यवद्विकल्पः। अन्ये प्रतिग्रहात्पूर्वमेवाप्रतिग्राह्यमिति ज्ञाते प्राग्जपः। पश्चाज्ज्ञाते पश्चाज्जप इति। अत्र मनुः—

प्रतिगृह्याप्रतिग्राह्यं भुक्त्वा चान्नं विगर्हितम्।
जपंस्तरत्समन्दीयं मुच्यते मानवस्त्र्यहात् ॥ इति।

प्रजापतिः—

जपादिपूरणं कुर्यात्ख्यातदोषो द्विजोत्तमः।
रहःकृतस्य दोषस्य तत्तदेवाभ्यसेत्तथा ॥ इति।

इदमभ्यासविषयम् ॥ २ ॥

जिसने ऐसा निषिद्ध दान ग्रहण करने की इच्छा की हो अथवा ग्रहण किया हो वह जल में खडा होकर तरत् समन्दी आदि चार ऋचाओं का जप करे ॥ २ ॥

अभोज्यं बुभुक्षमाणः पृथिवीमावपेत् ॥ ३ ॥

नित्यमभोज्यं केशकीटावपन्नमित्युक्तम्। यदि गत्यभावे तदेव भोक्तुमिच्छति तदा पृथिवीमावपेन्मृदं प्रक्षिपेत्ततो भुञ्जीत ॥ ३ ॥

निषिद्ध भोजन करने की इच्छा होने पर उस पर धूल डाले ॥ ३ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २५५

ऋत्वन्तरारमण उदकोपस्पर्शनाच्छुद्धिमेके ॥ ४ ॥

ऋतुमध्य आरमणं उदक्यागमनं उदकोपस्पर्शनात्सचैलस्नानाच्छुद्धिमाहुरेके । उदक्यागमने त्रिरात्र इति प्रकाशविषयम् । एकेग्रहणं परत्रापि संबध्यते ॥ ४ ॥

कुछ आचार्यों का मत है कि मासिक धर्म के समय स्त्री के साथ संभोग करने पर जलस्पर्श एवं वस्त्रसहित स्नान से शुद्धि होती है ॥ ४ ॥

स्त्रीषु ॥ ५ ॥

एके स्वस्त्रीषूदकोपस्पर्शनमन्यत्र त्रिरात्रं मन्यते । अपर आह--स्त्रीषु वडवाद्यास्वपि गोवर्जं मैथुन आचरित उदकोपस्पर्शनाच्छुद्धिमेके मन्यन्ते ॥ ५ ॥

कुछ आचार्यों का मत है कि यह नियम अपनी ही पत्नी के विषय में होता है ॥ ५ ॥

अथ ब्राह्मणवधे रहस्यम्—

पयोव्रतो वा दशरात्रं घृतेन द्वितीयमद्भिस्तृतीयं दिवादिष्वेकभक्तिको जलक्लिन्नवासा लोमानि नखानि त्वचं मांसं शोणितं स्नाव्यस्थि मज्जानमिति होमा आत्मनो मुखे मृत्योरास्ये जुहोमीत्यन्ततः सर्वेषां प्रायश्चित्तं भ्रूणहत्यायाः ॥ ६ ॥

भ्रूणहत्या ब्रह्महत्या । तस्याः प्रायश्चित्तमिदमुच्यते । आदित एकं दशरात्रं पयोव्रतः क्षीराहारः स्यात् । द्वितीयं दशरात्रं घृतेन वर्तयेत् । तृतीयमद्भिः । वाशब्दाद्धविष्यभोजनो वा । शक्तितो विकल्पः । एतेषु दिवसेष्वेकभक्तिकः पयःप्रभृति किमपि पूर्वोक्तं सकृदेवोपभुञ्जीत । कदा दिवादिषु प्रातःकालेषु न सायं न मध्याह्ने । जलक्लिन्नवासा एषु दिवसेष्वाद्र्रवासाश्च स्यात् । तथा होमाश्चाष्टौ प्रत्यहमाज्येन कर्तव्याः । तत्र मन्त्राः—लोमानि नखानि त्वचं मांसं शोणितं स्नाव्यस्थि मज्जानमिति । तेषां सर्वेषामात्मनो मुखे मृत्योरास्ये जुहोमि स्वाहेत्यन्ते प्रयोक्तव्यम् । जुहोतिचोदना स्वाहाकारप्रदानेति वचनात् । तद्यथा । लोमान्यात्मनो मुखे मृत्योरास्ये जुहोमि स्वाहा; नखान्यात्मनो मुखे मृत्योरास्ये जुहोमि स्वाहेत्येवंप्रकारा होमाः ॥ ६ ॥

श्रोत्रिय ( वेदज्ञ ब्राह्मण ) की हत्या के लिये रहस्य प्रायश्चित्त इस प्रकार है : दस दिन केवल दुग्धपान उसके बाद के दस दिन केवल घृतपान और

२५६ गौतमधर्मसूत्राणि

उसके बाद दस दिन केवल जल पीकर रहे और वह भी दिन में केवल एक बार प्रातःकाल ग्रहण करे, अपने वस्त्र निरन्तर भिगोये रखे, केश, नख, त्वचा, मांस, रक्त, स्नायु, अस्थि, मज्जा के लिये प्रतिदिन आठ आहुति इस मन्त्र से करे, 'आत्मा के मुख में मृत्यु के दाढ़ों में होम करता हूँ।' लोमानि आत्मनो मुखे मृत्योरास्ये जुहोमि स्वाहा' आदि ॥ ६ ॥

अथ भ्रूणहत्याया एवान्यत्प्रायश्चित्तमुच्यते— उक्तो नियमः ॥ ७ ॥

पयोव्रतो वेत्यादिर्वक्ष्यमाणोऽपि वेदितव्यः ॥ ७ ॥
अब ब्रह्महत्या के लिये दूसरा प्रायश्चित्त बताया जाता है ॥ ७ ॥

अग्ने त्वं पारयेति महाव्याहृतिभिर्जुहुयात्कूष्माण्डैश्चाऽऽ- ज्यम् ॥ ८ ॥

अग्ने त्वं पारयेत्यृचा महाव्याहृतिभिर्भूरादिभिः कूष्माण्डैर्यद्देवा देवहेडनमित्यादिभिश्च क्रमेण सकृदाज्यं जुहुयात् ॥ ८ ॥

'अग्ने त्वं पारय' इस ऋचा से, महाव्याहृतियों (भूअर् आदियों) के साथ कूष्माण्ड मन्त्रों से क्रमशः एक-एक बार आज्य होम करे ॥ ८ ॥

तद्व्रत एव वा ब्रह्महत्यासुरापानस्तेयगुरुतल्पेषु प्राणाया- मैस्तान्तोऽघमर्षणं जपन्सममश्वमेधावभृथेनेदं च प्रायश्चित्तम् ॥६॥

तद् व्रत एव वा तेनैव पयोव्रतो वेत्यादिना व्रतेनोपेतश्चतुर्षु ब्रह्महत्या- दिषु पापेषु प्रायश्चित्तं कुर्यात् । प्राणायामैस्तान्तो म्लानो यावद्भिः प्राणा- यामैस्तान्तो भवति तावद्भिः कुर्यादघमर्षणम् । अघमर्षणेन ऋषिणा दृष्टममृतं च सत्यं चेत्यादिनाऽघमर्षणम् । तच्चाश्वमेधावभृथेन समं तुल्यम् । जपन्निति वर्तमानप्रयोगेण प्रत्यहमेव त्रिंशद्रात्रं व्रतं कुर्यात् । अत्र मनुः- यथाऽश्वमेधः क्रतुराट् सर्वपापप्रणाशनः ।
तथाऽघमर्षणं सूक्तं सर्वपापप्रणाशनम् ॥ ९ ॥

ब्राह्मण की हत्या के लिए, सुरापान के लिए, सोने की चोरी और गुरु-पत्नीगमन के लिए वह वही व्रत करे, म्लान होने तक निरन्तर प्राणायाम करता हुआ रहे और अघमर्षण ऋषि द्वारा दृष्ट मन्त्र 'ऋतं च सत्यं च' मन्त्र का जप करे । यह प्रायश्चित्त अश्वमेध के अन्त में किये जानेवाले अवभृथ स्नान के तुल्य होता है ॥ ९ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २५७

सावित्रीं वा सहस्रकृत्व आवर्तयन्पुनीते हैवाऽऽत्मानम् ॥१०॥

तद् व्रत एवेत्यनुवर्तते । प्राणायामैस्तान्त इति च । सावित्रीं सहस्र- कृत्व आवर्तयन्निति जप्यमात्रं भिद्यते । अन्यत्समानम् । एवं कुर्वन्नात्मानं पुनीते ब्रह्महत्यादिभ्यश्चतुर्भ्यः शोधयति । हेति प्रसिद्धौ । एवेत्यवधारणे । सतश्चान्येष्वपि पापेषु सावित्र्यभ्यासः शुद्धिहेतुः । तथा च वसिष्ठः—

सहस्रपरमां देवीं शतमध्यां दशावराम् ।
शुद्धिकामः प्रयुञ्जीत सर्वपापेष्वपि स्थितः ॥ इति ।

व्याघ्रोऽप्याह—न सावित्रीसमं जप्यं न व्याहृतिसमं हुतम् ।

नान्नतोयसमं दानं न चाहिंसासमं तपः ॥ इति ॥ १० ॥

अथवा सहस्र बार गायत्री मन्त्र का जप करने पर वह निश्चय ही पापमुक्त हो जाता है ॥ १० ॥

प्रायश्चित्तान्तरमाह—

अन्तर्जले वाऽघमर्षणं त्रिरावर्तयन्सर्वपापेभ्यो विमुच्यते [ विमुच्यते ] ॥ ११ ॥

तद्व्रत एवोदकस्यान्तर्निमग्नस्त्रिश्छात्रामघमर्षणं त्रिरभ्यस्य सर्वस्मा- त्पापाज्ज्ञानकृतादज्ञानकृताच मुच्यते । द्विरुक्तिश्च व्याख्याता ॥ ११ ॥

अथवा जल में डूब कर तीन बार अघमर्षण ऋषि के सूक्त का जप करने पर सभी पापों से मुक्त होता है ॥ ११ ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने षष्ठोऽध्यायः ॥ ५ ॥


१७ गौ०

अथ तृतीयप्रश्ने सप्तमोऽध्यायः

उक्तानि महापातकेषु रहस्यप्रायश्चित्तानि। अथोपपातकेषु वक्ष्यन्प्रथममवकीर्णिनः प्रायश्चित्तं वक्तुं तस्य निन्दातिशयप्रदर्शनाय श्रुतिमुदाहरति—

तदाहुः कतिधाऽवकीर्णी प्रविशतीति ॥ १ ॥

तदिति वाक्योपन्यासः। कतिधाऽवकीर्णी कतिभिः प्रकारैः किं किं प्रविशतीति ब्रह्मवादिन आहुः ॥ १ ॥

( ब्रह्मवादियों का प्रश्न है कि ) ब्रह्मचर्य भंग करनेवाला किस-किस प्रकार से किसमें-किसमें प्रवेश करता है ? ॥ १ ॥

अत्रोत्तरम्—

मरुतः प्राणेनेन्द्रं बलेन बृहस्पतिं ब्रह्मवर्चसेनाग्निमिवेतरेण सर्वेणेति ॥ २ ॥

प्राणेन पञ्चवृत्तिना मरुतो वायून्प्रविशति। इन्द्रं बलेन प्रविशति। वृत्तस्वाध्यायसंपद् ब्रह्मवर्चसेन बृहस्पतिम्। इतरेण सर्वेण चक्षुरादिनेन्द्रियवर्गेणाग्निमेव प्रविशति। एवमल्पायुर्निंरुत्साहो ब्रह्मवर्चसहीनश्चक्षुरादिहीनश्चावकीर्णी भवति। अतश्चरितव्यं प्रायश्चित्तम् ॥ २ ॥

उनका कहना है कि उसके प्राण मरुत् के पास, बल इन्द्र में, ब्रह्मवर्चस बृहस्पति में और शेष अंश अग्नि में प्रवेश करता है ॥ २ ॥

तदानीमाह —

सोऽमावास्यायां निश्यग्निमुपसमाधाय प्रायश्चित्ताज्याहुतीर्जुहोति ॥ ३ ॥

सोऽवकीर्ण्यमावास्यायां निश्यर्धरात्रे गृह्योक्तेन मार्गेणाग्निं प्रतिष्ठाप्योपसमाधायाऽऽज्यभागान्ते प्रायश्चित्तरूपा आज्याहुतीर्जुहोति ॥ ३ ॥

वह अमावस्या की रात्रि में अग्नि प्रज्वलित करे और व्रतस्वरूप घृत की दो आहुतियाँ प्रदान करे ॥ ३ ॥

तत्र मन्त्रौ—

कामावकीर्णोऽस्म्यवकीर्णोऽस्मि कामकामाय स्वाहा।
कामाभिदुग्धोऽस्म्यभिदुग्धोऽस्मि कामकामाय स्वाहेति समिध-

सानुवाद-मिताक्षरावृत्तिसहितानि २५९

माधायानुपर्युक्ष्य यज्ञवास्तु कृत्वोपोत्थाय समासिञ्चत्वित्येतया त्रिरुपतिष्ठेत ॥ ४ ॥

होमान्त एकां समिधं तूष्णीमाधायांदितेऽन्वमँस्था इत्यादिभिरग्निमनुपर्युक्षति । ततो यज्ञवास्तु करोति । अत्र च्छन्दोगानां गृह्ये स्विष्टकृतोऽनन्तरं पठ्यते—समिधमाधाय दर्भानाज्ये हवींषि च त्रिरवधायाग्रमध्यमूलान्यक्तं रिहाणा वियन्तु वय इत्यभ्युक्ष्याग्नावनुप्रहरेद्यः ? ( यो ) भूतानामधिपती रुद्रस्तन्तिचरो वृषा पशूनस्माकं मा हिंसीरेतदस्तु हुतं तव स्वाहेति तद्यज्ञवास्तु सर्वत्र कुर्यादिति । तदेतद्यज्ञवास्तु कृत्वोपोत्थायाग्निसमीपे स्थित्वा समासिञ्चतु, इत्येतया च त्रिरग्निमुपतिष्ठेत ॥ ४ ॥

इन दो मन्त्रों "कामावकीर्णोऽस्मिवकीर्णोऽस्म्य कामकामाय स्वाहा ( मैं काम से दूषित हूँ, मैं दूषित हूँ, उस कामकाम के लिये स्वाहा ), "कामाभिदुग्धोस्म्यभिदुग्धोस्मि कामकामाय" ( मैं काम से पीड़ित हूँ, मैं पीड़ित हूँ, कामकाम को स्वाहा" का उच्चारण कर मौन होकर एक समिध अग्नि में रखकर अग्नि के चारों ओर जल छिड़के और यज्ञवास्तु होम करके अग्नि के समीप जाकर तीन बार 'समासिञ्चतु' ( अग्नि मेरा अभिषेक करें ) मन्त्र का पाठ कर अग्नि की पूजा करे ॥ ४ ॥

त्रिरुपस्थानस्यार्थवादः— त्रय इमे लोका एषां लोकानामभिजित्या अभिक्रान्त्यै इति ॥ ५ ॥

त्रयो हि लोका भूर्भुवः स्वरिति । तेषामभिजितिर्भोगयोग्यतापादनम् । अभिक्रान्तिस्तत्रैवाऽधिपत्येनाधिष्ठायावस्थानम् । तदर्थमेवं कर्त्तव्यमिति संबन्धः ॥ ५ ॥

ये लोक तीन हैं, इन तीन लोकों को जीतने के लिए इनका स्वामित्व प्राप्त करने के लिये यह कर्म करना चाहिए ॥ ५ ॥

एतदेवैकेषां कर्माधिकृत्य योऽप्रयत इव स्यात्स इत्थं जुहुयादित्थमनुमन्त्रयेत वरो दक्षिणेति प्रायश्चित्तमविशेषात् ॥ ६ ॥

योऽपूत इवं स्यादन्योऽप्यात्मानमपूतमिव मन्यते न केवलमवकीर्णी सोऽप्येतदेवोक्तं कर्माधिकृत्येत्थं जुहुयादित्थमनुमन्त्रयेत होममुपस्थानं चैवं कुर्यात् । वरो दक्षिणा । गौर्वै वरः । सा स्वयंकर्तृकत्वाद् ब्रह्मणे देयेति श्रवणविशेषात् । अविशेषेण सर्वेषामुपपातकिनामिदं प्रायश्चित्तमित्येकेषां मतम् ॥ ६ ॥

२६० गौतमधर्मसूत्राणि

कुछ लोगों के अनुसार उपर्युक्त कर्म सभी सामान्य निषिद्ध दोषों के लिए प्रायश्चित्त है। इसके विषय में वे कहते हैं कि पापी व्यक्ति इस प्रकार से होम करे एवं इस प्रकार मन्त्रों का जप करे। कर्म कराने वाले ऋत्विज् को वह अपनी इच्छानुसार दक्षिणा प्रदान करे ॥ ६ ॥

अनार्जवपैशुनप्रतिषिद्धाचारानाद्यप्राशनेषु शूद्रायां च रेतः सिक्त्वाऽयोनौ च दोषवति च कर्मण्यपि संधिपूर्वेऽब्लिङ्गाभिरप उपस्पृशेद्वारुणीभिरन्यैर्वा पवित्रैः ॥ ७ ॥

अनार्जवं शाठ्यम् । पैशुनं परदोषसूचनम् । प्रतिषिद्धाचारो निषिद्धानुष्ठानम् । अनाद्यमभक्ष्यं तस्य प्राशनम् । एतेषु शूद्रायां रेतः सिक्त्वाऽयोनौ चाऽस्यादिषु वा रेतः सिक्त्वा, दोषवति कर्मणि परपीड़ात्मके स्तेयात्मके च संधिपूर्वे बुद्धिपूर्वे, अपिशब्दादबुद्धिपूर्वे कृतेऽब्लिङ्गाभिरापो हिष्ठा मयोभुव इति तिसृभिर्हिरण्यवर्णाः शुचयः पावका इति चतसृभिः, वारुणोभिर्यत्किंचेदमिमं मे वरुण तत्त्वा याम्यव ते हेड इत्येताभिरन्यैर्वा पवित्रैः पवमानः सुवर्जन इत्यादिभिरप उपस्पृशेत्पूर्व स्नात्वा पश्चादञ्जलिना मूर्ध्नि मन्त्रैरेतैरपः क्षिपेत् । यद्यप्यनाद्यप्राशनमपि प्रतिषिद्धाचारस्तथाऽपि पृथगुपादानात्तेषु बहुभिर्मार्जनमनाद्यप्राशने यथासंभवं द्रष्टव्यम् ॥ ७ ॥

शाठ्य (धोखा), चुगुली, निषिद्ध आचरण करने तथा वर्जित पदार्थों का भोजन या पान करने, शूद्रा स्त्री से संभोग करने योनि के अतिरिक्त अन्यत्र मुख आदि में वीर्यस्खलन करने तथा जानबूझ कर दूसरों को हानि पहुँचाने के लिये दोषपूर्ण कार्य करने पर आप या वरुण के प्रति उक्त मन्त्रों या अन्य पवित्र करने वाले मन्त्रों के उच्चारण के साथ स्नान करे और अपने ऊपर जल छिड़के ॥ ७ ॥

प्रतिषिद्धवाङ्मनसापचारे व्याहृतयः पञ्च सत्यान्ताः ॥ ८ ॥

प्रतिषिद्धविषये यो वाङ्मनसयोरपचारः कुत्सिता प्रवृत्तिस्तत्र व्याहृतयः पञ्चजप्या भूरादयः सत्यान्ताः प्रथमेऽध्याय उक्ताः । वाङ्मनसोरिति पाठोऽस्मभ्यं न रोचते । अवतुरेरिति समासान्तविधिप्रसङ्गात् । प्रतिषिद्धग्रहणस्य च दुरन्वयत्वात् ॥ ८ ॥

निषिद्ध विषयों के संबन्ध में वाणी या मन द्वारा किये गये पाप की शुद्धि के लिये पाँच व्याहृतियों का उच्चारण करना चाहिए ॥ ८ ॥

सानुवाद-मिताक्षरावृत्तिसहितानि २६१

सर्वास्वपो वाऽऽचामेदहश्च माऽऽदित्यश्च पुनात्विति प्राता रात्रिश्च मा वरुणश्च पुनात्विति सायम् ॥ ९ ॥

सर्वासु पापक्रियास्वनांर्जवादिष्वाभ्यां मन्त्राभ्यामपोऽभिमन्त्र्याऽऽचामेदहश्चेति प्रातः पिबेद्रात्रिश्चेति सायं पिबेत् ॥ ९ ॥

अथवा सभी पाप-क्रियाओं के लिए प्रातः काल 'अहश्च माऽऽदित्यश्च पुनातु' ( दिन और सूर्य मुझे पवित्र करें ) मन्त्र से जल को अभिमन्त्रित करके आचमन करे और सन्ध्या को “रात्रिश्च मा वरुणश्च पुनातु” ( रात्रि और वरुण मुझे पवित्र करें ) मन्त्र से आचमन करे ॥ ९ ॥

अष्टौ वा समिध आदध्याद्देवकृतस्येति हुत्वैव सर्वस्मादेनसो मुच्यते [ मुच्यते ] ॥ १० ॥

अथवा देवकृतस्येत्यादिभिर्मन्त्रैरष्टौ समिध आदध्याज्जुहुयात् । हुत्वैव सर्वस्मादेनसो न केवलमनार्जवादिभ्यः किन्त्वयाज्ययाजनादेरप्येनसो मुच्यते । अस्य होमस्य मुख्यत्वप्रदर्शनार्थमेवकारः । हुत्वैवान्यत्कुर्वीतेति । ततश्च सति संभव इदमेव न्याय्यः । देवकृतस्यैनसोऽवयजनमसि स्वाहेत्यादयोऽष्टौ मन्त्राः [ द्विरुक्तिरुक्तार्था ] ॥ १० ॥

अथवा 'देवकृतस्य' आदि मन्त्रों का उच्चारण करते हुए आठ समिधाएँ अग्नि में होम करे। उनका होम करने से ही सभी पापों से मुक्ति हो जाती है ॥ १० ॥

इति श्रीगौतमीयवृत्तौ हरदत्तविरचितायां मिताक्षरायां तृतीयप्रश्ने सप्तमोऽध्यायः ॥ ७ ॥

अथ तृतीयप्रश्ने अष्टमोऽध्यायः

कृच्छ्रातिकृच्छ्रौ चान्द्रायणमित्युक्तम्। तत्र क्रमेण कृच्छ्रादिस्वरूपमाह—

अथातः कृच्छ्रान्व्याख्यास्यामः ॥ १ ॥

अथशब्दोऽधिकारार्थः । अतःशब्दो हेतौ । य एत आख्याता न शक्यन्ते कर्तुमतः कृच्छ्रान्व्याख्यास्याम इति ॥ १ ॥

अब हम कृच्छ्र का वर्णन करेंगे ॥ १ ॥

हविष्यान्प्रातराशान्भुक्त्वा तिस्रो रात्रीर्नाश्नीयात् ॥ २ ॥

यज्ञियैर्यवैरकादिव्यतिरिक्तैर्निष्पादितान्घृतादिसंयुक्तान्क्षारलवणवर्जितान्प्रातराशान् । अश्न ( इय )न्त इत्याशा ग्रासाः । दिवा भोज्यान्प्राशान्भुक्त्वा । अथापरं त्र्यहमिति वक्ष्यमाणत्वादत्रापि त्र्यहमिति गम्यते । तिस्रो रात्रीर्नाश्नीयादिति तस्मिंस्त्र्यहे रात्र्यशनप्रतिषेधः श्रुत्यनुसारेण कृतः । पुनरयं वक्तव्यः । कथम्-सायं प्रातर्द्विजातीनामशनं श्रुतिचोदितमिति परिसंख्यानाद् द्विरेव भोजनं प्राप्तम् । तत्र प्रातराशान्भुक्त्वेत्युक्ते परिसंख्यानात्सिद्धा रात्रावशननिवृत्तिरथोत्तरत्र दिवा भोजननिवृत्तिः॥२॥

तीन दिन तक प्रातः काल हविष्य का भक्षण करे और सन्ध्या को उपवास करे ॥ २ ॥

अथापरं त्र्यहं नक्तं भुञ्जीत ॥ ३ ॥

एवं दिवा हविष्यभोजनेन त्र्यहं नीत्वाऽनन्तरं त्र्यहं नक्तमेव भुञ्जीत । हविष्यानित्येव ॥ ३ ॥

पुनः तीन दिन केवल सन्ध्या को हविष्य का भक्षण करे ॥ ३ ॥

अथापरं त्र्यहं न कंचन याचेत ॥ ४ ॥

अथ नक्तभोजनत्र्यहानन्तरमपरं त्र्यहं न कंचन बन्धुमपि याचेत । याच्ञाप्रतिषेधोऽयम् । स्वद्रव्यस्य वाऽयाचितलब्धस्याप्रतिषेधः । एवमुक्ते हविष्यनियमो न प्राप्नोति । कालविशेषाश्रवणाद् द्विर्भोजनं च प्राप्नोति । न याचेतेत्यत्रापि हविष्यानित्येवानुवर्तते । अयाचितलब्धेऽपि सकृदेव सिद्धम् । कुतः । अथापरमिति वचनस्य पूर्वेण सदृशार्थत्वात् । तत्तु दिवा नक्तं वा यथेच्छम् । अन्ये तु त्र्यहमयाचितव्रत इत्यापस्तम्बीये दर्शना-

सानुवाद-मिताक्षरावृत्तिसहितानि २६३

दयाचितलब्धेनैव त्र्यहं वृत्तिर्न स्वद्रव्येण । नापि याचितलब्धेनेति वर्ण- यन्ति । अनुष्ठानमप्येवमेव ॥ ४ ॥

पुनः तीन दिन तक किसी से भोजन न माँगे ॥ ४ ॥

अथापरं त्र्यहमुपवसेत् ॥ ५ ॥

स्पष्टम् । एवमयं द्वादशाहसाध्यः कृच्छ्रः । वसिष्ठेन प्रकारान्तरमपि दर्शितम्—

अहः प्रातरहर्नक्तमहरेकमयाचितम् ।
अहश्चोपवसेदेकमेवं चतुरहौ परौ ॥
अनुग्रहार्थं विप्राणां मनुर्धर्मभृतां वरः ।
बालवृद्धातुराणां च शिशुकृच्छ्रमुवाच ह ॥ इति ।

भरद्वाजः—

प्राजापत्यं चरन्विप्रो यद्यशक्तो दिने दिने ।
विप्रान्पञ्चावरान्शुद्धान्भोजयेत्सम्यगर्चितान् ॥ इति ।

यस्मिन्दिनेऽशक्तिस्तत्रैवं, दिनान्तरेषु पूर्ववत् । तत्राप्यशक्तो ब्राह्मण- भोजनमुपवासदिनेष्वशक्तो वा ब्राह्मणभोजनं दत्त्वा हविष्यान्तत्सम्य- ग्भुञ्जीत ॥ ५ ॥

तब फिर तीन दिन तक उपवास रखे ॥ ५ ॥

अथ कृच्छ्रस्य गुणविधिः—

तिष्ठेदहनि रात्रावासीत क्षिप्रकामः ॥ ६ ॥

यः कामयेत क्षिप्रं शुध्येयमिति स तिष्ठन्नेवाहर्नयेत् । भोजनाद्यवि- रोधेन रात्रावासीत । स्वापोऽप्यासीनस्यैव । वसिष्ठस्तु क्षिप्रकामस्य प्रका- रान्तरमाह—

अथ चेत्त्वरते कर्तुं दिवसं मारुताशनः ।
रात्रौ चैव जले तिष्ठेत्प्राजापत्येन तत्समम् ॥
सावित्र्यष्टसहस्रं तु जप्यं कृत्वोत्थिते रवौ ।
मुच्यते पातकैः सर्वैर्यदि न भ्रूणहा भवेत् ॥ ६ ॥

जो शीघ्र शुद्ध होना चाहे वह दिन में खड़ा रहे और रात्रि को बैठा रहे ॥ ६ ॥

सत्यं वदेत् ॥ ७ ॥

सत्यं यथादृष्टम् । विवाहादिविषयेऽपि सत्यमेव वदेत् ॥ ७ ॥

वह सत्य भाषण करे ॥ ७ ॥

२६४ | गौतमधर्मसूत्राणि

अनार्यैर्न संभाषेत ॥ ८ ॥
द्विजातिव्यतिरिक्तैर्लिङ्गस्याविवक्षितत्वात्स्त्रीभिरपि न संभाषेत ॥८॥
वह आर्य के अतिरिक्त किसी अन्य से संभाषण न करे ॥ ८ ॥

रौरवयौधाजपे नित्यं प्रयुञ्जीत ॥ ९ ॥
रौरवयौधाजपे सामनी । पुनानः सोमधारयेत्यस्यामृचि गीते । नित्यं प्रत्यहं प्रयुञ्जीत गायेत् । अपर आह–नित्यं पुनः प्रयुञ्जीतेति ॥ ९ ॥
प्रतिदिन रौरव और यौधजप नाम के साम का गान करे ॥ ९ ॥

अनुसवनमुदकोपस्पर्शनमापो हि ष्ठेति तिसृभिः पवित्रवती-
भिर्मार्जयीत हिरण्यवर्णाः शुचयः पावका इत्यष्टाभिः ॥ १० ॥
उदकोपस्पर्शनं स्नानम् । तदनुसवनं त्रिषु सवनेषु कर्तव्यम् । तदनन्तरं च मार्जनमापो हि ष्ठेत्यादिभिः । पवमानः सुवर्जन इत्यनुवाकः या ऋचस्ताः पवित्रवत्यः । लिङ्गसमवायात् । ताभिश्च तैत्तिरीये पञ्चमे काण्डे षष्ठे प्रश्ने हिरण्यवर्णाः शुचयः पावका इत्याद्या ऋचः पठ्यन्ते । ता दश भवन्ति । तत्राष्टाभिः । यदि तु शाखान्तरे क्वचिदष्टावेव पठ्यन्ते ततस्ता एव ग्राह्याः ॥ १० ॥
'आपो हि ष्ठा' आदि तीन मन्त्रों का उच्चारण करते हुए प्रातः, मध्याह्न और संध्या को स्नान करे और 'हिरण्यवर्णा, शुचयः पावका' आदि आठ पवित्र करने वाले मन्त्रों से शरीर को सुखावे ॥ १० ॥

अथोदकतर्पणम् ॥ ११ ॥
अथ मार्जनानन्तरमुदकेन तर्पणं कर्तव्यम् ॥ ११ ॥
तब वह जल से तर्पण करे ॥ ११ ॥

तत्र मन्त्राः—
नमोऽह्माय मोह्माय मंहमाय धुन्वते तापसाय पुनर्वसवे नमः । नमो मौञ्ज्यायोध्र्याय वसुविन्दाय सार्वविन्दाय नमः । नमः पाराय सुपाराय महापाराय पारयिष्णवे नमः । नमो रुद्राय पशुपतये महते देवाय त्र्यम्बकायैकचरायाधिपतये हराय शर्वायेशानायोग्राय वज्रिणे घृणिने कपर्दिने नमः । नमः सूर्यायाऽऽदित्याय नमः । नमो नीलग्रीवाय शितिकण्ठाय

सानुवाद-मिताक्षरावृत्तिसहितानि २६५

नमः । नमः कृष्णाय पिङ्गलाय नमः । नमो ज्येष्ठाय श्रेष्ठाय वृद्धायेन्द्राय हरिकेशायोर्ध्वरेतसे नमः । नमः सत्याय पावकाय पावकवर्णाय कामाय कामरूपिणे नमः । नमो दीप्ताय दीप्तरूपिणे नमः । नमस्तीक्ष्णाय तीक्ष्णरूपिणे नमः । नमः सौम्याय सुपुरुषाय महापुरुषाय मध्यमपुरुषायोत्तमपुरुषाय ब्रह्मचारिणे नमः । नमश्चन्द्रललाटाय कृत्तिवाससे नमः ॥ १२ ॥

नायमेको मन्त्रः । एताश्चाऽऽज्याहुतय इति बहुवचननिर्देशात् । किं तर्हि । त्रयोदशैते मन्त्राः । नमस्कारादयो नमस्कारान्ताश्च सर्वे । तत्र प्रथमे चतुर्थ्यन्तानि षड् देवस्य नामानि । द्वितीये चत्वारि । तथा तृतीये । चतुर्थे त्रयोदश । महते देवायति महादेवपदमेव व्यस्तमुक्तम् । पञ्चमादिषु त्रिषु द्वे । अष्टमे षट् । नवमे पञ्च । दशमे द्वे । तथैकादशे । द्वादशे षट् । त्रयोदशे द्वे । इति षट्पञ्चाशद्देवनामानि । एभिर्मन्त्रैस्तर्पणमनुसवनम् ॥ १२ ॥

अहंभाव को उत्पन्न करने वाले, मोह को उत्पन्न करनेवाले, दान देनेवाले, पाप का नाश करने वाले और तप करनेवाले पुनर्वसु को नमस्कार है । मुखवास की भेंट को, जल के तर्पण को ग्रहण करने वाले, धन जीतने वाले और विश्व की विजय करने वाले को नमस्कार है । सफलता देनेवाले को, पूरी सफलता देनेवाले को, महान् सफलता देने वाले को, प्रयत्नों को सफल बनाने वाले को नमस्कार है । पशुपति महान् देव, तीन आँखों वाले, अकेले विचरण करने वाले रुद्र को, अधिपति-हर को, शर्व को, ईशान को, उग्र को, वज्र धारण करने वाले, भयंकर जटाधारी को नमस्कार है । सूर्य और आदित्य को नमस्कार है । नीली ग्रीवा वाले, काले कण्ठ वाले को नमस्कार है । कृष्ण वर्ण वाले, भूरे वर्ण वाले को नमस्कार है । ज्येष्ठ को, श्रेष्ठ को, वृद्ध को, इन्द्र को, हरिकेश और ऊर्ध्वरेतस को नमस्कार है । सत्य, पावक, पावक वर्ण वाले काम और कामरूपी को नमस्कार है । दीप्त और दीप्तरूपी को नमस्कार है । तीक्ष्ण और तीक्ष्णरूपी को नमस्कार है । सौम्य को, सुन्दर पुरुष, महापुरुष, मध्यमपुरुष और उत्तम पुरुष ब्रह्मचारी को नमस्कार है । सिर पर चन्द्रमा धारण करनेवाले और चर्म धारण करने वाले को नमस्कार है ॥ १२ ॥

एतदेवाऽऽदित्योपस्थानम् ॥ १३ ॥

आदित्य उपस्थीयते येन तदादित्योपस्थानम् । एतेन कृत्स्नेन मन्त्रे-

२६६गौतमधर्मसूत्राणि

णाऽऽदित्य उपस्थेय इत्युक्तं भवति । एतदप्यनुसवनं प्रत्यहम् । सकृदि- त्यन्ये । पृथग्योगकरणात् । अन्यथाऽथोदकतर्पणमादित्योपस्थानं चेत्ये- कमेव योगमकरिष्यत् ॥ १३ ॥

इसी मन्त्र से सूर्य्यकी पूजा करनी चाहिए ॥ १३ ॥

एता एवाऽऽज्याहुतयः ॥ १४ ॥

एता इति मन्त्रमपि परामृशति । एतच्छब्दस्याऽहुतिसामानाधिकर- ण्यात्स्त्रीलिङ्गता । एतैरेव त्रयोदशभिर्मन्त्रैराज्यमपि होतव्यमित्युक्तं भवति । तत्र “जुहोतिचोदना स्वाहाकारप्रदाना” इति स्वाहाकारान्तैर्होमः प्रत्यहं सकृत्कर्तव्यः ॥ १४ ॥

इन्हीं मन्त्रों से आज्य की आहुति प्रदान करे ॥ १४ ॥

द्वादशरात्रस्यान्ते चरुं श्रपयित्वैताभ्यो देवताभ्यो जुहुयात् ॥ १५ ॥

एवमुक्तेन प्रकारेण द्वादशरात्रं नीत्वा तदन्ते त्रयोदशेऽहनि गृह्योक्तेन मार्गेण चरुं श्रपयित्वैताभ्यो वक्ष्यमाणाभ्यो देवताभ्यो जुहुयात् ॥ १५ ॥

बारह दिन के बाद चरु बनाकर इन देवताओं के लिए बलिप्रदान करे ॥ १५ ॥

ता आह—

अग्नये स्वाहा सोमाय स्वाहाऽग्नीषोमाभ्यामिन्द्राग्निभ्या- मिन्द्राय विश्वेभ्यो देवेभ्यो ब्रह्मणे प्रजापतयेऽग्नये स्विष्टकृत इति ॥ १६ ॥

स्विष्टकृता सह नवाऽहुतयः । द्विः स्वाहाकारपाठोऽनुषङ्गप्रकारदर्श- नार्थः । सर्व एव स्वाहाकारान्ताः [ इत्यर्थः ] ॥ १६ ॥

अग्नि के लिये, स्वाहा; सोम के लिए, स्वाहा; अग्नीषोम के लिये, स्वाहा; इन्द्र और अग्नि के लिये, इन्द्र के लिये, सभी देवताओं के लिये, ब्रह्मा के लिये, प्रजापति के लिये, अग्नि स्विष्टकृत के लिये ॥ १६ ॥

ततो ब्राह्मणतर्पणम् ॥ १७ ॥

ततो होमानन्तरं ब्राह्मणास्तर्पयितव्या भोजनादिभिः । शुचीन्मन्त्र- वतः सर्वकृत्येषु भोजयेदित्यापस्तम्बः ॥ १७ ॥

तब ब्राह्मणों को भोजन करावे ॥ १७ ॥