भारतकोश
संग्रह पर लौटें

गोभिल गृह्यसूत्रम् (सामवेद कौथुम-राणायनीय शाखा - मुकुन्द शर्मा सटीक)

Gobhila Grihyasutram of Samaveda with Commentary

महर्षि गोभिल (टीकाकार: पण्डित मुकुन्द शर्मा) द्वारा

DevanagariHindipublished332 पृष्ठ

प्राक्प्रपितामहनिर्देशस्तद्वाक्यान्तरैकवाक्यताबलान् । तथाच कात्यायनः— “नान्दीमुखे विवाहे च प्रपितामहपूर्वकम् । वाक्यमुच्चारये(१)द्धीमानन्यत्र पितृपूर्वकम् ॥” इति । अत्रनान्दीमुखं विवाहविशेषणम् । नान्दी समृद्धिः । चकारस्तु पूर्व्वों- क्तकर्मसमुच्चयपरः ॥ परिशिष्टान्तरम्— “आर्षङ्गोत्रं समुच्चार्य्य प्रदद्याच्छ्रद्धयाऽन्वितः । परितुष्टेन भावेन “तुभ्यं सम्प्रददे”-इति ॥” इति । आर्ष-प्रवरम् । स्मृतिः— “मासपक्षतिथीनाञ्च निमित्तानाञ्च सर्वशः । उल्लेखनमकुर्वाणो न तस्य फलमश्नुते ॥” इति । तस्यदानादेः कर्मणः । अत्र सर्वपदार्थप्रधानद्वन्द्वबलान्मासादीनां नैकोपसर्जनत्वेनापरोल्लेखः । किन्तु सर्वेषामप्राधान्येनैव । तेनाऽमुके मास्यमु(२)के पक्षेऽमुकतिथावित्यभिलापाकारः सर्वत्रेति वदन्ति । तेनामुकमासीयेत्यादिसङ्क- ल्पवाक्योल्लेखश्चिन्त्य एव । विष्णुधर्मोत्तरे— “अभयं सर्वदैवत्यं भूमिवैंविष्णुदैवता । कन्या दासस्तथा दासी प्राजापत्याः प्रकीर्त्तिताः । करे गृह्य तथा कन्यां दासदास्योर्द्विजोत्तमाः । करन्तु हृदि विन्यस्य धर्मो ज्ञेयःप्रतिग्रहः ॥” तथा—“समापयेत्ततः पश्चात्कामं स्तुत्वा प्रतिग्रहम् ॥” इति । अत्र कामस्तुतौ शाखान्तराद्विशेषः पद्धतौ ( गोभिलीये ) द्रष्टव्यः ॥ कन्यादानादिवाक्येऽपि मासादीकीर्त्तनं सकृदेव आवृत्तौ मानाभावात् । ततोऽ मुकशर्म्मणः पुत्रीमित्येतद्घटितवाक्यस्य त्रिरभ्यास इतिस्मर्त्तव्यम् । शङ्खस्थ- तोयेनयदेतद्दानं तत्राजानिकाचार एव मानम् । वरस्य विष्णुरूपेणानुध्यानाद्वा । दानान्तरसाधारणमन्यत् ॥


( १ ) अत्र मुरारिमिश्राः-उच्चारयेदित्यत्र स्वार्थेणिच् । “रामोराज्यमचीकरदि”- तिवत् । दाता वदेदित्यादिस्वरसात् । अत एवान्यद्वारा वाक्योच्चारणं पाश्चात्यानान्दुरा- चारः । मूलाभावेनान्धपरम्परानुपातत्वात् । शूद्रादेस्तु—“अमन्त्रकस्य शूद्रस्य विप्रा मन्त्रेण गृह्यते” इति स्मरणाद्युक्तम् ॥ इति । ( २ ) “अत्राऽमुके मासे” इत्येवं सङ्कल्पवाक्यमनुपपन्नमेव । शास्त्रातिशययोगस्य फलातिशयाधायकत्वस्मरणात् । तथाच महाभाष्ये “नाकपृष्ठं सुखं यान्ति येऽचीकमत- भाषिणः । ते च पत्काषिणोयान्ति ये चाऽक्रमतभाषणः ।” इति । श्रुतिश्च “एकः शब्दः सुप्रयुक्तः सम्यग्ज्ञातः शास्त्रान्वितः स्वर्गे लोके च कामधुग्भवति”ति । शास्त्रान्वितः विशेषैः ( सर्वैरेवयथायोगं ) शास्त्रैः संस्कृत इत्यर्थः ॥

Here is the complete line-by-line transcription of the page into clean Unicode Devanagari:

विवाहानुवृत्तौ शङ्खलिखितौ— “सर्व्वलङ्कारः स्त्रीधनञ्च देयम्”इति । द्वयमपि चेदं यथाशक्तीति रत्ना- करः । मनुः— “न कन्यायाः पिता विद्वान्गृह्णीयाच्छुल्कमण्वपि । गृह्णञ्छुल्कं हि लोभेन स्यान्नरोऽपत्यांवक्रयी ॥ स्त्रीधनानि तु ये मोहादुपजीवन्ति मानवाः । नारी यानानि वस्त्रं वा ते पापा यान्त्यधोगतिम् ॥ आर्षे गोमिथुनं(१)शुल्कं केचिदाहुर्मृषैव तत् । अल्पोऽप्येवं महान्वापि विक्रयस्तावदेव सः ॥” इति । विद्वान्-शुल्कम्रहणेन कन्याविक्रयदोषाभिज्ञः । अपत्यविक्रयीति । अनेनापत्यविक्रयप्रायश्चित्तभिया न गृह्णीयाच्छुल्कमिति वाक्यार्थः । स्त्रीध- ( १ ) तथाच “एकं गोमिथुनं द्वे वा वरादाय धर्म

१ कण्डिका ] गोभिलगृह्यसूत्रे- १३७ नाति-कन्यादानौ-पयिकधनानि । आपस्तम्बः - “अल्पेनाऽपि हि द्रव्येण यस्तु कन्यां प्रयच्छति । श्लेष्ममूत्रपुरीषाणि बहून्यर्षाण्सम(१)श्नुते ॥” इति ॥ एवमनेकानर्थहेतुत्वात्तदुक्तफलहानिप्रसङ्गाच्च पित्रा अन्येन वा केनापि स्त्री- विवाहोपाधिना धनन्नग्राह्यमिति ॥ १७ ॥ अहतेन वसनेन पतिः परिदध्यात् “याअकृन्तन्” इत्येतयर्चा । “परिधत्त धत्त वाससे-”ति च ॥१७॥ (म-ब्रा-१।१।५-६) अहतेनेति । अत्राहतलक्षणमुक्तं गृह्यासङ्ग्रहे- “सकृद्धौतं नवं श्वेतं सदसद्यन्न धारितम् । अहतन्तद्विजानीयात्सर्वकर्मसु पावनम् ॥” इति । अत्र श्वेतमित्युपलक्षणं नीलातिरिक्तस्य । तस्य विशिष्य शुभकर्म-

' - then 'े' or 'ै'? There are two slants! Wait, is the first slant an anusvara or an e-matra? Look at "विवाहविधिः" or other words. The quotes " ” are right above it! Wait! The closing quote is ”! The quote mark is right above the 'ये' or 'यै'! Look: “सोमोऽददद्गन्धर्वाय” इति -> “सोमोऽददद्गन्धर्वाये”ति ! Wait, the quote mark ” is before ति: “सोमोऽददद्गन्धर्वाये”ति or “सोमोऽददद्गन्धर्वाय” इति? Ah! The text has: “सोमोऽददद्गन्धर्वाये”ति Let's see: “सोमोऽददद्गन्धर्वाय” + इति = “सोमोऽददद्गन्धर्वाये”ति! Because गन्धर्वाय + इति = गन्धर्वायेति! The printer put the quotation mark BEFORE ति: “सोमोऽददद्गन्धर्वाये”ति ! That's why it looks like ai-kar or e-kar with a quote! Let's look closely: य has an e-matra (े), and immediately next to/above it is the closing quote ”! य + े + ” + त + ि = ये”ति! Brilliant! That explains everything: गन्धर्वाय + इति

१ कण्डिका ] गोभिलगृह्यसूत्रे— १३६ स्त्रीणामुपवीतस्याभावात् । अभ्युदानयनम् । “पित्रा दत्तामादाय गृहीत्वा निष्क्रामती”-ति गृहान्तरदर्शनात्करेण करे(१)गृहीत्वा गृहादग्नेरभिमुखीमान- यन् जपेत् पठेत् । पतिः । “सोमोऽददद्”त्यादिमन्त्रम् । स यथा— “सोमोऽददद्गन्धर्वाय गन्धर्वोऽददद्ग्नये । रयिञ्च पुत्रांश्चादादग्निर्मह्यमथो इमाम् ॥” इति ॥ ७ ॥ अस्यार्थः—इमाञ्जातमात्रां ‘सोमः’ चन्द्रः । यथाकाल(२)मुपभुज्य ‘गन्ध- र्वाय’(३)सूर्याय । अददत् दत्तवान् । स च ‘गन्धर्वः’ सूर्यः। स्वाधिकारय्याँव(४)- दूभुक्ता । ‘अग्नये’ ‘अददत्’ दत्तवान् । ‘अथ’(५)अनन्तरम् स ‘अग्निः’ ‘रयिं’ धनं ( निघं-२।१०।८ ) ‘पुत्रान्’(

संवेष्टितं—सम्यग्वाससाऽध उपरि च पार्श्वे चाहतेन वसनेनाच्छादितमि- त्यर्थः । कटं तृण-(वीरण-)ग्रथितमासनम् । तदलाभे—एतंजातीयं—तृणस- दृशम्(१) अन्यत् । तृणपुलकादि । पदा—चरणेन । प्रवर्त्तयन्तीं—वह्निसन्निधानमुप- वेशनार्थं नयन्तीं वधूं “प्र मे”—इत्यादिमन्त्रं पतिर्वाचयेत्—पाठयेत् । अत्रानुवादा- द्विधिरनुमीयते—वरवध्वोरुपवेशनार्थं कटः कर्त्तव्य इति । कर्त्तुश्चानियमः । मन्त्रोयथा— “प्र मे पतिः यानः पन्थाः कल्पतां शिवाअरिष्टा पतिलोकं गमेयम् ॥ ८ ॥ इति । अस्यार्थः ‘नः’ अस्माकम्(२) । ‘पति’—पतिः(३) । ‘मे’ मदर्थम् । ‘पन्थाः’ पन्थानम्(४) । ‘प्रकल्पताम्’ प्रकल्पयतु । अन्तर्भावितण्यर्थः । करोतु । ‘या’ येन(५)पथाऽहं ‘शिवा’ सुखावहा ‘अरिष्टा’ अहिंसिता च सती ‘पतिलोकं’ पतिगृहम्(६) । ‘गमेयम्’ (७)गम्यासम् ॥ ८ ॥ २० ॥ स्वयञ्जपेदजपन्त्यां “प्रास्या” इति ॥ २१ ॥ बाल्याल्लज्जया वा तस्याम् अजपन्त्याम्—अनुच्चारयन्त्याम् । पतिः स्वयञ्जपेत् । स्वयमुच्चारयेत् । तत्र जप्ये विशेषमाह—प्रास्याः । इति—एवमादिं मन्त्रम् । प्र मे इत्यस्य स्थाने प्रास्या इति कृत्वेत्यर्थः । एवं गमेयम्—इत्यत्र गम्या इति । अन्यथाऽनन्वयप्रसङ्ग इति द्रष्टव्यम् । तथाच मन्त्रार्थः । अस्याः पतिः ( अयमहं ) न आत्मनः (८)कृते पन्थानं प्रकल्पयतु । येन पथा शिवा अरिष्टा च सती त्वं पतिलोकं पतिगृहं गम्या गच्छ । आशिषि लिङ् । एतच्चाग्नि- प्रदक्षिणानन्तरं, तथाच गृह्यासङ्ग्रहे— “यदा निष्क्रामयेत्कन्यां वरः पाणिजिघृक्षया । अग्निप्रदक्षिणं कृत्वा कटं स्तीर्णमिदञ्जपेत् ॥” इति । अत्र पदानि क्रामयेदित्यपपाठः । अत्रपाठे तदेत्यध्याहार्यम् । “यच्छब्देन तु तच्छब्दोबोद्धव्यः सततं बुधैरि”ति योगिस्मरणात् । निष्क्रामये- त्पितृकुलान्मण्डपाद्गेहामानयेत्तदा जपेदिदं “प्रमेइति” “प्रास्याः” इति वा कन्या वा वरोवेति क्रमेणान्वेतव्यम् । पारस्करोऽपि—“प्रदक्षिणमग्निं परिक्र- म्योपविशति” इति ।


( १ ) प्रकारार्थेऽत्र ( पा० ५।३।६९ ) जातायारप्रत्ययः । ( २ ) “अस्मदोद्वयोश्च” ( पा० १।२।५९ ) इत्येकत्वेऽपि बहुवचनम् ॥ ( ३ ) “सुपां सुलुकू” ( पा० ६।१।३९ ) इति सोर्लुक् ॥ ( ४ ) अत्रोक्तेनैव सूत्रेण ( पा० ७।१।३९ ) अमः सुः ॥ ( ५ ) आङोऽत्र डादेशः ( पा० ७।१।३९ ) ॥ ( ६ ) पतिर्लोकते दृश्यते यत्र तत् ॥ ( ७ ) “लिङ्याशिष्याङ्” ( पा० ३।१।८६ ) इति गमेरङ् ॥ ( ८ ) अस्मभ्यम् । चतुर्थ्यर्थे षष्ठी ( पा० २।३।६२ ) बहुवचनमेकत्वार्थे पूर्ववत् ॥

१ कण्डिका ] गोभिलगृह्यसूत्रे— १४१ बर्हिषोऽन्तं कटान्तं प्रापयेत् ॥ २२ ॥ बर्हिः पदमत्राग्निपरं “बर्हिः(१)शुष्मे”ति वह्निनामसु पाठात्तत्रापि तस्य शक्तत्वात् । एवञ्चाग्नि-कटयोर्मध्यं(२) प्रापयेत्-नयेत् । प्रकृतत्वात्कन्यामि- त्यर्थ इतिमे प्रतिभाति । अत एवाग्निस्थापनं, ततो ब्रह्मोपवेशनादि-दृषदपुत्रा- सादनपर्यन्ताऽग्निपरिचरणानन्तरं कन्यादानमितिपद्धतिक्रमः सङ्गच्छते । भाष्यकारस्तु-कटम्पदा प्रवर्त्तयन्तीमिति पूर्वमुक्तं तत्कियन्तं देशं प्रवर्त्तयेत् ? इत्यपेक्षायामाह—बर्हिषोऽन्तमिति । कटपूर्वप्रान्तमास्तृत(३)कुशपर्यन्तं नयेदि- त्यर्थः । एवञ्च कटप्रवर्त्तनात्पूर्व्वङ्गन्यादानाद्यवसर एवाज्यसंस्कारान्तं कर्म्मान्य- द्वारा कारयितव्यम् । अन्यथा पूर्वं बर्हिस्तरणस्य वरेणाकरणाद्बर्हिषोऽन्तमिति नोपपद्येतेत्युक्तम् । तन्मन्दम् । अन्यद्वारा करणे प्रमाणान्तरस्याभावादस्य चान्यथा व्याख्यातत्वादिति शुभकर्मनिर्णये मुरारिमिश्राः प्राहुः ॥ २२ ॥ पूर्वे कटान्ते दक्षिणतः पाणिग्राहस्योपविशति ॥ २३ ॥ अत्र वधूरिति शेषः । पूर्वे कटान्ते कटस्य पूर्वस्मिन्भागे । दक्षिणतः दक्षि- णास्यां दिशि । सार्वविभक्तिकस्तसिः । ( पा० ५ । ४ । ४४ वा० ) कस्य ? पाणिग्राहस्य । यः पाणिङ्करमस्या ग्रहीष्यति तस्य “कर्मण्यण्” ( पा० ३।२।१ ) दक्षिणेन पाणिना दक्षिणमंसमन्वारब्धायाः षडाज्याहुतीर्जुहोति । “अग्निरैतु प्रथमः” इत्येतत्प्रभृतिभिः ॥ २४ ॥ ( मं० ब्रा० १ । १ । १०–१५ ) अन्वारब्धाया इति वर्त्तमाने कर्त्तरि निष्ठा । ( पा०३।४।७२ ) । षष्ठी चेयं सम्बन्धार्था । अन्वारम्भणं स्पर्शः । तथाचायमर्थः । पत्युर्दक्षिणांसं दक्षिणहस्तेन स्पृशन्त्यां वध्वा-“अग्निरैत्वि”त्यादि षड्भिर्मन्त्रैः पतिः षडाज्याहुतीर्जुहुया- दिति । मन्त्रा यथा— “अग्निरैतु प्रथमो देवताभ्यः सोऽस्यै प्रजामुञ्चतु(४) मृत्युपाशात् । तदयं राजा वरुणोऽनुमन्यतां यथेयं स्त्री पौत्रमघं न रोदात्स्वाहा॥१।१०॥ ( १ ) “बर्हिःशुष्मे”ति सङ्घातोविगृहीतञ्च नाम । बर्हते वर्द्धते इतिबर्हिः । इदन्तः सान्तोऽपीति । शुष्यत्यनेन शुष्मा । नान्तोऽदन्तोऽपि इति चामरटीकायाम्महेश्वरः । तथाच शब्दार्णवः “शुक्रो वैश्वानरो वह्निर्बर्हिः शुष्मा तनूनपात्” इति ॥ ( २ ) अन्तशब्दोऽत्र समीपार्थकः । पुरतोबर्हिः पश्चात्कट इति तयोः समीपं मध्य- मेव भवतीति ॥ ( ३ ) अत्र बर्हिष इति जात्याश्रयमेकवचनम् । बर्हिषामास्तृतानामन्तं कटान्तं प्रा- पयेत् । अयमर्थः । कटस्तथापदा प्रवर्त्तितव्योबध्वा यथा तदन्तभाग आस्तृतबर्हिषाङ्क- श्चिदुपरि स्यादिति ॥ ( ४ ) अत्र “मुञ्चतु” इति कृतदीर्घपाठः संहितायाम् “पद्धतिषु यथोल्लिखित एव ।

अस्यार्थः । अस्मिन्प्रस्तुते कर्मणि । पूज्यमानाभ्यो 'देवताभ्यः' । ता अपे- क्ष्य(१) 'प्रथमो' मुख्यः 'अग्निः' 'एतु' आगच्छतु । आगत्य च 'सः' अग्निः । 'अस्यै' अस्याः । षष्ठ्यर्थे चतुर्थी । (पा० २।३।६२) 'प्रजां' भाविनीं 'मृत्युपा- शात्' 'मुञ्चतु' मोचयतु(२) । 'तद्' एतन्मृत्युपाशविमोचनमग्नेः । 'अयं' 'राजा' अधिपतिरपां 'वरुणः' तदाख्योदेवः 'अनुमन्यताम्' अनुजानातु । 'यथा' येनानुज्ञानेन । प्रकारेण वा (भगवतः शुभानुध्यानेन वा) 'इयं स्त्री' (३)भूता सती 'पौत्रं' पुत्रभवम् (तत्सम्बन्धि) 'अघं' दुःखं यमबन्धनात् । "दुःखौघव्यसनेष्वघम्" इत्यमरः । "प्राप्ये" तिशेषः । 'न रोदात्' न रुद्यात्(४) । ताभ्यामग्नीवरुणाभ्यां 'स्वाहा' सुहुतमस्तु ॥ १० ॥ “इमामग्नित्रायतां गार्हपत्यः प्रजामस्यै जरदष्टिं कृणोतु । अशून्योपस्था जीवतामस्तु माता पौत्रमानन्दमभि विबुध्यतामियᳪस्वाहा ॥११॥ 'गार्हपत्यः' तदाऽऽख्यः 'अग्निः' योऽसौ (५)भार्य्यः । 'इमां' कन्याम् (अग्निहोत्रिणीं कृत्वा) 'त्रायताम्' पालयतु । किञ्च 'अस्यै' अस्याः । पूर्वव- च्चतुर्थी षष्ठ्यर्थे । 'प्रजां' (६)सन्ततिम् । 'जरदष्टिं' जराव्यापिनीम्(७) (चिर- स्थायिनीम्) 'कृणोतु' करोतु "कृविहिंसाकरणयोश्च" (स्वा० प०) इत्यस्य लोटि रूपम् । किञ्च 'अशून्योपस्था' नित्यं सुतपूर्णोत्सङ्गा । भर्तुः सङ्गता वा सती 'जीवतां' दीर्घायुषाम् । 'माता' जनयित्री 'अस्तु' भवतु । अतः 'इयं' 'पौत्रं' पुत्रसम्बन्धिनम् । 'आनन्दम्' सुखम् । 'अभि' अधिगत्य(१०) 'विबुध्यताम्' विविधं-सुख-मनुभवतु । तस्मै अग्नये 'स्वाहा' सुहुतमस्तु ॥ ११ ॥ ( १ ) "ल्यब्लोपे कर्मण्यधिकरणे च" (पा० १।४।२१ वा०) इति पञ्चमी । ( २ ) अन्तर्भावितण्यर्थः । आशिंसायां ङित्त्वान्न लोट् । ( ३ ) स्त्यायेते संहीभवतः शुक्रशोणिते अस्यामित्यर्थे "स्त्यैशब्दसंघातयो"रिति धातोर्ड्रट् प्रत्ययऔणादिकः । डित्त्वाट्टिलोपे ङीप् । ( ४ ) लिडर्थे लेट्" (पा० ६।४।७) तस्याडागमः (पा० ३।४।९४) । ( ५ ) “गृहपतिना संयुक्तेञ्यः” (पा० ४।४।९०) इति ञ्यप्रत्ययेन निष्पन्नोगार्हपत्य- शब्दः गृहपतिसंयोगप्रवृत्तिनिमित्तकः । गृहपतित्वं च दारसम्बन्धमन्तराऽसम्भवि “न गृहं गृहमित्याहुर्गृहिणी गृहमुच्यते” इति स्मरणात् । ( ६ ) “प्रजा स्यात्सन्ततौ जने” इत्यमरः । ( ७ ) “अशूव्याप्तौ” (स्वा० आ०) इत्यस्मात्कर्तरि क्तिच् । जरदवस्थामश्नुते या स जरदष्टिस्ताम् । ( ८ ) “उपस्थः शेफसि क्रोडे तथा सदनमन्दिरे” इति मेदिनी । ( ९ ) “जनयित्री प्रसूर्माता” इत्यमरः । ( १० ) अभिलक्ष्य विबुध्यतां विबोधं प्रबोधं लभतामिति वार्थः । अत्र “सविशेषणे हि विधिनिषेधौ सति विशेष्येऽन्वयबाधे विशेषणमुपसंक्रामतः” इति न्यायानानन्दमानं पुत्रमिति पौत्रमानन्दमित्यस्यार्थोबोध्यः । “निष्ठन्तपञ्चजन्यः श्रुत” इतिवत् ।

39 is "सुपां सुलुक्..." which allows substitution of case endings in the Veda (व्यत्यय)! So "अत्र शसःसुः’ ( पा० ७।१।३९ )"! Wait, is there an opening quote? Look before श: there is a single quote! ‘शसःसुः’ or अत्र ‘शसःसुः’? Wait, look at the space: "( १ ) अत्र शसःसुः’" - the opening quote is missing or very faint. And then: “स्तने चेटोनासिकायां ध्मश्चेति वाच्यम्” ( पा० ३।२।२९ वा० ) इतिखसि नुमागमः । Yes, Pāṇini 3.2.29 is "नासिकस्तनयोर्ध्माधेटोः", and the Varttika is "स्तने चेटो नासिकायां ध्मश्चेति वाच्यम्", giving the affix खश् (or खस्), which gets नुम्-आगम to form "स्तनन्धय"! This makes 100% complete grammatical sense!

Line 25: ( २ ) “माङि लुङ्” ( पा० ३।३।१७५ ) इति लोङर्थेलुङ् । “न माङ्योगे” ( पा० Wait, is it ३।३।१७५? Yes, Pāṇini 3.3.175 is

१४४ विवाहविधिः । [ २ प्रपाठके- अथवा 'अघम्'दुःखम् (१) । एतत्सर्वं 'शीर्ष्णः' मूर्ध्नः शकासात् 'स्रजमिव' मालाम् इव 'उन्मुच्य' ऊर्ध्वं त्वत्तोऽपसार्य ( पृथक्कृत्य ) 'पाशम्' मृत्युपाश- भूतमेतत्सर्वं ते 'द्विषद्भ्यः' (२) शत्रुभ्यः तानुद्दिश्य 'प्रतिमुञ्चामि' तद्गलेषु स्थापयामि (३) । इदमग्नये 'स्वाहा' सुहुतमस्तु । अत्र "सर्वे विधयश्छन्दसि विक- ल्पन्ते” इति नियमाद्-वा अघमित्यत्र सन्ध्यभाव आर्षः । अविवक्षया वा ॥१४॥ "परैतु मृत्युरमृतम्म आगाद्वैवस्वतो नोऽअभयं कृणोतु । परम्मृत्योऽनुपरेहि पन्थां यत्र नो अन्य इतरीदेवयानात्” ॥ चक्षुष्मते शृण्वते ते ब्रवीमि मा नः प्रजां रीरिषोमोतवीरान्स्वाहा ॥१५॥ कन्यकैवाशास्ते—“मृत्युः' (४) मरणम् । मत्तः 'परैतु' दूरङ्गच्छतु । 'अमृ- तम्' अमरणम् । 'मे' मम 'आगात्' आगच्छतु (५) । तथा 'वैवस्वतः' यमः । (६) 'नः' अस्माकम् (७) । 'अभयम्' भयाभावम् (८) । 'कृणोतु' करोतु । एवम्प- रोक्षमुक्त्वा प्रत्यक्षीकृत्य मृत्युरेवाभ्यर्थ्यते-हे 'मृत्यो ! मत्तः 'परम्' अन्यं 'पन्थां' पन्थानम् (९) । 'अनुपरेहि' कमप्यनुगत्यापसर । यत्र 'नः' अस्माकम् 'अन्यः' परः शत्रुरस्ति । कोऽसौ पन्थाः ? 'देवयानात्' देवपथात् 'इतरः' अन्यः (१०)पि- तृपथः । यत्र गत्त्वा पुनरावर्त्तते मृत्युवशमापन्नः । किञ्च 'चक्षुष्मते शृण्वते' 'ते' तुभ्यं 'ब्रवीमि' प्रार्थये । यत् 'नः' अस्माकं 'प्रजां' सन्ततिम् । 'उत' अपि च 'वीरान्(११)' विक्रान्तान् पुरुषान् पतिपुत्रादीन् 'मा रीरिषः' मा हिंसी.(१२) तस्मै मृत्यवे 'स्वाहा' सुहुतमस्तु । अत्र “प्रकृत्यान्तः पादमव्यपरे" ( पा० ६।१।११५ ) इति नो इत्यस्य प्रकृतिभावात्पूर्वरूपाभावः ॥ १५ ॥ महाव्याहृतिभिश्च पृथक् ॥ २७ ॥ महाव्याहृतिभिर्भूर्यादिभिस्तिसृभिः । पृथक्-प्रत्येकं, क्रियानुषङ्गार्थश्चका- रः ॥ १५ ॥


( १ ) “अंहोदुःखव्यसनेष्वघम्” इत्यमरः ॥ ( २ ) "रिपौ वैरिसपत्नारिद्विषद्द्वेषणदुर्हृदः" इत्यमरः ॥ ( ३ ) प्रतिपूर्वकोमुञ्चतिर्निधापने वर्त्तते । एवमाङ्पूर्वोऽपि । इति बोध्यम् ॥ ( ४ ) "मृत्युर्मरणं निधनेऽस्त्रियाम्” इत्यमरः ॥ ( ५ ) लोडर्थे लुङ् ( पा० ३।४।६) ॥ ( ६ ) "यमः । कालोदण्डधरः श्राद्धदेवोवैवस्वतोऽन्तकः” इत्यमरः ॥ ( ७ ) “अस्मदोद्वयोश्च” ( पा० १।२।६९ ) इत्येकत्वे बहुवचनम् ॥ ( ८ ) अर्थाभावेऽव्ययीभावः ( पा० २।१।६ ) समासः ॥ ( ९ ) नलोप आर्षः ॥ ( १० ) "इतरस्त्वन्यनीचयोः" इत्यमरः ॥ ( ११ ) "वीरविक्रान्तौ" [ चु० आ० ] पचाद्यच् ( पा०३।१।१३४ ) णिलोपः ॥ ( १२ ) "रिषहिंसायाम्" स्वार्थेणिजन्तान्माङि लुङ् (पा० ३।३।१७५ ) इति लुङ् "न माङ्योगे" ( पा० ६।४।७४ ) इत्यडभावः ॥

३. तृतीय प्रपाठक: नामकरण, निष्क्रमण, अन्नप्राशन, चूड़ाकरण एवं उपनयन संस्कार

२ कण्डिका ] गोभिलगृह्यसूत्रे— १४५ समस्ताभिश्चतुर्थीम् ॥ २६ ॥ इति श्रीम० गो० गृ० द्वि० प्र० स्य प्रथमा कण्डिका ॥२॥ १ ॥ ॐ ॥ भूर्भुवः स्वः स्वाहेति समस्ताभिः चतुर्थीमाहुतिं जुहुयात् । होमस्य खल्व- स्याज्यहविष्कतयाऽऽज्यतन्त्रविहितोमहाव्याहृतिहोमः पुरस्तादपि भवति । आ- ज्यभागौ स्विष्टकृच्च न भवन्ति । परन्तास्तिस्र एवाज्यतन्त्रोपक्रमविहिताः पुर- स्तात् । परस्तात्तु चतस्र इदानीमेव तथोपदेशादिति बोध्यम् ॥ २६ ॥ इतिश्रीमद्गोभिलीयगृह्यसूत्रव्याख्यायां मृदुलाख्यायां मुकुन्दशर्म्मसङ्कलितायां द्वितीयप्रपाठकस्य प्रथमा कण्डिका ॥ २ ॥ १ ॥ ॐ ॥ अथ द्वितीया कण्डिका । हुत्वोपोत्तिष्ठतः ॥ १ ॥ उपेति-संहतहस्तत्वमुच्यते । हुत्वा संहतहस्तौ (१)दम्पती उत्तिष्ठतः । मुरा- रिमिश्रास्तु-उप-अग्निसमीपे होमानन्तरमेवाग्निसमीपे दम्पती उत्तिष्ठतइति- व्याचख्यौ । अत्रानन्तरमेवेत्यनेनानन्तर्यमात्रं क्त्वार्थो न तु समानकर्त्तृकत्व- मपीत्युच्यते । दृश्यते चासमानकर्तृकेऽपि कर्म्मणि क्त्वाश्रुतिः । “आज्या- हुतिं हुत्वा मुख्यं धनं दद्यात्” इत्येवमादौ बहुलम् । अत्र खलु ऋत्विग्जु- होति यजमानोददाति । होमकुर्वाणस्य पत्युरंसमन्वारम्भमाणा वधूरपि कयाचिद्विवक्षया होमानुकूलचेष्टावती भवति । इत्यस्ति समानकर्त्तृत्वमिति तत्त्वकारः । केचित्तु उपेत्याञ्जलिं वध्वेत्याहुः ॥ १ ॥ अनुपृष्ठं पतिः परिक्रम्य दक्षिणत उदङ्मुखोऽवतिष्ठते वध्वञ्जलिङ्गृहीत्वा ॥ २ ॥ पतिश्चानुपृष्ठं-(२)वधूं पृष्ठेन परिक्रम्य वधूदक्षिणतः । उदङ्मुख उत्तराभि- मुखोभूत्वा वध्वञ्जलिं-वध्वास्तस्या एवाञ्जलिं दक्षिणेन पाणिना गृहीत्वा अव- तिष्ठेतेत्यर्थः(३) । स खल्वयमञ्जलिः पाणिग्रहणपर्यन्तं स्थास्यति । पतिश्च तावन्तं कालममुमञ्जलिमनापत्सु न त्यजेत् । तथाच गृहान्तरम्— “हुत्वाऽऽज्यमथ जायाया अन्वारभ्याञ्जलिम्पतिः । न विमुञ्चेदनापत्सु यावत्पाणिग्रहो जपः” ॥ इति ॥ २ ॥

( १ ) एतच्च भट्टभाष्यानुसारि व्याख्यानम् ॥ ( २ ) अत्रानुपूर्व्येऽव्ययीभावः ( पा० २।१।६। ) ॥ पृष्ठेनेति प्रकारित्वं तृतीयार्थः । ( पा० २।३।१८ वा० ) । “प्रकृत्यादिगणजाता तृतीया तु तदात्मताम् । अवच्छेदकता- बुद्धिप्रकारित्वादि शंसती”ति ह्युक्तेः । ( ३ ) ऊर्ध्वस्तिष्ठेत् । विधौ लेटि रूपमेतत् । अत्र “किं कृत्वा ? वध्वञ्जलिङ्गृहीत्वा १९ गो० गृ० सू०

पूर्वा माता लाजानादाय भ्राता वा वधूमाक्रामयेदश्मानं दक्षिणेन प्रपदेन ॥ ३ ॥ पूर्वा-पूर्वदिगवस्थिता । माता-प्रकृतत्वाद्वध्वाः । भ्राता वा तस्या एव । पूर्वदिगवस्थित एव सव्यहस्तेन लाजानादाय लाजपूर्णं शूर्पं कृत्वा-आदाय । दक्षिणहस्तेन वधूं दक्षिणेन प्रपदेन पादाग्रेण(१) । अश्मानं-शिलापुत्रकम् आक्रामयेत् । केचित्तु-पूर्वा वह्वीनां मातृणां प्रथमेति व्याचक्षते तन्न मातृबहु- त्वस्यासार्वत्रिकत्वात् ॥ ३ ॥ पाणिग्राहोजपति “इममश्मानमारोहे”ति ॥ ४ ॥ (मं०ब्रा०२।१।१) स्पष्टार्थम् । मन्त्रस्तु— “इममश्मानमारोहाश्मेव त्वं स्थिरा भव । द्विषन्तमपबाधस्व मा च त्वं द्विषतामधः” ॥ ३ ॥ इति । अस्यार्थः—हे कन्यके! त्वम् ‘इमं’ पुरःस्थम् ‘अश्मानं’ दृषत्पुत्रम् । ‘आ- रोह’ आक्राम । किञ्च ‘अश्मेव’ पाषाणवत् ‘त्वं स्थिरा भव’ । ततश्च ‘द्विष- न्तम्’(२) शत्रुम् ‘अपबाधस्व नितान्तं पीडय । ‘त्वञ्च’ ‘द्विषताम्’ ‘अधः’ पादतले ‘मा’ “भू”रिति शेषः(३) ॥ ४ ॥ सकृत्संगृहीतं लाजानामञ्जलिं भ्राता वध्वञ्जलावावपति ॥ ५ ॥ सकृत्-एकवारं संगृहीतम्-सम्यग्गृहीतम् । अविकिरन्निति यावत् । लाजानामञ्जलिम् अञ्जलिपरिमितन् लाजान् । भ्रातेत्यनन्तरं “माता(४) वे”ति शेषः ॥ ५ ॥ तमुं सोपस्तीर्णाऽभिघारितमग्नौ जुहोत्यविच्छिन्दत्यञ्जलिम् “इय- न्नार्युपब्रूते” इति ॥ ६ ॥ (म० ब्रा० २।१।२) [L2

शक्यत्वात्" or "परिहर्तुमशक्यत्वात्"? Look at 'र्त्तु' in 'कर्त्तृक' (L13): exactly the same ligature! So: "परिहर्त्तुमशक्यत्वात्".

Line 18: "त्वादिति । एवञ्च सकलमैथिलाचारोऽपि सङ्गच्छते । पद्धतिरप्येवं लिखित-"

Line 19: "( गृ० सं० ) वाक्यं विशेषविषयबोधितपरमतो न विरोधइतिमुरारिमिश्राःप्राहुः ।" Wait, is it "( गृ० सं० )" or "(गृ०सं०)"? There is a space: "( गृ० सं० )". And "विरोधइतिमुरारिमिश्राःप्राहुः ।" - no spaces between विरोध, इति, मुरारिमिश्राः, प्राहुः. Wait, look at "विरोधइतिमुरारिमिश्राःप्राहुः": "विरोधइति" is joined, "मुरारिमिश्राः" is joined, "प्राहुः" is joined.

Line 20: "मन्त्रोयथा—"इयं नार्युपब्रूतेऽग्नौ लाजानावपन्ती ।"

Line 21: "दीर्घायुरस्तु मे पतिः शतं वर्षाणि जीवत्वेधन्तां ज्ञातयोमम स्वाहा" ॥२॥ इति ॥" Wait, look at "

१४८ विवाहविधिः । [ २ प्रपाठके इति । किञ्च 'मम' 'ज्ञातयः' बान्धवाः । 'एधन्ताम्' वर्द्धन्ताम्, धनधान्यपुत्रा- दिभिः । इदञ्चास्मा अग्नये 'स्वाहा' सुहुतमस्तु ॥ ३ ॥ ६ ॥ "अर्यमणन्तु देवं" "पूषणम्"-त्युत्तरयोः ॥ ७ ॥ ( म० ब्रा० १ । २ । ३-४ ) उत्तरयोर्लाजहोमयोर्यथा "अर्यमणन्तु देवं" "पूषणन्तु देवम्" इति मन्त्रौ विनियोक्तव्यावित्यर्थः । तौ यथाक्रमम्— "अर्यमणन्तु देवं कन्या अग्निमयक्षत । स इमान्देवाऽअर्यमा प्रेतोमुञ्चातु माऽमुतः स्वाहा" ॥ ३ ॥ इति । अस्यार्थः—नुशब्दोऽत्र चार्थे । 'कन्याः' कत्र्र्यः । 'अर्यमणं' तदाख्यं 'देवम्' अभिमत दानादिगुणयुक्तम् । 'अग्निं' च 'अयक्षत' इष्टवत्यः । ( पूजितवत्यः ) 'स' च ( अर्यमा अग्निश्च ) इष्टः सन् 'इमां' कन्यां परिणी- यमानाम् । 'इतः' पितृकुलात् 'प्रमुञ्चातु' प्रमुञ्चतु-प्रमोचयतु । 'मा' न 'अमुतः' अमुष्मात्पतिकुलात् । तदेतत् ताभ्यां 'स्वाहा' सुहुतमस्तु । अत्र पूर्वा- र्द्धेन विशेषोपसंहार इति गुणविष्णुः । मुञ्चात्विति दीर्घश्छान्दसः । अन्तर्भावि- तण्यर्थश्चैवमग्रेऽपि ( पा०६।३।१३७ ) एवमग्रेऽपि । "पूषणन्तु देवं कन्या अग्निमयक्षत । स इमान्देवः पूषा प्रेतो मुञ्चातु मा पतेः स्वाहा" ॥ ४ ॥ इति । अर्थः प्राग्वत् । अत्र पतेरिति-पतिशब्दो न मुख्यार्थकः(१) । ला- जहोमकर्मण आसमाप्तेस्तथात्वाभावादितिगुणविष्णुः ॥ ४ ॥ हुते पतिर्यथेतं परिक्रम्य प्रदक्षिणमग्निं परिणयति मन्त्रवान्वाब्राह्मणः "कन्यला पितृभ्य" इति ॥ ८ ॥ ( मं० ब्रा० १।२।२ ) हुते-वध्वा (२)लाजहोमे कृते पतिः यथेतं यथाऽऽगतं(३) परिक्रम्य पुन- रागम्य प्रदक्षिणं यथा भवति तथा पत्नीमग्निं परिणयति परिसर्बतोभावेन न येत् । अग्निप्रादक्षिण्येने भ्रामयेदित्यर्थः । "कन्यला पितृभ्य" इति-अनेन मन्त्रेण । मन्त्रोयथा— "कन्यला पितृभ्यः पतिलोकं यतीयमप दीक्षामयष्ट । कन्या उत त्वया वयं धारा उदन्या इवाऽतिगाहेमहि द्विषः" ॥५॥ ( १ ) किन्तु-पतिरित्याख्यातः पतिः । "नष्टे मृते प्रव्रजिते क्लीबे तु पतिते पतौ" इति- वत् । आख्यानणिजन्तात्कर्मणि क्विपि टिलोपे णिलोपे च कृते "इन्सर्वधातुभ्य" इत्यौणा- दिकडन् प्रत्ययः । "गौणमुख्ययोर्मुख्ये कार्यसम्प्रत्ययः" इतिन्यायेन "पतिःसमास एवे" ( पा० १।४।८ ) ति नियमोन प्रवर्त्ततेऽत्र ॥ ( २ ) हुत इत्येकवचनसम्बन्धादेकस्मिन्नेव लाजाञ्जलौ हुते इत्यर्थः । अन्यथैतदनर्थकं स्यादिति चन्द्रकान्तः । (३) यथा वध्वाऽनुपृष्ठमितमागमनं कृतं पत्नीदक्षिणस्यान्तथैव ।

२ कण्डिका ] गोभिलगृह्यसूत्रे— १४६ इति । अस्यार्थः । 'इयं' 'कन्यला' कन्या(१) । 'पितृभ्यः' पितृकुलात्(२) 'पतिलोकं' पतिगृहं(३) 'यती' (४)गच्छन्ती । 'अपदीक्षां' दीक्षां वर्जयित्वा(५) 'अयष्ट' इष्टवती । दीक्षापदेनाऽत्रवैवाहिकं(६) व्रतमुच्यते । 'उत' अपि च । 'कन्या' हे कन्ये ! (७)'त्वया' सहिता(८) 'वयं' 'द्विषः' शत्रून् कामादीन् 'अतिगाहेमहि' अतिक्रामेमहि(९) । अत्र दृष्टान्तः—'धाराः' जलस्य ( सुसी- तलाः ) कर्त्र्यः 'उदन्याः' (१०)पिपासाः कर्म्मभूताः 'इव' । ता ( धाराः ) यथा ताः ( पिपासाः ) शमयन्ति तद्वत् ॥ ५ ॥ “यतीयमि”ति मन्त्रलिङ्गान्मन्त्रं पठन्परिणयतीति गम्यते । सोऽयम्पतिर- [L10

१५० विवाहविधिः। [ २ प्रपाठके प्रदक्षिणाऽन्तर्भावः । तद्वारकस्य वहिर्भावश्चोपपद्यत इति ध्येयम् । एवम- न्यत्र ॥ ८॥ परिणीता तथैवाऽवतिष्ठते, तथा क्रामति, तथा जपति, तथाऽऽ वपति, तथा जुहोति ॥ ९॥ परिणीता-वधूः । तथैवानुपृष्ठगमनेन दक्षिणस्यामुदङ्मुखाऽवस्थितेन पत्या गृहीताऽञ्जलिः प्राङ्मुखः । अवतिष्ठते-ऊर्ध्वस्तिष्ठति । तथेति । अश्मा- रोहणादि परिणयनान्तङ्कर्म उक्तेनैव प्रकारेण वारत्रयङ्कुर्यात् । जपति-पठति (“पाणिग्राह” इति शेषः ) आवपति-अञ्जलौ लाजान् । माता-भ्रातावा ॥९॥ एवन्त्रिः ॥ १०॥ एवमुक्तप्रकारेणानन्तरोक्तं सर्वं त्रि-र्वारत्रयङ्कर्त्तव्यमित्यर्थः । एवञ्च-“इम- मश्मानमि"ति "कन्यला पितृभ्य"इति च मन्त्रावावर्त्तनीयौ । तत्रोत्तरयोर्म्म- न्त्रविशेषावुक्तावेवेति ॥ १० ॥ चतुर्थ्यां वेलायाम्- शूर्पेण शेषमग्नावोप्य प्रागुदीचीमभ्युत्क्रामयन्ति-“एकमिष” इति ॥ ११ ॥ ( म० ब्रा० १।२।६ ) शूर्पेण-शूर्पकुष्ठेन(१) । शेष-लाजशेषम्(२) । अग्नौ समिद्धेऽवोप्य(३) ( १ ) तथाच पारस्करगृह्यम्-“चतुर्थं शूर्पकुष्ठेने"ति । कुष्ठं-जिह्वास्य । तथाच गृ- ह्यसङ्ग्रहे-“यथा लाजाञ्जलिर्वध्वा हूयतेऽङ्गुलिपर्वभिः । एवं लाजहविःशेषो हूयते शूर्पजिह्वये"ति । यत्तु शूर्पकोणेनेति चन्द्रकान्तस्तन्न-“अग्रे च विधवा नारी कोणे चैव मृतप्रजा । जुहुयाच्छूर्पकुष्ठेन न चाग्रेण न कोणयोः” इति परिशिष्टान्तरदर्शनात् । सौक- र्यार्थमेतत् । एवं हि सर्वेषां लाजानामावापः सुकरो भवति । इतरथा विकीर्णानामनग्ना- वपि पातः स्यात् ॥ ( २ ) अत्रोपस्तीर्णाभिघारितमिति भवदेवभट्टादयः । शेष इति वचनात्सर्वावापो- ऽवगम्यते । न किञ्चिदवशेष्यमित्यर्थः । ( ३ ) अत्रोप्येति वचनात्तूष्णीमस्य प्रक्षेपः । मन्त्रदेवतयोरनुपदेशात् । तस्मादत्र स्विष्टकृन्निवर्त्तते । इत्थमेव शेषस्योपक्षयात् । तथाच गृह्यान्तरम् “शूर्पपुटेनाभ्यात्मं तू- ष्णीञ्चतुर्थम् ।” इति । अत्र तूष्णीमिति वचनं प्राजापत्यज्ञापनाथमिति गार्ग्यनारायणः । युक्तञ्चैतत् । “आज्यन्द्रव्यमनादेशे जुहोतिषु विधीयते । मन्त्रस्य देवतायाश्च प्रजाप- तिरिति स्थिति"रिति छन्दोगपरिशिष्टात् । “त्रिःपरिणीता प्राजापत्ये जुहोती"ति च गृ- ह्यान्तरम् । तस्माद्वधूः शेषञ्जुहोति वरश्च प्रजापतिं ध्यायतीति सिद्धम् । स्मरन्ति च- “शूर्पाग्रेणैव होतव्यं तूष्णीं निरवशेषतः । तस्मात्तूष्णीन्तु जुह्वत्यां वरोऽध्यायत्प्रजाप- तिम् ।” इति । “प्रजापतिञ्चतुर्थ्यन्तं स्वाहायुक्तं वरःस्मरेत् ।” इति चैवमादि । “त- स्मादग्नये स्विष्टकृते स्वाहे”ति लाजशेषं जुहुयादिति भवदेवरघुनन्दनादिमतमसङ्गतं, प्रमाणविशेषाभावाच्च । एतदनन्तरं वामदेव्यगानम् इति सरलाकारकल्पनायामपि प्रमा- णान्तरमपश्यामः । “वामदेव्यं गणेष्वन्ते” इति कर्म्मप्रदीपविरोधात् ॥

२ कण्डिका ] गोभिलगृह्यसूत्रे- १५१ प्रक्षिप्य । शेषहोममकृत्वाऽवस्थितां वधूं(१) प्रागुदीचीमैशानीं दिशम् । अभि वराभि(२)मुखीम् । उत्क्रामयन्ति—दक्षिणपादाङ्गुष्ठमुन्नाम्य वामञ्चानु(३)गम- यन्ति “एकमिषे” इत्येवमादिभिः सप्तभिर्मन्त्रावयवैः । प्रतिमन्त्रमेकैकः पाद- न्यास इत्यर्थः । बहुवचनादनियतः कर्त्ता । मन्त्रा यथा— “एकमिषे विष्णुस्त्वा नयतु १ द्वे ऊर्जे वि० २ त्रीणि व्रताय वि० ३ चत्वा- रि मायोभवाय वि० ४ पञ्च पशुभ्यो वि० ५ षड्रायस्पोषाय वि० ६ सप्तसप्त- भ्योहोत्राभ्योविष्णुस्त्वा नयतु ७॥ ६॥ अस्यार्थः—हे कन्ये ! 'विष्णु'र्विश्वव्यापकोनारायणः । 'त्वा' त्वाम् 'इषे' अन्नाद्यर्थलाभाय ( नि० २।७।१४८ ) 'एकं' पदम् । 'आनयतु । १ । एवम् 'ऊर्जे' बललाभाय(४) । २ । 'व्रताय' यज्ञकर्मणे(५) ( निघं०२।१।१७ ) । ३ । 'मायोभवाय' सुखप्राप्तये(६) । ( निघं० ३।६ । ७ ) । ४ । 'पशुभ्यः' (७)पशु- प्राप्तये । ५ । 'रायस्पोषाय' धनपुष्ट्यै(८) । ६ । 'सप्तभ्यो' 'होत्राभ्यः' अच्छा- वाकादिभ्यः(९) । ७ । इति ॥ ११ ॥ दक्षिणेन प्रक्रम्य सव्येनानुक्रामेत् ॥ १२ ॥ दक्षिणेन-पादेन । प्रक्रम्य-गत्वा । अनु-पश्चात् । सव्येन-वामेन । क्रामेत् । गच्छेत् । क्रममाणा सव्यं (१०)पादमग्रतो न कुर्यात् । इत्यर्थः ॥ १२ ॥ ताञ्च क्रामन्तीं पतिः— “मा सव्येन दक्षिणमतिक्रामे”ति.ब्रूयात् ॥ १३ ॥ अत्र “पतिर्वधूमिति शेषः । सव्येन-वामेन । दक्षिणं-पादं माऽतिक्राम । अग्रतोवामपादममा कार्षीरित्येवं ब्रूयात् । अत्र “सखा सप्तपदी भवे”ति मन्त्र- ( १ ) वाक्योपपत्तये स्थितमित्यध्याहृतं वेदितव्यम् ॥ ( २ ) वरन्तिर्यक्पश्यन्ती पृष्ठतोऽग्रेऽपादप्रक्षेपङ्कुर्यात् । इति भावः । ( ३ ) पश्चात्प्रक्षेपयन्ति । अत्रायमाशयः । वामाङ्गी जाया सा सर्वदा पश्चात्पत्युर- वतिष्ठेत । इत्येतस्या दृष्टान्तभूतयाऽऽवृतेति । ( ४ ) “ऊर्जंबलप्राणनयोः” ( चु० प० ) किप् ॥ ( ५ ) तथाच निरुक्तम् “व्रतमिति कर्मनाम वृणोतीति सतः” इति ( २।१३।८ ) ॥ ( ६ ) मय इति सुखनाम ( निघं० ३।६।७ ) दीर्घ आर्षः । ( पा० ६।३।१३७ ) मा यसोऽअवने मायोभवः । भवतेः “ऋदोरप्” ( पा० ३।३।५७ ) इति भावेऽप्रत्ययः ॥ ( ७ ) तादर्थ्ये चतुर्थी ( पा० २।४।४४वा० ) तादर्थ्यमुपकार्योपकारकभावः । ( ८ ) रै इति धननाम ( निघं० २।१०।१६ ) ततः षष्ठी । पोषणं पोषोघञ् । षष्ठ्याः पतिपुत्रे०” ( पा० ८।३।९३ ) त्यादिना सत्वम् “अर्थे रैविभवाअपो”त्यमरोऽपि ॥ ( ९ ) होत्राशब्द ऋत्विग्वाचीति “होत्राभ्यश्छन्दसी” ( पा० ५।१।१३५ )ति सूत्रे वृत्तिकृतः प्राहुः ॥ ( १० ) सव्यपादस्याग्रे निधानं गमने स्त्रीस्वभाव इति प्रतिषिध्यते ।

१५२ विवाहविधिः । [ २ प्रपाठके- स्याशंसने पद्धतिकृता विनियोग उक्तः । युक्तश्च तथा मन्त्रलिङ्गात् । इतिमुरा- रिमिश्राः शुभकर्म्मनिर्णये प्राहुः । मन्त्रो यथा— “सखा सप्तपदी भव सख्यन्ते गमेयम् । सख्यन्ते मा जोषाः । सख्यन्ते मा योष्ठाः ॥ ७ ॥ (मं० ब्रा० १।२।७ ) इति । अस्यार्थः । पतिः कन्यां प्रार्थयते—हे कन्ये ! त्वं मम ‘सखा’ सखी(१) सती ‘सप्तपदी’ सप्तपदाऽऽक्रान्तेष्वर्थेषु सहचारिणी ‘भव’ अहं ‘ते’ तव ‘सख्यं’ (२)मैत्रीं ‘गमेयं’ तव(३) सखा भवेयमित्यर्थः । किञ्च ‘ते’ तव । मया सह यत् ‘सख्यं’ तत् अन्याः ‘योषाः’ स्त्रियः । ते सपत्न्यः ‘मा’ “छिन्दन्तु” इतिशेषः । किञ्च ‘मायोष्ठाः’(४) सुखकारिण्यः स्त्रियः । ‘ते’ त्वया(५) सह । ‘सख्यं “कुर्व्वन्त्व—”ति शेषः ॥ ७ ॥ ईक्षकान्प्रतिमन्त्रयेत “सुमङ्गलीरियं वधूरि-“ति ॥ १४ ॥ ( मं० ब्रा० १।२।८ ) ईक्षकान्-वधू प्रेक्षितुमागतान् । प्रतिमन्त्रण-मनुमन्त्रण-मित्यनर्थान्तर- म् । तच्चात्रेक्षकानवलोकयता कर्त्तव्यम् । योग्यत्वात् । तदाह कर्म्मप्रदीपः— “स्पृशन्ननामिकाग्रेण क्वचिदालोकयन्नपि । अनुमन्त्रणीयं सर्वत्र सर्वदैवाऽनुमन्त्रयेत् ॥” इति । मन्त्रोयथा— “सुमङ्गलीरियं वधूरिमां समेत पश्यत । सौभाग्यमस्यै दत्त्वायाथास्तं विपरेत न ॥” ८ ॥ इति ॥ इति । अस्यार्थः—हेप्रेक्षकाः ! ‘इयं वधूः’ ‘सुमङ्गलीः’(६) प्रशस्तमङ्गल- वती परिणीता यतोऽतो यूयं ‘समेत’ समागच्छत । समागत्य च ‘इमां’ ‘पश्यत’ । ‘अथ’ अनन्तरम्। ‘अस्यै’ वध्वै ‘सौभाग्यं’ सुभगत्वं ‘दत्त्वाय’ दत्त्वा। (७)यूय- म् ‘अस्तं’ स्वगृहम् (निघं० ३।४।५) ‘विपरेतन’ विपरेत(८) । गच्छत । यद्वा- ( १ ) “सख्यशिश्वोति भाषायाम्” ( पा० ४।१।६२ ) इतिस्मरणाद्वेदे सखेत्येव- भवति ॥ ( २ ) “सख्युर्यः” ( पा० ५।१।१२६ ) इति भावे यप्रत्ययः । ( ३ ) अत्र “लिङ्याशिष्यङ्” ( पा० ३।१।८६ ) इत्यडागमः । अत्र गमेयमित्यु- क्त्यात्वद्विरुद्धं नाचरेयमित्यपि गम्यते ॥ ( ४ ) मय एव मायः। सुखम् ( निघं० ३।६।७ ) दीर्घ आर्षः । ( पा० ६।३।१३७ ) तस्य स्थानं मायोष्ठम् । तत्र भवा मायोष्ठ्याः । “भवेच्छन्दसि” ( पा० ४।४।११० ) इतियत्प्रत्ययः ॥ ( ५ ) तृतीयार्थे षष्ठी ( पा० २।३।६८ ) बाहुलकात् । ( ६ ) “छन्दसीवनिपौ च वक्तव्यौ” ( पा० ५।२।१२२ ) इति मत्वर्थे ईप्रत्ययः । ( ७ ) “क्तो यक्” ( पा० ७।१।४७ ) इति यगागमः । ( ८ ) “तप्तनप्तनथनाश्च” ( पा० ७।१।४५ ) इति तस्य तनबादेशः ।

२ कण्डिका ] गोभिलगृह्यसूत्रे— १५३ दत्त्वा-याथ । यात(१) 'नविपरीत' विमुखतया न परा-इत ( नापगच्छत ) किन्तु-पुत्रादिमङ्गलमाशास्य पुनरागमनाय व्रजतेत्यर्थः ॥ ८ ॥ १४ ॥ अपरेणाग्निमौदकोऽनुसंव्रज्य पाणिग्राहं मूर्द्धदेशेऽवसिञ्चति । तथेतरां "समञ्जन्त्वे"—तयर्चा ॥१५॥ (म०ब्रा०२।२।६) अपरेणाऽग्निम्(२) । अग्नेः पश्चिमाया दिशा । औदक उदककलशधारी (३)पुरुषः । अनुसंव्रज्य संवृतगतिरेत्य “सप्तपदीस्थानमि”तिभवदेवभट्टः । पूर्वा- वस्थितः । पाणिग्राहं वरं मूर्द्धदेशे शिरसि । अवसिञ्चति-अभिषिञ्चति कलशस्थाभिर्ध्रुवाभिरद्भिः । तथा--तेनैव प्रकारेण इतरां-वधूमप्यभिषिञ्चतीत्य- र्थः । तत्र मन्त्रमाह- "समञ्जन्त्वि"तियत

१५४ विवाहविधिः । [ २ प्रपाठके- 'दधातु'(१) । तथा 'धाता' प्रजापतिः 'सं' दधातु । 'देष्ट्री' धर्म्माद्युप(२) देष्ट्री- (वाग् देवता) 'सं' दधातु । सुस्थिते करोतु। अत्र नौ इतिपुनः प्रयोग आदरार्थः। उः पादपूरणः । यद्वा पलोप एवार्षः ( पा० ३।४।८५ ) ॥ इति ॥ ९ ॥ ऋगेषा पुरस्तादपि ( २।१।१८ सूत्रे ) उपात्ता पद्धतिक्रमेण । स एष पुनरुपन्यासोऽस्या वरस्यानेन कन्याऽभिमुखीकरणाय । येन पश्चाद्वरोनानुतपेत् । अतएवात्रापि कन्यावरयोः सम्मुखीकरणं पद्धतिषूक्तम् ॥ अत्र वरवध्वोरभिषे- कमन्त्रस्याभ्यासः । "तथेतराम्"ति भेदेनोपन्यासादितरथा समासः स्यात् । तथाच सूत्रान्तरम्-"भेदे मन्त्रावृत्तिः सम्पातिष्वादि"ति । तथा चोक्तम्-"क- र्म्मावृत्तौ तु मन्त्रस्याप्यावृत्तिर्गृह्यकर्मणि" इति । गृह्यसंग्रहे- "अभिषिक्तन्तु विधिना पाणिग्राहन्तु प्राजनी । रक्षार्थमनुगच्छेत् सप्ताहान्त्यहमेव वा ॥" इति ॥ प्राजनी-प्राजन-( प्रतोद-) वान् । पूर्वन्निर्द्धारितः स्वङ्कार्यमिदमनुतिष्ठे- दित्यर्थः । मत्वर्थे इनिः । ( पा० ५।२।१२५ ) ॥ १५ ॥ अवसिक्तायाः सव्येन पाणिनाऽञ्जलिमुपोद्गृह्य दक्षिणेन पाणिना दक्षिणम्पाणिँ साङ्गुष्ठमुत्तानङ्गृहीत्वैताः षट् पाणिग्रहणीया जपति"गृभ्णामित"इति ॥ १६ ॥ ( मं० ब्रा० १।२।१०-१५ ) अत्र सेकस्थानस्थाया एवाञ्जलिग्रहणप्राप्त्यर्थमवसिक्ताया इति निर्देश इति भाष्यकृतः । अवसिक्तायाः कृताभिषेकायाः । उपेतिसामीप्ये । तथाच म- णिवन्धप्रदेशे उत्तानं गृहीत्वेत्यर्थः । (३)पाणिग्रहणीयाः पाणिग्रहणकर्मणि नियुक्ताः(४) । जपति-प्रकृतत्वाद्वरः । "गृभ्णामित"इत्यादिका ऋचः । ता यथा- "गृभ्णामि ते सौभगत्वाय हस्तं मया पत्या जरदष्टिर्यथासः । भगोअर्यमा सविता पुरन्धिर्मह्यन्त्वादुर्गार्हपत्याय देवाः"॥ १० ॥ हे कन्ये ! 'ते' तव 'हस्तं' साङ्गुष्ठं करमहं 'गृभ्णामि' गृह्णामि(५) । 'यथा' ( १ ) व्यवहितोपसर्गप्रयोगः ( पा० १।४।८२ ) आर्षः ॥ ( २ ) उपसर्गेण धातुरिव धातुनोपसर्गोऽप्यध्याहार्य इति । ( ३ ) "उत्तानेनोत्तानं गृह्णाति । नीचेन चोत्तानम्" इति शाखान्तरदर्शनात् । अ- त्रोत्तानेनेति सव्याभिप्रायं, नीचेनाधोवदनेनेति दक्षिणाभिप्रायम् । तथाच सव्येन कर- स्य पृष्ठग्रहणं प्रतीयत इति रघुनन्दनवर्णनं शोभनमेव ॥ ( ४ ) पाणिग्रहणार्थबोधिका इति यावत् । शैषिकश्छस्तस्येयादेशः ॥ ( ५ ) "हृग्रहोर्भश्छन्दसि" ( पा० ३।१।८४ वा० ) इति हस्य भत्वम् ।