जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
१५६ सटीकजातकपारिजाते- शनि अष्टममें हो, बलरहित चन्द्रमा दशममें हो और सूर्य सुखभाव (४) में हो तो काष्ठोंकी ढेरमें दब कर मृत्यु होती है। लग्नेश पापग्रहोंके मध्यमें हो केतुसे युत हो और लग्नसे अष्टम स्थान पापग्रहसे युक्त हो तो माताके कोपसे मृत्यु होती है ॥ १०५ ॥ काष्ठाघातान्मृत्युः । मातृकोपन्मृत्युः । [कुण्डली १ (काष्ठाघातान्मृत्युः) : लग्न ११, चतुर्थ २ सू., अष्टम ६ श., दशम ८ चं.] [कुण्डली २ (मातृकोपन्मृत्युः) : लग्न शु. के., द्वितीय श., अष्टम मं.] सुखास्पदस्थैरशुभैर्ग्रहेन्द्रैस्त्रिकोणगैरर्वाऽथ विलग्नराशौ ॥ रन्ध्रेश्वरे भूत नयेन सार्द्धं उद्बन्धनात्तस्य मृतिं वदन्ति ॥ १०६ ॥ अशुभैर्ग्रहेन्द्रैः = पापग्रहैः सुखास्पदस्थैश्च- तुर्यदशमभावगतैरथवा त्रिकोणगैर्नवमपञ्चम-
आयुर्दायाध्यायः ॥ ५ ॥ १५७ पापेषु = सूर्यभौमशनिषु, आज्ञाबन्धु- राशिस्थितेषु = लग्नाद्दशमचतुर्थभावगतेषु, क्षीणे = कृष्णे तारानायके=चन्द्रे शत्रुराशौ= लग्नात्षष्ठे भावे स्थिते, वा लग्नात् छिद्र- स्थानराशि गतेऽष्टमभावे यो राशिस्तद्गते (अष्टमभावगत इत्यर्थः) जातस्य यात्राकाले शत्रुदोषार्द्धरिविद्वेषान्मृत्युः स्यात् ॥ १०८ ॥
+---------------+---------------+---------------+
| \ | | / |
| \ | ल. | / |
| \ | | / |
| \ | | / |
| मं. श X X सू. |
| / | | \ |
| / | | \ |
| / | | \ |
| / | | \ |
+---------------+---------------+---------------+
| | चं. | |
| | छं. | |
+---------------+---------------+---------------+
(टिप्पणी: प्रथम कुण्डली-चक्र: लग्न (१) में 'ल.', दशम में 'मं. श', चतुर्थ में 'सू.', सप्तम में 'छं.' एवं षष्ठ/अष्टम में 'चं.')
पापग्रह दशम और चतुर्थ स्थानमें स्थित हों, क्षीण-चन्द्रमा छठे भावमें हो वा ८ वें भावमें हो तो यात्रा समयमें शत्रुके दोषसे मृत्यु होती है ॥ १०८ ॥ लग्नान्त्यगौ भानुधराकुमारौ दिनेशचन्द्रेन्दुसुता मदस्थाः ॥ सुरालयोद्यानवनप्रदेशे प्रवासभूमौ म्रियते तु जातः ॥ १०६ ॥ भानुधराकुमारौ=शनिभौमौ लग्नान्त्यगौ=शनिर्लग्ने, भौमोऽन्त्ये=द्वादशे, तथा दिनेश- चन्द्रेन्दुसुताः=सूर्यचन्द्रबुधाः, मदस्थाः=सप्तमभागवता भवेयुस्तदा जातस्तु सुरालये= देवमन्दिरे उद्याने = आरामे, वनप्रदेशेऽरण्ये, प्रवासभूमौ = स्वनिवासभूमौ वा म्रियते। अत्र होरासारे- अर्ककुजौ व्ययसंस्थौ, राहुः शशी सप्तमे, गुरुः केन्द्रे । जातस्य मृतिं विन्द्यात्प्रवासभूमौ सुरालयोद्याने । इति ॥ १०६ ॥ सूर्य और मङ्गल लग्न और द्वादशमें हों और सप्तम स्थानमें सूर्य, चन्द्र और बुध हों तो जातक देवगृहमें, या बागमें, या जङ्गलमें मरता है ॥ १०९ ॥ लग्नाष्टमे पापयुतेऽष्टमेशे रिःफोपयाते यदि केन्द्रगे वा ॥ लग्नेश्वरे हीनबलेन युक्ते दुर्मार्गदोषात्प्रवदन्ति मृत्युम् ॥११०॥
+---------------+---------------+---------------+
| \ ३ | २ | १ शु. |
| \ | | / |
| \ | | / |
| ४ \ | | / १२ |
| X शु. ५ रवे. X |
| / | | \ |
| / | | \ |
| ६ र. / | ८ | \ ११ |
| / | | \ |
+---------------+---------------+---------------+
| \ | | / |
| \ | ७ | / १० |
| \ | | / |
| \ | | / ६ मं. |
| X X |
+---------------+---------------+---------------+
(टिप्पणी: द्वितीय कुण्डली-चक्र: लग्न २, ३, ४, ५, ६, ७, ८, ९, १०, ११, १२, १ राशियों में '१ शु.', 'शु. ५ रवे.', '६ मं.', '६ र.' आदि ग्रह-अङ्कन दर्शित हैं)
लग्नाष्टमे=लग्नादष्टमे भावे पापग्रहेण युते, अष्टमेशे रिःफोपयाते = द्वादशभावगते अथवा लग्नेश्वरे हीनबलेन=दुर्बलेन केन चिद्ग्रहेण युक्ते केन्द्र-( १।४।७।१० ) गते यदि जन्म भवेत्तदा जातस्य दुर्मार्गदोषात् मृत्युर्भवेत् । उपलक्षणे योगे जातो नरः कुपथे गच्छन्मृ- त्युमुपैतीति भावः ॥ ११० ॥ यदि लग्नसे अष्टम भाव पापग्रहसे युक्त हो, अष्टमेश बारहवें हो, वा केन्द्रमें होकर लग्नेश हीनबली ग्रहसे युक्त हो तो खराब रास्ताके दोषसे मृत्यु होना आचार्यों ने कहा है ॥ भौमार्कजर्क्षोपगते शशाङ्के पापेक्षिते पापखगान्तरस्थे ॥ कन्यागृहे वा हिबुकोपयाते मृतिं वदेदग्निशशस्त्रपातैः ॥ १११ ॥ शशाङ्के=चन्द्रे भौमार्कजक्षेत्रगते=मङ्गलशनैश्चरयोः क्षेत्राणा-( १।८।१०।११ ) मन्यतमे याते, पापेक्षिते = केनचित्पापग्रहेणावलोकिते, तथा पापखगयोरन्तरे मध्ये स्थिते, अथवा शशाङ्के कन्यागृहे हिबुके = चतुर्थभावे चोपगते जातस्याग्निजशस्त्रपातैः = अग्निदाहेन शस्त्रा- दिपातेन वा मृतिं = मरणं वदेत्प्राज्ञः इति ॥ होरासारे- भौमार्कजभवनेऽब्जे पापद्वयमध्यगे न सौम्ययुते । कन्यायां हिमगौ वा ज्वरारिमिसम्पातशस्त्रदोषैर्वा ॥ इति ॥ १११ ॥ १४ जा०
१५८ सटीकजातकापारिजाते- यदि चन्द्रमा मङ्गलके या शनिके गृहमें हो उसे पापग्रह देखता हो वा पापग्रहके बीचमें कन्याराशिमें हो, वा चतुर्थ भावमें हो तो अग्निसे या शस्त्रके प्रहारसे मृत्यु कहे ॥ १११ ॥ यदि विषघटिकायामष्टमे पापयुक्ते विषशिखिभवसस्त्रैर्जायते तस्य मृत्युः ॥ बहुदिविचरयुक्ते लग्नेपे साष्टमेशे बहुजनमृतिवाले मृत्युमेति प्रजातः ॥११२॥ यदि चेत् विषघटिकायां, प्रतिनक्षत्रं केचिच्चत्वारो दण्डा विषघटिका उच्यन्ते । तथा हि मुहूर्त्तमार्त्तण्डे— ५० २४ ३० ४० १४ २१ पद्माशाब्जिखाग्नयश्च शक्रुता आखण्डला मूर्च्छनाः । ३० २० ३२ २० २० १८ २१ २० त्रिंशद्विशरदाः खरामनखधृत्यैकाश्विनौ विंशतिः ॥ २४ १४ १० २४ ५६ २४ २० १० ९० शकेन्द्रौ दश वासवा रसशराः सिद्धा नखाऽऽशा दिशो १८ ९६ २४ ३० ४ धृत्यष्टी जिनखाग्नयोऽश्विवत इमाभ्योऽग्रेऽब्धिनाड्यो विषम् । नक्षत्रस्य गतैष्ययोगगुणितः स्वस्वध्रुवः षष्ट्रिहृत् स्पष्टः स्यादत उर्ध्वमब्धिघटिकाः स्पष्टाः स्युरेवं कृताः । इति । तस्यां विषघटिकायां तथाऽष्टमे भावे पापग्रहयुक्ते यस्य जन्म भवति तस्य विषशि- खिमवशस्त्रैः = विषं गरलम्, शिखी अनलम्, भवः शिवस्तस्य शस्त्रं शूलं तैर्गरलानलशूलै- र्मरणं जायते । साष्टमेशे = अष्टमभावेशेन सहिते लग्नेपे = लग्नेशे बहुभिर्दिविचरैर्ग्रहैर्युक्ते प्रजातो नरः बहुजनमृतिवाले = बहवो जना म्रियन्ते यस्मिन्काले (महामारीप्रभृतिरोगपद्रवे) तस्मिन्काले मृत्युमेति = म्रियते ॥ ११२ ॥ यदि विषघटीमें जन्म हो और लग्नसे अष्टम स्थान पापग्रहसे युक्त हो तो जहरीले या अग्निवाले शस्त्रसे उस जातककी मृत्यु होती है। लग्नेश अष्टमेशके साथ और भी बहुत ग्रहोंसे युक्त हो तो जिस समय बहुत लोगोंकी मृत्यु होती हो (हैजा, प्लेगके समय) उस समय उसकी मृत्यु हो ॥ ११२ ॥ लग्नेशस्थनवांशस्य राशिकोपोद्भवार्मयैः ॥ मृत्युं तस्य वदन्त्येके हौरिका मुनिपुङ्गवाः ॥ ११३ ॥ लग्नेशः=जन्मलग्नपतिस्तिष्ठति यस्य नवांशे तस्य राशेः कोपोद्भवार्मयैः (तस्य नवांश- राशेर्यो धातुस्तद्धा तुविकाररोगैरित्यर्थः) तस्य जातस्य मृत्युमेके हौरिकाः=होराशास्त्रविदो मुनिपुङ्गवाः = महर्षयो वदन्ति ॥ ११३ ॥ लग्नेश जिसराशि सम्बन्धी नवांशमें स्थित हो उस राशिके कोपसे उत्पन्न रोगसे उस जातककी मृत्यु हो ऐसा होरा (ज्योतिः शास्त्रके) ज्ञाता श्रेष्ठ मुनि लोग कहते हैं ॥११३॥ होरेशेऽशगते तु तुम्बुरगृहे तापज्वराग्न्युद्भवै- र्व्रक्षे श्वासविकारशूलजनितैर्युग्मे शिरःशूलजैः ॥ वातोन्मादभवैः कुलीरभवने सिंहे विषस्फोटकैः कन्यायां जठराग्निगुह्यजनितैर्जातस्य मृत्युं वदेत् ॥ ११४ ॥ जूके शोकचतुष्पदज्वरभवैः कीटेऽश्मशस्त्रादिभि- श्चापे तीव्रमरुद्भवैर्मृगमुखे व्याघ्रादिशूलामयैः ॥ कुम्भे व्याघ्रवधूकतैर्निमिषे तोयातिसारैर्मृतिम् रंध्रस्यांशगता प्रचादधरिणी जातस्य मृत्युप्रदा ॥ ११५ ॥ इदानीं मेषादिद्वादशराश्यंशगते लग्नेशे जातस्य निर्याणकारणान्युच्यन्ते। होरेशे=जन्म- लग्नेशे तुम्बुरगृहे = मेषराशावंशगते=नवांशस्थिते तु जातस्य तापज्वराग्न्युद्भवैः रोगैर्मरणं
स्यात् । उक्षे = वृषनवांशे श्वासविकारशूलजनितैः रोगैः, युग्मे = मिथुने शिरःशूलजै = शिरोवेद- नाभिः, कुलीरभवने = कर्कराशौ वातोन्मादभवैः, सिंहे विषस्फोटकैः, कन्यायां जठराग्निगु- णजनितैः, जूके = तुलायां शोकचतुष्पदज्वरभवैः, कीटे = वृश्चिके अश्मशस्त्रादिभिः, चापे= धनुषि तीव्रमरुद्भवैरतिवातरोगैः, मृगमुखे = मकरे व्याघ्रादिशूलमयैः, कुम्भे व्याघ्रवधूकूतैः= व्याघ्रकृतैः वधूकूतैश्च, अनिमिषे = मीने तोयातिसारैः जातस्य मृत्युं वदेत् । इदमप्यवधेयम् । यस्य राशेर्या प्रचारधरणी ( अ. १. श्लो. १०-१२ ) तस्यां मरणमिति । तथा च रन्ध्र- स्याष्टमभावस्यांशगता = नवांणगता या प्रचारधरणी = सञ्चरणभूमिः ( लग्नगतनवांशाच्चतुः षष्टितमो नवांशो यत्र सञ्चरति ) सा भूमिः जातस्य मृत्युप्रदा भवति । अत्र होरासारे- लग्नादष्टमराशेः स्वभावदोषोद्भवं विजानीयात् । निधनेशस्य नवांशस्थितराशिनिमित्तदोषजनितं वा ॥ इति ११४-११५ ॥ लग्नेश यदि मेष-राशिके नवांशमें हो तो तापज्वर या अग्निभयसे मृत्यु हो। वृषके नवांशमें हो तो श्वास विकार और शूलसे मृत्यु हो। मिथुनमें शिरकी पीडासे मृत्यु हो। कर्कराशिमें हो तो वात और उन्मादसे, सिंहमें विस्फोतकसे, कन्यामें जठराग्निसे तथा गुह्यरोगसे, जातककी मृत्यु कहे। तुलामें शोकसे चतुष्पदसे और ज्वरसे, वृश्चिकमें पथ्थ्ल और शस्त्रादिसे, धनुमें अत्यन्त वायुसे, मकरमें व्याघ्रादिसे, शूल-रोगसे, कुम्भमें व्याघ्रसे और स्त्रीसे, मीनमें ज्वरसे और अतिसारसे मृत्यु होती है, अष्टम भावका नवांश ( जन्म- कालके नवांशसे ६४ वां नवांश, श्लो० ५६ देखिये ) जिस राशिका हो उस राशिकी जो भूमि है ( १ अ० १०-१२ श्लो.) उसी भूमिमें जातककी मृत्यु कहनी चाहिये ॥११४-११५॥ अथ निर्याणदिग्ज्ञानम् । निशि बल्युतराशौ लग्नयातेऽहिकाले यदि दिनबलयुक्ते जन्मलग्ने रजन्याम् ॥ उदयगनवभागे स्वामियोगेक्षितानाम् दिशि मृतिमुपयाति स्थानवीर्याधिकस्य ॥ ११६ ॥ इदानीं निर्याणदिग्ज्ञानमुच्यते । अहिकाले = दिने जन्मकाले, निशि बल्युतराशौ = रात्रिवलिनि राशौ ( वृषनृयुक्कर्कियापजनक्राणामन्यतमे ) लग्नयाते = लग्ने गते, रजन्यां = रात्रौ जन्मकाले दिनबलयुक्ते राशौ ( सिंहकन्यातुलावृश्विकमिथुनकुम्भानामन्यतमे ) जन्म- लग्ने सति, उदये = लग्ने गतस्य नवभागस्य = नवांशस्य स्वामी ग्रहो यैर्योगः
१६० सटीकजातक्रपारिजाते- नुदितनवांशेन किमिति ? ) या घटिकास्तावन्मितो मोहो मरणकाले मोहाह्वयः कालः स्यात् । तस्मिन्स्वभांशेक्षिते = स्वनवांशपतिनाऽवलोकिते तावन्मित एव । पापैरवलोकिते द्विगुणीकृतः कालः, सौम्यैरवलोकिते लग्ने त्रिगुणितोऽवस्थात्मकः कालः स्यात् । अथ क्रूरैः = पापैः, अप्यैर्जलचरैः, सौम्यैः=शुभैः, मिश्रतनूगैः=पापशुभसंयुक्तैः लग्ना- द्द्वाविंशतित्र्यंशकैर्द्वाविंशद्रेष्काणैः क्रमात् अग्निजलसंमिश्रश्वमुख्यैः शरीरं नाशं याति । अत्रेदमुक्तं भवति । पापद्रेष्काणे ( द्वाविंशतिमे ) सति मरणान्तरं शरीरमग्निना दह्यते । जलद्रेष्काणे शरीरं जले क्षिप्यते । सौम्यद्रेष्काणे संमिश्रम्भवति शुष्यत इति । मिश्रद्रेष्काणे श्वमुख्यैः = कुक्कुरश
आयुर्दायाध्यायः ॥ ५ ॥ १६१ भूचक्रं स्यात् तुम्बुराद्यं चतुष्कं सिंहागाराद्यं भुवश्चक्रमाहुः ॥ चापादिस्थं तत्सुवश्चक्रजन्यं जीवो मृत्युच्चेत्तत्रलोकं समेति ॥ ११९ ॥ इदानीं लग्नपरत्वेन गतिज्ञानमुच्यते-भूचक्रमिति । तुम्बुराद्यं = मेषाद्यं चतुष्कं मेषवृष- मिथुनकर्कैति लग्नचतुष्टयं भूचक्राख्यम् । सिंहागाराद्यं = सिंहकन्यातुलावृश्चिकेति चतुष्कं भुवश्चक्राख्यम् । चापादिस्थं = धनुर्मकरकुम्भमीनेति चतुष्कं सुवश्चक्राख्यं विद्वांस आहुः । चक्रप्रयोजनमुच्यते । जीवो मृत्युच्चेत्तत्रलोकं समेति । यस्मिँल्लग्ने म्रियते तल्लग्नं यच्चक्रगतं भवति तल्लोकं मरणानन्तरं जीवः समेति=यातीति । मेषादिचतुष्के लग्ने मृतो भूर्लोकमुप- याति । सिंहादिचतुष्टये भुवर्लोकमेवं चापादिचतुष्टये स्वर्लोकं गच्छति ॥ ११९ ॥ मेष, वृष, मिथुन और कर्क ये चार स्थान भूचक्र कहलाते हैं, ये मरणलग्न हों तो जीव भूर्लोकको जाता है। सिंह, कन्या, तुला और वृश्चिक भुवश्चक्र हैं, ये मरणलग्न हों तो जीव भुवर्लोक जाता है। शेष = धनु, = मकर, कुम्भ और मीन ये चार राशि स्वश्चक्र हैं, इन लग्नोंमें मरनेवाला स्वर्लोक जाता है। (सु० शा० कार) ॥ ११९ ॥ रिःफाधीशो पापषष्ठ्यंशयाते पापैर्दृष्टे नारकं लोकमेति ॥ राहौ रिःफे मन्दिरन्ध्रेशयुक्ते शत्रुस्थानस्वामिदृष्टे तथा स्यात् ॥ १२० ॥ अन्ययोगान्तरमुच्यते । रिःफाधीशे = जन्मलग्नान्मरणलग्नाद्वा व्ययभावपतौ पापष- ष्ठ्यंशमुपगते पापग्रहैर्दृष्टे च नारकं लोकं समेति । राहौ रिःफे = द्वादशे, मन्दिरन्ध्रेशाभ्यां युक्ते, तथा शत्रुस्थानस्य षष्ठभावस्य स्वामिना ( षष्ठेशेन ) दृष्टे तथा स्याद्यान्नरकं गच्छ- तीति ॥ १२० ॥ बारह वें भावका स्वामी पापषष्ठ्यंशमें हो उसे पापग्रह देखते हों तो नरकलोक जाता है। राहु, गुलिक और अष्टमेशसे युक्त होकर यदि १२ वें भावमें हो और उसे षष्ठेश देखता हो तो भी नरकलोकमें जाता है। (सु० शा० कार) ॥ १२० ॥ उच्चस्थे शुभखेचरे व्ययगते पापग्रहैः शोभनैः सन्दृष्टे शुभवर्गके च विपुलं स्वर्गादिभोगं वदेत् ॥ कर्मस्थानपतौ पुरन्दरगुरौ रिःफोपयातेऽथवा सौम्यव्योमनिवासदृष्टिसहिते तस्यामरत्वं भवेत् ॥ १२१ ॥ शुभग्रहे स्वकीयोच्चराशिगते, व्ययगते = द्वादशभावगते, शुभवर्गके च गते, पापग्रहैः शुभग्रहैश्च सन्दृष्टे, मृतस्य विपुलमुत्कृष्टं स्वर्गादि-भोगं वदेत् । अथवा कर्मस्थानपतौ = दशमभावेशे पुरन्दरस्येन्द्रस्य गुरौ=बृहस्पतौ, रिःफोपयाते = द्वादशभावगते तथा सौम्याश्च ते व्योमनिवासिनो ग्रहाः ( शुभग्रहाः ) तेषां दृष्ट्या सहिते तस्य मृतस्यामरत्वं=देवत्वं भवेत् अस्मिन्योगे जातो मृतो वा देवपदवीमुपयातीति भावः ॥ १२१ ॥ शुभग्रह उच्चराशिमें होकर १२ वें भावमें हो, उसे पापग्रह और शुभग्रह देखते हों, शुभवर्गमें भी हो तो उसको सुन्दर स्वर्गादिका भोग मिले यह फल कहे। बृहस्पति दशमेश होकर बारहवें हो और शुभग्रहों की दृष्टि से युक्त हो तो उस जातकको अमर ( देव ) पद प्राप्त हो ॥ १२१ ॥ बृहस्पतौ चापनवांशकस्थे बलान्विते कर्कटलग्नयाते ॥ त्रिभिश्चतुर्भिः सह कण्टकेषु नभश्चरैर्ब्रह्मपदं प्रयाति ॥ १२२ ॥ अथ ब्रह्मपदप्राप्तियोग उच्यते । बृहस्पतौ चापनवांशकस्थे = धनुर्नवांशगते, बला- न्विते = बलयुक्ते, कर्कटलग्नयाते ( अत्र कर्कलग्नं भवति, तस्मिन्गुरुश्चोपगतो भवेत् । कर्क- राशिः गुरोरुच्चं धनुर्नवांशकोऽपि गुरोर्नैज इति तत्र गुरुर्बलीयान्भवत्येवेति 'बलान्विते' पद-
: १६२ सटीकजातकपारिजाते- मुक्तम् ) त्रिभिर्वा चतुर्भिः नभश्चरैर्ग्रहैः कण्टकेषु = केन्द्रेषु ( १।४।७।१० ) सह गतैः जातो मृतो वा ब्रह्मपदं = ब्रह्मलोकं प्रयाति । अस्मिन्योगे ब्रह्मपदवीमुपयातीति ॥ १२२ ॥ बलवान् बृहस्पति धनुके नवांशमें होकर कर्क लग्नमें प्राप्त हो और तीन या चार ग्रह केन्द्रमें हों तो ब्रह्मपद प्राप्त करता है ॥ १२२ ॥ धनुर्विलग्ने यदि तुम्बुरांशके लग्ने गुरौ दानवपूजितेऽस्तगे ॥ कन्यागते शीतकरे बलान्विते परं पदं लोकमुपैति शाश्वतम् ॥ १२३ ॥ अथ मोक्षयोग उच्यते । धनुर्विलग्ने = धनुर्धरराशिलग्ने, तुम्बुरांशके = मेषराशेर्नवां- शके च लग्ने, गुरौ = बृहस्पतौ विद्यमाने, दानवपूजिते = शुक्रेऽस्ते = लग्नात्सप्तमभावगते, बलान्विते = बलिनि, शीतकरे = चन्द्रे कन्यागते ( धनुषि लग्ने कन्याराशिर्दशमो भावो भवति, तद्गते चन्द्रे ) जातो वा मृतः परं = सर्वत उत्कृष्टं पदं, शाश्वतं = जन्ममरणादिरहितं लोकं (मोक्षपदमिति ) उपैति । एतद्विष्णुपदमित्युक्तम् । न तस्मात्पुनर्निवर्त्तते । तथोक्तं भगवता श्रीकृष्णेन । अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् । यं प्राप्य न निवर्त्तन्ते तद्धाम परमं मम ॥ आब्रह्मभुवनाल्लोकाः पुनरावर्त्तिनोऽर्जुन । । मामुपेत्य तु कौन्तेय ! पुनर्जन्म न विद्यते ॥ इति गीतायाम् ॥ अत्र वराहोक्तो मोक्षयोगः स्वल्पजातके— षष्ठाष्टमकण्टकगो गुरुच्चो भवति मीनलग्ने वा । शेषैर्बलैर्नन्मनि मरणे वा मोक्षगतिमाहुः ॥ इति ॥ १२३ ॥ गुरु धनुलग्नमें मेषके नवांशका हो, शुक्र सप्तम भावमें हो और बलवान् चन्द्रमा कन्या राशिमें हो तो मरनेके बाद परमपद (मोक्ष) को प्राप्त हो ॥ १२३ ॥ | १० | ९ ल. बृ. ३ | ८ | | ११ | | ७ | | २. १२ | मोक्षप्राप्तियोगः | ६ चं २६ | | १ | | ५ | | २ | ३ शु. | ४ | अध्यायोपसंहारः नैसर्गिकदायप्रमुखास्त्वायुर्ब्दस्फुटक्रियामृत्युदशाप्रभेदाः ॥ निर्याणकालप्रभवाश्च सर्वे सङ्कीर्तिता भानुमुखप्रसादात् ॥ १२४ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते आयुर्दायाध्यायः पञ्चमः ॥ ५ ॥ अत्र प्रसङ्गात् बृहज्जातकोक्तनिर्याणाध्यायो विलिखितस्तत्र पञ्चदश श्लोका अधोनिर्दिष्टाः— अनेनाध्यायोपसंहारः क्रियते । सरलार्थः ॥ १२४ ॥ मृत्युर्मृत्युगृहेक्षणेन बलिभिस्तद्धातुकोपोद्भवस्तत्संयुक्तभगान्नृणां बहुभवो वीर्यान्वितैर्भूरिभिः ।
Here is the transcription of the page:
आयुर्दायाध्यायः ॥५॥ १६३ अभ्रम्भव्रवायुध्वजो ज्वरामयकृतस्तूदङ्मुखत्वाद्राष्टमे सूर्यार्थेनिधने चरादिषु परस्वाध्वप्रदेशेष्विति । शैलाग्राभिहतस्य सूर्यकुजयोर्मृत्युः खबन्धुस्थयोः कूपे मन्दशशाङ्कभूमितनयैर्बन्ध्वस्तकर्मस्थितैः। कन्यायां स्वजनाद्विमोष्णकरयोः पापग्रहैर्दृष्टयोः स्यातां यद्युभयोदयोऽर्कशशिनौ तोये तदा मज्जितः मन्दे कर्कटगे जलोदरकृतो मृत्युर्मृगाङ्गे मृगे शस्त्राग्निप्रभवः शशिन्यशुभयोर्मध्ये कुजर्क्षे स्थिते । कन्यायां रुधिरोत्यशोषजनितस्तद्वत्स्थिते शीतगौ। सौरर्क्षे यदि तद्वदेव हिमगौ रज्ज्वग्निपातः कृतः। बन्धादीननवमस्ययोरशुभयोः सौम्यग्रहादृष्टयोर्द्र्रेष्काणैश्च सपाशसर्पनिगडैश्छिद्रस्थितैर्बन्धनतः । कन्यायामशुभान्वितेऽस्तमयगे चन्द्रे सिते मेषगे सूर्ये लग्नगते च विद्धि मरणं स्त्रीहेतुकं मन्दिरे॥ शूलोद्भिन्नतनुः सुखेऽवनिसुते सूर्येऽपि वा स्वे यमे सप्रक्षीणा हिमांशुभिश्च युगपत् पापैस्त्रिकोणायगैः। बन्धुस्थे च रवौ वियत्यवनिजे क्षीणेन्दुसंवीक्षिते काष्ठेनाभिहतः प्रयाति मरणं सूर्यात्मजेनेक्षिते ॥ रन्ध्रास्पद्राष्ट्रहिबुकैर्र्लगुडाहताङ्गः प्रक्षीणचन्द्ररुधिरार्कदिनेशपुत्रैः । तैरेव कर्मनवमोदयपुत्रसंस्थैर्धूमाग्निबन्धनशरीरनिकृन्तनान्तः ॥ ६ ॥ बन्ध्वस्तकर्मसहितैः कुजसूर्यमन्दैर्निर्याणमायुधशिखिक्षितिपालकोपैः । सौरेन्दुभूमितनयैः स्वसुखास्पदस्यैर्ज्ञेयः क्षतकृमिकृतश्च शरीरघातः ॥ ७ ॥ खस्थेऽर्केऽवनिजे रसातल गते यानप्रपाताद्वधो यन्त्रोत्पीडनजः कुजेऽस्तमयगे सौरेन्दिनाभ्युद्गमे। विण्मध्ये रुधिरार्कशीतकिरणैर्जूकाजसौरर्क्षगैर्या तैर्विगलितन्दुसूर्यरुधिरैर्व्योमास्तबन्ध्वाहयान् ॥ ८॥ वीर्य्यान्वितवक्रवीक्षिते क्षीणेन्दौ निधनस्थितेऽर्कजे ॥ गुह्योद्भव रोगपीडया मृत्युः स्यात् कृमिशस्त्रदाहजः ॥ ६ ॥ श्रस्ते रवौ सरुधिरे निधनेऽर्कपुत्रे क्षीणे रसातल गते हिमगौ खगान्तः ॥ लग्नात्मजाष्टमतपःस्थिनभौममन्दचन्द्रैस्तु शैलशिखराशनिकुड्यपातः ॥ १० ॥ द्वाविंशः कथितस्तु कारणं द्रेष्काणो निधनस्य सूरिभिः । तस्याधिपतिर्भूपोऽपि वा निर्याणं स्वगुणैः प्रयच्छति ॥ ११ ॥ होरानवांशकप्रयुक्तसमानभूमौ योगेक्षणादिभरतः परिफल्प्यमेतत् ॥ मोहस्तु मृत्युसमयेऽनुदितांशतुल्यः स्वेशेक्षिते द्विगुणितस्त्रिगुणः शुभैश्च ॥ १२ ॥ दहनजलविमिश्रैर्भस्मसंक्लेदशोषैः निधनभवनसंस्थैर्व्यान्नवर्गैर्विडम्बः । इति शवपरिणामश्चिन्तनीयो यथोक्तः पृथुबिरचितशास्त्राद् गत्यनूकादि चिन्त्यम् ॥ १३ ॥ गुरुदृढपतिशुकौ सूर्यभौमौ यमज्ञौ विधुघपितृपितरश्वो नारकीयांश्च कुर्युः । दिनकरशशिवीर्याधिष्ठितात् त्र्यंशनाथात् प्रवरसमनिकृष्टास्तुङ्गहासादनूके ॥ १४ ॥ गतिरपि रिपुरन्ध्रत्र्यंशपोऽस्तस्थितो वा गुरुरथरिपुकेन्द्रच्छिद्रगः स्वोच्चसंस्थः । उदयति भवनेऽन्त्ये सौम्यभागे च मोक्षो भवति यदि बलेन प्रोज्झितास्तत्र शेषाः ॥ १५॥ एषां श्लोकानां व्याख्या भट्टोत्पलकृता विलोक्याः । अत्र भूयस्त्वभयान्न लिखिता इति ॥ पारिजाते सुधा टीका कपिलेश्वररचिता । आयुर्दायाह्वयेऽध्याये पञ्चमे पूर्णतां गता ॥ ५ ॥ सूर्य आदि नव ग्रहों की कृपा से मैं (वैद्यनाथ दैवज्ञ) ने निसर्गायु प्रभृति विविध आयुकी स्पष्टीक्रिया, और मृत्यु दशाके भेदों को इस पांचवे अध्यायमें वर्णन किया। (सु० ज्ञा० कार) ॥ १२५ ॥ इति श्रीवैद्यनाथदैवज्ञविरचिते जातकपारिजाते आयुर्दाषाख्ये पञ्चमोऽध्याये 'विमला' हिन्दी टीका समाप्ता ॥ ५ ॥
अथ जातकभङ्गाध्यायः ॥ ६ ॥ तत्रादौ जातकभङ्गपरिभाषा । केचिद् योगा राजयोगस्य भङ्गाः केचिद्रेका नाम दारिद्र्ययोगाः ॥ केचित्प्रेष्याः के च केमद्रुमाख्यास्ते चत्वारो जातभङ्गाकराः स्युः ॥ १ ॥ अथातो जातकभङ्गाध्यायो व्याख्यायते । तत्र को नाम जातकभङ्ग इत्युच्यते । केचिदिति । राजयोगस्य = यस्मिन् योगे जातो राजा भवति तस्य राजयोगस्य भङ्गाः = नाश- काः केचिद्योगाः ( मेषे जूकनवांशक इत्यादिवक्ष्यमाणाः ) केचिद्रेका नाम दारिद्र्ययोगाः ( लग्नेशे बलवर्जिते इत्यादिवक्ष्यमाणाः ) केचित्प्रेष्या योगाः (माने रवावित्यादिवक्ष्यमाणाः) के च केमद्रुमयोगाः ( लग्नस्थिते हिमकरे इत्यादिवक्ष्यमाणाः ) इत्येते चत्वारो जातभङ्गा- काराः स्युरिति । एषां चतुर्णां मध्ये कश्चिदेको योगो यस्य जन्मकाले भवति तस्य जीवनं व्यर्थमिवेति भावः ॥ १ ॥ कितने राजयोगके नाशक योग, कितने रेका नामक दरिद्रयोग, कितने प्रेष्ययोग, कितने केमद्रुमयोग ये चार प्रकारके जातकभङ्ग ( शुभ योग नाशक ) कहे गये हैं । ( सु० शा० कारः ) ॥ १ ॥ राजभङ्गाः । मेषे जूकनवांशके दिनकरे पापेक्षिते निर्धनः कन्याराशिंगते यदा भृगुसुते कन्यांशके भिक्षुकः ॥ नीचर्क्षे त्वतिनीचभागसहिते जातो दिवानायके राजश्रेष्ठकुलाग्रजोऽपि विगतश्रीपुत्रदाराशनः ॥ २ ॥ यस्मिन्योगे जातो राजाऽपि दुःखभागभवतीत्युच्यते । राजश्रेष्ठकुलाग्रजोऽपि = राज्ञां श्रेष्ठकुले उत्तमकुलेऽग्रजः प्रथमजन्माऽपि, दिनकरे = सूर्ये मेषे (स्वोच्चे) राशौ जूकनवांशके = तुलानवांशे ( मेषस्य विंशतिभागादुपरि त्रयोविंशांशे सप्तमांशे ( २०°-२३°२०' ) विद्यमाने तस्मिन् पापग्रहेणेक्षिते च यदि जायते तदाऽसौ जातो निर्धनो भवति । एतदुक्तं भवति राजकुले यः प्रथमः पुत्रः स राजा भवति, परन्तु तस्य जन्मकाले यदीदृशयोगो भवेत्तदा (राज्ञो ज्येष्ठपुत्रोऽपि ) निर्धन एव भवति । एवं भृगुसुते = शुक्रे कन्याराशिंगते कन्यांशके च विद्यमानेऽर्थात् कन्याया नवमे नवांशे ( २६°४०'-३०° ) विद्यमाने जातो भिक्षुको याचको भवति । अथ च दिवानायके = सूर्ये नीचर्क्षे = तुलाराशौ त्वतिनीचभागसहिते = दशमेऽंशे ( ६ रा १०°) विद्यमाने सति सः ( राजश्रेष्ठकुलाग्रजोऽपि ) विगतश्रीपुत्रदाराशनः = श्रियः सम्पदः, पुत्रा आत्मजाः, दाराः = स्त्रियः, अशनं = भोजनं तैर्विगतो रहितो भवति । सर्वथा दुर्भाग्यो भवतीति भावः ॥ २ ॥ यदि सूर्य मेष राशिमें तुलाके नवांशमें हो उसे पापग्रह देखते हों तो जातक निर्धन होता है । यदि शुक्र कन्या राशिमें कन्या के ही नवांशमें हो तो भिक्षुक होता है । यदि सूर्य नीच राशि (तुला) में अतिनीच भाग (१०) से युत हो तो जातक श्रेष्ठ राज कुलका होनेपर भी लक्ष्मी, पुत्र, स्त्री और भोजनसे रहित होता है ॥ २ ॥ मन्दाराहिसमन्वितेऽमरगुरौ शुक्रेन्दुपुत्रेक्षिते जातः शूद्रकलेवरोऽपि निखिलां विद्यामुपैति श्रियम् । तारानाथविकर्त्तनौ गदगतौ सौरेण संवीक्षितौ जातोऽसौ समुपैति नीचविहितोपायेन सञ्जीवनम् ॥ ३ ॥
जातकभङ्गाध्यायः ॥ ६ ॥ १६५ अमरगुरौ = बृहस्पतौ मन्दाराहिसमन्विते = शनिभौमराहुभिर्युक्ते शुक्रेन्दुपुत्रेक्षिते = शुक्रबुधाभ्यामवलोकिते च जातः शूद्रकलेवरोऽपि=शूद्रजातिरपि यदि भवति तथापि निखि- लां विद्यां श्रियं = सम्पदञ्चोपैति = प्राप्नोति । तथोक्तं सर्वार्थचिन्तामणौ- “ध्वजाहिमन्दैः सहितेन्द्रपूज्ये शुक्रेक्षिते वा शशिसूनुदृष्टे । शूद्रोऽपि चेद्विप्रसत्त्वमेति विद्यां च सर्वामधिगम्य जातः” इति ॥ तारानाथविकर्त्तनौ = चन्द्रसूर्यौ गदगतौ = षष्ठभावगतौ सौरेण = शनैश्चरेण वीक्षितौ च भवेतां तदा जातोऽसौ नीचविहितोपायेन = नीचजातीनां जीवने य उपायो विहितस्तेन ( दासादिकर्मणा ) सञ्जीवनं = जीवनवृत्ति समुपैति । अर्थादस्मिन्योगे कुलीनोऽपि जातो नीचवृत्तिको भवतीति तात्पर्यम् ॥ ३ ॥ गुरु यदि शनि, मङ्गल और राहुसे युक्त हो, शुक्र और बुधसे दृष्ट हो तो जातक शूद्र कुलमें उत्पन्न होने पर भी सम्पूर्ण विद्या और लक्ष्मीको प्राप्त करता है । लग्नसे छठे स्थानमें चन्द्रमा और सूर्य हों उन्हे शनि देखता हो तो वह जातक नीच कर्मके द्वारा जीविका पावे ॥ ३ ॥ केन्द्रस्थे वा विलग्ने दिनकरतनये सौम्यखेटैरदृष्टे भूसूनोः कालहोरासमयजमनुजो भिक्षुको दासभूतः ॥ सौम्यादृष्टेऽर्किदृष्टे शशिनि सरुधिरे मेषगे भिक्षुकः स्या- दर्कीन्द्वर्कैः सकेन्द्रैर्जडतनुरधनश्चान्यभुक्ताशनः स्यात् ॥ ४ ॥ दिनकरतनये = शनैश्चरे केन्द्र-( १।४।७।१० ) स्थे वा विलग्ने = लग्नगते, सौम्य- खेटैः = शुभग्रहैरदृष्टे = अनवलोकिते तथा भूसुनोर्भौमस्य कालहोरासमये जातो मनुजो भिक्षुको याचको, दासभूतोऽन्यस्य भृत्यश्च भवति । अथ सरुधिरे=भौमसहिते शशिनि=चन्द्रे मेषराशि- गते सौम्यैः = शुभैरदृष्टे, अर्किणा = शनिना दृष्टे च जातो भिक्षुकः स्यात् । अत्र सर्वार्थ- चिन्तामणौ- मेषे शशांके रविसूनुदृष्टे भिक्षाशनो भूमिसुतेन दृष्टे । निःश्रीर्विलग्नस्य निशाकरस्य लुब्धो दिनेशात्मजदृष्टियोगात् ॥ शुभग्रहाणामवलोकनेन हीनाद्भवैदत्र समन्विताद्वा । तत्कालहोराधिपतौ धराजे केन्द्रे शनौ चेद्यदि वा विलग्ने । शुभग्रहाणामवलोकहीने दासस्तु भिक्षाशनदेहशीलः ॥ इति ॥ अर्कीन्द्वर्कैः=शनिचन्द्रसूर्यैः सकेन्द्रैः = केन्द्र-( १।४।७।१० ) गतैः जातो नरो जड- तनुः = प्रज्ञाहीनशरीरः, अधनः = निर्धनः, अन्यभुक्ताशनः=परोच्छिष्टभोजी च भवति । अत्र प्रसङ्गात् कालहोराज्ञानप्रकारः- वाराद्द्यर्घटिकाद्विघ्ना स्वाङ्कहच्छेषवर्जिता । सैका तत्ता नगैः कालहोरेशा दिनपात् क्रमात् ॥४॥ शनि केन्द्रमें वा लग्नमें हो, उसको शुभग्रह न देखते हों तथा मङ्गलकी कालहोरामें उत्पन्न हो तो मनुष्य भिक्षुक तथा दास होता है । चन्द्रमा मङ्गलके साथ मेष राशिमें हो उसको शुभ ग्रह न देखता हो और शनि देखता हो तो भिक्षुक होता है। केन्द्र में शनि, चन्द्र और सूर्य हों तो जड़ शरीर हो, दरिद्र हो, दूसरेका जूठा खानेवाला हो ॥ ४ ॥ मन्दे केन्द्रगते विलग्नगृहगे चन्द्रेऽन्यभे वाक्पतौ जातो भिक्षुक एव शोकजलधौ मग्नो विदेशं गतः ॥ धर्मस्थानपतौ तु रिःफगृहगे पापग्रहे केन्द्रगे
१६६ सटीकजातपारिजाते- जातः पापरतः परान्नधनभुग् विद्याविहीनो भवेत् ॥ ५ ॥ मन्दे=शनौ केन्द्र-( १।४।७।१० ) गते, चन्द्रे विलग्नगृहगे=जन्मलगने गते, वाक्पतौ= गुरावन्यमे=द्वादशभावे गतवति जातो भिक्षुकः सन्नेव शोकजलधौ=चिन्तासागरे मग्नो लीनो विदेशं गतोऽन्यदेशं गतो भवति । तु पुनः-धर्मस्थानपतौ=नवमेशे रिःफगृहगे=द्वादश- भावगते, पापग्रहे केन्द्रगते च जातः पापरतः, परान्नधनभुक्, विद्याविहीनश्च भवेत् ॥ ५ ॥ [कुंडली १ : लग्न १ चं. ल., २, ३, ४ श., ५, ६, ७, ८, ९, १०, ११, १२ वृ.] [कुंडली २ : लग्न ६ सू., ७, ८, ९ सं. पा., १०, ११, १२ रा., १, २, ३, ४, ५ शु.] शनि केन्द्रमें हो, चन्द्रमा लग्नमें हो और बृहस्पति बारहवें में हो तो जातक भिक्षुक और शोकरूपी समुद्रमें निमग्न होकर विदेश चला जाय । नवमें भावका स्वामी बारहवें हो पापग्रह केन्द्रमें हों तो जातक पापमें रत हो, पराया अन्न, धन भोगनेवाला तथा मूर्ख हो ॥ जीवे राहुयुतेऽथवा शिखियुते पापेक्षिते नीचकृन् नीचे नीचसमीक्षिते सुरगुरौ विप्रोऽतिदुष्कर्मकृत् ॥ निद्री चन्द्रविलग्नपौ सह दिवानाथेन मन्देक्षितौ प्रेष्यः स्यादशुभैः शुभग्रहदृशा हीनैश्च मानस्थितैः ॥ ६ ॥ यत्र तत्र जीवे = बृहस्पतौ राहुणा युतेऽथवा शिखिना=केतुना युते, पापेन=शनिभौम- सूर्याणामन्यतमेनेक्षिते = दृष्टे च जातो नीचकृदुच्चकुले जायमानोऽपि नीचकर्मकृद्भवति । सुरगुरौ=बृहस्पतौ नीचे=मकरराशौ गतवति नीचसमीक्षिते=नीचगतग्रहै-(पापग्रहै-) रवलो- किते च विप्रो ब्राह्मणोऽपि जायमानोऽतिदुष्कर्मकृदतिगर्हितकर्मा भवति । अत्र सर्वार्थचिन्तामणिकारेण- जीवे सकेतौ यदि वा सराहौ चाण्डालता पापनरीक्षिते चेत् । नीचांशके नीचसमन्विते वा जीवे द्विजेथेऽपि तादृशः स्यात्, इत्युक्तम् ॥ दिवानाथेन सह=संयुक्तौ चन्द्रविलग्नपौ मन्देक्षितौ = शनिना दृष्टौ भवेतां तदा जातः निद्री=सदा निद्रालुः भवेत्, तथा मानस्थि- तैर्दशमभागवतैरशुभैः=पापग्रहैः शुभग्रहाणां दृशा = दृष्टया हीनैः = रहितैश्च जातो नरः प्रेष्यः=परभृत्यो भवति ॥ ६ ॥ [कुंडली ३ : लग्न ६, ७ श. वृ., च. ८ सू., ९, १० वृ., ११, १२, १, शं. २, सं. ३ श. सू. / ३ मं., ५] बृहस्पति राहु, वा केतुसे युक्त हो उसे पापग्रह देखते हों तो जातक नीच कर्म करने वाला हो । बृहस्पति नीच राशिमें नीच गत ग्रहसे देखा जाता हो तो जातक ब्राह्मण होने पर भी अत्यन्त दुष्कर्म करनेवाला होता है। लग्नेश वा चन्द्रमा नीच राशिमें होकर सूर्यके साथ हो उसे शनि देखता हो तो जातक निद्रालु हो । यदि पाप ग्रह दशममें हो उन्हे शुभग्रह न देखते हों तो दूत हो ॥ ६ ॥
जातकभङ्गाध्यायः ॥ ६ ॥ १६७ भाग्येशेऽन्त्यगते सहादरगतैः पापैर्व्ययेशेऽर्थगे दुर्भोजी परिबन्धनादिसहितो जातोऽन्यजायारतः ॥ सर्वैर्नीचसपत्नभागसहितैः कर्मेतरस्थानगै- र्विद्याबुद्धिकलत्रपुत्ररहितः कोपी सदा भैक्षकृत् ॥ ७ ॥ भाग्येशे = नवमभावेशे अन्त्यगते = द्वादशभावगते, पापैः सहोदरगतैस्तृतीयभावगतैः व्ययेशेऽर्थगे = द्वितीयभावगते जातो दुर्भोजी = गर्हिताशनो भवति, परिबन्धनादिभिः = या- तनादिभिः सहितो भवति, अन्येषां = परेषां जायासु = स्त्रीषु रतो लीनो भवति । अथ सर्वैः ग्रहैर्नीचसपत्नभागसहितैः = कैश्चित्नीचभागसहितैः कैश्चिच्छत्रुभागसहितैश्च कर्मेतरस्थानगैः = कर्म विहाय = दशमभावं विहायेतरेषु स्थानेषु स्थितैर्जातो नरो विद्या, बुद्ध्या, कलत्रेण, पुत्रैश्च रहितो विहीनो भवति, कोपी = क्रोधनो भवति, तथा सदा भैक्षकृद् भवति ॥ ७ ॥ ( १ ) ( २ )
कुण्डली ( १ )
- लग्न (३): मिथुन
- द्वितीय भाव (२): शनि
- तृतीय भाव (१): —
- चतुर्थ भाव (१२): —
- पंचम भाव (११): —
- षष्ठ भाव (१०): —
- सप्तम भाव (९): —
- अष्टम भाव (८): —
- नवम भाव (७): —
- दशम भाव (६): —
- एकादश भाव (५): सूर्य, मंगल, राहु
- द्वादश भाव (४): शुक्र
कुण्डली ( २ )
- लग्न (३): मिथुन
- द्वितीय भाव (२): सूर्य
- तृतीय भाव (१): बुध
- चतुर्थ भाव (१२): —
- पंचम भाव (११): —
- षष्ठ भाव (१०): गुरु
- सप्तम भाव (९): —
- अष्टम भाव (८): चन्द्र
- नवम भाव (७): —
- दशम भाव (६): मंगल
- एकादश भाव (५): —
- द्वादश भाव (४): शुक्र, बुध
नवमेश बारह वें में हो, तृतीय में पाप ग्रह हों, व्ययेश दूसरे में हो तो जातक दुर्भोजी (मांस, लहसुन, पियाज आदि खानेवाला) बन्धनसे युक्त और दूसरे की स्त्री से विलास करनेवाला हो। सभी ग्रह नीचराशिमें शत्रुके नवांशमें हों दशमसे भिन्न स्थानमें स्थित हों तो विद्या, बुद्धि, स्त्री, और पुत्रसे रहित क्रोधी हो और भिक्षा मांगनेवाला हो ॥ ७ ॥ लग्नस्वामिनि रिःफगे तु वियति क्रूरे सचन्द्रे कुजे जातोऽसौ परदेशगः सुखधनत्यागी दरिद्रो भवेत् ॥ होराजन्मपती न शोभनयुतावस्तंगतावन्त्यगे भाग्येशे यदि नष्टदारतनयो जातः कुलध्वंसकः ॥ ८ ॥ लग्नस्वामिनि = जन्मलग्नेशे रिःफगे = लग्नाद्द्वादशभावगते, क्रूरे = पापग्रहे शनिसू- र्ययोरन्यतरे वियति=दशमभावगते तत्र सचन्द्रे कुजे ( चन्द्रभौमौ तत्र संयुक्तौ भवेताम् ) तदाऽसौ जातः परदेशगः, सुखधनत्यागी, दरिद्रश्च भवेत् । होराजन्मपती = लग्नेश-चन्द्रराशीशौ शोभनेन = शुभग्रहेण युतौ न भवेतामस्तंगतौ वा भवेतां, भाग्येशे = नवमभावेशेऽन्त्यगते = द्वादशभावगते यदि जन्म भवेत्तदा जातो नष्टदारतनयः = मृतस्त्रीपुत्रकः कुलध्वंसकश्च भवति । उक्तञ्च सर्वार्थचिन्तामणौ- “होरेश्वरे रिष्फगते तु माने क्रूरान्विते भौमयुते शशाङ्के । जातोऽभिशस्तः परदेशवासी भिक्षाशनी दुःखितदेहभाक्स्यात् ॥ भाग्येश्वरे चान्त्यगते सपापे जन्मोदयेशे रविगे कुलघ्नः । विनष्टपुत्रार्थकलत्रभाक्स्याच्छुभैर्न युक्तौ यदि वीक्षितौ वा” इति ॥ ८ ॥
१६८ सटीकजातकपारिजाते- यदि लग्नेश बारहवें भावमें हो, दशवें भावमें पापग्रह हो उसमें मङ्गल चन्द्रमाके साथ हो तो वह जातक परदेशवासी हो, सुख और धनसे रहित होकर दरिद्र हो । यदि लग्नेश और जन्मराशीश ये दोनों शुभग्रहोंसे युक्त नहीं हों अथवा अस्तङ्गत हों तथा नवमेश १२वें भावमें हो तो जातक स्त्री और पुत्रोंसे रहित होता है, तथा अपने कुलका संहार करनेवाला होता है । (सु० शा० कार) ॥ ८ ॥ सौम्यासौम्ययुतेषु केन्द्रभवनेष्विन्दौ तनुस्वामिना दृष्टे मन्दनवांशके सति कुलध्वंसी विदारात्मजः ॥ कामेबोधनशुक्रयोः सुतगृहे जीवे सुखस्थे शुभे पापे रन्ध्रगते च चन्द्रभवनाज्जाताः कुलध्वंसिनः ॥ ६ ॥ केन्द्रभवनेषु (१।४।७।१०) सौम्यासौम्ययुतेषु, (शुभग्रहाः पापग्रहाश्च केन्द्रगता भवेयुरित्यर्थः) इन्दौ=चन्द्रे यत्र तत्र तनुस्वामिना=जन्मलग्रेशेन दृष्टे मन्दनवांशके=शनि- (१०।११) राशिनवांशे च गते सति जातो नरः कुलध्वंसी = वंशनाशकः, विदारात्मजः= स्त्रीपुत्ररहितश्च भवति । उक्तं सर्वार्थचिन्तामणौ- शुभाशुभैः केन्द्रगतैः शशाङ्कः लग्नेश्वरेणापि निरीक्षितश्चेत् । सौरांशके वा यदि संयुतश्चेज्जातः कुलध्वंसकरो विदारः ॥ इति ॥ बोधनशुक्रयोः कामे = लग्नात्सप्तमे भावे स्थितयोः, सुतगृहे=पञ्चमे भावे जीवे=गुरौ गतवति, अशुभे=कस्मिंश्चित्पापे सुखस्थे=चतुर्थभावगत, तथा च चन्द्रभवनाच्चन्द्राधिष्ठित- राशितो रन्ध्रगते पापग्रहे जाताः = समुत्पन्ना नरः कुलध्वंसिनो भवन्ति ॥ ९ ॥ लग्नसे केन्द्र (१।४।७।१०) स्थानमें शुभ तथा अशुभ ग्रह हों चन्द्रमा लग्नेशसे देखा जाता हो और शनिके नवांशमें हो तो जातक कुलका नाश करनेवाला तथा स्त्री और पुत्रों से रहित हो । यदि ७ वें स्थानमें बुध और शुक्र हों, ५ वें स्थानमें गुरु हो, ४ थेमें पापग्रह हो और चन्द्रमासे भी ८ वें में पापग्रह हो तो जन्मलेनेवाले कुलका संहार करनेवाले होते हैं । (सु० शा० कारः) ॥ ९ ॥ चरावसाने शशिनि स्थिरादौ द्विदेहमध्ये बलवर्जिते च ॥ हीने विलग्रे यदि खेचरैन्द्रैर्विनाशमेति क्षितिपालयोगात् ॥ १० ॥ शशिनि=चन्द्रे चरराशीनां (मेष-कर्क-तुला-मकराणाम्) अवसानेऽन्त्ये (राश्यन्त्ये) स्थिरराशीनां (२।५।८।११) आदौ तथा द्विदेहानां = द्विस्वभावराशीनां (३।६।९।१२) मध्ये गतवति, बलवर्जिते=निर्बले च सति, विलग्रे=जन्मलग्रने खेचरेन्द्रैर्ग्रहैर्हीने = रहितेऽर्था- ल्लग्ने न कोऽपि ग्रहो भवेत्तदा क्षितिपालयोगो राजयोगो नाशमेति = विनश्यतीति । एवं सारावल्याम्-अन्त्याष्टमादिभागे चरराश्यादिषु शशी यदा क्षीणः ।
जातकमङ्गाध्यायः ॥ ६ ॥ १६६ एकेनापि न दृष्टो ग्रहेण भङ्गस्तदा नृपतेः ॥ अस्मिन्योगे राजकुलोद्भूतोऽपि न राज्यं लभत इति तात्पर्यम् ॥ १० ॥ चर राशिके अन्त्य भागमें, स्थिर राशिके आदिमें, द्विस्वभाव राशिके मध्यमें बलहीन चन्द्रमा हो, और कोई भी ग्रह लग्नमें न हो तो राजयोगका विनाश होता है ॥ १० ॥ लग्नराशिनवभावनायका भानुशीतकरदेवपूजिताः ॥ शत्रुभागसहिताः स्वनीचभस्वामिभांशसहिताः परानुगः ॥ ११ ॥ लग्नं = जन्मलग्नम् । राशिर्जन्मकाले चन्द्राधिष्ठितो राशिः। नवभावो जन्मलग्नान्नवमो ( धर्मः ) भाव इत्येषां नायकाः = स्वामिनः ( लग्नेशराशीशनवमेशा इति ) तथा भानुशी- तकरदेवपूजिताः = सूर्येन्दुगुरवः यदि शत्रुभागसहिताः = शत्रुनवांशगता वा स्वनीचभस्वामि- भांशसहिताः = स्वस्वनीचराशिपतिनवांशगता भवेयुस्तदा जातो नरः परानुगोऽन्येषामनुचरो भवति ॥ ११ ॥ जन्मलग्न, जन्मराशि, और ९ वें भावका स्वामी, तथा सूर्य चन्द्रमा और बृहस्पति ये सब अपने शत्रु ग्रहके नवांशमें हों या अपने नीच राशिपति के अंशमें हों तो दूसरेके पीछे चलनेवाला हो ॥ ११ ॥ शशिनि गगनयाते कामगे दानवेज्ये नवमभवनयाते पापखेडे कुलघ्नः ॥ भृगुजशशिजचन्द्राः केन्द्रगा जन्मलग्ने तमसि विहितकर्मध्वंसको नीचतुल्यः ॥ १२॥ शशिनि = चन्द्रे गगनयाते = दशमभावगते, दानवेज्ये = शुक्रे कामगे = सप्तमभावगते पाप- खेटे = सूर्यभौमशनीनामन्यतमे नवमभवनयाते = लग्नान्नवमं भावमुपगते जातो नरः कुलघ्नो वंशच्छेदको भवति । अथ च भृगुजशशिजचन्द्राः = शुक्रबुधचन्द्राः केन्द्रगा भवेयुः, तमसि = राहौ ( तमस्तु राहुः इत्यमरः ) जन्मलग्ने गतवति जातो विहितकर्मध्वंसकः = स्वस्य विहितकर्मणो ध्वंसको भवति, नीचतुल्यः = उच्चकुले समुद्भूतोऽपि स्वकर्मरहितो नीचस- दृशो भवतीति ॥ १२ ॥ ( १ ) ( २ ) यदि चन्द्रमा दशवें भावमें हो, शुक्र सप्तममें हो और पापग्रह नववें स्थान में हो तो जातक कुलका नाश करनेवाला हो । शुक्र, बुध और चन्द्रमा यदि केन्द्रमें हों जन्मलग्नमें राहु हो तो विहित कर्मोंका नाशक और नीचके समान हो ॥ १२ ॥ नीचे भृगौ मन्दनवांशके वा दुःस्थानगे भानुसुतेक्षिते च ॥ कामस्थिते शीतकरे सभानौ मात्रा सह प्रैष्यमुपैति नित्यम् ॥ १३ ॥ भृगौ = शुक्रे नीचे = स्वनीच- ( कन्या ) राशौ मन्दस्य नवांशके वा दुःस्थानगे = षडष्ट- व्ययगे तथा भूते भानुसुतेन = शनिनेक्षितेऽवलोकिते च, वा सभानौ = सूर्यसहिते शीतकरे = १५ जा०
१७० सटीकजातकपारिजाते- चन्द्रेकामस्थिते=सप्तमभावमुपगते शनिदृष्टे च जातो नरो मात्रा सह = जनन्या सहितो नित्यं प्रैष्यं = दास्यमुपैति । परप्रेष्ययोगः सर्वार्थचिन्तामणौ— नीचे भृगौ मन्दनवांशके वा व्ययस्थिते, चन्द्ररवी कलत्रे । निरीक्षितौ भानुसुतेन चात्र जातः परप्रैष्यमुपैति नित्यम् ॥ १३॥ यदि शुक्र नीच राशिमें शनिके नवांश- में हो, दुष्टस्थानमें हो या शनिसे देखा जाता हो अथवा चन्द्रमा और सूर्य सप्तम में हों और शनि दृष्ट हों तो वह बालक अपनी माताके साथ नित्य दूत कर्म करने वाला (सेवक) होता है ॥ १३ ॥ [ चक्र : १ ल. । १२ शुं. । श. । चं. सू. । ६ शु. ५ । मध्ये : मात्रा सह प्रैष्ययोगः ] नीचे गुरौ वासरनायके वा केन्द्रस्थिते पापयुते शिशुघ्नः ॥ केन्द्रे सपापे शुभदृष्टिहीने रन्ध्रे गुरौ गोमृगजातिहन्ता ॥ १४ ॥ गुरौ = बृहस्पतौ, वा वासरनायके = सूर्ये, नीचे = स्वनीचराशौ केन्द्र-(१।४।७।१०) स्थिते, पापयुते = शनिना भौमेन वा युते जातः शिशुघ्नो बालघातको भवति । अथ केन्द्रे (१।४।७।१०) सपापे = पापग्रहयुक्ते तस्मिन् शुभदृष्टिहीने = शुभग्रहाणां दृष्ट्या रहिते, गुरौ = बृहस्पतौ रन्ध्रेऽष्टमे च गते जातो गोमृगजातिहन्ता = आखेटादौ गवां मृगादीनाञ्च विनाशको भवति । अत्र सर्वार्थचिन्तामणौ—'शुभदृष्टियुक्ते रन्ध्रे भृगौ' इति पाठान्तर- मुपलभ्यते ॥ १४ ॥ ( १ ) ( २ ) [ चक्र १ : १ ल. । श. । बृ. के. १० । सू. ७ मं. ] [ चक्र २ : बु. शु. । सू. ल. । ज्ञ. मं. । बृ. ] बृहस्पति वा सूर्य नीच राशिमें होकर केन्द्रमें स्थित हो, पापग्रहसे युक्त हो तो वह जातक बालघाती होता है। केन्द्रमें पापग्रह हो उसपर शुभग्रहकी दृष्टि न हो, गुरु अष्टममें हो तो गौ और मृगोंके मारनेवाला हो ॥ १४ ॥ शशाङ्कसौम्यौ दशमोपयातौ पापेक्षितौ पापसमन्वितौ च । नीचांशगौ सौम्यदृशा विहीनौ जातस्तु नित्यं खलु पक्षिहन्ता ॥ १५ ॥ शशाङ्कसौम्यौ = चन्द्रबुधौ दशमोपयातौ = लग्नदशमभावमुपगतौ पापेक्षितौ = केन- चित्पापग्रहेणावलोकितौ पापसमन्वितौ = केनचित्पापेन युक्तौ च भवेतामपि च नीचांशगौ = स्वनिचराशिनवांशगतौ, सौम्यदृशा = शुभग्रहदृष्ट्या विहीनौ च यदि भवेतां तदा जातस्तु खलु = निश्चयेन नित्यमनवरतं पक्षिहन्ता = विहगघातको भवति ॥ १५ ॥
जातकमङ्गाध्यायः ॥६॥ १७१ चन्द्रमा और बुध दशवममें हों, पापग्रहसे देखे जाते हों और पापग्रहसे युक्त भी हों, नीचनवांशमें हों और शुभग्रहकी दृष्टिसे रहित हों तो वह जातक निश्चय पक्षी मारनेवाला होता है ॥ १५ ॥ चन्द्रात्सुते लग्नपतौ धने वा सौम्येत्तरेष्वष्टमराशिगेषु । मानस्थिते शीतकरे तदानीं जातस्तु जीवत्यतिहेयवृत्त्या ॥ १६ ॥ जन्मकाले चन्द्रात्सुते = पञ्चमे, वा धने = द्वितीये भावे लग्नपतौ = लग्नेशे गते, सौम्ये- तरेषु = पापग्रहेषु चन्द्रादष्टमराशिगेषु, शीतकरे = चन्द्रे मानस्थिते = लग्नाद्दशमभावगते । अत्रेदं फलितम्—चन्द्रो दशमगतो भवेत्तस्मात्सुते वा धने अर्थात्पञ्चमाद्वितीयके वैकादशे लग्नेशो गतो भवेत्तथा चन्द्रादष्टमेऽर्थाल्लग्नात्पञ्चमे पापग्रहा भवेयुस्तदानीं जातस्तु अतिहेय- वृत्त्या = कुत्सितजीविकया जीवति । अत्र सर्वार्थचिन्तामणौ पाठः— चन्द्रात्सुतेऽर्थे यदि लग्ननाथे रन्ध्रस्थितैः सौम्यखगेतरैर्वा । मानस्थिते रात्रिकरे तदानीं जीवत्यतिहेयवृत्त्या ॥ १६ ॥ यदि लग्नेश चन्द्रमासे पञ्चम स्थानमें हो, या दूसरेमें हो, और पापग्रह अष्टमरा- शिमें हो, चन्द्रमा दशममें हो तो वह जातक अत्यन्त नीच जीविका से जीवे ॥ १६ ॥ नीचारिभांशौ भृगुदेवपूज्यौ तदंशके वासरनाथपुत्रे । जातः सुदुःखःसुतदारहीनः कृच्छ्रेण संजीवति भाग्यहीनः ॥ १७ ॥ भृगुदेवपूज्यौ = शुक्रगुरू नीचारिभांशौ = नीचनवांशं शत्रुराशिनवांशं वोपगतौ, वासर- नाथपुत्रे = शनैश्चरे तदंशके = शुक्रस्य गुरोर्वा नवांशे विद्यमाने जातो नरः सुदुःखभाक्, सुतदारहीनः = पुत्रकलत्ररहितश्च भवति तथा भाग्यहीनः सन् कृच्छ्रेणातीव कष्टेन सञ्जीवति । सर्वार्थचिन्तामणावत्र पाठभेदः— नीचारिभांशे यदि देवपूज्ये तदंशके वासरनाथपुत्रे । जातोऽतिदुःखी सुतदारहीनः कृच्छ्रादसौ जीवति भाग्यहीनः ॥ इति ॥१७॥ शुक्र और गुरु नीचराशिके या शत्रु- ग्रहके नवांशमें हों, गुरु या शुक्रके नवांश में शनि हो तो जातक स्त्री पुत्रों से रहित और अभागा बन कर बडे कष्टसे किसी तरह जीता है । (सु० शा० कार ) ॥ १७ ॥
१७२ सटीकजातकपारिजाते- सर्वे पापाः केन्द्रनीचारिसंस्थाः सौम्यैरदृष्टा रिःफरन्ध्रारियातः , निघ्नन्त्येते राजयोगं महेन्द्रा नीचारातिक्रूरषष्ठ्यंशकाश्च ॥ १८ ॥ सर्वे पापाः = सूर्यभौमशनैश्चरक्षीणोन्दुसारपापबुधाः, केन्द्रनीचारिसंस्थाः = केन्द्रे ( १।४।७। १० ) वा स्वनीचे, वा शत्रुराशिगता भवेयुस्तथा रिःफरन्ध्रारियातैः = व्ययाष्टमषष्ठभावगतैः सौम्यैरदृष्टा भवेयुस्तदैते महेन्द्रा ग्रहा राजयोगं निघ्नन्ति = नाशयन्ति । अपि च नीचारातिक्रूर- षष्ठ्यंशकाः = ये ग्रहाः नीचराशिगताः, शत्रुराशिगताः, क्रूरषष्ठ्यंशगता वा भवन्ति ते राजयोगं निहन्ति । ईदृग्योगे राजकुलोद्भूतोऽपि न राजफलं लभत इति भावः । उक्तञ्च सारावल्याम्- सर्वे क्रूराः केन्द्रे नोचारिगता न सौम्ययुतदृष्टाः ।
जातकमङ्गाध्यायः ॥ ६ ॥ १७३ ब्राह्मणको मारनेवाला होवे । बारहवां भाव शुभराशि हो उसमें शुक्र शनिके नवांशमें हो तो जातक दासीपुत्र होवे ॥ २० ॥ अथ रेकायोगाः ॥ लग्नेशे बलवर्जिते परिभवस्थानाधिपेनेक्षिते सूर्योच्छिन्नकरे पुरन्दरगुरौ रेकाख्ययोगो भवेत् । बन्धुस्थानपसंयुतांशकपत्तौ तिग्मांशुसुप्तद्युतौ रिःफेशेन निरीक्षिते सति यदा योगस्तु रेकाह्वयः ॥ २१ ॥ अधुना रेकायोगा उच्यन्ते। लग्नेशे = लग्नस्वामिनि बलवर्जिते = निर्बले परिभवस्थानाधिपे- नाष्टमभावेशेनेक्षितेऽवलोकिते पुरन्दरगुरौ = बृहस्पतौ सूर्योच्छिन्नकरे = सूर्येण सह लुप्तकिरणे (अस्तङ्गते) सति रेकाह्वययोगो भवेत्। ईदृग् योगो रेकानामकौ भवति। बन्धुस्थानपश्च- तुर्थभावेशस्तेन संयुतेऽंशकपत्तौ = नवांशस्वामिनि अर्थात्काले चतुर्थेशो
१७४ सटीकजातकपारिजाते-
कुण्डली रेका ३ एवं रेका ४
+-----------------------------------+-----------------------------------+
| \ ३ / \ / \ १ / \ | \ २ / \ / \ १ / \ चं. १२|
| \ / \ २ / \ / \ | \ / \ ३ / \ रा. / \ |
| \ / \ / \ / १२ \ | \ / \ / \ / ११ \ |
| ४ \ / \ / \ / \| ४ \ / \ / \ / \|
|-----+ +---------+ |-----+ +---------+ |
| | | ११ | | | १० |
| ५ | रेका ३ | |र.श.५| रेका ४ | |
| | | | | | |
|-----+ +---------+ |-----+ +---------+ |
|६श.शु| / \ / \ १० /|शु.बु.६| / \ ७ मं. / \ ८ /|
| / \ ७ / \ ८ / \ / | / \ ६ / \ के. / \ / |
| / \ / \र. बृ./ \ ९/ | / \ / \ / \बृ. ८/ |
+-----------------------------------+-----------------------------------+
चतुर्थेश अष्टमेशसे युक्त होकर षष्ठेशसे देखा जाता हो तो रेका योग होता है ! दशमेश ५ वें भावमें हो और लग्नेश नीचमें हो तो रेकायोग होता है । यदि शुभग्रह ८, ६, १२ भावोंमें हों, पापग्रह केन्द्र और त्रिकोणमें हों और लाभेश निर्बल हो तो भी रेका योग होता है ॥ २२ ॥ होरेशः खलसंयुतः सित गुरू चास्तं गतौ तद्वदेद् बन्धुस्थानपतिः शुभेतरयुतश्चास्तं गतो रेकदः ॥ भाग्यस्थानपतौ विकर्तनकरच्छन्ने विलग्नाधिपे नीचस्थे धनपे च नीचगृहगे रेखाभिधानो भवेत् ॥ २३ ॥ होरेशो=जन्मलग्नेशः खलेन = केनचित्पापग्रहेण संयुतो भवेत्, सितगुरू = शुक्रबृह- स्पती चास्तंगतौ = सूर्ययुतौ भवेतां तदा तद्वदेदर्थात् रेकायोगं ब्रूयादिति ।
कुण्डली रेका ५
+-----------------------------------+
| \र.शु.४बृ./ \ / \ २ / \ |
| \ / \बु. ३ श./ \ / \|
| \ / \ / \ / १ \|
| ५ \ / \ / \ / |
|-----+ +---+ +-----|
| | | |
| ६ | रेका ५ | १२ |
| | | |
|-----+ +---+ +-----|
| | / \ / \ ११ |
| ७ / \ ८ / ९ \ / \ |
| / \ / \ / \१०|
+-----------------------------------+
बन्धुस्थानपतिश्चतुर्थभावेशः शुभेत- रयुतः = पापग्रहसंयुक्तोऽस्तंगतश्च यदि भवेत्तदा रेकदो भवति । ईदृग्योगोऽपि रैफाख्य इति । अथ च भाग्यस्थानपतौ = नवमभा- वेशे = विकर्तनकरच्छन्नेऽर्थात्सूर्येण स- हास्तं गते, विलग्नाधिपे = लग्नेशे नीच- स्थे = स्वनीचराशि गते, धनपे च = द्वितीयभावेशे च नीचगृहगे = स्वनीचराशि गते रेखाभिधानो रेकानामको योगो भवेत् ॥२३॥
कुण्डली रेका ६ एवं रेका ७
+-----------------------------------+-----------------------------------+
| \ ४ / \ / \ २ / \ | \ ४ / \ / \ २ / \ |
| \ / \ ३ / \ / \ | \ / \ ३ / \ / \ |
| \ / \ / \ / १ \ | \ / \ / \ / १ \ |
| ५ \ / \ / \ / \| ५ \ / \ / \ / \|
|-----+ +---------+ |-----+ +---------+ |
| | | | | | |
| ६ | रेका ६ | १२ | ६ | रेका ७ | १२ बु. |
| | | | | | |
|-----+ +---------+ |-----+ +---------+ |
| | / \ / \ ११ /| | / \ / \ ११ /|
| ७ / \ ८ / \ ९ / \ / | ७ / \ ८ / \ ९ र. / \ / |
| / \ / \ /बृ.१०\ / | / \ / \ श. / \१०/ |
| / \ / \ / मं. र.\/ | / \ / ८ के. \ / \/ |
+-----------------------------------+-----------------------------------+
लग्नेश पापग्रहकें साथ हो शुक्र और गुरु अस्त हों तो 'रेका' योग होता है । चतुर्थभावका स्वामी पापग्रहके साथ होकर अस्त होवे तो 'रेका' योग होता है ।
जातकभङ्गाध्यायः ॥ ६ ॥ १७५ भाग्य ( नवमभाव ) पति सूर्यके साथ अस्त हो, लग्नेश नीचमें हो और द्वितीयेश भी नीचमें हो तो 'रेका' योग होता है ॥ २३ ॥ नीचस्था यदि वा दिनेशकिरणच्छन्नास्त्रयो लग्नपे दुष्टस्थानगतेऽथवा गतबले योगस्तु रेकप्रदः ॥ होरावित्तनवास्पदायसुखधीकामानुजस्थाः खला- स्तस्यायुर्नवभागरेकफलदा नीचारिपापेक्षिताः ॥ २४ ॥ केचित् त्रयो ग्रहा यदि नीचस्थाः = स्वस्वनिचराशियाता वा दिनेशस्य=सूर्यस्य किरणै- र्छन्नाः = नष्टद्युतयः ( अस्तंगताः ) भवेयुः, लग्नपे = जन्मलग्नेशे दुष्टस्थानगते = षडष्टव्य- यभावानामन्यतमं गते, अथवा गतबले = निर्बले सति रेकप्रदो योगो भवति । होरा = लग्नम्, वित्तं = द्वितीयः, नव = नवमः, आस्पदं = दशमः, सुखं = चतुर्थः, धीः=पञ्चमः, कामः=सप्तमः, अनुजस्तृतीय एतेषु स्थिताः खलाः=पापग्रहाः, नीचारिपापेक्षि- ताः=नीचराशिस्थाः, शत्रुराशिस्थाः, पापेक्षिता वा स्युस्तदा ते तस्य जातस्यायुषो नवमे भागे रेकफलदा रेकायोगफलकारका भवन्ति । अर्थात् ईदृग्योगो रेकाख्य इति । अत्र नीचारिपापे- क्षिता इत्युक्तेरेव यदि उच्चस्वमित्रशुभैक्षिताः स्युस्तदा न रेकाफलदाः स्युरिति ॥ २४ ॥ कोई भी तीन ग्रह नीचमें हों या अस्त हों और लग्नेश दुष्ट स्थानमें हो अथवा निर्बल हो तो 'रेका' योग होता है । पापग्रह १।२।९।१०।११।४।५।७।३ भावोंमें स्थित हों नीच या शत्रुगृहमें स्थित हों या पापग्रहसे दृष्ट हों तो उस जातककी आयुके ९ वें भागमें 'रेका' योगका फल देते हैं ॥ २४ ॥ एकद्विकत्रिखलद्युचरा नराणां कल्पस्वविक्रमगताः परतस्तथैव । आदौ तु मध्यवयसि क्रमशस्तदन्त्ये रेकप्रदा रिपुखलग्रहनीचदृष्टाः ॥ २५ ॥ एकः, द्विकः, त्रिकः खलद्युचराः=पापग्रहाः क्रमेण कल्पे=लग्ने, स्वे=द्वितीये, विक्रमे= तृतीये गताः स्युरर्थात् लग्ने एकः पापग्रहः, द्वितीये द्वौ पापौ, तृतीये त्रयः पापाः भवेयुः । परतस्तथैव = तेनैव प्रकारेण परतोऽपि = चतुर्थे एकः, पञ्चमे द्वौ, षष्ठे त्रयः। सप्तमे एक :, अष्टमे द्वौ, नवमे त्रयः, एवमेव दशमे एकः, एकादशे द्वौ, द्वादशे त्रयः पापाः स्युस्तदा नराणां=जनिमतां क्रमेणादौ वयसि=वयसः प्रथमे त्र्यंशे, मध्यवयसि=द्वितीयत्र्यंशे, तदन्त्ये= वयसोऽन्त्ये रेकप्रदाः = रेकायोगफलप्रदा भवन्ति । इदमूक्तं भवति । यस्य जन्मकाले १,४, ७,१० भावेषु कस्मिन्नपि यद्येकः पापग्रहो भवेत्तदा तस्य प्रथमे वयसि रेकाफलदो भवेत् । ( २,५,८,११ ) पणफरे एकत्र द्वौ पापौ भवेतां तस्य मध्ये वयसि तथा च आपोक्लिमे ( ३।६।९।१२ ) एकत्र त्रयः पापाः भवेयुस्तदा तस्य चरमे वयसि रेकाफलदा भवेयुः । यदि ते रिपुखलग्रहनीचदृष्टाः = शत्रुना, पापग्रहेण, नीचस्थेन वा दृष्टाः स्युस्तदैवार्थत एव मित्रशुभग्रहोच्चदृष्टा न रेकप्रदा इति । रेकाफलमग्रेतो वक्ष्यति २६।२७ श्लोकाभ्यामिति ॥२५॥ १।४।७।१० भावोंमें १ पापग्रह यदि शत्रुग्रह, पापग्रह, या नीचगत ग्रहसे दृष्ट होवे तो प्रथम वयसमें 'रेका' फल देता है २।५।८।११ भावोंमें २ पापग्रह हों तो मध्यवयसमें, एवं ३।६।९।१२ भावोंमें ३ पापग्रह हों तो अन्त्य अवस्थामें 'रेका' योगका फल देते हैं ॥ २५ ॥ रेकायोगफलम् । निर्विद्यो विधनो दरिद्रसहितो रेकोद्भवः कामुकः क्रोधी दुःखितमानसो रुचिकरः सौभाग्यहीनः पटुः ॥ भिक्षाशी मलिनो विषादनिरतो मात्सर्यरोषान्वितो 13 देवब्राह्मणदूषकः प्रतिदिनं दारात्मजैनिन्दितः ॥ २६ ॥