जातक पारिजात (वैद्यनाथ दीक्षित - शास्त्रीय होरा फलित, राजयोग एवं आयुर्दाय सटीक)
Jataka Parijata of Vaidyanatha Dikshita with Commentary
वैद्यनाथ दीक्षित (टीकाकार: पं. कपिलेश्वर शास्त्री एवं पं. मातृप्रसाद शास्त्री) द्वारा
४८० सटीकजातकपारिजाते- नरपतन शिथिल हो । यदि वहां पापग्रहसे युक्त शुक्र हो तो निद्रा स्त्री, गिरगिट तथा गौलि (विखखपरा) का पतन हो। मंगल हो तो स्वप्नमें कछुआ देख परे। बुधसे युक्त हो तो कुत्तेसे काटना कहे ॥ ८१ ॥ अथ गतिविचारः । मन्दाहिध्वजसंयुते तु निधनस्थानाधिपेनान्विते रिष्फे दुर्गतिमेति षष्ठपतिना दृष्टेऽथवा मानवः ॥ जातो याति परं पदं सुरगुरौ लग्ने भृगौ कामगे कन्यास्थे रजनीकरे यदि धनुर्लग्ने च मेषांशके ॥ ८२ ॥ इदानीं जातस्यावसाने गतिविचारमाह-मन्दाहीति । निधनस्थानाधिपेन = अष्टमभा- वेशेन, अन्विते = सहिते, रिष्फे = द्वादशे भावे, मन्दाहिध्वजसंयुते = शनिराहुकेत्वन्यतमेन च सहिते अथवा तस्मिन् षष्ठेशेन दृष्टे जातो मानवोऽवसानकाले दुर्गतिं = यातनां (नरकम्) एति = प्राप्नोति । अथ परं पदमाह-जात इति । सुरगुरौ = बृहस्पतौ लग्ने जन्मकालीनलग्ने, भृगौ = शुक्रे, कामगे = सप्तमगते, रजनीकरे = चन्द्रे, कन्यास्थे = कन्याराशिसुपगते सति जातो नरः परं पदं = निर्वाणपदं ( मोक्षस्थानम् ) यद् गत्वा पुनर्न निवर्त्तते तत्— 'यद् गत्वा न निवर्त्तन्ते तद्धाम परमं ममे'ति श्रीभगवद्वचनात् । याति गच्छति । अस्मिन्योगे लग्नं निर्दिशति-'यदि धनुर्लग्ने च मेषांशके' अर्थात्धनुराशौ मेषनवांशे च ( ८।३°।२०' । ०" ) लग्नं स्यादिति । अस्यामवस्थायां गुरुः स्वराशौ लग्नगतः, शुक्रः स्वराशौ सप्तमशः, चन्द्रः षष्ठे कन्यागतएव भवेदिति स्पष्टमेव ॥ ८२ ॥
| १ ल. <br> दुर्गंतियोगः | मं. रा. श. | |
|---|---|---|
| ६ बु. | ८ |
(चक्र २)
| ९ बृ. <br> ल ३° १२०' <br> परं पदयोगः | ||
|---|---|---|
| ६ चं. | ७ शु. |
द्वादश भाव शनि, राहु या केतुसे युक्त हो फिर अष्टमेशसे युक्त हो, अथवा षष्ठेशसे दृष्ट हो तो मरनेके बाद दुर्गति हो । वा वृहस्पति लग्नमें हो, शुक्र सप्तममें हो, कन्यापर चन्द्रमा हो यदि धनु लग्नमें मेषका नवांश हो तो जातक परम पद ( मोक्ष ) प्राप्त करे ॥ ८२ ॥ दुःस्थे दुष्टगृहाधिपे बलयुते तद्भावपुष्टिं वदे- द्यायुःस्थानपतौ तु यत्र विबले तद्भावनाशं तथा । लग्नेशः शुभखेटवीक्षितयुतो यद्भावयातो बली तद्भावस्य शुभं करोति विपुलं नीचारिगस्त्वन्यथा ॥ ८३ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते पञ्चदशोऽध्यायः ॥ १५ ॥ इदानीं ग्रहस्थितिवशाद्भावानां शुभाशुभत्वमाह-दुःस्थ इति । बलयुते = पूर्णबले दुष्टगृहाधिपे = षष्ठाष्टमद्वादशभावाधीशे, दुःस्थे = षष्ठाष्टमद्वादशान्यतमभावगते इति तद्भा- वपुष्टिं वदेत् । विबले = निर्बले, आयुःस्थानपतौ = अष्टमेशग्रहे तु यत्र भावे सति तद्भावस्य नाशं ब्रूयात् । निर्बलोऽष्टमेशो यद्भावगतः स्यात्, तद्भावनाश इति भावः । बली लग्नेशः शुभखेटेन वीक्षितो वा युतो यस्मिन् भावे गतः स्यात् तद्भावस्य विपुलम्=अतीव, शुभं =
श्रीजातकाध्यायः ।।१६।। ४८१ पुष्टिं करोति । स एव लग्नेशो नीचारिगो भूत्वा यद्भावगः स्यात्तस्यान्यथा=अशुभमेवकरोतीति । इति द्वादशभावफलविचारः । पारिजाते सुधा टीका कपिलेश्वररजिता । अध्याये पञ्चदशके पूत्ति भावफले गता ॥ १५ ॥ दुष्ट स्थानका स्वामी दुष्ट स्थानमें हो तो उस भावकी पुष्टि कहे । आयु स्थानका स्वा- मी जहां विबल होकर रहता है उस भावका नाश होता है। बली लग्नेश शुभग्रहसे दृष्ट युक्त होकर जिस भावमें प्राप्त हो उस भावका विशेष शुभ करता है। नीच, या शत्रु गृहका हो तो अन्यथा (अशुभ) फल देता है ॥ ८३ ॥ इति जातकपारिजाते पञ्चदशाध्याये 'विमला' हिन्दी टीका समाप्ता ॥ १५ ॥ अथ श्रीजातकाध्यायः ॥ १६ ॥ श्रीबलारोग्यसन्तानविद्याकीर्त्तिविवर्द्धनम् । तिथिभग्रहसंयुक्तं जातकं ब्रूमहे वयम् ॥ १ ॥ अर्थार्जने सहायः पुरुषाणामापदर्णवे पोतः । यात्राकाले मन्त्री जातक मपहाय नास्त्यपरः ॥ २ ॥ श्रीमज्जातकपत्रिका परहितं व्योमाधिवासस्फुटैः पञ्चाङ्गद्युचराष्टवर्गसहितस्थानादिषड्वीर्यजैः । आयुर्गोचरयोगभावजफलैः सार्द्धं दशाचक्रजै- र्दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकीर्त्तिदा लिख्यते ॥ ३ ॥ अथाधुना श्रीजातकाध्यायो व्याख्यायते । तत्रादौ त्रिभिः श्लोकैर्जातकविवरण- मुच्यते । श्रीबलारोग्येत्यादि । श्रियः = सम्पदः, बलानि = शौर्याणि, आरोग्यं = नैरूज्यम्, सन्तानाः = अपत्यानि, विद्याः, कीर्त्तयः = यशांसि, एतेषां विवर्द्धनं यतो ज्ञायते तं तिथिभ- ग्रहसंयुक्तं तिथिनक्षत्रग्रहवशाज्जायमानं जातकं वयं ग्रन्थकर्त्तारो ब्रूमहे प्रकटयाम इति । जन्मकालिकग्रहतिथिनक्षत्रवशादेव सकलं शुभाशुभफलं सङ्घटत इति भावः । अयं हिजातकः पुरुषाणामर्थार्जने सहायो भवत्यर्थात् कश्चिज्जातकोक्तसमयेऽर्थार्जने प्रवृत्तो भवति स सुखे- नार्थमुपार्जयति । अथवा जातकशास्त्रबलेन जातकविदां (ज्योतिर्विदाम् ) पुरुषाणामर्थाः कुशलेन सिद्ध्यन्ति । आपदर्णवे पोतः = आपदो विपत्तेरणर्वः समुद्रस्तस्मिन् पोतस्तरणः । जातकशास्त्रमेव पुरुषाणामापदवस्थायां परित्राणोपायं दर्शयतीति भावः । यात्राकाले मन्त्री । यथा मन्त्री नृपमधुनाऽनेन विधिना वर्तितव्यमधुनेदमाचरणीयमित्यादि विजयमार्गमुपदिशति तथैवैतज्जातकशास्त्रमात्मविहितमार्गे गच्छतां पुरुषाणां कौशल्यं प्रकटयतीत्यर्थः । अतएव पुरुषाणां धनोपार्जने सहायकः, आपदर्णवे पोतः, यात्राकाले मन्त्री जातक मपहाय = जातक- शास्त्रं विना अपरो नास्ति, किन्तु जातकबलादेव जनिमतां सर्वं सम्पत्स्यत इति भावः । अत्र तृतीयश्लोकेन जातकपत्रिका-(जन्मपत्रिका) लेखनोपकरणानि प्रदर्श्यन्ते । तात्का- लिकाः स्पष्टग्रहाः, पञ्चाङ्गस्थिता ग्रहाः, ग्रहाणामष्टकवर्गाः, ग्रहाणां स्थानादिषड्बलानि, आयूंषि, योगाः, भावफलानि, दशाचक्राणि चैतैः सहिता दीर्घायुःसुतभर्तृसौख्यविपुलश्रीकी- र्त्तिदा श्रीमज्जातकपत्रिका लिख्यते मनीषिण्येति ॥ १-३ ॥ अब हम श्री, बल, आरोग्य, सन्तान, विद्या और कीर्तिको बढ़ानेवाला तिथि-नक्षत्र-ग्रहसे युक्त जातकको कहते हैं ॥ १ ॥ धनोपार्जनमें सहायक, पुरुषोंके आपत्ति रूपी समुद्रमें जहाज, यात्रा समयमें मंत्री जातकको छोड़ दूसरा नहीं है ॥ २ ॥ ४१ जा०
४८२ सटीकजातकपारिजाते- दूसरोंके उपकारके लिये दीर्घायु पुत्र-स्वामी-स्त्री-सुख विपुल श्री तथा यशको बताने वाली स्त्रीजातक पत्रिकाको लिखा है। जिसके अन्दर सभी स्पष्टग्रहके अष्टकवर्ग, षड्बल, आयु, गोचर, भावफल और अनेक दशाचक्र दर्शाये गये हैं ॥ ३ ॥ स्त्रीणां जन्मफलं नृयोगमुदितं यत्तत्पतौ योजयेत्- तासां देहशुभाशुभं हिमकराल्लग्नाच्च वीर्याधिकात् । भर्तॄणामगुणं गुणं मदगृहाच्छिद्राच्च तेषां मृतिम् सौम्यासौम्यबलाबलेन सकलं सञ्चिन्त्य सर्वं वदेत् ॥ ४ ॥ इदानीं स्त्रीणां जातकफलान्युच्यन्ते । स्त्रीणां जन्मफलं = जन्मकालवशाज्जातं शुभा- शुभं फलं यन्नृयोगं पुरुषसम्भवमुदितं तत्सर्वं तासां पतौ = स्वामिनि योजयेत् । एतदुक्तं भवति । स्त्रीषु यद्यत्फलमक्षमं तत्तत्तासां पतिविषये बिजानीयात् । यथा राजयोगादिकं पुरुषसम्भाव्यम् । अथ तासां स्त्रीणां देहशुभाशुभं = शरीरसौख्यदुःखं हिमकराच्चन्द्रवशा- द्वाग्नाज्जन्मलग्नाच्च वीर्याधिकाद्यांश्चन्द्रलग्नयोर्मध्ये यो बलवान् भवेत्तद्वशाच्छारीरिकं सुखदुःखं विचिन्त्यम् । चन्द्रे लग्ने वा शुभे शरीरसौख्यम् । लग्ने चन्द्रे वा विबले (क्रूरे) शरीरकष्टमिति ब्रूयात् । तासां स्त्रीणां भर्तॄणां = पतीनामगुणं = दोषं गुणं च मदगृहाज्ज- न्मलग्नात्सप्तमं यद्गृहं तस्मात्सप्तमभावाच्चिन्तयेत् । तेषां पतीनां, छिद्रादष्टमभावात् (स्त्रीणां जन्माष्टमगृहात् ) मृतिः विवेचनीया । अन्यत्सकलं सौम्यासौन्यबलेन शुभपाप- बलेन सञ्चिन्त्य = विविच्य सर्वं शुभाशुभं वदेत् । यस्मिन् शुभबलाधिक्यं तच्छुभम्, यस्मिन्नशुभबलाधिक्यं तदशुभमिति ब्रूयादिति । तथाऽत्र वराहमिहिरः- यद्यत्फलं नरभवेऽक्षममङ्गनानां तत्तद्वदेत्पतिषु वा सकलं विधेयम् । तासां तु भर्तृमरणं निधने वपुस्तु लग्नेन्दुगं सुभगतास्तमये पतिश्च ॥ इति ॥४॥ पुरुषोंके योगफल जो कहे गये हैं वे स्त्रियोंके योगमें उसके पतिके वास्ते कहने चाहियें। स्त्रियोंके देहका शुभाशुभ फल लग्न या चन्द्रमामें अधिक बलीसे विचारे । सप्तमसे पतिके अगुण और गुणको विचारे । अष्टमसे पतिकी मृत्यु विचारे । यह शुभ और पापग्रहोंका बलाबळ विचार कर सभी फल कहने चाहिये ॥ ४ ॥ स्त्रीणां जन्मनि लग्नशीतकरयोर्मध्ये बली यस्ततः सम्पद्रूपबलानि तन्नवमतः पुत्रायुवृद्धिं वदेत् । सौमङ्गल्यमनिष्टमष्टमगृहाद् भर्तुःश्रियं सप्तमात् केचिद्भर्तुःशुभाशुभं शुभगृहादिच्छन्ति होराविदः ॥ ५ ॥ वैधव्यं निधनेन लग्नभवनात्तेजो यशः सम्पदः पुत्रं पञ्चमभावतः पतिसुखं कामेन केचिद्विदुः । प्रव्रज्यामपि योषितामतिसुखं धर्मोपयाताद्ग्रहैः शेषं भावजयौगजन्ममखिलं नारीनराणां समम् ॥ ६ ॥ स्त्रीणां, जन्मनि = जन्मकाले लग्नशीतकरयोः = जन्मलग्नचन्द्रयोर्मध्ये यो बली भवेत्त- तस्तस्माद्बलयुक्ताच्चन्द्राल्लग्नाद्वा स्त्रीणां सम्पदः = श्रियः, रूपमाकृत्यादि, बलानि = शौर्याणि ज्ञेयानि । तन्नवमतः = स्त्रीजन्मलग्नान्नवमभावतः पुत्रायुवृद्धिं = पुत्रस्यात्मजस्यायुष्यायस्य द्रव्या- देर्लाभस्य च वृद्धिं वदेत् । सौमङ्गल्यं = सौभाग्यं, अनिष्टं=मरणञ्चाष्टमगृहाच्चिन्त्यम् । सप्तम- भावात्स्त्रीणां भर्तुःश्रियं = पतिसौख्यं विचिन्तयेत् । अत्र केचित् होराविदो जातकशास्त्रवेत्तारो भर्तुःशुभाशुभं स्त्रीणां शुभगृहान्नवमभावादिच्छन्ति । परं तन्नाचार्याभिमतं केचिदिति पदो- पादानादिति । अतः सप्तमभावादेव पतिशुभाशुभं विचार्यमिति ॥ ५ ॥
स्त्रीजातकाध्यायः ।।१६। ४८३ निधनेन स्त्रीणामष्टमभावेन तासां वैधव्यं = पतिनिधनं विचार्यम् । लग्नभवनाज्जन्मल- ग्नात्तेजः = कान्तिः, यशः, सम्पदः= श्रियो विचार्याः । पञ्चमभावतः पुत्रमपत्यं चिन्तयेत् । कामेन = सप्तमभावेन पतिसुखं चिन्त्यम् । इति केचिदन्ये विज्ञा ऊचुः । धर्मोपयातग्रहैः = नवमभावस्थितग्रहैस्तत्र बलवद्ग्रहवशात् , योषितां = स्त्रीणां, प्रव्रज्यां = सन्यासं अपि चातिसुखं विचिन्त्यम् । शेषमवशिष्टं भावजं फलं योगजन्यं चाखिलं फलं, नारीनराणां = स्त्रीपुरुषाणां, समम् = समानमेव भवति । न च तेषु कश्चिद्भेद इति ॥ ६ ॥ स्त्रियोंके जन्मसमय लग्न और चन्द्रमामें जो बली हो उससे धन, रूप और बल और उसके नवमे भावसे पुत्र और आयकी वृद्धिको कहे । अष्टम गृहसे शुभ और अनिष्ट कहे । सप्तम गृहसे स्वामीका शुभाशुभ कहे । किसीका मत है कि नवम भवनसे स्वामीका शुभा- शुभ फल कहे ॥ ५ ॥ अष्टमसे वैधव्य योग, लग्नसे तेज-यश-सम्पत्ति विचारे । पञ्चम भावसे पुत्र विचारे । सप्तमसे पतिका सुख विचारना किसीका मत है । नवममें प्राप्तग्रह-( संन्यास ) से प्रव्रज्या और स्त्रियोंका विशेष सुख विचारे । शेष भावोंके फल स्त्री और पुरुषके समान हैं ॥ ६ ॥ युग्मे लग्ननिशाकरौ यदि वरस्त्री रूपशीलान्विता सौम्यालोकितसंयुतौ गुणवती साध्वी च सम्पद्युता । ओजर्क्षे पुरुषाकृतिश्च चपला पुंश्चेष्टिता पापिनी पापव्योमचरेण वीक्षितयुतौ जाता दुराचारिणी ॥ ७ ॥ लग्नेन्दू विषमर्क्षगौ शुभयुतौ सौम्यग्रहालोकितौ नारी मिश्रगुणाकृतिः स्थितिगतिप्रज्ञावती जायते । युग्मागारगतौ तु पापसहितौ पापेक्षितौ वा तथा तद्राशीशयतेक्षकग्रहबलादाहुः समस्तं विदः ॥ ८ ॥ इदानीं लग्नेन्दुवशात्स्त्रीफलमाह । यदि लग्ननिशाकरौ = स्त्रिया जन्मलग्नं चन्द्रश्च, युग्मे=समराशौ ( २।४।६।८।१०।१२ राशीनामन्यतमे ) स्यातां तदा जाता स्त्री, वरस्त्रीरूप- शीलान्विता भवति । तौ युग्मगतौ लग्नेन्दू सौम्यैः शुभग्रहैरालोकितौ दृष्टौ वा संयुतौ भवेतां तदा स्त्री गुणवती साध्वी सम्पद्युता च भवति । ओजर्क्षे इति । तौ लग्नेन्दू यदि ओजर्क्षे = विषम-( १।३।५।७।९।११ ) राशौ भवेतां तदा जाता स्त्री, पुरुषाकृतिः = पुरुषस्वभावा, चपला=चाञ्चल्ययुक्ता, पुंश्चेष्टिता=पुंश्चली, पापिनी च भवति । तौ लग्नेन्दू विषमर्क्षगौ, पाप- व्योमचरेण = पापग्रहेण, विक्षितौ = दृष्टौ, वा युतौ = सहितौ भवेतां तदा जाता स्त्री दुरा- चारिणी दुष्कर्मकर्त्री भवति । तथा च—फलदीपिकायाम्— 'उदयहिमकरौ द्वौ युग्मगौ सौम्यदृष्टौ सुतनयपतिभूषा—सम्पदुत्कृष्टशीला । अशुभसहितदृष्टौ चौजगौ पुंस्वभावा कुटिलमतिरवश्या भर्तृ'रघ्ना दरिद्रा' ॥ इति । तौ लग्नेन्दू, विषमर्क्षगौ शुभग्रहेण युतौ, सौम्यग्रहालोकितौ वा भवेतां तदा जाता नारी= स्त्री, मिश्रगुणाकृतिः=स्त्री-पुरुषोभयाकृतिगुणयुक्ता तथा स्थितिगतिप्रज्ञावती=दिग्देशकालादि- बुद्धियुक्ता जायते । तावेव लग्नेन्दू, युग्मागारगतौ=समराशिगतौ, पापसहितौ वा पापदृष्टौ भवेतां तदा तथाऽर्थात्पूर्वोक्त-(मिश्रगुणाकृतिरित्यादि) फलयुक्ता भवति । अथ तद्राशीशयुते- क्षकग्रहबलात्=तस्याः कन्याया यो राशीशश्चन्द्राधिष्ठितराशिपतिस्तत्र यस्य यस्य ग्रहस्य योगो दृष्टिश्च भवति, तेषु बलीयसो ग्रहस्यानुरूपं समस्तं फलंविदो होराशास्त्रज्ञा वदन्ति ॥७-८॥ यदि सम राशिमें लग्न और चन्द्रमा दोनों हों तो श्रेष्ठ स्त्रीके रूप और शीलसे स्त्री युक्त हो । यदि उसे शुभग्रह देखते हों तो वह स्त्री गुणवती साध्वी और संपत्ति युक्त हो । लग्न और चन्द्रमा यदि विषम राशिमें हों तो स्त्री पुरुषकी आकृतिवाली, चंचल, पर-पुरुष पर चेष्टा
४८४ सटीकजातकपारिजाते- करनेवाली, पापिनी होती है। पापग्रहसे दृष्ट-युत हों तो वह स्त्री व्यभिचारिणी होती है ॥७॥ लग्न और चन्द्रमा विषम राशिमें हों शुभग्रहसे युक्त हों और उन्हें शुभग्रह देखते हों तो स्त्री मिश्रित गुण, आकृति, स्थिति, चाल और बुद्धिवाली होती है। यदि दोनों युग्म (सम) राशिमें हों पापग्रहसे युक्त हों वा पापग्रह उन्हें देखता हो तो भी मिश्र गुणादि कहे। उस समय जन्म राशिपति पर जिस ग्रहका योग या दृष्टि हो उस ग्रहके बलानुसार विद्वान् समस्त फल कहते हैं ॥ ८ ॥ ओजे विलग्ने पुरुषैर्बलिष्ठैर्बलान्वितैश्चन्द्रबुधासुरेज्यैः । सामान्यशक्तौ सति सूर्य्यपुत्रे जाता हि तस्या बहवो धवाः स्युः ॥ ९ ॥ इदानीं कुलटायोगमाह—ओज इति । ओजे विलग्ने = विषमराशिके जन्मलग्ने, पुरु- षैः (रविभौमगुरुभिः) ग्रहैः यत्र तत्र बलिष्ठैः = स्थानादिवीर्ययुक्तैः, चन्द्रबुधासुरेज्यैः = चन्द्रबुधशुक्रैः, बलान्वितैः = सबलैः, सूर्य्यपुत्रे = शनैश्चरे, सामान्यशक्तौ = साधारणबलयुक्ते सति जाता = या स्त्री जायते, तस्याः स्त्रियाः, हि = निश्चयेन बहवो धवाः = स्वामिनो भव- न्ति । इत्थं भूते योगे जाता कन्या अनेकान् पतीन् वृणुते । कुलटा भवतीत्यर्थः ॥ ९ ॥ विषम राशिमें लग्न हो पुरुष ग्रह बली हों चन्द्रमा, बुध तथा शुक्र बलवान् हों, शनि सामान्य शक्ति युक्त हो तो उत्पन्न होनेवाली स्त्रीके बहुत पति होवें ॥ ९ ॥ युग्मे विलग्ने कुजसौम्यजीवशुक्रैर्बलिष्ठैः खलु जातकन्या । विख्यातनाम्नी सकलार्थतत्त्वबुद्धिप्रसिद्धा भवतीह साध्वी ॥ १० ॥ इदानीं साध्वीस्त्रीयोगमाह—युग्म इति । युग्मे विलग्ने = समराशिके लग्ने, कुजसौम्य- जीवशुक्रैः = मङ्गल बुध गुरु शुक्रैः, बलिष्ठैर्यंत्र तत्रस्थैः, जातकन्या = तदानीं जनिता कन्या, खलु = निश्चयेन, विख्यातनाम्नी = लोकेषु गीयमाना, सकलार्थानां तु तत्त्वबुद्धौ = सारावगमे प्रसिद्धा, साध्वी = सती (सदाचारवती) च भवति ॥ १० ॥ सम राशि लग्नमें, मंगल, बुध, गुरु और शुक्र बलवान् हों तो उत्पन्न कन्या निश्चय विख्यात नामवाली, सकल अर्थ, तत्त्व बुद्धिमें प्रसिद्धा तथा साध्वी होती है ॥ १० ॥ सौरे मध्यबले बलेन सहितैः शीतांशुशुकेन्दुजैः शेषैर्वीर्य्यसमन्वितैः पुरुषिणी यद्योजराश्युद्गमे । जीवारासृजिदैन्दवेषु बलिषु प्राग्लग्नराशौ समे विख्याताखिलशास्त्रयुक्तिकुशला स्त्री ब्रह्मवादिन्यपि ॥ ३१ ॥ इदानीं पुरुषिणीयोगं ब्रह्मवादिनीयोगञ्चाह—सौर इति । सौरे = शनौ, मध्यबले = सामा- न्यबलसहिते, शीतांशुशुकेन्दुजैः = चन्द्रशुकबुधैर्यत्र तत्र, बलेन रहितैः = निर्बलैः, शेषैः = सूर्य- भौमगुरुभिर्यत्र तत्र गतैर्वीर्यसमन्वितैः = सबलैः, यद्योजराश्युद्गमे = यदि विषमराशिरुद्गमे लग्ने भवति ( १।३।५।७।९।११ राशीनामन्यतमे लग्न इत्यर्थः) तदा जाता स्त्री पुरुषिणी = विविधपुरुषा भवतीति । ब्रह्मवादिनीमाह—जीवारासृजिदैन्दवेषु = गुरुभौमशुक्रबुधेषु, यत्र तत्र बलिषु, प्राग्लग्नराशौ समे = जन्मलग्ने सम- (२।४।६।८।१०।१२ एतदन्यतम) राशौ सति जाता स्त्री विख्याताखिलशास्त्रयुक्तिकुशला = प्रसिद्धानि चाखिलानि शास्त्राणि तेषां युक्तिषु (विवेकेषु) कुशला (प्रौढमतिः), ब्रह्मवादिन्यपि = मोक्षशास्त्रेऽपि दक्षा भवतीति ॥ ११ ॥ शनि मध्यबली हो, चन्द्र-शुक्र और बुध बलसे हीन हों, शेष ग्रह बलयुक्त हों, यदि विषम राशिके लग्नमें जन्म हो तो पुरुषिणी (परपुरुषगामिनी) हो । समराशिमें प्रथम लग्न हो और बृहस्पति, शुक्र, बुध बलवान् हों तो वह स्त्री विख्यातनाम्नी, सम्पूर्ण शास्त्र युक्ति में कुशल और ब्रह्मवादिनी होवे ॥ ११ ॥
स्त्रीजातकाध्यायः ।।१६।। ४८५ अथ त्रिंशांशफलम् । लग्ने भौमगृहं गते शशिनि वा वीर्याधिके भूसुते त्रिंशांशप्रभवाऽबला यदि दुराचारप्रयुक्ता भवेत् । प्रेष्या भानुसुतांशके गुणवती साध्वी च जीवांशके सौम्यांशे मलिना सितांशजवधूर्जारव्रताचारिणी ॥ १२ ॥ लग्ने भार्गवराशिगे कलहकृद् दुष्टा कुजस्यांशके साध्वी पुत्रवती पुरन्दरगुरोरंशे पुनर्भूः शनेः । सौम्यस्यांशसमुद्भवाऽखिलकलासङ्गीतवाद्यप्रिया शुक्रांशे बुधवल्लभा च सुभगा लोकप्रिया जायते ॥ १३ ॥ त्रिंशांशेऽवनिजेऽस्य बोधनगृहे लग्ने तु पुत्रान्विता मन्दांशे विधवाऽथवा मृतसुता क्लीवाकृतिस्थाऽसती । जैवे भर्तृपरा बुधस्य तरुणी विख्यातातेजस्विनी शौक्रे चारुतराम्बराभरणगोवित्तप्रसिद्धा भवेत्
४८६ सटीकजातकपारिजाते- हो तो सम्पूर्ण कला संगीत और वाद्यकी प्रिया हो । शुक्रका अंश हो तो पण्डितकी स्त्री, सुन्दरी और लोकमें आदरणीया हो ॥ १३ ॥ बुध का गृह ( ३।६ ) लग्नमें हो तो मङ्गलके त्रिंशांशमें पुत्रसे युक्ता हो । शनिका अंश हो तो विधवा वा मृतवत्सा हो । नपुंसकके समान और पापिनी हो । गुरुके अंशमें हो तो स्वामीमें तत्पर रहे । बुधके त्रिंशांशकी स्त्री विख्यात तेजवाली हो । शुक्रके त्रिंशांशकी सुन्दर वस्त्र-भूषण-शोधनसे प्रसिद्धा हो ॥ १४ ॥ लग्न चन्द्रमाके गृह ( कर्क ) में हो तो मङ्गलके त्रिंशांशमें स्त्री बली हो । चन्द्रमा पाप- ग्रहसे देखा जाता हो उस समय उत्पन्न कन्या जार पुरुषसे विनोद करनेवाली हो । शनिके त्रिंशांशमें विध्वस्ता, बृहस्पतिके त्रिंशांशमें अल्प आयुवाली तथा अल्प पुत्रवाली होती है । बुधके त्रिंशांशमें शिल्पकला जाननेवाली, शुक्रके त्रिंशांशमें विशेष कामिनी होती है ॥१५॥ सूर्यके गृह ( सिंह ) में लग्न वा चन्द्रमा हो उसमें मङ्गलका त्रिंशांश हो तो स्त्री पुरुषके समान प्रकृतिवाली और कुलटा हो । शनिके त्रिंशांशमें हो तो दुःखिनी हो । गुरुके त्रिंशांशमें हो तो राजाकी स्त्री, गुणवती हो । बुधके त्रिंशांशमें हो तो पुरुषकी इच्छा करनेवाली हो । शुक्र त्रिंशांशका हो तो दुष्टा, जारके प्रेममें तत्पर तथा रोगिणी हो ॥ १६ ॥ बृहस्पतिका गृह ( धनु या मीन ) लग्न हो मङ्गलके त्रिंशांशमें उत्पन्न हो तो भाग्य- वती, विख्यात तथा परिवार युक्ता हो । शनिके अंशमें दरिद्रा हो । बृहस्पतिके अंशमें हो तो धन-वस्त्र-भूषणवाली हो । बुधके अंशमें हो तो सुपूजिता हो । शुक्रके अंशमें साध्वी पुत्रवती और सुवस्त्र भूषणसे युक्ता हो ॥ १७ ॥ लग्न शनिका गृह ( मकर या कुम्भ ) हो, उसमें बलवान् मंगलका त्रिंशांश हो तो शोक युक्ता हो। शनिका अंश हो तो दुर्भगा हो। बृहस्पतिका अंश हो तो निज कुलाचारमें अनुरक्ता हो। बुधके अंशमें उत्पन्न हो तो सर्वज्ञा और कुलटा वह स्त्री हो। शुक्रके अंशमें बन्ध्या और पतिव्रता हो। स्पष्ट लग्न और चन्द्रमाके योगसे स्त्री समस्त त्रिंशांश जनित फल कहा है॥१८॥ स्त्रीजातके लग्नत्रिंशांशफलचक्रम् ।
| लग्नराशयः च-न्द्रराशयो वा | भौमत्रिंशां-शफलम् | शनित्रिंशांश फलम् | गुरुत्रिं-फलम् | बुधत्रिं-फलम् | शुक्रत्रिं-फलम् |
|---|---|---|---|---|---|
| भौमगृहे १।८ मे. वृश्चिक. | दुराचारिणी | प्रेष्या | गुणवती, साध्वी | मलिना | जारिणी |
| शुक्रगृहे २।७ वृ. तु. | कलहकृत, दुष्टा | पुनर्भूः | साध्वी, पुत्रिणी | कलावती | सुभगा, लोक-प्रिया, पण्डिता |
| बुधगृहे ३।६ मि. कन्या. | पुत्रान्विता | विधवा अपु-त्रा वा | भर्तृपरा | तेजस्विनी | मनोरमा |
| चन्द्रगृहे ४ कर्क | बलवती जा-रिणी | विध्वस्ता | अल्पायुरल्पा-त्मजा | शिल्पकलावती | कामुकी |
| सूर्यक्षेत्रे ५ सिंहे | पुम्प्रकृतिः, कुलटा | दुःखिता, | नृपवल्लभा | पुंचेष्टिता | दुष्टा, रोगिणी |
| गुरुगृहे ९।१२ ध. मी. | विख्याता, सपुत्रा. | दरिद्रा | धनवस्त्रभूषण-वती | सम्पूजिता | साध्वी, पुत्रवती |
| शनिगृहे १०।११ म. कु. | शोकिनी | दुर्भगा | कुलीना | सर्वज्ञा, कुलटा | बन्ध्या, सती |
स्त्रीजातकाध्यायः ॥१६॥ ४८७ आग्नेयैर्विधवाऽस्तराशिसहितैर्मिश्रैः पुनर्भू र्भवेत् क्रूरे हीनबलेऽस्तगे स्वपतिना सौम्येक्षिते प्रोज्झिता । अन्योन्यांशकयोः सितावनिजयोरन्यप्रसक्ताङ्गना द्यूने वा यदि शीतरश्मिसहिते भर्तुस्तदाऽनुज्ञया ॥ १६ ॥ इदानीं विधवा-पुनर्भू-भर्तृत्यक्तयोगानाह—आग्नेयैरिति । आग्नेयैः = पापग्रहैः, अस्तराशिसहितैः = सप्तमस्थानगतैः, विधवा भवति । मिश्रैः = शुभैः पापैश्च सप्तमस्यैः, पुनर्भूर्भवेत् (पुनर्भू लक्षणमग्रिमश्लोके द्रष्टव्यम् ) पुनरन्येन परिणीता भवेत् । हीनबले, क्रूरे = पापग्रहे, अस्तगे=सप्तमभावगे, तथाभूते केनचित् सौम्येन = शुभग्रहेण, ईक्षिते = दृष्टे स्त्री, स्वपतिना प्रोज्झिता = स्वभर्त्रा परित्यक्ता स्यात् । अन्योन्येति । सितावनिजयोः= शुक्राङ्गारकयोः, यत्र तत्रान्योन्यांशगयोः शुक्रनवांशे भौमः, भौमनवांशे शुक्नो भवेत्तदा सा अङ्गना = स्त्री, अन्यप्रसक्ता = परपुरुषरक्ता भवति । वा यदि तौ सितावनिजौ, शीतरश्मिना= चन्द्रेण, सहितौ, द्यूने = सप्तमे भावे भवेतां तदा सा स्त्री, भर्तुरनुज्ञया=पतिनिर्देशेन पर- पुरुषमुपयाति न तु स्वेच्छयेति । तथा जातकाभरणे— अन्योन्यांशावस्थितौ भौमशुक्रौ स्यातां कान्तासङ्गताऽन्येन नूनम् । चन्द्रोपेतौ शुक्रवक्रौ स्मरस्थावाङ्गेन स्यात् स्वामिनधामनन्ति ॥ १९ ॥ सातवां भाव यदि पापग्रहोंसे युक्त हो तो स्त्री विधवा हो । यदि पापग्रह, शुभग्रह दोनों हों तो दो बार ब्याही जाय या अनेक पतिवाली हो । बलरहित क्रूरग्रह सप्तम गृहमें हो उसे शुभग्रह देखता हो तो अपने पतिसे त्यागी जाय ( उसका स्वामी उसको छोड़ दे ) । शुक्र और मंगल परस्पर एक दूसरेके अंशमें हों तो अन्य पुरुषमें वह स्त्री प्रसक्त रहे । यदि दोनों सप्तम भवनमें चन्द्रमासे युक्त हों तो पतिकी आज्ञासे पर पुरुष संगिनी हो ॥ १९ ॥ स्वैरिणी या पतिं त्यक्त्वा सवर्णं कामतः श्रयेत् । अक्षतं च प्रजाद्वारं पुनर्भूः संस्कृता पुनः ॥ २० ॥ इदानीं स्वैरिणी-पुनर्भू लक्षणमुच्यते । या स्त्री स्वकीयं पतिं त्यक्त्वा कामतः = स्वे- च्छया, सवर्णं = निजवर्णतुल्यमन्यं पुरुषं श्रयेत् सा स्वैरिणी भवति । अक्षतमिति । विवाहि- तायाः यस्याः स्त्रियाः प्रजाद्वारं = यतः प्रजाः ( अपत्यानि ) निःसरन्ति, 'योनिरिति यावत्' अक्षतं = पुरुषसङ्गेन-(मैथुनेन ) रहितं स्यात् सा स्त्री पुनरन्येन पुरुषेण संस्कृता = विवा- हिता भवति तदा सा 'पुनर्भूः' भवतीति ॥ २० ॥ जो स्त्री अपने पतिको छोड़कर कामसे ( अपनी इच्छासे ) सवर्ण ( अपने जातिके ) अन्य पुरुषका सेवन करे वह स्वैरिणी कहलाती है । प्रथम पतिसे यदि स्त्रीकी योनि अक्षत (मैथुन रहित) हो तो उसकी दूसरी शादी होती है, इस लिये उसका नाम पुनर्भू होता है ॥ सौरारर्क्षे लग्नगे सेन्दुशुक्रे मात्रा सार्द्धं पुंश्चली पापदृष्टे ॥ कौजे ऽस्त्यंशे सौरिणा व्याधियोनिर्च्चारूश्रोणी वल्लभा सद्ग्रहांशे ॥ २१ ॥ इदानीं जनन्या सह पुंश्चली-व्याधियोनि-सुभगयोगानाह—सौरारक्षं इति । सौर- रक्षे = शनिभौमराशौ ( १०।११।१।८ = एषामन्यतमराशौ ) लग्नगते तस्मिन्, सेन्दुशुक्रे = चन्द्रशुक्राभ्यां सहिते, तथाभूते पापदृष्टे = केनचित्पापग्रहेण निरीक्षिते च जाता स्त्री, मात्रा सह पुंश्चली = जनन्या सहितैव परपुरुषगामिनी स्यात् । कौज इति । अस्तांशे = यज्जन्म- तसप्तमे राशौ यन्नवांशो भवति तस्मिन्, कौजे = कुजसम्बन्धिके, अर्थात्सप्तमे राशौ भौम- नवांशे सति तस्मिन्, सौरिणा = शनिना दृष्टे स्त्री व्याधियोनिः = सरोगभगा भवति । चारु श्रोणी वल्लभा सद्ग्रहांशे = तस्मिन् सप्तमे भावे शुभग्रहस्य नवांशे सति स्त्री चारुश्रोणी ( सुन्दरकटियुक्ता ) वल्लभा = भर्तृप्रिया च भवति । तथा च सारावल्याम्—
४८८ सटीकजातकपारिजाते- सौरारगृहे तद्गत् शशिनि सशुक्रे विलग्नगे जाता । मात्रा साकं कुलटा क्रूरग्रहवीक्षिते भवति ॥ द्यूने तु कुजनवांशे शनिना दृष्टे सरोगयोनिः स्त्री । सद्ग्रहभागे चारुश्रोणी पतिवल्लभा भवति ॥ २१ ॥ शनि या मङ्गलकी राशिमें लग्न हो वहां शुक्र चन्द्रमाके सहित हो, उसे पापग्रह देखते हों तो वह स्त्री माताके सहित पुंश्चली हो । सातवेंमें मङ्गलके नवांशको शनि देखता हो तो योनिमें व्याधि हो ! यदि शुभ ग्रहके अंशमें हो तो स्त्रीकी कमर रमणीय हो और वह पतिकी प्यारी होवे ॥ २१ ॥ बलहीनेऽस्तगे पापे सौम्यग्रहानिरीक्षिते । पत्या विसृज्यते नारी नीचारिस्थे च वैरिणी ॥ २२ ॥ श्लोकोऽयं सरलार्थोऽपि च १६ तमश्लोकस्य द्वितीयपदे गतार्थो भवतीति ॥ २२ ॥ निर्बल पापग्रह सप्तम स्थानमें हो उसे शुभग्रह देखते हों तो वह स्त्री पतिसे त्यागी जाय । यदि नीच या शत्रु-स्थानमें वह पापग्रह हो तो वह पतिकी वैरिणी हो ॥ २२ ॥ उत्सृष्टा मदनस्थिते दिनकरे शत्रुग्रहालोकिते ऽविश्वस्ताऽवनिजे वधूरमणयोरन्योन्यवैरं तु वा । सौम्यासौम्ययुते कलत्रभवने जाता पुनर्भूर्ः शनौ कामस्थे रिपुवीक्षिते त्वविधवा जाता जरां गच्छति ॥२३॥ इदानीं स्त्रीजातके सप्तमभावफलं ग्रहपरत्वेनोच्यते-उत्सृष्टेति । दिनकरे = सूर्ये, मदन- स्थिते = सप्तमभावमुपगते, तस्मिन्, शत्रुग्रहेणालोकिते सति स्त्री पतिना उत्सृष्टा = त्यक्ता भवति । अवनिजे=भौमे, मदनस्थिते शत्रुग्रहालोकिते च स्त्री अविश्वस्ता, वा तत्र वधूरम- णयोः=स्त्रीपुंसोरन्योन्यवैरं=परस्पर विद्वेषो भवति । कलत्रभवने = सप्तमे भावे, सौम्यासौ- म्ययुते=शुभपापग्रहैः सहिते सति जाता स्त्री पुनर्भूर्ः=पत्यन्तरकर्त्री, भवति । शनौ, कामस्थे= सप्तमभावस्थे, रिपुणा वीक्षिते च सति जाता स्त्री तु अविधवा सती (कुमारिकैव ) बाल्य इति यावत् जरां वृद्धत्वं गच्छति । अर्थात्शनिः सप्तमे पापद्दष्टो भवेत्तदा कुमारिकैव स्त्री वृद्धत्व- मुपयाति । तस्या विवाहो न भवेदित्यर्थः । तथा बृहज्जातके- 'उत्सृष्टा रविणा, कुजेन विधवा बाल्येऽस्तराशिस्थिते । कन्यैवाशुभवीक्षितेऽर्कतनये द्यूने जरां गच्छति' इति ॥ २३ ॥ सूर्य सप्तममें हो उसका शत्रु उसे देखता हो तो वह स्त्री उत्सृष्टा ( त्यागी ) हो । मङ्गल हो तो विश्वाससे हीन अथवा स्त्रीपुरुषमें परस्पर वैर हो । सप्तम भवनमें शुभ अशुभ दोनों प्रकारके ग्रह हों तो पुनर्भूर् हो । शनि सप्तम स्थानमें शत्रुसे देखा जाता हो तो बुढ़ापा तक कुमारी रहती है ॥ २३ ॥ पापर्क्षे मदनस्थिते शनियुते वैधव्यमेत्यङ्गना जारासक्तविलासिनी सितकुजावन्योन्यराश्यंशगौ ॥ चन्द्रे कामगृहं गते तु पतिना सार्द्धं दुराचारिणी मन्दारर्क्षविलग्नौ शशिसितौ बन्ध्या सुतस्थे खले ॥ २४ ॥ पापर्क्ष इति । मदनस्थिते = सप्तमभावगते, पापर्क्षे = पापग्रहर्क्षे, शनियुतेऽथोत्सप्तमो भावः पापराशिस्तत्र शनिः स्थितो भवेत्तदा, अङ्गना = जायमाना कन्या, वैधव्यमेति=भर्तृ- मरणं प्राप्नोति । जारिणीमाह । सितकुजौ = शुक्रमङ्गलौ, अन्योन्यराश्यंशगौ=शुक्रः कुज- राशिनवांशगतः, कुजः शुक्रराशिनवांशगतः स्यात्तदा जाता स्त्री, जारासक्तविलासिनी=पर- पुरुषरतामोदवती भवति । दम्पत्योः व्यभिचारित्वमाह । चन्द्रे, कामगृहं=सप्तमभावं गते तु स्त्री पतिना सार्द्धं दुराचारिणी भवति । चन्द्रमा यदि स्त्रीजातके सप्तमे भवेत्तदा सा स्त्री
व्यभिचारिणी, तत्पतिश्च व्यभिचारी भवति। बन्ध्यामाह। शशिसितौ = चन्द्रशुक्रौ, मन्दा- र्क्षविलग्नगौ = शनिभौमराशिके ( १०।११।१।८, एषामन्यतमे राशौ ) लग्ने व्यवस्थितौ भवेतां, खले=रविभौमशनीनामन्यतमे सुतस्थे=पञ्चमभावगते सति जाता स्त्री वन्ध्या=सन्त- तिरहिता भवति, सा न जातु प्रसूत इत्यर्थः। तथा होरारत्ने- अन्योन्यांशे सितारौ चेज्जारासक्ता भवेद्वधूः। तथैव सप्तमे चन्द्रे दुष्टरी पतिना सह ॥ मन्दारर्क्षे विलग्नस्थौ शशिशुक्रौ यदा तदा। बन्ध्या भवति सा नारी पञ्चमे पापदृग्युते॥ २४॥ सप्तम गृह पापराशि हो उसपर शनि हो तो स्त्री विधवा होवे। शुक्र और मङ्गल अन्यो- न्य राशि (शुक्रकी राशि वृष या तुलामें मङ्गल, मङ्गलकी राशि मेष या वृश्चिकमें शुक्र) हो तो जार पतिमें आसक्त और विलासवती होती है। चन्द्रमा सप्तममें हो तो पतिके साथ व्यभिचारिणी (स्त्री पति दोनों लम्पट) हो। चन्द्रमा और शुक्र यदि शनि या मङ्गल की राशि गत लग्नमें प्राप्त हों तथा पञ्चममें पापग्रह हो तो बन्ध्या हो ॥ २४ ॥ कलत्रराश्यंशगते महीजे मन्देक्षिते दुर्भगमेति कन्या ॥ शुक्रांशके सौम्यदृशा समेते कलत्रराशौ पतिवल्लभा स्यात् ॥ २५ ॥ इदानीं दुर्भगा-पतिवल्लभायोगावाह-कलत्रेति। महीजे=मङ्गले यत्र तत्र कलत्रराशेः = सप्तमभावस्य, अंशगते=नवांशगते, मन्देन=शनिना, ईक्षिते=दृष्टे सति जाता कन्या दुर्भगं = रुगार्त्तयोनिम्, एति = प्राप्नोति। अस्मिन् योगे जाता दुर्भगा भवतीत्यर्थः। शुक्रांशक इति। महीजे कलत्रराशौ=सप्तमभावे शुक्रस्यांशगते, तस्मिन्सौम्यस्य=शुभग्रहस्य, दृशा=दृष्ट्या, समेते सति जाता स्त्री पत्युः वल्लभा प्रियतमा स्यात् ॥ २५ ॥ सप्तम भाव राशिके नवांशमें मङ्गल हो उसको शनि देखता हो तो वह कन्या दुर्भगा (जरायु योनिवाली) हो। यदि ७ वें भावमें मङ्गल शुक्रांशमें हो उसे शुभग्रह देखते हों तो पतिवल्लभा हो ॥ २५ ॥ भौमागारविलग्नगौ शशिसितौ नारी पतिद्वेषिणी चन्द्रज्ञौ परतत्त्ववादचतुरा भौमेन्दुजौ भोगिनी । चन्द्रज्ञासुरवन्दिता यदि सुखद्रव्यान्र्विता लग्नगा वागीशो यदि लग्नगः सुतनया प्रज्ञाविभूषान्विता ॥ २६ ॥ भौमागारेति। शशिसितौ = चन्द्रशुक्रौ, भौमागारविलग्नगौ = मङ्गलराशिके जन्मलग्ने गतौ (मेषे वृश्चिके वा गतावित्यर्थः) भवेतां तदा जाता नारी पतिद्वेषिणी = भर्तृविरो- धिनी भवति। चन्द्रज्ञौ = चन्द्रबुधौ, यदि भौमागारविलग्नगौ भवेतां तदा परतत्त्ववादच- तुरा = ब्रह्मवाद-(मोक्षशास्त्र-) कुशला भवति। भौमेन्दुजौ = मङ्गलवुधौ, भौमागारविल- ग्नगौ भवेतां तदा, भोगिनी=सुखिनी भवति। अथ चेत् यदि चन्द्रज्ञसुरवन्दिताः = चन्द्रबु- धशुक्राः, लग्नगाः=यस्मिंस्तस्मिन् जन्मलग्ने गता भवेयुस्तदा स्त्री सुखद्रव्यान्विता भवति। यदि वागीशो गुरुः लग्नगो भवेत्तदा स्त्री सुतनया = सुपुत्रवती, प्रज्ञाविभूषणान्विता=प्रज्ञाभिः (बुद्धिभिः) विभूषणै-(अलङ्कारैः) श्चान्विता भवति ॥ २६ ॥ चन्द्रमा और शुक्र मंगलकी राशिगत लग्नमें हो तो स्त्री पतिसे वैर करनेवाली हो। चन्द्रमा और बुध हों तो परतत्त्ववाद (ब्रह्मज्ञान) में चतुर हो। मंगल और बुध हों तो भोग करनेवाली हो। यदि चन्द्रमा, बुध तथा गुरु लग्नमें हों तो वह स्त्री सुख-द्रव्यसे युक्त होती है। बृहस्पति लग्नमें हो तो सुन्दर सन्तान, बुद्धि और भूषणसे युक्त होवे ॥ २६ ॥ तुङ्गस्था गगनाटनाः शुभकरा रन्ध्रे सपापे वधू- र्वैधव्यं समुपैति पापभवने पापग्रहालोकिते । रन्ध्रेशांशपतौ खले च विधवा निःसंशयो भामिनी सौम्यै रन्ध्रगतैः समेति तरुणी प्रागेव मृत्युं पतेः ॥ २७ ॥
४१० सटीकजातकपारिजाते- तुङ्गस्था इति । शुभकरा गगनाटनाः = शुभग्रहाः यत्र तत्र भावे, तुङ्गस्थाः = स्वस्वो- च्चगताः स्युः, रन्ध्रे = अष्टमे भावे, सपापे = पापग्रहेण सहिते, पापभवने = पापग्रहराशौ, पापग्रहालोकिते च सति जाता स्त्री वैधव्यं समुपैति । विधवा भवतीत्यर्थः । योगान्तर- माह-रन्ध्रेशो (अष्टमेशः ) यस्मिन्नवांशे तिष्ठति तन्नवांशपतौ खले = पापग्रहे सति भामिनी = स्त्री, निःसंशयः = अवश्यमेव, विधवा भवति । सधवामरणमाह । सौम्यैः = शुभग्रहैः, रन्ध्रगतैः =अष्टमभावस्थितैः, पतेः = स्वामिनः, प्रागेव=पूर्वमेव, तरुणी = स्त्री, मृत्युं समेति । अस्मिन्कयोगे जाता स्त्री सधवा सती म्रियते इत्यर्थः ॥ २७ ॥ अपने २ उच्च स्थानमें शुभ ग्रह हों, पापग्रहकी राशिमें पापयुक्त अष्टम स्थान पापग्रह से दृष्ट हो तो स्त्री विधवा होवे । अष्टमेशका नवांश पति पापग्रह हो तो निःसन्देह विधवा हो । शुभग्रह यदि ८ वेंमें हो तो स्वामीसे पहले मरे ॥ २७ ॥ भाग्यस्थाः शुभखेचराः स्मरगते पापेऽष्टमस्थेऽथवा भर्तृश्रीबहुपुत्रसौख्यविभवैः सार्द्धं चिरं जीवति । क्रूरैर्बन्धुगृहोपगैर्बहुसुतप्राप्ता भवत्यङ्गना चापे वा कटकोदये पतिसुतप्राप्ता दरिद्रान्विता ॥ २८ ॥ भाग्यस्था इति । शुभखेचराः = बुधगुरुशुक्रशुक्लचन्द्राः, भाग्यस्थाः = नवमभावगता भवेयुः, पापे = सूर्यभौमशनीनामन्यतमे ग्रहे, स्मरगते = सप्तमस्थे, अथवा अष्टमस्थे सति स्त्री, भर्त्रा, श्रिया, बहुपुत्रैः, सौख्यैः, विभवैश्च सार्द्धं चिरं = दीर्घकालं जीवति । योगेऽस्मि- न्सफलसुखसम्पन्ना सती दीर्घजीविनी भवति । क्रूरैः = पापैः, बन्धुगृहोपगैः = चतुर्थभाव- मुपगतैः अङ्गना = स्त्री, बहुसुतप्राप्ता = अनेकसन्ततियुक्ता भवति । चापे = धनुषि, वा कट- कोदये = कर्कराशिलग्ने सति स्त्री पतिसुतप्राप्ता = भर्तृपुत्रवती, दरिद्रान्विता = निर्धना भव- ति । तथा हि- 'भाग्यस्थाने स्थिते सौम्ये सपापेऽस्तेऽष्टमेऽपि वा । भर्तृपुत्रसुखैः सार्द्धं दीर्घकालं च जीवति ॥ धनुःकर्कटके लग्ने भर्तृपुत्रादिदुःखदा” इति यवनः ॥ २८ ॥ नवमें गृहमें शुभग्रह हों सप्तम वा अष्टममें पापग्रह हों तो वह स्त्री पति-लक्ष्मी-बहुत पुत्र-सुख-विभवके साथ बहुत काल तक जीवित रहती है । क्रूरग्रह ४ र्थ स्थानमें हों तो उस स्त्रीके बहुत पुत्र होवें । लग्नमें धनु वा कर्क हो तो पति-पुत्रसे युक्त दरिद्रा होवे ॥ २८ ॥ गोसिंहालिवधूदये सुतगते चन्द्रेऽल्पपुत्रान्विता पापैरस्तसुभोदयाष्टमगतैर्दारिद्र्यशोकाकुला । सौम्यासौम्ययुतैश्च मिश्रफलिनी सौम्यैः शुभश्रीयुता पुत्रेशेऽरिगते तनौ रिपुपतौ शस्त्रेण मृत्युर्भवेत् ॥ २६ ॥ गोसिंहेति । गोसिंहालिवधूदये सुतगते = पञ्चमे भावे वृषसिंहवृश्चिककन्यान्यतमे राशौ तस्मिंश्चन्द्रे व्यवस्थिते सति जाता स्त्री अल्पपुत्रवती भवति । तथा च गर्गः-- “सिंहलिवृषकन्यासु चन्द्रे तिष्ठति पञ्चमे । अल्पापत्यं विजानीयात् पुरुषेषु तथा वदेत्” इति। पापैरिति । पापग्रहैः यथासम्भवं, अस्तसुभोदयाष्टमगतैः = सप्तमनवमप्रथमाष्टमभावग- तैः, स्त्री दारिद्र्यशोकेनाकुला भवति । पूर्वोक्तैर्भावैः सौम्यासौम्ययुतैः=शुभैः पापैश्च युतैः मिश्रफलिनी = शुभाशुभफलद्वयवती भवति । पूर्वोक्तैर्भावैः केवलं सौम्यैः युतैः शुभश्रीयुता भवति । स्त्रियाः शस्त्रकृतं मरणमाह-पुत्रेशे इति । पञ्चमभावेशे, अरिगते = षष्ठभावगते, रिपुपतौ = षष्ठेशे, तनौ = लग्ने विद्यमाने सति स्त्रियाः शस्त्रेण मृत्युर्भवेत् ॥ २९ ॥ वृष, सिंह, वृश्चिक या कन्या लग्न हो, पंचममें चन्द्रमा हो तो थोड़े पुत्र होवें । पापग्रह सप्तम, नवम, लग्न तथा अष्टममें हों तो दरिद्रताके शोकसे व्याकुल हो । शुभग्रह, पापग्रह
स्त्रीजातकाध्यायः ॥१६॥ ४५१ दोनों प्रकारके ग्रह हों तो मिश्र फल हो। केवल शुभग्रह हों तो शुभ लक्ष्मीसे युक्ता हो। पंचमेश षष्ठ स्थानमें हो, शत्रु स्थान (६) का स्वामी लग्नमें हो, तो शस्त्रसे मृत्यु हो ॥२९॥ क्रूरग्रहैरस्तगतैः समस्तैर्विलग्नराशेर्विधवा भवेत्सा। मिश्रैः पुनर्भूस्नेिह जातकन्या पत्युज्झिता हीनबलैरसद्भिः ॥ ३० ॥ श्लोकोऽयं स्पष्टार्थः १९ तमश्लोकपूर्वार्द्धस्य समानार्थकश्चेति ॥ ३० ॥ लग्नसे सप्तम भावमें सब पापग्रह हों तो विधवा हो। मिश्रग्रह ७ वें हों तो इस योग में उत्पन्न कन्या पुनर्भू हो। पापग्रह बलसे हीन हों तो उसका पति उस स्त्रीको त्याग दे ॥ स्त्रीजन्मग्नान्मदगे शशाङ्के शुक्रारयुक्ते यदि जातकन्या। सा पत्यनुज्ञापरगामिनी स्यात्सौरारभांशोपगते तथैव ॥ ३१ ॥ स्पष्टार्थः। १९ तमश्लोकोत्तरार्द्धार्थतुल्यश्चेति ॥ ३१ ॥ स्त्रीके जन्म लग्नसे सप्तम स्थानमें चन्द्रमा हो, शुक्र और मंगलसे युक्त हो तो वह स्त्री पतिकी आज्ञासे दूसरे पुरुषसे विहार करे। पूर्वोक्त चन्द्रमा यदि शनि या मंगलके नवांश में हो तो भी यही फल होवे ॥ ३१ ॥ सौरारभांशोपगतग्रहेषु शुक्रेन्दुयुक्तेष्वशुभेक्षितेषु। जाता कुलाचारगुणैर्विहीना मात्रा च साकं व्यभिचारिणी स्यात् ॥ ३२ ॥ सौरारेति । यत्र तत्र भावे सौरारभांशोपगतग्रहेषु = शनिमाङ्गल्योर्भानि मेषवृश्चिकम- करकुम्भास्तेषां नत्रांशेषूपगतेषु ग्रहेषु, शुक्रेन्दुभ्यां युक्तेषु अशुभेन = पापग्रहेण, ईक्षितेषु । एतदुक्तं भवति । शुक्रचन्द्राभ्यां युक्ताः केचिदन्ये त्र्यधिका ग्रहा भौमशनिभांशे यत्र तत्र गताः केनचित्पापेन दृष्टाश्च भवेयुस्तदा जाता स्त्री कुलाचारगुणैर्विहीना तथा मात्रा साकं व्यभिचारिणी च स्यात् । अस्मिन्योगे जाता न यावत्कन्यैव कुकर्मकर्त्री भवत्यपि तु तन्मा- ताऽपि दुराचारिणी भवतीति ॥ ३२ ॥ शनि और मंगलकी राशि या नवांशमें ग्रह प्राप्त हों शुक्र और चन्द्रमासे युक्त तथा पाप ग्रहसे दृष्ट हो तो कन्या कुल आचारसे हीन हो और माताके सहित व्यभिचारिणी हो ॥३२॥ क्षितितनयनवांशे लग्नतः सप्तमस्थे दिनकरबुधदृष्टे व्याधियोनिः प्रजाता। शुभकरनबभागे सप्तमस्थानसंस्थे सुभगसुतवती सा चान्यथा दुर्भगा स्यात् ॥३३॥ सरलार्थः श्लोकोऽयमिति ॥ ३३ ॥ लग्नसे सप्तम भावमें मंगलका नवांश हो, सूर्य और बुध देखते हों तो योनिमें व्याधि हो। शुभग्रहका नवांश सप्तम भावमें हो तो सुभगा और पुत्रवाली हो, अन्यथा दुर्भगा हो ॥ कामासक्तमनस्विनी च विधवा पापद्वये सप्तमे पश्चात्स्वामिवधं करोति कुलटा पापत्रये चास्तगे। राजामात्यवराङ्गना यदि शुभे भौमं गते कन्यका सौरस्थे तु शुभत्रये गुणवती राज्ञी भवेद् भूपतेः ॥ ३४ ॥ सरलार्थः। स्त्रीजातके सप्तमे भावे सपापेऽशुभं फलम्। सप्तमे तु शुभग्रहे शुभं फलमिति भावार्थः ॥ ३४ ॥ दो पापग्रह सप्तममे हों तो काममें आसक्ता, मनस्विनी और विधवा हो। तीन पापग्रह सप्तममें हों तो कुछ समयके बाद पतिको मारे और कुलटा होवे। यदि सप्तममें शुभग्रह हो तो राजाके नौकरकी स्त्री हो। सातवें स्थानमें यदि तीन शुभग्रह हों तो गुणवती और राजाकी रानी होवे ॥ ३४ ॥ अन्योन्यांशगतौ सितार्कतनयावन्धोन्यदृष्टौ तु वा कुम्भे चाष्टमभागजातवनिता कामाभितप्ता भवेत्।
४६२ सटीकजातकपारिजाते- वैधव्यं समुपैति चन्द्रभवनात् क्रूरे मदैस्थानगे चन्द्रादस्तंगृहोपगः शुभकरो राज्यास्पदं यच्छति ॥ ३५ ॥ अन्योन्येति । सितार्कतनयौ = शुक्रशनी, अन्योन्यांशगतौ = यत्र तत्र भावे शुक्रः शनिनवांशे, शनिः शुक्रनवांशे भवेत् , तौ परस्परदृष्टौ च भवेतां, वा कुम्भे लग्ने अष्टमे भागे जनिता वनिता ( स्त्री ) कामाग्नितप्ता = मदनानलेन दग्धा ( अतीव कामातुरा ) भवति । वैधव्यमिति । क्रूरे=कस्मिश्चित्पापग्रहे, चन्द्रभवनात्=चन्द्राधिष्ठितराशितः, मदस्था- नगे=सप्तमराशिगते सति स्त्री वैधव्यं=पतिमृत्युं, समुपैति=प्राप्नोति । शुभकरः=बुधगुरुशुक्रा- न्यतमो ग्रहः चन्द्रादस्तगृहमुपगतो भवेत्तदा स्त्रियै तद्भर्त्रे वा राज्यम् , आस्पदं=प्रतिष्ठानं च यच्छति=ददाति । स्त्रीजातके चन्द्रादस्तो (७) पापोऽशुभदः शुभः शुभदश्चेति सारार्थः ॥३५॥ शुक्र और शनि परस्पर एक दूसरेके अंशमें हों परस्पर देखते हों, वा कुम्भके आठवें नवांशमें उत्पन्न स्त्री कामाग्निसे संतप्त हो । चन्द्रमासे सप्तम क्रूरग्रह हो तो विधवा होती है । चन्द्रमासे सातवें घरमें शुभग्रह हो तो राज्य पदको देवे ॥ ३५ ॥ स्त्रीजन्मलग्रे शशिशुक्रयुक्ते कोपान्विता सा सुखभागिनी स्यात् । सर्वत्र चन्द्रे सति तत्र जाता सुखान्विता वीतरतिप्रिया स्यात् ॥ ३६ ॥ सरलार्थोऽयं श्लोकः । स्त्रीजन्मलग्रे चन्द्रशुक्रौ केवलं वा चन्द्रः शुभकर एवेत्यलम् ३६ स्त्रीके जन्म लग्नमें चन्द्रमासे युक्त शुक्र हो तो वह कोपसे युक्त और सुखकी भागिनी होती है । चन्द्रमा लग् नमें हो तो उत्पन्न होनेवाली सर्वत्र सुखसे युक्त वीर पुरुषके साथ रतिप्रिया होती है ॥ ३६ ॥ शुक्रेन्दुभे रूपगुणाभिरामा कलावती जीवबुधोदये तु । लग्नस्थिता जीवबुधासुरेज्या जाताङ्गना सर्वगुणप्रसिद्धा ॥ ३७ ॥ वाचस्पतौ नवमपञ्चमकेन्द्रसंस्थे तुङ्गादिके भवति शीलसमन्विता च । साध्वी सुपुत्रजननी सुखिनी गुणाढ्यां नूनं कुलद्वययशस्करीह भवेत्सा ॥ ३८ ॥ सरलार्थो श्लोकौ द्वाविति ॥ ३७-३८ ॥ लग्न शुक्र या चन्द्रमाके गृहमें हो तो रूपगुणसे सुन्दरी हो । गुरु या बुधकी राशिका उदय हो तो कला जानने वाली हो । लग्नमें बृहस्पति, बुध और शुक्र हों ऐसे योगमें कन्या सर्वगुणमें प्रसिद्धा हो ॥ ३७ ॥ बृहस्पति नवम, पंचम या केन्द्रमें स्थित हो उच्चादिमें हो तो शीलसे युक्त, साध्वी सुपुत्रकी माता, सुखिनी, गुणयुक्ता और निश्चय दोनों कुलका यश करनेवाली होवे ॥ ३८ ॥ यदि शुभकरदृष्टा शिल्पिनो शुद्धचित्ता सततमपि सलज्जा चारुमूर्तिः सुपुत्रा । बहुधनशुभयुक्ता वल्लभे वल्लभत्वं व्रजति शुभशतानां भाजनत्वं च होरा ॥३६॥ यदिति । होरा = स्त्रिया जन्मलग्रं, यदि शुभकरदृष्टा = एकेन द्वाभ्यां त्रिभिर्वा शुभग्र- हैर्दृष्टा स्यात्तदा शिल्पिनोत्यादि फलं वाच्यम् ॥ ३९ ॥ यदि शुभग्रह लग्नको देखते हों तो शिल्पिनी, शुद्ध चित्तवाली, निरंतर लाजवाली, रमणीय मूर्ति, पुत्रवती तथा बहुल-धन-सुखसे युक्ता, पतिप्रेमा और सैकड़ों शुभकी पात्री होती है ॥ ३९ ॥ चन्द्रे कर्कटकोदये च बलिभिः शुक्रज्ञजीवेन्दुभि- र्नानाशास्त्रकलारसज्ञचतुरा विख्याततेजस्विनी । कामस्थैरथवा विलग्नभवनाद्धर्मस्थितैः खेचरैः प्रव्रज्यामुपयाति जन्मसमये पाणिग्रहे चिन्तयेत् ॥ ४० ॥ चन्द्र इति । कर्कटकोदये = कर्कराशिलग्ने, चन्द्रे, बलिभिः शुक्रज्ञजीवेन्दुभिश्च जाता
स्त्री नानाशास्त्रकलाज्ञा, रसज्ञो, चतुरा, विख्याता, तेजस्विनी च भवति । विलग्नभवनात् = जन्मलग्नात्, कामरथैः = सप्तमगतैः, अथवा धर्मस्थितैः = नवमगतैः, खेचरैः=यैः कैश्चित् व्यादिग्रहैः व्यवस्थितैः, स्त्री प्रव्रज्यां=संन्यासमुपयाति । तत्र बलीयसो ग्रहस्य हेतुमूलां प्रव्रज्यां प्राप्नुयात् । इमां किल जन्मसमये, पाणिग्रहे = विवाहे च चिन्तयेत् । उक्तञ्च - बलिभिर्बुधगुरुशुकैः शशाङ्कसहितैर्विलग्नगे शशिनि । स्त्री ब्रह्मवादिनी स्यादनेकशास्त्रेषु कुशला च ॥ क्रूरे जामित्रगते नवमे यदि खेचरो भवति नूनम् । आप्नोति प्रव्रज्यां पापग्रहसम्भवामबलाः ॥ जन्मकाले विवाहे च चिन्तायां वरणे तथा । चिन्त्यं स्त्रीणां तु यत्प्रोक्तं घटते तत्पतिष्वपि ॥ सारावल्याम् ॥ ४० ॥ चन्द्रमा कर्क लग्नमें हो, शुक्र, बुध गुरु तथा चन्द्रमा बली हों तो नाना प्रकारके शास्त्र कला और रसज्ञानमें चतुरा, विख्यात तेजस्विनी हो । लग्नसे सप्तम वा नवम भावमें ग्रहों से जन्म समय और विवाहके समय प्रव्रज्या योगका विचार करे ॥ ४० ॥ पापेऽस्ते नवमगतग्रहस्य तुल्यां प्रव्रज्यां युवतिरुपैत्यसंशयेन । उद्वाहे वरणविधौ प्रदानकाले चिन्तायामपि सकलं विधेयमेतत् ॥४१॥ जन्मन्युद्वाहकाले च चिन्तायां वरणे तथा । स्त्रीणां चिन्ता बुधेनोक्ता घटते तत्पतिष्वपि ॥ ४२ ॥ इदानीं स्त्रीणां प्रव्रज्यायोगमाह - पापेऽस्त इति । स्त्रियाः जन्मलग्नात्, अस्ते = सप्तमे भावे, पापे = पापग्रहे सति नवमगतस्य ग्रहस्य तुल्यां प्रव्रज्यां, युवतिः = स्त्री, असंशयेनो- पैति । एतत् सकलं प्रव्रज्यादि उद्वाहे = विवाहे, वरणविधौ =कन्याया वैवाहिकवरणे, प्रदान- काले, चिन्तायामपि विधेयं = विचारणीयमिति । तथोक्तञ्च गुणाकरेण- अस्ते पापे धर्मग्य.तमग्रहोक्तां प्रव्रज्यां स्त्री याति निःसंशयेन । दानोद्वाहे प्रश्नकालेषु चैवं चिन्त्यं सर्वं हौरिकैस्तत्र युक्त्या ॥ अत्र प्रसङ्गात् ग्रहोक्ताः प्रव्रज्या उच्यन्ते-योगकर्तृषु ग्रहेषु यदि सूर्यो बलीयान् स्यात्तदा तापसः, चन्द्रश्चेत्तदा कापालिकः, भौमे बलवति रक्तपटः बुधे एकदण्डी, गुरौ त्रिदण्डी (भिक्षुः), शुक्रे चरकः, शनौ नग्नः, इति प्रव्रज्याः कथनीयाः । तथा स्वल्पजातके- 'तापस-वृद्धश्रावक-रक्तपटा-जीवि-भिक्षु-चरकाणाम्-निर्ग्रन्थानामिति' ॥ जन्मनीत्यादिः । सरलार्थ एवेति ॥ ४१-४२ ॥ पापग्रह सप्तममें हो तो नवम गत ग्रहके सदृश स्त्री प्रव्रज्याको प्राप्त हो इसमें सन्देह नहीं है। इसलिये स्त्रीके विवाहमें, वरण विधिमें, कन्यादान कालमें, चिन्तामें यह सब विचार करे ॥ ४१ ॥ स्त्रियोंके जन्म समयमें, विवाह कालमें, प्रश्नकालमें, वरणमें प्रव्रज्याका विचार करना कहा है। यह प्रव्रज्या स्त्रीके पतिमें भी घटती है ॥ ४२ ॥ क्रूरेऽष्टमे वैधव्यता निधनेश्वरांशे यस्य स्थिते वयसि तस्य समे प्रदिष्टा । सत्स्वर्थगेषु मरणं स्वयमेव तस्याः कन्यालिगोहरिषु चाल्पसुतत्वमिन्दौ ॥४३॥ इदानीं स्त्रिया वैधव्ययोगं मरणयोगञ्चाह - क्रूर इति । क्रूरे = कस्मिंश्चित्पापे, अष्टमे भावे व्यवस्थिते, निधनेश्वरः = अष्टमभावेशः यत्र तत्र यस्य ग्रहस्यांशे = नवांशे स्थितो भवेत्, तस्य समे वयसि = तस्य ग्रहस्यायुर्दाये (दशायां) स्त्रियाः, वैधवता प्रदिष्टा=प- तिमरणं वाच्यमिति । सत्स्विति । तदानीं (स्त्रीजन्मनि) सत्सु=शुभग्रहेषु, अर्थगेषु = द्वि- ४२ जा०
४६४ सटीकजातकपारिजाते- तीयभावमुपगतेषु तस्याः स्त्रियाः स्वयमेव मरणं स्यात् । स्त्री स्वयमेव म्रियते (बलवतो- दशायाम्) इति । कन्येति । इन्दौ=चन्द्रे, कन्यालिगोहरिषु=कन्या-वृश्चिक-वृष-सिंहान्य- तमे गते च स्त्री अल्पसुतत्वम् = अल्पापत्यत्वमाप्नुयादिति । तथा च- पापेऽष्टमे तु विधवा निधनाधिपतिर्नवांशके यस्य । तस्य दशायां मरणं वाच्यं तस्याः शुभैर्द्वितीयस्थैः ॥ कन्यालिवृषभसिंहे शिशिरमयूखेऽल्पपुत्रा स्यात् । पुत्रभवने शुभयुते निरीक्षिते वा तथैव स्यात् ॥ इति सारावल्याम् ॥४३॥ क्रूरग्रह अष्टम भावमें हो अष्टमेश जिसके नवांशमें हो उस ग्रहके नैसर्गिका यु तुल्य वय- समें विधवा हो । उस योगमें शुभ ग्रह धन स्थानमें हो तो स्वयं उसकी मृत्यु हो चन्द्रमा यदि कन्या, वृश्चिक, वृष या सिंहमें हो तो थोड़ी सन्तान हों ॥ ४३ ॥ रन्ध्रे मिश्रबले शुभाशुभखगैरालोकिते वा युते दम्पत्यो समकालमृत्युमखिलज्योतिर्विदः संविदुः ॥ एकस्थौ मदलग्नपौ च यदि वा लग्नस्थिते कामपे कामस्थे तनुपे शुभग्रहयुते मृत्युस्तयोस्तुल्यतः ॥ ४४ ॥ इदानीं दम्पत्योः समकालमरणमाह-रन्ध्र इति । रन्ध्रे=अष्टमे भावे, मिश्रबले=शुभा- शुभसामान्यबलयुते तस्मिन् शुभैरशुभैश्च ग्रहैरालोकिते वा युते सति, दम्पत्योः = वधूव- रयोः, समकालम्=एकस्मिन्नेव समये मृत्युं=मरणम्, अखिलज्योतिर्विदो विद्वांसः संविदुरूचुः । योगान्तरमाह । मदलग्नपौ = सप्तमेशलग्नेशौ यत्र तत्रैकत्रस्थौ भवेतां, यदि वा कामपे = सप्तमेशे, लग्नस्थिते, तनुपे=लग्नेशे, कामस्थे=सप्तमभावगते शुभग्रहयुते च, तयोः=स्त्रीपुंसोः तुल्यतः = एककाले, मृत्युर्भवेदिति ॥ ४४ ॥ अष्टम भाव सम बल हो, शुभ-अशुभ दोनों प्रकारके ग्रह देखते हों वा युक्त हों तो दंपती (स्त्री-पुरुष दोनों) समकाल (एकसाथ) में मरे यह सभी ज्योतिष शास्त्रके विद्वान् कहे हैं । यदि सप्तमेश और लग्नेश एक स्थानमें हों, वा सप्तमेश लग्नमें हो सप्तममें लग्नेश हो शुभग्रहसे युक्त हो तो दोनों (स्त्री-पुरुष) की मृत्यु समकालमें हो ॥ ४४ ॥ सत्स्वर्थगेषु स्वयमेव सा स्त्री विपद्यते तत्परिपाककाले । रन्ध्रस्थतन्नाथतदंशपानां दशापहारे मृतिमाहुरार्याः ॥ ४५ ॥ इदानीं स्त्रिया मरणकालमाह-सत्स्विति । स्त्रिया जन्मकाले सत्सु = शुभग्रहेषु, अर्थ- गेषु = द्वितीयभावमुपगतेषु, तत्परिपाककाले = तेषां (शुभग्रहाणां) मध्ये बलीयसो ग्रहस्य दशाकाले सा स्त्री स्वयमेव विपद्यते = म्रियते । रन्ध्रेति । रन्ध्रस्थतन्नाथतदंशपानां = रन्ध्रे (अष्टमे) यो ग्रहस्तिष्ठति, तन्नाथः (अष्टमेशः), तदंशपः (अष्टमगतनवांशप- तिः = जन्मतो हि ६४ नवांशेशः) इत्येषां त्रयाणां (यो बलीयान् भवेत्तस्य) दशापहारे = दशावसाने स्त्रिया मृतिमार्या आहुरिति ॥ ४५ ॥ शुभग्रह धन भावमें हो तो स्वयं वह स्त्री उसकी दशाके परिपाक कालमें मरे । अष्टम स्थानमें स्थित और अष्टमेश तथा उसके नवांशपतिकी दशा भुक्तिमें मृत्यु होना श्रेष्ठ वि- द्वान् लोग कहे हैं ॥ ४५ ॥ सहजभवननाथे पुङ्ग्रहे पुङ्ग्रहर्क्षे पुरुषखचरयुक्ते पुङ्ग्रहालोकिते वा । नयनभवनकेन्द्रे कोणगे वा बलिष्ठे बहुधनसुखवन्तं सोदरं याति जाता ॥४६॥ सहोदरस्थानपलाभनाथौ विलग्नतः पञ्चमराशियातौ । नृपालतेजोगुणरूपवन्तं सहोदरं जातवधूः समेति ॥ ४७ ॥
स्त्रीजातकाध्यायः ।।१६।। ४६५ इदानीं स्त्रियाः सोदरप्राप्तियोगावाह—सहजेति श्लोकद्वयेन : सहजभवननाये = तृतीयभावेशे, पुङ्ग्रहे = पुरुषग्रहे = रविभौमगुरुणामन्यतमे, पुङ्ग्रहांशे = पुरुषग्रहराशौ = सिंह-मेष-वृश्चिक-धनुः-मीनानामन्यतमे स्थिते, पुरुषखचरेण = रविभौमगुरुणामन्यतमेन युक्ते वा केनचित् पुङ्ग्रहेणालोकिते, वा सहजेशे नयनभवने = द्वितीयभावे केन्द्रे ( १।४।७। १० ) कोण-( ५।९ ) गे वा सति बलिष्ठे = सबले च जाता स्त्री बहुधनसुखदन्तं सोदरम् = एकजनन्यां जातं भ्रातरं, याति = प्राप्नोति । सहोदरेति ! तृतीयैकादशभावेशौ, विलग्नतः = स्त्रीजन्मलग्रनात् पञ्चमराशिगतौ भवेतां तदा जातवधूः = समुत्पन्ना स्त्री, नृपालस्य = राज्ञः तेजोगुणरूपाणि इव तेजोगुणरूपाणि सन्त्यस्य तं (
४६६ सटीकजातकपारिजाते- स्त्रीलोलुपश्च भवति । चन्द्रसुते = बुधे, तथाभूते, पतिः विद्वान् भवति । जीवे = गुरौ, मदस्थानगे = सप्तमगते स्वांशे सति, जितेन्द्रियाणां वरः = श्रेष्ठो भवति भर्तेति । शुक्रे तथा- भूते सति पतिः, कान्तवपुः = मनोरमगात्रः सुखी च भवति । रविजे = शनौ सप्तमे स्वांशे सति पतिः वृद्धः अतिमूर्खश्च भवति । तथा होरारत्ने- अस्तेऽर्के स्वांशगे स्वक्षं भर्त्ता रतिपरो मृदुः । चन्द्रेऽस्ते स्वक्षँगे स्वांशे मृदुस्मरवशः पतिः ॥ भौमेऽस्ते स्वांशगे क्षेत्रे स्त्रीलोलो निर्धनः पतिः । सौम्येऽस्ते स्वांशके क्षेत्रे भर्त्ता विद्वान् भवेत् सुखी ॥ जीवेऽस्ते स्वांशके स्वक्षै गुणवान् विजितेन्द्रियः । शुक्रेऽस्ते स्वांशके क्षेत्रे कन्या सौभाग्यदान् सुखी ॥ मन्देऽस्ते स्वांशके क्षेत्रे वृद्धो मूर्खों भवेत्पतिः । एवं सप्तमराशिस्थैर्ग्रहैर्नॄणां वदेत् फलम् । इति॥ सूर्य अपने नवांशमें सातवें भावमें स्थित हो तो उसका पति कोमलमति तथा रति क्रीडाका विनोदी हो । स्वांशस्थ चन्द्रमा ७ वें हो तो सुखकी प्राप्ति हो । स्वांशस्थ मङ्गल ७ वें हो तो जार पति उस स्त्री में तत्पर रहे । स्वांशस्थ बुध ७ वें हो तो पति पण्डित हो । स्वांशका गुरु सप्तम भावमें हो तो पति जितेन्द्रिय हो । अपने अंशका शुक्र सप्तममें हो तो सुन्दर शरीरवाला सुखी पति हो । शनि स्वांशमें हो तो पति वृद्ध और विशेषतः मूर्ख होवे॥ स्यान्मार्द्दवाङ्गो गुणवान्प्रगल्भो जामित्रराश्यंशकजा तु याऽस्याः । सौरेऽस्तगे स्वांशगृहोपयाते वृद्धोऽतिमूर्खः पतिरेव तस्याः ॥ ५० ॥ स्यादिति । या स्त्री जामित्रराश्यंशकजा = लग्ने सप्तमभावस्य नवांशे समुद्भूता भवति, अस्याः पतिः मार्द्दवाङ्गः = मृदोर्भावो मार्द्दवस्तदङ्गवानर्थात्कोमलगात्रः, गुणवान्, प्रगल्भः ( चतुरः ) च भवति । अत्रोदाहरणं यथा-यदि मेषराशिलग्नं स्यात्तदाऽत्र तुलाराशेर्नवांशेन भवितव्यमेवं सर्वत्रोह्यम् । तथा सति लग्नमानम् ०।२३° । सौर इति स्पष्टार्थः, ४९ श्लोको- क्तस्य-'रविजे वृद्धोऽतिमूर्खो भवेत्' इत्यस्य सदृशार्थश्चेति ॥ ५० ॥ लग्नस्थ सप्तम भाव राशिके नवांशमें (जैसे मेष लग्न गत तुलाके नवांशमें ) उत्पन्न स्त्रीका पति कोमलांग, गुणवान् और चतुर होता है । शनि सप्तम भावमें अपने राशि का नवांशमें हो तो उस स्त्रीका पति वृद्ध तथा अतिमूर्ख होवे ॥ ५० ॥ दुःस्थौ धर्मगृहेशदेवसचिवौ भर्त्ता गतायुर्भवेद् दीर्घायुर्धनवांस्त्रिकोणगृहगौ केन्द्रस्थितौ वा यदि । विद्वान् बोधनवाहनेशसहितौ साराकंजौ कर्षकः स्वर्भानुध्वजसंयुतौ यदि खलः सारीश्वरश्चोरराट् ॥ ५१ ॥ दुःस्थाविति । धर्मगृहेश-देवसचिवौ = नवमभावपतिबृहस्पती यदि दुःस्थौ = षडष्ट- व्ययगतौ भवेतां तदा तस्याः स्त्रिया भर्त्ता गतायुर्भवेन्म्रियत इत्यर्थः । तौ यदि त्रिकोण- ( ५।९ ) गृहगौ वा केन्द्र-( १।४।७।१० ) स्थितौ भवेतां तदा भर्त्ता दीर्घायुश्चिरजीवी धनवाँश्च भवेत् । विद्वानिति । तौ धर्मेशगुरू यदि बोधनवाहनेशसहितौ = बुधचतुर्थेशा- भ्यां संयुतौ भवेतां तदा भर्त्ता विद्वान् भवति । तौ धर्मेशगुरू साराकंजौ = भौमशनिभ्यां सहितौ स्यातां तदा भर्त्ता कर्षकः=कृषिकर्मा भवेत् । तौ धर्मेशगुरू स्वर्भानुध्वजसंयुतौ = राहुकेतुयुतो भवेतां तदा भर्त्ता खलः स्यात् । सारीश्वरश्चोरराट् = तयोर्धर्मेशगुरोरेकतरः अरीश्वरेण ( षष्ठेशेन ) सहितो भवेत्तदा भर्त्ता चोरराट् महान् चोरो भवेदिति ॥ ५१ ॥ धर्मेश और बृहस्पति दुष्ट स्थानमें हों तो पति गतायु (अल्पायु) हो । यदि वे दोनों त्रिकोणमें वा केन्द्रमें हों तो दीर्घायु और धनी हो । यदि वे दोनों केन्द्र-कोणमें बुध या सुखेशसे युक्त हों तो विद्वान् हो । मङ्गल या शनिसे युक्त हों तो कर्षक (खेतिहर) हो । राहु या केतुसे युक्त हो तो खल हो । षष्ठेशसे युक्त हो तो चोरोंका मालिक होवे ॥ ५१ ॥
स्त्रीजातकाध्यायः ॥१६॥ ४१७ गौराङ्गः पतिरस्तगे दिनकरे कामी सरोषेक्षण- श्चन्द्रे रूपगुणान्वितः कृशतनुर्भोगी रुगार्तो भवेत् । नग्नः क्रूररसोऽलसः पटुवचाः संरक्तकान्तिः कुजे विद्यावित्तगुणप्रपञ्चरसिकः सौम्ये मदस्थानगे ॥ ५२ ॥ दीर्घायुर्नृपतुल्यवित्तविभवः कामी च बाल्ये गुरौ कान्तो नित्यविनोदकेलिचतुरः काव्ये कविः क्ष्मापतिः । मन्दे वृद्धकलेवरोऽस्थिरतनुः पापी पतिः कामगे राहौ वा शिखिनि स्थिते मलिनधीर्नीचोऽथवा तत्समः ॥ ५३ ॥ इदानीं सप्तमभावे ग्रहपरत्वेन भर्तुर्लक्षणमाह—गौराङ्ग इति श्लोकयुगलेन सरलार्थेन ॥ सूर्य सप्तम भवनमें हो तो पति गौर वर्ण हो, कामी और रोष दृष्टिवाला हो। चन्द्रमा सप्तम स्थानमें हो तो पति रूपगुणसे युक्त दुर्बल गात्र भोगी और रोगी हो । मङ्गल सप्तम भावमें हो तो पति नग्न, क्रूर स्वभाववाला, आलसी, चतुरता पूर्वक बोलनेवाला और रक्त गौर कान्तिवाला हो । बुध सप्तम भावमें हो तो विद्या, वित्त, गुण-प्रपञ्चका रसिक हो॥५२॥ बृहस्पति सप्तम स्थानमें हो तो पति दीर्घायु, राजाके सदृश धनी तथा बाल्यावस्थामें ही कामी हो । शुक्र सप्तम स्थानमें हो तो तेजवान्, नित्य विनोद केलि करनेमें चतुर कवि और भूपति हो । शनि सप्तममें हो तो वृद्ध शरीर, एवं चञ्चल शरीरवाला और पापी पति हो । राहु वा केतु हो तो मलिनबुद्धि नीच वा नीचके सदृश हो ॥ ५३ ॥ दिग्देशस्थितिधर्मकर्मजगुणाः पुञ्जातके योषितां ये नारीजनजातके निजपतौ संयोजितास्तत्त्वतः । द्यूनांशोपगतग्रहेषु बलवत्खेटांशतुल्याः सुताः केन्द्रे कामपतिः करोति विपुलं कल्याणकालोत्सवम् ॥ ५४ ॥ इति श्रीनवग्रहकृपया वैद्यनाथविरचिते जातकपारिजाते षोडशोऽध्यायः ॥१६॥ दिग्देशेति । पुंजांतके = पुरुषाणां जातके दिग्देशस्थितिधर्मकर्मजगुणाः ये निगदितास्त एव योषितामपि जन्मनि विनिर्देश्याः । एवं नारीजनजातके = स्त्रीजन्मविषये ये निगदिता दिगादिगुणास्ते स्त्रीणां निजपतौ = स्वस्वभर्तृविषये तत्त्वतो विशेषेण संयोजिता भवन्ति । ‘यत्तत्फलं नरभवेऽसममङ्गनानां तत्तद्वदेत्पतिषु वा सकलं विधेयम्’ इति वराहोक्तेन । द्यूनां- शेति । द्यूनांशो = सप्तमभावस्य नवांशे यावन्तो ग्रहा भवेयुस्तेषां मध्ये बलीयसो ग्रहस्य नवांशसंख्यया तुल्याः सुता भवन्ति । एतदुक्तं भवति । यत्र तत्र राशौ लग्नात्सप्तमभावराशेः सम्बन्धिके नवांशे यावन्तो ग्रहा भवेयुस्तेषां मध्ये यो ग्रहः सर्वापेक्षया बली भवेत् असौ ग्रहस्तस्मिन् राशौ यावत्सङ्ख्ये नवांशे व्यवस्थितः स्यात्तन्नवांशसङ्ख्या तुल्याः सुता वाच्या इति । केन्द्र इति । कामपतिः = सप्तमभावेशः, केन्द्रे गतश्चेत् तदा विपुलं कल्याण- कालोत्सवं करोति इति ॥ ५४ ॥ पारिजाते सुधा टीका कपिलेश्वररञ्जिता । अध्याये षोडशे चास्मिन् पूर्तिं स्त्रीजातके गता ॥ १८ ॥ पुरुषके जातकमें दिशा, देश, स्थिति, धर्म, कर्म, इत्यादि जो शुभाशुभ, गुण हैं, वे ही स्त्री जातकमें स्त्रियोंको कहने चाहियें। एवं स्त्री-जातकमें स्त्रीके स्वामीको कहने चाहिये। सप्तमभावके नवांशमें जितने ग्रह हों उनमें सबसे बली ग्रहके नवांशके तुल्य पुत्र कहे। यदि सप्तमेश केन्द्रमें हो तो बड़ा कल्याण समय प्राप्त कराता है ॥ ५४ ॥ इति जातकपारिजाते षोडशे स्त्रीजातकाध्याये ‘विमला’ हिन्दी टीका समाप्ता ॥ १६ ॥
अथ कालचक्रदशाध्यायः ॥ १७ ॥ प्रणम्य परमात्मानं शिवं परमकारणम् । खेचरं चक्रमध्यस्थं चतुःषष्टिकलात्मकम् ॥ १ ॥ पप्रच्छ देवदेवेशमीश्वरं सर्वमङ्गला । कालचक्रगतिं सर्वां विस्तराद्वद मे प्रभो ॥ २ ॥ अथाधुना कालचक्रदशाध्यायो व्याख्यायते । तत्र प्रथमं कालचक्रगतिविषये भगवत्याः शङ्करं प्रति प्रश्नः—'प्रणम्येति श्लोकयुगलेन' सरलार्थेन ॥ १-२ ॥ परम कारण परमात्मा खेचर ग्रह-चक्र मध्यस्थ चौसठ कला वाले उस देवदेवेश ईश्वर श्री शिवजीको भगवती श्री सर्वमङ्गला (गौरी) देखकर प्रणाम कर बोली-हे प्रभो ! मुझे समस्त कालचक्र गतिको विस्तारसे कहिये ॥ १-२ ॥ ईश्वर उवाच । अहमादित्यरूपोऽस्मि चन्द्रमास्त्वं प्रचक्षसे । संयोगेन वियोगेन जगत्स्थावरजङ्गमम् ॥ ३ ॥ भगवत्याः पूर्वोक्तं (कालचक्रविषयकं) प्रश्नं निशम्य तदुत्तरमाह महादेवः—अहमिति । अहं किल सर्वेषामात्मा, आदित्यरूपः = सूर्य इवास्मि । 'सूर्य आत्मा जगतस्तस्थुषश्च' इति श्रुतौ गीतत्वात् । त्वं चेश्वरी चन्द्रमाः प्रचक्षसे, सर्वेषां मनस्त्वात् । 'चन्द्रमा मनसो जातः' इति तथा "आत्मा रविः शीतकरस्तु चेतः" इति ज्योतिषे च बहुधाऽभिहितत्वात् । अत एवात्म-मनसोः संयोगेन वियोगेन स्थावरजङ्गमं = चराचरं, जगत् प्रकटीभवति, तिरोभवति चेति । इदमुक्तं भवति । सूर्याचन्द्रमसावेव दशायां कारणत्वेन गृह्येते । ताभ्यामेव नक्षत्रस्य कालस्य चावगमनात् ॥ ३ ॥ श्री शङ्करजी बोले—मैं सूर्य स्वरूप हूं, तू प्रत्यक्ष चन्द्रमा हो, हमारे तुम्हारे संयोग वियोगसे ही समस्त चराचर संसारकी सृष्टि और लय होते हैं ॥ ३ ॥ पञ्च प्राचीरालिखेद्भागसङ्ख्यास्तिर्यग्रेखा वर्जितान्तश्चतुष्काः ॥ प्रागादीशा द्वादश व्योमवासा ज्योतिश्चक्रस्वामिनस्तूत्तराद्याः ॥ ४ ॥ धराजशुक्रज्ञशशीनसौम्यसितारजीवार्कजमन्दजीवः । क्रमेण मेषादिकरा शिनाथास्तद्दशापाश्चेति वदन्ति सन्तः ॥ ५ ॥ भूतैकविंशाद्रिरयो नवदिक् षोडशाब्धयः । सूर्यादीनां क्रमादब्दा राशीनां स्वामिनो वशात् ॥ ६ ॥ आश्वीपुनर्वसू हस्तमूलप्रोष्ठपदादिषु । अंशकान् गणयेन्मेषात्प्रादक्षिण्यक्रमं वदेत् ॥ ७ ॥ रोहिणीमघवैशाखवैष्णवादिषु भेषु च । अंशकान् वृश्चिकादीनां गणयेदपसव्यतः ॥ ८ ॥ दक्षिणाभिकनक्षत्रं द्वादशांशकराशिषु । चक्रं प्रदक्षिणीकृत्य मीनान्ते विन्यसेत्पुनः ॥ ९ ॥ उत्तरात्रयनक्षत्रं वृश्चिकाद्यप्रदक्षिणम् । कृत्वा चापान्तकेऽन्यस्मिन् ज्ञातव्ये दक्षिणोत्तरे ॥ १० ॥ सव्यापसव्यमार्गेण चाश्विन्यादि त्रिकं त्रिकम् । देहादि गणयेत्सव्ये वामे जीवादि गण्यते ॥ ११ ॥
मेषगोयमकुलीरमन्दिरेष्वंशकेषु परमायुरुच्यते । ज्ञानकं मदगजास्तदा क्रमात्तत्र कोणभवनेषु तद्वदेत् ॥ १२ ॥ एवमायुः परिज्ञानं देहजीवौ प्रकल्प्य च । सव्ये तु प्रथमांशस्तु देह इत्यभिधीयते ॥ १३ ॥ जीवः सर्वेष्वन्त्यपादौ विलोममपसव्यके । इदानीं कालचक्रक्रममाह—पद्म प्राचीति । तत्र चक्रलेखनप्रकारो हि चक्रदर्शनेन स्फुट- स्यात् । कालचक्रे सूर्यादीनां दशावर्षाणि क्रमेण भूतादयः सन्ति । अर्थात् सूर्यस्य = ५ व० । चन्द्रस्य = २१ व० । मं० = ७ व० । बु० = ९ व० । गुरोः = १० व० । शु० = १६ व० । शनेः = ४ वर्षाणि । एतानि किल वर्षाणि प्रतिराशि खण्डनवके राशीनां ( 'पौर- ज्ञावो मातासहोधी' इत्यादि वक्ष्यमाणसव्यापसव्योपगतानां ) स्वामिनां वशतो ज्ञेयानि । सव्यचक्रवाक्यानि— [L1