कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
१३६ सटीक कामसूत्रे [ २ अधिकरणे,
शंसते, स्थिरलिङ्गश्चेति । जातरागत्वात्स्तब्धलिङ्गः, तस्यां च जात-रागायां सिद्धं कार्यं, न चेद्वाह—तत्र तत्रेति । कक्षोरुस्तनादिष्वेनां नायिकां रागजननार्थं हस्तेन, परिस्पृशेदिति । एतदसकृन्नायकेन संगता-यामतिविश्रब्धायामुक्तं, यदि प्रथमसंगता तदाऽस्या नीवीशंसनस्प-र्शनं नास्त्येव, लज्जया संहतयोश्चोर्वोरन्तरे च संधौ हस्तेन घट्टनं चल-नं, यथा विवृतौ स्यातां, कन्यायाश्चेति । कन्याविश्रम्भणेन विश्र-ब्धाया अप्यस्या लज्जया संहतयोरन्तरे घट्टनं नीवीशंसनं स्पर्शनं च, अस्या अधिकमाह—स्तनयोः संहतयोर्भुजमय्या सूच्या हस्तयोः पर-स्पराश्लिष्टयोः प्रत्येकं वा बद्धमुष्टयोः, कक्षयोः प्रत्येकं कृतसंकोचयोः, अंसयोर्हस्तयोजनाद् ग्रीवाबाहुशिखरयोजनाद्वा संहतयोः, ग्रीवायां ह-स्तपाशसंश्लेषात्संहतायां, घट्टनमित्येव, स्वैरिण्यामिति । या नायिका रूढविश्रम्भत्वात्सुरते निस्त्रपं यथेष्टचारिणी सा स्वैरिणी=अभियोक्त्रीत्य-र्थः, तस्याः, यथासात्म्यं यथायोगं चेति । यद्येन सात्म्यं यच्च यत्र युज्य-ते तत्तस्य स्पर्शनमित्यर्थः, चुम्बनार्थमेनामिति । कृतक्षान्तिं पूर्वोक्तां स्वै-रिणीं वाऽङ्के निर्दयमवलम्बेत, हस्तेन दृढं गृह्णीयाद्, यथा तद्वदनमाकृष्य चुम्बेत, हनुदेशे वाऽङ्गुलिसम्पुटेन तर्जन्यङ्गुष्ठकल्पितेन चुम्बनार्थन्निर्द-यमवलम्बेतेत्येव, तत्रेत्यवलम्बने, इतरस्या इति । नायिकायाः, विधिमा-ह—या प्रथमसंगता कन्या च तस्या व्रीडा लज्जा निमीलनं चाक्ष्णोः स्याद्, न तदतिविश्रब्धायाः स्वैरिण्याश्चेत्येवं नीवीविस्रंसनस्पर्शनघट्टनावलम्बनैश्चतुर्भिर्बाह्यैरुपसृप्तैः शयनस्थां विश्वास्य सांप्रयोगिकांश्चुम्बनादीन्प्रयुञ्जीत ॥ ५ ॥
आभ्यन्तराण्यभिधातुमाह—
रतिसंयोगे चैषा कथमनुरज्यत इति प्रवृत्त्या परीक्षेत ॥ ६ ॥
रतिसंयोगे चेति । रत्यर्थे यन्त्रसंयोगे सत्येनामिति, बाह्यैरुपसृप्तां प्रवृत्त्या चेष्टया परीक्ष्य यथा कथं चिदाभ्यन्तरैरुपसर्पेदित्यर्थः ॥ ६ ॥
तत्र प्रवृत्तिमाह—
युक्तयन्त्रेणोपसृप्यमाणा यतो दृष्टिमावर्तयेत्तत एवैनां पीडयेदेतद्रहस्यं युवतीनामिति सुवर्णनाभः ॥ ७ ॥
युक्तयन्त्रेनेति । यत इति । यत्र संबाधस्यान्तरं भागं लक्षीकृत्य साधनेनोपसृप्यमाणा तत्स्पर्शसुखाद्, दृष्टिमावर्तयेद्=दृष्टिमण्डल भ्रमयेत, तत एवेति । तामाश्रित्य पीडयेत्, तस्मिन्नेव साधनेनात्यर्थमुपसर्पेत्,
८ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १३७
तत्र हि पीडनाद् द्रुतं रतिमधिगच्छति, एतद्रहस्यं स्त्रीभिरप्रकाश्या- त्वात्, तथा हि रतिप्राप्त्यर्थमन्यैः प्रकारान्तरमुक्तं शास्त्रकृतः सुवर्णना- भमतमभिमतमप्रतिषिद्धत्वाद्, अत्र च रतिवर्धनमेको बहव इति केषां- चित्प्रदेशविवादः, तत्रोपसृप्यमाणा यस्मिन्नेकस्मिन्म्रियते वा देशे स्पृष्टा दृष्टिमावर्तयेत्तस्मिन्नेव पीडयेदित्येकः प्रकारः, बहुषु वा यस्मिन् य- स्मिन्नुपसृप्यमाणा दृष्टिमावर्तयेत्तस्मिंस्तस्मिन्नेव पीडयेदिति द्वितीयः, तत्रापि यस्मिन्नत्यर्थं दृष्टिमावर्तयेत्तस्मिन्नत्यर्थमेव पीडयेदिति बोद्ध- व्यम्, एतेन नाडीप्रदेशा अप्यन्यतन्त्रोक्ता व्याख्याताः, तेषामनेनैव प्र- कारेण जायमानत्वात् ॥ ७ ॥
उपसृप्यमाणाया भावस्य तिस्रोऽवस्थाः—प्राप्तः, प्रत्यासन्नः, संधु- क्ष्यमाणश्चेति त्रयाणां लक्षणमाह—
गात्राणां संसनं नेत्रनिमीलनं व्रीडानाशः समधिका च रति-
योजनेति स्त्रीणां भावल्लक्षणम् ॥ ८ ॥
तत्र गात्रावसादो नेत्रनिमीलनं च प्राप्तस्य लिङ्गं, व्रीडानाशो ल- ज्जानिवृत्तिः, रतियोजनेति। रत्यर्थे योजना यन्त्रयोजनेत्यर्थः, सा स्वजघन- स्य नायकजघनेनात्यन्तलग्नात्, समधिकेति, प्रत्यासन्नभावलक्षणमिति, प्राप्तप्रत्यासन्नस्येत्यर्थः ॥ ८ ॥
संधुक्ष्यमाणस्याह—
हस्तौ विधुनोति स्विद्यति दशत्युत्थातुं न ददाति पादेनाह-
न्ति रतावसाने च पुरुषातिवर्तिनी ॥ ९ ॥
हस्ताविति । विधुनोति कम्पयति, उत्थातुं न ददाति यन्त्रयोगात्, पुरुषातिवर्तिनीति । पुरुषस्य रतिप्राप्तौ तमतिक्रम्य; स्वजघनव्यापारेण वर्तत इत्यर्थः ॥ ९ ॥
तस्याः प्राग्यन्त्रयोगात्करेण संबाधं गज इव क्षोभयेदामृदुभा-
वात् ततो यन्त्रयोजनम् ॥ १० ॥
तस्याश्चेष्टितमीदृशं बुद्ध्वा यन्त्रयोगात्प्राग् न तु स्वयं रतमधि- गम्य; पश्चात्तदानीमस्या रतं विच्छिन्नरसं स्यात्, सम्बाधो भागतश्चतु- र्विधः, यथोक्तम्—
‘अन्तः पद्मदलस्पर्शं गुटिकावच्च योषितः ।
वलिभं च वराङ्गं स्याद्गोजिह्वाकर्कशं तथा’ इति ॥
तत्राद्यं त्यक्त्वा शेषं कण्डूतिबहुलत्वात्करेण क्षोभयेद्, आमृदु- भावादिति। यावन्मृदुतां गतं, ततो यन्त्रयोजनम्, मृदुभूते हि तस्मि-
१८ का० सू०
१३८ सटीके कामसूत्रे [ २ अधिकरणे,
न्युपसृप्यमाणा द्रुतं रतिमधिगच्छति, गज इवेति। करौपम्यार्थं, गजाकारेणेत्यर्थः, तथा चोक्तम्—
'अनामिकाप्रदेशिन्यौ श्लिष्टाग्रे ज्येष्ठया सह।
गजहस्ताग्रसादृश्यात्तत्संज्ञं कृत्रिमं स्मृतम्' इति ॥
एवं च करग्रहणं कृत्रिमसाधनोपलक्षणार्थं, तेन कृत्रिमेणाभ्यन्तरान्युपसृप्तानि द्रष्टव्यानि ॥ १० ॥
तान्याह—
उपसृप्तकं मन्थनं हुलोऽवमर्दनं पीडितकं निर्घातो वराहघातो-वृषाघातश्चटकविलसितं संपुट इति पुरुषोपसृप्तानि ॥ ११ ॥
लिङ्गेन सम्बाधस्य मिश्रणात्सर्वमेवोपसृप्तकम् ॥ ११ ॥
न्याय्यमृजु संमिश्रणमुपसृप्तकम् ॥ १२ ॥
तत्र यदृजु प्रगुणं न्याय्यमागौपालाङ्गनाप्रसिद्धं मिश्रणं तद्, उपसृप्तकमिति। तत्र कन्प्रत्ययेन विशेषसंज्ञां दर्शयति ॥ १२ ॥
हस्तेन लिङ्गं सर्वतो भ्रमयेदिति मन्थनम् ॥ १३ ॥
हस्तेन लिङ्गं गृहीत्वा सम्बाधाभ्यन्तरे सर्वतो मथन्निव भ्रमयेत् ॥ १३ ॥
नीचीकृत्य जघनमुपरिष्टाद्घट्टयेदिति हुलः ॥ १४ ॥
नीचीकृत्य जघनामिति। स्वकटिमधः कृत्वा, उपरिष्टादिति। अभ्यन्तरस्योर्ध्वभागे भगं बहुलेनैव लिङ्गेनावघट्टयेत् ॥ १४ ॥
तदेव विपरीतं सरभसमवमर्दनम् ॥ १५ ॥
तदेवेति। घट्टनं, विपरीतमुच्चीकृत्य जघनमधस्तादिति, विशेषश्चापरो यः, सरभसमिति। रभसेन मृद्नीयादित्यर्थः, अधोभागस्य कण्डूतिबहुलत्वात् ॥ १५ ॥
लिङ्गेन समाहत्य पीडयंश्चिरमवतिष्ठेतेति पीडितकम् ॥ १६ ॥
लिङ्गेनेति। वेगादामूलं प्रवेश्यमानेन समाहत्य पीडयन्भगमवतिष्ठेत, चिरमिति। यावन्तं कालं लिङ्गोन्नमनावनमनानि कर्तुं समर्थः ॥ १६ ॥
सुदूरमुत्कृष्य वेगेन स्वजघनमवपातयेदिति निर्घातः ॥ १७ ॥
सुदूरमिति। प्रवेशितं लिङ्गमाबन्धमाकृष्य वेगेन जघन एव निर्घातवत्क्षिपेत् ॥ १७ ॥
एकत एव भूयिष्ठमवलिखेदिति वराहघातः ॥ १८ ॥
८ अध्याये ] पुरुषायितप्रकरणम्। १३५
एकत एवेति । एकस्मिन्नेव पार्श्वे भूयिष्ठं बहून्वारान् वराहवद्दंष्ट्रयाऽवलिखेत् ॥ १८ ॥
स एवोभयतः पर्यायेण वृषाघातः ॥ १९ ॥
स एवेति । वराहस्य घातः, उभयत इति । उभयपार्श्वयोः परिपाट्या वृषभवच्छृङ्गाभ्यामवलिखेत् ॥ १९ ॥
सकृन्मिश्रितमनिष्क्रमय्य द्वित्रिश्चतुरिति घट्टयेदिति चटकविलसितं रागावसानिकम् ॥ २० ॥
सकृन्मिश्रितमिति । एकवारं प्रवेशितं लिङ्गमनिष्क्रमय्यानिष्कास्य बहिरभ्यन्तरमेव किं चिदाकृष्याकृष्य चटकवत्तत्र लिङ्गं संघट्टयेद्, द्वित्रिर्वा प्रघर्षणं, चतुरिति । रागावसानिकमेतद्, विसृष्ट्यवस्थायामेवंस्वभावत्वात् ॥ २० ॥
व्याख्यातं करणं संपुटमिति ॥ २१ ॥
व्याख्यातमिति । करणं संपुटं, तच्च व्याख्यातम्—‘ऋजुप्रसारितावुभयोश्चरणौ’ इति तत्र लिङ्गमनिष्क्रमय्य जघनेन जघनमवगृह्य यत्संमिश्रणं तदपि संपुटमित्युक्तम् ॥ २१ ॥
तेषां स्त्रीसात्म्याद्विकल्पेन प्रयोगः ॥ २२ ॥
तेषामिति । उपसृप्तकादीनां, स्त्रीसात्म्यादिति । येन यस्याः सात्म्यं तेन तस्यां प्रयोगः, विकल्पेन मृदुमध्यातिमात्रभेदेन, तत्र पुरुषोपसृप्तेषु यद्बाह्यं नीवीविश्लेषणादिकं तद् द्वितीये मार्गे नायककक्षाबन्धविश्लेषणादिबाह्यं पुरुषायितं, यच्चाभ्यन्तरमुपसृप्तं तन्मार्गद्वयेऽप्याभ्यन्तरं पुरुषायितं द्रष्टव्यम् ॥ २२ ॥
पुरुषोपसृप्तं प्रकरणमुक्त्वा विशेषाभिधित्सया पुनः पुरुषायितमाह—
पुरुषायिते तु संदंशो भ्रमरकः प्रेङ्खोलितमित्यधिकानि ॥२३॥
पुरुषायिते त्विति । आभ्यन्तरे पुरुषायिते प्रवर्तमानायास्त्रीण्यधिकानि ॥ २३ ॥
वाडवेन लिङ्गमवगृह्य निष्कर्षन्त्या पीडयन्त्या वा चिराय स्थानं संदंशः ॥ २४ ॥
बाडवेनेति । वशद्यौष्ठसंदंशेन लिङ्गमवगृह्य, निष्कर्षन्त्या अन्तः समाकर्षन्त्याः स्थानमवस्थितिः ॥ २४ ॥
युक्तयन्त्रा चक्रवद् भ्रमेदिति भ्रमरक आभ्यासिकः ॥ २५ ॥
१४० सटीके कामसूत्रे [ २ अधिकरणे,
युक्तयन्त्रेति । भगप्रवेशितलिङ्गा कुलालचक्रवत्कुञ्चितचरणा नायकाङ्गे हस्ताभ्यां शरीरावष्टम्भं कृत्वा भ्रमेद्, अयमभ्यासाद्भवति ॥ २५ ॥
तत्रैतरः स्वजघनमुत्क्षिपेत् ॥ २६ ॥
तत्रेति । भ्रमरके, इतरो नायको यन्त्राविश्लेषार्थं भ्रमरसौकर्यार्थं च स्वजघनमूर्ध्वं क्षिपेत् ॥ २६ ॥
जघनमेव दोलायमानं सर्वतो भ्रमयेदिति प्रेङ्खोलितम् ॥ २७ ॥
दोलायमानमिति। पृष्ठतो नीत्वाऽग्रतो नयेद्, एकं पार्श्वं नीत्वा द्वितीयमित्येवं, तत्प्रेङ्खोलितकम्, मण्डलेन तु भ्रमितं मन्थनान्तर्भूतं, तेषां पुरुषसाम्याद्विकल्पेन च प्रयोग इत्यत्रापि योज्यम् ॥ २७ ॥
युक्तयन्त्रैव ललाटे ललाटं निधाय विश्राम्येत् ॥ २८ ॥
युक्तयन्त्रैव विश्राम्येद् न विश्लिष्टयन्त्रा रागस्यानुपशान्तत्वाद्, ललाटे ललाटं निधायेति । श्रमापनयनकारणम् ॥ २८ ॥
विश्रान्तायां च पुरुषस्य पुनरावर्तनमिति पुरुषायितानि ॥ २९ ॥
पुनरावर्तनं=पुनरुपरि गमनमित्यर्थः, रत्यधिगमात्तु परिश्रान्तायां पुनरावर्तनमित्यर्थोक्तं, यथा रतपरिश्रान्तेन साहायकार्थं पुरुषायितेऽनुमन्यते, तथा तत्स्वभावप्रतिपत्त्यर्थमिति ॥ २९ ॥
तत्र नियोज्येति दर्शयन्नाह—
भवन्ति चात्र श्लोकाः—
प्रच्छादितस्वभावाऽपि गूढाकाराऽपि कामिनी ।
विवृणोत्येव भावं स्वं रागादुपरिवर्तिनी ॥ ३० ॥
प्रच्छादितस्वभावाऽपीति । लज्जया प्रच्छादितोऽभिप्रायो यया, कथमित्याह—गूढाकारेति । अभिप्रायसूचकस्याकारस्य गोपितत्वात्, साऽप्युपरिवर्तिनी कामिनी कामयमाना स्वभावमात्मीयमभिप्रायं रागात्प्रकाशयति न गूहितं शक्नोत्यतो नियोज्या ॥ ३० ॥
तदेव स्फुटयन्नाह—
यथाशीला भवेन्नारी यथा च रतिलालसा ।
तस्या एव विचेष्टाभिस्तत्सर्वमुपलक्षयेत् ॥ ३१ ॥
यथाशीलेति । यादृशः स्वभावो यस्याः, यथा च रतिलालसा, येन प्रकारेण रतौ जाततृष्णा, तस्या उपरिवर्तिन्या विचेष्टाभिस्तत्प्रकाराभिः, तत्सर्वमिति । शीलं रतिप्रकारं च सर्वमुपलक्षयेद्, येनोत्तरकाले तथैव सुरते समुपक्रमेत ॥ ३१ ॥
पुरुषायितं सप्तदशं प्रकरणम् ।
९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४१
तत्रापवादमाह—
न त्वेवर्त्तौ न प्रसूतां न मृगीं न च गर्भिणीम् ।
न चातिव्यायतां नारीं योजयेत्पुरुषायिते ॥ ३२ ॥
इति श्रीवात्स्यायनीये कामसूत्रे सांप्रयोगिके द्वितीयेऽधिकरणे
पुरुषोपसृप्तानि पुरुषायितं चाष्टमोऽध्यायः ॥
आदितस्त्रयोदशः ।
न त्वेवेति । ऋतौ न योजयेद्, गर्भाग्रहणभयात्, पुनरावर्तने च गर्भग्रहणाद्दारकदारिके व्यस्तशीले स्यातां, न प्रसूतामचिरप्रसूताम् प्रदरकटिनिर्गमभयाद्, न मृगीं वृषाश्वयोरवपाटिकाभयाद्, न गर्भिणीं गर्भस्रावभयाद्, नातिव्यायतामतिस्थूलां व्यापारयितुमशक्यत्वात् ॥ ३२ ॥
पुरुषायितं सप्तदशं प्रकरणम् ।
तदन्तर्गतानि पुरुषोपसृप्तान्यष्टादशं प्रकरणम् ॥
इति श्रीवात्स्यानीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां सांप्रयोगिके द्वितीयेऽधिकरणे पुरुषायितं पुरुषोपसृप्तानि चाष्टमोऽध्यायः ।
नवमोऽध्यायः ॥
आलिङ्गनादिपुरुषायितान्तं चतसृषु नायिकासूक्तं, 'तृतीयाप्रकृतिः पञ्चमीत्येके' इत्युक्तं, तद्विषयमौपरिष्टकमुच्यते द्विविधेत्यादिना—
द्विविधा तृतीयाप्रकृतिः स्त्रीरूपिणी पुरुषरूपिणी च ॥ १ ॥
तृतीयाप्रकृतिः = नपुंसकं, स्त्रीरूपिणी = स्त्रीसंस्थाना स्तनादियोगात्, पुरुषसंस्थाना श्मश्रुलोमादियोगाद्, यद्वृत्तिमाश्रित्यौपरिष्टकमनयोस्तदुच्यते ॥ १ ॥
तत्र पूर्वमधिकृत्याह—
तत्र स्त्रीरूपिणी स्त्रिया वेषमालापं लीलां भावं मृदुत्वं भीरुत्वं मुग्धतामसहिष्णुतां व्रीडां चानुकुर्वीत ॥ २ ॥
तत्रेति । तयोः सम्यक्स्त्रीत्वख्यापनार्थं तावत्स्त्रीधर्मानुकरणं, तत्र वेषः केशपरिधानादिविन्यासेन, आलापं = काकल्यनुगतं, लीलां = मन्थरादिगमनम्, भावं = हासादिकम्, मृदुत्वम् = अकार्कश्यम्, भीरुत्वं = भयशीलताम्, मुग्धताम् = ऋजुताम्, असहिष्णुतां = प्रहणनवातातपाद्यक्षमताम्, व्रीडां = लज्जाम्, अनुकुर्वीत ॥ २ ॥
१४२ सटीक कामसूत्रे [ २ अधिकरणे,
तस्या वदने जघनकर्म तदौपरिष्टकमाचक्षते ॥ ३ ॥
तस्या इति । स्त्रीधर्माननुकुर्वन्त्याः, वदने=मुखे, जघनकर्मेति । स्वरू- पारूढानं, भगे लिङ्गेन यत्कर्म तन्मुखे क्रियमाणमौपरिष्टकम्, आचक्ष- त इति । पूर्वाचार्यकृतेयं संज्ञा, उपरिष्टान्मुखे भवतीत्यण्- 'अव्ययानां- भमात्रे टिलोपः' पश्चात् 'संज्ञायां कन्', 'अमेहकतसिन्नेभ्य एव' इति परिगणनाद्यत्र भवति ॥ ३ ॥
फलमाह—
सा ततो रतिमाभिमानिकीं वृत्तिं च लिप्सैद् वेश्यावच्चरितं- प्रकाशयेदिति स्त्रीरूपिणी ॥ ४ ॥
सा तत इति । औपरिष्टकाद्रतिं प्रीतिमाभिमानिकीं प्रागुक्तलक्ष- णाम्, वृत्तिं=जीविकाम् भाटीलाभाद्, चरितमिति । वेश्याया वृत्तं वै- शिके वक्ष्यति, तद्वेश्येव प्रकाशयन्ती गम्यैरभिगम्यमाना रतिं वृत्तिं च प्राप्नोति ॥ ४ ॥
द्वितीयामधिकृत्याह—
पुरुषरूपिणी तु प्रच्छन्नकामा पुरुषं लिप्समाना संवाहकभा- वमुपजीवेत् ॥ ५ ॥
तुशब्दो विशेषणार्थः, रतिरौपरिष्टकं च तुल्यं; वृत्तं तु पृथगिति यदाह-प्रच्छन्नकामेति । आभिमानिकी प्रीतिः कामः, स प्रच्छन्नो यस्याः सा पुरुषरूपिणीत्वात्पुरुषेण सहसा न सम्प्रयुज्यत इति लब्धुमिच्छन्ती, संवाहकभावमुपजीवेदिति । लोकेऽङ्गमर्दनकर्मणा जीवेदित्यर्थः ॥ ५ ॥
एवमपि विश्वासाभावात्कथं रतिरिति विश्वासनाथर्माह—
संवाहने परिष्वजमानेव गात्रैरूरू नायकस्य मृद्नीयात्, प्र- सृतपरिचया चोरूमूलं सजघनमभिसंस्पृशेत् ॥ ६ ॥
संवाहने संविष्टस्य नायकस्योरू स्वगात्रैरुपवृत्तपरिचयत्वादुपगूह- मानेव मृद्नीयाद्, एवं मृदन्ती प्रसृतपरिचया चेदूरूमूलमपि संस्पृशेत्, सजघनमिवि । लिङ्गस्थानं त्यक्त्वा सह जघनस्य स्तोकेन भागेनो- रूमूलमित्यर्थः ॥ ६ ॥
तत्र स्थिरलिङ्गतामुपलभ्य चास्य पाणिमन्थेन परिघट्टयेत् चापलमन्य कुत्सयन्तीव हसेत् ॥ ७ ॥
स्थिरलिङ्गतामिति । सजघनभागोरूमूलसंस्पर्शात्स्तब्धलिङ्गताम्, पाणिमन्थेनेति । आगोपालादिप्रतीतेन लिङ्गं घट्टयेद्, न यथा कथञ्चित्,
९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४३
९ अध्याये ] पुरुषोपसृप्तप्रकरणम् । १४३
चापलं कुत्सयन्तीवेति । ईदृशस्त्वं चपलो यदूरुस्पर्शमात्रेण स्तब्धलिङ्गोऽसीति निन्दयन्ती स्वाभिप्रायख्यापनार्थं हसेन्न तु रुष्यात् ॥ ७ ॥
कृतलक्षणेनाप्युपलब्धवैकृतेनापि न चोद्यत इति चेत् ? स्वयमुपक्रमेत पुरुषेण च चोद्यमाना विवदेत कृच्छ्रेण चाभ्युपगच्छेत् ॥८॥
कृतलक्षणेनापीति । स्तब्धलिङ्गत्वं रागस्य लक्षणं तत्कृतं यस्य नायकस्य, उपलब्धवैकृतेनेति । ज्ञातमुखचापलेन यदि न चोद्यते कुरु मुखचापलमिति, तदा तस्मिन्स्वयमेव विना चोदनयोपक्रमेत, पुरुषेण तूपलब्धवैकृतेनानुपलब्धवैकृतेन वा चोद्यमाना नाहमेवंविधकर्मेति सहसाऽङ्गीकारप्रतिषेधार्थं विवदेत, तदेव स्फुटयति—कृच्छ्रेण चेति । स्त्रीरूपिणी तु प्रकटकामत्वाच्चोदिताऽप्यादित एवोपक्रमेत ॥ ८ ॥
तस्य क्रियाभेदाद् भेदमाह—
तत्र कर्माष्टविधं समुच्चयप्रयोज्यं निमितं पार्श्वतो दष्टं बहिःसन्दंशोऽन्तःसन्दंशश्चुम्बितकं परिमृष्टकमाम्म्रचूषितकं सङ्गर इति ॥९॥
तत्रेति । औपरिष्टके, समुच्चयप्रयोज्यमिति । क्रमेण सर्वं समुच्चयेन योज्यमित्यर्थः ॥ ९ ॥
तत्रापि नात्माभिप्रायेणेत्याह—
तेष्वेकैकमभ्युपगम्य विरामाभीप्सां दर्शयेत् ॥ १० ॥
तेष्विति । निमितादिषु, एकैकं प्रथमात्प्रभृत्यभ्युपगम्य कृत्वा; परित्यागेच्छां दर्शयेत्, कौतुकजननार्थमभ्यर्थनयाऽपरं प्रयोक्ष्यामीति ॥ १०॥
नायकेऽस्मिन्नभ्युपगते किं प्रतिपद्यत इत्याह—
इतरश्च पूर्वस्मिन्नभ्युपगते तदुत्तरमेवापरं निर्दिशेत् तस्मिन्नपि सिद्धे तदुत्तरमिति ॥ ११ ॥
इतरश्चेति । नायकः, पूर्वस्मिन्निति । निमिते, तदुत्तरमिति । तस्मान्निमितादन्तरं पार्श्वतो दष्टं, निर्दिशेदिदं च कुर्विति, तस्मिन्नपि पार्श्वतो दष्टे क्रियया सिद्धे तदुत्तरं बहिःसन्दंशमिति, अनेन क्रमेण सर्वं समुच्चयेन निर्दिशेत्, स्वरागपरिसमाप्त्यर्थं, तस्माच्चाभिमानिकसुखजननार्थं नायिकाऽपि तथैव प्रयुञ्जीतेत्ययं चोदनायां विधिः, स्वयमुपक्रमे तु स्वाभिप्रायेणैव समुच्चयप्रयोज्यम् ॥ ११ ॥
तत्कर्म द्विविधम्—बाह्यमाभ्यन्तरं च, तत्र बाह्यमाह—
करावलम्बितमोष्ठयोरुपरि विन्यस्तमपविध्य मुखं विधुनुयात् तन्निमितम् ॥ १२ ॥
१५४ सटीके कामसूत्रे [२ अधिकरणे,
करावम्बितमिति। अवनमनवारणार्थं करेण गृहीतम्, ओष्ठयोरुपरि विन्यस्तमग्रभागेनापविध्योष्ठेन वर्तुलकृतेनावष्टभ्य; मुखं स्वं विधुनुयात्कम्पयेद्, ओष्ठयोरुपरि विन्यस्तत्वाच्चिम्मितम् ॥ १२ ॥
हस्तेनाग्रमवच्छाद्य पार्श्वतो निर्दशनमोष्ठाभ्यामवपीड्य भवत्वेतावदिति सान्त्वयेत् तत्पार्श्वतो दष्टम् ॥ १३ ॥
हस्तेनावच्छाद्य मुष्टिग्रहणेन, ततः पार्श्वतो लिङ्गमॊष्ठाभ्यामवपीड्य, निर्दशनमिति। क्रियाविशेषं, दन्तवर्जमित्यर्थः, दन्तैस्तु ग्रहणमस्ति, यदाह—भवत्वेतावदिति । एतावदेवास्तु यद् ग्रहणं, नापरं खण्डनमिति सान्त्वयेत् ॥ १३ ॥
भूयश्चोदिता संमीलितौष्ठी तस्याग्रं निष्पीड्य कर्षयन्तीव मुञ्चेदिति बहिःसन्दंशः ॥ १४ ॥
भूयश्चोदितेति। पार्श्वतो दष्टे सञ्चोदिता पुनरन्यत्र चोदिता, स्वयमुपक्रमे त्वचोदितैव संमीलितौष्ठी लिङ्गस्याग्रमन्तः प्रवेश्य; मीलितावोष्ठौ यया सा, ताभ्यामेव निष्पीड्य कर्षयन्तीव मुञ्चेदिति । ओष्ठाभ्यामेवास्य कर्षणं कुर्वाणेव त्यजेदित्यर्थः, बहिःसन्दंशश्चभ्र्मणो बहिःसन्दंशनात् ॥ १४ ॥
आभ्यन्तरमाह—
तस्मिन्नेवाभ्यर्थनया किञ्चिदधिकं प्रवेशयेत् साऽपि चाग्रमोष्ठाभ्यां निष्पीड्य निष्ठीवेदित्यन्तःसन्दंशः ॥ १५ ॥
तस्मिन्निति। बहिःसन्दंशे क्रियमाणे, अभ्यर्थनया याचनया, किञ्चिदधिकमिति । निष्कास्य ग्रन्थि यावन्नायकः प्रवेशयेदित्ययं चोदनापक्षः, स्वयमुपक्रमे तु किञ्चिदधिकं प्रवेश्याग्रं मणिबन्धमोष्ठाभ्यां निष्पीड्य; निष्ठीवेद्=निरस्येद्, अन्तःसन्दंशो निष्कोशितस्य संदंशनात्॥१५॥
करालम्बितस्यौष्ठवद्ग्रहणं चुम्बितकम् ॥ १६ ॥
ओष्ठवदिति । यथाऽधरोष्ठस्यौष्ठाभ्यां ग्रहणं, तथा निष्कोशितस्येति चुम्बितकं, समग्रग्रहणांख्यम् ॥ १६ ॥
तत्कृत्वा जिह्वाऽग्रेण सर्वतो घट्टनमग्रे च व्यधनमिति परिमृष्टकम् ॥ १७ ॥
तदिति । चुम्बितकं कृत्वा, अन्यथा ह्ययोगाद् जिह्वाऽग्रेणान्तः परिभ्रमता सर्वतो घट्टयेत्स्पृशेद् , अग्रे च व्यधनं स्रोतःस्थाने ताडनं जिह्वाऽग्रेणैव, परिमृष्टकं समन्तात् स्पर्शनात् ॥ १७ ॥
९ अध्याये ] औपरिष्टकप्रकरणम् । १४५
तथाभूतमेव रागवशादर्धप्रविष्टं निर्दयमवपीड्यावपीड्य मुखे- दिश्याग्रचूषितकम् ॥ १८ ॥
तथाभूतमेवेति । निष्कोशितमेव, रागवशादिति । नायकस्य रागा- धिक्यात्, तदर्धप्रविष्टं ग्रन्थमतीत्य प्रविष्टं, निर्दयमत्यन्तम्, अवपीड्या- वपीड्येति । जिह्वौष्ठपुटेन द्वित्रिरवपीड्यावपीड्य मुखेऽभ्यन्तर एव, तदाम्रस्येव चूषितकम् ॥ १८ ॥
पुरुषाभिप्रायादेव गिरेत्पीडयेच्चापरिसमाप्तेरिति संगरः ॥ १९ ॥
पुरुषाभिप्रायादेवेति । पुरुषाभिप्रायमेव बुद्ध्वा; प्रत्यासन्नाऽस्य रतिरिति, गिरेत् पीडयेच्चेति । जिह्नाव्यापारेण पीडयित्वा गिरेद्, ओष्ठव्यापारेण पीडयेद्, आसमाप्तेरिति । शुक्रविसृष्टिं यावत्, सङ्गरः- समन्ताद् गिरणात् ॥ १९ ॥
यथार्थं चात्र स्तननप्रहणनयोः प्रयोग इत्यौपरिष्टकम् ॥२०॥
यथार्थमिति । यथा रागो निमितादिषु मृदुमध्याधिमात्रादिभेदेन स्थितस्तथा स्तननप्रहणनयोः प्रयोगः, आलिङ्गनादीनामत्रासम्भवाद्, इत्यौपरिष्टकमिति। एवं विषयस्वरूपफलवृत्तिप्रकारैरोपरिष्टकमुक्तम्॥२०॥
देशसात्म्यवशाद्विषयेऽप्यस्य वृत्तिरिति दर्शयन्नाह—
कुलटाः स्वैरिण्यः परिचारिकाः संवाहिकाश्चाप्येतत्प्रयोजयन्ति॥२१॥
कुलटा इति । यः स्वकुलादन्यद्देशसदृशमटन्त्यो भ्रष्टशीलास्ताः- कुलटाः, याः सदृशमसदृशं वा कुलमविचार्य, स्वच्छन्दचारिण्यस्ताः- स्वैरिण्यः, या अन्यपूर्वा वा मुक्तप्रग्रहा नायकमुपचरन्ति ताः परिचा- रिकाः, याः संवाहनकर्मणा जीवन्ति ताः संवाहिकाः, एतत्प्रयोजय- न्तीत्यौपरिष्टकं कारयन्ति, न केवलं तृतीया प्रकृतिरित्यपिशब्दार्थः ॥२१॥
तदेतत्तु न कार्यं समयविरोधादसभ्यत्वाच्च पुनरपि ह्यासां वदनसंसर्गे स्वयमेवार्तिं प्रपद्येतेत्याचार्याः ॥ २२ ॥
तदेतत्तु न कार्यमिति । प्रयोज्यमानमपि, समयविरोधादिति । धर्म- शास्त्रे प्रतिषिद्धमेतद्, 'न मुखे मेहेत' इति, असभ्यत्वाच्चेति । सद्भि- र्विगर्हितत्वादसभ्यत्वं, तस्मादसभ्यत्वात्, प्रयोक्तुरप्यसभ्यत्वं दृष्ट एव दोषः, अयं चापर इत्याह—पुनरपि हीति । यदि हि कुलटाऽऽदीनां मुखे जघनकर्म कुर्यात्तदा पुनरपि जघनकर्मकाले रागवशाद्वदनस्य संसर्गे संस्पर्शे सत्यर्तिं प्रतिपद्येत दुःखमधिगच्छेद्, विचलितोऽस्मीति, स्वयमेवेति । न तत्र नायिकाऽपि ॥ २२ ॥
१९ का० सू०
१४६ सटीके कामसूत्रे [ २ अधिकरणे,
वेश्याकामिनोऽयमदोषोऽन्यतोऽपि परिहार्यः स्यादिति वात्स्यायनः ॥ २३ ॥
वेश्याकामिन इति । कुलटाऽऽदयोऽपि वेश्याविशेषाः, तत्कामिनो-नायकस्यादोषोऽयमिति, समयविरोधादित्ययं दोषो न भवतीत्यर्थः; पत्न्यानाने चौपरिष्टकादौ दोषः, ‘न मुखे मेहेत’ इति, यदाह वसिष्ठः—
‘यस्तु पाणिगृहीतायां मुखे मैथुनमाचरेत् । पितरस्तस्य नाश्नन्ति दशवर्षाणि पञ्च च’ ॥ इति,
अन्यतोऽपि परिहार्य इति । असभ्यत्वाद्वदनसंसर्गाच्च, असभ्यत्व-मतिश्चेत्ययं दोषः परिहार्यः, गुप्त्यो वक्त्रसंरक्षणाच्च, कस्य चिद्देशप्र-वृत्तेरदोषत्वादपरिहार्य इत्यपिशब्दात् ॥ २३ ॥
उभयमपि देशप्रवृत्त्या दर्शयन्नाह—
तस्माद्यास्त्वौपरिष्टकमाचरन्ति न ताभिः सह संसृज्यन्ते प्राच्याः ॥ २४ ॥
तस्मादिति । यतश्चैवं तस्मान्न संसृज्यन्त इति संबन्धः, यास्त्वि-ति । या वेश्यास्त्वौपरिष्टकमाचरन्ति मुखे जघनकर्म कुर्वन्ति, न ता-भिः सह संसृज्यन्ते संप्रयुज्यन्ते, मा भूत्तद्वदनसंसर्ग इति, अन्याभिर-दृष्टदोषत्वात्संसृज्यन्त एवेत्यर्थोक्तम्, प्राच्या अङ्गात्पूर्वेण ॥ २४ ॥
वेश्याभिरेव न संसृज्यन्त आहिच्छत्रिकाः संसृष्टा अपि मुखकर्म तासां परिहरन्ति ॥ २५ ॥
आहिच्छत्रिकाः = अहिच्छत्रभवाः, न संसृज्यन्ते, अदृष्टमश्रुतमप्यौप-रिष्टकं तासु संभाव्यत इति, संसृष्टा अपि त एव कथं चिद्रागवशाद्, मुखकर्म चुम्बनम् ॥ २६ ॥
निरपेक्षाः साकेताः संसृज्यन्ते ॥ २६ ॥
साकेताः = आयोध्याकाः, ते निरपेक्षाः, वेश्यानां संप्रयोगे मुखकर्म-णि च शौचाशौचविकल्पाभावात् ॥ २६ ॥
न तु स्वयमौपरिष्टकमाचरन्ति नागरकाः ॥ २७ ॥
नागरकाः = पाटलिपुत्रकाः, संप्रयुज्यन्ते वेश्याभिः न तु स्वयं तासां-मुखे जघनकर्म कुर्वन्ति, मा भूद्वदनसंसर्ग इति, प्रयोजितास्त्वाचरन्ति वदनसंसर्गवर्जम् ॥ २७ ॥
सर्वमविशङ्कया प्रयोजयन्ति सौरसेनाः ॥ २८ ॥
सर्वमिति । संप्रयोगमौपरिष्टकं मुखकर्म च, अविशङ्कयेति । सर्वं शुची-
९ अध्याये ] औपरिष्टकप्रकरणम् । १४७
स्थभिप्रायेणेत्यर्थः, सौरसेनाः कौशाम्ब्या दक्षिणतः कूले ये निवसन्ति ॥२८॥
शङ्कायां हि स्वभार्यास्वप्यनाश्वासतामेव दर्शयन्नाह—
एवं ह्याहुः को हि योषितां शीलं शौचमाचारं चरित्रं प्रत्ययं वचनं वा श्रद्धातुमर्हति, निसर्गादेव हि मलिनदृष्टयो भवन्त्येता न परित्याज्याः, तस्मादासाम् स्मृतित एव शौचमन्वेष्टव्यम् ॥२९॥
एवं ह्याह—
'वत्सः प्रस्स्रवने मेध्यः श्वा मृगग्रहणे शुचिः ।
शकुनिः फलपाते तु स्त्रीमुखं रतिसंगमे ॥ इति ॥
एवं हीति। शीलं = स्वभावं, शौचम् = अशुचिद्रव्यविश्लेषणम्, आचारं = त्रयीकर्मानुष्ठानं, चरित्रं = कुलक्रमा गतां स्थितिं, प्रत्ययं = विश्वासं, वचनं = वलिगतकं, कः श्रद्धातुमर्हति, परमार्थतः प्रत्येतुं नवेत्यर्थः, कुत इत्याह-निसर्गादेवेति । आत्मलाभादेव नान्यस्माद्, मलिनदृष्टयः = मलिनबुद्धयः, यल्लोकशास्त्रविरुद्धमप्याचरन्ति, न च परित्याज्या एवंभूता अपि, पुरुषार्थहेतुत्वात्, तस्माद्व्रतविधौ स्मृतित एव शौचमन्वेष्टव्यं-लोके स्मृतेः प्रामाण्यात्, तां स्मृतिमाह—एवं हीति। आह-स्मृतिकारः, मुखवर्जं गौः सर्वतो मेध्येत्युक्तं, प्रस्नवनकाले तु मुखं शुचि तत्स्पृष्टं-क्षीरमपि, श्वपच्युच्छिष्टं त्यजेदित्युकम्, मृगग्रहणे फलपातकाले च मुखस्य शुचित्वान्मांसं फलं च शुचि, तथा, रतिसङ्गमे = रत्यर्थसङ्गमे, स्त्रीमुखं कृतौपरिष्टकमन्यद्वा मेध्यं, नान्यदा सर्वाशुचिनिधानत्वादिति, अस्मिन्स्मृत्यर्थे सर्वत्र चुम्बनप्रसङ्ग इति ॥ २९ ॥
स्वमतं दर्शयन्नाह—
शिष्टविप्रतिपत्तेः स्मृतिवाक्यस्य च सावकाशत्वाद्देशस्थितेरात्मनश्च वृत्तिप्रत्ययानुरूपं प्रवर्तेतेति वात्स्यायनः ॥ ३० ॥
शिष्टविप्रतिपत्तेरिति । शिष्टानां प्राच्याहिच्छत्रिकनागरकाणां विप्रतिपत्तिर्दृश्यते, यथोक्तम्प्राक् , तस्माद्रतिसङ्गमेऽपि स्त्रीमुखन्न मेध्यं, शिष्टाचारस्य प्रामाण्याद्, यद्येवं विगीता स्मृतिरप्रामाणिका स्याद्, यथोक्तम्—
'विरुद्धा च विगीता च दृष्टार्था दृष्टकारणा ।
स्मृतिर्न श्रुतिमूला स्याद्या चैषा भवनश्रुतिः' इति ।
अत्रोत्तरमाह—सावकाशत्वादिति । पत्नीमेवाधिकृत्यत्युक्तम्—'स्त्रीमुखं रतिसङ्गमे' इति, यद्येवं वेश्यासु चुम्बनविकल्पानर्थक्यमित्यत्र
१४८ सटीक कामसूत्रे [ २ अधिकरणे,
पाक्षिकमभ्यनुज्ञानमाह—देशस्थितेरिति । यो यस्मिन्देश आचारस्तदनुरूपं प्रवर्तेत, देशाचारस्य तत्रत्यानां प्रामाण्याद्, वृत्तिप्रत्ययानुरूपमिति । यथा सौमनस्यं यथा च विश्वासस्तथा प्रवर्तेत न शास्त्रेणैव केवलेनेति ॥ ३० ॥
इदं स्त्रीविषयमसाधारणमौपरिष्टिकमुक्तं स्त्रिया एव कर्तृत्वात्, पुरुषविषयमाह—
भवन्ति चात्र श्लोकाः—
प्रमृष्टकुण्डलाश्चापि युवानः परिचारकाः ।
केषाञ्चिदेव कुर्वन्ति नराणामौपरिष्टकम् ॥ ३१ ॥
प्रमृष्टकुण्डला इति । उज्ज्वले कुण्डले येषामिति, नेपथ्योपलक्षणं गृहीतनेपथ्या इत्यर्थः, युवानः प्राप्तरागत्वात्कर्तुं कुशला नटस्वरूपाः, नान्ये दोषाद् , यथोक्तम्—
'अजातश्मश्रवश्चेटा विश्वास्या मुखकर्मणि :
योज्या गृहीतनेपथ्या नेतरे श्मश्रुदोषतः' इति ।
केषां चिदिति । ये मन्दरागा गतवयसोऽतिव्यायता ये च स्त्रीष्वलब्धवृत्तयः ॥ ३१ ॥
इदमप्यसाधारणम् एकस्यैव कर्तृत्वात्, द्वयोः कर्तृत्वे साधारणं, यदाह—
तथा नागरकाः के चिदन्योन्यस्य हितैषिणः ।
कुर्वन्ति रूढविश्वासाः परस्परपरिग्रहम् ॥ ३२ ॥
तथेति । नागरका ये नागरवृत्तावधिकृताः, के चिदिति । योषाप्रायाः, हितैषिणः, विस्रष्टिसुखकारित्वाद्, रूढविश्वासा मैत्र्या, परस्परपरिग्रहमिति । मम तावत्कुरु पश्चात्तवापि करिष्यामीति, युगपद्वा देहव्यत्यासेन रागात्कालमनपेक्षमाणाविति द्विविधं साधारणं नागरका इत्युपलक्षणं, स्त्रियोऽपि कुर्वन्ति, यथोक्तम्—
'अन्तःपुरगताः काश्चित् स्त्रियश्चाप्राप्तभाण्डकाः ।
भगे ह्यन्योन्यविश्वासात्कुर्वन्ति मुखचापलं' इति ॥ ३२ ॥
पुरुषाश्च तथा स्त्रीषु कर्मैतत्किल कुर्वते ।
व्यासस्तस्य च विज्ञेयो मुखचुम्बनवद्विधिः ॥ ३३ ॥
तथा स्त्रीष्विति । यथा स्त्रियः पुरुषेषु तथा स्त्रीषु पुरुषाः परिचारका नायका वा के चिद्रगे मुखेन कर्म कुर्वन्ति, किलेति । संभावना-
९ अध्याये ] औपरिष्टकप्रकरणम् १४९
यां, तस्य चेति । पुरुषकर्तृकस्य, व्यासः प्रकारः, मुखचुम्बनवदिति । कन्याचुम्बने निमितादिना, अन्यत्र समादिग्रहणेन यो विधिः सोऽस्यापि यथासम्भवं विज्ञेयः ॥ ३३ ॥ ... तत्र परिचारके कर्तर्यसाधारणं नायके तु साधारणमपि संभवति, यच्च युगपत्परिपाट्या वा, तत्र युगपत्कथमित्याह—
परिवर्त्तितदेहौ तु स्त्रीपुंसौ यत्परस्परम् ।
युगपत्सम्प्रयुज्येते स कामः काकिलः स्मृतः ॥ ३४ ॥
परिवर्तितदेहाविति । पार्श्वसम्पुटे पुमान् स्त्रिया ऊर्वोः शिरो निधत्ते स्त्री च पुंस इति युगत्संप्रयुज्येते, एकस्मिन्काले मुखेन परस्परोपस्थेन्द्रिय-ग्रहणात्, काकिलः स्मृत इति । स्त्री पुमांश्च काक इव काकः, मुखेना-मेध्यग्रहणात्, तौ विद्येते यस्मिन्, काम इति । पिच्छादिषु द्रष्टव्यं, ककनं वा काको लौल्यं, 'कक लौल्ये' इति धातुपाठात्, तद्विद्यते ययोः स्त्रीपुंसयोरीतिनिप्रत्ययः, तौ लात्यादत्त इति ॥ ३४ ॥
एतेन नरयोर्योषितोश्च परिवर्तितदेहयोर्व्याख्यातः, तत्र साधारणा-साधारणयोरसाधारणं श्रेयः, ततोऽपि परिचारकविषयं वेश्याविषयं हि खलसंसर्गादपरिशुद्धमिति दर्शयन्नाह—
तस्माद् गुणवतस्त्यक्त्वा चतुरांस्त्यागिनो वरान् ।
वेश्याः खलेषु रज्यन्ते दासहस्तिपकादिषु ॥ ३५ ॥
तस्मादिति । गुणवतः = नायकगुणयुक्तान्, चतुरान् = लोकयात्राकु-शलान्, त्यागिनः = दानशूरान्, वरान् = अभिजनाद्युपेतान्, खलेषु = नी-चेषु, तानेव दर्शयति—दासहस्तिपकादिष्विति । रज्यन्त इति । स्वभावा-ख्यानम्, अशिष्टधर्माचरणाद्वा, तेषु च रक्ता अपरचरितमपि प्रकाश-यन्ति ॥ ३५ ॥
न त्वेतद्ब्राह्मणो विद्वान्मन्त्री वा राजधूर्धरः ।
गृहीतप्रत्ययो वाऽपि कारयेदौपरिष्टकम् ॥ ३६ ॥
न त्वेतदिति । नैवं वेश्याभिः कारयेद्, ब्राह्मणो विद्वान्, श्रुतिस्मृत्य-र्थतत्त्वज्ञः, मन्त्री राजधूर्धरः प्राधान्येन यो राज्यं संवाहयति, समा-सान्तोऽत्रानित्यत्वान्न भवति, अन्यो वा कश्चिद् गृहीतप्रत्ययो-लोके विश्वास्यः, तासु क्रियमाणं लोके लब्धसमाख्यानं गौरवं व्या-वर्तयति, अतो मा भूद्वदनसंस्पर्शदोषः, असभ्यत्वदोषस्तु दुर्निवारो-नेतरेषामविवक्षितत्वात् ॥ ३६ ॥
ननु च व्यासस्तन्मुखचुम्बनवद्विधिरिति शास्त्रेऽभिहितत्वात्साधा-
१५० सटीक कामसूत्रे [ २ अधिकरणे,
रणस्यापि प्रयोगप्रसङ्ग इत्याह—
न शास्त्रमस्तीत्येतावत्प्रयोगे कारणं भवेत् । शास्त्रार्थान्व्यापिनो विद्यात्प्रयोगांस्त्वेकदेशिकान् ॥ ३७ ॥
न शास्त्रमिति । अभिधायकं शास्त्रमस्तीति नैतावत्प्रयोगे कारणं,· शास्त्रार्थान्व्यापिन इति । आलिङ्गनादेरर्थस्य रत्यौपयिकत्वात्, सर्वा- नेव कामिनोऽधिकृत्य प्रवृत्तत्वात्, प्रयोगानेकदेशिकान्, कस्य चिदे- वार्थस्य शिष्टैः प्रवर्तनात् ॥ ३७ ॥
अयं च न्यायोऽन्यत्रापीत्याह—
रसवीर्यविपाका हि श्वमांसस्यापि वैद्यके । कीर्तिता इति तत्किं स्याद्भक्षणीयं विचक्षणैः ॥ ३८ ॥
रसवीर्यविपाका इति । रसो मधुरादिः, वीर्यं सामर्थ्यम्, पाक उ- पयुक्तस्य परिणामो मधुरादिः, श्वमांसस्यापि कीर्तिता इति व्यापित्वं- रसादीनां, किम् भक्षणीयं विचक्षणैरित्येकदेशित्वम् ॥ ३८ ॥
यद्येवं शिष्टपरिहृतत्वादयहोपदेशानर्थक्यमित्याह—
सन्त्येव पुरुषाः के चित्सन्ति देशास्तथाविधाः । सन्ति कालाश्च तेष्वेते योगा न स्युर्निरर्थकाः ॥ ३९ ॥
सन्त्येवेति । सन्ति तादृशाः पुरुषा ये शुच्यशुचिषु निर्विकल्पाः, देशा- स्तथाविधा लाटसिन्धुविषयादयः, काला औपरिष्टकसात्म्याः, स्त्रयायत्ता यदायत्तजीवितादयः, योगा इति । मुखचुम्बनवद्विधयः ॥ ३९ ॥
तस्माद्देशं च कालं च प्रयोगं शास्त्रमेव च । आत्मानं चापि संप्रेक्ष्य योगान्युञ्जीत वा न वा ॥ ४० ॥
तस्मादिति । यतश्चैवं तस्मात्साधारणस्य वा यथास्वं देशकालौ संवीक्ष्य, प्रयोगमुपायं च प्रयुज्यतेऽनेनेति, शास्त्रमभिधायकम्, आत्मानं- च, कतरन्मे युक्तमिति, न वा प्रयुञ्जीतोभयमपि विद्वान् स्वमात्मानं- संवीक्ष्य ॥ ४० ॥
अथ वा नायं पुरुषादिनियम इत्याह—
अर्थस्यास्य रहस्यत्वाच्चलत्वान्मनसस्तथा । कः कदा किं कुतः कुर्यादिति को ज्ञातुमर्हति ॥ ४१ ॥
इति श्रीवात्स्यायनीये कामसूत्रे साम्प्रयोगिके द्वितीयेऽधिकरण- औपरिष्टकं नवमोऽध्यायः । आदितश्चतुर्दशः ।
९ अध्याये ] रतारम्भावसानिकप्रकरणम् । १६१
९ अध्याये ] रतारम्भावसानिकप्रकरणम् । १६१
अर्थस्येति । औपरिष्टकस्य रहसि भवत्वात् चित्तस्यास्थिरत्वात्, विशेषतो रागसंयुक्तस्य, कः कुर्याद् विद्वानितरो वेति, कदा किंमत्तावस्थायामितरस्यां वेति, किं कुर्यात् साधारणमसाधारणं लौकिकं वा सम्प्रयोगमिति, कुतो हेतोः किं रागाद्देशप्रवृत्तेर्वेति, को ज्ञातुमर्हति नैवेत्यर्थः ॥ ४ ॥ औपरिष्टकमेकोनविंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां साम्प्रयोगिके द्वितीयेऽधिकरण औपरिष्टकं नवमोऽध्यायः ।
दशमोऽध्यायः ।
एवमौपरिष्टकान्तं रतमुक्तं, तस्यारम्भेऽवसाने च किं प्रतिपत्तव्यमिति तदुद्भवं रतारम्भावसानिकमुच्यते, तत्र यद्यपि प्रीतिविशेषानन्तरं रतारम्भिकं युक्तं रतावसानिकं चेहैव तथाभूतत्वादनुष्ठानक्रमस्येति, तथाऽपि प्रतीतिसम्भवत्वादालिङ्गनादीनां तदभिधानं तदनन्तरं च प्रतीकन्यायेन सर्वशेषतया रतारम्भः, तत्प्रतिबद्धत्वाच्चावसानिकम् ।
तत्र पूर्वमधिकृत्याह—
नागरकः सह मित्रजनेन परिचारकैश्च कृतपुष्पोपहारः सञ्चारितसुरभिधूपे रत्यावासे प्रसाधिते वासगृहे कृतस्नानप्रसाधनां युक्त्या पीतां स्त्रियं सान्त्वनैः पुनः पानेन चोपक्रमेत ॥ १ ॥
दक्षिणतश्चास्या उपवेशनम् ॥ २ ॥
केशहस्ते वस्त्रान्ते नीव्यामित्यवलम्बनम् ॥ ३ ॥
रत्यर्थं सव्येन बाहुनाऽनुद्धतः परिष्वङ्गः ॥ ४ ॥
पूर्वप्रकरणसंबद्धैः परिहासाऽनुरागैर्वचोभिरनुवृत्तिः ॥ ५ ॥
गूढाश्लीलानां च वस्तूनां समस्यया परिभाषणम् ॥ ६ ॥
सनृत्तमन्नृत्तं वा गीतं वादित्रम् ॥ ७ ॥
कलासु संकथाः ॥ ८ ॥
पुनः पानेनोपच्छन्दनम् ॥ ९ ॥
जातानुरागायां कुसुमानुलेपनताम्बूलदानेन च शेषजनविसृष्टिः ॥ १० ॥
१५२ सटीक कामसूत्रे [ २ अधिकरणे,
विजने च यथोक्तैरालिङ्गनादिभिरेनामुद्धर्षयेत् ॥ ११ ॥ ततो नीवीविश्लेषणादि यथोक्तमुपक्रमेतेत्ययं रतारम्भः॥१२॥
नागरक इति । नागरकवृत्ताधिकृतः, तत्र मित्रजनेन पीठमर्दादिना परिचारकैस्ताम्बूलदायकसंरक्षकर्मान्तकारिभिः सहोपक्रमेतेति सम्बन्धः, पुष्पोपहारः पुष्पप्रकारः, रत्यावास इति। रत्यर्थो य आवासोबाह्यं वासगृहं, तत्र हि शयनीयं प्रकल्पेतेत्ययं वासगृहसंस्कारः, स्त्रिया द्विविधः—स्नानं नेपथ्यग्रहणं चेति शरीरसंस्कारः, असंस्कृतायादर्शनमपि प्रतिषिद्धं, युक्त्या पीतामिति । मनःसंस्कारः, नातिपीतांविभ्रमकरत्वात्, पीतमस्या विद्यत इति मत्वर्थो द्रष्टव्यः, यथा पीता गावः, प्रथमं सान्त्वनैः प्रियवाक्यैः कुशलप्रश्नादिभिरुपक्रमेत, पुनः पानेन सरकः पीयतामिति, तत्र दक्षिणे पार्श्वेऽस्या उपवेशनं, स्त्री वामपार्श्वे उपविशेद्, येन दक्षिणहस्तेन चषको वामेन च बाहुना परिष्वङ्गः, तत्र प्रथमं केशहस्तादिष्ववलम्बनं संस्पर्शनं, ततः सव्येन वामेन परिष्वङ्गः, अनुद्धत इति । यथा नोद्विजते, पूर्वप्रकरणसम्बद्धैरिति । अतिक्रान्तेन प्रस्तावेन युक्तैः 'स्मरसि सुभगे यदावयोस्रत्र तत्र परिहासाेऽनुरागश्चासीद्' इत्येवं वचोभिरनुवर्तनं गूढाश्लीलानां चेति । यद्गूढं दुर्बोधमश्लीलं ग्राम्यं लोकप्रतीतं वस्तु गाथास्कन्धकादिषु निबद्धं तस्योभयस्यापि बुभुत्सायां समस्यया संक्षेपेण परिभाषणम्, परिकथनमित्यर्थः, सनृत्तमन्नृत्तं वा गीतमिति । या नृत्ताभिज्ञा तत्समक्षं गीतार्थमाङ्गिकाद्यभिनयेन प्रकाशयेद्, आसीननृत्तं स्याद्, इतरस्या गीतमेव केवलं, वादित्रमिति । नागदन्तावसक्तां वीणामादाय; तत्रान्यस्यासम्भवात्, कलासु सङ्कथाः, शेषास्वालेख्यादिषु कौशलख्यापनार्थम्, एवमावर्ज्य पुनः पानेनोपच्छन्दनं प्रोत्साहननं, जातरागायां च यथोक्तांनुष्ठानेन ताम्बूलदानसम्प्रेषणोपायः, शेषजना मित्रपरिचारकादयः, यथोक्तैरिति । रतात्प्रागुक्तानि यानि, उद्धर्षयेदुत्कृष्टेन हर्षेण योजयेद्, यथा शयनीयं प्रतिपद्यते, तत इति । उत्तरकाले शयनीयगतायां नीवीविश्लेषणायाेपक्रमेत, इतः प्रभृति बाह्यं पुरुषोपसृप्तमिति ॥ १ ॥ २ ॥ ॥ ३ ॥ ४ ॥ ५ ॥ ६ ॥ ७ ॥ ८ ॥ ९ ॥ १० ॥ ११ ॥ १२ ॥
रतावसानिकं रागमतिवाह्यासंस्तुतयोरिव सब्रीडयोः परस्परमपश्यतोः पृथक्पृथगाचारभूमिगमनम् ॥ १३ ॥ प्रतिनिवृत्य च व्रीडायमानयोरुचितदेशोपविष्टयोस्ताम्बूल-
१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५३
१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५३
ग्रहणमच्छीकृतं चन्दनमन्यद्वाऽनुलंपने तस्या गात्रे स्वयमेव निवेशयेत् ॥ १४ ॥
सव्येन बाहुना चैनां परिरभ्य चषकहस्तः सान्त्वयन्पाययेत् ॥१५॥
जलानुपानं वा खण्डखाद्यकमन्यद्वा प्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम् ॥ १६ ॥
अच्छरसरसयूषमम्लयवागूं भृष्टमांसोपदेशानि पानकानि चूतफलानि शुष्कमांसं मातुलुङ्गचक्रकाणि सशर्कराणि च यथादेशसात्म्यं च ॥ १७ ॥
तत्र मधुरमिदं मृदु विशदमिति च विदश्य विदश्य तत्तदुपाहरेत् १८
हर्म्यतलस्थितयोर्वा चन्द्रिकासेवनार्थमासनम् ॥ १९ ॥
तत्रानुकूलाभिः कथाभिरनुवर्तेत ॥ २० ॥
तदङ्कसंलीनायाश्चन्द्रमसं पश्यन्त्या नक्षत्रपङ्क्तिव्यक्तीकरणम् ॥२१॥
अरुन्धतीध्रुवसप्तर्षिमालादर्शनं चेति रतावसानिकम् ॥ २२ ॥
रतावसानिकमिति । वक्ष्यत इति शेषः, रागमतिवाह्य=रतिमनुभूय, असंस्तुतयोरिवेति । अपरिचितयोर्य्रथा व्रीडा तद्वत्सव्रीडयोरविनयाचरणाद्, एवं परस्परमपश्यतोः, तदवस्थदर्शनाद्वैराग्यमपि स्यादतः पृथक्पृथगाचारभूमिगमनं, नैकत्र शौचभूमौ शौचं कार्यमित्यर्थः, प्रतिनिवृत्त्याचारभूमेर्व्रीडायमानयोः, एकान्तेनापरित्यक्तलज्जत्वाद्, उचितदेशस्तदानीं शयनीयमपास्थान्यदेशः, ताम्बूलस्य ग्रहणं भक्षणं, तदानीं मुखस्याश्रीकत्वाद्वैरस्याच्च, तत्र क्षीणप्रधानधातुत्वाच्छरीरस्य बृंहणं बाह्यमाभ्यन्तरं च, तत्र बाह्यं ग्रीष्मकाले, अच्छीकृतं चन्दनमन्यद्वाऽनुलेपनं कालेपयिकं, स्वयमित्यनुरागख्यापनार्थं, निवेशयेत् पश्चादात्मन इत्यर्थः, आभ्यन्तरं पानादि, तत्रापि परिरभ्यालिङ्ग्य, चषको मद्यभाजनं, सान्त्वयन्प्रियाणि ब्रुवन् पाययेद्, जलानुपानं वा खण्डखाद्यकं बृंहणीयत्वाद्, अन्यद्वा तिलगर्भोत्करादिप्रकृतिसात्म्ययुक्तमुभावप्युपयुञ्जीयाताम्, अच्छरसरसयूषमिति, यूषं द्विविधं-मांसनिर्यूहं-व्रीहिनिर्यूहं च, बृंहणीयत्वान्मांसनिर्यूहं रसयूषमच्छमुपयुञ्जीयाताम्, अम्लयवागूं मांससिद्धाम्, बृंहणीयत्वात्, भृष्टं भर्जितं मांसं तदेवोप- दंशो येषां पानकानां, चूतफलानि पक्वानि, 'शुष्कमांसं बलवृंहणत्वाद्, मातुलुङ्गचक्रकाणीति । बीजपूरमीषदपनीतत्वकं खण्डशः कृत्तं श-
२० का० सू०
| १५४ | सटीके कामसूत्रे | [ २ अधिकरणे, |
|---|
कंशायुक्तं, हृद्यत्वाद्, यथादेशसात्म्यमिति । यस्मिन्देशे येन सात्म्यं तत्रेति । भक्ष्यद्युपयोगेऽनुरागख्यापनार्थो विधिः, विदश्य विदश्येति । उपलक्षणं चैतत्, इदं मृष्टमिदं वृष्यमित्यास्वाद्यास्वाद्य पानमपि तत्तदुपाहरेदु, हर्म्यतलस्थितयोर्वेति । यदि वासगृहस्थितयोरासने तापश्चन्द्रिका चोदिता, तदा तदुपरि सौधस्थितयोरूर्ध्वमासनं, तत्सेवनं च तापापनयनार्थं, यदि च तापेन न तत्र ताम्बूलग्रहणाद्यनुष्ठितं तदानीमिहानुष्ठेयं, तत्रेति । हर्म्यतले, भुक्तविरसत्वात्कामस्य बृंहणानन्तरं कामजननार्थं तदनुकूलाभिः कथामिरनुवर्तेत, तदङ्कसंलीनायाश्चेति । आसीनस्य नायकस्याङ्के न्यस्तदेहाया नियतं गगनतले दृष्टिः, तत्र चन्द्रमसं नयनानन्दजननम् पश्यन्त्याः प्रसङ्गान्नक्षत्रपङ्क्तिव्यक्तीकरणं, प्रायशः स्त्रीणां नक्षत्रपङ्क्तिष्वपरिचयात्, इयमरुन्धती भगवती सूक्ष्मा य एनां न पश्यति स षण्मासान्म्प्रियते, अयं ध्रुवः पञ्चदशतारकः, यद्दर्शनाद्दिवसगतं पापमपैति, एते च सप्तर्षयः पङ्क्त्या स्थिता इति सन्ददर्शयेत् ॥ १३ ॥ १४ ॥ १५ ॥ १६ ॥ १७ ॥ १८ ॥ १९ ॥ २० ॥ २१ ॥ २२ ॥
द्वयमप्यधिकृत्याह—
तत्रैतद्भवति--
अवसानेऽपि च प्रीतिरूपचारैरुपस्कृता ।
सविस्रम्भकथायोगै रतिं जनयते पराम् ॥ २३ ॥
परस्परप्रीतिकरैरात्मभावानुवर्तनैः ।
क्षणात्क्रोधपरावृत्तैः क्षणात्प्रीतिविलोकितैः ॥ २४ ॥
हल्लीसकक्रीडनकैर्गायनैर्नाट्यरासकैः ।
रागलोलार्द्रनयनैश्चन्द्रमण्डलवीक्षणैः ॥ २५ ॥
आद्ये संदर्शने जाते पूर्वं ये स्युर्मनोरथाः ।
पुनर्वियोगे दुःखं च तस्य सर्वस्य कीर्तनैः ॥ २६ ॥
कीर्तनान्ते च रागेण परिष्वङ्गैः सचुम्बनैः ।
तैस्तैश्च भावैः संयुक्तो यूनो रागो विवर्धते ॥ २७ ॥
तत्रेति । आरम्भेऽवसाने चोभयत्राप्येतद्वक्ष्यमाणकं भवति, अवसानेऽपीति । अपिशब्दादारम्भेऽपीति, प्रीतिः, स्त्रियाः पुंसश्च स्नेहः, उपचारैः स्रग्गन्धादिभिः पानादिभिश्च, उपस्कृतेत्यभिवर्धिता, सविस्रम्भकथायोगैरिति । सविश्वासाभिः कथाभिः सविशवासैश्च योगैः, रतिं वि-
रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥
१० अध्याये ] रतारम्भावसानिकप्रकरणम् । १५५
सृष्टिलक्षणां परामुत्कृष्टां जनयते, कारणस्य तथाविधत्वात्, तत्र विस्रम्भ- योगमधिकृत्याह—परस्परप्रीतिकरिति। स्त्रीपुंसयोस्तदन्ते सुखकरैः, कैरित्याह-आत्मभावानुवर्तनैरिति। आत्माभिप्रayeण यान्यनुवर्तनान्या- लिङ्गनादीनि, अनुवर्त्यन्ते एभिरिति कृत्वा, क्षणात्क्रोधपरावृत्तैः क्षणात्प्री- तिविलोकनैरिति। अन्तरा प्रणयकलहात्क्षणक्रोधेन यानि परावर्तनानि पुनः प्रसादात्क्षणं प्रीत्या यानि विलोकनानि तैः, स्नेहो विवर्धत इति प्र- तिपदं योज्यं, हल्लीसकक्रीडनकैरिति। हल्लीसकक्रीडनं येषु गीतेषु, य- थोक्तम्।
'मण्डलेन च यत्स्त्रीणां नृत्तं हल्लीसकं तु तत् ।
नेता तत्र भवेदेको गोपस्त्रीणां यथा हरिः ॥'
नाट्यरासकैरन्योन्यदेशीयैः, तेषां श्राव्यत्वाद्रीतविशेषणमेतद्, राग- लोलार्द्रनयनैरिति। रागेण चञ्चलानि सबाष्पाणि च नयनानि येषु गी- तकेषु, अनेन रक्तकण्ठत्वं दर्शयति, चन्द्रमण्डलवीक्षणैरिति। मनोहरित्व- स्तूपलक्षणम्, एतेऽनुवर्तनादयो विस्रम्भयोगाः, विश्वासेन प्रयुज्यमान- त्वाद्, विस्रम्भकथामधिकृत्याह—आद्य इति। प्रथमे मनोरथाः कदाऽ- नेन वा सङ्गमोऽस्त्वित्यादयः, पुनर्वियोगे सन्तप्तयोर्दुःखमस्वास्थ्यं की- र्तनान्ते चेति। पुनर्विस्रम्भयोगस्यावर्तनमिति दर्शयति, तैस्तैरिति। अ- न्यैरपि विस्रम्भयोगैर्भावसंयुक्तैः, यून इत्येकशेषनिर्देशाद्, यूनो युवत्याश्च ॥ २३ ॥ २४ ॥ २५ ॥ २६ ॥ २७ ॥
रतारम्भावसानिकमेकोनविंशं प्रकरणम् ॥
आरम्भावसानयो रतावयवत्वात्तद्ग्रहणे यथा रतं त्र्यवस्थं तथा व्यवस्था स्वाभाविकादिरागभेदादपि विशिष्यत इत्यतो रतविशेषा उ- च्यन्ते—
रागवदाहार्यरागं कृत्रिमरागं व्यवहितरागं पोटारतं खलरत- मयन्त्रितरतमिति रतविशेषाः ॥ २८ ॥
रागवदित्यादिना स्वभाविक आहार्यः कृत्रिमो दर्पजो विस्रम्भज- श्चेति रागविशेषाः, तद्भेदाद्रागवदाद्यंाऽपि रतविशेषाः ॥ २८ ॥
एषां लक्षणमुपचारं चाह—
संदर्शनात्प्रभृत्युभयोरपि प्रबुद्धरागयोः प्रयत्नकृते समागमे प्रवासप्रत्यागमने वा कलहवियोगयोगे तद्रागवत् ॥ २९ ॥
सन्दर्शनादिति। प्रथमदर्शनात्प्रभृति चक्षुःप्रीत्याद्यवस्थावशात्प्र- बुद्धरागयोर्दू तसम्प्रेषणादिप्रयत्नात्कृते समागमे यद्रतं, यच्च प्रवा-