कामसूत्रम् (जयमङ्गला व्याख्या एवं हिन्दी टीका सहित)
Kamasutram of Vatsyayana with Hindi Commentary
महर्षि वात्स्यायन / यशोधर इन्द्रपाद द्वारा
१९८ सतीके कामसूत्रे [ ३ अधिकरणे,
सुप्तप्रमत्तोपगमात्पैशाचः, तमधिकृत्याह— अष्टमीचन्द्रिकाऽऽदिषु च धात्रेयिका मदनीयमेनां पाययित्वा किं चिदात्मनः कार्यमुद्दिश्य नायकस्य विषयं देशमानयेत् ॥ २४॥
अष्टमीचन्द्रिकाऽऽदिष्विति। अष्टमीचन्द्रिकाऽऽदिषु, तत्र दिवसमुपोष्य पूजापुरःसरं रात्रिजागरणमाचन्द्रोदयम्, अनन्तरं तां धात्रेयिका नाय-कपसक्ता मदनीयं सुराऽऽदिकं पाययित्वा, किंचिदात्मनः कार्यमिति। अङ्गुलीयकं विस्मृत्यागताऽस्मि तत्र गच्छाव इत्युपदिश्यानयेदित्यर्थः ॥२४
तत्रैनां मदात्संज्ञामप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण ॥२५॥
तत्रेति। विषयदेशे, संज्ञां = चेतनां, दूषयित्वेति। दूषयित्वा चैनां-शनैः स्वजनेषु प्रकाशयेत्, तद्बान्धवाश्चेत्यादि पूर्ववदित्येकः प्रकारः॥२५॥
सुप्तां चैकचारिणीं धात्रेयिकां वारयित्वा संज्ञामप्रतिपद्यमानां दूषयित्वेति समानं पूर्वेण ॥ २६ ॥
सुप्तां चैकचारिणीमिति। एकाकिनीं, तत्र सुप्तेति द्वितीयः, अत्रा-भ्याहरणादिकं नास्ति, अधर्मत्वादिति ॥ २६ ॥
प्रसह्याहरणाद्राक्षसस्तमधिकृत्याह— ग्रामान्तरमुद्यानं वा गच्छन्तीं विदित्वा सुसंभृतसहायो ना-यकस्तदा रक्षिणो वित्रास्य हत्वा वा कन्यामपहरेदिति वि-वाहयोगाः ॥ २७ ॥
ग्रामान्तरेति। स्वस्माद् ग्रामादन्यं ग्रामं, सुसंभृतसहाय इति। सुसंनद्धबहुसहायः, रक्षिणः = कन्यारक्षकान्, वित्रास्य, ते यथा त्यक्त्वा पलायन्ते, हत्वा वा प्रहारैः, कन्यामपहरेत्, कृष्णवद्रुक्मिणीम्, अत्रा-प्यधर्मत्वान्नाङ्गभ्याहरणादि, स्वगृहमेव च नीत्वा दूषणमिति, न किंचि-दतिदिष्टं, विवाहयोगा गान्धर्वादीनां विषयाः ॥ २७ ॥
अष्टानां विवाहानां मध्ये किमपेक्षया कस्य प्राधान्यमित्याह— पूर्वः पूर्वः प्रधानं स्याद्विवाहो धर्मसंस्थितेः । पूर्वाभावे ततः कार्यो यो य उत्तर उत्तरः ॥ २८ ॥
पूर्वः पूर्व इति। धर्मसंस्थितेरिति। धर्मतो व्यवस्थानादित्यर्थः, तत्र पूर्वे धर्म्याश्चत्वारः, अस्मिन्दर्शने गान्धर्वादु ब्राह्मादयः प्रधानं, तत्रापि के चित्तरतमभेदेन पूर्वः पूर्व इत्याहुः, गान्धर्वो ह्यासुरान्, पण्डित्येक-स्मिन्पक्षे एतौ द्वावति धर्म्यौ, किं तु यथा पूर्वे न तथा परतः, यथा च गान्धर्वो न तथाऽऽसुर इति।
इति विवाहयोगा एकत्रिंशं प्रकरणम् ॥
५ अध्याये ] विवाहयोगप्रकरणम् । १९९
के चिद् 'आसुरोऽपि पैशाचात्तथा धर्मत्वात्, पैशाचोऽधम्मोऽपि राक्षसात्प्रधानं राक्षसस्य साहसाकर्मत्वाद्, यो य उत्तर उत्तर इति । अन्यगत्या अन्य इत्याहुः ॥ २८ ॥
गान्धर्व एव प्रधानमित्याह—
व्यूढानां हि विवाहानामनुरागः फलं यतः ।
मध्यमोऽपि हि सद्योगो गान्धर्वस्तेन पूजितः ॥ २९ ॥
व्यूढानामिति । कृतानामनुरागः फलम्, अन्यथाऽनुरागाभावे निष्फलः स्याद्, मध्यमोऽपि हि षडित्येकस्मिन्पक्षे, सद्योग इति । शोभनोऽनुरागात्मको योगोऽस्येति, तेन च सद्योगेन गान्धर्व इत्युच्यते ॥ २९ ॥
एवं च कृत्वाऽस्य प्राधान्यमित्याह—
सुखत्वादबहुक्लेशादपि चावरणादिह ।
अनुरागात्मकत्वाच्च गान्धर्वः प्रवरो मतः ॥ ३० ॥
इति श्रीवात्स्यायनीये कामसूत्रे कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः ।
सुखत्वादिति । सुखहेतुत्वाद्, अबहुक्लेशात्, प्रायेणेति, प्रायशो न यत्नसाध्य इत्यर्थः, अवरणाद् = वरणसंविधानाभावात् ॥ ३० ॥
इति विवाहयोगा एकत्रिंशं प्रकरणम् ॥
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां-
कन्यासंप्रयुक्तके तृतीयेऽधिकरणे विवाहयोगाः पञ्चमोऽध्यायः ।
[ समाप्तं चेदं कन्यासंप्रयुक्तकं नाम तृतीयमधिकरणम् ]
भार्याधिकारिकं नाम चतुर्थमधिकरणम्।
प्रथमोऽध्यायः।
कन्या पुरुषेण संयुक्ता भार्या संवृत्ता तया पुंसि कथं ? वर्तितव्यमि- त्यतो भार्याऽधिकारिकमुच्यते, तच्च कन्यासं प्रयुक्तकशेषभूतम्, अन्यथा विशेषाधिकाननुष्ठानात्संयुक्ताऽप्यसंयुक्तकल्पैव स्याद्, भार्या च द्विविधा—एकचारिणी सपत्निका च, तत्र प्राधान्येनैकचारिणी वृ- त्तमुच्यते—
भार्यैकचारिणी गूढविश्रम्भा देववत्पतिमानुकूल्येन वर्तेत ॥१॥
भार्येति । गूढविश्रम्भा, इतरस्याः कपटव्यवहारः सम्भावितत्वा- द्देववद्, 'भर्ता तु देवता स्त्रीणाम्' इति न्यायाद्, आनुकूल्येन चित्तानुवि- धानेनैव, वर्तेतेत्यन्तर्भावितो ण्यथैः, शरीरस्थितिविषयमेतत् ॥ १ ॥
वृत्तं सूचयति—
तन्मतेन कुटुम्बचिन्तामात्मनि संनिवेशयेत् ॥ २ ॥
तन्मतेनेति । यदा तु नायकेनानुज्ञाता, कुटुम्बचिन्तां गृहचिन्ताम्, बाह्यवस्तुविषयमेतद्, आत्मनि संनिवेशयेद् आत्माधीनां कुर्याद्, वृत्त- मुभयमुत्तरत्र यथायोगं योज्यम् ॥ २ ॥
तत्र गृहप्रतिबद्धत्वाद् वृत्तस्य गृहचिन्तामाह—
वेश्म च शुचि सुसंमृष्टस्थानविरचितविविधकुसुमं संश्लक्ष्ण- भूमितलं हृद्यदर्शनं त्रिपवणाचरितबलिकर्म पूजितदेवायतनं कुर्यात् ॥ ३ ॥
वेश्म चेति । कुर्यादित्यनेन सम्बन्धः, सुसंमृष्टं सुशोधितं स्थानेषु भोग्येषु विरचितानि विप्रकीर्णानि विविधानि कुसुमानि यस्य, संश्ल- क्ष्णभूमितलमिति । मसृणभूतलं, हृद्यं = हृदयप्रियं, दर्शनं यस्य, त्रिपवणं- त्रिसंध्यमाचरितं कारितं बलिकर्म यत्र, देवताऽऽयतनं देवगृहं तत्पूजितं- यस्मिन् ॥ ३ ॥
न ह्यतोऽन्यद् गृहस्थानां चित्तग्राहकमस्तीति गोनर्दीयः ॥४॥
अतोऽन्यदिति । यथोपवर्णितवेश्मनः, चित्तग्राहकं = मनोहारि, गोनर्दीय इति । पुजाऽर्थमधिकरणेऽधिकृतत्वात् ॥ ४ ॥
१ अध्याये ] एकचारिणीवृत्तप्रकरणम् । २०१
तत्र वृत्तद्वयं दर्शयन्नाह—
गुरुषु मन्त्रवर्ग्येषु भृत्यवर्गेषु नायकभगिनीषु तत्पतिषु च यथाऽर्हं प्रतिपत्तिः ॥ ५ ॥
गुरुष्विति । श्वशुरादिषु, नायकभगिनीषु, ननान्दृषु, तत्पतिषु = ननान्दृपतिषु, यथाऽर्हं प्रतिपत्तिरिति । यथा यस्यां प्रतिपत्तिर्वाक्कायाभ्यामनुष्ठानम् ॥ ५ ॥
परिपूतेषु च हरितशाकवप्रानिक्षुस्तम्बाञ्जीरकसर्षपाजमोदशतपुष्पात्तमालगुल्मांश्च कारयेत् ॥ ६ ॥
परिपूतेषु चेति । पवित्रेषु, हरितं धान्याकार्द्रकादि, शाकं पालङ्क्यादि च, एषां वप्रान्केदारान्, इक्षुस्तम्बानिक्षुविटपान्, जीरकादीञ्शतपुष्पापर्यन्तान् कारयेत्, तत्राजमोदोऽनेनैव नाम्ना प्रतीतः, तमालगुल्मांस्तमालविटपान् ॥ ६ ॥
कुब्जकामलकमल्लिकाजातीकुरण्टकनवमालिकातगरनन्द्यावर्तजपागुल्मानन्यांश्च बहुपुष्पान्बालकोशीरकपातालिकांश्च वृक्षवाटिकायां च स्थण्डिलानि मनोज्ञानि कारयेत् ॥ ७ ॥
यत्र कुब्जकादीनां गुल्मान्, तगरः = पिण्डीतगरः, जपा = ओड्रपुष्पम्, बहुपुष्पा ये निर्भरं पुष्प्यन्ति, बालकोशीरयोः, पातालिका = केदारः, स्थण्डिलान्यवपट्टकानि ॥ ७ ॥
मध्ये कूपं वापीं दीर्घिकां वा खानयेत् ॥ ८ ॥
वापीं समचतुरस्रां पुष्करिणीं, दीर्घिकामायतचतुरस्रां, खानयेद्वास्तुवशात् ॥ ८ ॥
भिक्षुकीश्रमणाक्षपणाकुलटाकुहकेक्षणिकामूलकारिकाभिर्न संसृज्येत ॥ ९ ॥
भिक्षुकी = भिक्षणशीला, श्रमणा क्षपणा प्रव्रजिता रक्तपटिका च, कुलटा = प्रच्छन्नं खण्डितचारित्रा, कुहका = कौतुककारिका, ईक्षणिका = विप्रश्निका, मूलकारिका वशीकरणेन मूलेन या कर्म करोति, ताभिर्न संसृज्येत, भर्तृविकल्यहेतुत्वात् ॥ ९ ॥
भोजने रुचितमिदमस्मै द्वेष्यमिदं पथ्यमिदमपथ्यमिदमिति च विद्यात् त्यागोपादानार्थम् ॥ १० ॥
भोजने चेति । भोजनकाले रुचितादीन विद्यात् ॥ १० ॥
२६ का० सू०
२०२ सटीके कामसूत्रे [ ४ अधिकरणे,
स्वरं बहिरुपश्रुत्य भवनमागच्छतः किं कृत्यमिति ब्रुवती सज्जा भवनमध्ये तिष्ठेत् ॥ ११ ॥
किं कृत्यमिति । आदिश्यमानकार्यस्यानुष्ठानबुद्ध्या, सज्जा=सावधाना भवनमध्येऽङ्गनके ॥ ११ ॥
परिचारिकामपनुद्य स्वयं पादौ प्रक्षालयेत् ॥ १२ ॥
परिचारिकामिति । पादप्रक्षालनोद्यतामपनुद्यापास्य ॥ १२ ॥
नायकस्य च न विमुक्तभूषणं विजने संदर्शने तिष्ठेत् ॥१३॥
संदर्शन इति । अग्रतो न तिष्ठेद्, अकृतशरीरसंस्कारां दृष्ट्वा वैराग्यमपि स्यात् ॥ १३ ॥
अतिव्ययमसद्व्ययं वा कुर्वाणं रहसि बोधयेत् ॥ १४ ॥
अतिव्ययमुचितव्ययादधिकम्, असद्व्ययं यदनर्थिजने प्रतिपाद्यते, रहसि बोधयेद्, लोकमध्ये हि लज्जित एव स्यात् ॥ १४ ॥
आवाहे विवाहे यज्ञे गमने सखीभिः सह गोष्ठीं देवताऽभिगमनमित्यनुज्ञाता कुर्यात् ॥ १५ ॥
आवाहे=वरगृहे, विवाहे,=कन्यागृहे, गोष्ठीं सम्भूय पानभोजनं, देवताऽभिगमनं, द्रष्टुमनुज्ञाता कुर्याद्, अन्यथा स्वैरिणीत्याशङ्क्येत ॥ १२ ॥
सर्वक्रीडासु च तदानुलोम्येन प्रवृत्तिः ॥ १६ ॥
सर्वक्रीडासु चेति । यक्षरात्र्यादिषु लोके वृत्तासु तच्चित्तानुविधानेन प्रवृत्तिः ॥ १६ ॥
पश्चात्संवेशनं पूर्वमुत्थानमनवबोधनं च सुप्तस्य ॥ १७ ॥
पश्चात्संवेशनं, शयितस्य नायकस्य, पूर्वमुत्थानमनुत्थितान्नायकादहनि यावन्न प्रतिबुध्येत ॥ १७ ॥
महानसं च सुगुप्तं स्याद्दर्शनीयं च ॥ १८ ॥
महानसं सुगुप्तं स्याद्, यथाऽन्योऽत्र परकीयो न विशेद्, दर्शनीयं- चान्धकाराभावात् ॥ १८ ॥
नायकापचारेषु किं चित्कलुषिता नात्यर्थं निर्वदेत् ॥ १९ ॥
नायकापचारेष्विति । नायकापराधेसु, किञ्चित्कलुषिता धीरात्व-ख्यापनार्थं निर्वदेत्, पुनर्मा कार्षीरिति, तत्रापि नात्यर्थं मा भूद्वैलक्ष्य-मस्येति ॥ १९ ॥
१ अध्याये ] एकचारिणीवृत्तप्रकरणम्। २०३
१ अध्याये ] एकचारिणीवृत्तप्रकरणम्। २०३
साधिक्षेपवचनं त्वेनं मित्रजनमध्यस्थमेकाकिनं वाऽप्युपाल- भेत न च मूलकारिका स्यात् ॥ २० ॥
मित्रजनमध्यस्थं यदि कार्यवशात्साधिक्षेपवचनमुपालभेत, न च मूलकारिका स्यात् ॥ २० ॥
सत्स्वप्यपचारेषु युक्तिमाह--
न ह्यतोऽन्यदप्रत्ययकारणमस्तीति गोनर्दीयः ॥ २१ ॥
न ह्यत इति। मूलकर्मणः, अप्रत्ययकारणम् = अविश्वासकारणं, गोनर्दीयमतमनुमतमप्रतिषिद्धत्वात् ॥ २१ ॥
दुर्व्याहृतं दुर्निरीक्षितमन्यतो मन्त्रणं द्वारदेशावस्थानं निरी- क्षणं वा निष्कुटेषु मन्त्रणं विविक्तेषु चिरमवस्थानमिति वर्ज- येत् ॥ २२ ॥
दुर्व्याहृतं=दुर्मन्त्रितं, दुर्निरीक्षितं=अस्निग्धवीक्षणम् , अन्यतो मन्त्रणं=तिर्यङ्मुखं कृत्वा भाषणम्, एतत्त्रितयं वैराग्यजनकं, द्वारदेशावस्थानं, गृहद्वारस्थितिनिरीक्षणं च, तदुभयमयत्नसाध्यत्वसूचकं, निष्कुटेष्विति। गृहवाटिकायां निर्गत्य कया चित्सह मन्त्रणं, विविक्तेषु = निर्जनेषु गृहप्रदेशेषु, चिरमवस्थानं, तदुभयमसद्विकल्पजनकं भवेत् ॥ २२ ॥
स्वेददन्तपङ्कदुर्गन्धांश्च बुध्येतेति विरागकारणम् ॥ २३ ॥
स्वेदादीन्बुध्येतापनयनार्थं, दन्तपङ्कः=दन्तमलः, विरागकारणमिति। वैराग्यजनकं भवेद्भर्तुः ॥ २३ ॥
बहुभूषणं विविधकुसुमानुलेपनं विविधाङ्गरागसमुज्ज्वलं वास- इत्याभिगामिको वेषः ॥ २४ ॥
नानावर्णं कालवशाद्यद्यद्विराजते वर्णतस्तत्तदुपादेयमिति, आभिगामिको नायकाभिगमनप्रयोजकः, तदा हि बहुभूषणादिभिः कालौपयिकेन च रक्तवाससा प्रसाधिता मनोहरेति ॥ २४ ॥
प्रतनुश्लक्ष्णमल्पदुकूलता परिमितमाभरणं सुगन्धिता नात्यु- ल्वणमालेपनं तथा शुक्लान्यन्यानि पुष्पाणीति वैहारिको वेषः॥२५॥
प्रतनु श्लक्ष्णमल्पं सूक्ष्मं यत्संयन्तुं शक्यं वस्त्रं, परिमितं कर्णयोर्ग्रीवायां च, नात्युद्धतं वर्णविन्यासाभ्यां चेति, वैहारिको, यात्राक्रीडाविहारप्रयोजकः ॥ २५ ॥
२०४ सटीके कामसूत्रे [ ४ अधिकरणे,
नायकस्य व्रतमुपवासं च स्वयमपि करणेनानुवर्तेत वारिता- यां च नाहमत्र निर्बन्धनीयेति तद्वचसो निवर्तनम् ॥ २६ ॥
व्रतं नियमं स्वयमनुकरणेनानुवर्तेत भक्तिख्यापनार्थं, वारितायां- नायकेन व्रतोपवासाभ्यां, नाहमत्र निर्बन्धनीया निषेधनीयेति वाक्येन नायकवचसो निवर्तनं भक्तेर्नाट्यार्थम् ॥ २६ ॥
मृद्विदलकाष्ठचर्मलोहभाण्डानां च काले समर्धग्रहणम् ॥ २७ ॥
मृद्भाण्डं=घटादि, विदलभाण्डं=पिटकादि, काष्ठभाण्डं=पीठखट्- वाऽऽदि, लोहभाण्डं=ताम्रादिमयं, काले = इत्युपयोगकाले, तत्रापि यत्- समर्घं प्राप्यते ॥ २७ ॥
तथा लवणस्नेहयोश्च गन्धद्रव्यकटुकभाण्डौषधानां च दुर्ल- भानां भवनेषु प्रच्छन्नं निधानम् ॥ २८ ॥
लवणं=सैन्धवादि, स्नेहः=घृततैलवसामज्जानः, गन्धद्रव्यं=तगरादि, कटुकं=तुम्बूयादि, औषधं=द्विपञ्चमूलादि, दुर्लभा ये न तत्रत्याः, अपि तु दुःखेन लभ्यन्ते, प्रच्छन्नं निधानं यत्र तानि भवन्ति, न विनश्यन्ति वा ॥ २८ ॥
मूलकालुकपालङ्कीदमनकाम्रातकैर्वारुकत्रपुसवार्ताककूष्माण्डा- लाबुसूरणशुकनासास्वयंगुप्तातिलपर्णिकाऽग्निमन्थल्शुनपलाण्डुप्र- भृतीनां सर्वौषधीनां च बीजग्रहणं काले वापश्च ॥ २९ ॥
मूलकादीनां च बीजग्रहणमिति संबन्धः, एर्वारुकः=कर्कटिका, अलाबुः=तुम्बी, सूरणः=कन्दः, शुकनासा=सर्वतोभद्रा, स्वयंगुप्ता=क- पिकच्छूः, तिलपर्णिका=काश्मरी, अग्निमन्थः=अनेनव नाम्ना प्रथितः, पलाण्डुः=लशुनाकारो लोहितः ॥ २९ ॥
स्वयं च सारस्य परेभ्यो नाख्यानं भर्तृमन्त्रितस्य च ॥३०॥
सारस्य = द्रव्यस्य, परेभ्यो नाख्यानं ‘धनायुषी गुप्ततमे कार्ये’ इति वचनाद्, भर्तृमन्त्रितस्य च नाख्यानं मा ज्ञासीद्भिन्नरहस्येति ॥ ३० ॥
समानाश्च स्त्रियः कौशलेनोज्ज्वलतया पाकेन मानेन तथोप- चारैरतिशयीत ॥ ३१ ॥
समानाः=तुल्याभिजनाः, कौशलेन कलासु, मानेन मनस्वितया, उपचारैर्भर्तरि क्रियमाणैरुपचारैरतिशयीतात्मनोऽधिकत्वख्यापनार्थम्॥३१॥
सांवत्सरिकमायं संख्याय तदनुरूपं व्ययं कुर्यात् ॥ ३२ ॥
१ अध्याये ] एकचारिणीवृत्तप्रकरणम् । २०५
१ अध्याये ] एकचारिणीवृत्तप्रकरणम् । २०५
संख्यायेति । आयमुखाद् वर्षेणैतावदुत्पद्यत इति व्ययं कुर्यात्, तदनुरूपम्=आयानुरूपं, कालयापनार्थम् ॥ ३२ ॥
भोजनावशिष्टाद्रोरसात् सारग्रहणं तथा तैलगुडयोः, कर्पासस्य च सूत्रकर्तनं, सूत्रस्य वानं, शिक्यरज्जुपाशवल्कलसंग्रहणं, कुट्टनकण्डनावेक्षणम्, आचाममण्डतुषकणकुट्यङ्गाराणामुपयोजनम् , भृत्यवेतनभरणज्ञानं, कृषिपशुपालनचिन्तावाहनविधानयोगाः, मेषकुक्कुटलावकशारिकापरभृतमयूरवानरमृगाणामवेक्षणं, दैवसिकायव्ययपिण्डीकरणमिति च विद्यात् ॥ ३३ ॥
सारग्रहणमिति । यज्ञादिषु ब्राह्मणाम्भोजयित्वा, यदवशिष्टं तस्मात् सारग्रहणं, मथितं चापरं भवति, तैलगुडयोः सारग्रहणं सर्षपेक्षुकाण्डपीडनात्, कर्पासस्य सूत्रकरणं, वानमाच्छादनार्थं, शिक्यस्य भाण्डारोपणार्थं, रज्ज्वा जलोद्धरणार्थम् , पाशस्य पशुबन्धनार्थं, वल्कलस्य रज्ज्वाद्यर्थं संग्रहणं, कुट्टनं धान्यानां, कण्डनं तण्डुलानां, तयोरवेक्षणं परीक्षणम्, आचामस्य मण्डस्य च पानार्थं चेटिकादिषूपयोजनं, तुषाणां धारणं कुड्यलेपनादिषु, कणानां क्षुद्रतण्डुलानां कुक्कुटाद्यर्थं, कुटीनां तण्डुलपरागाणां गोमेषाद्यर्थम्, अङ्गाराणां महानसादुत्पन्नानां लोहभाण्डकरणादिषु, भृत्या ये बहिरन्तःकर्मसु नियुक्ताः, तेषां वेतनं प्रतिमासं प्रतिवर्षं वा यो निबन्धः, भरणं प्रतिदिनं भक्तं तयोर्ज्ञानं देशकालकर्मवशेन, कृषिपशुपालनचिन्तेति । कर्षणवापनरोपणादिप्रत्यवेक्षणं कृषिचिन्ता, मुष्टिव्याधिचिकित्साऽऽद्यनुष्ठानचिन्ता पशुपालनचिन्ता, वाहनविधानयोगा अश्वादीनां विधानयोजनम् , मेषादीनां क्रीडनाथ नायकपरिगृहीतानामवेक्षणमशनपानरक्षणैः, प्रत्यहायव्ययस्य पिण्डीकरणमेकीकरणमिति, विद्यादिति, सारग्रहणादि ॥ ३३ ॥
तज्जघन्यानां च जीर्णवाससां सञ्चयस्तैर्विविधरागैः शुद्धैर्वा कृतकर्मणां परिचारकाणामनुग्रहो मानार्थेषु च दानमन्यत्र वोपयोगः॥
तज्जघन्यानामिति । नायकोपभुक्तानां, तैः सञ्चितैः, कृतकर्मणामिति । यैः कर्म कृतम्, मानार्थेषु चेति । मान एवार्थो येषां, ते हि तैर्दत्तैर्मानिता भवन्ति, अन्यत्र वेति । दीपवर्त्यादिषु ॥ ३४ ॥
सुराकुम्भीनामासवकुम्भीनां च स्थापनं तदुपयोगः क्रयविक्रयायव्ययावेक्षणम् ॥ ३५ ॥
एकचारिणीवृत्तं द्वात्रिंशं प्रकरणम् ॥
२०६ सटीके कामसूत्रे [ ४ अधिकरणे,
स्थापनमिति। प्रच्छन्नं, तदुपयोग इति। कार्यवशात्सुराऽऽदीनामुपयोगनं, क्रयविक्रयौ समर्धमहार्घतया, आयव्ययावल्पमहत्तयाऽवेक्षेत ॥ ३५ ॥
नायकमित्राणां च स्रगनुलेपनताम्बूलदानैः पूजनं न्यायतः ॥३६॥
न्यायत इति। गुणजातिवयोऽपेक्षया, पूजनं स्वीकरणार्थं परिचयधर्मार्थं भक्तिख्यापनार्थं च ॥ ३६ ॥
श्वश्रूश्वशुरपरिचर्या तत्पारतन्त्र्यमनुत्तरवादिता परिमिताप्रचण्डालापकरणमनुच्चैर्हासः ॥ ३७ ॥
तत्पारतन्त्र्यं तद्वचनानुष्ठानाद्, अनुत्तरवादिता तयोः प्रत्युत्तरं न देयम्, परिमिताप्रचण्डालापकरणमिति। तयोरग्रतः स्वल्पं च मृदु च ब्रूयाद्, अनुच्चैर्हासस्तत्समीपे ॥ ३७ ॥
तत्प्रियाप्रियेषु स्वप्रियाप्रियेष्विव वृत्तिः ॥ ३८ ॥
तत्प्रियाप्रियेष्विति। तयोरिष्टानिष्टेषु, स्वप्रियाप्रियेष्विव वृत्तिर्यथाऽऽत्मनः प्रियाप्रियौ भवतः ॥ ३८ ॥
भोगेष्वनुत्सेकः ॥ ३९ ॥
भोगेषु महत्स्वपि सत्स्वनुत्सेको लाघवपरिहारार्थं चित्तविकारो न कर्तव्यः ॥ ३९ ॥
परिजने दाक्षिण्यम् ॥ ४० ॥
परिजने नायकस्य सर्वदा दाक्षिण्यमुपसंग्रहार्थम् ॥ ४० ॥
नायकस्यानिवेद्य न कस्मै चिद्दानम् ॥ ४१ ॥
अनिवेद्य न कस्मैचिद्दानं, सपुत्राया अपि स्वातन्त्र्यपरिहारार्थम् ॥४१॥
स्वकर्मसु भृत्यजननियमनमुत्सवेषु चास्य पूजनमित्येकचारिणीवृत्तम् ॥ ४२ ॥
स्वकर्मस्विति। यो यत्र नियुक्तस्तत्र तस्य नियमनं कर्मानतिपातनाथम्, अस्येति। भृत्यजनस्य, पूजनं पानभोजनादिना ॥ ४२ ॥
एकचारिणीवृत्तं द्वात्रिंशं प्रकरणम् ॥
एकचारिण्याः संनिहिते नायके वृत्तमुक्तम्, प्रोषिते तु तद्वृत्तशेषभूता प्रवासचर्याऽऽरभ्यते—
प्रवासे च मङ्गलमात्राभरणा देवतोपवासपरा वार्तायां स्थिता गृहानवेक्षेत ॥ ४३ ॥
१ अध्याये ] प्रवासचर्याप्रकरणम् । २०७
प्रवासे चेति । मङ्गलमात्रमाभरणं शङ्खवलयादिकं यस्याः, नायकाभिवृद्धये देवतामुद्दिश्य च उपवासस्तत्परा, परग्रहणं कादाचित्कत्वनिवृत्त्यर्थं, वार्तायां स्थितेति । नायकवार्ताऽन्वेषणपरेत्यर्थः, ॥ ४३ ॥
गृहानवेक्षेतेति तात्स्थ्यात्कर्माण्वाह—
शय्या च गुरुजनमूले ॥ ४४ ॥
गुरुजनमूल इति । श्वश्रूजनसमीपे, शयनमात्मविशुद्ध्यर्थम् ॥ ४४ ॥
तदभिमता कार्यनिष्पत्तिः ॥ ४५ ॥
तदभिमतेति । गुरुजनाभिमतस्य कार्यस्यानुष्ठानमानुकूल्यख्यापनार्थम् ॥ ४५ ॥
नायकाभिमतानां चार्थिनामर्जने प्रतिसंस्कारे च यत्नः ॥४६॥
अर्जने प्रतिसंस्कारे च यत्न इति । नायकस्य येऽभिमताः, न च तेनापवर्जितास्तेषाम् ॥ ४६ ॥
नित्यनैमित्तिकेषु कर्मसूचितो व्ययः ॥ ४७ ॥
नित्यं कर्माशनपानादि, नैमित्तिकं कर्म बालकोत्सवादि, उचितोव्ययो यावता विधिः संपद्यते, नायककल्पितो वा ॥ ४७ ॥
तदारब्धानां च कर्मणां समापने मतिः ॥ ४८ ॥
तदारब्धानामिति । नायकारब्धानां देवकुलोद्यानादिकर्मणां समापने मतिः, येन प्रकारेण निष्पद्यते तथा कार्यमित्यर्थः ॥ ४८ ॥
ज्ञातिकुलस्यानभिगमनमन्यत्र व्यसनोत्सवाभ्याम् ॥ ४९ ॥
ज्ञातिकुलस्य=पितृगृहस्य, अनभिगमनं, कारणं विना तद्गमनं हि विनाशकारणं स्त्रीणां, कस्य चिद् व्यसने पुत्रशोकादौ, उत्सवे विवाहादौ यातव्यम् ॥ ४९ ॥
तत्रापि नायकपरिजनाधिष्ठिताया नातिकालमवस्थानमपरिवर्तितप्रवासवेषता च ॥ ५० ॥
नायकपरिजनाधिष्ठिताया गमनमात्मविशुद्ध्यर्थं, नातिकालमवस्थानमिति । नातिचिरकालमवस्थानं श्वशुरकोपभयाद्, अपरिवर्तितप्रवासवेषता चेति । उत्सवमधिकृत्येदं वचनम् ॥ ५० ॥
गुरुजनानुज्ञातानां करणमुपवासानाम् ॥ ५१ ॥
गुरुजनानुज्ञातानां करणं, स्वातन्त्र्यपरिहारार्थम् ॥ ५१ ॥
प्रकरणद्वयोपसंग्रहार्थमाह—
| २०८ | सटीके कामसूत्रे | [ ४ अधिकरणे, |
|---|
परिचारकैः शुचिभिराज्ञाऽधिष्ठितैरनुमतेन क्रयविक्रयकर्मणा सारस्यापूरणं तनूकरणं च शक्त्या व्ययानाम् ॥ ५२ ॥
शुचिभिरिति । अर्थोपधाशुद्धैरात्माधिष्ठितैर्न स्वतन्त्रैः, अनुमतेन युक्तेन, क्रयविक्रयकर्मणेति । वणिज्याधर्मेण, सारस्यापूरणं द्रव्यस्याभिवर्धनं, तनूकरणं चेति । कृशीकरणं, शक्त्या व्ययानामिति । कार्यवशाद्यदि व्ययस्य महत्ता स्यात्तदा कृशं सारं कुर्यादित्यर्थः ॥५२॥
आगते प्रकृतिस्थाया एव प्रथमतॊ दर्शनं दैवतपूजनमुपहाराणां चाहरणमिति प्रवासचर्या ॥ ५३ ॥
आगते चेति । प्रवासात्प्रत्यागते नायके, प्रकृतिस्थाया इति । प्रवासवेषावस्थाया एव प्रथमतॊ दर्शनं स्यात्स्वरूपख्यापनार्थं, न पुनरागत इत्यात्मानं प्रसाधयेद्, देवतापूजनं सह परिजनेन, उपहाराणाम् = उपयाचितानाम्, आहरणं दानं देवताभ्यः ॥ ५३ ॥
प्रकरणद्वयोपसंग्रहार्थमाह—
भवतश्चात्र श्लोकौ—
सद्वृत्तमनुवर्तेत नायकस्य हितैषिणी ।
कुलघोषा पुनर्भूवा वेश्या वाऽप्येकचारिणी ॥ ५४ ॥
सदिति । शोभनं वृत्तं प्रत्यक्षे प्रोषिते च, यदुक्तं-'हितैषिणी न कपटेनानुवर्तनम्, इति दर्शनार्थम्, अस्मिन्वृत्ते नायिकात्रयमधिकृत्याह—कुलयोषेति । कन्यैवोढा कुलयोषित्युच्यते, ॥ ५४ ॥
वृत्तानुवर्तने फलमाह—
धर्ममर्थं तथा कामं लभन्ते स्थानमेव च ।
निःसपत्नं च भर्तारं नार्यः सद्वृत्तमाश्रिताः ॥ ५५ ॥
इति श्रीवात्स्यायनीये कामसूत्रे भार्याऽधिकारिके चतुर्थेऽधिकरणे एकचारिणीवृत्तं प्रवासचर्या च प्रथमोऽध्यायः ।
धर्ममिति । स्था'=प्रतिष्ठानं, निःसपत्नं=निष्कण्टकम् ॥५५॥
इति प्रवासचर्या त्रयस्त्रिंशं प्रकरणम् ।
इति श्रीवात्स्यायनीयकामसूत्रटीकायां यशोधररचितायां जयमङ्गलाऽऽख्यायां भार्याऽधिकारिके चतुर्थेऽधिकरण एकचारिणीवृत्तं प्रवासचर्या च प्रथमोऽध्यायः ।
२ अध्याये ] सपत्नीषु ज्येष्ठावृत्तप्रकरणम् । २०९
द्वितीयोऽध्यायः।
सैव यदा सपत्नीभिर्युज्यते, तदा कथं वर्तितव्यमिति ? सपत्नीषु ज्येष्ठावृत्तमुच्यते, तत्र सापत्न्यकारणमाह—
जाड्यदौःशील्यदौर्भाग्येभ्यः प्रजाऽनुत्पत्तेराभीक्ष्ण्येन दारिकोत्पत्तेर्नायकचापलाद्वा सपत्न्यधिवेदनम् ॥ १ ॥
जाड्येति । जाड्यात्=शाठ्याद्, दौःशील्याद्=चारित्रखण्डनात्, प्रजाऽनुत्पत्तेर्वन्ध्यत्वाद्, आभीक्ष्ण्येनेति । पौनःपुन्येन दुहितुरुत्पादादित्येतानि स्त्रीगतानि कारणानि, नायकचापलादिति। नायकस्येन्द्रियलौल्यात् , सपत्न्यधिवेदनं सपत्नीलाभः ॥ १ ॥
तदादित एव भक्तिशीलवैदग्ध्यख्यापनेन परिजिहीर्षेत् ॥२॥
तदिति । तस्मादादित एवादावेव यद्वोढा भक्तिशीलवैदग्ध्यख्यापनेन यथाक्रमं जाड्यादित्रयं परिहर्तुमिच्छेद्, नायकचापल वैदग्ध्यख्यापनेनैव ॥ २ ॥
प्रजाऽनुत्पत्तौ च स्वयमेव सापत्न्ये चोदयेत् ॥ ३ ॥
प्रजाऽनुत्पत्तौ स्वयमेवान्यथा तेन कर्तव्यमेव, सापत्न्ये चोदयेत्, कुरु विवाहमिति, दारिकोत्पत्तावप्ययमेव क्रमः, स्त्रीपरिग्रहस्य पुत्रफलकत्वात् ॥ ३ ॥
अधिविद्यमाना च यावच्छक्तियोगादात्मनोऽधिकत्वेन स्थितिं कारयेत् ॥ ४ ॥
अधिविद्यमानेति । सापत्न्ये युज्यमाना न त्वधिविन्ना, यावच्छक्तीति । यावती शक्तिस्तदपेक्षयाऽऽत्मनः स्थितिं कारयेद्, अधिकत्वेनेति । सपत्न्याः सकाशादाधिक्येनेत्यर्थः ॥ ४ ॥
अधिविन्ना तु किं कुर्यादित्याह—
आगतां चैनां भगिनिकावदीक्षेत ॥ ५ ॥
आगतामिति । सपत्नीं भगिनिकावत् कनीयसीमिव भगिनीम्, अल्पे कन् ॥ ५ ॥
नायकविदितं च प्रादोषिकं विधिमतीव यत्नादस्याः कारयेत् ॥६॥
नायकविदितमिति । यथा नायको जानात्यनया कारितमिति, प्रादोषिकं प्रदोषभवं संस्कारम्, अतियत्नादनिच्छन्त्या अपि तस्याः स्नेहख्यापनार्थं परिचारिकया कारयेत् ॥ ६ ॥
सौभाग्यजं वैकृतमुत्सेकं वाऽस्या नाद्रियेत ॥ ७ ॥
२७ का० सू०
२१० सटीक कामसूत्रे [ ४ अधिकरणे,
सौभाग्यजं वैकृतं यदहंकृत्य व्याहृतम्, औत्सुक्यमुत्सेकं चित्तवि- कारं नाद्रियेत नापेक्षेत, अभिभवभयात् ॥ ७ ॥
भर्तरि प्रमाद्यन्तीमुपेक्षेत ॥ ८ ॥
भर्तेरीति । भर्तृविषये प्रमाद्यन्तीं प्रमादं यान्तीमुपेक्षेत, अनेनव स्खलितदोषेण दौर्भाग्यं स्यादिति ॥ ८ ॥
यत्र मन्येतार्थमियं स्वयमपि प्रतिपत्स्यत इति तत्रैनामादरत- एवानुशिष्यात् ॥ ९ ॥
यत्रेति । यस्मिन्प्रमादे मन्येत, नायकसंभोगार्थमियं कृत्वा सपत्नी स्वयमेव प्रतिपत्स्यते प्रमादो माभूदिति, तत्रैनां स्नेहख्यापनार्थमादरतो-ऽनुशिष्यात्पुनर्मा कार्षीरिति ॥ ९ ॥
नायकसंश्रवे च रहसि विशेषानधिकान्दर्शयेत् ॥ १० ॥
नायकसंश्रवे चेति । नायकस्य श्रुतिगोचरे सति, रहसि च यत्रान्यो-न शृणोति, विशेषानिति । कलाविशेषान्, अधिकानिति । ये नायकस्य न दर्शिताः, तद्दर्शने ह्युभावपि स्निह्यतः ॥ १० ॥
तदपत्येष्वविशेषः ॥ ११ ॥
तदपत्येष्विति । अपुत्रया सपुत्राया दर्शयितव्यः ॥ ११ ॥
परिजनवर्गेऽधिकानुकम्पाः ॥ १२ ॥
परिजनवर्ग इति । सपत्न्याः, अधिकानुकम्पा यद्यसौ नायकस्या-प्यभिमतः ॥ १२ ॥
मित्रवर्गे प्रीतिः ॥ १३ ॥
मित्रवर्ग इति । तस्या विवाहकाले यो मित्रवर्गस्तस्मिन्प्रीतिः स्वी-कारार्थम् ॥ १३ ॥
आत्मज्ञातिषु नात्यादरः ॥ १४ ॥
आत्मनो ज्ञातिषु नात्यादरो वचनीयतापरिहारार्थम् ॥ १४ ॥
तज्ज्ञातिषु चातिसंभ्रमः ॥ १५ ॥
तज्ज्ञातिष्विति । सपत्नीज्ञातिष्वतिसंभ्रमोऽत्यादरः स्नेहख्यापना-र्थम् ॥ १५ ॥
बह्वीभिस्त्वधिविन्नाऽव्यवहितया संसृज्येत ॥ १६ ॥
बह्वीभिस्त्वधिविन्ना, सपत्नीभिरव्यवहितयाऽनन्तरया कनीयस्या संसृज्येत विदितशीलत्वात् ॥ १६ ॥
यां तु नायकोऽधिकां चिकीर्षेत्तां भूतपूर्वसुभगया प्रोत्साह्य
२ अध्याये ] सपत्नीषु कनिष्ठावृत्तप्रकरणम् । २११
२ अध्याये ] सपत्नीषु कनिष्ठावृत्तप्रकरणम् । २११
कलहयेत् ॥ १७ ॥
यां त्विति । सपत्नीं, तासु बह्वीषु नायकोऽधिकां स्नेहमानाभ्यां चिकीर्षेत्कर्तुमिच्छेद् , भूतपूर्वसुभगयेति । नायकस्य प्राक्तन्या सुभगया, प्रोत्साह्य तामेव सौभाग्यबीजोपन्यासेन च तयैव कलहयेत् ॥ १७ ॥
ततश्चानुकम्पेत ॥ १८ ॥
तत इति । उत्तरकालमनुकम्पेत कलहितां प्रच्छन्ने समाश्वासयेत्कलहभञ्जनार्थम् ॥ १८ ॥
ताभिरेकत्वेनाधिकां चिकीर्षितां स्वयमविवदमाना दुर्जनीकुर्यात् ॥ १९ ॥
ताभिरेकत्वेनेति । सपत्नीभिरन्याभिरेकत्वेनेत्यैक्येन संहतिधर्मेण स्थिताभिरित्यर्थः, एकीभावेऽपि सैव सौभाग्यबीजोपन्यासहेतुं नायकस्याग्रतो दुर्जनीकुर्याद्, येन नायकस्य तस्यां न सद्बुद्धिः स्याद्, दूष्योहिबहुभिः सकलैश्चाहियमाणः, तत्रापि स्वयमविवदमाना मध्यस्था सती, नैतत्कृतः प्रयोग इति ख्यापनार्थम् ॥ १९ ॥
नायकेन तु कलहितामेनां पक्षपातालम्बनोपबृंहितामाश्वासयेत् ॥ २० ॥
नायकेन तु कलहितामेनां, दौर्जन्योपन्यासेन, पक्षपातालम्बनोपबृंहितामिति । तत्परिग्रहेणोपगृहीतां दापितप्रत्युत्तरामाश्वासयेत् ॥ २० ॥
कलहं च वर्धयेत् ॥ २१ ॥
नायकेन सह, यलस्य तदर्थत्वात् ॥ २१ ॥
मन्दं वा कलहमुपलभ्य स्वयमेव संधुक्षयेत् ॥ २२ ॥
भिद्यमानं तूपलभ्य, कलहं संधुक्षयेद्यथा न मन्दीभवति ॥ २२ ॥
यदि नायकोऽस्यामद्यापि सानुनय इति मन्येत तदा स्वयमेव संधौ प्रयतेत ॥ २३ ॥
इति ज्येष्ठावृत्तम् ।
स्वयं वा संधौ प्रयतेत, यद्ययमेकान्तेनास्यां निरनुनयस्तदा तिष्ठत्वमन्निधैव मैनामवमन्यस्वेति प्रसादयेत् ॥ २३ ॥
इति ज्येष्ठावृत्तं चतुस्त्रिंशं प्रकरणम् ।
कनिष्ठाऽपि भार्या कथं वर्तेतेति ? कनिष्ठावृत्तमुच्यते—
कनिष्ठा तु मातृवत्सपत्नीं पश्येत् ॥ २४ ॥
कनिष्ठा त्विति । मातृवन्मातरमिव ज्येष्ठाम् ॥ २४ ॥
२१२ सटीक कामसूत्रे [ ४ अधिकरणे,
ज्ञातिदायमपि तस्या अविदितं नोपयुञ्जीत ॥ २५ ॥
ज्ञातिदायमिति । पितृभ्यां दत्तम्, भर्तृदत्तमित्यपिशब्दाद् , अविदितं नोपयुञ्जीत, अङ्कार्पणोपाय एषः ॥ २५ ॥
आत्मवृत्तान्तांस्तदधिष्ठितान्कुर्यात् ॥ २६ ॥
आत्मवृत्तान्तानिति । आत्मनि प्रतिवद्धान् व्यवहारान्, तदधिष्ठितान् ज्येष्ठस्वामिकान् ॥ २६ ॥
अनुज्ञाता पतिमधिशयीत ॥ २७ ॥
अनुज्ञाता ज्येष्ठया, क्रमप्राप्तेऽधिशयने पतिमधिशयीत, 'अधिशीङ्स्थाऽऽसां कर्म' इति कर्मसंज्ञा ॥ २७ ॥
न वा तस्या वचनमन्यस्याः कथयेत् ॥ २८ ॥
तस्या वचनं ज्येष्ठावचनं सदसद्वाऽन्यस्या अग्रे न कथयेत् , कलहपरिहारार्थम् ॥ २८ ॥
तदपत्यानि स्वेभ्योऽधिकानि पश्येत् ॥ २९ ॥
तदपत्यानि ज्येष्ठापत्यानि ज्येष्ठान्यज्येष्ठानि च, स्वेभ्योऽपत्येभ्योऽधिकं पश्येत् ॥ २९ ॥
रहसि पतिमधिकमुपचरेत् ॥ ३० ॥
रहसि शयने, अधिकमुपचरेद्येनायमन्याभ्यस्तस्यामनुरज्येत ॥ ३० ॥
आत्मनश्च सपत्नीविप्रकारजं दुःखं नाचक्षीत ॥ ३१ ॥
सपत्नीविप्रकारजं सपत्नीपरिभवजं, नात्मना परस्याचक्षीत, स्वयं कथ्यमानं नायको न प्रतीयाद् , अन्येन तु कथयेत् ॥ ३१ ॥
पत्युश्च सविशेषकं गूढं मानं लिप्सेत ॥ ३२ ॥
पत्युः सविशेषकमिति । अन्यतरभार्याभ्यो वैशेषिकीं पूजां पत्युः सकाशादप्रकटं लब्धुमिच्छेत् ॥ ३२ ॥
अनेन खलु पथ्यदानेन जीवामीति ब्रूयात् ॥ ३३ ॥
अनेनेति । सविशेषेण मानेन पथ्यदानेन शम्बलभूतेन जीवामि सपत्नीवागुरायामिति ब्रूयात् ॥ ३३ ॥
तत्तु श्लाघया रागेण वा बहिर्नाचक्षीत ॥ ३४ ॥
तन्मानं, श्लाघया विकत्थनेन, रागेण वेति । सपत्नीक्रोधेन, बहिः-सामान्यजनस्य नाचक्षीत ॥ ३४ ॥
दोषमाह--
भिन्नरहस्या हि भर्तुरवज्ञां लभते ॥ ३५ ॥
२ अध्याये ] पुनर्भूवृत्तप्रकरणम् । २१३
२ अध्याये ] पुनर्भूवृत्तप्रकरणम् । २१३
भिन्नरहस्या हीति । अवज्ञां तिरस्कारम् ॥ ३५ ॥
ज्येष्ठाभयाच्च निगूढसंमानार्थिनी स्यादिति गोनर्दीयः ॥ ३६ ॥
ज्येष्ठाभयादिति । अन्यथा सविशेषं मानं पश्यन्ती कुप्येदनर्थं वा चिन्तयेद्, गोनर्दीयमतमनुमतमप्रतिषिद्धत्वात् ॥ ३६ ॥
दुर्भगामनपत्यां च ज्येष्ठामनुकम्पेत नायकेन चानुकम्पयेत् ॥ ३७ ॥
ज्येष्ठामनुकम्पेत नैकान्तेनाभिभवेत्, तथाभूताया निष्प्रत्याधारत्वाद्, नायकेन चानुकम्पयेत्संभाषणं क्रियतामिति, आत्मसाधुत्व ख्यापनार्थम् ॥ ३७ ॥
प्रसह्य त्वेनामेकचारिणीवृत्तमनुतिष्ठेत् ॥ ३८ ॥
इति कनिष्ठावृत्तम् ॥
एनामिति । दुर्भगामनपत्यां ज्येष्ठामाक्रम्य, ज्येष्ठाकनिष्ठयोर्मध्यवर्तिनीनां पूर्वापरापेक्षया ज्येष्ठाकनिष्ठावृत्तं योज्यम् ॥ ३८ ॥
इति कनिष्ठावृत्तं पञ्चत्रिंशं प्रकरणम् ।
यथा कन्या भार्या तथा पुनर्भूरिति पुनर्भूवृत्तमुच्यते, पुनर्भूद्विविधा-क्षतयोनिरक्षतयोनिश्च, तत्रान्त्या संस्कारार्हत्वात्कन्यायामेवान्तर्भूता,
यथोक्तम्—
'पुनरक्षतयोनित्वादुह्यते या यथाविधि' इति ।
द्वितीयाया न संस्कारः, स्वीकार एव केवलं, सा च लोकेऽवरुद्धेत्युच्यते, सा चैवं विधा शास्त्रेऽनुज्ञातैव,
यथाऽऽह वसिष्ठः—
'मनोदत्ता वचोदत्ता या च मङ्गलवाचिका ।
उदकस्पर्शिता चैव या च पाणिगृहीतिका ॥
अग्निं परिगता चैव पुनर्भूः प्रसवा च या' इति ।
अत्र पूर्वाः षडक्षतयोनयः, प्रसवेति । क्षतयोनिरित्यर्थः ।
तामेवाधिकृत्य वृत्तमाह—
विधवा त्विन्द्रियदौर्बल्यादातुरा भोगिनं गुणसंपन्नं च या पुनर्विन्देत्सा पुनर्भूः ॥ ३९ ॥
विधवेति । मृतभर्तृका, इन्द्रियदौर्बल्यादिति । इन्द्रियाणि नियन्तुमसमर्थत्वाद्, आतुरा कामेन बाध्यमाना, भोगिनमिति । उपभोगसम्पन्नं,-गुणसम्पन्नमिति । नायकगुणयुक्तं, या पुनर्विन्देद् द्वितीयं पतिं लभेत, सा पुनर्भूभार्यात्वेन पुनर्भवतीति कृत्वा; भोगिनं गुणसम्पन्नमिति, गोनर्दीयमतमेतद्भविष्यति ॥ ३९ ॥
| २१४ | सटीके कामसूत्रे | [ ४ अधिकरणे, |
|---|
यतस्तु स्वेच्छया पुनरपि निष्क्रमणं निर्गुणोऽयमिति तदाऽन्यं-
काङ्क्षेतेति बाभ्रवीयाः ॥ ४० ॥
यतस्त्विति। भर्तृगृहादातुरा स्वेच्छया निष्क्रान्ता, पुनरपि यतः पुरुषात्स्वेच्छया निष्क्रमणं स्याद्, निर्गुणोऽयमिति, निष्क्रमणोपायान्निर्गुणमपि भोगिनमाकाङ्क्षेत ॥ ४० ॥
सौख्यार्थिनी सा किलान्यं पुनर्विन्देत ॥ ४१ ॥
सौख्यार्थिनी = विषयपरिभोगार्थिनी, किलेति वितर्के ॥ ४१ ॥
गुणेषु सोपभोगेषु सुखसाकल्यं तस्मात्ततो विशेष इति गोनर्दीयः ॥ ४२ ॥
सुखसाकल्यमिति। गुणसुरतपरिभोगसुखयोः समवायात्, तत्किमिति निष्क्रामति, यतश्चैवं तस्मात्ततो निर्गुणभोगिनो विशिष्यते गुणवान्भोगी, या तु पुनः पुनर्निष्क्रामत्यसौ वेश्याविशेषेऽन्तर्भवति ॥४२॥
आत्मनश्चित्तानुकूल्यादिति वात्स्यायनः ॥ ४३ ॥
आत्मनश्चित्तानुकूल्यादिति। सत्यपि गुणवति भोगिनि चित्तं चेन्नानुकूलं तथाऽपि न सुखसाकल्यं, तस्मादयमपरो विशेषः, तेनोक्तलक्षणाद्गम्योऽन्य इति दर्शयति ॥ ४३ ॥
सा बान्धवैर्नायकादापानकोद्यानश्रद्धादानमित्रपूजनादि व्ययसहिष्णु कर्म लिप्सॆत ॥ ४४ ॥
सेति। विधवा विन्दमाना, बान्धवैः स्वैः, नायकाद्यत्कर्मणा लब्धुमिच्छेत्तत्रापानकं मद्यगोष्ठी, उद्यानं = पुष्पफलौपयिकं, श्रद्धादानं यच्छ्रद्धया दीयते, मित्रपूजनादीति। आदिशब्दात्स्वजनं च वस्त्रादिना, एतेषु कर्तव्येषु यद्ययं सहते कर्म न तु ग्रासाच्छादनमात्रमिति, इयमुत्तमप्रकृतेर्लिप्सा ॥ ४४ ॥
आत्मनः सारेण वाऽलङ्कारं तदीयमात्मीयं वा बिभृयात् ॥४५॥
आत्मनः सारेण वेति। मध्यमाधमप्रकृतेर्लब्धे कर्मणि व्यापारमाह—अलङ्कारमिति। तदीयं नायकसम्बन्धिनं, सावधानीभूय धारयेदित्यर्थः ॥ ४५ ॥
प्रीतिदायेष्वनियमः ॥ ४६ ॥
प्रीतिदायेष्विति। प्रीत्या दत्तेष्वनियमो धारणं प्रति ॥ ४६ ॥
स्वेच्छया च गृहान्निर्गच्छन्ती प्रीतिदायादन्यन्नायकदत्तं दीयेत निष्कास्यमाना तु न किञ्चिद्दद्यात् ॥ ४७ ॥
२ अध्याये ] पुनर्भूगावृत्तप्रकरणम् । २१५
२ अध्याये ] पुनर्भूगावृत्तप्रकरणम् । २१५
स्वेच्छया चेति । न तु नायकदोषात्तेन गृहान्निर्गच्छन्ती प्रीतिदायादन्यन्नायकदत्तं लोहक्षुरं दीयेत दाप्येत ॥ ४७ ॥
सा प्रभविष्णुरिव तस्य भवनमाप्नुयात् ॥ ४८ ॥
सेति । जिगमिषुः, प्रभविष्णुरिव स्वामिनीव नायकगृहं स्वीकुर्यात्॥४८॥
तावन्तमपि कालं निजासु किं कुर्यादित्याह—
कुलजासु तु प्रीत्या वर्तेत ॥ ४९ ॥
कुलजास्विति । धर्मोढासु, प्रीत्या = स्नेहेन ॥ ४९ ॥
दाक्षिण्येन परिजने सर्वत्र सपरिहासा मित्रेषु प्रतिपत्तिः ॥५०॥
परिजने सर्वत्र कुलजानां नायकस्य दाक्षिण्येन वर्तेत, सपरिहासा सविकारा ॥ ५० ॥
कलासु कौशलमधिकस्य च ज्ञानम् ॥ ५१ ॥
कलासु कौशलं दर्शनीयमधिकस्य नायकाविदितस्य ज्ञानं दर्शयितव्यम् ॥ ५१ ॥
कलहस्थानेषु च नायकं स्वयमुपालभेत ॥ ५२ ॥
कलहस्थानेष्विति । उचितविच्छेदः स्वैरिणीसंसर्गोऽचिरात्तत्र गमनं वासकान्निष्क्रमणं चेत्यस्याः कलहस्थानानि, तेषु स्वयमुपालभेत॥५२॥
रहसि च कलया चतुःषष्ट्याऽनुवर्तेत ॥ ५३ ॥
रहसि चेति । नायकं शयनागतं, कलयेति । आलिङ्गनादिभिः पुरुषोपसृप्तान्तैः ॥ ५३ ॥
सपत्नीनां च स्वयमुपकुर्यात् ॥ ५४ ॥
सपत्नीनां कुलजानाम्, उपकुर्यादुत्पन्ने प्रयोजने ॥ ५४ ॥
तासामपत्येष्वाभरणदानम् ॥ ५५ ॥
आभरणं मण्डनकादि ॥ ५५ ॥
तेषु स्वामिवदुपचारः ॥ ५६ ॥
स्वामिवदुपचारस्तेषां कुलसंततिहेतुत्वाद् ॥ ५६ ॥
मण्डनकानि वेषानादरेण कुर्वीत ॥ ५७ ॥
मण्डनकानि पुष्पानुलेपनादीनि ॥ ५७ ॥
परिजने मित्रवर्गे चाधिकं विश्राणनम् ॥ ५८ ॥
परिजन इति । आत्मीये, विश्राणनमिति । दानम् ॥ ५८ ॥
समाजापानकोद्यानयात्राविहारशीलता च॥ ५९ ॥
इति पुनर्भूवृत्तम् ॥
२१६ सटीक कामसूत्रे [४ अधिकरणे,
समाजेति । गोष्ठीशीलता, आपानशीलता, उद्यानविहारशीलता, यात्राविहारशीलता चेति ॥ ५९ ॥
पुनर्भूवृत्तं षट्त्रिंशं प्रकरणम् ॥
आसां भार्याणां दुर्भगाऽपि काचित्संभवति, तया कथं वर्तितव्य-मिति दुर्भगावृत्तमुच्यते—
दुर्भगा तु सापत्न्यपीडिता या तासामधिकमिव पत्यावुपच-रेत्तामाश्रयेत् ॥ ६० ॥
दुर्भगा त्विति । सापत्न्यपीडितेति । दौर्भाग्यफलं, तासामिति । सपत्नीनां मध्ये या पत्यावुपचरेद्, अधिकमिवेति । नायकेनाधिकृतेन या त्वधिका सपत्न्युपचिता तां सुतरामेवाश्रयेत् ॥ ६० ॥
प्रकाश्यानि च कलाविज्ञानानि दर्शयेत् ॥ ६१ ॥
तामाश्रित्य प्रकाश्यानि कलाविज्ञानानि पत्रच्छेद्यादिकौशलानि दर्शयेत् ॥ ६१ ॥
दौर्भाग्याद्रहस्यानामभावः ॥ ६२ ॥
दौर्भाग्याद्रहस्यानामभावः, वैदग्ध्यख्यापनं हि दौर्भाग्यनिवृत्ति-कारणम् ॥ ६२ ॥
नायकापत्यानां धात्रीकर्माणि कुर्यात् ॥ ६३ ॥
धात्रीकर्माण्यभ्यञ्जनोद्वर्तनस्नपनादीनि ॥ ६३ ॥
तन्मित्राणि चोपगृह्य तैर्भक्तिमात्मनः प्रकाशयेत् ॥ ६४ ॥
तन्मित्राणि चेति । नायकमित्राणि च, उपगृह्य प्रियहिताभ्यां, तैरिति । उपगृहीतैर्भक्तिमात्मनः श्रावयेद्दशाठ्यख्यापनार्थम् ॥ ६४ ॥
धर्मकृत्येषु च पुरश्चारिणी स्याद् व्रतोपवासयोश्च ॥ ६५ ॥
धर्मकृत्येषु = श्राद्धादिषु, पुरश्चारिणी = प्रारम्भिका, स्याद्, व्रतोप-वासयोश्च नायकेन क्रियमाणयोः पुरश्चारिणी ॥ ६५ ॥
परिजने दाक्षिण्यं, न चाधिकमात्मानं पश्येत् ॥ ६६ ॥
परिजने नायकस्य, दाक्षिण्यमानुकूल्यं दर्शयितव्यं, न चाधिक-मात्मानं पश्येत्सपत्नीभ्यः परिजनेभ्यश्च दौर्भाग्यहेतुत्वात् ॥ ६६ ॥
इति बाह्यमेतद् वृत्तम् ॥
आभ्यन्तरमाह—
शयने तत्सात्म्येनात्मनोऽनुरागप्रत्यायनम् ॥ ६७ ॥
शयन इति । तत्सात्म्येनेति । नायकानुकूल्येन, यथैव नायकोऽभि-युङ्क्ते, तथैवानिच्छन्त्यप्यात्मनोऽनुरागमातृसिं प्रत्याययेत् ॥ ६७ ॥
२ अध्याये ] आन्तःपुरिकवृत्तप्रकरणम् । २१७
२ अध्याये ] आन्तःपुरिकवृत्तप्रकरणम् । २१७
न चोपालभेत वामतां च न दर्शयेत् ॥ ६८ ॥
न चोपालभेतेति । तवाहमप्रियेति, वामतां प्रातिकूल्यमङ्गगूहनेन न दर्शयेत् ॥ ६८ ॥
यया च कलहितः स्यात्कामं तामावर्तयेत् ॥ ६९ ॥
यया च सपत्न्या कलहितः स्यात्तामावर्तयेदभिमुखीकुर्यात्, काममिति । अभ्युपगमे, अनेनापि प्रकारेण ममाभिमुखः स्यादिति ॥ ६९ ॥
यां च प्रच्छन्नां कामयेत्तामनेन सह संगमयेद्गोपयेच्च ॥ ७० ॥
यां प्रच्छन्नां परस्त्रियं कामयेदनेन दूतीकर्मणा तां संगमयेत्, काममित्येव, मर्माणि चास्य शयनगताऽवबुध्येत, मर्मज्ञतया च विधेयः स्यादिति, गोपयेच्चेतरस्मै नाचक्षीत ॥ ७० ॥
यथा च पतिव्रतात्वमशाठ्यं नायको मन्येत तथा प्रतिविदध्याद् ॥ ७१ ॥
इति दुर्भगावृत्तम्
प्रतिविदध्यादनुतिष्ठेद्, जाड्यदौःशील्ययोः प्रायेण दौर्भाग्यहेतुत्वात् ॥ ७१ ॥
इति दुर्भगावृत्तं सप्तत्रिंशं प्रकरणम् ॥
यथा भार्याया अधिकारो भार्याऽधिकारस्तथा भार्यायां नायकस्यापीति, सप्तमीसमासोऽपि द्रष्टव्यः, अन्यथा नायकेन सङ्गताऽप्यनुवर्तिता न सम्प्रयुज्यते, तत्र नायको द्विविधः—राजा जानपदश्च, तत्र पूर्वमधिकृत्यान्तःपुरिकमुच्यते, अन्तःपुरे भवं वृत्तमान्तःपुरिकम्, ‘रोपधेतोः प्राचाम’ इति वुञ्,
ननु च यथा राज्ञो वृत्तं तथाऽन्तःपुराणामपि वक्तव्यमित्याह—
अन्तःपुराणां च वृत्तमेतेष्वेव प्रकरणेषु लक्षयेत् ॥ ७२ ॥
अन्तःपुराणां चेति । तत्स्थस्त्रीणामेवाभिधानम्, एतेष्वेव प्रकरणेषु लक्षयेत्, तत्राप्येकचारिणीज्येष्ठाऽऽदयः सन्तीति पृथङ्नोक्तम् ॥ ७२ ॥
राज्ञस्तु पृथगुच्यते—
माल्यानुलेपनवासांसि चासां कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुर्देवीभिः प्रहितमिति ॥ ७३ ॥
आसामिति । आन्तःपुरिकाणां, वासांसि च यथासम्भवं गृहीत्वा, कञ्चुकीया महत्तरिका वा राज्ञो निवेदयेयुः, देवीभिः प्रहितमिति ॥ ७३ ॥
तदादाय राजा निर्माल्यमासां प्रतिप्राभृतकं दद्यात् ॥ ७४ ॥
२८ का० सू०