कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)
Karpuramanjari Sattaka of Rajasekhara with Commentary
महाकवि राजशेखर द्वारा
द्वितीयं जवनिकान्तरम् ७७ राजा—ईदिसो जेव दोहउस्स पहावो । विचक्षणा—अअं तिलअहुमो । ( कर्पूरमञ्जरी तिरं नियंपरलोकयति । ) राजा— तिक्खत्तणं तरलाणं कअलकळासंवरागिअक्खाणं पि से पासे पंचसरं सिलीमुहधरं णिच्चं सुणंताणँ अ । णेत्ताणं तिलअहुमे णिवडिदा घाही मअच्छीअ जं तं सो मंजरिपुंजदंतुरसिरो रोमंचिदो व द्विओ ॥ ४६ ॥ विचक्षणा—एमो वि असोअसाही । ( कर्पूरमञ्जरी चरणताडनं नाटयति । ) — राजा— ईदृश एव दोहदस्य प्रभावः । विचक्षणा— अयं तिलकद्रुमः । —
७८ कर्पूरमञ्जरी राजा— असोअतरुताडणं रणिदणेउरेणंहिणा कदं च भअलंछणच्छविमुहीअ हेलुलसं। सिहासु सअलासु वि त्थरवअमंडणाडंवर ठिदं च गअणगणे जणणिरिक्खणिज्जं खणं ॥ ४७ ॥ विदूषकः—भो वअस्स ! अ सअ ण कद दोहलदाणं देवीए जाणासि एत्थ कि कारणं ? राजा—तुवं जाणासि ? विदूषकः—भणामि जइ देवो ण कुप्पदि । राजा—को एत्थ रोसावसरो ? भण उम्मुद्दिदा जीहा । राजा— अशोकतरुताडनं रणितनूपुरेणांघ्रिणा कृतं च मृगलाञ्छनच्छविमुख्या हेलोलसम्। दिक्ष्वासु सरलास्वपि मरुन्मण्डनाडम्बर स्थितं च गगनाङ्गणे जननिरीक्षणीयं क्षणम् ॥ मृगलाञ्छनच्छविः शशाङ्ककान्तिर्मुखं यस्याः । मृगलाञ्छनस्य दृष्टविर्यम्भिण सादृशं मुखं यस्या इति वा । तादृश्या कर्पूरमञ्जर्या । अत्रोभयमपि समकाले बोध्यमिति योज्यते । अत्रापि च्छत्राङ्गित्वानुप्रागोपमादण्डपारा रूदा । विदूषक —
द्वितीयं जवनिकान्तरम् ७९ विदूषकः— इह जइ वि कामिणीणं सुंदरेरं धरइ अवयवाण सिरी । अट्ठिद्देधस्स इव णिच्चसइ तह वि हु तारुन्नए लच्छी ॥ ४८ ॥ राजा—मुणिदो^३ दे अहिप्पाओ । किं पुण किं पि भणामो । बालाओ होंति कोऊहलेण प्पेव चञ्चलचित्ताओ । दंरोल्लसितथणीओ पुण धरंति मअरद्धअरहस्सं ॥ ४९ ॥ विदूषकः—तरुणो वि रूअरेहारहम्सेण फुल्लंति । ण उणो रह- रहस्स जाणंति । ( नेपथ्ये । ) वैतालिकः—सुअसंझा भोदु देवस्स । विदूषकः— इह यद्यपि कामिनीनां सौन्दर्यं धारयत्यवयवानां श्रीः । अधिदेवतेव निवसति तथापि खलु तारुण्ये लक्ष्मीः ॥ अत्रापि व्यतिरेकोऽग्रे । राजा— श्रुतस्तेऽभिप्रायः । किं पुन किमपि भणाम । बाला भवन्ति कौतूहलेनैवमेव चपलचित्ताः । दरोल्लसितस्तनीस्तु पुनर्निदधति मकरध्वजरहस्यम् ॥ विदूषकः— तरवोऽपि रूपरेखाहर्षेण विकसन्ति । न पुन रतिरहस्यं जानन्ति । यत्तारुणीकुचसंस्पर्शन विनापि विकसन्तीति भावः । वैतालिकः— सुगन्ध्या भवतु देवस्य,– १ 'विब्भमे' इति पाठः । २ 'दीए' इति पाठः । ३ 'सुणिदो' इति टीकाभिमतः पाठः । ४ 'दरुण्णि अधणीसु पुने णिध्वसइ गअर' इति टीकाभिमतः पाठः ।
८० कर्पूरमञ्जरी लोआणं लोअणेहिं सह कमलवणं अद्धणिद्दं कुणंतो मुंचंतो तिव्वभावं सह अ संहरिसं माणिणीमाणसेहिं। मंजिट्ठारत्तसुत्तच्छविकिरणचओ चक्कवाएक्कमित्तो जादो अत्थाचलत्थो उवह दिणमणी पक्कणारंगपिंगो॥ ५० राजा—भो वअस्स! संणिहिदो संझासमओ वट्टदि। विदूषकः—संकेदकालो कथिदो बंदीहि। कर्पूरमञ्जरी—सहि विअक्खणे! गमिस्सं दाव। विआलो संपत्तो। विचक्षणा—एवं कीरदु। (इति परिक्रम्य निष्क्रान्ताः सर्वे।) इति द्वितीयं जवनिकान्तरम्।
तृतीयं जवनिकान्तरम् ८१ तृतीयं जवनिकान्तरम् ( ततः प्रविशति राजा विदूषकश्च । ) राजा—( तामनुध्याय । ) दूरे किञ्चदु चंपवस्स कलिआ कज्जं हरिद्दाय किं ओलोहाइ त्ति फंचणेण गणणा का णाम जण्येण वि । लावण्णस्स पडग्गदिंदुमहुरुच्छाअस्स तिस्सा पुरो पग्भट्ठेहि वि केसरस्स कुसुमेक्केरेहि किं कारणं ॥ १ ॥ अवि अ,— मरगअमंणिगुच्छा हारलट्ठि व्व तारा भमरकवलिअन्ता मालईमालिअ व्व । रहसवलिअकंठं तीअ दिट्ठी चरित्ता सवणपहणिविट्ठा माणसं मे पइट्ठा ॥ २ ॥ दूरे इति । दूरे कियतो चम्पकस्य कलिका कार्यं हरिद्रया किं उत्तप्तेन च काञ्चनेन गणना का नाम जन्येनापि । लावण्यस्य मनोज्ञेन्दुमधुरच्छायस्य तस्याः पुरः प्रस्भ्रष्टैरपि केसरस्य कुसुमोत्करैः किं कारणम् ॥ तस्या लावण्यस्येति सम्बन्धः । अत्राहैतूपमे । आक्षेपलक्षणन्तु दण्डिनः—'प्रति- षेधपुरःकारोक्तिराक्षेपः ।' काव्यादर्शोऽपि ( २।१२० )—'प्रतिषेधोक्तिराक्षेपः' इति । अपि च,— मरकतमणिगुच्छा हारयष्टिरिव तारा भ्रमरकवलितान्तः मालतीमालिकेव । रभसविलितकण्ठी तस्या दृष्टिंश्चरित्वा श्रवणपथनिविष्टा मानसं मे प्रविष्टा ॥ तारेव भ्रमरगतेन कवलितान्तं यस्या इति वा । अत्रापि रूपकोत्प्रेक्षे । १ 'उत्तप्तेन च' इति टीकासम्मतः पाठः । २ 'वलितकण्ठं' इति टीकासम्मतः पाठः । क० म० ६
८२ कर्पूरमञ्जरी विदूषकः—भो वअस्स ! किं तुमं भज्जाजिदो पेइव किं पि किं पि कुरुकुराअंतो चिट्ठसि ? राजा—वअस्स ! पिअं सुविणअं दिट्ठं । तं अणुसंधामि । विदूषकः—ता कीदिसं तं कहेदु पिअवअस्सो । राजा— आणे पंकरुहाणणा सुविणए मं केलिसंभागदं कंदोट्टेण तडत्ति ताडिदुमणा हत्थंतरे संठिदा । ता कोवेण मए वि सत्ति गदिदा दिट्ठी घरिल्लंचले तं मोत्तूण गदं च तीअ सहसा पट्टा खु णिद्दा वि मे ॥ ३ ॥ विदूषकः—(स्वगतम् ।) भोदु एवं दाव । (प्रकाशम् ।) भो वअस्स ! अज्ज मए वि सुविणअं दिट्ठं । राजा—(सविलासम् ।) ता कहिज्जदु कीदिसं तं सुविणअं ।
विदूषकः— भो वयस्य ! किं त्वं भार्याजित इव किमपि किमपि कुरुकुरायमाणस्तिष्ठसि ! राजा— वयस्य ! [प्रियं] स्वप्नं दृष्टम् । तमनुसंदधामि । विदूषकः—तद् [कीदृशं तत् ] कथयतु प्रियवयस्यः । राजा—
तृतीयं जवनिकान्तरम् ८३ विदूषकः—अज्ज ! जाणे सुविणए सुरसरिसोत्ते सुत्तो म्हि । राजा—तदो तदो ? विदूषकः—ता हरसिरोवरि दिण्णलीलावआए गंगाए १पक्खालिदो म्हि तोएण । राजा—तदो तदो ? विदूषकः—तदो सरअसमयवरिसिणा जलहरेण जहिच्छं पीदो म्हि । राजा—अच्छरिअं अच्छरिअं, तदो तदो ? विदूषकः—तदो चित्ताणक्खत्तगदे भयवदि मत्तंडे तंबवण्णीनदी- २सङ्गमे समुद्दं गदो सो महामेहो । जाणे अहं पि तस्स ३गब्भट्ठिदो गच्छामि । विदूषकः— अद्य जाने स्वप्ने सुरसरित्स्रोतसि सुप्तोऽस्मि । राजा— ततस्ततः ? विदूषकः— तद्धरशिरस उपरि दत्तलीलावतरणाया गङ्गायाः प्रक्षालितोऽस्मि तोयेन । राजा— ततस्ततः ? विदूषकः— ततः शरत्समयवर्षिणा जलधरेण यथेच्छं पीतोऽस्मि । राजा— आश्चर्यमाश्चर्यम् , ततस्ततः ! विदूषकः— ततश्चित्रानक्षत्रगते भगवति मार्तण्डे ताम्रपर्णीनदीसङ्गमं समुद्रं गतोऽसौ महा- मेघः । जानेऽहमपि ( तस्य ) गर्भसंस्थितो गच्छामि । १ 'पक्खित्तो' इति टीकानुमतः पाठः । २ 'संगमं' इति टीकापाठः । ३ 'तेणाहम्' इति टीकापाठः ।
८४ कर्पूरमञ्जरी राजा—तदो तदो ? विदूषकः—तदो सो तहि थूलजलविंदूहिं वरिसिदुं पअत्तो । अहं च रअणाअरसुत्तिहिं मुत्तासुत्तिनामधेआहिं संपुडं समुप्पेडिअ जल- बिंदूहि समं पीदो म्हि । ताण च दसमासप्पमाणं मोत्ताहलं भविअ गब्भे सठिदो । राजा—तदो तदो ? विदूषकः— तदो चउस्सट्ठिसु सुत्तिसु ठिदो घणंबुविंदू जिदवंसरोअणो । सुवत्तुलं णिच्चलमच्छमुज्जलं कमेण पत्तो णवमोत्तिअत्तणं ॥ ४ ॥ राजा—तदो तदो ? विदूषकः—तदो सो हं अत्ताणं ताणं सुत्तीणं गब्भगदं मुत्ता- हलत्तणेण मण्णेमि । राजा— ततस्तत ? विदूषक — ततोऽसौ तत्र स्थूलजलबिन्दुभिर्वर्षितुं प्रवृत्त । अहं च रत्नाकरशुक्तिभिर्मुक्ता (शुक्ति)नामधेयाभि सम्पुटं समुद्घाट्य जलबिन्दुभि समं पीतोऽस्मि । तासां च दशमासप्रमाणं मुक्ताफलं भूत्वा गर्भे स्थित । राजा— ततस्तत ? विदूषक — ततश्चतु षष्टिषु शुक्तिषु स्थितो घनाम्बुबिन्दुज्जितवंशरोचन । सुवृत्तुलं निश्चलमच्छमुज्ज्वलं क्रमेण प्राप्तो नवमौक्तिकात्वम् ॥ राजा— ततस्तत ? विदूषक — तत सोऽहमात्मानं तासां शुक्तीनां गर्भगतं मुक्ताफलत्वेन मन्ये । १ 'संपुडं समुग्घडिअ' इति टीकाकृत पाठः । २ 'णिच्छलं' इति टीकाकृत' पाठ ।
तृतीयं जवनिकान्तरम् ८५ राजा—तदो तदो ? विदूषकः—तदो परिणदिकाले समुद्दाओ कड्ढिदाओ ताओ सुत्तिओ छाडिदाओ अ। अहं चदुस्सट्ठिमुत्ताहलत्तणं गदो ठिदो। कीदो च एक्केण सेट्ठिणा सुवण्णलक्खं देइअ। राजा—अहो विचित्तदा सुविणअस्स। तदो तदो ? विदूषकः—तदो तेण आणिअ वेअडिअं विद्धाविदा मोत्तिआ। मम वि ईसीसि वेअणा समुप्पण्णा। राजा—तदो तदो ? विदूषकः—तदो,— तेणं च मुत्ताहलमंडलेणं एक्केक्कवाए दसमासिपणं। एकावली लेट्ठिक्रमेण गुच्छा सा संठिदा कोटिसुवण्णमुल्ला ॥ ५ ॥ राजा— ततस्ततः ? विदूषकः— ततः परिणतिकाले समुद्रात्कर्पितास्ताः शुक्तयः, विदारिताश्च। अहं चतुःषष्टि- मुक्ताफलत्वं गतः स्थितः। क्रीतश्चैकेन श्रेष्ठिना सुवर्णलक्षं दत्त्वा। राजा— अहो विचित्रता स्वप्नस्य। ततस्ततः ? विदूषकः— ततस्तेनानीय वेधकारैर्वेधितानि मौक्तिकानि। मामपीयदीषद्वेदना समुत्पन्ना। राजा— ततस्ततः ? विदूषकः— ततः,— तेनापि मुक्ताफलमण्डलेनैकेकत्रया दशमाषिकेण। एकावली यष्टिकक्रमेण गुच्छिका सा संस्थिता कोटिसुवर्णमूल्या ॥ 1 'वेधकारएहिं वेधाविआई' इति टीकानुगामी पाठः। 2 'तेणावि' इति टीकानुगुणः पाठः। 3 'जेट्ठि' इति टीकाभिमतः पाठः।
८६ कर्पूरमञ्जरी **राजा—**तदो तदो ? **विदूषकः—**तदो तं करंडिआए कदुअ साअरदत्तो णाम वाणिओ गदो पंचालाहिवस्स सिरिवज्जाउहस्स णअरं कणणउज्जं णाम । तहिं च सा विक्किणीदा कोडीए सुवण्णस्स । **राजा—**तदो तदो ? **विदूषकः—**तदो अ,— दहूण थोरत्थणतुंगिमाणं एकावलीए तह चंगिमाणं । सा तेण दिण्णा दइआइ कंठे रज्जंति छेआ समसंगमम्मि ॥ ६ ॥ अवि अ,— णहबहलिदजोण्हाणिब्भरे रत्तिमज्झे कुसुमसरपहारत्ताससंमीलिदाणं । राजा— ततस्ततः ? विदूषकः— ततस्तां करण्डिकायां कृत्वा सागरदत्तो नाम वणिग्गतः पाञ्चालाधिपस्य श्री- आयुधस्य नगरं कान्यकुब्जं नाम । तत्र च सा विक्रीता कोट्या सुवर्णस्य । राजा— ततस्ततः ? विदूषकः— ततश्च,— दृष्ट्वा स्थूलस्तनतुङ्गिमानमेकावल्यास्तथा चङ्गिमानम् । सा तेन दत्ता दयितायाः कण्ठे रज्यन्ति च्छेकाः समसंगमे ॥ वरदानाद्येषावयोराशययोगो भविष्यतीति भावः । च्छेका विदग्धाः । अपि च,— नभोबहलितज्योत्स्नानिर्भरे रात्रिमध्ये कुसुमशरप्रहारत्राससंमीलितयोः ।
८८ कर्पूरमञ्जरी विदूषकः—भो, देवीगदे पणअप्परूढे वि पेम्मे किं णु कप्पूर- मंजरिं सव्वंगवित्थारिअलोअणो पिअंतो विअ ¹पलोएसि ? किं तत्तो परिहीअमाणगुणा देवी ? राजा—मा एवं भण,— कीए वि संघडदि कस्स वि पेम्मगंठी एमेअ इत्थ ण हु कारणमत्थि रूअं । चंगत्तणं पुणु महिज्जदि जं तहिं पि तं दिज्जए पिसुणलोअमुहेसु मुद्दा ॥ ९ ॥ विदूषकः—भो वअस्स ! किं पुण एदं पेम्मं पेम्मं ति भणंति ? विदूषकः— भोः, देवीगते प्रणयप्ररूढेऽपि प्रेम्नि किमिति कर्पूरमञ्जरीं सर्वाङ्गविस्तारित लोचनः पिबन्निवावलोकयसि ? किं ततोऽपि परिहीयमाणगुणा देवी ? परिहीणं प्रमाणं येषामेवंविधा गुणा यस्याः सा । राजा— मैवं भण,— कयाचित्संघटते कस्यापि प्रेमग्रन्थि- रेवमेव तत्र न खलु कारणमस्ति रूपम् । चङ्गत्वं पुनर्गृह्यते यत्तत्रापि तद्दीयते पिशुनलोकमुखेषु मुद्रा ॥ प्रेमग्रन्थिसंघटने न रूपातिशयः कारणं, किं तु तत्स्वभावादेव भवति । तद्यदि यत्सौन्दर्यान्वेषणं क्रियते केवलं तत्कुटिलमुखेषु मुद्रा दीयते । निमित्तस्यानस्य प्रेमानुबन्ध इति पिशुनजनानाज्ञादृष्ट्या तन्निवर्त्तनेन परं सौन्दर्यमुपयुज्यत इत्यर्थः । अत्राप्यर्थान्तरन्यासानुप्रासादयः । विदूषकः— भोः (वयस्य !) किं पुनरेतत् [प्रेम] प्रेमेति भणन्ति ? १ 'अवलोएसि' । २ 'किं तदो विपरिहीअमाणगुणा' इति टीकानुसारी पाठः ।
९० कर्पूरमञ्जरी
राजा— जाणं सहाअपसरंतसलोलदिट्ठी- पेरंतलुंठिअमणाण परोप्परेण । वहंतमम्महविइण्णरसप्पसारो ताणं पथासइ लहू वि स ¹चित्तमेओ ॥ ११ ॥ अपि च,— अंतो णिविट्ठमणविब्भमडंबरो जो सो भण्णए मअणमंडणमेत्थ पेम्मं । दुल्लक्खअं पि पअडेइ जणो जअम्मि तं जाणिमो सुबहुलं मअणेंदजालं ॥ १२ ॥ विदूषकः— किं च, जदि चित्तगदं पेम्मं अणुराअं उप्पादेदि, त किं किज्जदि भंडणाडंवरविडंबणाए ?
राजा— ययोः स्वभावप्रसरत्सलोलदृष्टि- पर्यन्तलुण्ठितमनसोः परस्परेण । वर्धमानमन्मथवितीर्णरसप्रसार- स्तयोः प्रकाशते लघुरिव चित्तभारः ॥ स्वभावतः प्रसरन्त्याः सलोला या दृष्टयस्तासां प्रान्तैर्लुण्ठितं मनो ययोः । लुण्ठितमित्यनेन तदेकरसता ध्वन्यते । अपि च,— अन्तर्निविष्टमनोविभ्रमाडम्बरो यः स भण्यते मदनमण्डनमत्र प्रेम । दुर्लक्ष्यमपि प्रकटयति जनो जगति तज्ज्ञानीमः सुबहुलं मदनेन्द्रजालम् ॥ विदूषकः— किं च, यदि चित्रगतं प्रेमानुरागमुत्पादयति, तत्किं क्रियते मण्डनाडम्बरविड- म्बनया ?
1 'लहू विअ' इति री०पु० पाठः । 2 'भारो' इति री०पु० पाठः ।
९२ कर्पूरमञ्जरी जाणे सिरीअ जइ किज्जदि को वि ¹भेओ माणिक्कभूसणणिसंसणकुंकुमेहिं ॥ १५ ॥ अवि अ,— किं लोअणेहिं तरलेहिं किमाणणेण चंदोवमेण ²सिद्दिणेहिं किमुण्णएहिं । ताँ किं पि अण्णमिह भूवलए णिमित्तं जेणंगणाउ हिअआहि ण ओसरंति ॥ १६ ॥ विदूषकः—एवं णेदं । किं पुण अण्णं पि मे फट्ठेसु, जं कुमार- त्तणे माणुसस्स णं मणोज्जं तस्स वि तारुण्णेण किं पि चंगत्तणं चंडदि । जाने श्रिया यदि क्रियते कोऽपि भावो माणिक्यभूषणनिसनकुंकुमैः ॥ अपि च,— किं लोचनैस्तरलेः किमाननेन चन्द्रोपमेन स्तनैः किमुन्नतैः । तत्किमप्यन्यदिह भूवलये निमित्तं येनाङ्गना हृदयान्नापसरन्ति ॥
९४ कर्पूरमञ्जरी तथा अ,- अंगं लावण्णपुण्णं सवणपरिसरे लोअणे फारतारे वच्छं थोरत्थणिल्लं तियलिबलइअं मुट्ठिगेज्जं च मज्झं। चक्काआरो णिअंबो तरुणिमसमए किं णु अण्णेण कज्जं पंचेहिं चेअ बाला मअणजअमहावेजअंतीउ होंति ॥ १९ ॥ (नेपथ्ये।) सहि कुरंगिए! इमिणा सिसिरोवआरेण णलिणि व्व कामं ^३किलिस्सामि। विस व्व विसकंदली विसहर व्व हारच्छडा वअस्समिव अत्तणो किरदि तालविंताणिलो। तहा अ करणिग्गअं जलइ अंतधाराजलं ण चंदणमहोसहं हरइ देहदाहं च मे ॥ २० ॥ तथा च,- अङ्गं लावण्यपूर्णं श्रवणपरिसरे लोचने हारतारे वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम्। चक्राकारो नितम्बस्तरुणिसमये किं त्वन्येन कार्यं पञ्चभिरेव बाला मदनजयमहाराजपन्त्यो भवन्ति ॥ दारे हरणशीले तारे नयने। (नेपथ्ये।) सखि कुरङ्गिके! अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यसि। शिशिरोपचारः शीतोपचारः, शिशिर्तुसमीपागमनं च। विषमिव विसकन्दली विषधर इव हारच्छटा वयस्यमिवात्मनः किरति तालवृन्तानिलः। तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं न चन्दनमहौषधं हरति देहदाहं च मे ॥ तालवृन्तानिल आत्मनो वयस्यं लगाये विकिरतीव विसर्जयतीत्यर्थः। १ 'हार' इति टीकापाठः। २ 'चेव' इति रीढभूतः पाठः। ३ 'किलिस्सामि' इति टीकाकृतः पाठः।
तृतीयं जवनिकान्तरम् ९५ विदूषकः—सुदं पिअवअस्सेण । भरिआ कण्णा पीऊसगंडूसेण । ता किं अज्ज वि उवेक्खीअदि घणघम्मेण किम्मंती मुणालिआ, गाढ- फडिअदूसहेण सलिलेण सिंचिज्जती केलिकुंकुमपुत्तलिआ छम्मासिअ- मुत्तिआणं तडित्ति फुडंती एक्कावली, गंठिवण्णकेआरिआ खंडिज्जंती गंधहरिणएहिं । ता सच्चं सुविणं ते संपण्णं । एहि, पविसम्ह । उट्ठिभज्जदु मअरद्धअपडाअं । पअट्टदु कण्णकुहरम्मि पंचमहुंकाराणं रिंछोली । थंभंतु बाहप्पवाहा । मंथरिज्जंतु णीसासप्पसरा । लहदु लावण्णं पुणण्णवभावं । ता एहि । खडकिआदुआरेण पविसम्ह । ( इति खिडकिकोद्घाटनं नाटयति, ततः प्रविशति नायिका कुरङ्गिका च ।) नायिका—( ससाध्वसं स्वगतम् ।) अम्मो, किं एसो सहसा गअ- णंगणादो अवइण्णो पुण्णिमाहरिणंको ? कि वा तुट्टेण णीलकंटेण णिअ- विदूषकः— श्रुतं प्रियवयस्येन । भृतौ कर्णौ पीयूषगण्डूषैः । तत्किमद्याप्युपेक्ष्यते घनघर्मेण क्लाम्यन्ती मृणालिका, गाढस्फुटितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कुमपुत्तली, षण्मासिकमौक्तिकानां झटिति स्फुटन्नेकावली, ग्रन्थिपर्णकेदारिका लुप्यमाना गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्व- जपत्ताका । प्रवर्त्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना । स्तोभीक्रियन्तां बाष्पप्रवाहाः । मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्भवभावम् । तदेहि, खिट- विकाद्वारेण प्रविशावः । नायिका— अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः ? किं वा तुष्टेन १ 'स्फुटं' इति टीकापाठः । २ 'गंधहरिणेण' इति टीकानुकूलः पाठः । ३ 'उट्ठिज्जदु' इति टीकानुगः पाठः । ४ 'कंटकुहरम्मि' इति टीकानुसारी पाठः ।
९६ कर्पूरमञ्जरी देहं लंभिदो मणोहओ ? किं वा हिअअस्स दुज्जणो णअणाण सज्जणो मं संभावेदि ? ( प्रकाशम् । ) सहि कुरंगिए ! इदं इंदजालं विज पेक्खामि । विदूषकः—( राजानं हस्ते गृहीत्वा । ) भोदि ! सचं इंदजालं संपण्णं । ( नायिका लज्जते । ) कुरङ्गिका—सहि कप्पूरमंजरि ! अब्भुट्ठाणेण संभावेहि भट्तारं । ( नायिका उत्थातुमिच्छति । ) राजा—( हस्ते गृहीत्वा । ) उट्ठिऊण थणभारभंगुरं मा मिअंकमुहि ! भंज मज्झअं । तुज्झ ईरिसनिवेसदंसणे लोअणाण मअणो पसीददु ॥ २१ ॥ अवि अ,— जिस्सा पुरो हेरदि णो हरिआललच्छी रोसाणिअं ण कणअं ण अ चंपआई । नीलकण्ठेन निजदेहं लम्भितो मनोभवः ? किं वा हृदयस्य दुर्जनो नयनानां सज्जनो मां संभावयति ? सखि कुरङ्गिके ! इदमिन्द्रजालमिव पश्यामि । तुष्टेन रुष्टादिस्तुल्या तुष्टेनेत्यर्थः । 'किं वारुष्टेन' इति पाठेऽरुष्टेनेत्यकारप्रश्लेषः । तथापि रुष्टादिस्तुल्या रोपरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन क्रुद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दाहेनाधिकतरपीडादानाय पुनः स्वदेहं प्रापितो मनोभव इत्यर्थः । विदूषकः— भवति ! सत्यमिन्द्रजालं संपन्नम् । कुरङ्गिका— सखि कर्पूरमञ्जरि ! अभ्युत्थानेन संभावय भर्तारकम् । राजा— उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि ! भञ्जय मध्यम् । तवेदृशनिवेशदर्शनाल्लोचनयोर्मदनः प्रसीदतु ॥ अपि च,— यस्याः पुरो न हरिता दलिता हरिद्रा उज्ज्वलीकृतं न कनकं न च चम्पकानि । 1 'हरिदा दलित हरिता' इति टीकाकृतः पाठः ।
तृतीयं जवनिकान्तरम् ९७ ताईं सुवण्णकुसुमेहिँ विलोअणाईं अच्चेमि जेहिँ हरिणच्छि ! तुमं सि दिट्ठा ॥ २२ ॥ विदूषकः—गब्भहरवासेण सेअसलिलसित्तगत्ता संभूदा तत्तभोदी कप्पूरमंजरी । ता इमं सिअंचलेण विज्जिस्सं दाव । ( तथा कुर्वन् । ) हा हा, कहं घरिल्लपवणेण णिव्वाणो पदीवो । ( विचिन्त्य स्वगतम् । ) भोदु, लीलुज्जाणं जेव गच्छम्ह । ( प्रकाशम् । ) भो, अधआरणिचिदं वट्टदि । ता णिक्कमम्ह सुरंगामुखेण जेव पमदुज्जाणं दाव । ( सर्वे निष्क्रमणं नाटयन्ति । ) राजा—( कर्पूरमञ्जरीं करे धृत्वा । ) मज्झ हत्थठिदपाणिपल्लवा ईसि संचरणबंधुरा भव । जं चिराअ फलहंसमंडली भोदु केलिगमणम्मि दुहवा ॥ २३ ॥ ( स्पर्शसुखमभिनीय । ) जे णयस्स तउसरस्स फंटआ जे कदंबकुसुमस्स केसरा । अज्ज तुज्झ करफंससङ्किरणो ते हवंतु मह अगणिज्जिदा ॥ २४ ॥ तानि सुवर्णकुसुमैर्विलोचने अर्चयामि याभ्यां हरिणाक्षि ! त्वमसि दृष्टा ॥ विदूषकः— गर्भगृहवासेन स्वेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूरमञ्जरी । तदिमां निचयाञ्चलेन वीजयिष्यामि तावत्, हा हा, कथं यन्त्राधालपवनेन निर्वाणः प्रदीपः ! भवतु, लीलोद्यानमेव गच्छामः । भो, अन्धकारनृत्यं वर्तते । तन्निष्क्रामामः सुरङ्गामुखेनैव प्रमदोद्यानं तावत् । राजा— मम हस्तस्थितपाणिपल्लवा ईषत्सञ्चरणबन्धुरा भव । यच्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भगा ॥ ये नभस्य त्रपुषस्य कण्टका ये कदम्बकुसुमस्य केसराः । अद्य तव करस्पर्शसङ्किरने भवन्ति ममाऽनिर्जिताः ॥ १ "बंधुरा" इति टीकापाठः । २ 'कलहंसमण्डलं' इति टीकापुस्तपाठः । ३ 'तुञ्चसि' इति टीकापुस्त' पाठः । 'मह अंगसंगिणो', 'खलु णिम्मिअ' पुन' इतरो पाठौ भवेताम् । क० म० ७
९८ कर्पूरमञ्जरी
( नेपथ्ये । ) वैतालिकः—सुहणिबंधणो भोदु देवस्स चंदुज्जोओ । भूगोले तिमिराणुवंधमलिणे भूमीहरे व्व ट्ठिदे संजादा णवभुज्जपिंजरमुही जोण्हाइं पुव्वा दिसा । मुंचंतो मुचुकुंदकेसरसिहासोहाणुकारे करे चंदो एक्ककलाक्रमेण अ गदो संपुण्णवियत्तणं ॥ २५ ॥ अवि अ,— अकुंकुममचंदणं दसदिसावहूमंडणं अकंकणमकुंडलं भुवणमंडलीभूसणं । असोषणममोहणं मअरलंछणस्साउहं मिअंककिरणावली णहअलम्मि पुंजिज्जदि ॥ २६ ॥ कार्ये कारणवदुपचाराद्देहजन्यरोमाञ्चनिर्जिता इत्यर्थः । वैतालिकः— सुखनिबन्धनो भवतु देवस्य चन्द्रोद्द्योतः । भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा । मुञ्चन्मुचुकुन्दकेसरशिखाशोभानुकारान्करान्- श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णवियक्त्वम् ॥ तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमिरुह इव स्थिते । चन्द्रोदयानन्तरं यथा पृष्ठमात्रमेव नीलमिक्षते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । 'भूमीधरे' इति वा पाठः, तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः । अपि च,— अकुङ्कुममचन्दनं दशदिशावधूमण्डनं अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं मृगाङ्ककिरणावली नभस्तले पुञ्जीभवति ॥ १ 'भूमंगहे' इति टीकासम्मतः पाठः । २ "वमरसिहासोहाणुकारे करे' इति टीकानुगुणः पाठः । ३ 'देव्व कणं" इति दीक्षामित्रस्य पाठः ।
तृतीयं जवनिकान्तरम् ९९ विदूषकः—भो, एसा कञ्चणचण्डेन वण्णिदा चन्दुज्जोअलच्छी। ता संपदं माणिक्चचण्डस्सावसरो। (नेपथ्ये।) द्वितीयो वैतालिकः— डज्झंतागुरुधूववट्टियलआ दिज्जंतदीवुज्जला लंबिज्जंतविचित्तमोत्तिअलदा मुच्चंतपारावया। सज्जिज्जंतमणोन्नकेलिसअणा जपतदूईसआ सेज्जुच्छंगवलंतमाणिणिजणा वह्टंति लीलाहरा ॥ २७ ॥ 'अनुङ्कुम' इत्यनेन नवोद्गतायाश्चास्याः पीतत्वं व्यज्यते। 'अचन्दनं' इत्यनेन चन्दनाधिकशीतलता द्योत्यते। 'दश'शब्देन वैधवधूमात्रशोभाकरमण्डनान्तर- वैलक्षण्यं द्योत्यते। 'अकङ्कण' इत्यादिना भूषान्तरवैचित्र्यमस्या अभिव्यज्यते। 'अशोषण' इत्यादिनायुधवैलक्षण्यं चास्या द्योत्यते। विदूषक — भो, [एषा] काञ्चनचण्डेन वर्णिता चन्द्रोद्योतलक्ष्मीः। तत्साम्प्रतं माणिक्य- चण्डस्यावसरः। द्वितीयो वैतालिक — दह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्ज्वला लम्ब्यमानविचित्रमौक्तिक्लता मुच्यमानपारावता। सञ्जीक्रियमाणमनोज्ञकेलिशयना जपद्दूतीसक्ता शय्योत्सङ्गचलन्मानिनीजना वहन्त लीलागृहा ॥ दह्यमाना अगुरुधूपवर्तय एव कलिका येषु। यद्वा,-दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं पदम्। तदा दह्यमानागुरुधूपपात्र स्थ वर्तिकलिकाभिर्दीयमानदीपोज्ज्वला- येत्यर्थः। अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोज्ज्वला इत्यर्थः। तदा शोभाधिक्यं व्यज्यते। १ "वत्तिकलिआ' इति टीकानुसारी पाठः। २ 'सज्जाहरा' इत्यपि पाठः।
३. तृतीय जवनिका: विदूषक चातुर्य एवं गुप्त मिलन
१०० | कर्पूरमञ्जरी अवि अ,— देंता कप्पूरपूरच्छुरणमिव दिसासुंदरीणं मुहेसुं लण्हं जोण्हं किरंता भुअणजणमणाणंदणं चंदणं च । जुण्णं कंदप्पकंदं तिहुअणकलणाकंदलिल्लं कुणंतो जादा एणंकपादा संसअजलहरग्गम्मुक्तधारानुकारा ॥ २८ ॥ विदूषकः— ¹दिसअवअंसो णहसरहंसो । णिहुअणकंदो च॑ट्टइ चंदो ॥ २९ ॥ कुरङ्गिका— ससहररइअमरट्टो माणिणिमाणघरट्टो । णवचंपअकोअंडो मअणो जअइ पचंड़ो ॥ ३० ॥ अपि च,— ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु श्लक्ष्णां ज्योत्स्नां किरन्तो भुवनजनमनआनन्ददं चन्दनमिव । जीर्णं कन्दर्पकन्दं त्रिभुवनचलनाकन्दलितं कुर्वन्तो जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥ श्लक्ष्णां कोमलां ज्योत्स्नां किरन्त इति संबन्धः । तादृशास्ते कीदृशा इव कर्पूर- पूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन संबन्धः । 'दिशासुन्दरीणाम्' इत्युभयत्र संबध्यते । त्रिभुवनेति । बिना कामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लव- यन्तः इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम् । जलधरोन्मुक्त- धारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते । विदूषकः— दिक्त्रवधूतंसो नभःसरोहंसः । निधुवनकन्दः प्रसरति चन्द्रः ॥ कुरङ्गिका— शशधररचितगर्बो मानिनीमानघरहः । नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥ 1 'ससजल' इति टीकाहृतः पाठः । _ 2 'दिसबधुतंसो' इति टीकापाठः । 3 'पसरइ' इति टीकाभिमतः पाठः ।