भारतकोश
संग्रह पर लौटें

कर्पूरमञ्जरी (महाकवि राजशेखर - प्राकृत सट्टक एवं सान्वय हिन्दी व्याख्या)

Karpuramanjari Sattaka of Rajasekhara with Commentary

महाकवि राजशेखर द्वारा

DevanagariHindipublished172 पृष्ठ

९२ कर्पूरमञ्जरी जाणे सिरीअ जइ किज्जदि को वि ¹भेओ माणिक्कभूसणणिसंसणकुंकुमेहिं ॥ १५ ॥ अवि अ,— किं लोअणेहिं तरलेहिं किमाणणेण चंदोवमेण ²सिद्दिणेहिं किमुण्णएहिं । ताँ किं पि अण्णमिह भूवलए णिमित्तं जेणंगणाउ हिअआहि ण ओसरंति ॥ १६ ॥ विदूषकः—एवं णेदं । किं पुण अण्णं पि मे फट्ठेसु, जं कुमार- त्तणे माणुसस्स णं मणोज्जं तस्स वि तारुण्णेण किं पि चंगत्तणं चंडदि । जाने श्रिया यदि क्रियते कोऽपि भावो माणिक्यभूषणनिसनकुंकुमैः ॥ अपि च,— किं लोचनैस्तरलेः किमाननेन चन्द्रोपमेन स्तनैः किमुन्नतैः । तत्किमप्यन्यदिह भूवलये निमित्तं येनाङ्गना हृदयान्नापसरन्ति ॥

९४ कर्पूरमञ्जरी तथा अ,- अंगं लावण्णपुण्णं सवणपरिसरे लोअणे फारतारे वच्छं थोरत्थणिल्लं तियलिबलइअं मुट्ठिगेज्जं च मज्झं। चक्काआरो णिअंबो तरुणिमसमए किं णु अण्णेण कज्जं पंचेहिं चेअ बाला मअणजअमहावेजअंतीउ होंति ॥ १९ ॥ (नेपथ्ये।) सहि कुरंगिए! इमिणा सिसिरोवआरेण णलिणि व्व कामं ^३किलिस्सामि। विस व्व विसकंदली विसहर व्व हारच्छडा वअस्समिव अत्तणो किरदि तालविंताणिलो। तहा अ करणिग्गअं जलइ अंतधाराजलं ण चंदणमहोसहं हरइ देहदाहं च मे ॥ २० ॥ तथा च,- अङ्गं लावण्यपूर्णं श्रवणपरिसरे लोचने हारतारे वक्षः स्थूलस्तनं त्रिवलिवलयितं मुष्टिग्राह्यं च मध्यम्। चक्राकारो नितम्बस्तरुणिसमये किं त्वन्येन कार्यं पञ्चभिरेव बाला मदनजयमहाराजपन्त्यो भवन्ति ॥ दारे हरणशीले तारे नयने। (नेपथ्ये।) सखि कुरङ्गिके! अनेन शिशिरोपचारेण नलिनीव कामं क्लाम्यसि। शिशिरोपचारः शीतोपचारः, शिशिर्तुसमीपागमनं च। विषमिव विसकन्दली विषधर इव हारच्छटा वयस्यमिवात्मनः किरति तालवृन्तानिलः। तथा च करनिर्गतं ज्वलति यन्त्रधाराजलं न चन्दनमहौषधं हरति देहदाहं च मे ॥ तालवृन्तानिल आत्मनो वयस्यं लगाये विकिरतीव विसर्जयतीत्यर्थः। १ 'हार' इति टीकापाठः। २ 'चेव' इति रीढभूतः पाठः। ३ 'किलिस्सामि' इति टीकाकृतः पाठः।

तृतीयं जवनिकान्तरम् ९५ विदूषकः—सुदं पिअवअस्सेण । भरिआ कण्णा पीऊसगंडूसेण । ता किं अज्ज वि उवेक्खीअदि घणघम्मेण किम्मंती मुणालिआ, गाढ- फडिअदूसहेण सलिलेण सिंचिज्जती केलिकुंकुमपुत्तलिआ छम्मासिअ- मुत्तिआणं तडित्ति फुडंती एक्कावली, गंठिवण्णकेआरिआ खंडिज्जंती गंधहरिणएहिं । ता सच्‍चं सुविणं ते संपण्णं । एहि, पविसम्ह । उट्ठिभज्जदु मअरद्धअपडाअं । पअट्टदु कण्णकुहरम्मि पंचमहुंकाराणं रिंछोली । थंभंतु बाहप्पवाहा । मंथरिज्जंतु णीसासप्पसरा । लहदु लावण्णं पुणण्णवभावं । ता एहि । खडकिआदुआरेण पविसम्ह । ( इति खिडकिकोद्घाटनं नाटयति, ततः प्रविशति नायिका कुरङ्गिका च ।) नायिका—( ससाध्वसं स्वगतम् ।) अम्मो, किं एसो सहसा गअ- णंगणादो अवइण्णो पुण्णिमाहरिणंको ? कि वा तुट्टेण णीलकंटेण णिअ- विदूषकः— श्रुतं प्रियवयस्येन । भृतौ कर्णौ पीयूषगण्डूषैः । तत्किमद्याप्युपेक्ष्यते घनघर्मेण क्लाम्यन्ती मृणालिका, गाढस्फुटितदुःसहेन सलिलेन सिच्यमाना केलिकुङ्कुमपुत्तली, षण्मासिकमौक्तिकानां झटिति स्फुटन्नेकावली, ग्रन्थिपर्णकेदारिका लुप्यमाना गन्धहरिणेन । तत्सत्यं ते स्वप्नं संपन्नम् । एहि, प्रविशावः । उत्थाप्यतां मकरध्व- जपत्ताका । प्रवर्त्ततां कण्ठकुहरे पञ्चमहुंकाराणां रचना । स्तोभीक्रियन्तां बाष्पप्रवाहाः । मन्थरीक्रियन्तां निःश्वासप्रसराः । लभतां लावण्यं पुनर्भवभावम् । तदेहि, खिट- विकाद्वारेण प्रविशावः । नायिका— अम्मो, किमेष सहसा गगनाङ्गनादवतीर्णः पूर्णिमाहरिणाङ्कः ? किं वा तुष्टेन १ 'स्फुटं' इति टीकापाठः । २ 'गंधहरिणेण' इति टीकानुकूलः पाठः । ३ 'उट्ठिज्जदु' इति टीकानुगः पाठः । ४ 'कंटकुहरम्मि' इति टीकानुसारी पाठः ।

९६ कर्पूरमञ्जरी देहं लंभिदो मणोहओ ? किं वा हिअअस्स दुज्जणो णअणाण सज्जणो मं संभावेदि ? ( प्रकाशम् । ) सहि कुरंगिए ! इदं इंदजालं विज पेक्खामि । विदूषकः—( राजानं हस्ते गृहीत्वा । ) भोदि ! सचं इंदजालं संपण्णं । ( नायिका लज्जते । ) कुरङ्गिका—सहि कप्पूरमंजरि ! अब्भुट्ठाणेण संभावेहि भट्तारं । ( नायिका उत्थातुमिच्छति । ) राजा—( हस्ते गृहीत्वा । ) उट्ठिऊण थणभारभंगुरं मा मिअंकमुहि ! भंज मज्झअं । तुज्झ ईरिसनिवेसदंसणे लोअणाण मअणो पसीददु ॥ २१ ॥ अवि अ,— जिस्सा पुरो हेरदि णो हरिआललच्छी रोसाणिअं ण कणअं ण अ चंपआई । नीलकण्ठेन निजदेहं लम्भितो मनोभवः ? किं वा हृदयस्य दुर्जनो नयनानां सज्जनो मां संभावयति ? सखि कुरङ्गिके ! इदमिन्द्रजालमिव पश्यामि । तुष्टेन रुष्टादिस्तुल्या तुष्टेनेत्यर्थः । 'किं वारुष्टेन' इति पाठेऽरुष्टेनेत्यकारप्रश्लेषः । तथापि रुष्टादिस्तुल्या रोपरहितेनेत्यर्थः । अथवा नाकारप्रश्लेषः । किं तु रुष्टेन क्रुद्धेन नीलकण्ठेन पुनः शरीरमुत्पाद्य पुनर्दाहेनाधिकतरपीडादानाय पुनः स्वदेहं प्रापितो मनोभव इत्यर्थः । विदूषकः— भवति ! सत्यमिन्द्रजालं संपन्नम् । कुरङ्गिका— सखि कर्पूरमञ्जरि ! अभ्युत्थानेन संभावय भर्तारकम् । राजा— उत्थाय स्तनभारभङ्गुरं मा मृगाङ्कमुखि ! भञ्जय मध्यम् । तवेदृशनिवेशदर्शनाल्लोचनयोर्मदनः प्रसीदतु ॥ अपि च,— यस्याः पुरो न हरिता दलिता हरिद्रा उज्ज्वलीकृतं न कनकं न च चम्पकानि । 1 'हरिदा दलित हरिता' इति टीकाकृतः पाठः ।

तृतीयं जवनिकान्तरम् ९७ ताईं सुवण्णकुसुमेहिँ विलोअणाईं अच्चेमि जेहिँ हरिणच्छि ! तुमं सि दिट्ठा ॥ २२ ॥ विदूषकः—गब्भहरवासेण सेअसलिलसित्तगत्ता संभूदा तत्तभोदी कप्पूरमंजरी । ता इमं सिअंचलेण विज्जिस्सं दाव । ( तथा कुर्वन् । ) हा हा, कहं घरिल्लपवणेण णिव्वाणो पदीवो । ( विचिन्त्य स्वगतम् । ) भोदु, लीलुज्जाणं जेव गच्छम्ह । ( प्रकाशम् । ) भो, अधआरणिचिदं वट्टदि । ता णिक्कमम्ह सुरंगामुखेण जेव पमदुज्जाणं दाव । ( सर्वे निष्क्रमणं नाटयन्ति । ) राजा—( कर्पूरमञ्जरीं करे धृत्वा । ) मज्झ हत्थठिदपाणिपल्लवा ईसि संचरणबंधुरा भव । जं चिराअ फलहंसमंडली भोदु केलिगमणम्मि दुहवा ॥ २३ ॥ ( स्पर्शसुखमभिनीय । ) जे णयस्स तउसरस्स फंटआ जे कदंबकुसुमस्स केसरा । अज्ज तुज्झ करफंससङ्किरणो ते हवंतु मह अगणिज्जिदा ॥ २४ ॥ तानि सुवर्णकुसुमैर्विलोचने अर्चयामि याभ्यां हरिणाक्षि ! त्वमसि दृष्टा ॥ विदूषकः— गर्भगृहवासेन स्वेदसलिलसिक्तगात्रा संभूता तत्रभवती कर्पूरमञ्जरी । तदिमां निचयाञ्चलेन वीजयिष्यामि तावत्, हा हा, कथं यन्त्राधालपवनेन निर्वाणः प्रदीपः ! भवतु, लीलोद्यानमेव गच्छामः । भो, अन्धकारनृत्यं वर्तते । तन्निष्क्रामामः सुरङ्गामुखेनैव प्रमदोद्यानं तावत् । राजा— मम हस्तस्थितपाणिपल्लवा ईषत्सञ्चरणबन्धुरा भव । यच्चिराय कलहंसमण्डली भवतु केलिगमने दुर्भगा ॥ ये नभस्य त्रपुषस्य कण्टका ये कदम्बकुसुमस्य केसराः । अद्य तव करस्पर्शसङ्किरने भवन्ति ममाऽनिर्जिताः ॥ १ "बंधुरा" इति टीकापाठः । २ 'कलहंसमण्डलं' इति टीकापुस्तपाठः । ३ 'तुञ्चसि' इति टीकापुस्त' पाठः । 'मह अंगसंगिणो', 'खलु णिम्मिअ' पुन' इतरो पाठौ भवेताम् । क० म० ७

९८ कर्पूरमञ्जरी

( नेपथ्ये । ) वैतालिकः—सुहणिबंधणो भोदु देवस्स चंदुज्जोओ । भूगोले तिमिराणुवंधमलिणे भूमीहरे व्व ट्ठिदे संजादा णवभुज्जपिंजरमुही जोण्हाइं पुव्वा दिसा । मुंचंतो मुचुकुंदकेसरसिहासोहाणुकारे करे चंदो एक्ककलाक्रमेण अ गदो संपुण्णवियत्तणं ॥ २५ ॥ अवि अ,— अकुंकुममचंदणं दसदिसावहूमंडणं अकंकणमकुंडलं भुवणमंडलीभूसणं । असोषणममोहणं मअरलंछणस्साउहं मिअंककिरणावली णहअलम्मि पुंजिज्जदि ॥ २६ ॥ कार्ये कारणवदुपचाराद्देहजन्यरोमाञ्चनिर्जिता इत्यर्थः । वैतालिकः— सुखनिबन्धनो भवतु देवस्य चन्द्रोद्द्योतः । भूगोले तिमिरानुबन्धमलिने भूमिरुह इव स्थिते संजाता नवभूर्जपिञ्जरमुखी ज्योत्स्नया पूर्वा दिशा । मुञ्चन्मुचुकुन्दकेसरशिखाशोभानुकारान्करान्- श्चन्द्रः पश्य कलाक्रमेण च गतः संपूर्णवियक्त्वम् ॥ तिमिरस्यानुबन्धस्तेन मलिने भूगोले भूमिरुह इव स्थिते । चन्द्रोदयानन्तरं यथा पृष्ठमात्रमेव नीलमिक्षते तथा श्यामे भूगोले स्थिते सतीत्यर्थः । 'भूमीधरे' इति वा पाठः, तत्र भूमिगृहे इत्यर्थः । एककलाद्विकलाद्युदयक्रमेणेति कलाक्रमेणेत्यस्यार्थः । अपि च,— अकुङ्कुममचन्दनं दशदिशावधूमण्डनं अकङ्कणमकुण्डलं भुवनमण्डलीभूषणम् । अशोषणममोहनं मकरलाञ्छनस्यायुधं मृगाङ्ककिरणावली नभस्तले पुञ्जीभवति ॥ १ 'भूमंगहे' इति टीकासम्मतः पाठः । २ "वमरसिहासोहाणुकारे करे' इति टीकानुगुणः पाठः । ३ 'देव्व कणं" इति दीक्षामित्रस्य पाठः ।

तृतीयं जवनिकान्तरम् ९९ विदूषकः—भो, एसा कञ्चणचण्डेन वण्णिदा चन्दुज्जोअलच्छी। ता संपदं माणिक्चचण्डस्सावसरो। (नेपथ्ये।) द्वितीयो वैतालिकः— डज्झंतागुरुधूववट्टियलआ दिज्जंतदीवुज्जला लंबिज्जंतविचित्तमोत्तिअलदा मुच्चंतपारावया। सज्जिज्जंतमणोन्नकेलिसअणा जपतदूईसआ सेज्जुच्छंगवलंतमाणिणिजणा वह्टंति लीलाहरा ॥ २७ ॥ 'अनुङ्कुम' इत्यनेन नवोद्गतायाश्चास्याः पीतत्वं व्यज्यते। 'अचन्दनं' इत्यनेन चन्दनाधिकशीतलता द्योत्यते। 'दश'शब्देन वैधवधूमात्रशोभाकरमण्डनान्तर- वैलक्षण्यं द्योत्यते। 'अकङ्कण' इत्यादिना भूषान्तरवैचित्र्यमस्या अभिव्यज्यते। 'अशोषण' इत्यादिनायुधवैलक्षण्यं चास्या द्योत्यते। विदूषक — भो, [एषा] काञ्चनचण्डेन वर्णिता चन्द्रोद्योतलक्ष्मीः। तत्साम्प्रतं माणिक्य- चण्डस्यावसरः। द्वितीयो वैतालिक — दह्यमानागुरुधूपवर्तिकलिका दीयमानदीपोज्ज्वला लम्ब्यमानविचित्रमौक्तिक्लता मुच्यमानपारावता। सञ्जीक्रियमाणमनोज्ञकेलिशयना जपद्दूतीसक्ता शय्योत्सङ्गचलन्मानिनीजना वहन्त लीलागृहा ॥ दह्यमाना अगुरुधूपवर्तय एव कलिका येषु। यद्वा,-दह्यमानेत्यादि उज्ज्वला इत्यन्तमेकं पदम्। तदा दह्यमानागुरुधूपपात्र स्थ वर्तिकलिकाभिर्दीयमानदीपोज्ज्वला- येत्यर्थः। अथवा दह्यमानागुरुधूपयुक्तवर्तिकलिकाभिरेव दीयमानदीपोज्ज्वला इत्यर्थः। तदा शोभाधिक्यं व्यज्यते। १ "वत्तिकलिआ' इति टीकानुसारी पाठः। २ 'सज्जाहरा' इत्यपि पाठः।

३. तृतीय जवनिका: विदूषक चातुर्य एवं गुप्त मिलन

१०० | कर्पूरमञ्जरी अवि अ,— देंता कप्पूरपूरच्छुरणमिव दिसासुंदरीणं मुहेसुं लण्हं जोण्हं किरंता भुअणजणमणाणंदणं चंदणं च । जुण्णं कंदप्पकंदं तिहुअणकलणाकंदलिल्लं कुणंतो जादा एणंकपादा संसअजलहरग्गम्मुक्तधारानुकारा ॥ २८ ॥ विदूषकः— ¹दिसअवअंसो णहसरहंसो । णिहुअणकंदो च॑ट्टइ चंदो ॥ २९ ॥ कुरङ्गिका— ससहररइअमरट्टो माणिणिमाणघरट्टो । णवचंपअकोअंडो मअणो जअइ पचंड़ो ॥ ३० ॥ अपि च,— ददतः कर्पूरपूरच्छुरणमिव दिशासुन्दरीणां मुखेषु श्लक्ष्णां ज्योत्स्नां किरन्तो भुवनजनमनआनन्ददं चन्दनमिव । जीर्णं कन्दर्पकन्दं त्रिभुवनचलनाकन्दलितं कुर्वन्तो जाता एणाङ्कपादाः सजलजलधरोन्मुक्तधारानुकाराः ॥ श्लक्ष्णां कोमलां ज्योत्स्नां किरन्त इति संबन्धः । तादृशास्ते कीदृशा इव कर्पूर- पूरच्छुरणं ददत इवेति विशिष्टवैशिष्ट्यन्यायेन संबन्धः । 'दिशासुन्दरीणाम्' इत्युभयत्र संबध्यते । त्रिभुवनेति । बिना कामं कस्यापि सृष्टेरभावात् । कन्दलयन्तः पल्लव- यन्तः इत्यनेन कामिनां कामातिशयजनकत्वं किरणानां व्यङ्ग्यम् । जलधरोन्मुक्त- धारासाम्येन मेघाद्यप्रतिहतत्वं तेषु द्योत्यते । विदूषकः— दिक्त्रवधूतंसो नभःसरोहंसः । निधुवनकन्दः प्रसरति चन्द्रः ॥ कुरङ्गिका— शशधररचितगर्बो मानिनीमानघरहः । नवचम्पककोदण्डो मदनो जयति प्रचण्डः ॥ 1 'ससजल' इति टीकाहृतः पाठः । _ 2 'दिसबधुतंसो' इति टीकापाठः । 3 'पसरइ' इति टीकाभिमतः पाठः ।

तृतीयं जवनिकान्तरम् १०१ (कर्पूरमञ्जरीं प्रति ।) पिअसहि ! तए कदं चंदवण्णणं महाराअस्स पुरदो पढिस्सं । (कर्पूरमञ्जरी लज्जते । कुरङ्गिका पठति ।) मंडले ससहरस्स गोरए दंतपंजरविलासचोरए । भादि लांछणमओ फुरंतओ केलिकोइलतुलं धरंतओ ॥ ३१ ॥ राजा—अहो, कप्पूरमंजरीए अभिनवअत्थदंसणं, उत्तिविचित्तत्तणं रमणीओ सद्दो, रसणिस्सन्दो अ । (तां प्रति ।) मा कहिं पि वअणेण विब्भमो होहि इत्ति तुह णूणमिंदुणा । लंछणच्छलमसीविसेसओ पेक्ख बिंबफलए णिए कदो ॥ ३२ ॥ किं च,— 'पंडुरंगि ! जइ रज्जए मुहं कोमलांगि ! खडिकारसेण दे । दिज्जए पुण कपोलकज्जलं ता लहेज्ज ससिणो विडंबणं ॥ ३३ ॥ (चन्द्रमुद्दिश्य ।) घरट्टः पेषणकर्ता । प्रियसखि ! त्वया कृतं चन्द्रवर्णनं महाराजस्य पुरतः पठिष्यामि । मण्डले शशधरस्य गौरे दन्तपञ्जरविलासचौरे । भाति लाञ्छनमयः स्फुरन्केलिकोकिलतुलां धारयन् ॥ राजा— अहो कर्पूरमञ्जर्या अभिनवार्थदर्शनम्, रमणीयः शब्दः, उक्तिविचित्रता, रसनिष्यन्दश्च । मा कथमपि वदनेन विभ्रमो भवत्विति तव नूनमिन्दुना । लाञ्छनच्छलमषीविशेषकः पश्य बिम्बफलके निजे कृतः ॥ किं च,— पाण्डुरांगि यदि रज्यते मुखं कोमलाङ्गि ! खटिकारसेन ते । दीयते पुनः कपोलकज्जलं तदा लभते शशिनो विडम्बनम् ॥ १ "दंसणं, रमणीओ सद्दो उत्तिविचित्तदा रस" इति टीकापाठः । २ 'रिवक्रकर इति टीकापाठः । ३ 'पंडुरेण' इति टीकापुस्तः पाठः ।

Here is the line-by-line transcription of the text in Devanagari:

१०२ कर्पूरमञ्जरी मुक्कसंक ! हरिणंक ! किं तुवं सुंदरीपरिसरेण हिंडसे । ^१गोरगंडपरिपंडुरत्तणं पेच्छ दिण्णमिमिणा मुहेण दे ॥ ३४ ॥ (नेपथ्ये महान्कलकलः । सर्वे आकर्णयन्ति ।) राजा—किं पुण एसो महाकोलाहलो ? कर्पूरमञ्जरी—(ससाध्वसम्।) पिअसहि ! एदं अवगमिअ आगच्छ । (कुरङ्गिका निष्क्रम्य प्रविशति ।) विदूषकः—देवीए पिअवअस्सस्स वंचणा किदेत्ति तक्केमि । कुरङ्गिका—पिअसहि ! एदं जेव पिअवअस्सस्स वंचणा गदं मुक्तशङ्क ! हरिणाङ्क ! किं त्वं सुन्दरीपरिसरेण हिण्डसे । गौरगण्डपरिपाण्डुरत्वं पश्य दत्तममुना मुखेन ते ॥ अनेन सुन्दरीमुखेन ते तुभ्यं गौरगण्डपरिपाण्डुरत्वं दत्तमिति त्वमेव पश्येति वाक्यार्थः कर्म । तादृशसुन्दरीसविधे त्वं किं कुतो न परिभ्रमसि ? अत्यनुचितं करो- षीति भावः । अत एव साभिप्रायं संबोधनमाह—मुक्तशङ्केति । एतादृशं वस्तु यतः प्राप्तं तत्र भक्तिर्नास्तीति विमुच्यते ? शङ्कापि लोकज्जापि ते नास्तीति मह- दाश्चर्यमिति भावः । यद्वा,—यदेकदेशमुखैकदेशेनापि तवैतावद्दत्तं तन्निकटाटनेन विशे- षान्तरप्राप्तिरपि सम्भाव्यते । तदपि त्वं नाचरासीति महानज्ञस्त्वमिति भावः । राजा— किं पुनरेष महाकोलाहलः ? कर्पूरमञ्जरी— प्रियसखि ! एतदवगम्यागच्छ । एतत् कलकलविषयवस्तु । विदूषकः— देव्या प्रियवयस्यस्य वञ्चना कृतेति तर्कयामि । कुरङ्गिका— प्रियसखि ! भट्‍टारस्य वञ्चनां कृत्वा त्वया सह सङ्गमं ज्ञात्वागच्छति देवी । तेन कुब्जवामनकिरातवर्षवरसौविदल्लानामेष कोलाहलः । १ 'मुञ्ज दिंव' इत्यपि पाठः । २ 'भट्टारअस्स वणणं कडुअ तुए सह संगमं आणिअ आगच्छदि' इति टीकापाठः ।

तृतीयं जवनिकान्तरम् १०३ अवगमिअ ओअच्छदि । ता कुञ्जवामवक्किरादवरिसघरसोविदल्लाणं एस हल्बोलो । कर्पूरमञ्जरी—(सभयम्।) ता मं पेसेदु महाराओ जेण अहं इमिणा सुरंगामुहेण ज्जेव पविखिअ रक्खाघरं गच्छामि । जाव देवी महाराएण सह संगमं ण जाणादि । (इति निष्क्रान्ताः सर्वे ।) इति तृतीयं जवनिकान्तरम् । कर्पूरमञ्जरी— तन्मां प्रेषयतु महाराजो येनाहमनेन सुरंगामुखेनैव प्रविश्य रक्षागृहं गच्छामि । यथा देवी महाराजेन सह संगमं न जानाति । इति श्रीमद्विद्वद्वन्द्यवन्दिताङ्घ्रिसुन्दरपदद्वन्द्वकुन्दमतिप्रशस्तप्रकाभ्रसरत्कठोर- किरणकरप्रभप्रतिभप्रभाकराम्भारामसुदेवविरचिते कर्पूरमञ्जरी- प्रकाशे तृतीयं जवनिकान्तरं समाप्तम् । १ 'जाणच्छदि देवी' इति टीकापाठः ।

१०४ कर्पूरमञ्जरी चतुर्थं जवनिकान्तरम् ( ततः प्रविशति राजा विदूषकश्च । ) राजा—अहो, गाढअरो गिम्हो, पवणो अ पअंडो । ता कहं णु सहिदव्वो ? जदो,— इह कुसुमसरेकगोअराणं इदमुभअं पि हु दूसहं ति मण्णे । जरढरइकरालिदो अ कालो ^२सुहअजणेण पिएण विप्पलंभो ॥ १ ॥ विदूषकः—एके दाव वम्महस्स वहणिज्जा, अण्णे तावसोस- णिज्जा । अम्हारिसो उण जणो ण कामस्स वाहणिज्जो ण तावस्स सोसणिज्जो । ( नेपथ्ये । ) ता किं णुं खु दे समूळप्पाडिदचूडिअं सीसं करइस्सं । राजा— अहो, गाढतरो ग्रीष्मः, पवनश्च प्रचण्डः । तत्कथं नु सोढव्यः ? यतः,— इह कुसुमशरैकगोचराणामिदमुभयमपि सुदुःसहमिति मन्ये । जरठरविकरालितश्च कालस्तथा च जनेन प्रियेण विप्रलम्भः ॥ विदूषकः— एके तावन्मदनस्य बाधनीयाः, अन्ये तापशोषणीयाः । अस्मादृशः पुनर्जना न कामस्य बाधनीयो न तापस्य शोषणीयः । नेपथ्ये— तत्किं न खलु ते समूलोत्पाटितचूलिकाविकलं शीर्षं करिष्ये । १ अत्र ‘गाडअरुण्डो गिम्हो पवला सञ्झा कहं णु सोदव्वो । सा उण सारंगच्छी एक्क घरे वि दुल्हा विधिणा ॥’ इति पाठः । २ ‘तह अ जणेण’ इति टीकापाठः । ३ ‘ण खु’ इति टीकाधृतः पाठः । ४ ‘^४चूडियावि- कलं’ इति टीकापाठः ।

चतुर्थं जवनिकान्तरम् १०५ राजा— (विहस्य ।) वअस्स ! लीलावणसच्छंदचारिणा केलिसूएण किं भणिअं ? विदूषकः— (सक्रोधम् ।) आ दासीए उत्त ! सूलाअरणजोग्गो सि । (नेपथ्ये ।) सव्वं तुम्हारिसाहिंतो संभावीयदि, जदि मे ण होंति पंक्खावलीओ । राजा— (विलोक्य ।) कहं उड्डीणो विअ । (विदूषकं प्रति ।) णिस्ता तलिनवित्थरा तह दिणेसु पहुत्तणं ससी लहइ खंडणं तह अखंडियैयो रई । णिदाहदिएसेसु थिप्फुरइ जस्स एस घमो कहं ण स विही तदो खुरसिहाहि खंडिज्जदि ॥ २ ॥ किं च, णिउणं सेवणिज्जो जइ सुहअसंगमो भोदि । जदो,— राजा— वयस्य ! लीलावनास्वच्छन्दचारिणा केलिशुकेन किं भणितम् ? विदूषकः— आः दास्याःपुत्र ! शलाकाकरणयोग्योऽसि । नेपथ्ये— सर्वं युष्मादृशेभ्यः संभाव्यते, यदि मे न भवन्ति पक्षावल्यः । राजा— कथमड्डीन एव । नितान्ततलिनविस्तरास्तथा दिनेषु प्रभुत्वं शशी लभते खण्डनं तथा चाखण्डित्यो रविः । निदाघदिवसेषु विस्फुरति यस्यैष घर्मः कथं न स विधिनातः क्षुरशिखाभिः खण्ड्यते ॥ किं च निपुणं सेवनीयो यदि शुभसंगमो भवति । शुभः संगमो यस्य । तादृशेन च स्त्रीवृन्दानुमार्गं प्रस्वेदिति भावः । शुभः संगमो दयिताङ्गसङ्गः वा । १ 'तह अ पंडहविओ रई' इति टीकादृष्टः पाठः ।

१०६ कर्पूरमञ्जरी मज्झण्णे सिरिखंडपंककलणा आ संझमोल्हंसुअं लीलामज्जणमा पओससमयं साअं सुरा सीअला । गिम्हे पच्छिमजामिणीनिहुवणं जं किं पि पंचेसुणो एदे पंच सिलीमुहा विजइणो सेसा सरा जज्जरा ॥ ३ ॥ विदूषकः—मा एवं भण,— पंडुच्छविच्छुरिदणाअलदादलाणं साहारतेल्लपरिपेसलपोप्फलाणं । कप्पूरपंसुपरिवासिदचंदणाणं भद्दं णिदाहदिवसाण वअस्स ! भोदु ॥ ४ ॥ यतः,— मध्याह्ने श्रीखण्डपङ्ककलना आ संध्यमार्द्रांशुकं लीलामज्जनमा प्रदोषसमयं सायं सुरा शीतला । ग्रीष्मे पश्चिमयामिनीनिधुवनं यत्किमपि पञ्चेषो- रेते पञ्च शिलीमुखा विजयिनः शेषाः शरा जर्जराः ॥ ननु कंदर्पस्य पञ्चाधिकानां शराणामेवाभावात्कथं 'शेषाः शरा जर्जराः' इत्युक्तमिति चेन्न, कार्यक्षमपञ्चशरवत्तामात्रादेव पञ्चशरत्वव्यवहारोपपत्तावतिरिक्तशराभावकल्पने मानाभाव इत्यभिप्रायात् । यद्वा,—पञ्चैवेषवो मदनस्य, तथापि कालभेदेनान्यानन्यां- न्युपादत्त इति पूर्वस्वीकृतेषु जर्जरता युक्तेति न कोऽपि दोषः । विदूषकः— मैवं भण,— पाण्डुच्छविच्छुरितनागलतादलानां सहकारतैलपरिपेसलपूगफलानाम् । कर्पूरपांसुपरिवासितचन्दनानां भद्रं निदाघदिवसानां वयस्य ! भवतु ॥ पाण्डुच्छवीत्यादि हेतुगर्भविशेषणानि । तथा च यत एतादृशा अत एषां भद्रं भवत्वित्यर्थः । १ 'फरिससीअला' इति पाठः ।

चतुर्थं जवनिकान्तरम् १०७ राजा—एदं पुण एत्थ रमणिज्जं,— सपञ्चमतरंगिणो सयणमीअला चेणुणो समं सिसिरवारिणा वअणसीअला वारुणी । सचंदणघणत्थणी सअणसीअला कामिणी णिद्वाहदिवसोरुहं संअलमीअलं कस्स वि ॥ ५ ॥ अपि य,— लीलुत्तंसे सिरीसं सिहिणपरिसरे सिंधुवारण हारो अंगे चोहं चरिद्धं रमणपणइणी मेखला उप्पलेहिं । दोत्तुं दोकंदलीसुं णयविसयलआ चामविज्जो मणोज्ञो तायातंकेऽउतंतं महुसमअगदे एस वेसोऽर्थलाणं ॥ ६ ॥ राजा— इदं पुनरत्र रमणीयम्,— सपञ्चमतरङ्गिणः शयणशीतला वेणवः समं शिशिरवारिणा वदनशीतला वारुणी । सचन्दनघनस्तनी शयनशीतला कामिनी निदाघदिवसोरुधं सकलशीतलं कस्यापि ॥ कस्यापीत्यपिकार्ये । शीतले यद्वस्तु तन्निदाघदिवसोरुधम् । तापशमनायेति शेषः । कस्य वा न भवति ? अपि तु सर्वस्यापि भवतीति यत्तु. । अपि च,—

१०८ कर्पूरमञ्जरी विदूषकः—अहं पुण भणामि— मज्झण्हसण्हघणचंदणपंकिलाणं साअं णिसेविअणिरंतरमज्जणाणं । सामासु धीअणअवारिकणुक्खिदाणं दासत्तणं कुणदि पंचसरो वहूणं ॥ ७ ॥ राजा—( स्मरणमभिनीय । ) पच्चग्गं णवरूअवंगिघडणारंभे जणे संगमो जाणं ताणँ खणं व रंत्तिदिअहा गच्छंति दीहा अवि । जाणं ते अ मणं पि देंति ण रइं चित्तस्स संताविणो ताणं जंति मणोरहेक्कजणणा मासोवमा वासरा ॥ ८ ॥ (विदूषकं प्रति ।) वअस्स ! अत्थि तग्गदा का वि वत्ता ? विदूषकः—अत्थि, सुणादु पिअवअस्सो । कहेमि सुहासिअं दे । विदूषकः— अहं पुनर्ब्रवीमि— मध्याह्नश्लक्ष्णघनचन्दनपङ्किलानां सायं निषेवितनिरन्तरमज्जनानाम् । श्यामासु व्यजनजवारिकणोक्षितानां दास्यं करोति पञ्चशरोऽबलानाम् ॥ राजा— प्रत्यग्रं नवरूपभङ्गिघटनाऽऽरम्भे जने संगमो येषां तेषां क्षणमिव झटिति दिवसा वर्तन्ते दीर्घा अपि । येषां ते च मनसि ददति न रतिं चित्तस्य संतापिन- स्तेषां यान्ति जगन्ति दीर्घतमा मासोपमा वासराः ॥ वयस्य ! अस्ति तद्गता कापि वार्ता ? विदूषकः— अस्ति, शृणोतु प्रियवयस्यः । कथयामि सुभाषितं ते । यतःप्रभृति कर्पूरमञ्जरी 1 'झत्ति दिअहा बहंति दीहा' इति टीकानुगुणः पाठः । 2 'जअम्मि दीहरतमा मासोवमा' इति टीकाकृतः पाठः ।

चतुर्थ जवनिकान्तरम् १०९ जा सा कप्पूरमंजरीए रक्खाभंगेणे सुरंगा दिण्णा सा देवीए दिट्ठा । तदो पहुदि तं सुरंगादुआरं देवीए पिहुलसिलासंचएण णीरंधं करिज पिहिद । अणंगसेणा, कलिंगसेणा, कामसेणा, वसंतसेणा, विब्भमसेण त्ति पंच सेणानामधेआओ चामरधारिणीओ फरफिंदफरआ करवालहत्थपादक्कस- हस्सेण सह कारामदिरस्स रक्खाणिमित्तं पुव्वदिसि णिउत्ताओ । अणंगलेहा, चित्तलेहा, चंदलेहा, मिअङ्कलेहा, विब्भमलेहे त्ति लेह- णामधेआओ पंच सेरंधीओ पुक्खिदसिलीमुहधणूहरयेण णिविडणिबद्ध- तूणीरदुद्वयेण धाणुक्कसहस्सेण सम दक्खिणगाए दिसाए णिविसिदाओ । कुंदमाला, चंदणमाला, कुवलअमाला, कंचणमाला, वउलमाला, मंगउमाला, माणिकमाल त्ति सत्त मालत्तणामधेआओ णवणिसिदकुंत- हत्थपाइक्कसहस्सेण सम तम्बूलकरंकवाहिणीओ मज्झिमाए दिसाए णिविसिदाओ । अणंगकेली, धवरकेली, कंदप्पकेली, सुंदरकेली, कंदोट्टकेलि त्ति रक्षाभङ्गात्सुरङ्गाद्वारे देव्या दृष्टा, तत प्रभृति तत्सुरङ्गाद्वारं देव्या बहुलशिलासंच- येन नीरन्ध्रं कृत्वा पिहितम् । अनङ्गसेना, कलिङ्गसेना, कामसेना, वसन्तसेना, विभ्रमसेनेति पञ्च सेनानामधेयाश्चामरधारिण्य स्फारस्फुरत्करवालहस्तपदानिकसह- स्रेण सह कारामन्दिरस्य रक्षानिमित्तं पूर्वदिशि नियुक्ता । अनङ्गलेखा, चित्रलेखा, चन्द्रलेखा, मृगाङ्कलेखा, विभ्रमलेखेति लेखनामधेया पञ्च सैरन्ध्रय पुष्पितशिलीमुखधनुर्हस्तेन निबिडनिबद्धतूणीरदुर्धरेण धानुष्कसहस्रेण समं दक्षिणस्यां दिशि निवेशिता । कुन्दमाला, चन्दनमाला, कुवलयमाला, काञ्चनमाला, बकुलमाला, मङ्गलमाला, माणिक्यमालेति सप्त मालति नामधेया नवविशितकुन्तहस्तपदातिकांसहस्रेण समं ताम्बूलकरङ्कवाहिन्य पश्चिमायां दिशि निवेशिता । अनङ्गकेलि, शुभगकेलि, कन्दर्पकेलि, सुन्दरकेलि, उत्पलकेलीति पञ्च १ 'तदो पहुदि कप्पूरमंजरी' इति टीकाकृत पाठ । २ 'मज्झमदेसे सुरंगादुआरे देवीए' इति टीकापाठ ।

११० कर्पूरमञ्जरी

पंच केलीअंतण|मधेआओ मज्जणकारिणीओ फलअखग्गकम्पविदुरिलेण पाइकसहस्सेण समं उत्तरदिसाए आदत्ताओ । ताणं पि उण उवरि मदिरावदी, केलिवदी, कलोलवदी, तरंगवदी, अणंगवदी त्ति पंच वदीनामधेआओ परिचारिआकुमारीओ फणअवे- त्तदंडहत्थाओ सुहासिअपढिआओ बंदीनामधेआओ सेणाए अज्झ- क्खीकदाओ । राजा—अहो देवीए सामग्गी अंतेउरोचिदा । विदूषकः—भो वअस्स ! एसा देवीए सारंगिआ णाम सही किं पि विष्णविदुं पेसिदा । (ततः प्रविशति सारङ्गिका ।) सारङ्गिका—जअदु जअदु भट्ठा । देव ! देवी विष्णवेदि— अज्ज चउत्थदिअहे भविअवदसावित्तीमहूसवोवअरणाइं केलिविमाणं आरुहिअ देवेण पेक्खिदव्वाईं त्ति ।

केलीतिनामधेया मज्जनकारिण्यः फलकखड्गकम्पनीयेन पदतिसहस्रेण समुत्तर- दिशयाज्ञाताः । तासामपि पुनरुपरि मदिरावती, केलिवती, कल्लोलवती, तरङ्गवती, अनङ्गवतीति पञ्च वतीतिनामधेयाः परिचारिकाकुमार्यः फणरवेत्रदण्डहस्ताः सुभाषितपाठिका बन्दीनामधेयाः सेनाया अध्यक्षीकृताः । राजा— अहो देव्याः सामग्यन्तःपुरोचिता । विदूषकः— भो वयस्य ! एषा देव्या सारङ्गिका नाम सखी किमपि निवेदितुं प्रेषिता । सारङ्गिका— जयतु जयतु भर्ता । देव ! देवी विज्ञापयति—चतुर्थदिवसे भाविबटसावित्री- महोत्संवोपकरणानि केलिविमानप्रासादम layer (रुह्य) प्रेक्षितव्यानीति । १ 'णिवेदिदुं' इति टीकाभिमतः पाठः । २ "विमाणप्पासादमारुहिअ' इति टीका- पाठः।

चतुर्थं जवनिकान्तरम् १११ राजा—जं¹ देवी आदिसदि । (चेटी निष्क्रान्ता । उभौ प्रासादाधिरोहणं नाटयतः ।) (ततः प्रविशति चर्चरी ।) विदूषकः— मुत्ताहिलाहरणोच्छआओ लासावसाणे तलिणंसुआओ । सिंचंति अण्णोण्णमिमीउ पेच्छ जंतज्जलेणं मणिभाहणेहिं ॥ ९ ॥ इदो अ,— परिब्भमंतीउ विचित्तबंधं इमाउ दोसोलह णच्चणीओ । खेलंति तालानुगदप्पआओ तुहंगणे दीसदि दंडरासो ॥ १० ॥ समंससीसा समबाहुहत्था रेहाविसुद्धा अवराउ देंति । पंतीहिं दोहिं लयतालबंधं परोप्परं साहिमुही हुवंति ॥ ११ ॥ मोत्तुण अण्णा मणिवारआई जंतेहि धारासलिलं खिवंति । पडंति ताओ सहिआणमंगे मणोभुयो बाणग्वाणचंगा ॥ १२ ॥ राजा— यद्देव्याज्ञापयति । विदूषकः— मुक्ताफलाभरणोच्छया लास्यावसाने घटितांशुकाः । सिञ्चन्त्यन्योऽन्यमिमाः पश्य यन्त्रजलैर्मणिभाजनैः ॥ लास्यावसाने इमा अन्योन्यं सिञ्चन्तीति सम्बन्धः । ततः,— परिभ्रमन्त्यो विचित्रबन्धं इमा द्विरोडश नर्तक्यः । खेलन्ति तालानुगतपदान्तराङ्गे दृश्यते दण्डरासः ॥ समांसशीर्षाः समबाहुहस्ता रेखाविशुद्धा अपराधं ददति । पङ्क्तिभ्यो द्वाभ्यां लयतालबन्धं परस्परं साभिमुख्या भवन्ति ॥ मुक्त्वा अन्या मणिवारणानि यन्त्रधारासलिलं क्षिपन्ति । पतन्ति ताश्च प्रियाणांमङ्गे मनोभुवो बाणबाणकलशाः ॥ 1 'जं देवी आणवेदि' इति टीकापाठः । 2 'ताश्च प्रियाणाङ्गे' इति टीकापाठः । 3 'बाणरूपा' इति दीक्षितानुगः पाठः ।

११२ कर्पूरमञ्जरी इमा मसीकज्जलकालकाआ तिकंडचावाउ विलासिणीओ । पुलिंदरूवेण जणस्स हासं समोरपिच्छाभरणा कुणंति ॥ १३ ॥ हत्थे महामंसवलीधराओ हुंकारफेक्काररवा रउद्वा । णिसाअरीणं पडिसीसएहिं अण्णा मसाणाभिणअं कुणंति ॥ १४ ॥ का वि घामिदकरालहुडुक्का रम्ममद्दलर्वेण मअच्छी । १दोल्लआहिं पडिवाडिचलाहिं चल्लिकम्मकरणम्मि पअट्टा ॥ १५ ॥ किंकिणीकझणज्झणसद्दा कंठगीदलअजंतिदताला । जोगिणीवलअणच्चणकेलिं तालणेउररवं विरअंति ॥ १६ ॥ कोदुहल्लवसजंगमवेसा वेणुवादणपरा अवराओ । फालवेसयसहासिलोआ ओसरंति पणमंति हसंति ॥ १७ ॥ (विहस्य ।) सारङ्गिका—(पुरोऽवलोक्य ।) एसो महाराओ पुणो मेरगअपूं- जंजादो कदलीघरं अणुप्पविट्ठो । ता अग्गदो गदुअ देवीए विण्णविअं वि- इमा मषीकज्जलश्यामकायास्त्रिकाण्डचापाश्च विलासिन्यः । पुलिन्दरूपेण जनस्य हासं समयूरपिच्छाभरणाः कुर्वन्ति ॥ हस्ते महामांसबलिधारिण्यो हुंकारफेत्काररवा रौद्राः । निशाचरीणां प्रतिशीर्षकैरन्याः श्मशानाभिनयं कुर्वन्ति ॥ कापि वादितकरालहुडुक्का रम्यमर्दलरवेण मृगाक्षी । भ्रूलताभ्यां परिपाटीचलाभ्यां चेटीकर्मकरणे प्रवृत्ता ॥ किङ्किणीक्वणद्रणज्झणशब्दाः कण्ठगीतलययन्त्रिततालाः । योगिनीवलयनर्तनकेलिं तालनूपुररवं विरचयन्ति ॥ कौतूहलवशचञ्चलवेषा वेणुवादनपरा अपराः । कालवेषत्रसद्धासितलोका अपसरन्ति प्रणमन्ति हसन्ति ॥ सारङ्गिका— एष महाराजः पुनर्मरकतपुञ्जमेव गतः । कदलीगृहं चानुपविष्टः । तदग्रतो १ 'भूलदाहिं' इति टीकापाठः । २ ' 'चञ्चलवेसा' इति टीकाधृतपाठः । ३ 'मरगअपूञ्जं जेव गदो । कदलीघरं अ' इति टीकापाठः ।