काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
३६२ ॥ काशिका ॥ ४ ॥ ४ ॥ षिकः । प्रकृत्यन्तरं वा वृद्धिपर्यायो वृद्धिषिशब्दः । मह्यंमिति किम् । द्विगुणं प्रयच्छत्यधमर्णः ॥ कुसीददशैकादशात् ष्ठन्ष्ठचौ ॥ ३१ ॥ प्रयच्छति गर्ह्यमित्येव । कुसीदं वृद्धि,स्तदर्थं द्रव्यं कुसीदम् । एकाद- शार्थो दश दशैकादशशब्देनोच्यन्ते । कुसीददशैकादशशब्दाभ्यां यथासंख्यं ष्ठन् ष्ठञ् इत्येतौ प्रत्ययो भवतः प्रयच्छति गर्ह्यमित्यस्मिन्विषये । ठकोऽपवादौ । कुसीदं प्रयच्छति, कुसीदिकः । कुसीदिकी । दशैकादशिकः । दशैकादशिकी ॥ उञ्छति ॥ ३२ ॥ तदिति द्वितीयासमर्थादुञ्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । बद- राण्युञ्छति, बादरिकः । श्यामाकिकः । भूमौ पतितस्यैकैकस्य कणस्योपादान मुञ्छः । कषानुञ्छति, काषिकः * ॥ रक्षति ॥ ३३ ॥ तदिति द्वितीयासमर्थाद्रक्षतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । समाजं रक्षति, सामाजिकः । सांनिवेशिकः ॥ शब्ददर्दुरं करोति ॥ ३४ ॥ तदिति द्वितीयासमर्थाभ्यां शब्ददर्दुरशब्दाभ्यां करोतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । शब्दं करोति, शाब्दिको वैयाकरणः । दार्दुरिकः कुम्भकारः ॥ पक्षिमत्स्यमृगान् हन्ति ॥ ३५ ॥ तदित्येव । पक्ष्यादिभ्यो द्वितीयासमर्थेभ्यो हन्तीत्येतस्मिन्नर्थे ठक् प्रत्य- यो भवति ॥ स्वरूपस्य पर्यायाणां तद्विशेषाणां च ग्रहणमिहेष्यते ॥ पक्षिणो हन्ति, पाक्षिकः । शाकुनिकः । मायूरिकः । तैत्तिरिकः । मत्स्य । मात्स्यिकः । मैनिकः । शार्फरिकः । शाकुलिकः । मृग । मार्गिकः । हारिणिकः । सौकरिकः । सारङ्गिकः ॥ परिपन्थं च तिष्ठति ॥ ३६ ॥ परिपन्थशब्दात्तदिति द्वितीयासमर्थात्तिष्ठतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । परिपन्थं तिष्ठति, पारिपन्थिकश्चोरः । चकारो भिन्नक्रमः प्रत्ययार्थे समुच्चिनोति । परिपन्थं हन्ति, पारिपन्थिकः । समर्थेविभक्तिप्रकरणे पुनर्द्विती- योच्चारणं लौकिकवाक्यप्रदर्शनार्थम् । परिपथशब्दपर्यायः परिपन्थशब्दोऽस्तीति ज्ञापयति,स विषयान्तरेपि प्रयोक्तव्यः ॥
- भूमावित्यारभ्य काषिक इत्यन्तं बहुषु पुस्तकेषु नास्ति ।
॥ काशिका ॥ ४ । ४ ॥ ३६३ माथोत्सरपदपदव्यनुपदं धावति ॥ ३७ ॥ माथशब्दोत्तरपदात्प्रातिपदिकात्पदवी अनुपद् इत्येताभ्यां च धावती- त्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । दण्डमाथं धावति, दाण्डमाथिकः । शौल्क- माथिकः । पादविकः । आनुपदिकः । माथशब्दः पथिपर्यायः ॥ आक्रन्दाट्ठञ् ॥ ३८ ॥ आक्रन्द्यतेऽस्मिन्नित्याक्रन्दो देशः । अथ वा ऽऽक्रन्द्यातइत्याक्रन्द, चार्तो- यनमुच्यते । विशेषाभावाद् द्वयोरपि ग्रहणम् । आक्रन्दशब्दात्तदिति द्वितीया- समर्थाद्धावतीत्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति, चकाराट्ठक् च । स्वरे विशेषः । आक्रन्दं धावति आक्रन्दिकः । आक्रन्दिकी ॥ पदोत्तरपदं गृह्णाति ॥ ३६ ॥ पदशब्द उत्तरपदं यस्य तस्मात्पदोत्तरपदशब्दात्तदिति द्वितीयासम- र्थाद्गृह्णातीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । पूर्वपदं गृह्णाति, पौर्वपदिकः । औत्तरपदिकः । पदान्तादिति नोक्तं, बहुच्पूर्वान्मा भूदिति ॥ प्रतिकण्ठार्थललामं च ॥ ४० ॥ प्रतिकण्ठार्थललामशब्देभ्यस्तदिति द्वितीयासमर्थेभ्यो गृह्णातीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । प्रतिकण्ठं गृह्णाति, प्रातिकण्ठिकः । आर्थिकः । लालामिकः ॥ धर्मं चरति ॥ ४१ ॥ धर्मशब्दात्तदिति द्वितीयासमर्थाच्चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । चरतिरासेवायाम् नानुष्ठानमात्रे । धर्मं चरति, धार्मिकः ॥ अधर्माच्चेति वक्त- व्यम् ॥ * ॥ आधार्मिकः ॥ प्रतिपथमिति ठंश्च ॥ ४२ ॥ प्रतिपथशब्दाद्द्वितीयासमर्थाद् एतीत्यस्मिन्नर्थे ठन् प्रत्ययो भवति, चकाराट्ठक् च । प्रतिपथमिति, प्रतिपथिकः । प्रातिपथिकः ॥ समवायान् समवैति ॥ ४३ ॥ समवायवाचिभ्यः शब्देभ्यस्तदिति द्वितीयासमर्थेभ्यः समवैतीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । समवायः समूह उच्यते न संप्रधारणा । समवाया- निति बहुवचनं स्वरूपविधिनिरासार्थम् । समवैति आगत्य तदेकदेशी भव- तीत्यर्थः । समवायान्समवैति, सामवायिकः । सामाजिकः । सामूहिकः । साधिवेशनिकः ॥
३६४ ॥ काशिका ॥ ४ ॥ ४ ॥ परिषदो ण्यः ॥ ४४ ॥
- परिषदो ण्यः प्रत्ययो भवति सम वायान्समवैतीत्येतस्मिन्विषये । ठकोऽपवादः । परिषदं समवैति, पारिषद्यः ॥ सेनाया वा ॥ ४५ ॥ सेनाशब्दाद् वा ण्यः प्रत्ययो भवति समवायान्समवैतीत्येतस्मिन्नर्थे । ठकोऽपवादः । पक्षे सोऽपि भवति । सेनां समवैति, सैन्यः । सैनिकः ॥ संज्ञायां ललाटकुक्कुट्यौ पश्यति ॥ ४६ ॥ ललाटकुक्कुटीशब्दाभ्यां तदिति द्वितीयासमर्थाभ्यां पश्यतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति संज्ञायां विषये । संज्ञाग्रहणमभिधेयनियमार्थं, न तु सञ्ज्ञा- र्थम् । ललाटं पश्यति, लालाटिकः सेवकः । कौक्कुटिको भिक्षुः । सर्वावय- वेभ्यो ललाटं दूरे दृश्यते, तदनेन ललाटदर्शनेन सेवकस्य स्वामिनं प्रत्यनुप- श्लेषः कार्येष्वनुपस्थायित्वं लक्ष्यते । लालाटिकः सेवकः । स्वामिनः कार्येषु नोपतिष्ठतइत्यर्थः । कुक्कुटीशब्देनापि कुक्कुटीपातो लक्ष्यते । देशस्याल्पतया हि भिक्षुरविक्षिप्तदृष्टिः पादविक्षेपदेशे चक्षुः संयम्य गच्छति स उच्यते कौक्कुटिक इति † ॥ तस्य धर्म्यम् ॥ ४७ ॥ तस्येति षष्ठीसमर्थाद् धर्म्यमित्येतस्मिन्नर्थे ठञ् प्रत्ययो भवति । धर्म्ये न्याय्यम् । आचारयुक्तमित्यर्थः । शुल्कशालाया धर्म्म्यं शौल्कशालिकम् । आक- रिकम् । आपाणिकम् । गौल्मिकम् ॥ अण् महिष्यादिभ्यः ॥ ४८ ॥ महिषीत्येवमादिभ्यो ऽण् प्रत्ययो भवति तस्य धर्म्ममित्येतस्मिन् विषये । ठञोऽपवादः । महिष्या धर्म्म्यं, माहिषम् । प्राजावतम् । महिषी । प्रजावती । प्रलेपिका । विलेपिका । अनुलेपिका । पुरोहित । महिपाली । अनुचारक । होतृ । यजमान ॥ ऋतो ऽञ् ४६ ॥ ऋकारान्तात्प्रातिपदिकादञ् प्रत्ययो भवति तस्य धर्म्ममित्येतस्मिन्वि- षये । ठञोऽपवादः । पोतुर्धर्म्म्यं पौत्रम् । औद्गात्रम् ॥ नराच्चेति वक्तव्यम् ॥ * ॥
- परिषदो ण्य इत्यस्याग्रे परिषदीतव्यस्मिश्चित्यधिकररो विषप् । इत्याधिकमेकस्मिन्पु- स्तके । † कौक्कुटिक इतीत्यस्याग्रे तदयमभिधेयनियमः संज्ञाग्रहणेन क्रियते, कुक्कुटी दाम्भि- कश्चेटा ।
॥ काशिका ॥ ४ ॥ ४ ॥ ४६५ नरस्य धर्मो, नारी । विशसितुर्इड्लोपश्च ॥ * ॥ विशसितुर्धर्म्यं वैशससम् ॥ विभाजयितुर्ऋतोपश्च ॥ * ॥ विभाजयितुर्धर्म्यं वैभाजितम् ॥ अवक्रयः ॥ ५० ॥ तस्येत्येव । षष्ठीसमर्थादवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । अवक्रीयते ऽनेनेत्यवक्रयः पिण्डक उच्यते । शुल्कशालाया अवक्रयः, शौल्कशा- लिकः । आकरिकः * । आपाकिकः । गौल्मिकः । नन्ववक्रयोऽपि धर्म्यमेव । नैत- दस्ति । लोकपीडया धर्मोऽतिक्रमेणाप्यवक्रयो भवति ॥ तदस्य पण्यम् ॥ ५१ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थं पण्यं चेत्तद्भवति । अपूपाः पण्यमस्य, आपूपिकः । शाष्कुलिकः । मौद- किकः । पण्यमिति विशेषणं तद्धितवृत्तावन्तर्भूतमतः पण्यशब्दो न प्रयुज्यते ॥ लवणाट्ठञ् ॥ ५२ ॥ लवणशब्दाट्ठञ् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्विषये । ठञो- ऽपवादः । स्वरे विशेषः । लवणं पण्यमस्य, लावणिकः ॥ किशरादिभ्य ष्ठन् ॥ ५३ ॥ किशरा इत्येवमादिभ्यः ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन्वि- षये । ठञोऽपवादः । किशरादयो गन्धविशेषवचनाः । किशराः पण्यमस्य, किश- रिकः । किशरिकी । नरदिकः । नरदिकी । किशर । नरद । नलद । सुगण्डल । तगर । गुग्गुलु । उशीर । हरिद्रा । हरिद्रायणी ॥ शलालुनो ऽन्यतरस्याम् ॥ ५४ ॥ शलालुशब्दादन्यतरस्यां ष्ठन् प्रत्ययो भवति तदस्य पण्यमित्येतद्विषये । ठञोऽपवादः । पक्षे सोऽपि भवति । शलालुशब्दो गन्धविशेषवचनः । शलालु पण्यमस्य, शलालुकः । शलालुकी । शालालुकः । शालालुकी ॥ शिल्पम् ॥ ५५ ॥ तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमास- मर्थे शिल्पं चेत्तद्भवति । शिल्पं कौशल्यम् । मृदङ्गवादनं शिल्पमस्य, मार्दङ्गिकः । पाशविकः । वैणिकः । मृदङ्गवादने वर्त्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति । शिल्पं तद्धितवृत्तावन्तर्भवति ॥ मड्डुकझर्झरादणन्यतरस्याम् ॥ ५६ ॥
- आकारिक इति पाठः ॥
३६६ ॥ काशिका ॥ ४ ॥ ४ ॥ मड्डुकझर्झराभ्यामन्यतरस्यामण् प्रत्ययो भवति तदस्य शिल्पमि- त्येतस्मिन्विषये । ठकोपवादः । पक्षे सोऽपि भवति । मड्डुकवादनं शिल्पमस्य, माड्डुकः । माड्डुकिकः । झार्झरः । झार्झरिकः ॥ प्रहरणम् ॥ ५७ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं प्रहरणं चेत्तद्भवति । असिः प्रहरणमस्य, आसिकः । प्रासिकः । धान्ुष्कः । चाक्रिकः ॥ परश्वधाट्ठञ् च ॥ ५८ ॥ परश्वधशब्दात् ठञ् प्रत्ययो भवति, चकारात् ठक् । स्वरे विशेषः । परश्वधः प्रहरणमस्य, पारश्वधिकः ॥ शक्तियष्ट्योरीकक् ॥ ५९ ॥ शक्तियष्टिशब्दाभ्यामीकक् प्रत्ययो भवति तदस्य प्रहरणमित्येतस्मिन्वि- षये । ठकोपवादः । शक्तिः प्रहरणमस्य, शाक्तीकः । याष्टीकः ॥ अस्तिनास्तिदिष्टं मतिः ॥ ६० ॥ तदस्येत्येव । तदिति प्रथमासमर्थेभ्यो ऽस्ति नास्ति दिष्ट इत्येतेभ्यः शब्देभ्यो ऽस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं मतिश्चेत्तद्भवति । अस्ति मतिरस्य, आस्तिकः । नास्ति मतिरस्य, नास्तिकः । दैष्टिकः । न च मतिमात्रे प्रत्यय इष्यते, किं तर्हि परलोकोऽस्तीति यस्य मतिरस्ति स आ- स्तिकः । तद्विपरीतो नास्तिकः । प्रमाणानुपातिनी यस्य मतिः स दैष्टिकः । तदेतदभिधानशक्तिस्वभावाल्लभ्यते । अस्तिनास्तिशब्दौ निपातौ, वचनसाम- र्थ्याद्वा आख्याताद्वाक्याच्च प्रत्ययः ॥ शीलम् ॥ ६१ ॥ तदस्येत्येव । तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति यत्तत्प्रथमासमर्थं शीलं चेद्भवति । शीलं स्वभावः । आपूपभक्षणं शीलमस्य, आपूपिकः । शाष्कुलिकः । मौदकिकः । भक्षणक्रिया तद्विशेषणं च शीलं तद्धितवृत्तावन्तर्भवति ॥ छत्रादिभ्यो णः ॥ ६२ ॥ छत्र इत्येवमादिभ्यः प्रातिपदिकेभ्यो णः प्रत्ययो भवति तदस्य शील- मित्येतस्मिन्विषये । ठकोपवादः । छत्रं शीलमस्य, छात्रः । छादनादावरणा- च्छत्रम् । गुरुकार्येष्ववहितस्तच्छिद्रावरणप्रवृत्तश्छत्रशीलः शिष्यश्छात्रः । स्था- शब्दो ऽत्र पठ्यते स उपसर्गपूर्वाच्च गृह्यते । आस्था संस्था चकास् इति । छत्र ।
? No, सis not there. Wait, is thatस? It's: चे त् त त् स म? No, look at त्क: Wait, look at ठकोऽपवादःin line 13:ठ को ऽ प वा दः Look atत्कinऐकान्यिकः: ऐ का न्यि कः In line 6: चे-त्त-त्स? Wait, is it चेत्तत्समध्ययनविषयं? Look at character 3: त् character 4:स? character 5: म? Wait! Could it be चेत्तत् समाध्ययनविषयं? No, no aa matra. Wait, look at चेत्तत्समध्ययनविषयं- yes, it looks remarkably likeचेत्तत्समध्ययनविषयं! Wait, could it be चेत्तदध्ययनविषयं? If it were चेत्तदध्ययनविषयं, there would be चे त्त द ध्य... but there are two extra letters between त्तandध्य! Those letters are clearly सandम, or
३८८ ॥ काशिका ॥ ४ । ४ ॥ ठञेव कस्मान्नोच्यते नह्यत्र ठञष्ठञो वा विशेषोऽस्ति । मांसौदनग्रहणं संघात- विगृहीतार्थं केचिदिच्छन्ति । तत्र वृद्धाभावो विशेषः । श्रौदनिकः । श्रौदनिकी ॥ भक्तादणन्यतरस्याम् ॥ ६८ ॥ भक्तशब्दादण् प्रत्ययो भवत्यन्यतरस्यां तदस्मै दीयते नियुक्तमित्येत- स्मिन्विषये । ठञोऽपवादः । पक्षे सोऽपि भवति । भक्तमस्मै दीयते नियुक्तं, भाक्तः । भाक्तिकः ॥ तत्र नियुक्तः ॥ ६९ ॥ तत्रेति सप्तमीसमर्थाद्युक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । नि- युक्तो ऽधिकृतो व्यापारित इत्यर्थः । शुल्कशालायां नियुक्तः, शौल्कशालिकः । आकरिकः *। आपणिकः । गौल्मिकः । दौवारिकः ॥ अगारान्ताट्ठन् ॥ ७० ॥ अगारशब्दान्तात्प्रातिपदिकाट्ठन् प्रत्ययो भवति तत्र नियुक्त इत्येतस्मि- न्विषये । ठकोऽपवादः । देवागारे नियुक्तो, देवागारिकः । कोष्ठागारिकः । भाण्डागारिकः ॥ अध्यायिन्यदेशकालात् ॥ ७१ ॥ तत्रेत्येव । सप्तमीसमर्थाददेशवाचिनः प्रातिपदिकादकालवाचिनश्चा- ध्यायिन्यभिधेये ठञ् प्रत्ययो भवति । यदध्ययनस्य यो देशकालौ । शास्त्रेण प्रतिषिद्धौ तावदेशकालशब्देनोच्येते तत इदं प्रत्ययविधानम् । श्मशाने ऽधीते, श्मशानिकः । चातुष्पथिकः । अकालात् । चतुर्दश्यामधीते, चातुर्दशिकः । आमावास्यिकः अदेशकालादिति किम् । सुप्ते ऽधीते । पूर्वाह्णे ऽधीते ॥ कठिनान्तप्रस्तारसंस्थानेषु व्यवहरति ॥ ७२ ॥ तत्रेत्येव । कठिनशब्दान्तात्सप्तमीसमर्थात् प्रस्तारसंस्थानशब्दाभ्यां च ठञ् प्रत्ययो भवति व्यवहरतीत्येतस्मिन्नर्थे । व्यवहारः क्रियातन्त्रम् । यद्वा लौकिकव्यवहार इति । वंशकठिने व्यवहरति, वांशकठिनिकः । वार्त्रकठिनिकः, प्रास्तारिकः । सांस्थानिकः ॥ निकटे वसति ॥ ७३ ॥ निकटशब्दात्सप्तमीसमर्थाद्वसतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति । यस्य शास्त्रतो निकटवासस्तन्नायं विधिः । चारण्यकेन भिक्षुणा नामात्रक्रोशे वस्त- व्यमिति शास्त्रम् । निकटे वसति, नैकटिको भिक्षुः ॥
- आकरिक इति पा० २ ।
॥ काशिका ॥ ४ ॥ ४ ॥ ३६९ आवसथात् ष्ठल् ॥ ७४ ॥ तत्रेत्येव । आवसथशब्दात्सप्तमीसमर्थाद् वसतीत्येतस्मिन्नर्थे ष्ठल् प्रत्ययो भवति । लकारः स्वरार्थः । षकारो ङीबर्थः । आवसथे वसति, आव- सथिकः । आवसथिकी । ठञः पूर्वो ऽवधिरतः परमन्यः प्रत्ययो विधीयते ॥ प्राग्घिताद्यत् ॥ ७५ ॥ तस्मै हितमिति वक्ष्यति । प्रागेतस्माद्धितसंबन्धवाक्यादित ऊर्ध्वमनुक्र- मिष्यामो यत्प्रत्ययस्तेष्वधिकृतो वेदितव्यः । वक्ष्यति । तद्वहति रथयुगप्रास- ङ्गम् । रथ्यः । युग्यः । प्रासङ्ग्यः ॥ तद्वहति रथयुगप्रासङ्गम् ॥ ७६ ॥ तदिति द्वितीया समर्थेभ्यो रथयुगप्रासङ्गेभ्यो वहतीत्येतस्मिन्नर्थे यत्प्र- त्ययो भवति । रथं वहति, रथ्यः । युग्यः । प्रासङ्ग्यः । रथसीताहलेभ्यो यद्वि- धाविति तदन्तविध्युपसंख्यानात् परमरथ्य इत्यपि भवति ॥ धुरो यड्ढकौ ॥ ७७ ॥ तद्वहतीत्येव । धुर् इत्येतस्माद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे यत् ढक् इत्येतौ प्रत्ययौ भवतः । धुरं वहति, धुर्यः । धौरेयः ॥ खः सर्वधुरात् ॥ ७८ ॥ तद्वहतीत्येव । सर्वधुराशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति । सर्वधुरां वहति, सर्वधुरीणः । स्त्रीलिङ्गे न्याय्ये सर्वधुरादिति प्रातिपदिकमात्रापेक्षो निर्देशः । ख इति योगविभागः कर्त्तव्य इष्टसंग्रहार्थः । उत्ताधुरीणः । दक्षिणाधुरीणः ॥ एकधुराल्लुक् च ॥ ७९ ॥ तद्वहतीत्येव । एकधुराशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे खः प्रत्ययो भवति तस्य लुग्भवति । वचनसामर्थ्यात्पक्षे लुग्विधीयते । एकधुरां वहति, एकधुरीणः । एकधुरः ॥ शकटादण् ॥ ८० ॥ तद्वहतीत्येव । शकटशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे ऽण् प्रत्ययो भवति । शकटं वहति, शाकटो गौः । हलसीराट्ठक् ॥ ८१ ॥ तद्वहतीत्येव । हलसीरशब्दाभ्यां द्वितीयासमर्थाभ्यां वहतीत्येतस्मि- न्नर्थे ठक् प्रत्ययो भवति । हलं वहति, हालिकः । सैरिकः ॥ २४
३३० ॥ काशिका ॥ ४ ॥ ४ ॥ संज्ञायां जन्याः ॥ ८२ ॥ तद्वहतीत्येव । जनीशब्दाद् द्वितीयासमर्थाद्वहतीत्येतस्मिन्नर्थे यत् प्रत्य- यो भवति समुदायेन चेत्संज्ञा गम्यते । जनीं वहति, जन्या जामातुर्वयस्या । सा हि विहारादिषु जामातृसमीपं प्रापयति । जनी वधूरुच्यते । विध्यत्यधनुषा ॥ ८३ ॥ तदिति द्वितीयासमर्थाद् विध्यतीत्येतस्मिन्नर्थे यत् प्रत्ययो भवति न चेद्धनुष्करणं भवति । पादौ विध्यन्ति, पद्याः शर्कराः । उरव्याः कण्टकाः । अधनुषेति किम् । पादौ विध्यति धनुषा । नन्वसमर्थत्वादनाभिधानाच्च प्रत्ययो न भवति । नहि धनुषा पद्या इत्युक्ते विवक्षितोर्थः प्रतीयते । एवं तर्हि धनु- ष्प्रतिषेधेन व्यधनक्रिया विशेष्यते यस्यां धनुष्करणं न संभाव्यते इति । तेनेह न भवति चौरं विध्यति शत्रुं विध्यति देवदत्त इति ॥ धनगणां लब्धा ॥ ८४ ॥ तदित्येव । धनगणशब्दाभ्यां द्वितीयासमर्थाभ्यां लब्धेत्येतस्मिन्नर्थे यत् प्रत्ययो भवति । धन्यः । गण्यः । लब्धेति तृचंतं, तेन द्वितीया समर्था विभ- क्तिर्युज्यते ॥ अन्नान्नः ॥ ८५ ॥ अन्नशब्दात्तदिति द्वितीयासमर्थाल्लब्धेत्येतस्मिन्नर्थे णः प्रत्ययो भवति । अन्नं लब्धा, आन्नः ॥ वशं गतः ॥ ८६ ॥ वशशब्दात्तदिति द्वितीयासमर्थाद्गत इत्येतस्मिन्नर्थे यत्प्रत्ययो भव- ति । वशं गतः, वश्यः । कामप्राप्तो विधेय इत्यर्थः ॥ पदमस्मिन् दृश्यम् ॥ ८७ ॥ निर्देशादेव प्रथमा समर्थविभक्तिः । पदशब्दात्प्रथमासमर्थाद् दृश्यार्थो- पाधिकादस्मिन्निति सप्तम्यर्थे यत्प्रत्ययो भवति । पदं दृश्यमस्मिन्, पद्यः कर्दमः । पद्याः पांसवः । शक्यार्थे कृत्यः । शक्यते यस्मिन् पदं द्रष्टुं प्रतिमु- द्रोत्पादनेन स पद्यः कर्दमः । कर्दमस्यावस्थोच्यते नातिद्रवो नातिशुष्क इति ॥ मूलमस्याबर्हि ॥ ८८ ॥ मूलशब्दात्प्रथमासमर्थादाबर्हीत्येवमुपाधिकादस्येति षष्ठ्यर्थे यत्प्रत्ययो भवति । मूलमेषामाबर्हि मूल्यो माषः । मूल्या मुद्गाः । बर्ह उद्दामे, येषां मूल- माबर्ह्यते उत्पाट्यते ते मूल्याः, सुष्ठु निष्पक्वाः । मूलोत्पाटनेन विना ग्रहीतुं न शक्यन्ते इत्यर्थः ॥
॥ काशिका ॥ ४ ॥ ४ ॥ ३७१ संज्ञायां धेनुष्या ॥ ८९ ॥ धेनुष्येति निपात्यते संज्ञायां विषये । संज्ञायहणमभिधेयनियमार्थम् । धेनोः ष्ठुगागमो यश्च प्रत्ययः । अन्तोदात्तोऽपि ह्ययमिष्यते । या धेनुरुत्तमर्णाय वत्सप्रदानाद्दोहनार्थं दीयते सा धेनुष्या । पीतदुग्धेति यस्याः प्रसिद्धिः । धेनुष्यां भवते ददामि ॥ गृहपतिना संयुक्ते ञ्यः ॥ ९० ॥ निर्देशायदेव तृतीया समर्थविभक्तिः । गृहपतिशब्दात्तृतीयासमर्थात्संयु- क्तइत्येतस्मिन्नर्थे ञ्यः प्रत्ययो भवति । गृहपतिना संयुक्तः, गार्हपत्योऽग्निः । अन्यस्यापि गृहपतिना संयोगो ऽस्ति तत्र संज्ञाधिकारादतिप्रसङ्गनिवृत्तिः ॥ नौवयोधर्मविषमूलमूलसीतातुल़ाभ्यस्तार्यतुल्यप्रा- प्यवध्यानाम्यसमसमितसम्मितेषु ॥ ९१ ॥ नावादिभ्यो ऽष्टभ्यः शब्देभ्यो ऽष्टस्वेव तार्यादिष्वर्थेषु यथासंख्यं यत्प्र- त्ययो भवति । प्रत्ययार्थद्वारेण तृतीया समर्थविभक्तिर्लभ्यते । नावा तार्यं, नाव्यमुदकम् । नाव्या नदी । शख्यार्थे रूत्यः । वयसा तुल्यो, वयस्यः सखा । संज्ञाधिकारो ऽभिधेयनियमार्थः । तेन वयसा तुल्ये शत्रौ न भवति । धर्मेण प्राप्यं, धर्म्यम् । ननु च धर्मादनपेतइति वक्ष्यमाणेनैव सिद्धम् । नैतदस्ति । धर्मे यदनुवर्तते तद्धर्मादनपेतमित्युच्यते । फलं तु धर्मादपेत्येव कार्यविरोधि- त्वादधर्मस्य । विषेण वद्यो, विष्यः । विषेण वधमर्हतीत्यर्थः । मूलेनानाम्यं, मूल्यम् । अनाम्यमभिभवनीयम् । पटादीनामुत्पत्तिकारणं मूलं तेन तदभि- भूयते शेषी क्रियते । मूल्यं हि सगुणं मूलं करोति । पोरदुपधादिति यति प्राप्ते चानाम्यामिति निपातनाद् ण्यत् । मूलेन । समो, मूल्यः पटः । उपा- दानेन समानफल इत्यर्थः । सीतया समितं, सीत्यं क्षेत्रम् । समितं संगतमि- त्यर्थः ॥ रथसीताहलेभ्यो यद्विधाविति तदन्तविधिरपीष्यते ॥ परमसीत्यम् । उत्तमसीत्यम् । द्विसीत्यम् । त्रिसीत्यम् । तुलया संमितं, तुल्यम् । संमितं समानं सदृशमित्यर्थः । यथा तुला परिच्छिनत्ति परमेवं तदपीति ॥ धर्मपथ्यर्थन्यायादनपेते ॥ ९२ ॥ निर्देशायदेव पञ्चमी समर्थविभक्तिः । धर्मादिभ्यः पञ्चमीसमर्थेभ्यो ऽनपेतइत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । धर्मादनपेतं, धर्म्यम् । पथ्यम् । अर्थ्यम् । न्याय्यम् । संज्ञाधिकारादभिधेयनियमः ॥ छन्दसो निर्मिते ॥ ९३ ॥ प्रत्ययार्थसामर्थ्याल्लभ्या समर्थविभक्तिः । छन्दःशब्दात्तृतीयासमर्थाद्भि-
४७२ ॥ काशिका ॥ ४ ॥ ४ ॥ र्निर्मितइत्येतस्मिन्नर्थे यत्प्रत्ययो भवति । निर्मित उत्पादितः । छन्दसा निर्मित,- श्छन्दस्यः । छन्दसा कृत इत्यर्थः । इच्छापर्यायश्छन्दःशब्द इह गृह्यते ॥ उरसो ऽण् च ॥ ९४ ॥ उरःशब्दात्तृतीयासमर्थान्निर्मित इत्येतस्मिन्नर्थे ऽण् प्रत्ययो भवति चका- राद्यच्च । उरसा निर्मित, औरसः पुत्रः । उरस्यः पुत्रः । संज्ञाधिकारादभि- धेयनियमः ॥ हृदयस्य प्रियः ॥ ९५ ॥ निर्देशादेव समर्थविभक्तिः । हृदयशब्दात्षष्ठीसमर्थात् प्रिय इत्येतस्मि- न्नर्थे यत्प्रत्ययो भवति । हृदयस्य प्रियो, हृद्यो देशः । हृद्यं वनम् । संज्ञा- धिकारादभिधेयनियमः । इह न भवति हृदयस्य प्रियः पुत्र इति ॥ बन्धने चर्षौ ॥ ९६ ॥ हृदयस्येत्येव । बन्धनइति प्रत्यया
॥ काशिका ॥ ४ ॥ ४ ॥ ३७३ भक्तात्खः ॥ १०० ॥ भक्तशब्दात् खः प्रत्ययो भवति तत्र साधुरित्येतस्मिन्विषये । यतोप- वादः । भक्ते साधुः, भाक्तः शालिः । भाक्तास्तण्डुलाः ॥ परिषदो ण्यः ॥ १०१ ॥ परिषच्छब्दाद् ण्यः प्रत्ययो भवति तत्र साधुरित्येतस्मिन्विषये । यतोपवादः । परिषदि साधुः, पारिषद्यः ॥ णप्रत्ययोऽप्यत्रेष्यते ॥ तदर्थं योग- विभागः क्रियते । परिषदो णो भवति । परिषदि साधुः, पारिषदः ॥ कथादिभ्यष्ठक् ॥ १०२ ॥ कथादिभ्यः शब्देभ्यष्ठक् प्रत्ययो भवति तत्र साधुरित्येतस्मिन्विषये । यतो- पवादः । कथायां साधुः, काथिकः । वैकथिकः । कथा । विकथा । वितण्डा । कुष्ट- चित् । जनवाद । जनेवाद । वृत्ति । सङ्ग्रह । गुण । गण । आयुर्वेद । कथादिः
३७४ ॥ काशिका ॥ ४ ॥ ४ ॥ समानोदरे शयित ओ चोदात्तः ॥ १०८ ॥ समानोदरशब्दात्सप्तमीसमर्थाच्छयित इत्येतस्मिन्नर्थे यत्प्रत्ययो भवति ओकारश्चोदात्तः । शयितः स्थित इत्यर्थः । समानोदरे शयितः, समानोदर्यो भ्राता ॥ सोदराद्यः ॥ १०९ ॥ सोदरशब्दात्सप्तमीसमर्थात् शयित इत्येतस्मिन्नर्थे यः प्रत्ययो भवति । विभाषोदरइति सूत्रेण यकारादौ प्रत्यये विवक्षिते प्रागेव समानस्य सभावः । समानोदरे शयितः, सोदर्यो भ्राता । ओचोदात्त इति नानुवर्त्तते । यकारे स्वरः ॥ भवे छन्दसि ॥ ११० ॥ तत्रेत्येव । सप्तमीसमर्थाद्भव इत्येतस्मिन्नर्थे छन्दसि विषये यत्प्रत्ययो भवति । अणादीनां घादीनां चापवादः । सतिदर्शने ते ऽपि भवन्ति, सर्व- विधीनां छन्दसि व्यभिचारात् । मेध्याय च विद्युत्याय च नमः । आपादपरि- समाप्तेश्छन्दोधिकारो, भवाधिकारश्च समुद्रादाहु रिति यावत् ॥ पाथोनदीभ्यां ड्यण् ॥ १११ ॥ पाथश्शब्दान्नदी शब्दाच्च ड्यण् प्रत्ययो भवति । तत्र भव इत्येतस्मि- न्नर्थे । यतोपवादः । पाथसि भवः, पाथ्यो वृषा । नाव्यो गिरो मे प्रयच्छति । पाथो ऽन्तरिक्षम् ॥ वेशन्तहिमवद्भ्यामण् ॥ ११२ ॥ वेशन्तशब्दाद्धिमवच्छब्दाच्चाण् प्रत्ययो भवति तत्र भव इत्येतस्मि- न्विषये । यतोपवादः । वैशन्तीभ्यः स्वाहा । हैमवतीभ्यः स्वाहा ॥ स्रोतसो विभाषा डड्ढौ ॥ ११३ ॥ स्रोतश्शब्दाद्विभाषा डत् ढ्य इत्येतौ प्रत्ययौ भवतस्तत्र भव इत्येत- स्मिन्विषये । यतोपवादः । पक्षे सोपि भवति । स्रोतसिभवः, स्रोत्यः । स्रोतस्यः । डड्ढयोः स्वरे विशेषः ॥ सगर्भसयूथसनुताद्यन् ॥ ११४ ॥ सगर्भसयूथसनुतशब्देभ्यो यन् प्रत्ययो भवति तत्र भव इत्येतस्मिन्वि- षये । यतोपवादः । स्वरे विशेषः । अनुजाता सगर्भ्यः । अनुसक्षा सयूथ्यः । यो नः सनुत्यः । सर्वत्र समानस्य छन्दसीति सभावः ॥ तुग्राद् घन् ॥ ११५ ॥ तुग्रशब्दाद्घन् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । यतोपवादः । त्वमग्ने वृषभस्सुयावाळाम् । अत्राकाणयन्नवरिष्टेषु तुग्र्यन्वः ॥
॥ काशिका ॥ ४ ॥ ४ ॥ ३७५ अग्राद्यत् ॥ ११६ ॥ अग्रशब्दाद्यत् प्रत्ययो भवति तत्र भव इत्येतस्मिन्विषये । अग्रे भव- मग्र्यम् । किमर्थमिदं यावता सामान्येन यद्विहित एव । घच्छौ चेति वक्ष्यति ताभ्यां बाधा मा भूदिति पुनर्विधीयते ॥ घच्छौ च ॥ ११७ ॥ अग्रशब्दाद् घच्छौ प्रत्ययौ भवतस्तत्र भव इत्येतस्मिन्विषये । अग्रियम् । अग्रीयम् । चकारस्तुयत्प्रत्ययस्यानुकर्षणार्थः । अग्र्यम् । स्वरे विशेषः ॥ समुद्राभ्राद् घः ॥ ११८ ॥ समुद्रशब्दादभ्रशब्दाच्च घः प्रत्ययो भवति तत्र भव इत्येतस्मिन्नर्थे । यतोऽपवादः । सामुद्रियाणां नदीनाम् । अभ्रियस्येव घोषः । अभ्रशब्दस्यापूर्व- निपातस्तस्य लक्षणस्य व्यभिचारित्वात् ॥ बर्हिषि दत्तम् ॥ ११९ ॥ भव इति नि
३७६ ॥ काशिका ॥ ४ ॥ ४ ॥
असुरशब्दात्षष्ठीसमर्थात्स्वमित्येतस्मिन्नर्थे यत्प्रत्ययो भवति । खञोप- वादः । आसुर्यं वा एतत्पात्रं, यच्चक्रमृतं कुलालकृतम् ॥ मायायामण् ॥ १२४ ॥ असुरशब्दात्षष्ठीसमर्थान्मायायां स्वविशेषे ऽण् प्रत्ययो भवति । पूर्वस्य यतोपवादः । आसुरी माया स्वधया कृतासि ॥ तद्वान्तासामुपधानो मन्त्र इतीष्टकासु लुक् च मतोः ॥ १२५ ॥ तद्वानिति निर्देशादेव समर्थविभक्तिः । मतुबन्तात्प्रातिपदिकात्प्रथमा- समर्थादासामिति षष्ठ्यर्थे यत्प्रत्ययो भवति । यत्प्रथमासमर्थमुपधानो मन्त्र- श्चेत्स भवति । यत्तदासामिति निर्दिष्टमिष्टकाश्चेत्ता भवन्ति । लुक्च मतो- रिति प्रकृतिनिर्देशः । इतिकरणस्तत्तच्चेद्विवक्षा । तद्वानित्यवयवेन समुदायो व्यपदिश्यते । वर्चःशब्दो यस्मिन्मन्त्रे ऽस्ति स वर्चस्वान् । उपधीयते येन स उपधानः । शयनवचन इत्यर्थः । वर्चस्वानुपधानमन्त्र आसामिष्टकानामिति विगृह्य यति विहिते मतोर्लुकि कृते वर्चस्या उपदधाति तेजस्या उपदधाति । पयस्याः । रेतस्याः । तद्वानिति किम् । मन्त्रसमुदायादेव मा भूत् । उपधान इति किम् । वर्चस्वामुपस्थानमन्त्र आसामित्यत्र मा भूत् । मन्त्र इति किम् । अङ्गुलिमानुपधानो हस्त आसामित्यत्र मा भूत् । इष्टकास्विति किम् । वर्च- स्वानुपधानो मन्त्र एषां कपालानामित्यत्र मा भूत् । इतिकरणो नियमार्थः । अनेकपदसंभवेऽपि केन चिदेव पदेन तद्वान्मन्त्रो गृह्यते न सर्वेण ॥ अश्विमानण् ॥ १२६ ॥ अश्विशब्दो यस्मिन्मन्त्रे ऽस्ति सोऽश्विमान् । अश्विमच्छब्दादण् प्रत्ययो भवति । पूर्वस्य यतोपवादः । अश्विमानुपधानो मन्त्र आसामिष्टकानामिति विगृह्याणि विहिते तत्र मतुपो लुकि कृते इनण्यनपत्यइति प्रकृतिभावः । आश्विनीरुपदधाति ॥ वयस्यासु मूर्ध्नो मतुप् ॥ १२७ ॥ वयस्वानुपधानो मन्त्रो यासां ता वयस्यास्तास्वभिधेयासु मूर्ध्नो मतुप् प्रत्ययो भवति । पूर्वस्य यतोपवादः । यस्मिन्मन्त्रे वयः शब्दो मूर्धन् शब्दश्च विद्यते स वयस्वानपि भवति मूर्धन्वानपि । यथा मूर्द्धा वयः प्रजापतिश्छन्द इति । तत्र वयस्वच्छब्दादिव मूर्धन्वच्छब्दादपि यति प्राप्ते मतुब् विधीयते । मूर्धन्वतीरुपदधाति । वयस्या एव मूर्धन्वल्यः । वयस्यास्विति किम् । यत्र
॥ काशिका ॥ ४ ॥ ४ ॥ ३७७ मुहूर्तशब्द इव केवलो न वयःशब्दस्तच्च मा भूत् । मूर्द्धवत इति वक्तव्ये मूर्द्ध इत्युक्तं मतुपो लुकं भाविनं विसे कृत्वा ॥ मत्यर्थे मासतन्वोः ॥ १२८ ॥ यस्मिन्नर्थे मतुर्विहितस्तस्मिंश्छन्दसि विषये यत्प्रत्ययो भवति मास- तन्वोः प्रत्ययार्थविशेषणयोः । प्रथमासमर्थादस्त्युपाधिकालब्धात् सप्तम्यर्थे च तत्प्रत्ययो भवति । मत्यर्थीयानामपवादः । नभांसि विद्यन्ते यस्मिन्मासे, नभस्यो मासः । सहस्यः । तपस्यः । मधव्यः । नभःशब्दो ऽप्येषु वर्तते । तन्वां खल्वपि । ओजोस्यां विद्यते, ओजस्या तनू रतस्या । मासतन्वोरिति किम् । मधुमता पात्रेण चरति । मासतन्वोरनन्तरार्थे वा । मध्वस्मिवस्ति मध्वस्मि- न्नन्तरमिति वा मध्व्या मासः ॥ लुगकारोकाररेफाश्च वक्तव्याः ॥ * ॥ लुप्ता- वत् । तपश्च तपस्यश्च । नभश्च नभस्यश्च । सहश्च सहस्यश्च । नपुंसक- लिङ्गं छान्दसत्वात् । अकारः । इषो मासः । ऊर्जो मासः । उकारः । शुचि- र्मासः । रेफः । शुक्लो मासः ॥ मधोर्ञ च ॥ १२९ ॥ मधुशब्दान्मत्यर्थे ञः प्रत्ययो भवति चकाराद्याच्च । उपसंख्यानाल्लुक्च । माधवः । मधव्यः । मधुः । तन्वां खल्वपि । माधवा । मधव्या । मधुः । तनूः ॥ ओजसो ऽहनि यत्खौ ॥ १३० ॥ मत्यर्थेत्येव । ओजःशब्दान्मत्यर्थे यत्खौ प्रत्ययौ भवतो ऽहन्यभिधेये । ओजस्यमहः । ओजसीनमहः । वेशोयशआदेर्भागाद्यल् ॥ १३१ ॥ मत्यर्थेत्येव । वेशोयशसी चादौ यस्य प्रातिपदिकस्य तस्माद्वेशोयश- चादेर्भागान्तात्प्रातिपदिकान्मत्यर्थे यल् प्रत्ययो भवति । लकारः स्वरार्थः । वेशोभगो विद्यते यस्य स, वेशोभाग्यः । यशोभाग्यः । वेश इति बलमुच्यते । श्रीकामप्रथवमाहात्म्यवीर्ययशस्सु भगशब्दः । वेशश्चासौ भगश्च श्रीप्रभृतिर्वेशो भगः, सोस्यास्तीति वेशोभाग्यः ॥ ख च ॥ १३२ ॥ वेशोयशआदेर्भागान्तात्प्रातिपदिकान्मत्यर्थे खः प्रत्ययो भवति । योग- विभागो यथासंख्यनिरासार्थ उत्तरोर्थश्च । चकाराद्यत् । वेशोभाग्यः । वेशोभ- गीनः । यशोभाग्यः । यशोभगीनः ॥
पठन्ति! AHA! EUREKA! The main text of this edition reads: Sūtra: सहस्रेण संमितौ घः ॥ १३५ ॥ And the commentary says: के चित्तु संमितेति पठन्ति ।! Because the OTHER reading is संमितेति! And now look at line 11: सहस्रशब्दात्तृतीयासमर्थात्संमितावित्येत-! सं मि ता वि त्ये त-(संमिताव् + इत्येत-) =संमितावित्येत-! Because संमितौin sandhi beforeइतिbecomesसंमिताव् इति->संमितावित्येतस्मिन्नर्थे! GENIUS! That explains EVERYTHING! 1. Sūtra : सहस्रेण संमितौ घः ॥ १३५ ॥ 2. Line :सहस्रशब्दात्तृतीयासमर्थात्संमितावित्येत- 3. Line :स्मिन्नर्थे घः प्रत्ययो भवति । संमितस्तुल्यः सदृशः । अयमग्निः सहस्रियः । 4. Line :सहस्रतुल्य इत्यर्थः । के चित
॥ काशिका ॥ ४ ॥ ४ ॥ ३७९ यञ्शब्दो निवृत्तः। मधुशब्दान्मयडर्थे यत्प्रत्ययो भवति। मधव्यान् स्तो- कान्। मधुमयानित्यर्थः ॥ वसोः समूहे च ॥ १४० वसुशब्दात्समूहे वाच्ये यत्प्रत्ययो भवति चकारान्मयडर्थे च। यथायोगं समर्थविभक्तिः। वस्यः समूहः। मयडर्थो वा ॥ अक्षरसम्हे छन्दसः स्वार्थेऽ- यसङ्ख्यानम् ॥ * ॥ ओश्रावयेति चतुरक्षरम्। अस्तु श्रौषडिति चतुरक्षरम्। यजेति द्वयक्षरम्। ये यजामहइति पञ्चाक्षरम्। द्वयक्षरो वषट्कारः। एष वै सप्तदशाक्षरश्छन्दस्यः प्रजापतिर्यज्ञो मन्त्रे विहितः। सप्तदशाक्षराण्येष छन्दस्य इत्यर्थः। छन्दःशब्दादक्षरसमूहे वर्तमानात्स्वार्थे यत्प्रत्ययः॥ वसुशब्दादपि बहुलक्यः ॥ * ॥ हस्तौ गृहीतस्य बहुभिर्वसव्यैः। वसुभिरित्यर्थः। अग्निरीशे वसव्यस्य। वसोरीत्यर्थः ॥ नक्षत्राद् घः ॥ १४१ ॥ नक्षत्रशब्दात्तुः प्रत्ययो भवति स्वार्थे। समूहमिति नानुवर्तते। नक्षत्रि- येभ्यः स्वाहा ॥ सर्वदेवात्तातिल् ॥ १४२ ॥ सर्वदेवशब्दाभ्यां तातिल् प्रत्ययो भवति छन्दसि विषये स्वार्थिकः। सर्वतातिः। देवतातिः ॥ शिवशमरिष्टस्य करे ॥ १४३ ॥ करोतीति करः प्रत्ययार्थः। तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः। शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः कर इत्येतस्मिन्नर्थे तातिल् प्रत्ययो भवति। शिवं करोतीति, शिवतातिः। शंतातिः। अरिष्टतातिः ॥ भावे च ॥ १४४ ॥ भावे चार्थे छन्दसि विषये शिवादिभ्यस्तातिल् प्रत्ययो भवति। शिव- स्य भावः, शिवतातिः। शंतातिः। अरिष्टतातिः। इतः पूर्वोऽवधिरतः। पर- मन्यः प्रत्ययो ऽधिक्रियते ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य चतुर्थः पादः ॥ समाप्तश्च चतुर्थो ऽध्यायः ॥ ॥ शुभम् ॥
३८० ॥ काशिका ॥ ५ ॥ १ ॥ ॥ पञ्चमाध्यायस्य प्रथमः पादः ॥ प्राक् क्रीताच्छः ॥ १ ॥ तेन क्रीतमिति वक्ष्यति, प्रागेतस्मात्क्रीतसंशब्दनाद्यानित ऊर्ध्वमनुक्र- मिष्यामश्छप्रत्ययस् त्वधिकृतो वेदितव्यः । वक्ष्यति । तस्मै हितमिति । वत्से- भ्यो हितो, वत्सीयो गोधुक् । करभीय उष्ट्रः । शकरभीयः । श्ववत्सीयः । चार्था- वधित्वेन गृहीतः, न प्रत्ययः । तेन प्राक् ठञः छ इति नोक्तम् ॥ उगवादिभ्यो यत् ॥ २ ॥ प्राक् क्रीतादित्येव । उवर्णान्तात्प्रातिपदिकाद्गवादिभ्यश्च यत्प्रत्ययो भवति । प्राक्क्रीतीयेष्वर्थेषु । छस्यापवादः । शङ्कव्यं दारु । पिचव्यः कार्पासः । कमण्डलव्या मृत्तिका * । गवादिभ्यः खल्वपि । गव्यम् । हविष्यम् । सनङ्गु- र
त्सीयः"? No, wait: "वत्सेभ्यो हितो गोधुक्, वत्सीयः ।" Then what is the next example? Wait! For "वत्स", is it "वत्सीयः"? And "अवत्सीयः"? Wait! Panini 5.1.5 "तस्मै हितम्": Under 5.1.5, छ comes by mahavibhasha / default: "वत्सेभ्यो हितो गोधुक् वत्सीयः।" Then what is the next? Wait! 5.1.5 Kashika: "तस्मादिति चतुर्थीसमर्थाद्धितमित्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। वत्सेभ्यो हितो गोधुक् वत्सीयः। अवत्सीयः। पटव्यम्। गव्यम्। हविष्यम्। अपूप्यम्। अपूपीयम्।" Wait, why "अवत्सीयः"? "वत्सीयः। अवत्सीयः।" - wait! In some texts: "अवत्सीयः" - wait, is it "भवत्सीयः"?? Wait! "भवते हितम्" -> भवत् + छ = भवत्सीयः!! YES!! "भवते हितं भवत्सीयः"! Look at that letter in line 7! It is 'भ'! Look at the circle on the left, the top stroke, the vertical stroke: it's 'भ'! "