काशिका वृत्ति (आचार्य वामन एवं जयादित्य - अष्टाध्यायी सूत्र-वृत्ति सम्पूर्ण सान्वय सटीक)
Kasika Vritti of Vamana and Jayaditya on Panini Sutras
आचार्य वामन एवं जयादित्य (सम्पादक: पण्डित बालशास्त्री) द्वारा
॥ काशिका ॥ ६ ॥ २ ॥ ५७८ पुरुषश्चान्वादिष्टः ॥ १६० ॥ पुरुषशब्दो ऽन्वादिष्टवाची चानोत्तरान्तोदात्तो भवति । अन्वादिष्टः पुरुषो, ऽनुपुरुषः । अन्वादिष्टो ऽन्याचितः कथितमनुकथितो वा । अन्वादिष्ट इति किम् । अनुगतः पुरुषो ऽनुपुरुषः ॥ अतेरकृत्पदे ॥ १६१ ॥ अतेः परमकूदन्तं पदशब्दश्चान्तोदात्तो भवति । अत्यङ्कुशो नागः । अतिकशोश्वः । पदशब्दः खल्वपि । अतिपदा शक्वरी । अकृत्पदे इति किम् । अतिकारकः ॥ अतेर्गातुलोपइति वक्तव्यम् ॥ * ॥ इह मा भूत् । शोभनो गार्ग्यः । अतिगार्ग्यः । इह च यथा स्यात् । अतिक्रान्तः कारकादतिकारक इति ॥ नेरनिधाने ॥ १६२ ॥ नेः परमुत्तरपदमन्तोदात्तं भवति । निधानमप्रकाशता । निर्मूलम् । न्यक्षम् । नित्यग्निम् । बहुव्रीहिर
५८० ॥ काशिका ॥ ६ । २ ॥ सुशब्दोऽत्र पूजायामेव । वाक्यार्थस्तु अवक्षेपमसूयया तथाभिधानात् । सोरिति किम् । कुब्राह्मणः । अवक्षेपग्रहणं किम् । शोभनेषु तृणेषु सुतृणेषु ॥ विभाषोत्पुच्छे ॥ १६६ ॥ उत्पुच्छशब्दे तत्पुरुषे विभाषा ऽन्त उदात्तो भवति । उत्क्रान्तः पुच्छाद्, उत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयति उत्पुच्छयतेर्वा उत्पु- च्छस्तदा थाथादिसूत्रेण नित्यमन्तोदात्तत्वे प्राप्ते विकल्पोऽयमिति सेयमुभयत्र विभाषा भवति । तत्पुरुष इत्येव । उदस्तं पुच्छमस्य, उत्पुच्छः ॥ द्वित्रिभ्यां पाद्दन्मूर्द्धसु बहुव्रीहौ ॥ १६७ ॥ द्वि त्रि इत्येताभ्यामुत्तरेषु पाद् दत् मूर्द्धन् इत्येवमुत्तरपदेषु यो बहुव्री- हिस्तत्र विभाषा ऽन्त उदात्तो भवति । द्वौ पादाव
Here is the line-by-line transcription of the page:
॥ काशिका ॥ ६ ॥ ३ ॥ ५८१ पूर्व्वादिः ॥ पूर्वपदाद्युदात्तप्रकरणे दिवोदासादीनां छन्दस्युपसंख्यानम् ॥ * ॥ दिवोदासाय सामगाय ते इत्येवमादि सर्वं संगृहीतं भवति ॥ इति काशिकायां वृत्तौ षष्ठाध्यायस्य द्वितीयः पादः ॥ ॥ अथ षष्ठाध्यायस्य तृतीयः पादः ॥ अलुगुत्तरपदे ॥ १ ॥ अलुगिति च उत्तरपदे इति च एतदधिकृतं वेदितव्यम् । यदित ऊर्द्ध्व- मनुकमिष्यामो ऽलुगुत्तरपदइत्येवं तद्वेदितव्यम् । वक्ष्यति पञ्चम्याः स्तोका- दिभ्यः । स्तोकान्मुक्तः । अल्पान्मुक्तः । उत्तरपदेइति किम् । निष्क्रान्तः स्तोकात्, निस्तोकः । अन्यार्थमिदमुत्तरपदग्रहणमिहाप्यलुको निवृत्तिं करोतीत्येवमर्थे लक्षणप्रतिपदोक्तपरिभाषा नाश्रयितव्या । अलुगधिकारः प्रागानङः । उत्तरप- [
५८२ ॥ काशिका ॥ ६ ॥ ३ ॥ मनस उत्तरस्यास्तृतीयायाः संज्ञायामलुग्भवति । मनसादत्ता । मनसा- गुप्ता । मनसासङ्गता । संज्ञायामिति किम् । मनोदत्ता । मनोगुप्ता ॥ अज्ञायिनि च ॥ ५ ॥ आज्ञायिन्युत्तरपदे मनस उत्तरस्यास्तृतीयाया अलुग्भवति । मनसा ऽऽज्ञातुं शीलमस्य, मनसाऽऽज्ञायी ॥ आत्मनश्च पूरणे ॥ ६ ॥ आत्मन उत्तरस्यास्तृतीयायाः पूरणप्रत्ययान्तउत्तरपदे ऽलुग्भवति । आत्मनापञ्चमः चात्मनाषष्ठः । तृतीयाविधाने प्रकृत्यादिभ्य उपसंख्यानमिति तृतीया । तृतीयेति योगविभागात्समासः । आत्मना वा कृतः पञ्चम, आत्म- नापञ्चमः । कथं जनार्दनस्त्वत्मचतुर्थ एवेति । बहुव्रीहिरयमात्मा चतुर्थो ऽस्यासावात्मचतुर्थः ॥ वैयाकरणाख्यायां चतुर्थ्याः ॥ ७ ॥ वैयाकरणाख्या वैयाकरणाख्या । आख्या संज्ञा । यया संज्ञया वैया- करणा एव व्यवहरन्ति तस्यामात्मन उत्तरस्याश्चतुर्थ्या अलुग्भवति । आत्मने- पदम् । आत्मनेभाषा । तादर्थ्ये चतुर्थी । चतुर्थ्येति योगविभागात्समासः ॥ परस्य च ॥ ८ ॥ परस्य च या चतुर्थी तस्या वैयाकरणाख्यायामलुग्भवति । परस्मैपदम् । परस्मैभाषा ॥ हलदन्तात्सप्तम्याः संज्ञायाम् ॥ ९ ॥ हलन्ताददन्ताच्चोत्तरस्याः सप्तम्याः संज्ञायामलुग्भवति । युधिष्ठिरः । त्वचिसारः । गविष्ठिर इत्यत्र गविषुधिभ्यां स्थिर इत्यत एव वचनादलुक् । अदन्तात् । बारयेतिलकाः । बारयेमाषकाः । वनेकिंशुकाः । वनेहरिद्राकाः । वनेबल्वजकाः । पूर्वाहेस्फोटकाः । कूपेपिशाचकाः । हलदन्तादिति किम् । नद्यां कुक्कुटिका, नदीकुक्कुटिका । भूम्यां पाशाः, भूमिपाशाः । संज्ञायामिति किम् । अन्तशोषदः ॥ हृद्दिव्भ्यां ङेः ॥ * ॥ हृद् दिव् इत्येताभ्यामुत्तरस्य ङेरुलुक् भवति । हृदिस्पृक् । दिविस्पृक् ॥ कारनाम्नि च प्राचां हलादौ ॥ १० ॥ प्राचां देशे यत्कारनाम तत्र हलादावुत्तरपदे हलदन्तादुत्तरस्याः सप्त- म्या अलुग्भवति । सूपेशाखः * । दृषद्विमाषकः । हलेद्विपदिका । हलेत्रिष-
- मुकुटेकार्षापणमित्यधिकं पुस्तकान्तरे ।
द्विका। कारविशेषस्य संज्ञा एताः, तत्र पूर्वेणैव सिद्धे नियमार्थमिदम्। एते च त्रयो नियमविकल्पा अत्रेण्यन्ते। कारनाम्न्येव प्राचामेव हलादावेवेति। कार- नाम्नीति किम्। आभ्यर्हिते पशुः, आभ्यर्हितपशुः। कारादन्यस्यैतद्धेयस्य नाम। प्राचामिति किम्। यूथेपशुः, यूथपशुः। हलादाविति किम्। अविकटे उरभ्रः, अविकटोरभ्रः। हलदन्तादित्येव। नद्यां दोहनी, नदीदोहनी ॥ मध्याद्गुरौ ॥ ११ ॥ मध्यादुत्तरस्याः सप्तम्या गुरावुत्तरपदे ऽलुग्भवति। मध्येगुरुः ॥ अन्ता- च्वेति वक्तव्यम् ॥ * ॥ अन्तेगुरुः। सप्तमीति योगविभागात्समासः ॥ अमूर्द्धमस्तकात् स्वाङ्गादकामे ॥ १२ ॥ मूर्द्धमस्तकवर्जितात्स्वाङ्गादुत्तरस्याः सप्तम्या अकामउत्तरपदे ऽलुग्भवति। कण्ठे कालोस्य, कण्ठेकालः। उरसिलोमा। उदरेरोमाः। अमूर्द्धमस्तकादिति किम्। मूर्द्धिशिखः। मस्तकशिखः। अकामइति किम्। मुखे कामो ऽस्य, मुख- कामः। स्वाङ्गादिति किम्। आतपशौण्डः। हलदन्तादित्येव। अङ्गुलित्राणः। अङ्गुलावलेः ॥ बन्धे च विभाषा ॥ १३ ॥ बन्ध इति घञन्तो गृह्यते। तस्मिन्नुत्तरपदे हलदन्तादुत्तरस्याः सप्तम्या विभाषा ऽलुग्भवति। हस्तेबन्धः। हस्तबन्धः। चक्रेबन्धः। चक्रबन्धः। उभयत्र विभाषेयम्। स्वाङ्गाद्वहुव्रीहौ पूर्वेण नित्यमलुक् प्राप्नोति। तत्पुरुषे तु स्वाङ्गादस्वा- ङ्गाच्च नेन्सिद्धबध्नातिषु चेति प्रतिषेधः प्राप्नोति। हलदन्तादित्येव। गुप्तिबन्धः * ॥ तत्पुरुषे कृति बहुलम् ॥ १४ ॥ तत्पुरुषे समासे कृदन्तउत्तरपदे सप्तम्या बहुलमलुग्भवति। स्तम्बेरमः। कर्णेजपः। न च भवति कुरुचरो मद्रचरः ॥ प्रावृट्शरत्कालदिवां जे १५ ॥ प्रावृट् शरत् काल दिव् इत्येतेषां जउत्तरपदे सप्तम्या अलुग्भवति। प्रावृषिजाः। शरदिजः। कालेजाः। दिविजः। पूर्वस्यैवायं प्रपञ्चः ॥ विभाषावर्षचरशरवरात् ॥ १६ ॥ वर्ष चर शर वर इत्येतेभ्य उत्तरस्याः सप्तम्या जउत्तरपदे विभाषा ऽलु- ग्भवति। वर्षेजः। वर्षजः। चरेजः। चरजः। शरेजः। शरजः। वरेजः। वरजः ॥ घकालतनेषु कालनाम्नः ॥ १७ ॥
- कारिकाबन्ध इत्यधिकमेकस्मिन् पुस्तके।
५८४ ॥ काशिका ॥ ६ ॥ ३ ॥ घसंज्ञके प्रत्यये कालशब्दे तनप्रत्यये च परतः कालनाम्न उत्तरस्याः सप्तम्या विभाषा ऽलुग्भवति । घ । पूर्वाह्नेतरे । पूर्वाह्णतरे । पूर्वाह्नेतमे । पूर्वा- ह्णतमे । काल । पूर्वाह्नेकाले । पूर्वाह्णकाले । तन । पूर्वाह्नेतने । पूर्वाह्णतने । कालनाम्न इति किम् । शुक्कतरे । शुक्कतमे । हलदन्तादित्येव । रात्रितरायाम् । उत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तविधीर्नेष्यते । हृदयस्य हल्लेखेति लेखग्र- हणाल्लिङ्गात् । तेन घतनग्रहणे तदन्तग्रहणं न भवति । कालेति स्वरूपग्र- हणम् ॥ शयवासवासिष्वकालात् ॥ १८ ॥ शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या विभाषा ऽलुग्भवति । खेशयः । खशयः । यामेवासः । यामवासः । यामेवासी । [
वक्तव्यः ॥ * ॥ देवानांप्रियः ॥ शेषपुच्छलाङ्गूलेषु शुनः संज्ञायां षष्ठ्या अलुग्व- क्तव्यः ॥ * ॥ शुनःशेपः । शुनःपुच्छः । शुनोलाङ्गूलः ॥ दिवश्च दासे षष्ठ्या अलु- ग्वक्तव्यः ॥ * ॥ दिवोदासाय गायति ॥ पुत्रे ऽन्यतरस्याम् ॥ २२ ॥ पुत्रशब्दे उत्तरपदे आक्रोशे गम्यमाने ऽन्यतरस्यां षष्ठ्या अलुग्भवति। दास्याः पुत्रः, दासीपुत्रः । वृषल्याः पुत्रः, वृषलीपुत्रः । आक्रोश इत्येव । ब्राह्मणीपुत्रः ॥ ऋतो विद्यायोनिसंबन्धेभ्यः ॥ २३ ॥ ऋकारान्तेभ्यो विद्यासंबन्धवाचिभ्यो योनिसंबन्धवाचिभ्यश्चोत्तरस्याः षष्ठ्या अलुग्भवति । होतुरन्तेवासी । होतुःपुत्रः । पितुरन्तेवासी । पितुःपुत्रः । ऋत इति किम् । आचार्यपुत्रः । मातुलपुत्रः ॥ विद्यायोनिसंबन्धेभ्यस्तत्पूर्वो- त्तरपदग्रहणम् ॥ विद्यायोनि संबन्धवाचिन्येवोत्तरपदे यथा स्यादन्यत्र मा भूत् । होतृधनम् । पितृधनम् । होतृगृहम् । पितृगृहम् ॥ विभाषा स्वसृपत्योः ॥ २४ ॥ स्वसृ पति इत्येतयोरुत्तरपदयोर्ऋकारान्तेभ्यो विद्यायोनिसंबन्धवाचिभ्यो विभाषा ऽलुग्भवति । मातुःष्वसा । मातुःस्वसा । मातृष्वसा । पितुःष्वसा । पितुःस्वसा । पितृष्वसा । यदा लुक् तदा मातृपितृभ्यां स्वसेति नित्यं षत्व- म् । यदा त्वलुक् तदा मातुःपितृभ्यामन्यतरस्यामिति विकल्पेन षत्वम् । दुहितुः पतिः । दुहितृपतिः । ननान्दुः पतिः । ननान्दृपतिः ॥ आनङ् ऋतो द्वन्द्वे ॥ २५ ॥ ऋकारान्तानां विद्यायोनिसंबन्धवाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपद- स्थानङादेशो भवति । होतापोतारौ । नेष्टोद्गातारौ । प्रशास्तारप्रतिहर्तारौ । योनिसंबन्धेभ्यः । मातापितरौ । याताननान्दरौ । नकारोच्चारणं रपरत्वनिवृत्त्य- र्थम् । ऋत इति किम् । पितृपितामहौ । पुत्रइत्यनुवर्त्तते ऋत इति च । तेन पुत्रशब्देप्युत्तरपदे ऋकारान्तस्यानङादेशो भवति । पितापुत्रौ । मातापुत्रौ ॥ देवताद्वन्द्वे च ॥ २६ ॥ देवतावाचिनां यो द्वन्द्वस्तत्रोत्तरपदे पूर्वपदस्यानङादेशो भवति । इन्द्रावरुणौ । इन्द्रासोमौ । इन्द्राबृहस्पती । द्वन्द्वइति वर्त्तमाने पुनर्द्वन्द्वग्रहणं प्रसिद्धसाहचर्यार्थम् । अत्यन्तसहचरिते लोकविज्ञाते द्वन्द्वइति निपात्यते । तत्र ये लोके प्रसिद्धसाहचर्या वेदे च सहभावेन ये निर्द्दिष्टास्तेषामिह ग्रहणं भवति । तेन ब्रह्मप्रजापती शिववैश्रवणावित्येवमादौ न भवति ॥ उभयत्र वायोः प्रतिषेधो वक्तव्यः ॥ * ॥ अग्निवायू । वाय्वग्नी ॥
५८६ ॥ काशिका ॥ ६ । ३ ॥ ईदग्नेः सोमवरुणयोः ॥ २७ ॥ सोम वरुण इत्येतयोर्देवताद्वन्द्वे ऽग्नेरीकारादेशो भवति । अग्नीषोमौ । अग्नीवरुणौ । अग्नेः स्तुतस्तोमसोमा इति षत्वम् ॥ इद्दृद्धौ ॥ २८ ॥ ऋत्यवृद्धावुत्तरपदे देवताद्वन्द्वे ऽग्नेरिकारादेशो भवति । आग्निमारुती- मनड्वाहीमालभेत । आग्निमारुतं कर्म्म क्रियते । अग्नीवरुणौ देवता ऽस्य आग्नीमरुतो देवतास्येति तद्धितः । तत्र देवताद्वन्द्वे चेत्युभयपदवृद्धौ कृताया- मानङ् ह्रस्वं च बाधितुमिकारः क्रियते । वृद्धाविति किम् । आग्नेन्द्रः । नेन्द्रस्य परस्येत्युत्तरपदवृद्धिः प्रतिषिध्यते ॥ इद्दृद्धौ विष्णोः प्रतिषेधो । वक्तव्यः ॥ * ॥ आग्नावैष्णवं चरुं निर्वपेत् ॥ दिवो द्यावा ॥ २९ ॥ दिवित्येतस्य द्यावा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । द्यावाक्षामा । द्यावाभूमी * ॥ दिवसश्च पृथिव्याम् ॥ ३० ॥ पृथिव्यामुत्तरपदे देवताद्वन्द्वे दिवो दिवसित्ययमादेशो भवति चका- राद् द्यावा च । दिवसंपृथिव्यौ । द्यावापृथिव्यौ । अकारोच्चारणं सकारस्य विकाराभावप्रतिपत्त्यर्थम् । तेन रुत्वादीनि न भवन्ति । कथं द्यावा चिदस्मै पृथिवी नमेते इति । क्लीबेऽत्र यणः ॥ उषासोषासः ॥ ३१ ॥ उषस उषासा इत्ययमादेशो भवति देवताद्वन्द्वे उत्तरपदे । उषासा- सूर्य्यम् । उषासानक्ता ॥ मातरपितरावुदीचाम् ॥ ३२ ॥ मातरपितरावित्युदीचामाचार्याणां मतेनारङादेशो मातृशब्दस्य निपात्यते । मातरपितरौ । उदीचामिति किम् । मातापितरौ ॥ पितरामातरा च च्छन्दसि ॥ ३३ ॥ पितरामातरा इति छन्दसि निपात्यते । आ मा गन्तां पितरामातरा च। पूर्वपदस्य चाङादेशो निपात्यते। उत्तरपदे तु सुप्सुं सुलुगिति आकारादेशः । तत्र ऋतो ङिसर्वनामस्थानयोरिति गुणः । छन्दसि किम् । मातापितरौ ॥
- द्यौश्च पृथिवी च द्यावापृथिव्यौ इत्यधिकं पुस्तकान्तरे ।
दुर्भागा, भक्तिः, चित्रा, अम्बा, कान्ता, सान्ता, समा, चपला, दुहिता, वामा..." In L20: is it "सचित्रा" or "चित्रा"? Looking at L20: Before "चित्रा", there is "स"? Wait, look at: "भक्तिः । सचित्रा ।" Wait, is it "सचित्रा" or "चित्रा"? Look at the character: It has 'स' then 'चि' then 'त्रा': "सचित्रा ।" Yes, printed as "सचित्रा ।"! Wait, what about after कान्ता? "सान्ता ।" (शान्ता/सान्ता). Printed as "सान्ता ।".
Line 27: "गणनं कर्तव्यम् । अतसौ । तरप्तमपौ । चरट्जातीयरी ।" Wait, is it "चरट्जातीयरौ" or "चरट्जातीयरी"? The letter is 'र' with au-matra: 'रौ'.
Line 28: "रूपप्पाशपौ । थम्थालौ । दाहिनौ । तिल्तातिलौ ॥" Wait, "रूपब्याशपौ" or "रूपप्याशपौ"? Look at "रू प प्या श पौ": it's 'प' conjunct with 'प' or 'य', looks like 'रूपप्याशपौ'. Let's write "रूपप्याशपौ".
Line 3
५८८ ॥ काशिका ॥ ६ । ३ ॥ अठन्निति किम् । श्येनेयः । रोहिणेयः । कथमग्नायी देवताऽस्य चाग्नेयः स्थालीपाक इति । कर्त्तव्योऽत्र यत्नः ॥ ठक्छंसोश्च पुंवद्भावो वक्तव्यः ॥ * ॥ भवत्याश्छात्रा भावत्काः । भवदीयाः ॥ क्यङ्मानिनोश्च ॥ ३६ ॥ क्यङि परतो मानिनि च स्त्रिया भाषितपुंस्कादनूङ् पुंवद्भवति । एनी । एतायते । श्येनी । श्येतायते । मानिनि । दर्शनीयमानी अयमस्याः । दर्शनीयमानिनीयमस्याः । मानिनो ग्रहणमस्वार्थमसमानाधिकरणार्थं च । इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनीति पूर्वेणैव सिद्धम् ॥ न कोपधायाः ॥ ३७ ॥ कोपधायाः स्त्रियाः पुंवद्भावो न भवति । पाचिकाभार्यः । कारिकाभार्यः । शुक्तिकाभार्यः । मद्रिकाभार्यः । मद्रिकाकल्पा । मद्रिकायते । शुक्तिकायते । मद्रि- कामानिनी । शुक्तिकामानिनी । विलेपिकाया धर्म्यं वैलेपिकम् ॥ कोपधप्रतिषेधे- षु तद्धितग्रहणं कर्तव्यम् ॥ * ॥ इह मा भूत्, पाकभार्या भेकभार्य इति ॥ संज्ञापूरणयोश्च ॥ ३८ ॥ संज्ञायाः पूरण्याश्च स्त्रियाः पुंवद्भावो न भवति । दत्ताभार्यः । गुप्ता- भार्यः । दत्तापाशा । गुप्तापाशा । दत्तायते । गुप्तायते । दत्तामानिनी । गुप्ता- मानिनी । पूरण्याः । पञ्चमीभार्यः । दशमीभार्यः । पञ्चमीपाशा । दशमी- पाशा । पञ्चमीयते । दशमीयते । पञ्चमीमानिनी । दशमीमानिनी ॥ वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे ॥ ३९ ॥ नेति वर्तते । वृद्धेर्निमित्तं यस्मिन् स वृद्धिनिमित्तस्तद्धितः स यदि रक्तेऽर्थे विकारे च न विहितः, तदन्तस्य स्त्रीशब्दस्य न पुंवद्भवति । सौघ्नी- भार्यः । माथुरीभार्यः । सौघ्नीपाशा । माथुरीपाशा । सौघ्नीयते । माथुरीयते । सौघ्नीमानिनी । माथुरीमानिनी । वृद्धिनिमित्तस्येति किम् । मध्यमभार्यः । तद्धितस्येति किम् । काण्डलावभार्यः । बहुव्रीहिपरिग्रहः किमर्थः । तावद्भार्यः । यावद्भार्यः । अरक्तविकार इति किम् । कषायेण रक्ता काषायी, काषायी बृह- तिका यस्य स काषायबृहतिकः । लोहस्य विकारो लौही, लौही ईषा यस्य रथस्य स लौहेषः * ॥ स्वाङ्गाच्चेतो ऽमानिनि ॥ ४० ॥ स्वाङ्गादुत्तरो य ईकारस्तदन्तायाः स्त्रिया न पुंवद्भवति अमानिनि परतः । दीर्घकेशीभार्यः । दीर्घकेशीपाशा । श्लक्ष्णकेशीपाशा । दीर्घकेशीयते ।
- खादिरैष इति पुस्तकान्तरे ऽधिकम् ।
[Page Header] ॥ काशिका ॥ ६ ॥ ३ ॥ ५८२
श्लक्ष्णकेशीयते । स्वाङ्गादिति किम् । पटुभार्यः । ईत इति किम् । चक्रोश- भार्यः । अमानिनीति किम् । दीर्घकेशमानिनी ॥ जातेश्च ॥ ४१ ॥ जातेश्च स्त्रिया न पुंवद्भवति अमानिनि परतः । कठीभार्यः । बह्वृची- भार्यः । कठीपाशा । बह्वृचीपाशा । कठीयते । बह्वृचीयते । अमानिनीत्येव । कठमानिनी । बह्वृचमानिनी ॥ अयं प्रतिषेध औपसंख्यानिकस्य पुंवद्भावस्य नेष्यते ॥ हस्तिनीनां समूहो, हास्तिकम् ॥ पुंवत्कर्मधारयजातीयदेशीयेषु ॥ ४२ ॥ कर्मधारये समासे जातीय देशीय इत्येतयोश्च प्रत्यययोर्भाषितपुंस्का- दनूङ्स्त्रियाः पुंवद्भवति । प्रतिषेधार्थोयमारम्भः । न कोपधाया इत्युक्तं तत्रापि भवति । पाचकवृन्दारिका । पाचकजातीया । पाचकदेशीया । संज्ञापूरणयो- श्चेत्युक्तं तत्रापि भवति । दत्तवृन्दारिका । दत्तजातीया । दत्तदेशीया । पूरण्याः । पञ्चमवृन्दारिका । पञ्चमजातीया । पञ्चमदेशीया । वृद्धिनिमित्तस्य च तद्धि- तस्यारक्तविकारइत्युक्तं तत्रापि भवति । शौच्रजातीया । शौच्रदेशीया । स्वाङ्गा- च्चेतो ऽमानिनीत्युक्तं तत्रापि भवति । श्लक्ष्णमुखवृन्दारिका । श्लक्ष्णमुखजा- तीया । श्लक्ष्णमुखदेशीया । जातेश्चेत्युक्तं तत्रापि भवति । कठवृन्दारिका । कठ- जातीया । कठदेशीया । भाषितपुंस्कादित्येव । खट्वावृन्दारिका । अनूङित्येव । ब्रह्मबन्धूवृन्दारिका ॥ कुक्कुट्यादीनामण्डादिषु पुंवद्भावो वक्तव्यः ॥ * ॥ कुक्कुट्या अण्डं, कुक्कुटाण्डम् । मृग्याः पदं, मृगपदम् । मृग्याः क्षीरं, मृगक्षीरम् । काक्याः शावः, काकशावः । न वा ऽस्त्रीपूर्वपदस्य विवक्षितत्वात् । स्वातन्त्र्येण विना पूर्वप- दार्थोत्र जातिः सामान्येन विवक्षितः । पुंवद्भावाद् ह्रस्वत्वं खित्घ्रादिषु भवति विप्रतिषेधेन । खित् । कालिंमन्या । हरिणींमन्या । घादि । पटुतरा । पटुतमा । पटुरूपा । पटुकल्पा । क । पटुका । शुढिका । एडेडबिड् दरद् एषु उशिजिलेत्येते जनपदशब्दाः क्षत्रियवाचिनः । तत्र तद्राजप्रत्ययस्य स्त्रियामतश्चेति लुकि कृते एडबिड्वृन्दारिकेति विगृह्य समासः क्रियते । ततः पुंवद्भावेन ऐड़बिक्रादयः पुंशब्दाः क्रियन्ते । ऐड़बिक्वृन्दारिका । औशिजवृन्दारिका * ॥ घरूपकल्पचेलड्ब्रुवगोत्रमतहतेषु ङ्योने- काचो ह्रस्वः ॥ ४३ ॥ घ रूप कल्प चेलट् ब्रुव गोत्र मत हत इत्येतेषु परतो भाषितपुंस्का-
[Footnote]
- दारद्वृन्दारिका । पार्थवृन्दारिकेत्यधिकं पुस्तकान्तरे ।
५९० ॥ काशिका ॥ ६ ॥ ३ ॥ त्परो यो ङीप्रत्ययस्तदन्तस्यानेकाचो ह्रस्वो भवति । घ । ब्राह्मणीतरा । ब्राह्मणीतमा। रूप । ब्राह्मणीरूपा । कल्प । ब्राह्मणीकल्पा । चेलट् । ब्राह्मणी- चेली। ब्रुव। ब्राह्मणीब्रुवा। गोत्र । ब्राह्मणीगोत्रा । मत। ब्राह्मणीमता । हत । ब्राह्मणीहता । घरूपकल्पाः प्रत्ययाश्चेलडादीन्युत्तरपदानि । ब्रुवदति ब्रवीतीति ब्रुवः पचाद्यचि वच्यादेशो गुणश्च निपातनाच्च भवति । ङ्य इति किम् । दत्ता- तरा । गुप्तातरा । अनेकाच इति किम् । नद्याः शेषस्यान्यतरस्यामिति वक्ष्यति । भाषितपुंस्कादित्येव । आमलकीतरा । कुवलीतरा ॥ नद्याः शेषस्यान्यतरस्याम् ॥ ४४ ॥ नद्याः शेषस्य घादिषु परतो ह्रस्वो भवति अन्यतरस्याम् । कश्च शेषः । अस्त्री च या नदी ङ्यन्तं च यदेकाच् । ब्रह्मबन्धूत
विंशत्। द्व्यष्टन इति किम्। पञ्चदश। संख्यायामिति किम्। द्वैमातुरः। षाण्मातुरः। अबहुव्रीह्यशीत्योरिति किम्। द्विजाः। त्रिदशाः। द्व्यशीतिः॥ प्राक् शतादिति वक्तव्यम्॥ * ॥ इह मा भूत्। द्विशतम्। द्विसहस्रम्। अष्टशतम्। अष्टसहस्रम्॥ त्रेस्त्रयः ॥ ४८ ॥ त्रि इत्येतस्य त्रयसित्ययमादेशो भवति संख्यायामबहुव्रीह्यशीत्योः। त्रयोदश। त्रयोविंशतिः। त्रयस्त्रिंशत्। संख्यायामित्येव। त्रैमातुरः। अब- हुव्रीह्यशीत्योरित्येव। त्रिदशाः। त्र्यशीतिः। प्राक् शतादित्येव। त्रिशतम्। त्रिसहस्रम्॥ विभाषा चत्वारिंशत्प्रभृतौ सर्वेषाम् ॥ ४९ ॥ चत्वारिंशत्प्रभृतौ संख्यायामुत्तरपदे ऽबहुव्रीह्यशीत्योः सर्वेषां द्व्यष्टन् त्रि इत्येतेषां यदुक्तं तद्विभाषा भवति। द्विचत्वारिंशत्। द्वाचत्वारिंशत्। त्रिप- ञ्चाशत्। त्रयःपञ्चाशत्। अष्टपञ्चाशत्। अष्टापञ्चाशत् *। प्राक् शतादि- त्येव। द्विशतम्। अष्टशतम्। त्रिशतम् †॥ हृदयस्य हृल्लेखयदण् लासेषु ॥ ५० ॥ हृदयस्य हृदित्ययमादेशो भवति लेख यत् अण् लास इत्येतेषु परतः। हृदयं लिखतीति, हृल्लेखः। यत्। हृदयस्य प्रियं, हृद्यम्। अण्। हृदयस्येदं, हार्दम्। लास। हृदयस्य लासो, हृल्लासः। लेख इत्यणन्तस्य ग्रहणमिष्यते। घञि तु हृदयस्य लेखो हृदयलेख एतदेव। लेखग्रहणं ज्ञापकमुत्तरपदाधिकारे प्रत्ययग्रहणे तदन्तायग्रहणस्य ॥ वा शोकष्यञ्रोगेषु ॥ ५१ ॥ शोक ष्यञ् रोग इत्येतेषु परतो हृदयस्य वा हृदित्ययमादेशो भवति। हृच्छोकः। हृदयशोकः। ष्यञ्। सौहार्दम्। सौहृदय्यम्। ब्राह्मणादित्वात् ष्यञ्। हृदादेशपक्षे हृद्भगसिन्ध्वन्ते पूर्वपदस्य चेत्युभयपदवृद्धिः। रोग। हृद्रोगः। हृदयरोगः। हृदयशब्देन समानार्थो हृतशब्दः प्रकृत्यन्तरमस्ति तेनैव सिद्धे विकल्पविधानं प्रपञ्चार्थम् ॥ पादस्य पदाज्यातिगोपहतेषु ॥ ५२ ॥ पादस्य पद इत्ययमादेशो भवति आजि आति ग उपहत इत्येतेषूत्त-
* अष्टचत्वारिंशत् । अष्टाचत्वारिंशत् । त्रिचत्वारिंशत् । त्रयश्चत्वारिंशत् । द्विपञ्चा- शत् । द्वापञ्चाशत् । इत्यधिकं पुस्तकेषु बहुषु । † सर्वेषां ग्रहणं प्रयाणामपि यथा स्याद् इत्यधिकमप्यस्मिन्पुस्तके ।
३८२ ॥ काशिका ॥ ६ ॥ ३ ॥ रपदेषु । पादाभ्यामवतीति, पदाजिः । पादाभ्यामततीति, पदातिः । अज्या- तिभ्यां पादे चेत्यौणादिक इत्प्रत्ययः । तत्राजेर्वीभावो न भवत्यत एव निपा- तनात् । पादाभ्यां गच्छतीति, पदगः । पादेनोपहतः, पदोपहतः । पादशब्दो वृषादित्वादाद्युदात्तस्तस्य स्थाने पदादेश उपदेशएवान्तोदात्तो निपात्यते, तेन पदोपहत इति तृतीया कर्मणीति पूर्वपदप्रकृतिस्वरत्वेनान्तोदात्तत्वं भवति । पदाजिः पदातिः पदग इत्येतेषु कृत्स्वरेण समासस्यैवान्तोदात्तत्वम् ॥ पद्यत्यतदर्थे ॥ ५३ ॥ यत्प्रत्यये परतः पादस्य पदित्ययमादेशो भवत्यतदर्थे । पादौ विध्यन्ति, पद्याः शर्कराः । पद्याः कण्टकाः । अतदर्थेति किम् । पादार्थमुदकं पाद्यम् ॥ पद्भावे इके चरतावुपसंख्यानम् ॥ * ॥ पादाभ्यां चरति, पदिकः । पर्णादिभ्यः ष्ठञिति पादशब्दात् ष्ठन्प्रत्ययः ॥ शरीरावयववचनस्य पादशब्दस्य ग्रहणमिह दृश्यते ॥ तेन पञ्चपादमाषशतावद् इत्यत्र पदादेशो न भवति । द्विपाद्यम् । त्रिपाद्यम् ॥ हिमकाषिद्धतिषु च ॥ ५४ ॥ हिम काषिन् हति इत्येतेषु पादशब्दस्य पदित्ययमादेशो भवति । हिम । पद्धिमम् । काषिन् । अद्य पत्काषिणो यान्ति । हति । पद्धतिः ॥ ऋचः शे ॥ ५५ ॥ ऋक्संबन्धिनः पादशब्दस्य शे परतः पदित्ययमादेशो भवति । पच्छो गायत्रीं शंसति । पादंपादं शंसतीति संख्यैकवचनाच्च वीप्सायामिति शस- त्प्रत्ययः । ऋच इति किम् । पादशः कर्षापणं ददातीति ॥ वा घोषमिश्रशब्देषु ॥ ५६ ॥ घोष मिश्र शब्द इत्येतेषु चोत्तरपदेषु पादस्य वा पदित्ययमादेशो भवति । पद्धोषः । पादघोषः । पद्मिश्रः । पादमिश्रः । पच्छब्दः । पाद- शब्दः । निष्के चेति वक्तव्यम् ॥ * ॥ पद्निष्कः । पादनिष्कः ॥ उदकस्योदः संज्ञायाम् ॥ ५७ ॥ उदकशब्दस्य संज्ञायां विषये उद इत्ययमादेशो भवति उत्तरपदे परतः । उदमेघो नाम यस्य औदमेघिः पुत्रः । उदवाहो नाम यस्य औदवाहिः पुत्रः । संज्ञायामिति किम् । उदकगिरिः ॥ संज्ञायामुत्तरपदस्य उदकशब्दस्य उदादेशो भवतीति वक्तव्यम् ॥ * ॥ लोहितोदः । नीलोदः । क्षीरोदः ॥ पेषंवासवाहनधिषु च ॥ ५८ ॥
॥ काशिका ॥ ६ ॥ ३ ॥ ५८३ पेषं वास वाहन धि इत्येतेषु चोत्तरपदेषु उदकस्य उद इत्ययमादेशो भवति । उदपेषं पिनष्टि । स्नेहेन पिष इति णमुल् । वास । उदकस्य वासः, उदवासः । वाहन । उदकस्य वाहन । उदवाहनः । उदकं धीयते ऽस्मिन्नि- त्युदधिः ॥ एकहलादौ पूरयितव्ये ऽन्यतरस्याम् ॥ ५९ ॥ उदकस्योद इति वर्तते । एको, ऽसहायः तुल्यजातीयेनानन्तरेण हला- दिना, हल् चादिर्यस्योत्तरपदस्य तदेकहलादिस्स्मिश्चैकहलादौ पूरयितव्य- वाचिन्यन्यतरस्यामुदकस्य उद इत्ययमादेशो भवति । उदकुम्भः । उदककुम्भः । उदपात्रम् । उदकपात्रम् । एकहलादाविति किम् । उदकस्थालम् । पूरयितव्य- इति किम् । उदकपर्वतः ॥ मन्थौदनसक्तुबिन्दुवज्रभारहारवीवधगाहेषु च ॥ ६० ॥ मन्थ ओदन सक्तु बिन्दु वज्र भार हार वीवध गाह इत्येतेषूत्तरपदेषू- दकस्य उद इत्ययमादेशो भवति अन्यतरस्याम् । उदकेन मन्थ, उदमन्यः । उदकमन्थः । उदकेनौदन, उदौदनः । उदकौदनः । सक्तुउदकेन सक्तः, उदसक्तुः । उदकसक्तुः । बिन्दु । उदकस्य बिन्दुः, उदबिन्दुः । उदकबिन्दुः । वज्र । उदकस्य वज्रः, उदवज्रः । उतकवज्रः । भार । उदकं बिभर्तीति, उदभारः । उदकभारः । हार । उदकं हरतीति, उदहारः । उदकहारः । वीवध । उदकस्य वीवध, उदवीवधः । उदकवीवधः । गाह । उदकं गाहत- इति, उदगाहः । उदकगाहः ॥ इको ह्रस्वो ऽङ्यो गालवस्य ॥ ६१ ॥ इगन्तस्याङ्यन्तस्योत्तरपदे ह्रस्वो भवति गालवस्याचार्यस्य मतेनान्यतर- स्याम् । ग्रामणिपुत्रः । ग्रामणीपुत्रः । ब्रह्मबन्धुपुत्रः । ब्रह्मबन्धूपुत्रः । इक इति किम् । खट्वापादः । मालापादः । अङ्य इति किम् । गार्गीपुत्रः । वात्सीपुत्रः । गालवग्रहणं पूजार्थम् । अन्यतरस्यामिति हि वर्तते । व्यवस्थि- तविभाषा चेयम् । तेनेह न भवति । कारीषगन्धीपतिरिति । इयङुवङ्भा- विनामव्ययानां च न भवति । स्त्रीकुलम् । भ्रूकुलम् । काण्डोद्भूतम् । वृषली- भूतम् । भ्रुकुंसादीनां तु भवत्येव । भ्रुकुंसः । भ्रुकुटिः । अपर आह ॥ भ्रुकुं- सादीनामकारो भवतीति वक्तव्यम् ॥ * ॥ भुकुंसः । भुकुटिः ॥ एकं तद्धिते च ॥ ६२ ॥ एकशब्दस्य तद्धिते उत्तरपदे ह्रस्वो भवति । एकस्या आगतमेकरूप्यम् । एकमयम् । एकस्या भाव, एकत्वम् । एकता । उत्तरपदे । एकस्याः क्षीरम्, ३८
५८४ ॥ काशिका ॥ ६ । ३ ॥ एकक्षीरम् । एकदुग्धम् । लिङ्गविशिष्टस्य ग्रहणामेकशब्दह्रस्वत्वं प्रयोजयति । अजादि रक्ष्यमाणमत्र विशेष्यते न पुनरच् रक्ष्यमाणेनेति ॥ ङ्यापोः संज्ञाछन्दसोर्बहु लम् ॥ ६३ ॥ ङ्यन्तस्याबन्तस्य च संज्ञाछन्दसोर्बहुलं ह्रस्वो भवति । ङ्यन्तस्य संज्ञा- याम् । रेवतिपुत्रः । रोहिणिपुत्रः । भरणिपुत्रः । न च भवति । नान्दीकरः । नान्दीघोषः । नान्दीविशालः । ङ्यन्तस्य छन्दसि । कुमारिदारा । प्रदर्शिदा न च भवति । फाल्गुनीपौर्णमासी । जगतीछन्दः । आबन्तस्य संज्ञायाम् । शिल- वहम् । शिलप्रस्थम् । न च भवति । लोमकाएशम् । लोमकाशण्डः । आबन्तस्य छन्दसि । अजातरेण जुहोति । ऊर्णम्रदा पृथिवीं विश्वधायसम् । न च भवति । ऊर्णासूत्रेण कवयो वयन्ति ॥ त्वे च ॥ ६४ ॥ त्वप्रत्यये परतो ङ्यापोर्बहुलं ह्रस्वो भवति । तदजाया भाव अज- त्वम् । अजात्वम् । तद्रोहिण्या भावो रोहिणित्वम् । रोहिणीत्वम् । संज्ञा- यामसंभवाच्छन्दस्येवोदाहरणानि भवन्ति ॥ इष्टकेषीकामालानां चिततूलभारिषु ॥ ६५ ॥ इष्टकेषीकामालानां चित तूल भारिन् इत्येतेषूत्तरपदेषु यथासंख्यं ह्रस्वो भवति । इष्टकचितम् । इषीकतूलम् । मालभारिणी कन्या । इष्टकादिभ्यस्त- दन्तस्यापि ग्रहणं भवति । पक्वेष्टकचितम् । मुञ्जेषीकतूलम् । उत्पलमाल- भारिणी कन्या ॥ खित्यनव्ययस्य ॥ ६६ ॥ खिदन्तउत्तरपदे ऽनव्ययस्य ह्रस्वो भवति । कालिंमन्या । हरिणिंम- न्या । मुमा ह्रस्वो न बाध्यते । अन्यथा हि ह्रस्वशासनमनर्थकं स्यात् । अन- व्ययस्येति किम् । दोषामन्यमहः । दिवामन्या रात्रिः । अनव्ययस्येत्येतदेवं ज्ञापकमिह खिदन्तग्रहणस्य ॥ अरुर्द्विषदजन्तस्य मुम् ॥ ६७ ॥ अरुस् द्विषत् इत्येतयोरजन्तानां च खिदन्तउत्तरपदे मुमागमो भवति अनव्ययस्य । अरंतुदः । द्विषंतपः । अजन्तानाम् । कालिंमन्या । अरुर्द्विषदज- न्तस्येति किम् । विद्वन्मन्या । अनव्ययस्येत्येवं । दोषामन्यमहः । दिवामन्या रात्रिः । अन्तग्रहणं किम् । कृताजन्ताकार्यप्रतिपत्त्यर्थम् । अतो ह्रस्वे कृते मुम्भवति ॥ इच एकाचोऽप्रत्ययवत् ॥ ६८ ॥ इजन्तस्य एकाचः खिदन्तउत्तरपदे ऽमागमो भवति अप्रत्ययवच्च
द्वितीयैकवचनवच्च स भवति । अमिति हि द्विरावर्तते । गांमन्यः । स्त्रींमन्यः । स्त्रियंमन्यः । प्रियंमन्यः । ध्रुवंमन्यः । अम्प्रत्ययवच्चेत्यतिदेशादात्वपूर्वसवर्णगु- णेयङुवङादेशा भवन्ति । ऋच इति किम् । त्वन्मन्यः । एकाच इति किम् । लेखाभुंमन्यः । अथेह कथं भवितव्यम् । श्रियमात्मानं ब्राह्मणकुलं मन्यतइत्यु- पक्रम्य श्रिमन्मन्यमिति भाष्ये स्थितम् । तच्चेदं भाष्यकारस्य दर्शनमत्र विषये परि- त्यक्तस्वलिङ्गः श्रीशब्दो ब्राह्मणकुले वर्तते यथा प्रष्टादयः स्त्रियाम् । तत्र स्वमो- र्नपुंसकादित्यमो लुग्भवति ॥ वाचंयमपुरंदरौ च ॥ ६९ ॥ वाचंयम पुरंदर इत्येतौ निपात्येते । वाचंयम यस्ते । पुरं दारयतीति पुरंदरः ॥ कारे सत्यागदस्य ॥ ७० ॥ कारशब्दउत्तरपदे सत्य अगद इत्येतयोर्मुमागमो भवति । सत्यं करो- तीति सत्यस्य वा कारः सत्यंकारः । एवमगदंकारः ॥ अस्तुसत्यागदस्य कारइति वक्तव्यम् ॥ * ॥ अस्तुंकारः ॥ भक्तस्य छन्दसि कारे मुम् वक्तव्यः ॥ * ॥ भक्तं करोतीति भक्तस्य वा कारः, भक्तंकारः । छन्दसीति किम् । भक्तकारः ॥ धेनोर्भव्यायां मुम्वक्तव्यः ॥ * ॥ धेनुंभव्या ॥ लोकस्य पृणे मुम्वक्तव्यः ॥ * ॥ लोकंपृणा ॥ इत्ये ऽनभ्यासस्य मुम्वक्तव्यः ॥ * ॥ अनभ्याशमित्यः ॥ भ्राष्ट्राम्भ्योरिन्धे मुम्वक्त- व्यः ॥ * ॥ भ्राष्ट्रमिन्धः । आम्भ्रिमिन्धः ॥ गिले ऽगिलस्य मुम्वक्तव्यः ॥ * ॥ तिमि- ङ्गिलः । अगिलस्येति किम् । गिल
५८६ ॥ काशिका ॥ ६ ॥ ३ ॥ नलोपो नञः ॥ ७३ ॥ नञो नकारस्य लोपो भवत्युत्तरपदे । अब्राह्मणः । अवृषलः । असुरापः । असोमपः ॥ नञो नलोपो ऽवक्षेपे तिङ्युपसंख्यानम् ॥ * ॥ अपचसि त्वं जाल्म । अकरोषि त्वं जाल्म ॥ तस्मान्नुडचि ॥ ७४ ॥ तस्माल्लुप्तनकारान्नञः नुडागमो भवति अजादावुत्तरपदे । अनञः । अनश्वः । तस्मादिति किम् । नञ एव हि स्यात् । पूर्वान्ते हि ङमो ह्रस्वा- दचि ङमुन्नित्यमिति प्राप्नोति ॥ नभ्राण्-नपात्नवेदानासत्या नमुचिनकुलनखनपुंस- कनक्षत्रनक्रनाकेषु प्रकृत्या ॥ ७५ ॥ नभ्राट् नपात् नवेदाः नासत्याः नमुचि नकुल नख नपुंसक नक्षत्र नक्र नाक इत्येतेषु नञ् प्रकृत्या भवति । न भ्राजतइति, नभ्राट् । भ्राजते क्विबन्तस्य नङ्समासः । न पातीति, नपात् । पातिः शतृन्तः । न वेत्तीति नवेदाः । वेत्ति- रसुनप्रत्ययान्तः । नासत्याः । सत्सु साधवः सत्याः न सत्या, असत्याः, न अस- त्याः नासत्याः । न मुञ्चतीति, नमुचिः । मुचेरौणादिकः किप्रत्ययः । नास्य कुलमस्ति, नकुलः । नख । नास्य खमस्तीति, नखम् । नपुंसक । न स्त्री न पुमा- न्नपुंसकम् । स्त्रीपुंसयोः पुंसकभावो निपात्यते । नक्षत्र । न तरते क्षीयतइति वा, नक्षत्रम् । क्षियः क्षरतेर्वा क्षत्रमिति निपात्यते । नक्र। न क्रामतीति नक्रः । क्रमेर्डप्रत्ययो निपातनात् । नाक । नास्मिन्कमिति नाकम् ॥ एकादिश्चैकस्य चादुक् ॥ ७६ ॥ एकादिश्च नञ्प्रकृत्या भवति एकशब्दस्यादुगागमो भवति । एकेन न विंशतिः एकान्नविंशतिः । एकान्नत्रिंशत् । तृतीयेति योगविभागात्समासः । पूर्वान्तोयमदुक् क्रियते । पदान्तलक्षणोत्रानुनासिको विकल्पेन यथा स्याद् इति ॥ नगो ऽप्राणिष्वन्यतरस्याम् ॥ ७७ ॥ नञ्प्रकृत्या भवति । नगा वृक्षाः । अगा वृक्षाः । नगाः पर्वताः । अगाः पर्वताः । न गच्छन्तीति नगाः । गमेर्डप्रत्ययः । अप्राणिष्विति किम् । अगो वृषलः शीतेन ॥ सहस्य सः संज्ञायाम् ॥ ७८ ॥ सहशब्दस्य स इत्ययमादेशो भवति संज्ञायां विषये । साश्वत्थम् । सपलाशम् । संशिंशपम् । संज्ञायामिति किम् । सहयुध्वा । सहकृत्वा । सादेश उदात्तो निपात्यते । उदात्तानुदात्तवतो हि सहशब्दस्यान्तर्यतः स्वरितः स्यात् ।
॥ काशिका ॥ ६ ॥ ३ ॥ ५८७ स च निपातनस्वरः पूर्वपदप्रकृतिस्वरत्वं यत्र तत्र उपयुज्यते । अन्यत्र समासा- न्तोदात्तत्वेन बाध्यतएव । सेष्टि, सपशुबन्धमिति ॥ ग्रन्थान्ताधिके च ॥ ७९ ॥ ग्रन्थान्ते ऽधिके च वर्तमानस्य सहशब्दस्य स इत्ययमादेशो भवति । सकलं ज्योतिषमधीते । समुहूर्तम् । ससंग्रहं व्याकरणमधीयते । कलान्तं मुहू- र्त्तान्तं संग्रहान्तमिति अन्तवचनइत्यव्ययीभावः समासः । तत्राव्ययीभावे चाका- लइति कालवाचिन्युत्तरपदे सभावो न प्राप्नोतीत्ययमारम्भः । अधिके । सद्रोणा खारी । समाषः कार्षापणः । सकाकिणीको माषः ॥ द्वितीये चानुपाख्ये ॥ ८० ॥ द्वयोः सहयुक्तयोरप्रधानो यः स द्वितीयः । उपाख्यायते प्रत्यक्षत उप- लभ्यते यः स उपाख्यः, उपाख्यादन्यो ऽनुपाख्यो ऽनुमेयस्तस्मिन् द्वितीये ऽनु- पाख्ये सहस्य स इत्ययमादेशो भवति । साग्निः कपोतः । सपिपीलिका वात्या । सराक्षसीका शाला । अग्न्यादयः साक्षादनुपलभ्यमानाः कपोतादिभिरनुमीय- मानास्तदनुपाख्या भवन्ति ॥ अव्ययीभावे चाकाले ॥ ८१ ॥ अव्ययीभावे च समासे ऽकालवाचिन्युत्तरपदे सहस्य स इत्ययमादेशो भवति । सचक्रं धेहि । सधुरं प्राज । अकालइति किम् । सहपूर्वाह्णम् ॥ वोपसर्जनस्य ॥ ८२ ॥ उपसर्जनसर्वावयवः समास उपसर्जनं, यस्य सर्वे ऽवयवा उपसर्जनीभूताः स सर्वोपसर्जनो बहुव्रीहिर्गृह्यते । तदवयवस्य सहशब्दस्य वा स इत्ययमादेशो भवति । सपुत्रः । सहपुत्रः । सच्छात्रः । सहच्छात्रः । उपसर्जनस्येति किम् । सहयुध्वा । सहकृत्वा । सहकृत्यप्रियः प्रियसहकृत्वेतिबहुव्रीहौ यदुत्तरपदं तत्परः सहशब्दो न भवतीति सभावो न भवति ॥ प्रकृत्याशिष्यगोवत्सहलेषु ॥ ८३ ॥ प्रकृत्या सहशब्दो भवति आशिषि विषये ऽगोवत्सहलेषु । स्वस्ति देव- दत्ताय सहपुत्राय सहच्छात्राय सहामात्याय । अगोवत्सहलेष्विति किम् । स्वस्ति भवते सहगवे । सगवे । सहवत्साय । सवत्साय । सहलाय । सहह- लाय । वोपसर्जनस्येति पक्षे भवत्येव सभावः ॥ समानस्य छन्दस्यमूर्द्धप्रभृत्युदकेषु ॥ ८४ ॥ स इति वर्तते । समानस्य स इत्ययमादेशो भवति छन्दसि विषये
५९८ ॥ काशिका ॥ ६ । ३ ॥ मूर्द्धन् प्रभृति उदर्क इत्येतान्युत्तरपदानि वर्ज्जयित्वा । अनुजाता सगर्भ्यः । अनुसक्षा सयूथ्यः । यो नः सनुत्यः । समानो गर्भः सगर्भः, तत्र भवः सगर्भ्यः । सगर्भसयूथसनुताब्दादिति यत् प्रत्ययः । अमूर्द्धप्रभृत्युदर्केष्विति किम् । समानमूर्द्धा । समानप्रभृतयः । समानोदर्काः । समानस्येति योगवि- भाग इष्टप्रसिद्ध्यर्थः क्रियते । तेन सपत्नः, साधर्म्यं, सजातीय, इत्येवमादयः सिद्धा भवन्ति ॥ ज्योतिर्जनपदरात्रिनाभिनामगोत्ररूपस्थानवर्ण- वयोवचनबन्धुषु ॥ ८५ ॥ ज्योतिस् जनपद रात्रि नाभि नामन् गोत्र रूप स्थान वर्ण वयस् वचन बन्धु इत्येतेषूत्तरपदेषु समानस्य स इत्ययमादेशो भवति । सज्योतिः । सजन- पदः । सरात्रिः । सनाभिः । सनामा । सगोत्रः । सरूपः । सस्थानः । सवर्णः । सवयाः । सवचनः । सबन्धुः ॥ चरणे ब्रह्मचारिणि ॥ ८६ ॥ चरणे गम्यमाने ब्रह्मचारिण्युत्तरपदे समानस्य स इत्ययमादेशो भवति । समानो ब्रह्मचारी, सब्रह्मचारी । ब्रह्म वेदस्तदध्ययनार्थं यद्व्रतं तदपि ब्रह्म तच्चरतीति ब्रह्मचारी । समानस्तस्यैव ब्रह्मणः समानत्वादित्ययमर्थो भवति । समाने ब्रह्मणि व्रतचारी सब्रह्मचारीति ॥ तीर्थे ये ॥ ८७ ॥ तीर्थशब्दउत्तरपदे यत्प्रत्ययपरे परतः समानस्य स इत्ययमादेशो भवति । सतीर्थ्यः । समानतीर्थे वासीति यत्प्रत्ययः ॥ विभाषोदरे ॥ ८८ ॥ उदरशब्दउत्तरपदे यत्प्रत्ययान्ते समानस्य विभाषा स इत्ययमादेशो भवति । सोदर्यः । समानोदर्यः । समानोदरे शयित ओ चोदात्त इति यत् ॥ दृग्दृशवतुषु ॥ ८९ ॥ दृक् दृश वतु इत्येतेषु परतः समानस्य स इत्ययमादेशो भवति । 'सदृक् । सदृशः । त्यदादिषु दृशो ऽनालोचने कञ्चेत्यत्र समानान्ययोश्चेति वक्तव्यमिति कञ्क्किनौ प्रत्ययौ क्रियेते ॥ दृक्षे चेति वक्तव्यम् ॥ * ॥ सदृक्षः ॥ दृशेः क्सप्रत्ययोपि तत्रैव वक्तव्यः ॥ * ॥ वतुग्रह्णमुत्तरार्थम् ॥ इदंकिमोरीश्की ॥ ९० ॥ इदं किम् इत्येतयोरीश की इत्येतौ यथासंख्यमादेशौ भवतो दृग्दृश-