काश्यप संहिता (वृद्ध जीवकीय तन्त्र व विद्योतिनी हिन्दी टीका सहित)
Kashyapa Samhita Hindi
महर्षि काश्यप / जीवक (टीकाकार: श्री सत्यपाल भिषगाचार्य) द्वारा
स्रोत: Kashyapa Samhita (Vriddha Jivakiya Tantra) with Vidyotini Hindi Commentary (उद्गम)
| १४४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
प्राचीनभारतस्य देशान्तरसम्बन्धः
उपदर्शितदिशा असीरिया–बेब्लोनिया–मेसोपोटामियामिश्रादिप्राचीनोन्नतदेशेषु शाखोपशाखारूपासु प्राचीनपाश्चात्त्यजातिषु च, किं बहुना अमेरिकागतरेडइण्डियनचीनादिसुदूरपर्यन्तमपि अद्यावदुपलभ्यभारतीयग्रन्थभूगर्भोपलब्धविषयाचारव्यवहारादीना-मायुर्वेदीयभैषज्यविद्यायाश्च तत्र तत्र न्यूनाधिकरूपेण तुलना परिदृश्यते। आथर्वणे यथा भूतादिवादप्रक्रियया मान्त्रिकप्रक्रियया च संवलितं भैषज्यं, प्राय एवं प्रकार एव भैषज्यसम्प्रदायः प्राचीनेषु प्रायः सर्वेषु देशेषु, प्रायः सर्वासु प्राचीनजातिषु च पूर्वोक्तदिशा विवेचकैरुपवर्ण्यते। नह्येवं विष्वक्प्रदेशेषु बहुशोऽसाधारणाः संवादाः काकतालीयन्यायेन स्वतः समुद्भवितुं युज्यन्ते। ईदृशी प्राचीनभारतस्य प्राचीनदेशान्तराणां च बहुर्शोऽशेषु समानविषयता साक्षात् परम्परया वा मिथः परिचयं सम्पर्कं व्यवहारं चैकान्ततोऽवगमयति ।।
प्राचीनभारतस्य पुराकालादेव देशान्तरैः सह सम्बन्ध आसीदिति अनेकैर्विद्वद्भि^१रुल्लिखितं चास्ति। मिश्रदेशे तत्सन्निकृष्टस्थानान्तरेष्वपि भारतस्य वाणिज्यसम्बन्ध आसीदिति तदात्वे (A. D. 100) मिश्रदेशस्तेन पेरिप्लस^२नाम्नाऽप्यु-ल्लिखितमस्ति ।।
सर विलियम जोन्स (Sir William Jones), मेजरविल्फोर्ड (Major Wilford), लुइस् ज्याकोलिओट् (Louis Jacolliot) प्र^३भृतिभिरपि सभ्यताकलास्मृतिज्ञानानि भारतादेव मिश्रदेशेऽपि गतानीति प्रतिपादितं वर्तते ।।
‘भारतीयभैषज्यविद्यायाः प्रभावो ग्रीसवैद्यके पतित इति अर्धेन मनसा पाश्चात्या लोका मन्यन्ते। मिश्रपर्सियाऽरेबियाद्वारा भारतीयं भैषज्यविज्ञानं ग्रीसे उपगतं, मिश्रपर्सियाऽरेवियादेशैरपि भारत्ताल्लब्धम्’ इति स्वमतमनुदर्शयन् जे. जे. मोदीमहाशयः^४ ‘सर्वदेशीयानां भैषज्यपद्धतीनां मूलमेकमेव, पाथागोरसेन हिपोक्रिटसपूर्वजैर्वा ग्रीसदेशे यद्भैषज्यविज्ञानं प्रथगतो गृहीतं तदपि
१. (a) History of Indian Shipping and Maritime activity from the earliest times—R. K. Mukarji.
(b) Intercourse between Indian and the Western World—H. G. Rawlison.
(c) Lassen's History of Indian Commerce.
२. The Periplus of the Erythraean Sea—P. 3.
३. Sir William Jones, in the report of the Royal Asiatic Society is led to believe that Egypt must have been in remote ages colonised by the Indian Aryans, and writers like Major Wilford consider the 'Mishrasthana' of the Purans to be no other than 'Mishra', the ancient name of Egypt. There is, on the other hand, no record of the Egyptians having ever migrated into India, Such circumstancial evidence has led some European writers—Louis Jacolliot among others—to affirm that if Egypt gave civlization to Greece and the latter bequeathed it to Rome, Egypt herself received her laws, arts and sciences from India. There is nothing in the Egyptian medicine which is not in the Indian system, and there is much in the elaborate Indian system that is wanting in the medical science of Egypt.
Short History of Aryan Medical Science Pp. 194-195.
४. It seems a half-hearted admission of the influnce of the Indian Medicine on the Greek Medicine, and in making this admission ...... but he seems to forget India's indirect influence on Greek Medicince exerted through Egypt, Persia and Arabia. Now it has been proved that Greek Medicine to a considerable extent owed its knowledge to these countries; ....... owe their medical knowledge to India. Referring India's indirect influence on Greek medicine practised by Hippocrates
उपोद्घातः १४५
मिश्रदेशीयानामृषीणां साहाय्येन प्राप्तं, मिश्रीयैरपि रहस्यपूर्णात् पूर्वदेशादधिगतम्' इति वाइजमहोदयस्य मतमुपवर्णयति। यूरोपीयप्राचीनराष्ट्रेषून्नतेः प्रागेव भारतेन ज्योतिषगणितविज्ञानभैषज्यादिविद्यासूत्रन्निधायिः सभ्यताया ज्ञानस्य च तत्त्वानामुद्गमः पूर्वदेशे बभूव; तत एव पश्चिमदिशि तेषां प्रतिसंक्रमणमभूत्, न तु पश्चिमतः पूर्वदेशे इति मोनियर विलियम्स (M. Monier Williams) म¹हाशयोऽपि निरूपयति ॥
पूर्वसमये सिन्धोः पारेगतान् देशानप्यन्तर्निधाय तादात्विककेन्द्रभूतात् तक्षशिलाश²रावतीपरिसरप्रदेशात् प्राच्यामासामदेशमवाच्यां चोलादिदेशान् यावदेकात्मतयाऽतिबहोः कालात् प्रतिष्ठितस्य प्राचीनभारतस्य प्रतीच्यां प्रतिवेशिस्थानीयानां मिश्रादिदेशानां मिथो यातायातसम्पर्कपरिचयादिसिद्धये कियती दूरता व्याघातिका वक्तुं शक्येत ॥
वैदिक्यामप्यवस्थायां भुज्युप्रभृतीनां द्वीपान्तरगमनमनुद्रुह्युतुर्वसूनां पित्रा निष्कासितानां द्वीपान्तरोपगमेन वंशान्तरप्रवर्तनं, पाण्डवैर्दूरदूरदेशानामपि विजयश्चैवमादीनामुपलम्भेन भारतीयानां द्वीपान्तरयातायातादिकमवगम्यते इति पूर्व (पृ. ७४) विवृतमेव। ऋग्वेदादिष्वपि सामुद्रिकनावामुल्लेखः, प्राचीनग्रन्थेष्वपि सामुद्रिकवणिजां शुल्कव्यवस्था चोपलभ्यते। वेदे 'पणि'नाम्ना देशान्तरेषु यायिनां श्रेणीरूपाणां वणिजां निर्देशो दृश्यते। एतादृशैरेव वणिग्जनैः पश्चिमैशियग्रीसमिश्रसेमेटिकप्रदेशेषु प्रभावः पातित इति ³ए. सी. दासमहाशयोऽप्युल्लिखति। महाजनकशङ्खजात⁴कयोरपि भारतीयवणिजां सिंहलबेब्लोनिया-सौवर्णभूमिप्रदेशेषु गमनमुल्लिखितमस्ति। कालिदासकविनाऽपि रघुमुपलक्ष्य पारसीकपर्यन्तम्⁵पि स्थलपथेनाभियाने दृष्टिः प्रदत्ता वर्तते। पश्चादपि चीनदेशात् खोतानघाटीद्वारा स्थलपथेन भारतमुपेतस्य फाहियानस्य सिलोनप्रदेशात्नौमार्गेण स्वं चीनदेशं प्रति निवर्तनस्य, ग्रीसदेशे रोमदेशे च नौद्वारैव सौकर्येण सम्भविनो भारतीयहस्तिसिंहादिनयनवृत्तस्य, पश्चिमदिश्यपि भारतात् झटिति प्रतिनिवर्तमानस्य यवनेशितुरलेक्जेण्डरस्य महत्यै सेनायै पर्याप्तानां नावामुपस्थितेरनुसन्धानेन, मिश्रेमेसोपोटामियादिषु जलतटस्थपथादपि जलपथस्थानुकूल्येन च भारतस्य पाश्चात्यदेशैः सह पुराकालान्मियो यातायातपरिचयसम्पर्कादिका व्यवहृतिर्न कथमपि व्याहन्यते ॥
& Pythagoras ....... western midicine, Dr. Wise in his book 'Hindu System of Medicine' says: 'All these midical systems have a common source ...... The Greecian philosophers were assisted by the Egyptian sages who appear to have obtained much of their knowledge from some mysterious nation of the East'. Fourth Indian Oriental Conference Vol. II P. 426.
१. (a) More than this the Hindus had made considerable advances in astronomy, algebra, arithmetic, botany and medicine, not to mention their superiority in grammar, long before some of these sciences were cultivated by the most ancient nations of Europe.
Vide-Sans. Eng. Dictionary, M. Monier Williams P. XXI.
(b) Is not the case that the earliest elements of Civilization and enlightenment have always originated in the East, and spread from the East to the West—not from the West to the East. Ibid P. XXIII.
२. लोकोऽयं भारतं वर्षं शरावत्यास्तु योऽवधेः ।
देशः प्राग्दक्षिणः प्राच्य उदीच्यः पश्चिमोत्तरः ॥
३. Rgvedic India by A. C. Das P. 198-208.
४. Intercourse between India and the Western World by H. G. Rawlinson P. 5.
५. पारसीकांस्ततो जेतुं प्रतस्थे स्थलवर्त्मना ॥ रघुवंशे ४ सर्गे.
| १४६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
धन्वन्तर्यादीनां पौर्वकालिकता
भारतीयआयुर्वेदविज्ञानस्रोतसो मूलोद्गममनुसन्धातुं दृष्टिमन्त्र्यालोचने—उपलभ्यमानायुर्वेदग्रन्थाचार्यतया ज्ञायमानानां धन्वन्तरिदिवोदासकाश्य पात्रेयाग्निवेशभेडसुश्रुतादीनामपि नार्वाचीनः समयः। धन्वन्तरेर्महाभारते, हरिवंशे, पुराणान्तरेषु (पृ. २९), मिलिन्दपह्रोपालीग्रन्थे (पृ. ३१), अयोधरजातके (पृ. ३१), चोल्लेखेन; भीमसेन पुत्रस्य दिवोदासस्य हरिवंशे, महाभारते, काठकसंहितायां, प्रतर्दनपितृत्वेन दिवोदासस्य कौषीतकि ब्राह्मणे, कौषीतक्युपनि’ षदि (पृ. २९), कातीयऋक्सर्वानुक्रमे, (पृ. ३०) महाभाष्ये च निर्देशेन; दिवोदासप्रतिष्ठापितत्वेन निर्दिष्टाया वाराणस्या महावग्गादावप्युल्लेखदर्शनेन (पृ. २९-३०), मारीचकाश्यपस्य महाभारते, ऋक्सर्वानुक्रमे, बृहद्देवतायाम् (पृ. १७) अथर्वसर्वानुक्रमे च निर्देशेन; भेडनिर्दिष्टस्य गान्धारस्य नग्नजितः ऐतरेयशतपथब्राह्मणयोः (पृ. ५१) निर्देशेन; भेडस्य आत्रेयान्तेवासितया गान्धारनग्नजित्साहित्येन च निर्देशेन; आत्रेयस्य मारीचकश्यपेन, सवाक्योद्धारमाचार्यतया भेडेन, कृष्णात्रेयनाम्ना च महाभारते निर्देशेन; भारद्वाजस्यापि महाभारते निर्देशेन च भारद्वाजधन्वन्तरिदिवोदासात्रेयमारीचकाश्यपनग्नजिद्दारुवाहवार्योविदानां सन्निकृष्टकालिकेन मिथः सम्बन्धेन एते उपनिषत्कालिका आचार्या इति तत्र तत्र पूर्वमुपदर्शितमस्ति । उपनिषत्कालविचारे पाश्चात्त्यविद्वन्मतानां पूर्वं (पृ. ३०) प्रदर्शितत्वेऽपि कौषीतक्यैतरेययोः B. C. 2500 इति चिन्तामणिविनायकमहाशयेन, ज्यौतिषगणनानुसारेण B. C. 1850-2900 इति दीक्षितमहाशयेन समर्थितमस्ति । पालीलेखतो महावग्गलेखतः सिंहलब्रह्मदेशीयोपकथातास्तब्बतीयमूल-लेखतोऽपि जीवकगुरोरात्रेय एवेति साधने प्रमाणानुपलम्भेन, आत्रेयस्य तक्षशिलोत्यानादुत्तरभवत्वे पाञ्चालगङ्गाद्वारपरिसरप्रदेशेषु बम्भ्रम्योपदिशता तेन विद्यापीठाभावेन प्रसिद्धियास्तक्षशिलाया अवश्यमुपादेयत्वेन प्रत्युत तन्नाम्नोऽप्यनु पादानेन, मारीचकश्यपेन गृह्यमाणनामतया च आत्रेयपुनर्वसोरनर्वाचीनत्वस्यावधारणेनापि तिब्बतीयोपकथामादाय जीवकगुरोरात्रेयो बुद्धसमकालिक इत्याशङ्का नावतिष्ठते। जीवकगुरोरात्रेयत्वाभ्युपगमेऽपि गोत्रनाम्ना व्यवहृतोऽन्य एव कोऽप्यात्रेयः स्यात्, न त्वात्रेयपुनर्वसुरिति च पूर्वं (पृ. ४०-४२-७९) निर्दिष्टमेव । जे. जे. मोदीम¹हाशयः सुश्रुतस्य B. C. 1500 समयं, डोरोथिया च्यापलिनमहा²शयो हिपोक्रिट्ससमयात् १२०० वर्षपूर्वं धन्वन्तरिसमयं वर्णयति। श्रीयुताक्षयकुमारमजूमदारमहाशयः जनकस्य विदेहराजस्य B. C. 2500, अगस्त्यस्य B. C. 2200 जाबालस्य B. C. 2000 जाजलेः B. C. 1900, पैलस्य B. C. 1800, कवथस्य B. C. 1800, धन्वन्तरेः B. C. 1600, भैमरथेर्दिवोदासस्य B. C. 1500 चरकसुश्रुतसंहितयोः B. C. 1400, 1500 समयं निर्देश³ति । ‘भारते भैषज्यविद्याऽपि बहोः पूर्वसमयादेवोन्नताऽऽसीत्’ इति F.E. Keay ⁴महाशयोऽपि ब्रवीति; ‘धर्म-दर्शन-विज्ञान-कला-सङ्गीत-भैषज्यविद्यासु B. C. 1500 तः B. C. 500 पर्यन्तं भारतस्य तुलनां स्पर्धो च कर्तुं योग्यं किमपि राष्ट्रान्तरं नासीत्’ J. C. इति च⁵टर्जीमहाशयोऽपि निरूपयति ॥
१. Writing about practical anatomy, i. e., dissection, Susruta, that famous Indian surgeon, and father of Indian surgery, who flourished in about 15th century B. C., has said ...... F. I. O. C. Vol. II P. 415-16.
२. Dhanvantari, the founder of Hindu Medical science, declared, about a dozen centuries before Hippocrates, that 'Health is positive-disease is negative', and how to turn the negative into positive was the Problem he set himself to solve.
Some Aspects of Hindu Medical Treatment P. 11; by Dorothea Chaplin.
३. The Hindu History by Akshaykumar Mazumdar P. 474-76, 791.
४. Medicine also received an early development in India as well as law.
Ancient Indian Education P. 42; by F. E. Keay.
५. In fact between the years 1500 and 500 B. C., the people of India were so far advanced in religion, metaphysics, philosophy, science, art, music; and medicine, that on other nation could stand as their rival, or complete with them in any of these branches of knowledge.
J. C. Chatterji. The Wisdom of the Hindus ed. by Brian Brown. P. XXV.
उपोद्घातः १४७
प्राचीनत्वेनावधारितेषु धन्वन्तर्यत्रेयकाश्यपादिमूलग्रन्थेषु मिश्रीयहिपोक्रिट्सीयादिलेखेष्विव पश्चात्संस्करणवशेन केषाञ्चिदवाचीनत्वेन शङ्क्यमानानामंशानां प्रवेशाभ्युपगमेऽपि, जीर्णोद्धारप्रक्रियया नूतनशिल्पसङ्कीर्णानां प्राचीनमन्दिरभवनादीनां यथा सर्वाशतो नूतनत्वं वक्तुं न शक्यते तथैवात्रापि मौलिकं प्राचीनत्वं न कथमपि व्याहन्यते इत्येष विषयः पूर्वं (पृ. ६०-६१) विवृत एव ।।
सुमेरियन्मिश्रादिप्रदेशानां पुरा काले तथोन्नतसभ्यतायाउपलम्भे तत्सहयोगि भारतं तदात्वे मोहनिद्रया सुषुप्तं स्यादिति न खलु सम्भावयितुं शक्यते । पूर्वतने मिश्रदेशभूगर्भसादिते शवशरीरे कपालभेदसन्धानाङ्क उपलब्धः, योऽद्यत्वेऽतिनिष्णातैरपि शल्यविद्भिः समुचितः समर्थ्यते । मिश्रदेशे विक्रमाब्दारम्भात् सार्धद्विशतवर्षपूर्वं (B. C. 301) शल्यविद्याया उन्नत्यवस्था, ततः शतद्वयवर्षानिनु तदनुविधानेन ग्रीसदेशेऽपि शल्यविद्योदय इतितिहासविदामुल्लेखोऽस्ति । सौश्रुते शल्यविज्ञाने देशान्तरीयशल्यविद्यायाश्छायानुपलम्भेन समयविचारे अन्ततो गत्वाऽपि सुश्रुतस्य २६०० वर्षेभ्योऽर्वाचीनताया वक्तुमशक्यतया बहुशः पाश्चात्यविद्वद्भिरपि तथैव निष्कृष्टमतोपवर्णनेन च देशान्तरीयेभ्यः प्रागेव सुश्रुतसमये भारतीया शल्यविद्या प्रौढावस्थामुपगता ज्ञायते । काश्यपसंहितायामात्रेयसंहितायामपि शल्यविद्याविषयोल्लेखेन ततः पूर्वमपि तत्प्रचार आसीदित्यवगम्यते । महावग्गीये जीवकेतिहासेऽपि कपालभेदनान्त्रवेधनादीनां शल्यप्रस्थानीयानां प्रस्थानान्तरीयाणां च भैषज्यानां भारते विशेषकौशलमीक्ष्यते । ततः प्रागपि रामायणभारतादियुद्धेषु यदैव जनानां मिथः संमर्दे बाणादीनां शल्यानि शरीरेष्वन्तर्गमनानि निष्कासनीयान्यभूवंस्तदाऽपि तदुद्धरणविद्याया विज्ञेयतया शल्योद्धरणविधानाम्ना शल्यविद्या स्वस्याः सत्त्वमवबोधयति । किमेतावदेव, आयुर्वेदीयप्रवाहस्य पूर्वपूर्वोद्गमालोचने अथर्वऋगादिष्वपि पूर्वोपदर्शितदिशा भग्नसन्धानादयः शल्यविषया उपलभ्यन्ते ।।
भारतीयस्रोतसोदेशकालव्याप्तिः
उपलभ्यमानग्रन्था धन्वन्तर्यत्रेयकश्यपभेदादय एव नास्मिन्नायुर्वेदप्रस्थाने मूलाचार्याः, पश्चात्प्रसिद्धैः संहिताकर्तृभिः कश्यपात्रेयसुश्रुतादिभिरेकैकं प्रस्थानाचार्यपीठमधिष्ठितैः कति पूर्वाचार्यानाम्ना निर्दिष्टाः, कति तु विनैव नामनिर्देशमपरे परे इत्यादि Muir/शब्दैरेव सूचिताः । ततः पूर्वतमाः भारद्वाजाश्विनादयोऽपि संहिताकर्तृतया ज्ञायन्ते । आश्विनादिसंहितासु कालबलेनाद्यत्वे दर्शनमप्राप्तास्त्वपि तदीयविषयवचनोद्धारादयः ताडपत्रीयज्वरसमुच्चयादिप्राचीनवैद्यकग्रन्थेषूपलभ्यन्ते । आयुर्वेदग्रन्थेष्वपीन्द्र-भरद्वाजादीनां परमाचार्यभावस्तत्परम्परयाऽस्य सम्प्रदायस्य प्रसरणं च विज्ञायते । अश्विनादीनां भिषग्भावो वेदेऽप्युपवर्ण्यते । सेयं सम्प्रदायपरम्परा भारतीयं स्रोतः समुन्नमयति । एवमायुर्वेदीयः प्रवाहः पूर्वपूर्वतोऽनुसन्धीयमानो वैदिकात् समयादात्मनः उदयं समृद्धिं चावबोधयति । तस्मात् प्राचीनतरसमयादेव वैदिकविज्ञानमहाशैलादुद्गच्छाद्यायुर्वेदीयं स्रोतस्तत्तदाचार्यविचारधारोपबृंहितं बहून् समयान् बहून् देशांश्चाभिव्याप । भारतीयमिदं स्रोतो वंशाङ्कुर इव केवलमुपर्युरिभावेन वर्तमानं नासीत्, अपि तु नानाप्रदेशीयानां बहूनामाचार्याणामनुसन्धानेऽपि समन्ततोऽपि प्रसृतमासीदिति प्रतीयते ।।
काङ्कायनस्य सुश्रुतसतीर्थ्यभावो डल्लणेन प्रदर्शितोऽस्ति । काङ्कायनो हि 'बाहीकभिषक्, बाहीकभिषजां वरः' इति आत्रेयेण बाहीकदेशीयभिषगुत्तमत्वेन निर्दिष्टो दृश्यते । मारीचकश्यपेनापि एतन्मतं सनामग्राहं निर्दिष्टमस्ति । तेनायमपि तादात्विकैर्विज्ञातो बाह्यदेशीयः प्राचीनतमो दृश्यते । बाहीकभिषग्जनेषु मुख्यत्वेनज्ञातस्यास्य काङ्कायनस्य दिवोदास-शिष्यभावेऽवगम्यमाने भारतीयभैषज्यविद्याया न केवलं भारते, अपितु बहिरपि आदर्शभावेन प्रसरणं, भारतस्य तत्तद्देशेभ्य इव बाह्य प्रदेशेभ्योऽप्येतदधिगमाय जिज्ञासूनामन्तेवासिभावेनोपगमश्च प्रतीयते । तस्य दिवोदासशिष्यत्वाभावेऽपि तदीयमतस्य भारतीयैः पूर्वाचार्यैरपि निर्दिष्टतया मिथः परिचयः स्पष्टीभवति ।।
न केवलं काङ्कायनः, औपधेनववैतरणौरभ्रपौष्कलावतकरवीर्यगोपुररक्षितभोजादयोऽपि दिवोदासान्तेवासिन आसन्निति सुश्रुतलेखतो ज्ञायते । अयोधरनाम्नि पालीजातके बुद्धस्य पूर्वजन्मनावदानोल्लेखे अतीतवैद्याचार्यत्वेन धन्वन्तरिणा सह सुश्रुतसतीर्थ्ययोर्भोजवैतरणयोः पूर्वं (पृ. ३१) निर्दिष्टोऽप्युल्लेखः पूर्वकालसम्बन्धमेव प्रत्याययति । एवं दर्शनेन औपधेनवादयस्ते आचार्याः पौर्वकालिकाः, नामाद्यनुसन्धानेन नानादेशीयाश्चावबुध्यन्ते ।।
१४८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
पौष्कलावतकरवीर्यौरभ्राद्याचार्येषु वितर्कः
पूर्वेषामभिधानानि पितुर्मातुराचार्यस्य गोत्रस्य देशस्य असाधारणगुणविशेषस्य वा सम्बन्धमुपादाय व्यवहृतानि प्रायशो दृश्यन्ते। तेन प्राचीनव्यक्तिविशेषाणां नाम्नो दर्शने देशव्यक्तिविशेषादिकं किन्नाम मूलमुपादायेत्थं व्यवहृतमिति जिज्ञासा निर्वक्तुं नयने उन्मीलयति। एतन्न्यायेन साधितशब्दात्मकाः पौष्कलावतादयो नामविशेषा अपि कञ्चन देशविशेषं व्यक्तिविशेषं वा मूलसम्बन्धितयोपादाय ‘तत्र जातः, तत्र भवः’ इत्याद्यर्थविशेषप्रत्ययेन निष्पन्ना भवेयुः॥
तत्र पुष्कलावतो नाम न कोऽपि व्यक्तिविशेषो भारतीयेतिवृत्ते लभ्यते। किन्तु प्रदेशविशेषबोधकतया स शब्दो लभ्यते। पौष्कलावतो नाम ‘पुष्कलावतदेशे भव’ इत्यर्थमादाय देशनाम्ना तथा व्यवहृतः प्रतिभाति। पौष्कलावतो नाम भरतपुत्रेण पुष्कलेन निवेशित इति विष्णुपुराणे^१ऽस्ति। वाल्मीकिरामायणे^२ऽप्येतदुल्लेखोऽस्ति। आसन्दीवत्पस्त्यावच्छर्यणा-वदित्यादिभिर्वेददृष्टस्थाननामभिर्महाभारतोक्तवारणावतनाम्ना च सह सारूप्यं वहदिदं पौष्कलावतनाम स्वरूपेणापि भारतपश्चिमविभागीयप्राचीनदेशं प्रत्याययति। एतन्नाम्नी गान्धारराज्यस्य प्राचीना राजधानी चासीत्। अलेकजेण्डरागमनसमयेऽपीयं नगरी गान्धारे प्राधान्येनासीत्। एरियन्-ष्ट्रेवो-टालेमीप्रभृतिभिर्बहुभिः प्राचीनग्रीसविद्वद्भिः सिन्धोर्नातिदूरे महानगरतया अस्या उल्ले खेन ग्रीकजनैरपि विशेषतः परिचिता कीर्तिता चेय^३मासीत्। तत्प्रदेशीय एवायमाचार्यः पौष्कलावतः सम्भाव्यते। सुश्रुतेन शल्यप्रधान^४तन्त्रकर्तृतया सविशेषं निर्दिष्टोऽयं शस्त्रवैद्यके गान्धारप्रदेशस्यापि पुरा प्रतिष्ठामवबोधयति॥
करवीर्यशब्दः ‘करवीरप्रदेशे भव’ इत्यर्थमवबोधयन्निव भाति। करवीर^५पुरं दृषद्वत्यास्तटे आसीदित्युपलभ्यते। कालिकापुराणेऽप्यस्य करवीरपुरस्योल्लेखोऽस्ति। दृषद्वती वेदेऽपि प्रसिद्धा। करवीरपुरोद्भवत्वेन तस्य तथाऽभिहितत्वे तत्प्रदेशीयत्वमप्यस्याचार्यस्य सम्भवति। किंवा शस्त्रचिकित्साविद्वत्तया करगतं तत्कौशलरूपं वीर्यं वहन्नाचार्यविशेषोऽनेन नाम्ना प्रसिद्धोऽपि सम्भवति॥
किञ्च—इरानदेशीयप्राचीनावेस्ताग्रन्थाभ्यन्तरे वेन्दिदादनाम्नि भैषज्यप्रकरणे तदीयशल्यचिकित्साविज्ञानस्य मूलाचार्यः क्षथ्रवैर्र्यनाम्ना कीर्तितोऽस्ति। अद्यत्वे व्यवह्रियमाणस्य वेन्दिदादशब्दस्य प्राचीनं स्वरूपं विदैवोदात^६ इत्युच्यते। वैदिकसम्प्रदाये समीचीनभावावबोधकेषु सुरदेवादिBack/शब्देषु तेषामसदर्थावभासेन किल सदर्थपर्यवसानाय असुरविदेवादिप्रयोगस्य दर्शनेन तन्न्यायेन दैवोदासशब्देऽपि ‘दिव’-शब्देन सह ‘वि’-शब्दस्य सम्पर्केण भैषज्यविद्यायुतविभागबोधको विदैवोदातशब्दः अपभ्रंशभावेन दैवोदाससम्प्रदायमभिप्रैति किमु इति तर्कनाऽप्युदेति। अहुरमज्दात औषधीन् क्षथ्रवैर्र्यात् सोहरवराच्च कायचिकित्साशस्त्रचिकित्साविज्ञाने च श्रितोऽवाप्तवानिति, तत्र शस्त्रविज्ञानस्याद्य उद्भावकः क्षथ्र^७वैर्र्य इति चोल्लिख्यते। श्रितस्याप्याचार्यभावेन निर्दिष्टौ क्षथ्रवैर्र्यः सोहरवरश्च कौ? इत्यनुसन्धातुं युज्यते। विदैवोदातशब्दे दैवोदासशब्दस्य प्रतिभानेन तत्साहचर्येण चिकित्साविज्ञानाचार्यविशेषे सोहरवरे सुश्रुतस्य, शल्यचिकित्साविज्ञाननवोद्भावके क्षथ्रवैर्र्ये दिवोदासशिष्यस्य
१. Viṣṇu Purāṇa (Bk. IV. Ch. 4) trans. by H. H. Wilson Vol. III, P. 319.
२. Rāmāyaṇa-uttara, Chs, 101, 114, Lassen-J. A. S. B. 1840, P. 476.
३. Penkalaltis (Pukkalaoli-Pali; Puskalavati Skt.) which is also of great size and not far from the Indus.
M'crindle's–Megasthenes & Arrian. P. 184.
४. औपधेनवमौरभ्रं सौश्रुतं पौष्कलावतम्। शेषाणां शल्यतन्त्राणां मूलान्येतानि निर्दिशेत्॥ सुश्रुते. सू. स्था. अ. ४
५. Sanskrit-Wortlbuch Vol. I, P. 112; by O. Bo htlingk & R. Roth.
६. (a) Essays on the Religion of the Parsis by M. Hang P. 268.
(b) Zendavesta Part I (S. B. E. Vol. IV) P. LXX by J. Darmesteter.
७. Zendavesta Part I (S. B. E. Vol. IV) P. 226-27, J. Darmesteter.
उपोद्घातः १४९
शल्यप्रस्थानाचार्यस्य सुश्रुतसतीर्थ्यस्य करवीर्यस्य शब्दतः कार्यतश्च सन्निकर्षेण काचन आभा उदेति। भारतीयपूर्वाचार्यकृतो निर्देशो बाह्लीकभिषजः काङ्कायनस्य भारतेन परिचयमिव, वेन्दिदादनिर्देशो भारतीयाचार्याणां दिवोदाससुश्रुतकरवीर्याणामिरानेन परिचयमभिव्यञ्जयति किमु ?। अवेस्तायां भारतीयशब्दविषयादीनां साम्यं पूर्वमुक्तमेव। तद्वद्भैषज्यानुसन्धानेऽपि—
| अथर्ववेदे | अवेस्तायाम् | अर्थः |
|---|---|---|
| तक्मन् | तफ्नु | ज्वरः |
| अप्वा | अजह्नु | अपवाहः |
| पामा (सुश्रुतेऽपि) | पामन् | चर्मरोगः |
| शीर्षक्तिः | सारस्त्य | शिरोरोगः |
| सारणः | सारन^१ |
एवं कुरुघ (दुष्टव्रण), दुरुक् (अश्मरी), अघोस्ति (शीर्णास्थि), दञ्जु (ज्वर) र इत्यादिशब्देष्वपि कुरुक्, दृषत, ..... ऽस्थि, दाह इत्यादिसंस्कृतशब्दापभ्रंशता प्रतीयते। अन्येष्वपि शब्देष्वनुसन्धाने बहुशः साम्यं प्रतिच्छाया वोपलक्ष्येत। अवेस्तायां मानसं शारीरकं चेति द्विधा^२ स्वास्थ्यं वर्ण्यते। सुश्रुतेऽपि 'पुनश्च द्विविधाः शारीरा मानसाश्च' (सू. स्था. अ. २४) इति द्वैविध्योल्लेखोऽस्ति। अवेस्तायां मन्त्र (मन्त्र), उर्वर (उर्वीरूह), केरेत (कर्तिका, कर्तरी, करपत्रं वा) इति मन्त्रवनस्पत्योषधिशस्त्ररूपास्त्रयो रोगनिवर्तनोपा^३याः कीर्तिताः सन्ति। भारतीये भैषज्यसम्प्रदायेऽपि मन्त्रौषधशस्त्ररूपास्त्रिधा प्रतीकारोपायाः पूर्वानुवृता दृश्यन्ते। अवेस्तायां 'गौकिर^४न, इति, यस्य पश्चाद्द्द्रवभाषायां 'गोकार्त' इति रूपं जातम्, तस्य सर्वप्रधानौषधिवृक्षभावेन निर्देशोऽस्ति। यः शब्दो 'गोकर्ण' इति अश्वगन्धावाचकस्य संस्कृतशब्दस्य विकृतिरिव भाति। अश्वगन्धाया आयुर्वेदेऽपि प्राशस्त्यं कीर्त्यते। सोमस्य यज्ञसम्बन्धितया ओषधिभावेन चोभयथाऽप्युपयोग उभयत्र दृश्यते। अवेस्तायां भैषज्यविज्ञानं, वैद्यः, रोगः, रोगनिवृत्त्युपाय इति भैषज्यस्य चत्वार^५: पादाः कीर्तिताः सन्ति। आयुर्वेदीयसम्प्रदायेऽपि भैषज्यविज्ञानं, वैद्यः रोगः, परिचारक इति कचन अंशो गणनीयांशनविभेदेऽपि धन्व^६न्तरिकश्यपात्रेयभेदादिभिश्चतुष्पाद-सिद्धान्त उपवर्णितोऽस्ति। थ्रितेन अहुरोमज्दातो विषप्रतीकाराय 'विसचित्तं', शल्यचिकित्सार्थं सौवर्णाग्रच्छुरिका च लब्धे इत्युप^७वर्ण्यते। विसचित्तमिति शब्दे 'विषचिकित्सा विषकृत्यं वा' अस्य शब्दस्य छायेव प्रतिभाति। भारतीये सम्प्रदायेऽपि
१. सारणसारनशब्दयोरानुपूर्वीसाम्येऽपि वैदिकस्य अतीसारबोधकतया, अवेस्तागतस्य शिरोरोगबोधकतया निर्देशेन अर्थभेदो दृश्यते।
२. E. R. E. Vol. IV P. 758 by L. C. Casartelli.
३. Ibid Vol. IV P. 758 by L. C. Casartelli.
४. (a) Zendavesta Part I (S. B. E. Vol. IV), P. 227. (b) E. R. E. Vol. IV P. 758 by L. C. Casartelli.
५. It is curious to remark that Hindu medical science also distinguished the four feet (Pada) of medicine. which, however, were reckoned as the physician, disease, medicine, the nurse; while Hippocrates has a threefold division. (de morb, Vulg. i. 1.)
E. R. E. Vol. IV P. 759 by L. C. Casartelli
६. सुश्रुते—वैद्यो व्याध्युपसृष्टश्च भेषजं परिचारकः। एते पादाश्चिकित्सायाः कर्मसाधनहेतवः ॥ सू. स्था. अ. ३४
काश्यपीये—भिषक्, भेषजम्, आतुरः, परिचारक इति। पृ. ३७ चरके—भिषग्द्रव्याण्युपस्थाता रोगी पादचतुष्टयम् ॥ सू. स्था. अ. ९
७. (a) As Khshathravairya presides our metals it was a knife he received, 'of which the point and the base were set in gold'. He was therefore the first who healed with knife, as well as the first who healed with herbs. Zendavesta Part I (S. B. E. Vol. IV), P. 227.
(b) E. R.E. Vol. IV, P. 758.
| १५० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
कर्णवेधे सौवर्णसूच्याः, चूडाक्षुरकर्मणि सुवर्णसम्पृक्तक्षुरस्य उपादेयत्वं लभ्यते। सुश्रुते शल्यचिकित्साशास्त्रोपवर्णने ‘तानि (शस्त्राणि) प्रायशो लौहानि भवन्ति’ इत्युक्तमस्ति। यस्य व्याख्यायां ‘लोहाः पञ्च सुवर्णादयः’ इति सुवर्णप्रमुखभावेन निर्देशोऽस्ति। एवं दर्शनेन तदीयप्रथमवैद्यस्य त्रितस्याऽप्याचार्यभावेन निर्दिष्टस्यावबोधके क्षथ्रवैर्यशब्दे करवीर्य-क्षेत्रवीर्य-क्षतवीर्येत्यादिभारतीयसंस्कृतच्छायाया दृश्यमानतया भारतीयसम्प्रदाये ज्ञायमानः करवीर्योऽन्यो वाऽज्ञायमानः कश्चन भारतीयो भिषगाचार्य इव स प्रतिभाति॥
तूङ्गाङ्गतहार्नलोपलब्धप्राचीनलेखे जीवकाय बुद्धेन कृते भैषज्योपदेशे पूर्वं (पृ. २८) निर्दिष्टे संस्कृतेन सह प्राचीनेरानभाषानुवादस्याप्युपलम्भो भारतीयभैषज्यविषयस्य प्राचीनेराने ग्रहणमादरं स्वभाषायामनूद्यापि प्रचारं च दर्शयति॥
अवेस्तायां भैषज्यप्रस्थानोद्भावकत्वेन थ्रितस्य, रोगनिवृत्तेः प्रार्थनाकर्तृतया थ्रैतानस्य निर्देशेन, वेदेऽपि त्रितस्य त्रैतनस्य चोपलम्भेन वेदे अवेस्तायां च निर्दिष्टौविमौ शब्दसामीप्यादेकौ स्यातामिति बहूनां विदुषां$^१$ दृष्टिरस्ति। ऋग्वेदे त्रैतनस्य सकृदुल्लेखेऽपि जिघांसया दीर्घतमतृषिं जलाग्न्योः पातयतस्तदङ्गच्छेदकस्य दासजातीयस्य भावेन$^२$ निर्देशदर्शनादश्विभ्यां भूयो रक्षितस्यापि दीर्घतमस ऋषेः प्रतिपक्षः कश्चन विपक्षः स त्रैतन इति प्रतीयते; परं नास्य भैषज्यसम्बन्धो वैदिकाल्लेखाल्लभ्यते। त्रितस्य ऋग्वेदेऽथर्ववेदे च बहुश उल्लेकखेऽपि क्वचन त्रितशब्दोऽग्न्यादिदेवताविशेषपरत्वेन व्याख्यातोऽस्ति। यत्र मानवभावावबोधकः स शब्दोऽस्ति तत्र क्वचन सूक्तद्रष्टृषिभावेन त्रितस्योपलम्भोऽस्ति। बृहद्देवतायां यास्कनिरुक्तेऽपि ऋषित्वमुल्लिखितमस्ति। ईदृशेषु स्थलेषु त्वर्थान्तरमेव। यत्र तु वेदे ‘आप्यः आप्त्यः त्रितः’ अवेस्तायाम् ‘आथ्व्यः थ्रितः’ इति शब्दतो बहुशः साम्यं दृश्यते, तत्र परिवेदनदुःस्वप्नस्वर्णकारमालाकारादिदुष्कृतमार्जनस्थानत्वेनापि त्रितस्योल्लेख$^३$दर्शनेन वैदिके सम्प्रदाये हेयभावेन गृहीततया सुराणामसुर इव त्रितेऽपि विपक्षभावोऽवबुध्यते। त्रितस्य थ्रितस्य चैकत्वे वैदिकाश्विनभैषज्यसम्प्रदायस्येव इरानीयरूय थ्रितभैषज्यसम्प्रदायस्यापि समयो विशेषेणोपर्यरारोहति। किन्तु त्रिते भैषज्यविषयसम्बन्धो न क्वापि वेदे दृश्यते। तैत्तिरीयसंहितायामेकत्र (१. ८. १०. २) आयुष्यदातृतया त्रितस्य प्रार्थनोपलम्भेन वैदिके त्रितेऽपि भैषज्यसम्बन्धो दृश्यत इति मार्टिन विदुषा$^४$ कथ्यते, तथाऽपि तत्र त्रितशब्दस्य अग््न्यर्थकत्वेन व्याख्याततया राजसूयप्राकरणिकतया च प्रकृते त्रिते भैषज्यविषयसम्बन्धस्ततोऽपि न स्फुटीभवति। विचारणीयोऽयं तर्कविषयः॥
औरणशब्दो हि उरणस्यापत्यमिति उरणे भव इति वाऽर्थमादाय व्यक्तिविशेषस्य देशविशेषस्य वा वाचकादुरणशब्दात्रिष्पन्नः स्यात्। उरणव्यक्तिः उरणदेशो वा प्राग्भारते न ज्ञायते। उरणशब्द उरणशब्दश्च मेषावबोधकतया प्रसिद्धौ, वेदेऽप्युपलभ्येते। सिन्धौ संगच्छन्त्या ऊर्णावत्या नद्या वेदेऽप्युल्लेखोऽस्ति। गान्धारे तदुत्तरदेशेषु च मेषप्राचुर्यं पुराऽपि कीर्त्यते। तत्राचुर्यसम्बन्धेनैव स्यात् नद्या अपि ऊर्णावतीति नाम निरुच्यते। ‘अध्वर्यवो य उरणं जघान’ इति ऋङ्मन्त्रे (२.१४.४) इन्द्रेण हतस्य उरणनामकस्यासुरस्योल्लेख उपलभ्यते। बेबिलोनदेशस्य प्राचीननगरेष्वेकम् ‘उर’ नामकं नगरमनुश्रूयते। यत् चाल्डियनानां समये अब्राहमस्य प्रधानस्थानं, सुमेरियनानां B. C. 3000 पूर्वसमये सेमेटिकसत्तायाः प्रारम्भे सारगानवंशजानन्तरम् ‘उरगुर’ नाम्नः ‘उर एन गर’ नाम्नो वा नृपस्य समये उरनगरं प्रधानं, बाबिलोनसमयस्यान्तपर्यन्तं धार्मिकवाङ्मययोर्विषययोः प्रसिद्धतरं चासीत्। उरनगरे प्राचीनस्य ‘उ$^५$र नम्मु’ (Ur Nammu B. C. 2300-2200) नामकस्य ‘बर्सिन’ (Bursin) नामकस्य च नृपस्य शिलालेखौ प्राप्तौ। असीरियन्प्रदेशीयपूर्वजातयः असुरत्वेनाभ्युपगम्यन्ते। इन्द्रेण हत
१. Essays on the Religion of the Parsis by M. Hang, P. 277-78.
२. ऋक् १. १५८. ३
३. ऋक् ६. ४७. १४-१५। अथर्व ६. ११३. १/६. ११४. ३/१९. ५६. ४
४. Essays on the Religion of the Parsis by H. Hang. P. 277-78.
५. Babylonian Life and History P. 221-23 by E. A. Wallis Budge.
उपोद्घातः | १५१
उरणस्तद्देशीयः सम्भावयितुं शक्यते । उरशब्दस्य उरभ्रदिशब्देष्वनुगमस्तद्देशसम्बन्धसूचनाय चेतः संशाययति । उरप्रदेशे भारतीयशालवृक्षकाष्ठमुपलब्धमासीदिति ए. सी. दा^१सो वर्णयति । तद्देशवाचकस्य उरशब्दस्य सम्बन्धेन उरभ्रशब्दो निष्पन्नश्चेत् काङ्कायनेन बाह्लीकप्रदेश इव दिवोदासशिष्येणोरभ्राचार्येण उरप्रदेशोऽपि उपुरक्षितः किमु इति तर्कणास्थानमुदेति ॥
गोपुररक्षितनाम्ना निर्दिष्टौ गोपुरो रक्षितश्चेति द्वावाचार्यौ केचन मन्यन्ते । केचन समष्टिनाम्ना व्यवहृत एक एवेति मन्यन्ते । दाक्षिणात्यशिल्पग्रन्थे गोपुरस्य निर्देशात् दाक्षिणात्यदेशेषु गोपुरस्याद्यापि विशेषतः प्रसिद्ध्या च गोपुरनाम्ना व्यवहृत आचार्यो दाक्षिणात्योऽपि भवितुं सम्भवति । किन्तु महाभारते रामायणेऽपि गोपुरस्य पुरद्वारार्थकस्योपलम्भेन एतावतैव देशनिर्धारणं कर्तुं न शक्यते । किंवा गोपुरमिव अज्ञातनगरान्तरस्य सम्बन्धेन व्यवहृतो गोपुररक्षितोऽपि सम्भवति ॥
प्राचीनो भोजदेशः कान्यकुब्जदेशगतभागीरथ्या दक्षिणे तटे पञ्चदशषोडशक्रोशान्तराले आसीदित्यु^२पवर्ण्यते । दिवोदासान्तेवासी भोजाचार्यो भोजदेशसम्बन्धमादाय तन्नाम्ना व्यवहतः सम्भवति ॥
उपधेनोरपत्यसम्बन्धमादाय औपधेनव इति निष्पद्यते । औपधेनव नामाचार्योऽन्यत्र नोपलभ्यते । किन्तु उपगोरपत्यमौपगव इति पाणिनीयसूत्रोदाहरणे महाभाष्यकृता उपग्वपत्यरूपेण औपगवो निर्दिष्टोऽस्ति । विष्णुपुराणे मिथिलागृपतेः सीरध्वजस्य भ्रातुः काशिराजस्य कुशध्वजस्य वंशोद्भव एक उपगुर्लभ्यते । उपगुर्नाम वशिष्ठगोत्रोद्भव ऋषिविशेषोऽपि लभ्यते । औरवकौत्सनृपतिपुरोहितस्य सौश्रवस उपगोराख्यानं पञ्चविंशब्राह्मणे (१४. ६. ८) दृश्यते । औपगवेर्यूनश्छात्रा औपगवीया इति महाभाष्यकृता (४. १. ३. ९०) लिखिततया छात्रसम्प्रदायप्रवर्तकत्वमौषगवस्यावगम्यते । सोऽयं प्रसिद्ध औपगव एव औपधेनवः किमु ? पर्यायशब्दैरपि पूर्वेषां क्वचन व्यवहारो दृश्यते । कोऽयमौपधेनवः कुत्रत्यश्चेति न निश्चीयते ।
ईदृशास्तर्का दृढप्रमाणपर्येषणामन्तरेण न किमपि निश्चाययितुं प्रभवन्ति । तदपि दर्शितेन पथा तर्कितानीमान्याचार्यनामानि भारते तत्र तत्र प्रदेशेष्विव बहिर्दूरदेशेष्वपि धान्वन्तरसम्प्रदायालोकप्रसरणे द्वारसद्भावं सम्भावयन्ति । एवन्न्यायेन न केवलं धान्वन्तरसम्प्रदायस्यैव, किन्तु विभागान्तरीयभैषज्यविज्ञानानामप्यालोकस्य परितः प्रसरणाय द्वाराणि भवेयुः । किमन्यत्, ऋग्वेदोऽपि प्रयुज्यमानस्य वैद्यवाचकस्य भिषक्-शब्दस्य औषधवाचकस्य भेषज-शब्दस्य च विकृतमाकारं स्फुटमवबोधयन्तौ बिजिष्क (Bejishke) बेषज (Beshaj) शब्दौ इरानदेशीयपर्शुभारतीयभाषायां, बिझिष्क (Bzhishk) बेझष्क (Bzhshkel) शब्दौ अर्मिनियन्भाषायामप्युपलभ्येते इति पूर्वं (पृ. ७६) निर्दिष्टमस्ति वैद्यौषधवाचकयोः प्रधानशब्दयोरपि एवंरूपेण पूर्वकाले दूरदेशान्तरप्रसरणेऽवगम्यमाने एतद्विद्या प्रस्थानविषयाणां परितः प्रसरणे न किमपि कौतुकम् । वाडेल^३महाशयेन सुमेरियन्प्रदेशीयप्राचीनमुद्रागतैः साङ्केतिकाक्षरैः कल्पितानां तद्देशीयशब्दानां भारतीयशब्दानां च
| वृगु-भृगु. | सख-शक्र. | गुधिया-गाधि. |
| वर्गव-भार्गव. | इन्दुरु-इन्द्र | सुसिन-सुषेण. |
| गुर्गु-गर्ग. | अस्सि-अश्वि. | एमद्गल-मुद्गल. |
| हनक-जनक. | गल्ह-गालव. | उर्वस-हर्यश्व. |
एवंदिशा बहुशो बिम्बानुबिम्बभावेन साम्यं सम्भावितमस्ति । किं बहुना धन्वन्तरिदिवोदासयोरपि तत्रोद्भावनं कृतम् । तद्गतपूर्वनृपादीनामिशीवीयाब्दारम्भतः उपद्वित्रसहस्रवर्षपूर्वत्वं च दर्शितमस्ति । शालिहोत्रीये पूर्वं (पृ. १२) निर्दिष्टे आयुर्वेदशास्त्रकर्तृनिर्देशे गालवस्योल्लेखेन, चरकोपक्रमग्रन्थेऽप्यायुर्वेदप्रवर्तकाचार्येषु तन्नामोपलम्भेन च गालवोऽप्यायुर्वेद-
१. Rigvedio India by A.C. Das P. 216-19.
२. Geographical Dictionary of Ancient and Mediaeval India. by Nundo Lal Day. P. 33.
३. Indo—Sumerian Seals deciphered. Makers of civilization in Race and History. by L. A. Waddell.
११ का.सं.
१५२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
विद्यायामाचार्यभावेनावगम्यते । गालवस्य काशिराजदिवोदाससङ्गमो मारीचकाश्यपाश्रमद्रष्टृत्वं च महाभारतोक्तमपि पूर्वं (पृ. १७) निर्दिष्टमेव । तस्य गालवस्य अश्वलिप्साप्रसङ्गेन इतस्ततो दूरेऽपि पर्यटनं महाभारतलेखादायाति । सुमेरियन्प्रदेशीयपूर्वमुद्रादृष्टो गल्हो नाम गालव इति वाडेलमहाशयेन सम्भाव्यते । मुद्गलमौद्गल्यादीनामपि भारते वैद्याचार्यतयोपलब्धिरस्ति । सुमेरियन्प्रदेशीये एमद्गले ‘अजू’ इति वैद्यविद्याज्ञानावबोधकं विशेषणमस्तीत्यपि वाडेलमहाशयेनोच्यते । यदि गल्ह-गालवयोः, एमद्गल-मुद्गलयोरैक्यं भवेत् तदा भारतीयायुर्वेदविद्याचार्यैः सुमेरियन्प्रदेशोऽप्युपरञ्जितः सम्भवेदिति वितर्कोऽप्युदेतुं शक्नोति । परमतिप्राचीनविषयतया प्राचीनमुद्राक्षराणामपि ऐकमत्येनानिश्चिततया तदीयेषु सम्भावितगालवजनकधन्वन्तरिदिवोदासादिषु भैषज्यवेत्तृत्वादेर्विषयस्यानुपलम्भेन च पूर्णतयाऽनुसन्धानं विना नैतावन्मात्रेण प्रकृते याथातथ्येन न किमपि वक्तुं शक्यत इत्यास्तां तावदेतत् । अस्यां काश्यपसंहितायां भोजनकल्पाध्याये (पृ. २०६) सात्म्याशनप्रसङ्गे काश्मीरचीनापरचीनादिभिः सह बाह्लीकदासेरकशातसाररामणदेशानामप्युल्ले खोऽस्ति । दासेरकदेशो मालवाप्रान्तीय इति कैश्चिदुच्यते । परं महा२भारतेऽनेकस्थलेषु दासेरकोल्लेखे मालवस्य पृथगुल्लेखदर्शनेन मालवदेशादन्य एव स देश इति ततः प्रतीयते । शातसारः को देश इति च न प्रतीयते । तथाऽपि बाह्लीकरामणदेशसाहित्येन दासेरकशातसारयोरपि तत्सन्निकृष्टदेशविशेषत्वमनुमीयते । रामणदेशस्तु अरमेनिया (Armenia) देश३ इति निरूपितोऽस्ति । रामणपर्वतस्योल्लेखो जेन्दावस्तायामप्यस्ति । म.४भारते उत्तरीयनानाजातीनां निर्देशे हूणपारसीकचीनादिभिः सह रमणजातीनां, निषधस्योत्तरतो रमणवर्षस्य निर्देशश्च दृश्यते । एवमुल्लेखदर्शनेन अरमेनियाप्रदेशपर्यन्तमपि भारतीयपूर्वाचार्याणां परिचय आसीदित्यनुमातुं शक्यते । अलेक्जेण्डरेण सह नीतानाम्, अशोकसमये इतस्ततः प्रेषितानां च विदुषां कानि नामानीति इतिहासो निगूहते । ‘यिशुखृष्टस्य समये मिश्रदेशे ‘थेराप्यूत’ नाम्ना प्रसिद्धाः केऽपि विरक्ता भिक्षुवृत्तय आसन् । येषां शिक्षाप्रभावो यिशुखृष्टेऽपि पपात । इमे पूर्वदेशाभिजनाधर्मोपदेशेन साकं चिकित्सामपि कुर्वाणा आसन् । येषां नाम्ना पाश्चात्यचिकित्साशास्त्रे ‘थेराप्यूटिक्स’ नामको विभागविशेषोऽस्ति । एषां थेराप्यूतानां जीवनं भारतीयथेरो (स्थविर) भिक्षूकाणामिवासीत् । अशोकसमये पाश्चात्त्यप्रदेशेषु गतानां भिक्षुकाणां चिकित्सकानां च सन्ततय एते भवेयुः’ इति भारतेयेतिहासग्रन्थे जय५चन्द्रविद्यालङ्कारो वर्णयति । पोकाकम६हाशयोऽप्येवमेव निरूपयति । देशान्तरीयेतिहासेष्वपि कति निलीना भवेयुः । देशान्तरेतिहासगतान्यपि कति भारतीयनामानि देशान्तरभाषासु बहुशो विकृत्या अपरिचयभावमापद्य तद्देशीयव्यक्तिनामानीव प्रतीयमानानि स्युः । यथा हि कलोनस (Kalanos) नाम्नाऽभिहितो भारतीयः कल्याण इति विवेचकैर्निरूप्यमाणः स एवायमिति परिचीयते । एवंभावेन बहुशो विकारैर्विवेचकदृशो बहिर्भावेन च भारतीय अपि अपरिचयभावेन देशान्तरीया इव प्रतीयमाना इतिहासगर्भंगता भवेयुः । कतिपयेषु जायमाना सदसती प्रत्यभिज्ञासम्भावनाऽपि विचाराय दृशः प्रेरयति ॥
१. Daseraka—Malwa, Geographical Dictionary of Ancient & Mediaeval India, P. 54; by Nundo Lal day.
२. भीष्मपर्वणि ११७, १३२-३३ । द्रोणपर्वणि ११, १६-१७ ॥
३. (a) Rāmanīyaka—A pleonastic form of Rāmanīya, that is Armenia (Mbh. Adi-Ch. 26.) P. 166. The Geographical Dictionary of Ancient & Medieval India. by Nundo Lal Day.
(b) Ramana Mount (going forwards the East) P. 288. Zendavesta Part II (S. B. E. Vol. XXIII)–J. Darmesteter.
४. उत्तराश्चापरे म्लेच्छाः क्रूरा भरतसत्तम् । यवनाश्चीनकाम्बोजा दारुणा म्लेच्छजातयः ।।
सकृद्ग्रहाः कुलत्थाश्च हूणाः पारसिकैः सह । तथैव रमणाश्चीनास्तथैव दशमालिकाः ।।—भीष्मपर्वणि ९ अध्याये.
दक्षिणेन तु श्वेतस्य निषधस्योत्तरेण तु । वर्षं रमणकं नाम जायन्ते तत्र मानवाः ।।—तत्रवै ८ अध्याये.
५. भारतीय इतिहास की रूपरेखा भाग २ पृ. ५९६.
६. ‘India in Greece’ by Pococke.
उपोद्घातः १५३
चरकसुश्रुतकश्यपभेदादीनां प्राचीनग्रन्थेषु गृहीतनाम्नां पूर्वाचार्याणामन्येषामपि नामान्येकैकश उपादाय यथावत्रिर्वचनं, पर्यालोचनं, विषयानुसन्धानमपि आयुर्वेदीयपूर्वावस्थाया देशतः कालतः स्वरूपतोऽपि विवेकाय यं कमपि सालोकं मार्गमुपदर्शयेदेव, किन्तु विस्तरभयादिदानीमेतावत्तैवोपरम्यते ॥
वैदिकसाहित्यमूलकं भारतीयभैषज्यसमर्थनम्
वैदिकसाहित्ये मान्त्रिकप्रक्रियाया उपलम्भेऽपि केवलभेषजप्रक्रियाया अपि नाल्पा न वा साधारणाः, अपि तु असाधारणा बहुशो विषया ऋग्वेदेऽपि दृश्यन्ते; अथर्ववेदे तु शारीरकाणि औषधयः शस्त्रवैद्यकविषया रोगनिर्देशा रोगोपचाराश्चेत्येतादृशा भैषज्यविषया ओताः प्रोताश्चेति पूर्वं (पृ. ५-७) निर्दिष्टमेव । षष्ट्यधिकत्रिशतास्थि¹ज्ञानं शतसहस्रशः सिरा² (हिरा) धमनीनां पौर्वकालिकं ज्ञानं मन्त्रलिङ्गादपि स्फुटीभवति । शत³पथब्राह्मणेऽप्यस्थ्नां षष्ट्यधिकत्रिशतानां वर्णनमस्ति । वैदिकां यागप्रक्रियायां पाशुकविभागे न केवलं पशूनां, मनुष्याणामपि मेधेषु तत्तदवयवानां पृथक्करणं विनियोजनं च दृश्यमानं तद्विषयकं विज्ञानविशेषं व्यनक्ति । वपाहृदयाद्युद्धरणे हस्तकौशलमपि विज्ञानवर्धकमभ्यासं दर्शयति । 'अथर्ववेदस्य दशमकाण्डद्वितीयसूक्ते शारीरकास्थानामानुक्रमिकं समीचीनं च वर्णनं लभ्यते । वेदकालिकैर्भारतीयैः प्रथमं शरीरस्य शारीरकविज्ञानस्य च मिथः सम्बन्धमावहन्तो विषयाः परिज्ञाता आसन्' इति वैदिकविषये वैदुष्यवद्व्र्यां कीथम्याकडोनलमहाशयाभ्यामपि लिखितमस्ति ॥
ऋगथर्वयजुर्मन्त्रलिङ्गतो विशेषतो बह्नीनामोषधीनां ज्ञानं विनियोगश्च पूर्वं दर्शित एव विकृतभग्नाद्यवयवानां रोहणसन्धानाद्यर्थमोषधीनां प्रार्थनाऽथ⁵र्ववेदे दृश्यते । ऋग्वेदे सोमस्य ओषधिराजत्वेन वर्णनमपि बहुश उपलभ्यते । सौमिकी याज्ञिकप्रक्रिया यदा प्रवृत्ताऽऽसीत् तया साकमेव सोमस्य प्रधानौषधिभावेन परिज्ञानं दृश्यते । अश्विनोर्देवभिषग्भावं सोमाश्विनयोर्घनिष्ठं सम्बन्धं च बहुशो मन्त्रलिङ्गानि गमयन्ति । सुश्रुतेऽपि सोमस्यौषधिभावेन बहुशो निर्देशोऽस्ति । सोमस्ययाज्ञिक्यां संस्थायां भेषजसंस्थायां च सम्बन्धविशेषावगमोऽप्येतद्विद्यायाः प्राचीनतरत्वं दर्शयति । अथर्विणि कुष्ठौषधवर्णनसूक्ते⁶ कुष्ठस्य इक्ष्वाकुकाम्यवसैः पूर्वकाले परिज्ञानस्य निर्देशदर्शनेन ओषधिविशेषाणामन्वेषणं परिज्ञानं च पूर्वकालादेव बहूनामासीदित्यपि मन्त्रलिङ्गतो लभ्यते नैतावदेव, वेदमन्त्रः सहस्रश ओषधीनां शतशो भिषजां च तादात्विकीं प्रज्ञप्तिमप्युद्गिरति । न केवलं वेदाकाल एव, अपि तु त्रियुगात् पूर्वमप्योषधिपरिज्ञानमासीदिति 'या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा' इति वैदिकादेव मन्त्रलिङ्गाद् दृश्यते ॥
१. द्वादश प्रधयश्चक्रमेकं त्रीणि नभ्यानि क उ त तच्चिकेत । तत्राहतास्त्रीणि शतानि शङ्कवः षष्टिश्च कीला अविचाचला ये ॥ अथर्व. १०. ८. ४
२. शतस्य धमनीनां सहस्रस्य हिराणाम् । अस्थुरिन्मध्यमा इमाः साकमन्ता अरंसत ॥ अथर्व. १. १७. ३ इमा यास्ते शतं हिराः सहस्रं धमनीरुत । तासां ते सर्वासा महमश्मना विलमप्यधाम् ॥ अथर्व. ७. ३६. २
३. शतपथे १२. १. ३ । १२. ३. २ ।
४. The interest of the Vedic Indians seems early to have been attracted to the considerations of questions connected with the anatomy of the body. Thus a hymn of the Atharva Veda (X. 2) enumerates many Parts of the body with some approach to accuracy and orderly arrangement'. F. I. O. C. Prceedings Vol. II. P. 415.
५. सं ते मज्जा मज्ज्ञा भवतु समु ते परुषाः परुः । सं ते मांसस्य विस्रस्तं समस्थ्यपि रोहतु ॥ मज्जा मज्ज्ञा सं धीयतां चर्मणा चर्म रोहतु । असृक् ते अस्थि रोहतु मांसं मांसेन रोहतु ॥ लोम लोम्ना सं कल्पया त्वचा सं कल्पया त्वचम् । असृक् ते अस्थि रोहतु छिन्नं सं धेह्योषधे ॥ अथर्व. ४. १२. ३. ५
६. यं त्वा वेद पूर्व इक्ष्वाको यं वा त्वा कुष्ठ काम्यः । यं वा वसो यमास्यस्तेनासि विश्वभेषजः । अथर्व. १९. ३९. ९
१५४ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
किञ्च-वैदिक्यां नक्षत्रेष्टौ शतभिषङ्नामकस्य नक्षत्रस्य याज्यानुवाक्यात्तैत्तिरीय¹मन्त्रयोः वरुणस्य शतभिषङ्नक्षत्रस्य च शतश ओषधीर्निष्पाद्य आयुष्यकारकत्वादिकमुपवर्ण्यते। तेनास्मान्मन्त्रलिङ्गाच्छतशो भेषजानां दातृतयाऽस्य नक्षत्रविशेषस्य तन्नाम्ना व्यवहारः पौर्वकालिकोऽवगम्यते। तत्रैव ब्राह्मणवाक्यान्तरे असुरप्रहारशतस्य चिकित्सनेन देवानामारोग्यलब्धिर्यस्मिन्नक्षत्रे बभूव स एव शतभिषगिति निर्वचना²न्तरमपि सूचितमस्ति। कृत्तिकादिनक्षत्रकालो गणनयाऽप्यतिप्राचीनः। तेष्वेकतमनक्षत्रवाचकस्य शतभिषक्छब्दस्य वैदिके समयेऽपि निरूढस्यानुसन्धाने तावताऽपि शतसहस्रश ओषधीनां तदुपयोगानां ततो लाभानां चावगमोऽतिपूर्वकालादेवासीदिति प्रतीयते॥
आध्यात्मिकप्रक्रियायामुपनिष³द्वापि नाड्यादीनां विज्ञानं लभ्यते। योगमार्गेऽपि शारीराणां प्राणवहानां सूक्ष्माणामपि नाडीनां बहुशो विज्ञानं यथाकाममान्तरवायोः सञ्चारणनिरोधनादिकौशलं च लभ्यते। तान्त्रिक्यां पद्धत्यामपि षट्चक्रभेदनं तत्तत्स्थानेभ्यो वर्णानामुत्पत्तिविभावनं, मूर्धभागे कर्णाक्षिनासिकादिसम्बन्धिनीनां तत्तदैन्द्रियकादिविज्ञाननाडीनामनुसन्धानं ज्ञानवहनाडीनां केन्द्रस्थानीये गुरुपदे कुण्डलिनीतः समुत्थापिताया जीवशक्तेः संयोजनेन लाभास्वादनमित्यादयः सूक्ष्मा आन्तरविज्ञानविशेषा अन्तर्मुखीं विशेषसंविदमवभासयन्ति। महेञ्जोदारोभूगर्भोपलब्धयोगमूर्तीनां विन्यासवैशिष्ट्यमपि यौगिकान्तःक्रियाविज्ञानकौशलं प्राचीनतरं साधयति। व⁴सन्त जी. रेले (V. G. Rele) महाशयेन वैदिकमन्त्रानवलम्ब्य आन्तरनाडीचक्रादीनां तत्तदधिष्ठातृदेवतादीनां च विषयेषु बहुशः प्रकाश उद्भावितोऽस्ति॥
याज्ञवल्क्य⁵स्मृतौ योगसम्बन्धेन शरीरोत्पत्तिप्रदर्शने सविवरणानि षष्ट्यधिकत्रिशतास्थीनि प्राणायतनानि सप्तशतसिरानवशतस्नायून् द्विशतधमनीः पञ्चशतपेशीः केशरोमाणि रसादिपरिमाणानि हृदयनिर्गता द्वासप्ततिसहस्रनाडीश्च निरूप्यैतद्विज्ञानं योगोपयोगितया निर्दिष्टमस्ति। रामायणमहाभारतादिष्वपि शस्त्रवैद्यकादिविषयोऽस्तीत्युक्तमेव। कौटिलियेऽपि शस्त्रवैद्यकादिसम्बन्धिनो विषया बहुशो लभ्यन्ते। तत्र चतुर्थे औपनिषदाधिकरणे परघाताद्भुतोत्पादनभैषज्यमन्त्रयोगस्वबलोपघात-प्रतीकारसम्बन्धिनो बहुश ओषध्यादीनां प्रयोगा अपि सन्ति॥
वेदः खलु सांसारिकेषु सर्वसाहित्येषु वरिष्ठः सम्मन्यते लोकैः। प्राचीनतमहिताइटीमित्तानीजात्योर्मिथः सन्धिशिलालेखे नासत्यमित्रवरुणेन्द्रादिवैदिकदेवतानां साक्षितयोल्लेखस्य पूर्वं (पृ. ७२) निर्दिष्टस्यानुसन्धाने तदात्वे स्वप्रतिज्ञापालने साक्षितया
१. (क) क्षत्रस्य राजा वरुणोऽधिराजः। नक्षत्राणां शतभिषग्वसिष्ठः। तौ देवेभ्यः कृणुतो दीर्घमायुः। शतं सहस्रा भेषजानि धत्तः। (अनुवाक्या)
सायनः ...... तौ वरुणशतभिषजौ देवेभ्यो देवार्थं यजमानस्य दीर्घमायुः कृणुतः। तत्सिद्ध्यर्थं शतं शतसंख्याकानि सहस्रसंख्याकानि च भेषजान्यौषधानि धत्तः सम्पादयतः॥
(ख) यज्ञं नो राजा वरुण उपयातु। तन्नो विश्वे अभि संयन्तु देवाः। तन्नो नक्षत्रं शतभिषग्जुषाणम्। दीर्घमायुः प्रतिरद्वेषजानि॥ (याज्या)
सायनः ..... शतभिषागाख्यं तन्नक्षत्रं नोऽस्मभ्यं दीर्घमायुश्चिरकालमायुष्यं भेषजानि तदर्थान्यौषधानि च प्रतिरत् प्रकर्षेण ददातु॥ तैत्तिरीयब्राह्मणे ३. का. १. प्र.
२. यच्छतमभिषज्यन् तच्छतभिषक्॥ तैत्तिरीयब्राह्मणे १. ५. २. ९ सायनः—यस्मिन्नक्षत्रेऽसुरकृतं प्रहाराणां शतं देवा अभिषज्यन् अनायासेन चिकित्सितवन्तः तस्य शतभिषगिति नाम॥
३. शतं ह्येका हृदयस्य नाड्यस्तासां मूर्धानमभिनिःसृतैका। तयोर्ध्वमायन्नमृतत्वमेति विष्वङ्ङन्या उत्क्रमणे भवन्ति॥ कठोपनिषदि ६-१६
४. The Mysrious Kundalini-Vasant G. Rele.
The Vedic Gods as figures of Biology—Vasant G. Rele.
५. याज्ञवल्क्यस्मृतौ प्रायश्चित्ताध्याये यतिधर्मप्रकरणे। श्लो. ८४-११०
उपोद्घातः १५५
वैदिकदेवतानामुपादानदर्शनमिदं वैदिकसभ्यतायाः केवलं तादात्विकत्वं नावबोधयति, अपि तु तदात्वे तावति दूरे भाषान्तरीयजात्यरीयरीशिलालेखेऽपि वैदिकदेवतानां साक्षिभावेन निर्देशनं समुत्किरणं च दृश्यमानं वैदिकसभ्यतायाः सर्वोपरिभावेन प्रतिष्ठया प्रचारेण च सह पूर्वपरम्परयाऽनुवृत्तिं बहुपूर्वकालिकतां च दर्शयति। न केवलमेतावदेव, यौ खलु नासत्यौ भैषज्यविद्यायाः पूर्वाचार्यभावेन ऋग्वेदादिकसाहित्ये बहुशः कीर्तितौ दृश्येते, तयोरप्यत्र शिलालेखे उत्कीर्तनं भैषज्यविज्ञानस्यापि ततः प्राचीनतां ध्वनयति॥
किञ्च—वैदिकीषु यज्ञसंस्थासु अश्वमेधस्य महती कक्षा प्रतिष्ठा चासीत्। परितो नृपतीनवनाम्य स्वं गौरवं ख्यापयितुमामुष्मिकं श्रेयश्च साधयितुं वीर्यवद्भिः प्राचीनतमैरप्यनेकैराज्ञभिरेतद्यागस्यानुष्ठानं बहुशः पूर्वेतिवृत्तेषु दृश्यते। वेदकालादारभ्य प्रवर्तमानोऽयं यागोऽन्ततो वैदिकधर्मं पुनरुज्जीवयता पुष्यमित्रेणापि विहितस्तदीयं नाम सगौरवं प्रतिष्ठापयामास। समुद्रगुप्तस्य शिलालेखेऽपि यदुल्लेखः सम्मानदृशा वीक्ष्यते। सोऽयं यागः प्रायः श्रुतेः सर्वासु शाखासु संहितासु ब्राह्मणेषु श्रौतसूत्रेषु च निर्दिष्टोऽस्ति। ईदृशेऽश्वमेधे राजपरिषदि महर्षीणामग्रतः संवत्सरपर्यन्तं गीयमानासु तत्तद्गाथासु तृतीयेऽह्नि भेषजविद्याख्यानं गीयमानतया आश्वलायनसूत्रे^१ शाङ्ख्यायनसूत्रेऽपि^२ निर्दिष्टमुपलभ्यते। अश्वमेधे भेषजविद्याकीर्तनमासीदिति म्याक्समूलर^३ (Maxmuller) विदुषाऽप्युल्लिखितमस्ति। वेदस्य ऋग्यजुःसामाथर्वप्रथानानां शतशः सहस्त्रशश्च शाखा विभक्ताः प्रतिपाद्यन्ते चरणव्यूहकृत। कालधर्मेण बहुशः शाखानामुच्छेदेऽपि उपलभ्यन्ते अद्यापि अनेकाः शाखाः। कतिपयशाखान्तराणां श्रौतस्मार्तसूत्रादान्युपलभ्यमानानि तन्मूलश्रुतिशाखानां विलोपमप्यनुमापयन्ति। सोऽयं वेद आनुश्रविकप्रक्रियया तत्तच्छाखाविशेषरूपेण अतिपूर्वकाला-दार्याणामसंख्यमहर्षीणां वसतिषु हृदयेषु मुखेषु च ओतप्रोतां विष्वग्व्यापिनीं महनीयामात्मनः स्थितिमवबोधयति। एतादृशे आम्नायसम्प्रदाये अश्वमेधसदृशस्य महनीययागस्याङ्गतया भेषजाख्यानं गीयमानमासीत्। यत् श्रुतेरध्ययनाध्यापनप्रक्रियया, अहरहः पारायणाभ्यासररीत्या, याज्ञिककल्पप्रयोगचर्चानुष्ठानात्विज्यादिवर्त्मना च आर्षवसतिषु समन्तादुद्घोष्यमाणं सत् मन्दिराद्यवस्थितकतिपयभैषज्यसम्बन्धिलेखविषयेभ्यः कचनोपलब्धशिष्टेकादिगतभैषज्यविषयेभ्योऽन्यूनां महत्त्वं, व्यापिकां स्थितिं, वैदिकदेवताग्राहिलेखान्तरेभ्यः पूर्वप्रतिष्ठिताया वैदिकसभ्यताया उदयसहभावेनातिप्राचीनतां च भारतीयभैषज्यप्रस्थानस्य साधयति। इत्येवं नानाशाखाप्रसृतऋग्गर्थादिष्वपि बहुशोऽनुस्यूतविषयतया, यागीयप्रयोगेऽप्यन्तर्गीयमानाख्यानतया, आयुर्वेदनाम्ना वैदिकप्रस्थानविशेषेण पुराकालाद् विभक्ततया चातिप्राचीनाद्भारतीयाद्वैदिकान्मूलस्रोतः परम्परया प्रवर्तमानतया निश्चितस्यास्या भारतीयभैषज्यविज्ञानस्य पूर्वोपक्रान्तं भारतीयत्वं सुसमर्थितं भवति॥
सत्यमुक्तं कोल्ब्रुक—(Mr. Colebrooke) महाशयेन—
‘The Hindoos were teachers and not learners’ इति; तथा—‘Is not the case that the earliest elements of civilization and enlightenment have always originated in the East, and spread from the East to the West—not from the West to the East’. इति मोनियर विलियम्स महाशयेनापि॥
भारतीयभूगर्भतः प्राचीनभैषज्यदृष्टिः
यस्य भारतस्य खलु प्राचीना सभ्यता मिश्रमेसोपोटामियादिप्राचीनसभ्यताया सह संवदन्ती तामप्युल्लंघयाग्रे गन्तुमिव समीहते, तादृशस्य भारतस्य महेंझोदारोप्रदेशभूगर्भोपलब्धानां निवासस्थलस्नानागारमलप्रणाल्यादीनामनुसन्धानेदृश्यमानमाधुनिकैः स्थापत्यविद्याकुशलैरप्यभिनन्दनीयं प्राचीननिर्माणमपि पञ्चसहस्त्रवर्षपूर्वमपि भारतीयं स्वास्थ्यवैद्यकविज्ञानं पूर्णतयाऽभिव्यनक्ति।
१. अथर्वाणो वेदः सोऽयमिति यद्भेषजं निशान्तं स्यात्तन्निगदेत्। आश्वलायनश्रौतसूत्रे ४. ७
२. अथर्ववेदो वेदः सोऽयमिति भेषजं निगदेत्। शांखायनश्रौतसूत्रे १६. १
३. A History of Ancient Sanskrit Literature—F. Maxmuller P. 20. (P. O. W.)
| १५६ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
तत्रैव भूगर्भान्महच्छ्यामगोलकमप्युपलब्धम्। यदनुसन्धाने डॉ. सनाउल्लानामकेन रसायनाचार्येण डॉ. हमीदनामकेन च भिषग्वरेण च परीक्ष्य 'शिलाजतुगोलकमिदं पर्वतीयप्रदेशादत्रोपगतम्, इदं मूत्ररोगादिषु बहुषु रोगेषूपयुज्यते, औषधकर्मण्येवास्य विशेषोपयोगः इत्यादि विवरणं प्रदत्तम्। एवंविधेन परीक्षकाणां विवरणेन सह तदुपलम्भवृत्तं सर जानमार्शलमहोदयेन^१ प्रकाशितमस्ति एवं शिलाजतुदर्शनं भेषज्यविद्यायाआलोकाय उज्ज्वलं दीपकमिव प्रतिभाति। शिलाजतोरुपयोगो धन्वन्तरित्रियकश्यपादिभिरपि बहुशो निर्दिष्टः। नवनीतकेऽपि तत्प्रयोगोऽस्ति। यस्य तादृशप्रदेशे नोद्भवः अपि तु दूरतः पर्वतप्रदेशादानयनं भवति, तस्य भैषज्यायैव प्राचीनैरपि उपयोगो निर्दिष्टः। यस्य महारसायनकल्पो महिमा च गीयते भारतीये आयुर्वेदे। चिरकालभूगर्भसमाधिना विनष्टानामौषधादीनामनुपलम्भौचित्येन औचित्यवतो यस्य कस्यचिदपि विषयस्य दैवादुपलम्भस्यासाधारणत्वेनानुसन्धेयतया ईदृशस्यासाधारणौषधवस्तुनश्चिरावस्थितस्योपलम्भो भारतीयं प्राचीनवैद्यकं समुद्द्योतयति। एतावति कालान्तरे इतराणि कानि वा वैद्यकचिह्नानि उपलभ्येरन्॥
तत्रैव भूगर्भाद्ये खलु मृगा न तत्रोद्भविनः, अपि तूच्चहिमालयादिषु सम्भविनः तादृशानां शृङ्गाण्यप्यनेकंशः पुञ्जीभूतान्युपलब्धानि। आथर्वण^२संहितायां हरिणशृङ्गस्य क्षेत्रिय (क्षयकुष्ठापस्मारादि) रोगनाशनोपयोगिताया उपलम्भेन वैदिके समयेऽपि तस्य भेषजरूपेणोपादेयताऽऽसीदित्यवगमादत्रोपलब्धानां हरिणशृङ्गाणामप्यौषधार्थं सङ्ग्रहः स्यात्। हरिणशृङ्गाण्यद्यापि शृङ्गपुटाद्यौषधेषु भारतीयैरुपयुज्यन्त एव। तत्र हरिणशृङ्गाण्यौषधार्थं वाणिज्यर्थं सङ्गृहीतानि स्युरिति सर जानमार्शलमहोदयेनापि स्वाशय उद्घाटितोऽस्ति॥
तत्रदेशे बहूनि धातुमन्मयानि क्रीडनकान्यप्युपलब्धानि। काश्यपीये जातकर्मोत्तरीयाध्याये (पृ. ३१६), चरकेऽपि जातिसूत्रीयाध्याये विनोदाय बुद्धिविकासाय च नानाविधपशुपक्ष्याद्याकृतीनां बालक्रीडनकानामुपवर्णनमप्युपलभ्यते। क्रीडनफानामप्यायुर्वेदीयविषयैः सह सम्बन्धो न खल्वाश्चर्यवहः। एवमुपलम्भेन भारतीया भैषज्यविद्या इतिहासदृशाऽपि पञ्चसहस्त्रवर्षेभ्य उपरि आरोहति॥
प्राचीनतत्तद्देशभैषज्यविमर्शस्यावश्यकता
इहेदमप्यनुसन्धेयं भवति-यथा हि महेञ्जोदारोभूगर्भाद्यनुसन्धानेन पञ्चसहस्त्रवर्षेभ्यो नार्वाचीनत्वं भारतीयसभ्यतायाः स्पष्टीभवति। तथैव प्राचीनलेखवस्त्वादीनां पूर्वलक्षणानां दर्शनेन मिश्रबेब्लोनियासीरियाचीनादिदेशानामपि सभ्यता चतुःपञ्चसहस्त्रवर्षैर्वर्षीयसी निश्चीयते। पुराकालेऽपि सभ्यतासमृद्धतया लक्ष्यमाणेष्वेषु प्राचीनदेशेषु बहुशो ज्ञानविज्ञानविशेषैरपि भवितव्यम्। तत्रापि विशेषतो जीवनोपयोगिन्या व्यावहारिक्या भैषज्यविद्यया त्ववश्यमेव भवितव्यम्। समुन्नतानां प्राचीनदेशानां भैषज्यविषये आत्मीयानि पूर्वस्रोतांस्यपि भवेयुः। पेपेरीनिर्दिष्टानि पल्लीरुधिर-शूकरादिमांसमेदः-कच्छपमस्तिष्क-मनुष्यशुक्रौषधादीनि
१. 'Pieces of a coal-black substance, have been found in the DK Area and VS Areas and have long been a puzzle ...... Mr. Sanaullab, the Archaeological Chemist in India has now succeeded in identifying this substance. It is not an ink, but an ancient medicine called Silājit, which is very largely used at the present day in India as a cure for various ills. It is said to be a specific for dyspepsia, diabetes, diseases of the liver and spleen, to regulate the action of the heart and as a good respiratory stimulant and expectorant.
The analysis of this substance made by Dr. Hamid is given in Appendix I ..... It is the black Silājit which excludes from the rooks that have been found at Mohenjodaro. The localities in which it occures are the lower, central and upper ranges of the Himalayas ......'
Mohenjodaro & the Indus Civilization Vol. II-by John Marshall.
२. हरिणस्य रघुष्यदोधि शीर्षणि भेषजम्। सक्षेत्रियं विषाणया विषूचीनमनीनशत्॥ अनु त्वा हरिणो वृषा पद्भिश्चतुर्भिरक्रमीत्। विषाणे विष्यगुषितं यदस्य क्षेत्रियं हृदि॥ (अथर्व. ३/७/१-२)
उपोद्घातः १५७
भारतीयायुर्वेदसम्प्रदाये प्रायः अनुपलभ्यमानानि तदीयासाधारणपूर्वस्रोतसः प्रवृत्तानीव प्रतिभान्ति । एवमन्यत्रापि स्वस्वपूर्वसम्प्रदायागता असाधारणा अपि विषया भवेयुः । बाह्लीकभिषजः काङ्कायनस्य निदर्शनेन अन्येऽपि कति वैदेशिका भिषजो भारतीयैः, भारतीया अपि वैदेशिकैर्विज्ञाता भवेयुः । अस्यां काश्यपसंहितायां खिलभागे सूतिकोपक्रमणीयाध्याये— ‘वैदेश्याश्च प्रयच्छन्ति विविधा म्लेच्छजातयः’ इत्यत्र (पृ. ३०७) वैदेश्या विविधा म्लेच्छजातय इति सामानाधिकरण्योल्लेखेन भारताद्वहिर्भूता बहुविधा म्लेच्छजातय एतद्ग्रन्थकृताऽपि परिज्ञाता अवगम्यन्ते । म्लेच्छशब्दो महाभारतहरिवंशादिप्राचीनग्रन्थेष्वपि दृश्यते । ययातेरुपाख्याने पितुराज्ञाया अननुपालनेन तुर्वसुर्नाद्रुह्यश्च शापेन वेदबाह्यानां म्लेच्छानां वंशप्रवर्तका उल्लिखिताः सन्ति । ‘प्रत्यन्तो म्लेच्छदेशःस्यादि’ति कोशकृदुल्लेखेन भारतप्रत्यन्तदेशस्थानां म्लेच्छानामयं निर्देशः स्यात् । किं वा—पाणिनीयधातुपाठेऽपि म्लेच्छधातुरुपात्तः । महाभाष्यकृताप्तसञ्ज्ञिना ‘तेऽसुराः हेऽलयो हेऽलय इति कुर्वन्तः पराबभूवुस्तस्मान्म्लेच्छा मा भूमेत्यध्येयं व्याकरणम्’ इत्युल्लिख्य असुरा म्लेच्छतया निर्दिष्टाः । सिन्धुतटोपलब्धवस्तुषु बहुशः सङ्केतसाम्योपलम्भेन इरानियन्–असीरियन्प्रभृतिप्राचीनम्लेच्छजातीनां भारतीयानां च मिथः परिचयस्यावगत्या तदात्वे प्रसिद्धा इरानियन्-असीरियन्प्रभृतयो विशेषज्ञानवत्यो भारतबाह्या विविधा म्लेच्छजातयोऽत्र म्लेच्छशब्देनावबोधिता अपि सम्भवन्ति । सोऽयं वैदेश्यम्लेच्छवैद्योल्लेखः खिलभागगतत्वेन जीवकसमये वात्स्यसमये वा देशान्तरीयवैद्यकप्रक्रियाविशेषस्याप्यवगमेन तेन निर्दिष्टोऽपि सम्भवति । चरकेऽपि विमानस्थाने ‘विविधानि हि भिषजां शास्त्राणि प्रचरन्ति लोके’ इति लोके नानाविधभेषजशास्त्रप्रचारो निर्दिष्टः । अद्यत्वे सौरचिकित्सा-जलचिकित्सा-भैषज्यचिकित्सा-शस्त्रचिकित्सादिनानाप्रक्रियाणां प्रचारवत् तदात्वे भारतेऽन्यत्र विदेशेऽपि प्रक्रियान्तरैरपि भैषज्यप्रचारोऽवबुध्यते । वेदकालादनुवर्तमानस्य भारतीयायुर्वेदसम्प्रदायस्य भारतीयत्व एव समर्थितेऽपि कालक्रमेण भारतीयविषयाणां वैदेशिकसम्प्रदायेषु, वैदेशिकसम्प्रदायविषयाणां भारतीयसम्प्रदाये न्यूनाधिकैरंशैरनुप्रवेशः प्रतिफलनमपि सम्भवति । प्राचीननानादेशगतानां प्राचीनभैषज्यविषयाणां यथावदनुसन्धानमन्तरा तदीयं तादात्विकं भैषज्यसम्बन्धिज्ञानं किमात्मकं किमवस्थं चासीत्, स्वीयमेव तेषामसाधारणं पूर्वस्रोतः, किं वा परकीयस्रोतसोऽपि प्रतिफलिता विषया आसन् इति नैतावता सामान्यदर्शनेन किमपि परिच्छेत्तुं शक्यते । तत्र तत्र गतानामुपरिक्षाविषयाणां यथावद्विचारात् प्राक् परिच्छेददृष्टिः सम्भावनायामेव पर्यवस्यति, न पर्यन्तभूमिं प्रत्येति । प्राचीनदेशगतान् प्राचीनविषयानेकैकश उपादाय यथावदालोचनं यदि विधीयेत, तदा अस्मिन्नंशेऽनयोः सम्प्रदाययोः साम्यम्, अनयोर्वैषम्यं, समानानामेषां विषयाणामितोऽत्र प्रतिफलनम्, इमा एतदीया असाधारणाः पूर्वदृष्टय इति परिच्छेत्तुं, कोऽप्यालोक उद्भवेत् । यद्यपि प्राचीनदेशानां पूर्वपरिस्थितेर्यथावदवगमकानि पूर्वचिह्नानि कालवशाद्बहुशो विलुप्तानीति सामस्त्येन यथावदबोधो दुष्करः प्रतिभाति, तथाऽपि यान्यद्याप्यवशिष्टानि उपलभ्यन्ते, तेष्वपि विचारालोके उन्मील्यमाने किमप्यन्तः स्थितं स्वरूपं यथासम्भवं प्रकाशेत । मिश्रे प्राचीनभैषज्यसम्बन्धीनि त्वक्पत्र-रोगप्रतीकारव्यवस्थापत्रादीनि यान्युपलभ्यन्ते, असीरियायां हेर्मूर्विन्सामयिकाः शिलालेखगता भैषज्यसम्बन्धिनस्त्रयोदशलेखा उपलब्धाः, इरानीप्राचीनावैस्ताग्रन्थे वेन्दिदादस्यन्यशतप्रकरणेषु भैषज्यसम्बन्धिनो ये विषया दृश्यन्ते, सुमेरियन्देशभूगर्भनिर्गता इष्टकोत्कीर्णलेखा ब्रिटिशम्यूजियमसङ्ग्रहालये सङ्गृहीताः श्रूयन्ते, तेष्वपि भैषज्यसम्बन्धिनो विषयाः सन्तीत्युच्यते । चीनदेशेऽपि प्राचीनभैषज्यसम्बन्धिनो विषया लभ्यन्ते । गवेषणेऽन्येऽप्युपलभ्येरन् । ते नाद्यापि सम्यक्परीक्षिताः सन्ति । चतसृषु दिक्षु विचारदृशमप्रसार्य स्वस्वसाम्प्रदायिकपद्धतेरेव मौलिकत्वाभिनिवेशेन पर्यवष्टम्भे एकतः प्रवणा दृष्टिर्वास्तविक्याः परिस्थितेः परिच्छेदाय नौचित्यमावहति । तेन पूर्वेतिवृत्तैर्महेञ्जोदारादिनिर्गतपूर्ववस्तूपलम्भैः पूर्वविचारविशेषैश्च पञ्चसहस्त्रवर्षाधिकसभ्यतालोकेन नयनमुन्नमयतां पुराकालेऽपि मिथः परिचययातायातादिसम्पर्कं दर्शयतां भारतमिश्रेरानचाल्डिया-बाह्लीकबेब्लोनियासीरियाचीनादिदेशानां पौर्वकालिक्यामुपरिक्षायां विचारदृशमुन्नमय्य प्राचीनदेशानां ये यावन्तः प्राचीनभैषज्यविषया उपलब्धा उपलभ्येरंश्च तान् सर्वान् पुरो विधाय भारतीयप्राचीनायुर्वेदपरिस्थितिं चानुसन्धाय समविषमतुलनादृशा कुत्रत्याः के विषयाः किमुपक्रमाः, किमुपज्ञाः, कीदृशः कुत्र प्रतिफलितः, कस्य प्रभाव आलोको वा कस्य गौरवाधानाय समृद्धये च बभूवेति विचारस्य समुचितोऽयमवसर उपस्थितोऽस्ति । अन्यालोकमृद्रहतोऽर्धवयस्कस्य ग्रीसवैद्यकस्य भारतीयवैद्यके प्रभावपातशङ्का यातयामैवेत्यलमतिविस्तरेण ।।
१५८ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम्
(५) उपसंहारपरिच्छेदः
प्राचीनाचार्याणां गौरवानुसन्धानम्
विदितमेवैतद्विदुषां, पूर्वसमये धन्वन्तरिकश्यपात्रेयादिभिराचार्यैर्विचारशाणनिघर्षणेनोज्ज्वलीकृतानि सिद्धान्तरत्नानि पाश्चात्त्यविज्ञानभास्करप्रभातचलितदृष्टिभिरपि सम्प्रति सबहुमानं पर्यालोच्यन्ते, उपादीयन्ते, प्रशस्यन्ते चेति कियानगाधो विचारोदधिः पूर्वेषाम् । यत्र चिरं निरुद्धनिश्वासमवगाढैः पाणिपूरं रत्नान्यासाद्यन्ते । ईदृशा अत्युच्चा ग्रन्थविशेषाः पूर्वविभूतयो भारतस्य । एत एवाद्यत्वे उपलभ्यमाननिबन्धेषु सर्वप्राथम्यगौरवदृशा वीक्ष्यन्ते । एषां सूक्ष्मा दृशा विषयानुसन्धाने प्रत्येकवाक्यानि सारनिष्कर्षरूपाणि सूत्रमयानि ज्ञायन्ते । यानि परिष्कृतप्रज्ञावैभवैः प्रवचनेन विशालविषयदिग्दर्शनरूपतामानेतुं शक्यन्ते । भूगर्भान्नानारत्नानीव निशितप्रज्ञाविदलिताद्यदन्तर्भागात् संख्यातीतानि सिद्धान्तरत्नान्यासाद्यन्ते कृतश्रमैः । पुरा समये एवंविधाः सुसंस्कृता विचारा अवगम्यमानास्तादात्विकीं विमर्शोन्नतिं यथाऽवबोधयन्ति, ततः परमप्येवं क्रमेव विचारविवृद्धेरेवगम्याय नैकमपि निदर्शनं लभ्यते । शल्यप्रस्थान सुश्रुतसंहितायाः पश्चात् केवलं वाग्भटप्रभृतिभिर्द्वित्रैर्लेशतः शल्यप्रक्रिया निर्दिष्टा । सोऽपि सौश्रुतविज्ञानस्यैवांशतश्छायाग्रहणमनुभावयति । किंनामास्मिन् प्रस्थाने शल्यविज्ञानं तस्मिन्नेव प्रतिष्ठितं परिनिष्ठितं च । ऐतिहासिकदृशाऽप्यन्ततो जीवकपर्यन्तमपि तथा विज्ञानकौशलमवगम्यते । तथोन्नतिभूमिकामारूढं तद्विज्ञानमेकपदे कुतो विलीनम् । शस्त्रक्रियायां लेशतो व्यत्ययेऽनर्थशङ्कासमुदयो वा, भीषणतादृशा परिहरणं वा, शमप्रधानैर्ब्राह्मणादिभिरुपेक्षणं वा, धर्मशास्त्रकारैश्चिकित्सावृत्तेरनभिनन्दनं वा, अध्यात्मवादविजृम्भणेन हिंसामयत्वानुसन्धानं वा, अहिंसावाददशपारमितसिद्धान्त-विकासो वा, किन्नाम निदानं स्यात्, येन सर्वोपकार्यपि तद्विज्ञानं तद्धस्तकौशलं तदुपदेशनं तदुपकरणपरिष्करणं च द्रुतगत्या ह्रासमुपगच्छत् विद्वत्समाजहस्तादधो निपत्य भारते सम्प्रति विद्याविज्ञानशून्यासु नापितादिजातिषु लेशतोऽवशिष्यते । धन्वन्तरिसदृशैः पूर्वाचार्यैस्तथा समुन्नमितेयं पूर्वविद्याऽद्यत्वे तादृशानां हस्तमवलम्ब्य कार्श्ये वर्तमाना उत्तरोत्तरं ह्रासमुपेत्य हन्त ! दीपनिर्वाणवन्निर्वातुं प्रतीक्षते । गुणग्राहिभिरुन्नतिशीलैः पाश्चात्त्यविद्वद्भीरर्वाक्समयेऽश्रान्तप्रवर्तितैर्विचारैः परिष्करणैर्नवनव-प्रयोगानुभवैश्चाऽपरिचेयरूपान्तरमापाद्य शल्यविद्या, गर्भभैषज्यं, बालभैषज्यं, कायचिकित्सा, विकृतिपरीक्षोपायविशेषादयश्चाद्यत्वे विशेषत उन्नतिपथमारोप्यन्ते । येन विगलितनिजपूर्वविद्याबलं भारतमपि सम्प्रति सर्वतः प्रसरन्त्याः पाश्चात्त्यप्रक्रियाया विज्ञान-बलावष्टब्धेन हस्तकौशलेन साधु समुपक्रियते । न केवलं शल्यप्रस्थानमेतदवस्थंः शालाक्यादिप्रस्थानान्तराणि तु यथोद्भूतानि तथैव जराजीर्णभावमुपगतानि । कायचिकित्साप्रस्थाने पश्चादपि सहस्त्रशो भैषज्यविद्याविदः प्रादुर्भूवन्, शतशो वैद्यग्रन्थांश्च निर्मियन्त । येषां समूहनेऽद्यापि महान् ग्रन्थराशिः समीक्ष्यते । परमात्रेयादिमहर्षिसमये यादृशाः सिद्धान्ता विचाराश्चान्तर्विज्ञान-बलेनाहममिकया प्रादुर्भूय प्रस्थानमिममुज्ज्वलमकार्षुः, नातः परं तादृशा महार्घा अभिनवा विचारोन्मेषाः पुनस्तत्प्रकाशातिशयाय प्रादुर्बभूवुः । पूर्वानेव सिद्धान्तानुपादाय यथाकथमपि तथेतरथा भङ्गीभेदेन वा निदर्श्य कालवशेन नवानुभूतैरौषधादिभिः केवलं संवर्धिताः पूर्वानुवादरूपाः संग्रहरूपा वा निबन्धा उदेत्य नवानि शरीराणि भासयन्ति । भैषज्यविषये विशेषतः समीक्षणे धातुरसभैषज्यप्रस्थानं नवनवयोगौषधाद्याविष्करणेन नवानुभवानुसारेणानेकग्रन्थनिर्माणेण श्लाघ्यमपि समुपबृंहितमालोच्यते । यदिदानीमपि सर्वत आयुर्वेदीयभि षग्भिरेतदीयः पन्था उपयोगः प्रयोगः सफलता च उपादीयते । यदीयो विशेषप्रचारोऽद्याप्यायुर्वेदविद्यायाः प्रस्थानान्तराणां च संरक्षणं करोतीति नेयमत्युक्तिः स्यात् । प्राचीनैर्महर्षिभिरिव ततः परमपि भैषज्यकोविदैर्विमर्शपरम्परानुवृत्त्या नवनवाः सिद्धान्ता निरकासिष्यन्त, पूर्वेऽपि सिद्धान्ताः पर्यष्करिष्यन्त, अपूर्णांशा अपूरयिष्यन्त, आनुभाविकाः संस्कारविशेषा उपादेक्ष्यन्त, उच्चविचारसम्भूतानि प्रौढतमानि निबन्थरत्नानि पुनः पुनर्निर्मासिष्यन्त, तर्हि भारतीयमायुर्वेदविज्ञानमप्येतावता समयेनोन्नतिशिखरमारोक्ष्यत् । कालवशेन चोपेक्षया मालिन्यमुपेतस्य भारतीयायुर्वेदस्य गौरवमनुपश्यन्तो बहवो वैद्यवरा विप्रश्चितोऽस्याद्यत्वे प्रचाराय परिष्कारायोपष्टम्भाय समुन्मीलितदृशो नवविचारमयान् निबन्धान् प्रचारसंस्थाः परिष्कारमार्गानौष-निर्माणशालादींश्च प्रादुष्कृत्य पुष्टये प्रवर्तमाना दृश्यन्ते । आप्ततमैः श्रीयुतगणनाथसेनमहोदयैः प्रत्यक्षशारीरसिद्धान्तनिदाननिर्माणेण
उपोद्घातः १५९
प्राचीनशारीरावयवविज्ञाने रोगनिदानेऽपि विशेषान्तराणि बहुश उद्भावितान्यवलोक्यन्ते, श्रीयामिनीभूषणरायकविरत्नमहोदयेन रोगविनिश्चयशालाक्यविषप्रसूतिविषयाणि लघुतन्त्राणि निर्मितानि, डाक्टरबालकृष्णशिवराममुञ्जेमहाशयेनापि नेत्रचिकित्साविषये कोऽपि ग्रन्थः प्रकाशितो वर्तत इति संस्कृतभाषानिबद्धान् नवनिबन्धान् विलोक्य महदिदमाशास्थानमुदेति। जराजीर्णाऽपीयं भारतीयायुर्वेदविद्या जागरूकाणां सूक्ष्मधियामुद्योगिनां विप्रश्चितां भारतीयानामितरेषां च सहयोगिनामवलम्बरसायनेनैव च्यवन इव पुनर्यौवनमासादयिष्यतीत्याशास्यते। समयवशेन बहुषु विषयेषु वैज्ञानिक्या प्रगत्या, परिष्कृतया रासायनिकप्रक्रियया, नवोद्भावितैर्दूरवीक्षणान्तर्वीक्षणादियन्त्रविशेषैः, नवोन्मेषवतां तत्तद्देशविदुषां साक्षाल्लेखनिबन्धादिद्वारा वा मिथो विमर्शैः, शारीरावयवसूक्ष्मेक्षिकया, प्रत्यग्रविचारमयानां शतशो निबन्धानां प्रकाशनेन च पाश्चात्त्यविद्वद्भिर्ह्यद्यत्वे समुन्नतिपथमारोपिताया अनेकशाखाया भैषज्यविद्याया आलोचने प्राचीना भारतीयायुर्वेदविद्या केषाञ्चिद्विचारदृष्टौ स्थूलप्रतिभासमयी बालक्रीडामयी वा साम्प्रतं प्रतिभासतां नाम; परं दुर्गमगिरिनदीवनान्तरालदुष्करदेशान्तरोपगमतत्तद्द्विदन्तरसम्पर्कविमर्शविशेषे पुरासमये वनमृगसहवा-सिभिरब्ध्यन्त्रादिभौतिकसाधनविशेषैरपि केवलं प्रणिधानशक्तिनिशातन्तः प्रज्ञाबलावलम्बैः प्राचीनाचार्यैरात्रेयकश्यपधन्वन्त-र्यादिभिरुद्भाविता विचाराः, ये साम्प्रतिकोन्नततरविज्ञानपरिष्कृतदृष्टिभिरप्यद्यापि समाद्रियन्त एवेति महद्गौरवस्थानं समीक्ष्यते। भारतीयैरन्यैरपि एतद्विज्ञानसम्पदोऽधमर्णैरविस्मरणीय एषामनुग्रहः। ते ईदृशाः पूर्वे आचार्याः शतशः शिरोभिरभिनन्दनीया एवेति मे दृढः प्रत्ययः॥
प्राचीनग्रन्थानां विलोपो रक्षा च
दैवाद्युगादारभ्यार्याणां ज्ञानविज्ञानप्रवाहः संहिताब्राह्मणोपनिषत्सूत्रतन्त्रभाष्यटीकोपटीकानिबन्धादिरूपेणानेकशाखाभिः प्रवहन्नृष्याचार्यनिबन्धकारादीनां विचारधाराभिरुपबृंह्यमाणो मानवक्षेत्रं विष्वक् सरसीकरोति। येनाद्यत्वे तस्य विज्ञानस्य शतशो विभागाः, प्रतिविभागमनेके पूर्वाचार्याः, तेषां तारतम्यवन्तो विभिन्ना विचारा अप्यवगम्यन्ते। परम्, आर्याणां मूलसर्वस्वभूतस्याद्य-विज्ञानमहाकल्पतरोर्भगवतो वेदस्यापि कति शाखास्तदङ्गोपाङ्गान्यपि विच्छिन्नविकलाङ्गभावमापद्याद्यत्वे विलोपमुपागमन्। कति शाखा नामतोऽपि व्यलुप्यन्त। कासाञ्चित्संहिताब्राह्मणसूत्रादिषु क्वचित्किञ्चिदवशिष्यते। पूर्वेषां महर्षिप्रभृतीना-माचार्याणामुपदेशरूपा लेखा अपि विलोपमुपागमन्। केषाञ्चिदितराचार्यैः क्वचनोल्लिखिता मतविशेषा नाममात्राणि केवलमवशिष्यन्ते। हन्त कियतां नामान्यपि विलुप्तानि भवेयुः! ॥
किं बहुना, एकस्मिन्नपि विषये उपलभ्यमानस्यैकस्यापि पूर्वग्रन्थस्य पृष्ठपर्यावर्तने कियन्तः ततोऽपि पूर्वे, तैरनुस्मृताः, तैस्तदात्वे विज्ञातग्रन्थाः, परिशीलितविचारविशेषा आचार्याः केवलं नामतोऽस्माभिरिदानीं ज्ञायन्ते। यास्कनिरुक्ततोऽन्येऽपि वेदार्थनिर्वक्तारः, पाणिनीयसूत्रतः शाकल्यगालवगार्ग्यापिशलिकाश्यपस्फोटायनादयः पूर्वे वैयाकरणाचार्याः, पाराशर्य-कर्मन्दशिलालिकृशाश्वादयो भिक्षुनटसूत्रादिप्रस्थानान्तराचार्याश्च, कौटिलीयर्थशास्त्रतः पराशरोशनोविशालाक्षकौणपदन्त-भरद्वाजवातव्याधिबाहुदन्तीपुत्रपिशुनादयः पूर्वेऽर्थशास्त्राचार्याः, सायनीयवेदभाष्यतो मेधातिथिशाकपून्यग्निस्वाम्यादयः पूर्वे वेदव्याख्यातारः, पूर्वोत्तरमीमांसासूत्रतः आश्मरथ्यकाशकृत्स्नौडुलोमिबादरिप्रभृतयः पूर्वे वेदोपनिषदर्थमीमांसकाः, एवमुपलभ्यमानश्रौतस्मार्तदर्शनज्यौतिषादिग्रन्थेष्योऽपि सहस्रशः पूर्वे संहितातन्त्रसूत्रव्याख्याननिबन्धादिकर्तारो महर्षिप्रभृतयस्तत्तद्विषयाचार्याः केवलं नामशेषा विज्ञायन्ते। कियन्तो भारतीया दार्शनिकादयो बौद्धाश्च ग्रन्थाश्चीन-तिब्बतभाषयोरनुवादरूपेणैव लभ्यमानाः केवलं छायारूपेण वर्तन्ते। उपसहस्रवर्षपूर्वभूता अपि बौद्धग्रन्थाः शतश उच्छिन्नाः। इत्येवं श्रुतिस्मृत्यागमवेदाङ्गोपाङ्गदर्शनादिषु बौद्धार्हतादिसम्प्रदायान्तरेषु च हन्त क्व वा रोमहर्षणो महान् विप्लवो न! ॥
अस्मिन्नायुर्वेदीयविषयेऽपि उपलभ्यमानानामात्रेयसुश्रुतभेडसंहितानामस्याः काश्यपसंहितायाश्चोल्लेखतः काप्यवायोविद्ववामक-वैदेहकाङ्क्षायनहिरण्याक्षशौनकपाराशर्यगार्ग्यमाठरकौत्समौद्गल्यकुशिकसुभूतिमार्कण्डेयकरवीर्यप्रभृतयो बहवः प्राञ्च आयुर्वेदाचार्या ज्ञायन्ते, येषु केषाञ्चिद्वचनानि मतान्यपि तत्र तत्रोद्धृतान्युपलभ्यन्ते। क्व विलीनानि तेषां ग्रन्थरत्नानि। तेषां सर्वेषामुपलब्धिसम्भवे सङ्कलने महत्तम आयुर्वेदीयग्रन्थराशिः पुरो भवेत्। उपलभ्यमानद्वित्रग्रन्थानामन्तस्तलमवगाह्य पर्यालोचने प्रातिभज्ञानालोकोज्ज्वलाः
| १६० | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
शतशो गभीरतत्त्वोपदेशा अनुभूयन्ते। यदि नामैवमेव नानाप्रस्थानेषु विभक्ताः पूर्वेषां सर्वेषां ग्रन्था अलप्स्यन्त, तदा कियद्भिः सद्विचाररत्नैरापूर्णान्यभविष्यन् विविदिषूणां हृदयभवनानि। कारुणिकैः पूर्वैर्महर्षिप्रभृतिभिर्विचारधारारसेन विज्ञानकल्पतरोः संवर्धनेनानुगृहीता अपि सर्वाङ्गपुष्टैः फलैर्वञ्चिता इवास्महे ॥
पुरासमयात् तदा तदोपजातैः प्राकृतिकैर्वैकृतिकैराकस्मिकैश्च क्षोभैः राष्ट्रीयैर्मिथो युद्धादिभिर्नैतिकैरुपद्रवैः, वारं वारं वैदेशिकनृपाणां विध्वंसिभिराक्रमणैः, साम्प्रदायिकैश्च परस्परं सङ्घर्षैः, तक्षशिलानालन्दाविक्रमशिलादिगतानां महतां पुस्तकालयानां भस्मसाद्धूलिसाद्भवनेः, जलाग्न्यादिविप्लवैश्च सहस्रशः प्राचीनानि ग्रन्थरत्नानि विलयमवापुः। न केवलं पूर्वमेव, अद्यापि प्राचीनविद्यास्थानेषु ग्रामीणपर्णशालागतानां शतशो ग्रन्थानामग्न्युत्पातातः क्षणाद्भस्मीभावेन, कियतां पूर्वैर्विद्वद्भिः सङ्गृहीतानामपि तदीयपरिवारसन्तत्यादिषु संरक्षकस्याभावेनानास्थया भ्राष्ट्रमुखनदीप्रवाहविपणिविकिरणैर्भूर्गर्भाल्लिञ्जरधूलिराशिष्वज्ञातवासचर्यया जराजीर्णतया कीटोदरपातादिना च अवशिष्टा अपि ग्रन्था उत्तरोत्तरं विनाशमुपयान्ति। सर्वमिदं पर्यालोचयतः कस्य विद्यानुरागिणो मनः शतधा न विदीर्येत। विद्यामयस्य प्राचीनकोशस्यैवं विलोपो महते खेदाय !!! ॥
अनभिमतं प्राचीनविद्याविनाशं प्रतिरोद्धुं शतशः कृतप्रयत्नाः पाश्चात्त्या भारतीयाश्च केचन गुणग्राहिणो दयालव इतस्ततो गवेषणायै पर्यटन्तो विनाशोन्मुखान् कति प्राचीनग्रन्थानासाद्योददीधरँश्च। खोटाङादिप्रदेशभूगर्भादिभ्य उद्धृता बावरमेन्युस्क्रिप्टाद्याख्याभिः प्रसिद्धा नावनीतकादयो विकलाङ्गाः पूर्वलेखा अद्यत्वे निदर्शनीभवन्ति। चीनतिब्बतादिप्रदेशयात्राया तत्रोपलब्धेभ्यो मूललेखेभ्योऽनुवादेभ्यश्च केचन कैश्चिदुद्ध्रियन्ते च। बहुमुखैरभिनन्दनीय ईदृशानां प्रयासः। बहुशो विनाशोन्मुखा प्राचीनविद्या वदान्यानां गुणग्राहिणां श्रीमतां धीमतां च करावलम्बमेवावशिष्टात्मरक्षासाधनमपेक्षते। येऽद्याप्यवशिष्यन्ते पुरातनाः सद्ग्रन्थास्ते शतशः प्रयत्नैरापि गवेषणीयाः समुद्धरणीयाश्च शक्तिमद्भिरिति बलवती प्रत्याशा ॥
पुरातनवस्तूनि बहिर्दृशा, पुरातनलेखाश्चान्तर्दृशा प्राचीनां परिस्थितिं ज्ञापयन्ति। इमान्यन्तरेण किं नाम यथावद्विज्ञानसाधनं भवेदतीतसमयस्य। पूर्वकालस्य पदार्था लेखा वा ये केऽप्युपलब्धाः किमपि प्राक्तनत्वं न्यूनाधिकभावेन दर्शयन्त्येव । सम्भावनीयकिञ्चित्कालपौर्वापर्येण प्राचीनसभ्यतासमसूत्रावनद्धेषु असीरियन् बेब्लोनियन्-सुमेरियन्-मिश्रादिप्राचीनजातीनां पाश्चात्त्यदेशेष्वपि कालधर्मानुयायिन्या परिणत्या अलेक्जेण्ड्रियागतविशालपुस्तकालयदहनादिभिः समये समये तत्रोपजातै राजनैतिकैः साम्प्रदायिकैश्च विप्लवैः पाश्चात्त्यदेशेष्वपि प्राचीना ऐतिहासिका विषया बहुशो विलोपमुपगताः स्युः । तथाऽपि तेषु नानावस्तुभिर्लेखेन च सह शवानां निखननस्य क्वचन मन्दिरकीर्तिप्रस्थ-(पीरामीड्) स्तूप-(यूप)प्रभृतिषु इतिवृत्तलेखनस्य क्वचनेष्टकाशिलाधात्वादिषु ग्रन्थस्येतिवृत्तादीनां च चिरावस्थानायोत्किरणस्य च प्रक्रियायाः पुराकालात् प्रचलिततया तत्र तत्रोपलब्धैः पुरातनलक्षणैः असीरियन्-बेब्लोनियन-सुमेरियन्-मिश्रादिप्राचीनदेशजातीनामानुक्रमिकप्राचीनसभ्यतापरिस्थितेः समयावधारणेन सह निर्धारणस्यानुकूल्येन अतिपूर्वकालादारभ्यानुवृत्तानां तदीयपूर्वविषयाणां परिज्ञानाय प्रायः सुलभः पन्थाः । भारतीये सम्प्रदाये तु आहितेनाग्निना पात्रादिभिः सह लौकिकाग्निना वा पूर्वकालाच्छवानां दहनस्य व्यवस्थित्या, अवशिष्टवस्त्वन्तराणामपि वितरणादिना उच्छिन्नप्रच्छिन्नभावेन, मन्दिरादीनामपि बहुवारोपजातैर्विप्लवैर्लुप्ततया, प्राचीनरीत्यामानुश्रविकपद्धत्या संहितासूत्रादीनां प्राचीनग्रन्थानां लेखनाभिरुचेर्विरलतया पश्चाद्भूर्जताडपत्रादिषु विहितलेखानामपि चिरसमयवशेनन्तरान्तराभूतैः पारस्परिकै वैदेशिकैश्च क्षोभैर्बहुशो दग्धशीर्णध्वस्तभावोपगमेन भारतीयपुरातनलेखेतिवृत्तादीनामद्यत्वे खोतानकासगरादिभूगर्भ गवेषणेन चीनतिब्बतादिगतलेखानुसन्धानादिना वाऽनुसन्धेयपुरातनेतिवृत्तलक्षणानामतिविरलीभावेन, पुराणादिकथानामुपलम्भेऽपि महाभारतीयगणेशोपाख्यानसद्दृशैरन्तराऽन्तराऽनुप्रविष्टैरर्वाचीनविषयान्तरैरलङ्कारिकदृष्ट्या प्रविष्टाभिरतिशयोक्तिभिस्तत्तत्साम्प्रदायिकहस्तक्षेपैः स्वस्वानुकूलरीत्या पूर्वविषयविलोपपरिवर्तनादिभिश्च मलिनीकरणेन, पुरातनांशानामपि देशान्तरीयलेखशिलालेखभूगर्भोपलब्धविज्ञानादिभिः संवादेन प्रामाण्यस्य साध्यमानतया च अद्यत्वे महेंजोदारोगर्भाद्युपलब्धसद्दृशानां पर्याप्तसाधनानामप्राप्तौ यावत् भारतस्य सामस्त्येन पूर्वपरिस्थितिर्दुर्ज्ञेयतामुपेत्य तथेतरथा वा कल्पयितुमप्युचितेवासीत्।
उपोद्घातः १६१
परमद्यत्वे महेंजोदारोहरप्पादिप्रदेशभूगर्भानुसन्धानोपलब्धैस्तैस्तैर्विषयैः प्राचीनभारतीयपरिस्थितौ बहुश आलोकः प्रदीयते । भारते महेंजोदारोहरप्पादिसदृशाः पुरातनप्रदेशाः गङ्गातीरं यावद्बह्वशः सम्भाव्यन्ते । कालक्रमेण अनुसन्धानविवृद्धौ तत्र तत्र भूगर्भशय्यागताः पदार्थाः देशान्तरीयलेखादयश्च यथा यथा प्रकाशमापद्येरन्, यथा वा हरप्पामहेजोदारोभूगर्भोपलब्धाः पुरातनाक्षरलेखाः केनाप्यंशेनाद्य यावत्पर्यालोचकैः पठ्यमाना अप्यनिश्चीयमानाः समयेन निर्धारितार्थाः पूर्वविषयान् प्रकाशयेयुः, तथा तथा प्राचीनभारतीयं पुरावृत्तं तदालोकेन बहुशः स्फुटीभावं लभेत ॥
अत्रेदमकं वक्तव्यमपि विवेचकानां पुरः समुपस्थापनीयं प्रतिभाति—अद्यत्वे मुद्रायन्त्राणामितस्ततः प्रचारेण भारते देशान्तरेष्वपि प्रचलिता नवोपलब्धा अप्रकाशाश्च भारतीयग्रन्था बहुशः प्रकाशमुपयान्ति । येनैकस्यापि सहस्रशः प्रतीकान्याविर्भूय गृहे गृहे प्रसरन्तीति प्रचलितानामपि विशेषतो विकासः, अप्रकाशानामपि सर्वसाधारन्येन प्रकाशः, विनैवान्वेषणलेखनाद्यायासल्पेनैव व्ययेन लाभश्चेति स्वपूर्वतनेरदृष्टाश्रुता अपि बहुशो ग्रन्था अञ्जसा द्रष्टुं परिशीलितुमपि प्राप्यन्त इति महत् सन्तोषस्थानं दृश्यते । परं मुद्रणे समर्थतादृशा मसीदाढ्येऽपि यथासम्भवं दुर्बलेषु कायगतपत्रेषु प्रकाश्यमानाः दृढताडपत्रकायगतपत्रलिखिततौल्येन चिरमवस्थातुं न पारयन्ति । येन पूर्वमुद्रितानि पुस्तकानि उपशतैरपि वर्षेद्यत्वे विकृतवर्णानि शीर्णभावोन्मुखानि दृश्यन्ते । मुद्रितानां सौलभ्येन लेखनकलाया उत्तरोत्तरं ह्रास एव । पदच्छेदस्पष्टताशुद्ध्यादिभिर्मनो हरतां मुद्रितपुस्तकानां सौलभ्येन विद्यमानेष्वपि लिखितपुस्तकेषु न संरक्षणादरदृक् पतति । मुद्रितानां पुनर्मुद्रमध्ययनाध्यापनपरम्परामनुवृत्तानामेव सम्भवि, तदननुवृत्तानां न पुनर्मुद्रणमिष्यते । कति तादृशा ग्रन्था अद्यत्वे दुर्लभा दृश्यन्ते । मुद्रणदशा लेखनात्, सकृदुपजातमुद्रणदशा पुनर्मुद्रणाच्च उभयतो वञ्चितास्ते प्राचीनग्रन्था उत्तमा अपि सन्तः पूर्वमुद्रितपुस्तकायुरवसाने एकद्वशतवर्षैः सर्वत एकदैवोच्छिद्येरन् । कालवशेन आनुश्रविका अन्येऽपि बहवः प्राचीना विषया नास्तिभावमुपेता एव, अवशिष्यमाणाः प्राचीनानां गौरवस्मारका ग्रन्था अपि हस्ताच्च्युता उत्तरकाले नाम्नाऽप्यविज्ञेया भवेयुरिति महत्यनर्थशङ्का । तमिमं भावि नमनर्थं पूर्वतः पर्यालोच्याविलोपनोयानां ग्रन्थानां कतिपया न्यपि प्रतीकानि सुदृढस्थायिपत्रेषु मुद्रकैः प्रकाशयितुं प्रवृत्तिर्विधेया । येन कतिपयान्यपि प्रतीकानि सुचिरमवस्थायनाल्पेन समयेन विलोपाय जायेरन् । पुस्तकालयेषु तादृशान्येव दृढप्रतीकानि बहुमूल्येनापि सङ्गृह्य रक्षणीयानि । नैतावदेव, कदाऽप्यविलोपोनीयानि पूर्वसर्वस्वरूपाणि संहिताब्राह्मणसूत्रभाष्यादीनिऽवध्ययनपरम्परायां प्रविष्टान्यप्रविष्टान्यपि बहुव्ययेनापि ताडपत्रेषु दृढतरकायगतादिपत्रेषु वोत्तममस्याविलेख्य पुस्तकालयेषु संरक्षितुं विद्योद्धारव्रतानां श्रीमतां शुभा दृष्टिः प्रसरेत् । येन दृढकायगतपत्रलिखितानि सप्ताष्टशतवर्षायूंषि, ताडपत्रलिखितानि सहस्राधिकवर्षायूंषि अद्यत्वे इवातः परमपि सुचिरमवतिष्ठेरन् । भूर्जपत्रीयं पिप्पलादशाखासंहितापुस्तकमेकमप्यवशिष्टं चिरेणाद्य तच्छाखोपलब्धयेऽभूदेव । चिरं विलीनमपि प्रमाणवार्तिकं ताडपत्रीयविन्यासकवचरक्षितं सत् सहस्रं वर्षाणि गुहायां निलीयाप्यद्यत्वे पुनरुज्जीवति । किं बहुना, इष्टकोत्कीर्णलेखाः शिलालेखाश्च भूगर्भात् प्रादुर्भूय नाम्नाऽपि विलुप्तानां त्रिसहस्रवर्षपूर्वतनानामपि सभ्यतां प्रकाशयन्ति । नैतावदेव, महेञ्जोदारो-हरप्पादिनिर्गता मुद्राविशेषाः पञ्चसहस्रवर्षेभ्योऽपि पूर्वतनीं सभ्यतां प्रकाश्य भारतस्य प्राचीनं मुखं समुज्ज्वलयन्ति । तावदाधिक्यं मा भवतु नाम, तथाऽपि ताडपत्रीयलेखाः सहस्राधिकवर्षाणि तु न विलुप्येरन्नेव । इदमेव काश्यपसंहितापुस्तकं ताडपत्रीयत्वेनैव सम्प्रति चिरेणात्मनः प्रकाशेनाविलोपनिदर्शनमजनिष्ट । चिरसंरक्षणसाधनमिदं धीमद्भ्यः श्रीमद्भ्योऽवश्यमेव रोचेतेत्याशास्यते । इत्यलं बहुना ॥
नेपालग्रन्थमालायाः प्रथमप्रकाशः
श्रीश्रीश्रीमन्नेपालमहाराजानां युद्धशमसेरजङ्गबहादुरराणानां नानाविधपदवीविभूषितानां विद्यानुरागं स्वदेशोपलब्धप्राचीनग्रन्थविशेषप्रकाशनाभिरुचिं च बहुशः समभिनन्द्य उपोद्घातोपन्याससमन्वितेयं काश्यपसंहिता नेपालग्रन्थमालायाः प्रथमस्तबकरूपेण प्रकाश्यते ॥
| १६२ | काश्यपसंहिता वा वृद्धजीवकीयं तन्त्रम् |
|---|
साहाय्य समादरः
एतस्मिन्नुपोद्घातलेखे प्राचामर्वाचीनां वा प्राच्यानां पाश्चात्यानां च येषां विपश्चितां ग्रन्था विचारविशेषाश्चोद्धृत्य निर्दिष्टाः सन्ति तेषां नितरामधमर्णोऽस्मि। कृतज्ञतया तदनुस्मरणमन्तरेण नान्यमृणनिर्यातनस्य पन्थानमवगच्छामि। एतद्ग्रन्थप्रकाशने संशोधने च श्रीयुताप्ततमविद्वद्वरवैद्ययादवजीत्रिकमजीमहाभागानां सपरिश्रमं साहाय्यं बहु मानयंस्तेभ्यो धन्यवादानुपहरामि। अस्मिन् उपोद्घातलेखेऽसाधारणसहयोगदायितया प्रूफसंशोधनेऽपि साहाय्यदानेन पण्डितवरसोमनाथशर्मणेऽपि शतशो धन्यवादाः। डाक्टरगोकुलचन्द्रमहाशयेन माष्टर-इन्द्रविहारीशरणेन च यदत्र आङ्ग्लग्रन्थगतकतिपयस्थलसूचनादानं व्यधायि, तदनयोरप्युपकृतिं न विस्मरामि॥
ईदृशे गहने विमर्शे न केवलमायुर्वेदीयग्रन्थानां संस्कृतग्रन्थान्तराणां च परिशीलनं पर्याप्तं भवति, अपि तु भारतीयानामिव ग्रीसमिश्रेरानादिदेशदेशान्तरीयेतिवृत्तानां परिज्ञानं, नानाभाषाविषयविज्ञानं, प्राच्यानां पाश्चात्यानां च विपश्चितां ग्रन्थाकाराः प्रकीर्णलेखरूपा ये यावन्तो विचाराः सन्ति तेषामनुसन्धानम्, ऊहापोहकौशलम्, अन्तरालोकोदयेन यथार्थवस्तुदृष्टिः, इतीदृशानि बहुशः साधनानि अग्रेगमयितुं पारयन्ति। ईदृशैः प्रदीपैरनुद्भासिते पथि सञ्चरितुं कृतसाहसस्यास्य जनस्य कतिपयाः पदन्यासाः कथमभिलक्षितस्थानस्य प्राप्तये भवेयुः। दुर्बलैरवयवैर्विषमे पथि सञ्चरणं साहसमिव प्रतिभासेत। परं ‘नभः पतन्त्यात्मसमं पतत्रिणः’ इति न्यायेन यावद्बुद्धिबलोदयमुचिते वर्त्मनि वाचां विनियोगं वाग्देव्याः परिचर्यां मन्यमानो विशेषतः अपरिशीलितवैद्यविद्योऽपि आयुर्वेदप्रकाशकान् प्राचीनमहर्षीननुध्यायन् केवलमेतन्मुद्रणावसरं यावत् यथावसरलाभमायुर्वेदीयग्रन्थानामस्याः संहितायाश्च साहित्यदृशा पर्यालोचने यत्किमपि मनसि प्रतिभातमुपन्यस्य, अनभ्यस्तमार्गसुलभासु भ्रान्तिषु क्षमामभ्यर्थयन्, विद्यानुरागिणां महनीयानां, विपश्चितां विनोदाय, वैद्यमहाशयानां प्रोत्साहनाय चेममुपोद्घातपुष्पाञ्जलिं करकमलेषु उपहरामि॥
नेपाल-काष्ठमण्डपराजधान्यां
वै. १९९४ श्रीधन्वन्तरिजयन्तीदिने
विदुषां विधेयः—
हेमराजशर्मा
परिशिष्टम्
ज्वरसमुच्चये काश्यपसंहितायाः श्लोकसंवाद
ज्वरसमुच्चयो नाम ज्वरविषयेऽनेकप्राचीनार्षमूलवचनानामेकत्र सङ्ग्रहरूपः प्राचीनॊ ग्रन्थः, यस्य मत्सङ्ग्रहालये ताडपत्रीयं पुस्तकद्वयमस्ति। तयोरेकं प्राचीनाक्षरलिखितमपूर्णं, यस्यान्ते लेखसमयः ४४ नेपालसंवत्सरो निर्दिष्टोऽस्ते। अपरं च पूर्णं नेवाराक्षरलेखितं लिप्यनुमानेन इतोऽष्टशतवर्षप्राचीनं सम्भाव्यते। पुस्तकलेखसमयोऽप्येवं प्राचीनः, तन्निबन्धनं कदा स्यात्। तत्र आश्विन-भारद्वाज-कश्यप-चरक-सुश्रुत-भेड-हारीत-भोज-जतूकर्ण-कपिलबलानां प्राचीनाचार्याणामेव ज्वरविषयकाः श्लोकास्तत्तन्नामनिर्देशेन सह सङ्गृहीताः सन्ति। अर्वाग्भवाचार्याणां वचनासङ्ग्रहोऽप्यस्य ग्रन्थस्य विशेषतः प्राचीनत्वमनुमापयति। अत्र ज्वरविषयकाणि बहूनि काश्यपवचनान्युद्धृतानि दृश्यन्ते, यान्यस्यां काश्यपसंहितायां बहुशः पूर्वभागे, कानिचित् खिलभागे दृश्यमानानि प्रायः सर्वाणि संवदन्ति। यानि नोपलभ्यन्ते, तान्यपि त्रुटितभागपातेन तथा भूतानि स्युः। क्वचन पाठभेदोऽपि दृश्यते, सोऽपि क्वचन मुद्रितैतत्पुस्तकपाठतः साधुः प्रतीयते। तद्गतान् पाठविशेषान् स्थूलाक्षरैः संसूच्य मुद्रितैतत्संहितापुस्तकपृष्ठाङ्कं पार्श्वे निर्दिश्य तदुद्धता एतत्संहितागताः श्लोकाः संवादायाधो निर्दिश्यन्ते—
<div align="right">मु.पृ. ४५-४६</div>'पू¹र्वोद्भवनिमित्तेन योऽपरो जायते गदः। तमुपद्रवमित्याहुरतीसारो यथा ज्वरे॥
चिकित्सितं यथोत्पत्ति तेषामेके प्रचक्षते। उपद्रवाणामित्येके पूर्वं नेत्याह कश्यपः'॥
'घृतं गुग्गुलु बिल्वं च देवदारुक एव च। एष माहेश्वरो धूपः सर्पिर्युक्तो ज्वरापहः'॥
'शृणु भार्गव! तत्त्वार्थं सन्निपातविशेषणम्॥ जानते भिषजो नैवं बहवोऽकृतबुद्धयः॥
शीतोपचारात् सूतानां मैथुनाद्विषमाशनात्। प्रजागराद्दिवास्वप्नाच्चिन्तेर्ष्यालौल्यकर्शनात्॥
तथा दुःखप्रजातानां व्यभिचारात् पृथग्विधात्। शिशोर्दुष्टपयःपानात्तथा सङ्कीर्णभोजनात्॥
विरुद्धकर्मपानान्नसेविनां सततं नृणाम्। अभोजनादध्यशनाद्विषमाजीर्णभोजनात्॥
सहसा चान्नपानस्य परिवर्त्तादृतोस्तथा। विषोपहतवाय्वम्बुसेवनाङ्गदरदूषणात्॥
पर्वतोपत्यकानां च प्रावृट्काले विशेषतः। अवप्रयोगात् स्नेहानां पञ्चानां चैव कर्मणाम्॥
यथोक्तानां च हेतूनां मिश्रीभावाद्यथोच्छ्रिताः। त्रयो दोषाः प्रकुप्यन्ति क्षीणे चायुषि भार्गव!॥
ततो ज्वरादयो रोगाः पीडयन्ति भृशं नरम्। सर्वदोषविरोधाच्च दुश्शिक्षित्स्यो महागदः॥
यथाऽग्निवज्रपवनैर्न स्यादभिहतो द्रुमः। वातपित्तकफैस्तद्वत् क्रुद्धैर्देही न जीवति॥
विषाग्निशस्त्रैर्यौगपन्न जीवन्ति यथा हताः। सन्निपातार्र्दितास्तद्वन्न जीवन्ति तपस्विनः॥
इत्थं तदुपरिष्टाच्च यथा प्रज्वलितं गृहम्। न शक्यते परित्रातुं सन्निपातहत (स्तथा)॥
दिग्धबाणास्त्रयो व्याधाः परिवार्य यथा मृगम्। घ्नन्त्यमी (कुपिता) स्तद्वत्त्रयो दोषाः शरीरिणम्॥
सङ्गता नियतं यस्मात् पातयन्ति कलेवरम्। अन्ये च.... सन्निपाताद्यतो वा सन्निपातनात्॥
अकस्मादिन्द्रियोत्पत्तिरकस्मान्मूत्रदर्शनम्। अकस्माच्छीलविकृतिः सन्निपाताग्रलक्षणम्'॥
'तस्य ज्वरोऽङ्गमर्दस्तृट्तालुशोषप्रमीलकाः। अरुचिस्तन्द्रिविड्भेदश्वासकासश्रमभ्रमाः'॥
१. ज्वरसमुच्चये कश्यपश्लोकास्तत्र तत्र प्रकरणे खण्डश उद्धृताः सन्ति। यावन्तः श्लोकाः सहभावेन निर्दिष्टा दृश्यन्ते तावन्तः ‘ ’ इति सङ्केतेन निर्दिश्य, तेषां श्लोकसङ्ख्यानं तत्र पौर्वापर्यंऽप्यत्र मुद्रितपुस्तकानुसारेण पौर्वापर्यक्रमं प्रकल्प्य निर्दिष्टा इत्यवबोध्यम्॥