भारतकोश
संग्रह पर लौटें

काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)

Kavyamimamsa of Rajasekhara with Hindi Commentary

महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा

DevanagariSanskritpublished381 पृष्ठ

६० काव्यमीमांसायाम् “किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा व्रजति दिनकरोऽयं यत्र नास्तं कदाचित्। भ्रमति विहगसार्थानित्थमापृच्छमानो रजनिविरहभीतश्चक्रवाको वराकः॥” यथा च—“जयति सितविलोल्व्यालयज्ञोपवीती घनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः। अविदितमृगचिह्नामिन्दुलेखां दधानः परिणतशितिकण्ठश्यामकण्ठः पिनाकी॥” यथा च—“कुमुदवनमपश्री श्रीमदम्भोजखण्डं त्यजति मद²मुलूकः प्रीतिमांश्चक्रवाकः। उदयमहिमरश्मिर्याति शीतांशुदस्तं हतविधिललितानां ही विचित्रो विपाकः॥” यथा³ च—“किमिह किमपि दृष्टं स्थानमस्ति श्रुतं वा घनकपिलजटान्तर्भ्रान्तगङ्गाजलौघः। निवसति स⁵ पिनाकी यत्र यायां त⁴दस्मिन् हतविधिललितानां ही विचित्रो विपाकः॥” पादोनवतकतिपयपदप्रयोगोऽपि। यथा— “या व्यापारवती रसान् रसयितुं काचित्कवीनां नवा दृष्टिर्या परिनिष्ठितार्थविषयोन्मेषा च वैपश्चिती। ते द्वे अप्यवलम्ब्य विश्वमनिशं निर्वर्णयन्तो वयं श्रान्ता नैव च लब्धमब्धिशयन त्वद्भक्तितुल्यं सुखम्॥” यथा च चतुर्थपादे— “श्रान्ता नैव च लब्धमुत्पलदृशां प्रेम्णः समानं सुखम्॥” पादैकदेशग्रहणमपि पदैकदेशोपलक्षणपरम्। यथा— “असकलहसितत्वात्क्षालितानीव कान्त्या मुकुलितनयनत्वाद्व्यक्तकर्णोत्पलानि। १ शितिकण्ठः. २ V मुद. ३ A omits यथा च. ४ B न. ५ V सर्वशं.

कविरहस्ये एकादशोऽध्यायः । ६१ पिबति मधुसुगन्धीन्याननानि प्रियाणां त्वयि विनिहितभारः कुन्तलानामधीशः ॥” यथा वोत्तरार्धे—“पिबतु मधुसुगन्धीन्याननानि प्रियाणां मयि विनिहितभारः कुन्तलानामधीशः ॥” वाक्यस्यान्यथा व्याख्यानमपि न स्वीकरणं हरणं वा । यथा— ५ “सुभ्रु त्वं कुपितेत्यपास्तमशनं त्यक्ता कथा योषितां दूरादेव मयोज्झिताः सुरभयः स्रग्दाम(गन्ध)धूपादयः । कोपं रागिणि मुञ्च मय्यवनते दृष्टे प्रसीदाधुना सद्यस्त्वद्विरहाद्भवन्ति दयिते सर्वा ममान्धा दिशः ॥” एतच्च कान्ताप्रसादनपरं वाक्यं कुपितदृष्टिपरतया व्याख्यातं १० न स्वीकृतं हृतं वा । यत्तु परकीयं स्वीयमिति प्रोक्तानामन्यतमेन कारणेन विलपन्ति, तन्न केवलं हरणम्, अपि तु दोषोदाहरणम् । मुक्तकप्रबन्धविषयं तत् । मूल्यक्रयोऽपि हरणमेव । वरमप्रसिद्ध्य- शसो न पुनैर्दुर्यशः । सभापतिस्तु द्विधा, उपजीव्य, उपजीवकश्च [इति] । तत्रोपजी- १५ वनमात्रेण न कश्चिद्दोषः । यतः सर्वोऽपि परेभ्य एव व्युत्पद्यते । केवलं तत्र समुदायो गुरुः । “तद्दुक्तिहरणम्” इत्याचार्याः । यथा—“ऊरुद्वन्द्वं सरसकदलीकाण्डसब्रह्मचारि ।” यथा च—“ऊरुद्वयं कदलीकन्दलयोः सवंशं २० श्रोणिः शिलाफलकसोदरसन्निवेशा । वक्षः स्तनद्वितयताडितकुम्भशोभं सब्रह्मचारि शशिनश्च मुखं मृगाक्ष्याः ॥” “उक्तयो ऽर्थान्तरसङ्क्रान्ता न प्रत्यभिज्ञायन्ते, स्वदन्ते च; तद्- र्थास्तु हरणादपि हरणं स्युः” इति यायावरीयः । “नास्त्यचौरः कविजनो नास्त्यचौरो वणिग्जनः । २५ स नन्दति बिना वाच्यं यो जानाति निगूहितुम् ॥ १ A omits नं. २ B प्रोक्त्वा नान्यतमेनकर. ३ B न तु दु. ४ B कदलि०. ५ A सदंशं.

६२ काव्यमीमांसायाम् उत्पादकः कविः कश्चित्कश्चिच परिवर्त्तकः । आच्छादकस्तथा चान्यस्तथा संवर्गकोऽपरः ॥ शब्दार्थोक्तिषु यः पश्येदिह किञ्चन नूतनम् । उल्लिखेत्किञ्चन प्राच्यं मन्यतां स महाकविः ॥” ५ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे एकादशोऽध्यायः शब्दहरणानि ॥

द्वादशोऽध्यायः शब्दार्थहरणेपु कविप्रभेदाः प्रति- बिम्बकल्पविकल्पस्य च समीक्षा ।

“पुराणकविक्षुण्णे वर्त्मनि दुरापमस्पृष्टं वस्तु, ततश्च तदेव संस्कर्र्तु १०प्रयतेत” इत्याचार्याः । “न” इति वाक्पतिराजः । “आसंसारमुदारैः कविभिः प्रतिदिनगृहीतसारोऽपि । अद्याप्यभिन्नमुद्रो विभाति वाचां परिस्पन्दः ॥” “तत्प्रतिभासाय च परप्रबन्धेष्ववदधीत । तदवगाहने हि तदे- कयोनयोऽर्थाः पृथक्पृथक् प्रथन्ते” इत्येके । “तत्रत्यानामर्थानां छा- १५ यया परिवृत्तिः फलम्” इत्यपरे । “महात्मनां हि संवादिन्यो बुद्धय एकमेवार्थमुपस्थापयन्ति, तत्परित्यागाय तानाद्रियेत” इति च केचित् । “न” इति यायावरीयः । सारस्वतं चक्षुरवाङ्मनसगोचरेण प्रणिधानेन दृष्टमदृष्टं चार्थजातं स्वयं विभजति । तदाहुः—सुप्तस्यापि महाकवेः शब्दार्थौ सरस्वती दर्शयति। तदि- २० तरस्य तत्र जाग्रतोऽप्यन्धं चक्षुः । अन्यदृष्टचरे ह्यर्थे महाकवयो जात्यन्धाः । तद्विपरीते तु दिव्यदृशः । न तत् त्र्यक्षः सहस्राक्षो वा यच्चर्मचक्षुषोऽपि कवयः पश्यन्ति । मतिदर्पणे कवीनां विश्वं प्रति- फलति । कथं नु वयं दृश्यामह इति महात्मनामहंपूर्विकयैव श- ब्दार्थाः पुरो धावन्ति । यत्सिद्धप्रणिधाना योगिनः पश्यन्ति, तन्न


१ Explained in C as अनेककाव्यार्थग्राही. B संवर्ध. २ B तत्रस्या०. ३ A वा. ४ B omits अन्य.

कविरहस्ये द्वादशोऽध्यायः । ६३

वाचां विचरन्ति कवयः इत्यनन्ता महाकविषु ^१सृ(विसृ)क्तयः[इति] “समस्तमस्ति” इति यायावरीयः । किन्तु त्रिपथमिममभ्यगीष्महि · यदुतान्ययोनिर्निह्नुतयोनिरयोनिश्च[इति] । तत्रान्ययोनिर्द्विधा प्र- तिबिम्बकल्प, आलेख्यप्रख्यश्च [इति]। निह्नुतयोनिरपि द्विधा तु- ल्यदेहितुल्यः परपुरप्रवेशसदृशश्च [इति]। ^२अयोनिः पुनरेकादश(?) ५ एव । तत्र— अर्थः स एव सर्वो वाक्यान्तरविरचना परं यत्र । तदपरमार्थविभेदं काव्यं प्रतिबिम्बकल्पं स्यात् ॥ यथा— “ते पान्तु वः पशुपतेरलिनीलभासः कण्ठप्रदेशघटिताः फणिनः स्फुरन्तः । १० चन्द्रामृताम्बुकणसङ्गसमुत्प्ररूढ- यैरङ्कुरैरिव विराजति कालकूटः ॥” यथा च—“जयन्ति नीलकण्ठस्य नीलाः कण्ठे महाहयः । गलद्गङ्गाम्बु^३संसिक्तकालकूटाङ्कुरा इव ॥ कियताऽपि यत्र संस्कारकर्मणा वस्तु भिन्नवद्भाति । १५ तत्कथितमर्थचतुरैरालेख्यप्रख्यमिति काव्यम् ॥ तत्रैवार्थे यथा— “जयन्ति धवलव्यालाः शम्भोजूटावलम्बिनः । गलद्गङ्गाम्बुसंसिक्तचन्द्रकन्दाङ्कुरा इव ॥” विषयस्य यत्र भेदेऽप्यभेदबुद्धिर्नितान्तसादृश्यात् । २० तत्तुल्यदेहितुल्यं काव्यं बध्नन्ति सुधियोऽपि ॥ यथा—“अवीनादौ कृत्वा भवति तुरगो यावदवधिः पशुर्धन्यस्तावत्प्रतिवसति यो जीवति सुखम् । अमीषां निर्माणं किमपि तदभूद्गन्धकरिणां वनं वा क्षोणीभृद्गहनमथवा येन शरणम् ॥” २५


१ A ख. २ B ये अयो. ३ B संसिक्ताः.

अत्रार्थे—"प्रतिगृहमुपलानामेक एव प्रकारो मुहुरुपकरणत्वादर्थि(र्जि)ताः पूजिताश्च । स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वा खाकरे वा निवासः ॥" मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतोऽनेकैः । तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥ यथा—"यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृद्घ्राताः कदम्बानिलाः ॥" अत्रार्थे—"आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् । हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कर्णावतंसीकृतम् ॥" तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः । अमीषां चार्थानामन्वर्था अयस्कान्तवच्चत्वारः कवयः, पञ्चमश्चादृष्टचरार्थ- दर्शी । तदाहुः— "भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च सः । स कविर्लौकिकोऽन्यस्तु चिन्तामणिरलौकिकः ॥ तन्वानोऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः । योऽप्रसिद्ध्य्यादिभिर्भ्राम्यत्यसौ स्याद्भ्रामकः कविः ॥ यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा । स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ॥ परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेत् । समुल्लेखेन केनापि स स्मृतः कर्षकः कविः ॥


१ B मूल्यैक्यं. २ A नैकः. ३ B व.

कविरहस्ये द्वादशोऽध्यायः । ६५ अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् । यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ॥ चिन्तासमं यस्य रसैकस्रुतिरुदेति चित्राकृतिरर्थसार्थः । अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः ॥” तस्य चायोनिर्थः । स च त्रिधा लौकिकालौकिकभेदेन, तयो- र्मिश्रत्वेन च । तत्र लौकिकः— “मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन । पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृतेऽपि हि यन्त्रयोगात् ॥” अलौकिकः—“देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे हर्षाद्भृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते । पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो- रन्योन्याङ्क¹निपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥” मिश्रः—“स्थिते कुक्षेरन्तर्मुरजयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः । निपीताः सानन्दं रचितफणचक्रेण हलिना समन्तादस्यासुः प्रतिदिनमसेनांसि भवतः ॥” तेषां च चतुर्णामर्थानाम्— चत्वार एते कथिता मयैव येऽर्थाः कवीनां हरणोपदेशे । प्रत्येक²मष्टत्ववशाद्भवन्ति द्वात्रिंशता तेऽनुगताः प्रभेदैः ॥ तत्र प्रतिबिम्बकल्पविकल्पाः (८) । स एवार्थः पौ³र्वापर्यविपर्या- साद्व्यत्यस्तै⁴र्कः (१) ।


१ A अन्योन्याङ्ग. २ B प्रत्येकमाष्टक्य० ३ B पूर्वोपर्य. ४ A स्त. ९

६६ काव्यमीमांसायाम् यथा—"दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा यन्तुर्वाचं मन्यमानस्तृणाय । गच्छन्द्रेभे नागराजः करिण्या प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः ॥" 5 अत्रार्थे—"निर्विवेकमनसोऽपि हि जन्तोः प्रेमबन्धनमशृङ्खलदाम । यत्प्रति प्रतिगजं गजराजः प्रस्थितश्चिरमधारी करिण्या ॥" बृहतोऽर्थस्याङ्गप्रणयनं खण्डम् । (२) । 10 यथा—"पुरा पाण्डुप्रायं तदनु कपिशिङ्गा कृतपदं ततः पाकोद्रेकादरुणगुणसंवर्द्धितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविवशं वने वीतामोदं बदरमरसत्वं कलयति ॥" अत्रार्थे—"पाकक्रियापरिचयप्रगुणीकृतेन 15 संवर्द्धितारुणगुणं वपुषा निजेन । आपादितस्थपुटसंस्थितिशोषपोषा- देतद्वने विरसतां बदरं बिभर्ति ॥" संक्षिप्तसार्थविस्तरेण तैलविन्दुः । (३) । यथा—"यस्य तन्मभराक्रान्त्या पातालतलगामिनी । 20 महावराहदंष्ट्राया भूयः सस्मार मेदिनी ॥" अत्रार्थे—"यत्तन्नाक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा । सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः- स्थूलास्थिश्रेणिशाणानिकषणसितमप्याशु दंष्ट्राग्रमुग्रम् ॥" 25 अन्यतमभाषानिबद्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् ।(४) यथा—"नेच्छइ पासासंकी काओ दिण्णं पि पहिअघरिणीए । १ A वर्गि. २ A वर्णि. ३ A C क्रान्ता. ४ B परिवर्तने नट. ५ नेच्छति पाशाशङ्की काको दत्तमपि पथिकगृहिण्या । अवनतकरतलोद्धूलितवलयमध्यस्थितं पिण्डम् ॥

कविरहस्ये द्वादशोऽध्यायः । ६७ ओहॆत्तकरयलोग्गलियवलयमज्झट्ठिअं पिण्डं ॥¹” अत्रार्थे—“दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् । वक्रग्रीवश्चलनतशिराः पार्श्वसञ्चारिचक्षुः पाशाशङ्की गलितवलयं नैनमश्नाति काकः ॥” छन्दसा परिवृत्तिश्छन्दोविनिमयः । (५) । यथा—“कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ काऽस्मि रतं नु किं कथमपि स्वल्पाऽपि मे न स्मृतिः ॥” अत्रार्थे—“²धन्यास्तु याः कथयथ प्रियसङ्गमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ॥” ³कारणपरावृत्त्या हेतुव्यत्ययः । (६) । यथा—“ततोऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी । दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥” अत्रार्थे—“समं कुसुमचापेन गर्भिणीगण्डपाण्डुना । उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना ॥” दृष्टस्य वस्तुनोऽन्यत्र सङ्क्रमितिः सङ्क्रान्तकम् । (७) । यथा—“स्नानाद्रैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् । अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥” अत्रार्थे—“सद्यःस्नातजपत्तपोधनजटाप्रान्तस्रुताः प्रोन्मुखैः पीयन्तेऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः । १ A ओउत्तरकरयलो B ओहुत्तकरयलो. C explains this as अवनतकरतलावगलित. २ A धन्यासि या कथयसि. C धन्याः स्थ याः कथयथ. ३ B C कारणप्रवृत्त्या.

६८ काव्यमीमांसायाम् एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्॥" उभयवाक्यार्थोपादानं सम्पुटः (८) यथा—"विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य । यस्यामन्तःस्फुरितशफरत्रासहासाकुलाक्षी खैरं खैरं कथमपि मया तीरमुत्तारिताऽसि ॥" यथा—"नाभीगुहाबिलविशचलवीचिजात- मञ्जुध्वनिश्रुतिकणत्कलकुकुभानि । रेवाजलाम्बविरलं ग्रँहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु ॥" अत्रार्थे—"यद्गार्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास- व्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्विजयप्रक्रमेषु । अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोल- त्कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुकुभं कामिनीभिः ॥" सोऽयं कवेरकवित्वदाघी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः । यतः—पृथक्त्वेन न गृह्णन्ति वस्तु काव्यान्तरस्थितम् । पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम् ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे शब्दार्थहरणेपु कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशोऽध्यायः ॥ १ B शफरी. २ B कणज्जल. ३ B गृहिणी० ४ B कवेरवकवित्व.

त्रयोदशोऽध्यायः अर्थहरणेष्वालेख्यप्रख्यादिभेदाः। आलेख्यप्रख्यपरिसङ्ख्याः (८)। सदृशसञ्चारणं समक्रमः (१)। यथा—"अस्ताद्रिवेश्मनि दिशो वरुणप्रियाया- स्तिर्यक्कथञ्चिदपयन्न्रणमास्थितायाः। गण्डैकपार्श्वमिव कुङ्कुमपङ्कचुम्बि बिम्बं रुचामधिपतेररुणं रराज ॥" यथा च—"प्राग्दिशः प्रतिकलं विलसन्त्याः कुङ्कमारुणकपोलतलेन। साम्यमेति कलितोदयरागः पश्य सुन्दरि तुषारमयूखः ॥" अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः (२)। यथा—"कुवलयसिति मूले बालचन्द्राङ्कुराभं तदनु खलु ततोऽग्रे पाकपीताग्रपीतम्। अभिनवरविरोचिर्द्धूमधूम्रं शिखाया- मिति विविधविकारं दृश्यते दैपमर्चिः ॥" अत्रार्थे—"मनाङ्गुले नीलं तदनु कपिशोन्मेषमुदरे ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु। शिखायामाधूम्रं धृतविविधवर्णक्रममिति क्षणादर्चिर्द्दैपं दलयति तमः पुञ्जितमपि ॥" क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः (३)। यथा तत्रैव—"श्यामं शिखाभुवि मनागरुणं ततोऽधः स्तोकावपाण्डुरघनं च ततोऽप्यधस्तात्। आपिञ्जरं तदनु तस्य तले च नील- मन्धं तमःपटलमर्द्दति दैपमर्चिः ॥" सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः (४)। यथा—"इत्युद्गते शशिनि पेशलकान्तदूती- संलापसञ्चलितलोचनमानसाभिः।


१ A. रगुणं.

७० काव्यमीमांसायाम् अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः ॥” अत्रार्थे—“चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्ति- र्नितम्बबिम्बे च बबन्ध हारम् ॥” उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः (५) । यथा—“दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः । हेमकुम्भ इव पूर्वपयोधे- रुन्ममज्ज शनकैस्तुहिनांशुः ॥” अत्रार्थे—“ततस्तमःश्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्दृश्यतान्तरा । निशातरुण्याः स्थितशेषकुङ्कुम- स्तनाभिरामं स(श)कलं कलावतः ॥” तदेव वस्तूक्तिवशादन्यथा क्रियत इति १नवनेपथ्यम् (६) । यथा—“आननेन्दुशशलक्ष्म कपोले सादरं विरचितं तिलकं यत् । तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः ॥” अत्रार्थे—“शोकाश्रुभिर्वासखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् । कान्तेषु कालात्ययमाचरत्सु स्वल्पायुषः पत्रलता बभूवुः ॥” परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः (७) । “अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्धृतेन गगने महता करेण । १ A नटनेपथ्यम्.

कविरहस्ये त्रयोदशोऽध्यायः । ७१ मूलप्ररूढसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य ॥” अत्रार्थे—“सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति । मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव ॥” विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः (८) । यथा—“रविसङ्क्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥” अत्रार्थे—“तस्याः प्रतिद्वन्द्विभवाद्दिषादा- त्सद्यो विमुक्तं मुखमाबभासे । निःश्वासबाष्पापगमे प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥” ता इमा आलेख्यप्रख्यस्य भिदाः । सोऽयमनुग्राह्यो मार्गः । आहुश्च—“सोऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः । नटवद्वर्णिकायोगादन्यथात्वमिवाच्छति ॥” अथ तुल्यदेहितुल्यस्य भिदाः (८) । तस्यैव वस्तुनो विषयान्तरयो- जनादन्यरूपापत्तिर्विषयपरिवर्त्तः (१) । यथा--“ये सीमन्तितगात्रभस्मरजसो ये कुम्भकक्षैषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैल्यद्रुहः । ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभुवः श्वासानिलाः पान्तु वः ॥” अत्रार्थे—“ये कीर्णकथितोदराब्जमधवो ये म्लापितोरःस्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतीपोज्झिताः । ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रततसरलाः श्वासा हरेः पान्तु वः ॥” द्विरूपस्य वस्तुनोऽन्यतम(र)रूपोपादानं द्वन्द्वविच्छित्तिः (२) । यथा—“उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्या- द्यत्रेन्दुं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् । १ A. B. मूलावलम्ब.

७२ काव्यमीमांसायाम्

क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहेलोलेक्षणश्रीः सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः ॥" अत्रार्थे—"दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिशशाद्राग् दृष्टनष्टा सुखम् । यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहु- र्मुह्यल्लक्ष्यमहिर्र्जघृक्षतितमामाकुञ्चनप्राञ्चनैः ॥" पूर्वार्थानामर्थान्तरैरन्तरणं रत्नमाला (३) । यथा—"कपाले मार्जारः पय इति करांल्लेढि शशिनः तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति । रतान्ते तल्पस्थान्हरति वनिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥" अत्रार्थे—"ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः खांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः । पुम्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहःसम्भ्रमे वल्लभानां लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च ॥" सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः (४) । यथा—"नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः । त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रे(न्द्रे)न्दवो दश (?) ॥" अत्रार्थे—"उमैकपादाम्बुरुहे स्फुरन्नखे कृतागसो यस्य शिरःसमागमे । षडात्मतामाश्रयतीव चन्द्रमाः स नीलकण्ठः प्रियमातनोतु वः ॥" सममभिधायाधिकस्योपन्यासश्छलिका(५)। द्विधा च सा संवादिनी विसंवादिनी च [इति] । तयोः प्रथमा यथा—"अङ्गणे शशिमरीचिलेपने सुसमिन्दुकरपुञ्जसन्निभम् । राजहंसमसमीक्ष्य कातरा रौति हंसवनिताऽश्रुगद्गदम् ॥"

कविरहस्ये त्रयोदशोऽध्यायः । ७३ अत्रार्थे—"चन्द्रप्रभाप्रसरहासिनि सौधपृष्ठे दुर्लक्षपक्षतिपुटां न विवेद जायाम् । मूढश्रुतिर्मुखरनूपुरनिःस्वनेन व्याहारिणीमपि पुरो गृहराजहंसः ॥" द्वितीया तत्रैवार्थे यथा—"ज्योत्स्नाजलस्नायिनि सौधपृष्ठे विविक्तमुक्ताफलपुञ्जगौरम् । विवेद हंसी दयितं कथञ्चि- च्चलत्तुलाकोटिक्लैर्निनादैः ॥" निषेधस्य विधिना निबन्धो विधानापहारः । (६) । यथा—"कुरबक कुचाघातक्रीडारसेन वियुज्यसे बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् । चरणघटनाशून्यो यास्यस्यशोक सशोकता- मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥" अत्रार्थे—"मुखमदिरया पादन्यासैर्विलासविलोकितै- र्बकुलविटपी रक्ताशोकस्तथा तिलकद्रुमः । जलनिधितटीकान्ताराणां क्रमात्ककुभां जये झगिति गमिना यद्वर्गीभिर्विकासमहोत्सवम् ॥" बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुञ्जः । (७) । यथा—"शैलच्छलेन खं दीर्घं भुजमुत्तभ्य॑ भूवधूः । निशासख्याः करोतीव शशाङ्कतिलकं मुखे ॥" यथा च—"फुल्लातिमुक्तकुसुमस्तबकाभिराम- दूरोल्लसत्किरणकेसरमिन्दुसिंहम् । दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार- दुर्वारवारणघटा व्यघटन्त सद्यः ॥" यथा च—"संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुलौघः । १ B म्य.

७४ काव्यमीमांसायाम्

यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥" यथा च— “उदयति पश्य कृशोदरि दलितत्वक्षीर(त्वक्सार)१करणिभिः किरणैः। उदयाचलचूडामणिरेष पुरो रोहिणीरमणः ॥” यथा च—“उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः। उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशाङ्कः॥” यथा च—“प्रोषितैकेन्दुहंसेऽस्मिन्स्लाविव तमोऽम्बुभिः । नभस्तडागे मदनस्ताराकुमुदद्वा(भा)सिनि ॥” अत्रार्थे—“रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयोऽभिषेककलशः कुसुमायुधमेदिनीपतेः । अयमुदयाचलैकचूडामणिर्भिनवदर्पणो दिशा- मुदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी ॥” कन्दभूतोऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः । (८) । यथा— “विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु । कुमुदाकरेषु विकसति शशिकलेशपरिस्रुता ज्योत्स्ना ॥” अत्रार्थे—“वियति विसर्पतीव कुमुदेषु बह्ळभवतीव योषितां प्रतिफलतीव जरठशरकाण्ड२पाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव ३लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः । क्षरति चिरं तेन यथा ज्योत्स्ना घनसारधूलिरिव ॥ सितमणिकलशादिन्दोर्हरिणहरित्तृणपिधानतो गलितैः । रजनिभुजिष्या सिञ्चति नभोऽङ्गणं चन्द्रिकाम्भोभिः ॥ संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः ।

१ Explained in C as सदृशैः. २ K विपाण्डुषु. ३ K हसतीव.

कविरहस्ये त्रयोदशोऽध्यायः । ७५ यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥” ता इमास्तुल्यदेहिसदृशस्य परिसंख्याः । “सोऽयमुल्लेखवाननु- ग्राह्यो मार्गः” इति सुरानन्दः । तदाह— “सरस्वती सा जयति प्रकामं ५ देवी श्रुतिः स्वस्त्ययनं कवीनाम् । अनर्घतामानयति स्वभङ्ग्या योल्लिख्य यत्किञ्चिदिहार्थरत्नम् ॥” अथ परपुरप्रवेशसदृशस्य भिदाः (८) । उपनिबद्धस्य वस्तुनो युक्तिमती परिवृत्तिर्हुडयुद्धम् । (१) १० यथा— “कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्मथः । प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने ॥” अत्रार्थे— “कथमसौ मदनो न नमस्यतां १५ स्थितविवेकपदो मकरध्वजः । मृगदृशां कदलीललितं वपु- र्यदभिहन्ति शरैः कुसुमोद्भवैः ॥” प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् । (२) । यथा— “माद्यच्चकोरक्षणतुल्यधाम्नो २० धारां दधाना मधुनः पतन्तीम् । चञ्च्वग्रदष्टोत्पलनालहृद्या हंसीव रेजे शशिरत्नपारी ॥” अत्रार्थे— “मसारपारेण बभौ ददाना काचित्सुरां विद्रुमनालकेन । २५ १ C Explains as ख्यातिकारणं. २ B ति.

वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन ॥” उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः । (३) । यथा— “अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण । कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥” अत्रार्थे—“मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव । दीर्घापाङ्गनदीं विलङ्घ्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा मृगदृशो मामभ्यषिञ्चन्दृशः ॥ शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः । (४) । यथा— “जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः । अत्रार्थे— “सन्मार्गालोकनप्रौढिनिरजीकृतजन्तवः । जयन्त्यपूर्वव्यापाराः पुरारेः पादपांसवः ॥” तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः । (५) । यथा—“स्नानाद्रार्द्रैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् । अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥” अत्रार्थे—“लक्ष्म्‍याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसन्नसभगाः प्राप्ताः पयोबिन्दवः ।

कविरहस्ये त्रयोदशोऽध्यायः । ७७

ते वः पान्तु विशेषसस्पृहदृशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः ॥” पूर्वं सदृशः पश्चाद्द्भिन्नो जीवञ्जीवकः । (६) । यथा— “नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु । सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणै(णे)व काचिदासीत् ॥” अत्रार्थे—“भास्वत्कपोलतलकुण्डलपारिहार्य- सन्मेखलामणिगणप्रतिबिम्बितेन । चन्द्रेण भाति रमणी रमणीयवक्त्र- शोभाभिभूतवपुषेव निषेव्यमाणा ॥” प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा । (७) । यथा— “ताम्बूलवल्लीपरिणद्धपूगा- खेलालतालिङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥” अत्रार्थे— “निश्चेतनानामपि युक्तयोगदो नूनं स एनं मदनोऽधितिष्ठति । एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताऽधिरोहति ॥” पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी(धिनी) । (८) । यथा— “हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ । वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरच्चन्द्रात्त्वया शिक्षितः ॥” अत्रार्थे—“मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया बाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।

७८ काव्यमीमांसायाम्

व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम् ॥” इत्यर्थहरणोपाया द्वात्रिंशदुपदर्शिताः । हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥ किं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः । अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥ किञ्च—शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः । किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति- सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशोऽध्यायः ॥

चतुर्दशोऽध्यायः जातिद्रव्यक्रियासमयस्थापना । अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः । “नन्वेष दोषः । कथङ्कारं पुनरुपनिबन्धनार्हः ?” इत्याचार्याः । “कविमार्गानुग्राही कथमेष दोषः?” इति यायावरीयः। “निमित्तं तर्हि वाच्यम्” इत्याचार्याः । “इदमभिधीयते” इति यायावरीयः । पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेनान्यथात्वेऽपि तथात्वेनोपनि- बन्धो यः स कविसमयः । कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदर्शिभिः प्रयुक्तो रूढश्च । तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्परो- पक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः । स च त्रिधा स्वर्ग्यो भौमः

कविरहस्ये चतुर्दशोऽध्यायः । ७९

पातालीयश्च [इति] । स्वर्गपातालीययोर्भौमः प्रधानः । स हि महा- विषयः । स च चतुर्द्धा जातिद्रव्यगुणक्रियारूपार्थतया । तेऽपि प्रत्येकं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च । तत्र सामान्यस्यासतो निबन्धनं यथा—नदीषु पद्मोत्पलादीनि । जलाशयमात्रेऽपि हंसादयः । यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च । नदीपद्मानि यथा— “दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥” नदीनीलोत्पलानि—“गगनगमनलीलालम्भितान्स्वेदबिन्दून् मृदुभिरनिलचारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यत् दिनपतिसुतयेव व्यक्तदत्ताङ्गपालीम् ॥” एवं नदीकुमुदाद्यपि । सलिलमात्रे हंसा यथा— “आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः यः श्रीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गे‌श्वरम् । हेलान्दोलितहंससारसकुलक्केङ्कारसम्मूर्च्छितै- रित्याघोषयतीव तन्नवनदी यच्चेष्टितं वीचिभिः ॥” पर्वतमात्रे सुवर्णं यथा— “नागावासश्चित्रपोताभिरामः स्वर्णास्फीतिव्यासदिक्‌चक्रवालः । साम्यात्सख्यं जग्मिवानम्बुराशे- रेष ख्यातस्तेन जीमूतभर्त्ता ॥” रत्नानि यथा— “नीलाश्मरश्मिपटलानि महेभमुक्त- सूत्कारशीकरविसृञ्जि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥”

१ A वा. २ AB वारि. ३ A स्वर्णस्फीति.