काव्यमीमांसा (महाकवि राजशेखर - कवि-रहस्य एवं देश-विभाग सटीक)
Kavyamimamsa of Rajasekhara with Hindi Commentary
महाकवि राजशेखर / पं. केदारनाथ शर्मा द्वारा
अत्रार्थे—"प्रतिगृहमुपलानामेक एव प्रकारो मुहुरुपकरणत्वादर्थि(र्जि)ताः पूजिताश्च । स्फुरति हतमणीनां किन्तु तद्धाम येन क्षितिपतिभवने वा खाकरे वा निवासः ॥" मूलैक्यं यत्र भवेत्परिकरबन्धस्तु दूरतोऽनेकैः । तत्परपुरप्रवेशप्रतिमं काव्यं सुकविभाव्यम् ॥ यथा—"यस्यारातिनितम्बिनीभिरभितो वीक्ष्याम्बरं प्रावृषि स्फूर्जद्गर्जितनिर्जिताम्बुधिरवस्फाराभ्रवृन्दाकुलम् । उत्सृष्टप्रसभाभिषेणनभयस्पष्टप्रमोदाश्रुभिः किञ्चित्कुञ्चितलोचनाभिरसकृद्घ्राताः कदम्बानिलाः ॥" अत्रार्थे—"आच्छिद्य प्रियतः कदम्बकुसुमं यस्यारिदारैर्नवं यात्राभङ्गविधायिनो जलमुचां कालस्य चिह्नं महत् । हृष्यद्भिः परिचुम्बितं नयनयोर्न्यस्तं हृदि स्थापितं सीमन्ते निहितं कथञ्चन ततः कर्णावतंसीकृतम् ॥" तदेतच्चतुष्टयनिबन्धनाश्च कवीनां द्वात्रिंशद्धरणोपायाः । अमीषां चार्थानामन्वर्था अयस्कान्तवच्चत्वारः कवयः, पञ्चमश्चादृष्टचरार्थ- दर्शी । तदाहुः— "भ्रामकश्चुम्बकः किञ्च कर्षको द्रावकश्च सः । स कविर्लौकिकोऽन्यस्तु चिन्तामणिरलौकिकः ॥ तन्वानोऽनन्यदृष्टत्वं पुराणस्यापि वस्तुनः । योऽप्रसिद्ध्य्यादिभिर्भ्राम्यत्यसौ स्याद्भ्रामकः कविः ॥ यश्चुम्बति परस्यार्थं वाक्येन स्वेन हारिणा । स्तोकार्पितनवच्छायं चुम्बकः स कविर्मतः ॥ परवाक्यार्थमाकृष्य यः स्ववाचि निवेशयेत् । समुल्लेखेन केनापि स स्मृतः कर्षकः कविः ॥
१ B मूल्यैक्यं. २ A नैकः. ३ B व.
कविरहस्ये द्वादशोऽध्यायः । ६५ अप्रत्यभिज्ञेयतया स्ववाक्ये नवतां नयेत् । यो द्रावयित्वा मूलार्थं द्रावकः स भवेत्कविः ॥ चिन्तासमं यस्य रसैकस्रुतिरुदेति चित्राकृतिरर्थसार्थः । अदृष्टपूर्वो निपुणैः पुराणैः कविः स चिन्तामणिरद्वितीयः ॥” तस्य चायोनिर्थः । स च त्रिधा लौकिकालौकिकभेदेन, तयो- र्मिश्रत्वेन च । तत्र लौकिकः— “मा कोशकारलतिके वह वर्णगर्वं किं डम्बरेण चणिके तव कौसुमेन । पुण्ड्रेक्षुयष्टिरियमेकतरा चकास्तु या स्यन्दते रसमृतेऽपि हि यन्त्रयोगात् ॥” अलौकिकः—“देवी पुत्रमसूत नृत्यत गणाः किं तिष्ठतेत्युन्भुजे हर्षाद्भृङ्गिरिटावुदाहृतगिरा चामुण्डयाऽऽलिङ्गिते । पायाद्वो जितदेवदुन्दुभिघनध्वानप्रवृत्तिस्तयो- रन्योन्याङ्क¹निपातजर्जरजरत्स्थूलास्थिजन्मा रवः ॥” मिश्रः—“स्थिते कुक्षेरन्तर्मुरजयिनि निःश्वासमरुतो जनन्यास्तन्नाभीसरसिजपरागोत्करमुचः । निपीताः सानन्दं रचितफणचक्रेण हलिना समन्तादस्यासुः प्रतिदिनमसेनांसि भवतः ॥” तेषां च चतुर्णामर्थानाम्— चत्वार एते कथिता मयैव येऽर्थाः कवीनां हरणोपदेशे । प्रत्येक²मष्टत्ववशाद्भवन्ति द्वात्रिंशता तेऽनुगताः प्रभेदैः ॥ तत्र प्रतिबिम्बकल्पविकल्पाः (८) । स एवार्थः पौ³र्वापर्यविपर्या- साद्व्यत्यस्तै⁴र्कः (१) ।
१ A अन्योन्याङ्ग. २ B प्रत्येकमाष्टक्य० ३ B पूर्वोपर्य. ४ A स्त. ९
६६ काव्यमीमांसायाम् यथा—"दृष्ट्वान्येभं छेदमुत्पाद्य रज्ज्वा यन्तुर्वाचं मन्यमानस्तृणाय । गच्छन्द्रेभे नागराजः करिण्या प्रेम्णा तुल्यं बन्धनं नास्ति जन्तोः ॥" 5 अत्रार्थे—"निर्विवेकमनसोऽपि हि जन्तोः प्रेमबन्धनमशृङ्खलदाम । यत्प्रति प्रतिगजं गजराजः प्रस्थितश्चिरमधारी करिण्या ॥" बृहतोऽर्थस्याङ्गप्रणयनं खण्डम् । (२) । 10 यथा—"पुरा पाण्डुप्रायं तदनु कपिशिङ्गा कृतपदं ततः पाकोद्रेकादरुणगुणसंवर्द्धितवपुः । शनैः शोषारम्भे स्थपुटनिजविष्कम्भविवशं वने वीतामोदं बदरमरसत्वं कलयति ॥" अत्रार्थे—"पाकक्रियापरिचयप्रगुणीकृतेन 15 संवर्द्धितारुणगुणं वपुषा निजेन । आपादितस्थपुटसंस्थितिशोषपोषा- देतद्वने विरसतां बदरं बिभर्ति ॥" संक्षिप्तसार्थविस्तरेण तैलविन्दुः । (३) । यथा—"यस्य तन्मभराक्रान्त्या पातालतलगामिनी । 20 महावराहदंष्ट्राया भूयः सस्मार मेदिनी ॥" अत्रार्थे—"यत्तन्नाक्रान्तिमज्जत्पृथुलमणिशिलाशल्यवेल्लत्फणान्ते क्लान्ते पत्यावहीनां चलदचलमहास्तम्भसम्भारसीमा । सस्मार स्फारचन्द्रद्युति पुनरवनिस्तद्धिरण्याक्षवक्षः- स्थूलास्थिश्रेणिशाणानिकषणसितमप्याशु दंष्ट्राग्रमुग्रम् ॥" 25 अन्यतमभाषानिबद्धं भाषान्तरेण परिवर्त्त्यत इति नटनेपथ्यम् ।(४) यथा—"नेच्छइ पासासंकी काओ दिण्णं पि पहिअघरिणीए । १ A वर्गि. २ A वर्णि. ३ A C क्रान्ता. ४ B परिवर्तने नट. ५ नेच्छति पाशाशङ्की काको दत्तमपि पथिकगृहिण्या । अवनतकरतलोद्धूलितवलयमध्यस्थितं पिण्डम् ॥
कविरहस्ये द्वादशोऽध्यायः । ६७ ओहॆत्तकरयलोग्गलियवलयमज्झट्ठिअं पिण्डं ॥¹” अत्रार्थे—“दत्तं पिण्डं नयनसलिलक्षालनाधौतगण्डं द्वारोपान्ते कथमपि तया सङ्गमाशानुबन्धात् । वक्रग्रीवश्चलनतशिराः पार्श्वसञ्चारिचक्षुः पाशाशङ्की गलितवलयं नैनमश्नाति काकः ॥” छन्दसा परिवृत्तिश्छन्दोविनिमयः । (५) । यथा—“कान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धनात् तद्वासः श्लथमेखलागुणधृतं किञ्चिन्नितम्बे स्थितम् । एतावत्सखि वेद्मि केवलमहं तस्याङ्गसङ्गे पुनः कोऽसौ काऽस्मि रतं नु किं कथमपि स्वल्पाऽपि मे न स्मृतिः ॥” अत्रार्थे—“²धन्यास्तु याः कथयथ प्रियसङ्गमेऽपि विस्रब्धचाटुकशतानि रतान्तरेषु । नीवीं प्रति प्रणिहितश्च करः प्रियेण सख्यः शपामि यदि किञ्चिदपि स्मरामि ॥” ³कारणपरावृत्त्या हेतुव्यत्ययः । (६) । यथा—“ततोऽरुणपरिस्पन्दमन्दीकृतरुचिः शशी । दध्रे कामपरिक्षामकामिनीगण्डपाण्डुताम् ॥” अत्रार्थे—“समं कुसुमचापेन गर्भिणीगण्डपाण्डुना । उदयाद्रिशिरःसीम्नि निहितं पदमिन्दुना ॥” दृष्टस्य वस्तुनोऽन्यत्र सङ्क्रमितिः सङ्क्रान्तकम् । (७) । यथा—“स्नानाद्रैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् । अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥” अत्रार्थे—“सद्यःस्नातजपत्तपोधनजटाप्रान्तस्रुताः प्रोन्मुखैः पीयन्तेऽम्बुकणाः कुरङ्गशिशुभिस्तृष्णाव्यथाविक्लवैः । १ A ओउत्तरकरयलो B ओहुत्तकरयलो. C explains this as अवनतकरतलावगलित. २ A धन्यासि या कथयसि. C धन्याः स्थ याः कथयथ. ३ B C कारणप्रवृत्त्या.
६८ काव्यमीमांसायाम् एतां प्रेमभरालसां च सहसा शुष्यन्मुखीमाकुलः श्लिष्यन् रक्षति पक्षसम्पुटकृतच्छायः शकुन्तः प्रियाम्॥" उभयवाक्यार्थोपादानं सम्पुटः (८) यथा—"विन्ध्यस्याद्रेः परिसरनदी नर्मदा सुभ्रु सैषा यादोभर्तुः प्रथमगृहिणीं यां विदुः पश्चिमस्य । यस्यामन्तःस्फुरितशफरत्रासहासाकुलाक्षी खैरं खैरं कथमपि मया तीरमुत्तारिताऽसि ॥" यथा—"नाभीगुहाबिलविशचलवीचिजात- मञ्जुध्वनिश्रुतिकणत्कलकुकुभानि । रेवाजलाम्बविरलं ग्रँहिलीक्रियन्ते लाटाङ्गनाभिरपराह्ननिमज्जनेषु ॥" अत्रार्थे—"यद्गार्ग्याभिर्जगाहे गुरुशकुलकुलास्फालनत्रासहास- व्यस्तोरुस्तम्भिकाभिर्दिशि दिशि सरितां दिग्विजयप्रक्रमेषु । अम्भो गम्भीरनाभीकुहरकवलनोन्मुक्तिपर्यायलोल- त्कल्लोलाबद्धमुग्धध्वनिचकितरणत्कुकुभं कामिनीभिः ॥" सोऽयं कवेरकवित्वदाघी सर्वथा प्रतिबिम्बकल्पः परिहरणीयः । यतः—पृथक्त्वेन न गृह्णन्ति वस्तु काव्यान्तरस्थितम् । पृथक्त्वेन न गृह्णन्ति स्ववपुः प्रतिबिम्बितम् ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे शब्दार्थहरणेपु कविप्रभेदाः प्रतिबिम्बकल्पविकल्पस्य समीक्षा द्वादशोऽध्यायः ॥ १ B शफरी. २ B कणज्जल. ३ B गृहिणी० ४ B कवेरवकवित्व.
त्रयोदशोऽध्यायः अर्थहरणेष्वालेख्यप्रख्यादिभेदाः। आलेख्यप्रख्यपरिसङ्ख्याः (८)। सदृशसञ्चारणं समक्रमः (१)। यथा—"अस्ताद्रिवेश्मनि दिशो वरुणप्रियाया- स्तिर्यक्कथञ्चिदपयन्न्रणमास्थितायाः। गण्डैकपार्श्वमिव कुङ्कुमपङ्कचुम्बि बिम्बं रुचामधिपतेररुणं रराज ॥" यथा च—"प्राग्दिशः प्रतिकलं विलसन्त्याः कुङ्कमारुणकपोलतलेन। साम्यमेति कलितोदयरागः पश्य सुन्दरि तुषारमयूखः ॥" अलङ्कृतमनलङ्कृत्याभिधीयत इति विभूषणमोषः (२)। यथा—"कुवलयसिति मूले बालचन्द्राङ्कुराभं तदनु खलु ततोऽग्रे पाकपीताग्रपीतम्। अभिनवरविरोचिर्द्धूमधूम्रं शिखाया- मिति विविधविकारं दृश्यते दैपमर्चिः ॥" अत्रार्थे—"मनाङ्गुले नीलं तदनु कपिशोन्मेषमुदरे ततः पाण्डु स्तोकं स्फुरदरुणलेखं च तदनु। शिखायामाधूम्रं धृतविविधवर्णक्रममिति क्षणादर्चिर्द्दैपं दलयति तमः पुञ्जितमपि ॥" क्रमेणाभिहितस्यार्थस्य विपरीताभिधानं व्युत्क्रमः (३)। यथा तत्रैव—"श्यामं शिखाभुवि मनागरुणं ततोऽधः स्तोकावपाण्डुरघनं च ततोऽप्यधस्तात्। आपिञ्जरं तदनु तस्य तले च नील- मन्धं तमःपटलमर्द्दति दैपमर्चिः ॥" सामान्यनिबन्धे विशेषाभिधानं विशेषोक्तिः (४)। यथा—"इत्युद्गते शशिनि पेशलकान्तदूती- संलापसञ्चलितलोचनमानसाभिः।
१ A. रगुणं.
७० काव्यमीमांसायाम् अग्राहि मण्डनविधिर्विपरीतभूषा- विन्यासहासितसखीजनमङ्गनाभिः ॥” अत्रार्थे—“चकार काचित्सितचन्दनाङ्के काञ्चीकलापं स्तनभारपृष्ठे । प्रियं प्रति प्रेषितचित्तवृत्ति- र्नितम्बबिम्बे च बबन्ध हारम् ॥” उपसर्जनस्यार्थस्य प्रधानतायामुत्तंसः (५) । यथा—“दीपयन्नथ नभः किरणौघैः कुङ्कुमारुणपयोधरगौरः । हेमकुम्भ इव पूर्वपयोधे- रुन्ममज्ज शनकैस्तुहिनांशुः ॥” अत्रार्थे—“ततस्तमःश्यामलपट्टकञ्चुकं विपाटयत्किञ्चिद्दृश्यतान्तरा । निशातरुण्याः स्थितशेषकुङ्कुम- स्तनाभिरामं स(श)कलं कलावतः ॥” तदेव वस्तूक्तिवशादन्यथा क्रियत इति १नवनेपथ्यम् (६) । यथा—“आननेन्दुशशलक्ष्म कपोले सादरं विरचितं तिलकं यत् । तत्प्रिये विरचितावधिभङ्गे धौतमीक्षणजलैस्तरलाक्ष्याः ॥” अत्रार्थे—“शोकाश्रुभिर्वासखण्डितानां सिक्ताः कपोलेषु विलासिनीनाम् । कान्तेषु कालात्ययमाचरत्सु स्वल्पायुषः पत्रलता बभूवुः ॥” परिकरसाम्ये सत्यपि परिकार्यस्यान्यथात्वादेकपरिकार्यः (७) । “अव्याद्गजेन्द्रवदनः स इमां त्रिलोकीं यस्योद्धृतेन गगने महता करेण । १ A नटनेपथ्यम्.
कविरहस्ये त्रयोदशोऽध्यायः । ७१ मूलप्ररूढसितदन्तबिसाङ्कुरेण नालायितं तपनबिम्बसरोरुहस्य ॥” अत्रार्थे—“सरलकरदण्डनालं गजवपुषः पुष्करं विभोर्जयति । मूलबिसकाण्डभूमौ यत्राभूदेकदंष्ट्रैव ॥” विकृतेः प्रकृतिप्रापणं प्रत्यापत्तिः (८) । यथा—“रविसङ्क्रान्तसौभाग्यस्तुषाराविलमण्डलः । निःश्वासान्ध इवादर्शश्चन्द्रमा न प्रकाशते ॥” अत्रार्थे—“तस्याः प्रतिद्वन्द्विभवाद्दिषादा- त्सद्यो विमुक्तं मुखमाबभासे । निःश्वासबाष्पापगमे प्रपन्नः प्रसादमात्मीयमिवात्मदर्शः ॥” ता इमा आलेख्यप्रख्यस्य भिदाः । सोऽयमनुग्राह्यो मार्गः । आहुश्च—“सोऽयं भणितिवैचित्र्यात्समस्तो वस्तुविस्तरः । नटवद्वर्णिकायोगादन्यथात्वमिवाच्छति ॥” अथ तुल्यदेहितुल्यस्य भिदाः (८) । तस्यैव वस्तुनो विषयान्तरयो- जनादन्यरूपापत्तिर्विषयपरिवर्त्तः (१) । यथा--“ये सीमन्तितगात्रभस्मरजसो ये कुम्भकक्षैषिणो ये लीढाः श्रवणाश्रयेण फणिना ये चन्द्रशैल्यद्रुहः । ते कुप्यद्गिरिजाविभक्तवपुषश्चित्तव्यथासाक्षिणः स्थाणोर्दक्षिणनासिकापुटभुवः श्वासानिलाः पान्तु वः ॥” अत्रार्थे—“ये कीर्णकथितोदराब्जमधवो ये म्लापितोरःस्रजो ये तापात्तरलेन तल्पफणिना पीतप्रतीपोज्झिताः । ते राधास्मृतिसाक्षिणः कमलया सासूयमाकर्णिता गाढान्तर्दवथोः प्रततसरलाः श्वासा हरेः पान्तु वः ॥” द्विरूपस्य वस्तुनोऽन्यतम(र)रूपोपादानं द्वन्द्वविच्छित्तिः (२) । यथा—“उत्क्लेशं केशबन्धः कुसुमशररिपोः कल्मषं वः स मुष्या- द्यत्रेन्दुं वीक्ष्य गङ्गाजलभरलुलितं बालभावादभूताम् । १ A. B. मूलावलम्ब.
७२ काव्यमीमांसायाम्
क्रौञ्चारातिश्च फाण्टस्फुरितशफरिकामोहेलोलेक्षणश्रीः सद्यः प्रोद्यन्मृणालीग्रहणरसलसत्पुष्करश्च द्विपास्यः ॥" अत्रार्थे—"दिश्याद्धूर्जटिजूटकोटिसरिति ज्योत्स्नालवोद्भासिनी शाशाङ्की कलिका जलभ्रमिशशाद्राग् दृष्टनष्टा सुखम् । यां चञ्चच्छफरीभ्रमेण मुकुलीकुर्वन्फणालीं मुहु- र्मुह्यल्लक्ष्यमहिर्र्जघृक्षतितमामाकुञ्चनप्राञ्चनैः ॥" पूर्वार्थानामर्थान्तरैरन्तरणं रत्नमाला (३) । यथा—"कपाले मार्जारः पय इति करांल्लेढि शशिनः तरुच्छिद्रप्रोतान्बिसमिति करेणुः कलयति । रतान्ते तल्पस्थान्हरति वनिताऽप्यंशुकमिति प्रभामत्तश्चन्द्रो जगदिदमहो विभ्रमयति ॥" अत्रार्थे—"ज्योत्स्नार्चिर्दुग्धबुद्ध्या कवलितमसकृद्भाजने राजहंसैः खांसे कर्पूरपांसुच्छुरणरभसतः सम्भृतं सुन्दरीभिः । पुम्भिर्व्यस्तं स्तनान्तात्सिचयमिति रहःसम्भ्रमे वल्लभानां लीढं द्राक्सिन्धुवारेष्वभिनवसुमनोलम्पटैः षट्पदैश्च ॥" सङ्ख्यावैषम्येणार्थप्रणयनं सङ्ख्योल्लेखः (४) । यथा—"नमन्नारायणच्छायाच्छुरिताः पादयोर्नखाः । त्वच्चन्द्रमिव सेवन्ते रुद्र रुद्रे(न्द्रे)न्दवो दश (?) ॥" अत्रार्थे—"उमैकपादाम्बुरुहे स्फुरन्नखे कृतागसो यस्य शिरःसमागमे । षडात्मतामाश्रयतीव चन्द्रमाः स नीलकण्ठः प्रियमातनोतु वः ॥" सममभिधायाधिकस्योपन्यासश्छलिका(५)। द्विधा च सा संवादिनी विसंवादिनी च [इति] । तयोः प्रथमा यथा—"अङ्गणे शशिमरीचिलेपने सुसमिन्दुकरपुञ्जसन्निभम् । राजहंसमसमीक्ष्य कातरा रौति हंसवनिताऽश्रुगद्गदम् ॥"
कविरहस्ये त्रयोदशोऽध्यायः । ७३ अत्रार्थे—"चन्द्रप्रभाप्रसरहासिनि सौधपृष्ठे दुर्लक्षपक्षतिपुटां न विवेद जायाम् । मूढश्रुतिर्मुखरनूपुरनिःस्वनेन व्याहारिणीमपि पुरो गृहराजहंसः ॥" द्वितीया तत्रैवार्थे यथा—"ज्योत्स्नाजलस्नायिनि सौधपृष्ठे विविक्तमुक्ताफलपुञ्जगौरम् । विवेद हंसी दयितं कथञ्चि- च्चलत्तुलाकोटिक्लैर्निनादैः ॥" निषेधस्य विधिना निबन्धो विधानापहारः । (६) । यथा—"कुरबक कुचाघातक्रीडारसेन वियुज्यसे बकुलविटपिन् स्मर्त्तव्यं ते मुखासवसेचनम् । चरणघटनाशून्यो यास्यस्यशोक सशोकता- मिति निजपुरत्यागे यस्य द्विषां जगदुः स्त्रियः ॥" अत्रार्थे—"मुखमदिरया पादन्यासैर्विलासविलोकितै- र्बकुलविटपी रक्ताशोकस्तथा तिलकद्रुमः । जलनिधितटीकान्ताराणां क्रमात्ककुभां जये झगिति गमिना यद्वर्गीभिर्विकासमहोत्सवम् ॥" बहूनामर्थानामेकत्रोपसंहारो माणिक्यपुञ्जः । (७) । यथा—"शैलच्छलेन खं दीर्घं भुजमुत्तभ्य॑ भूवधूः । निशासख्याः करोतीव शशाङ्कतिलकं मुखे ॥" यथा च—"फुल्लातिमुक्तकुसुमस्तबकाभिराम- दूरोल्लसत्किरणकेसरमिन्दुसिंहम् । दृष्ट्वोदयाद्रिशिखरस्थितमन्धकार- दुर्वारवारणघटा व्यघटन्त सद्यः ॥" यथा च—"संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुलौघः । १ B म्य.
७४ काव्यमीमांसायाम्
यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥" यथा च— “उदयति पश्य कृशोदरि दलितत्वक्षीर(त्वक्सार)१करणिभिः किरणैः। उदयाचलचूडामणिरेष पुरो रोहिणीरमणः ॥” यथा च—“उदयति नवनीतपिण्डपाण्डुः कुमुदवनान्यवघट्टयन्कराग्रैः। उदयगिरितटस्फुटाट्टहासो रजनिवधूमुखदर्पणः शशाङ्कः॥” यथा च—“प्रोषितैकेन्दुहंसेऽस्मिन्स्लाविव तमोऽम्बुभिः । नभस्तडागे मदनस्ताराकुमुदद्वा(भा)सिनि ॥” अत्रार्थे—“रजनिपुरन्ध्रिरोध्रतिलकस्तिमिरद्विपयूथकेसरी रजतमयोऽभिषेककलशः कुसुमायुधमेदिनीपतेः । अयमुदयाचलैकचूडामणिर्भिनवदर्पणो दिशा- मुदयति गगनसरसि हंसस्य हसन्निव विभ्रमं शशी ॥” कन्दभूतोऽर्थः कन्दलायमानैर्विशेषैरभिधीयत इति कन्दः । (८) । यथा— “विशिखामुखेषु विसरति पुञ्जीभवतीव सौधशिखरेषु । कुमुदाकरेषु विकसति शशिकलेशपरिस्रुता ज्योत्स्ना ॥” अत्रार्थे—“वियति विसर्पतीव कुमुदेषु बह्ळभवतीव योषितां प्रतिफलतीव जरठशरकाण्ड२पाण्डुषु गण्डभित्तिषु । अम्भसि विकसतीव ३लसतीव सुधाधवलेषु धामसु ध्वजपटपल्लवेषु ललतीव समीरचलेषु चन्द्रिका ॥ स्फटिकमणिघट इवेन्दुस्तस्यामपिधानमाननमिवाङ्कः । क्षरति चिरं तेन यथा ज्योत्स्ना घनसारधूलिरिव ॥ सितमणिकलशादिन्दोर्हरिणहरित्तृणपिधानतो गलितैः । रजनिभुजिष्या सिञ्चति नभोऽङ्गणं चन्द्रिकाम्भोभिः ॥ संविधातुमभिषेकमुदासे मन्मथस्य लसदंशुजलौघः ।
१ Explained in C as सदृशैः. २ K विपाण्डुषु. ३ K हसतीव.
कविरहस्ये त्रयोदशोऽध्यायः । ७५ यामिनीवनितया ततचिह्नः सोत्पलो रजतकुम्भ इवेन्दुः ॥” ता इमास्तुल्यदेहिसदृशस्य परिसंख्याः । “सोऽयमुल्लेखवाननु- ग्राह्यो मार्गः” इति सुरानन्दः । तदाह— “सरस्वती सा जयति प्रकामं ५ देवी श्रुतिः स्वस्त्ययनं कवीनाम् । अनर्घतामानयति स्वभङ्ग्या योल्लिख्य यत्किञ्चिदिहार्थरत्नम् ॥” अथ परपुरप्रवेशसदृशस्य भिदाः (८) । उपनिबद्धस्य वस्तुनो युक्तिमती परिवृत्तिर्हुडयुद्धम् । (१) १० यथा— “कथमसौ न भजत्यशरीरतां हतविवेकपदो हतमन्मथः । प्रहरतः कदलीदलकोमले भवति यस्य दया न वधूजने ॥” अत्रार्थे— “कथमसौ मदनो न नमस्यतां १५ स्थितविवेकपदो मकरध्वजः । मृगदृशां कदलीललितं वपु- र्यदभिहन्ति शरैः कुसुमोद्भवैः ॥” प्रकारान्तरेण विसदृशं यद्वस्तु तस्य निबन्धः प्रतिकञ्चुकम् । (२) । यथा— “माद्यच्चकोरक्षणतुल्यधाम्नो २० धारां दधाना मधुनः पतन्तीम् । चञ्च्वग्रदष्टोत्पलनालहृद्या हंसीव रेजे शशिरत्नपारी ॥” अत्रार्थे— “मसारपारेण बभौ ददाना काचित्सुरां विद्रुमनालकेन । २५ १ C Explains as ख्यातिकारणं. २ B ति.
वल्लूरवल्लीं दधतेव चञ्च्वा केलीशुकेनाञ्जलिना धृतेन ॥” उपमानस्योपमानान्तरपरिवृत्तिर्वस्तुसंचारः । (३) । यथा— “अविरलमिव दाम्ना पौण्डरीकेण बद्धः स्नपित इव च दुग्धस्रोतसा निर्भरेण । कवलित इव कृत्स्नश्चक्षुषा स्फारितेन प्रसभममृतमेघेनेव सान्द्रेण सिक्तः ॥” अत्रार्थे—“मुक्तानामिव रज्जवो हिमरुचेर्मालाः कलानामिव क्षीराब्धेरिव वीचयः क्लममुषः पीयूषधारा इव । दीर्घापाङ्गनदीं विलङ्घ्य सहसा लीलानुभावाञ्चिताः सद्यः प्रेमभरोल्लसा मृगदृशो मामभ्यषिञ्चन्दृशः ॥ शब्दालङ्कारस्यार्थालङ्कारेणान्यथात्वं धातुवादः । (४) । यथा— “जयन्ति बाणासुरमौलिलालिताः दशास्यचूडामणिचक्रचुम्बिनः । सुरासुराधीशशिखान्तशायिनो भवच्छिदस्त्र्यम्बकपादपांसवः । अत्रार्थे— “सन्मार्गालोकनप्रौढिनिरजीकृतजन्तवः । जयन्त्यपूर्वव्यापाराः पुरारेः पादपांसवः ॥” तस्यैव वस्तुन उत्कर्षेणान्यथाकरणं सत्कारः । (५) । यथा—“स्नानाद्रार्द्रैर्विधुतकबरीबन्धलोलैरिदानीं श्रोणीभारः कृतपरिचयः पल्लवैः कुन्तलानाम् । अप्येतेभ्यो नभसि पततः पङ्क्तिशो वारिबिन्दून् स्थित्वोद्ग्रीवं कुवलयदृशां केलिहंसाः पिबन्ति ॥” अत्रार्थे—“लक्ष्म्याः क्षीरनिधेरुदक्तवपुषो वेणीलताग्रच्युता ये मुक्ताग्रथनामसन्नसभगाः प्राप्ताः पयोबिन्दवः ।
कविरहस्ये त्रयोदशोऽध्यायः । ७७
ते वः पान्तु विशेषसस्पृहदृशा दृष्टाश्चिरं शार्ङ्गिणा हेलोद्ग्रीवजलेशहंसवनितालीढाः सुधास्वादवः ॥” पूर्वं सदृशः पश्चाद्द्भिन्नो जीवञ्जीवकः । (६) । यथा— “नयनोदरयोः कपोलभागे रुचिमद्रत्नगणेषु भूषणेषु । सकलप्रतिबिम्बितेन्दुबिम्बा शतचन्द्राभरणै(णे)व काचिदासीत् ॥” अत्रार्थे—“भास्वत्कपोलतलकुण्डलपारिहार्य- सन्मेखलामणिगणप्रतिबिम्बितेन । चन्द्रेण भाति रमणी रमणीयवक्त्र- शोभाभिभूतवपुषेव निषेव्यमाणा ॥” प्राक्तनवाक्याभिप्रायनिबन्धो भावमुद्रा । (७) । यथा— “ताम्बूलवल्लीपरिणद्धपूगा- खेलालतालिङ्गितचन्दनासु । तमालपत्रास्तरणासु रन्तुं प्रसीद शश्वन्मलयस्थलीषु ॥” अत्रार्थे— “निश्चेतनानामपि युक्तयोगदो नूनं स एनं मदनोऽधितिष्ठति । एला यदाश्लिष्टवतीह चन्दनं पूगद्रुमं नागलताऽधिरोहति ॥” पूर्वार्थपरिपन्थिनी वस्तुरचना तद्विरोधी(धिनी) । (८) । यथा— “हारो वक्षसि दन्तपत्रविशदं कर्णे दलं कौमुदं माला मूर्ध्नि दुकूलिनी तनुलता कर्पूरशुक्लौ स्तनौ । वक्त्रे चन्दनबिन्दुरिन्दुधवलं बालं मृणालं करे वेषः किं सित एष सुन्दरि शरच्चन्द्रात्त्वया शिक्षितः ॥” अत्रार्थे—“मूर्तिर्नीलदुकूलिनी मृगमदैः प्रत्यङ्गपत्रक्रिया बाहू मेचकरत्नकङ्कणभृतौ कण्ठे मसारावली ।
७८ काव्यमीमांसायाम्
व्यालम्बालकवल्लरीकमलिकं कान्ताभिसारोत्सवे यत्सत्यं तमसा मृगाक्षि विहितं वेषे तवाचार्यकम् ॥” इत्यर्थहरणोपाया द्वात्रिंशदुपदर्शिताः । हानोपादानविज्ञाने कवित्वं तत्र मां प्रति ॥ किं चैते हरणोपाया ज्ञेयाः सप्रतियोगिनः । अर्थस्य वैपरीत्येन विज्ञेया प्रतियोगिता ॥ किञ्च—शब्दार्थशासनविदः कति नो कवन्ते यद्वाङ्मयं श्रुतिधनस्य चकास्ति चक्षुः । किन्त्वस्ति यद्वचसि वस्तु नवं सदुक्ति- सन्दर्भिणां स धुरि तस्य गिरः पवित्राः ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे अर्थहरणेष्वालेख्यप्रख्यादिभेदास्त्रयोदशोऽध्यायः ॥
चतुर्दशोऽध्यायः जातिद्रव्यक्रियासमयस्थापना । अशास्त्रीयमलौकिकं च परम्परायातं यमर्थमुपनिबध्नन्ति कवयः स कविसमयः । “नन्वेष दोषः । कथङ्कारं पुनरुपनिबन्धनार्हः ?” इत्याचार्याः । “कविमार्गानुग्राही कथमेष दोषः?” इति यायावरीयः। “निमित्तं तर्हि वाच्यम्” इत्याचार्याः । “इदमभिधीयते” इति यायावरीयः । पूर्वे हि विद्वांसः सहस्रशाखं साङ्गं च वेदमवगाह्य, शास्त्राणि चावबुध्य, देशान्तराणि द्वीपान्तराणि च परिभ्रम्य, यानर्थानुपलभ्य प्रणीतवन्तस्तेषां देशकालान्तरवशेनान्यथात्वेऽपि तथात्वेनोपनि- बन्धो यः स कविसमयः । कविसमयशब्दश्चायं मूलमपश्यद्भिः प्रयोगमात्रदर्शिभिः प्रयुक्तो रूढश्च । तत्र कश्चिदाद्यत्वेन व्यवस्थितः कविसमयेनार्थः, कश्चित्परस्परो- पक्रमार्थं स्वार्थाय धूर्त्तैः प्रवर्त्तितः । स च त्रिधा स्वर्ग्यो भौमः
कविरहस्ये चतुर्दशोऽध्यायः । ७९
पातालीयश्च [इति] । स्वर्गपातालीययोर्भौमः प्रधानः । स हि महा- विषयः । स च चतुर्द्धा जातिद्रव्यगुणक्रियारूपार्थतया । तेऽपि प्रत्येकं त्रिधा असतो निबन्धनात्, सतोप्यनिबन्धनात्, नियमतश्च । तत्र सामान्यस्यासतो निबन्धनं यथा—नदीषु पद्मोत्पलादीनि । जलाशयमात्रेऽपि हंसादयः । यत्र तत्र पर्वतेषु सुवर्णरत्नादिकं च । नदीपद्मानि यथा— “दीर्घीकुर्वन्पटुमदकलं कूजितं सारसानां प्रत्यूषेषु स्फुटितकमलामोदमैत्रीकषायः । यत्र स्त्रीणां हरति सुरतग्लानिमङ्गानुकूलः शिप्रावातः प्रियतम इव प्रार्थनाचाटुकारः ॥” नदीनीलोत्पलानि—“गगनगमनलीलालम्भितान्स्वेदबिन्दून् मृदुभिरनिलचारैः खेचराणां हरन्तीम् । कुवलयवनकान्त्या जाह्नवीं सोऽभ्यपश्यत् दिनपतिसुतयेव व्यक्तदत्ताङ्गपालीम् ॥” एवं नदीकुमुदाद्यपि । सलिलमात्रे हंसा यथा— “आसीदस्ति भविष्यतीह स जनो धन्यो धनी धार्मिकः यः श्रीकेशववत्करिष्यति पुनः श्रीमत्कुडुङ्गेश्वरम् । हेलान्दोलितहंससारसकुलक्केङ्कारसम्मूर्च्छितै- रित्याघोषयतीव तन्नवनदी यच्चेष्टितं वीचिभिः ॥” पर्वतमात्रे सुवर्णं यथा— “नागावासश्चित्रपोताभिरामः स्वर्णास्फीतिव्यासदिक्चक्रवालः । साम्यात्सख्यं जग्मिवानम्बुराशे- रेष ख्यातस्तेन जीमूतभर्त्ता ॥” रत्नानि यथा— “नीलाश्मरश्मिपटलानि महेभमुक्त- सूत्कारशीकरविसृञ्जि तटान्तरेषु । आलोकयन्ति सरलीकृतकण्ठनालाः सानन्दमम्बुदधियाऽत्र मयूरनार्यः ॥”
१ A वा. २ AB वारि. ३ A स्वर्णस्फीति.
८० काव्यमीमांसायाम् एवमन्यदपि । सतोऽप्यनिबन्धनं तद्यथा—न मालती वसन्ते, न पुष्पफलं चन्दनद्रुमेषु, न फलमशोकेषु । तत्र प्रथमः—"मालतीविमुखश्चैत्रो विकासी पुष्पसम्पदाम् । आश्चर्यं जातिहीनस्य कथं सुमनसः प्रियाः ॥" द्वितीयः—"यद्यपि चन्दनविटपी विधिना फलकुसुमवर्जितो विहितः । निजवपुषैव परेषां तथापि सन्तापमपहरति ॥" तृतीयः—"दैवायत्ते हि फले किं क्रियतामेतदत्र तु वदामः । नाGeneric? नाशोकस्य किसलयैर्वृक्षान्तरपल्लवास्तुल्याः ॥" अनेकत्र प्रवृत्तवृत्तीनामेकत्राचरणं नियमः । तद्यथा—समुद्रेष्वेव मकराः, ताम्रपर्ण्यामेव मौक्तिकानि । तयोः प्रथमः— "गोत्राग्रहारं नयतो गृहत्वं खनाममुद्राङ्कितमम्बुराशिम् । दायादवर्गेषु परिस्फुरत्सु दंष्ट्रावलेपो मकरस्य वन्द्यः ॥" द्वितीयः—"कामं भवन्तु सरितो भुवि सप्रतिष्ठाः खादूनि सन्तु सलिलानि च शुक्तयश्च । एतां विहाय वरवर्णिनि ताम्रपर्णीं नान्यत्र सम्भवति मौक्तिककामधेनुः ॥" असतोऽपि द्रव्यस्य निबन्धनम् । तद्यथा—मुष्टिग्राह्यत्वं सूचीभे- द्यत्वं च तमसः, कुम्भापवाह्यत्वं च ज्योत्स्नायाः । तत्र प्रथमम्—"तनुलग्ना इव ककुभः भूवलयं चरणचारमात्रमिव । दिवमिव चालिकदघ्नीं मुष्टिग्राह्यं तमः कुरुते ॥" यथा च—"पिहिते कारागारे तमसि च सूचीमुखाग्रनिर्भेद्ये । मयि च निमीलितनयने तथापि कान्ताननं व्यक्तम् ॥" द्वितीयम्—"³यैश्चन्द्रावितकेतकोदरदलस्रोतःश्रियं बिभ्रती येयं मौक्तिकदामगुम्फनविधेर्योग्यच्छविः प्राग्भूत् । १ C जनितः. २ V कुम्भोपवाह्यत्वं. ३ V शङ्खद्रावित० C तन्त्रद्रावित० तन्त्र is explained as औषध.
कविरहस्ये चतुर्दशोऽध्यायः। ८१ उत्सेच्या कलशीभिरञ्जलिपुटैर्ग्राह्या मृणालाङ्कुरैः पातव्या च शशिन्यमुग्धविभवे सा वर्त्तते चन्द्रिका ॥” द्रव्यस्य सतोऽनिबन्धनम् । तद्यथा—कृष्णपक्षे सत्या अपि ज्यो- त्स्नायाः, शुक्लपक्षे त्वन्धकारस्य । तयोः प्रथमम्— “ददृशाते जनैस्तत्र यात्रायां सकुतूहलैः । 5 बलभद्रप्रलम्बघ्नौ पक्षाविव सितासितौ ॥” द्वितीयम्—“मासि मासि समा ज्योत्स्ना पक्षयोः शुक्लकृष्णयोः । तत्रैकः शुक्लतां यातो यशः पुण्यैरवाप्यते ॥” द्रव्यनियमः । तद्यथा—मलय एव चन्दनस्थानं, हिमवानेव भूर्- जोत्पत्तिस्थानम् । 10 तत्र प्रथमः—“तापापहारचतुरो नागावासः सुरप्रियः । नान्यत्र मलयादद्रेर्दृश्यते चन्दनद्रुमः ॥” द्वितीयः— “न्यस्ताक्षरा धातुरसेन यत्र भूर्जत्वचः कुञ्जरबिन्दुशोणाः । व्रजन्ति विद्याधरसुन्दरीणा- 15 मनङ्गलेखक्रिययोपयोगम् ॥” प्रकीर्णकद्रव्यकविसमयस्तु तद्यथा—क्षीरक्षारसमुद्रयोरैक्यं, सागरमहासमुद्रयोश्च । तयोः प्रथमः—“शेतां हरिर्भवतु रत्नमनन्तमन्त- र्लक्ष्मीप्रसूतिरिति नो विवदामहे हे(ऽब्धे) । 20 हा दूरदूरसपयस्तृषितस्य जन्तोः ३किं त्वन्न(न्न) कूपपयसः स मरोजंघन्यः ॥” द्वितीयः—“रङ्गतत्तरङ्गभ्रूभङ्गैस्तर्जयन्तीमिवापगाः । स ददर्श पुरो गङ्गां सससागरवल्लभाम् ॥” असतोऽपि क्रियार्थस्य निबन्धनम् । यथा—चक्रवाकमिथुनस्य 25 निशि भिन्नतटाश्रयणं, चकोराणां चन्द्रिकापानं च । १ V उत्सेक्या. २ V ऽद्भो. ३ V किन्वस्ति सिक्त. ११
८२ काव्यमीमांसायाम् तत्र प्रथमः—"सङ्क्षिपता यामवतीस्तटिनीनां तनयता पयःपूरान् । रथचरणाव्हयवयसां किं नोपकृतं निदाघेन ॥" द्वितीयः—"एतास्ता मलयोपकण्ठसरितामेणाक्षि रोधोभुव- श्चापाभ्यासनिकेतनं भगवतः प्रेयो मनोजन्मनः । यासु श्यामनिशासु पीततमसो मुक्तामयीश्चन्द्रिकाः पीयन्ते विधुतोर्ध्वचञ्चु विचलत्कण्ठं चकोराङ्गनाः ॥" सतोऽपि क्रियार्थस्यानिनबन्धनम् । तद्यथा—दिवा नीलोत्पलाना- मविकासो, निशानिमित्तश्च शेफालिकाकुसुमानामवस्रंसः । तत्र प्रथमः—"आलिख्य पत्रमसितागुरुणाभिरामं रामामुखे क्षणसभाजिनचन्द्रबिम्बे । जातः पुनर्विकसनावसरोऽयमस्ये- त्युक्त्वा सखी कुवलयं श्रवणे चकार ॥" द्वितीयः— "त्वद्विप्रयोगे किरणैस्तथोग्रै- र्दग्धाऽस्मि कृत्स्नं दिवसं सवित्रा । इतीव दुःखं शशिने गदन्ती शेफालिका रोदिति पुष्पबाष्पैः ॥" नियमस्तु तद्यथा—ग्रीष्मादौ सम्भवतोऽपि कोकिलानां विरुतस्य वसन्त एव, मयूराणां वर्षास्वेव विरुतस्य नृत्तस्य च निबन्धः । तयोः प्रथमः—"वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥" द्वितीयः—"मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः । कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥" कवीनां समयः सोऽयं जातिद्रव्यक्रियागतः । गुणस्थोऽथ ततः स्वर्ग्यः पातालीयश्च कथ्यते ॥ इति राजशेखरकृतौ काव्यमीमांसायां कविरहस्ये प्रथमेऽधिकरणे जातिद्रव्यक्रियासमयस्थापना चतुर्दशोऽध्यायः ॥
१ A भवि. २ C गुणस्थैष.
कविरहस्ये पञ्चदशोऽध्यायः । ८३ पञ्चदशोऽध्यायः गुणसमयस्थापना । असतो गुणस्य निबन्धनम् । यथा—यशोहासप्रभृतेः शौक्ल्यम्, अयशसः पापप्रभृतेश्च कार्ष्ण्यं, क्रोधानुरागप्रभृतेश्च रक्तत्वम्। तत्र यशःशौक्ल्यम्— "स्तेमः स्तोकोऽपि नाङ्गे श्वसितमविकलं चक्षुषां सैव वृत्ति- र्मध्येक्षीराब्धि मग्नाः स्फुटमथ च वयं कोऽयमीदृक्प्रकारः। इत्थं दिग्भित्तिरोधक्षतविसरतया मांसलैस्त्वद्यशोभिः स्तोकावस्थानदुःस्थैस्त्रिजगति धवले विस्मयन्ते मृगाक्ष्यः॥" हासशौक्ल्यम्—"अट्टहासच्छलेनास्याद्यश्स्यं फेनौघपाण्डुराः। जगत्क्षय इवापीताः क्षरन्ति क्षीरसागराः॥" अयशःकृष्णत्वम्— "प्रसरन्ति कीर्त्तयस्ते तव च रिपूणामकीर्त्तयो युगपत्। कुवलयदलं संवलिताः प्रतिदिनमिव मालतीमालाः॥" पापकार्ष्ण्यम्—"उत्खातनिर्मलमयूखकृपाणलेखा- श्यामायिता तनुरभूद्द्यकन्धरस्य। सद्यःप्रकोपकृतकेशववंशनाश- सङ्कल्पसंजनितपापमलीभसैव ।" क्रोधरक्तता—"आस्थानकुट्टिमतलप्रतिबिम्बितेन कोपप्रभाप्रसरपाटलविग्रहेण। भौमेन मूर्च्छितरसातलकुक्षिभाजा भूमिश्चचाल चलतोर्दरवर्त्तिनेव ॥" अनुरागस्परक्तता यथा—"गुणानुरागमिश्रेण यशसा तव सर्पता। दिग्वधूनां मुखे जातमकस्मादार्द्रकुङ्कुमम्॥" सतोऽपि गुणस्यानिवन्धनम् । कुन्दकुद्मलांनां कामिदन्तानां च रक्तत्वं, कमलमुकुलप्रभृतेश्च हरितत्वं, प्रियङ्गुपुष्पाणां च पीतत्वम्। १ V स्याः पश्य. २ V प्रतिदिशमिव. ३ V चलनो.