भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

पञ्चमः सर्गः ५५

कोषः— 'द्वौ प्रावारोत्तरासङ्गौ समौ बृहत्तिका तथा' इत्यमरः ।
हिन्दी— अनेक स्वर्णकन्दराओं वाला यह इन्द्रनील पर्वत तुम्हारे पिता इन्द्रदेव का मित्र (प्रिय) है। यह चारों ओर वनों में अपनी रुचिकर स्वर्ण-कान्तिरुपी चादर को फैला-सा रहा है ॥ ४५ ॥

सक्तिं जवाद्पनयत्यनिले लतानां
वैरोचनैर्द्विगुणिताः सहसा मयूखैः ।
रोधोभुवां मुहुरमुत्र हिरण्मयीनां
भासस्तडिद्विलसितानि विडम्बयन्ति ॥ ४६ ॥

अन्वयः— अमुत्र अनि ले जवाद् लतानां सक्तिम् । अपनयति सहसा वैरोचनैः मयूखैः द्विगुणिताः हिरण्मयीनां रोधोभुवां भासः मुहुः तडिद्विलसितानि विडम्बयन्ति ।

विग्रहः— रोधसि भवन्ति, तासाम् = रोधोभुवाम् । तडितः विलसितानि = तडिद्विलसितानि ।

अर्थः— अमुत्र = अस्मिन्नद्रौ । अनि ले = वाते । जवाद् = वेगात् । लतानाम् = शाखानाम् । सक्तिम् = अन्योन्यसङ्गमम् । नयति = दूरीकुर्वति सति । सहसा = हठात् । वैरोचनैः = सावित्रैः । मयूखैः = किरणैः । द्विगुणिताः = द्विगुणीकृताः । हिरण्मयीनां = हिरण्यविकाराणाम्, रोधोभुवाम् = तटभुवाम् । भासः = प्रभाः । मुहुः = पुनः, तडिद्विलसितानि = विद्युल्लसितानि । विडम्बयन्ति = तिरस्कुर्वन्ति ।
अत्रोपमालङ्कारः ।

कोषः— 'गुणस्त्वावृत्तिशब्दादिष्विन्द्रियामुख्यतन्तुषु' इति वैजयन्ती ।
हिन्दी— इस इन्द्रनील पर्वत पर वायु वेग से चलकर लताओं की परस्पर सक्ति (आपस में मिलना) को दूर कर देती है। अतः सूर्य की किरणों से द्विगुणित बनी हुई सुवर्णमयी तटभूमि की कान्ति बिजली की छटा को भी तिरस्कृत-सी करती है ॥ ४६ ॥

कषणकम्प निरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः ।
इह मदस्नपितैरनुमीयते सुरगजस्य गतं हरिचन्दनैः ॥ ४७ ॥

अन्वयः इह कषणकम्प निरस्तमहाहिभिः क्षणविमत्तमतङ्गजवर्जितैः मदस्नपितैः हरिचन्दनैः सुरगजस्य गतम् अनुमीयते ।

५६ | किरातार्जुनीयम्

विग्रहः- कषणेन यः कम्पस्तेन निरस्ताः महाहयः येभ्यस्तैः = कषणकम्पनिरस्तमहाहिभिः । विमत्ता मतंगजाः विमत्तमतंगजास्तैः । क्षणं विमत्तमतङ्गजैः वर्जितास्तैः = क्षणविमत्तमतङ्गजबर्जितैः । मदेन स्नपितास्तैः = मदस्नपितैः ।

अर्थः- इह = अत्र पर्वते । कषणकम्पनिरस्तमहाहिभिः = कण्डूयनकम्पदूरीकृतमहासर्पैः । क्षणविमत्तमतङ्गजबर्जितैः = क्षणं मत्तगजहीनः । मदस्नपितैः = मदजलसिक्तैः । हरिचन्दनैः = चन्दनपादपैः । सुरगजस्य = ऐरावतस्य । गतै = गमनम् । अनुमीयते = कल्प्यते । अत्र हरिचन्दनविशेषणैः काव्यलिङ्गमून्नेयम् ।

कोषः- 'सन्तानः कल्पवृक्षश्च पुंसि वा हरिचन्दनम्' इत्यमरः ।

हिन्दी- इस पर्वत पर मतवाले हाथियों के (खुजली मिटाने की) रगड़ (घर्षण) से उत्पन्न कम्पन के द्वारा चन्दन पादपों से साँप पृथक् हो गये हैं तथा क्षण भर के लिए वे मतवाले हाथी भी यहाँ से अन्यत्र चले गये हैं । ऐसी दशा में उन हरिचन्दन पादपों से टपकते हुए मदजल को देखकर यह अनुमान हो रहा है कि यहाँ ऐरावत आया होगा ॥ ४७ ॥

जलदजालघनैरासिताश्मनामुपहतप्रचयैरह मरीचिभिः । भवति दीप्तिरदीपितकन्दरा तिमिरसंवलितेव विवस्वतः ॥ ४८ ॥

अन्वयः- इह जलदजालघनैः असिताश्मनाम् मरीचिभिः उपहतप्रचया अदीपितकन्दरा विवस्वतः दीप्तिः तिमिरसंवलिता इव भवति ।

विग्रहः- जलदानां जालघनैः = जलदजालघनैः । असिताः अश्मानः = असिताश्मानस्तेषाम् = असिताश्मनाम् । उपहतः प्रचयः यया सा उपहतप्रचया । न दीपिताः कन्दराः यया सा = अदीपितकन्दरा । तिमिरेण संवलिता = तिमिरसंवलिता ।

अर्थः- इह = अत्र पर्वते । जलदजालघनैः = सघनघनैः । असिताश्मनाम् = नीलमणीनाम् । मरीचिभिः = दीधितिभिः । उपहतप्रचया = विघटितसंघाता । अदीपितकन्दरा = अप्रकाशितगह्वरा । विवस्वतः = भानोः । दीप्तिः = प्रकाशः । तिमिरसंवलिता = तिमिराच्छन्ना इव भवति । अत्रोत्प्रेक्षालङ्कारः ।

कोषः- 'भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्' इत्यमरः ।

पञ्चमः सर्गः ५७

**हिन्दी—**इस इन्द्रनील पर्वत पर घनी मेघमालाओं के समान नीलमणियों की किरणों द्वारा आपस में टकरा कर सूर्य की किरणें कन्दराओं को प्रकाशित नहीं कर पाती हैं। इस प्रकार वे सूर्य-किरणें तिमिराच्छन्न-सी हो जाती हैं ॥ ४८ ॥

भव्यो भवन्नपि मुनेरिह शासनेन, क्षात्रे स्थितः पथि तपस्य हतप्रमादः । प्रायेण सत्यपि हितार्थंकरे विधौ हि, श्रेयांसि लब्धुमसुखानि विनान्तरायैः ॥ ४९ ॥

**अन्वयः—**इह भव्यः भवन् अपि मुनेः शासनेन क्षात्रे पथि स्थितः हतप्रमादः तपस्य । हि प्रायेण हितार्थकरे विधौ सति अपि अन्तरायैः विना श्रेयांसि लब्धुम् असुखानि ।

**विग्रहः—**हतः प्रमादः येन सः = हतप्रमादः । हितम् अर्थञ्च करोति यः तस्मिन् = हितार्थकरे । नास्ति सुखं येषु तानि = असुखानि ।

**अर्थः—**इह = अस्मिन् पर्वते । भव्यः = शान्तः । भवन् अपि = सम्भवन्नपि । मुनेः = व्यासस्य । शासनेन = इन्द्राराधनरूपाज्ञया । क्षात्रे = क्षत्रियोचिते । पथि = मार्गे । स्थितः = वर्तमानः । हतप्रमादः = प्रमादरहितः । तपस्य = तपश्चर । हि = यतः । प्रायेण = प्रायः, हितार्थकरे = हितकरे । विधौ = व्यापारे । सत्यपि = भवत्यपि । अन्तरायैः विना = विघ्नैः विना । श्रेयांसि = कल्याणानि । लब्धुम् = प्राप्तुम् । असुखानि = अशक्यानि ।

कोषः—'अयनं वर्त्म मार्गश्चाध्वपन्थानः पदवी सृतिः' इत्यमरः ।

हिन्दी—( यक्ष ने अर्जुन से कहा ) हे अर्जुन ! भव्य होते हुए भी व्यास मुनि की आज्ञा के अनुसार क्षत्रिय धर्म का पालन करते हुए सावधान होकर इस इन्द्रनील पर्वत पर तुम तप करो । प्रायः कल्याण होने में अनेक विघ्न पड़ते ही हैं ॥ ४९ ॥

मा भूवन्नपपथहृतस्तवेन्द्रियाश्वाः सन्तापे दिशतु शिवः शिवां प्रसक्तिम् । रक्षन्तस्तपसि बलं च लोकपालाः कल्याणीमधिकफलां क्रियां क्रियासुः ॥ ५० ॥

५८ | किरातार्जुनीयम्

अन्वयः— तव इन्द्रियाश्वाः अपथहृतः मा भूवन्, सन्तापे शिवः शिवां प्रसक्तिम् दिशतु। लोकपालाः तपसि बलं रक्षन्तः कल्याणीं क्रियाम् अधिकफलां क्रियासुः।

विग्रहः— इन्द्रियाण्येवाश्वाः = इन्द्रियाश्वाः। अपथेन हरन्तीत्यपथहृतः। लोकान् पालयन्तीति लोकपालाः। अधिकं फलं यस्यां ताम् = अधिकफलाम्।

अर्थः— तव = ते (अर्जुनस्य) इन्द्रियाश्वाः = इन्द्रियतुरगाः। अपथहृतः = अपथचालकाः। मा भूवन् = नैव भवन्तु। सन्तापे = तपःक्लेश। शिवः = शङ्करः। शिवां = कल्याणिनीं। प्रसक्तिम् = प्रवृत्तिम्। दिशतु = प्रकाशयतु। लोकपालाः = इन्द्रादयः। तपसि = तपश्चरणे। बलं = शक्तिम्। रक्षन्तः = वर्द्धयन्तः सन्तः। कल्याणी = साध्वीम्। क्रियाम् = अनुष्ठानम्। अधिकफलाम् = अधिकफलवन्तम्। क्रियासुः = कुर्वन्तु।

कोषः— 'घोटको वीतितुरगतुरङ्गानश्वतुरङ्गमाः' इत्यमरः।

हिन्दी— आपकी इन्द्रियां घोड़ों के समान अपथगामिनी न बनें, तपःक्लेश में भगवान् आपको कल्याण में प्रवृत्त करें तथा इन्द्रादि लोकपाल तपस्या में आपकी शक्ति की रक्षा करते हुए कल्याणकारी कार्य (तपस्या) को सफल बनावें॥ ५० ॥

इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे
धाम स्वं गतवति राजराजभृत्ये।
सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ
सन्धत्ते भृशमरतिं हि सद्वियोगः॥ ५१ ॥

अन्वयः— प्रियार्हे राजराजभृत्ये इति प्रियं हितम् उक्त्वा सपदि स्वं धाम गतवति पृथासुतः सोत्कण्ठम् किम् अपि प्रदध्यौ। हि सद्वियोगः भृशम् अरतिं सन्धत्ते।

विग्रहः— प्रियस्यार्हः = प्रियार्हः तस्मिन् = प्रियार्हे। राज्ञां राजा = राजराजः तस्य भृत्यः, तस्मिन् = राजराजभृत्ये। पृथायाः सुतः = पृथासुतः। उत्कण्ठया सहितम् = सोत्कण्ठम्। सता वियोगः = सद्वियोगः। न रतिः = अरतिस्ताम् = अरतिम्।

पञ्चमः सर्गः ५९

पञ्चमः सर्गः ५९

**अर्थः—**प्रियार्हे = प्रिययोग्ये। राजराजभृत्ये = यक्षराजसेवके। इति = पूर्वोक्तम्। प्रियं = मधुरम्। हितं = हितकरम्। उक्त्वा = कथयित्वा। सपदि = द्रुतम्। स्वं = स्वकीयम्। धाम = स्थानं। गतवति = गते सति। पृथासुतः = अर्जुनः। सोत्कण्ठम् = सोत्सुकम्। किमपि प्रदध्यौ = चिन्तयामास। हि = यतः। सद्वियोगः = सतां वियोगः। भृशम् = अत्यन्तम्। अरतिम् = व्यथाम्। सन्धत्ते = करोति। अत्र अर्थान्तरन्यासः।

कोषः—‘भृत्ये दासेरदासेयदासगोप्यकचेटकाः’ इत्यमरः।

**हिन्दी—**इस प्रकार प्रिय एवं हितकर वाक्य कहकर प्रिय यक्ष के अपने लोक (स्थान) को चले जाने पर पृथासुत अर्जुन उत्कण्ठित होकर कुछ सोचने लगे। वास्तव मे प्रिय लोगों का वियोग व्यथित कर देता है॥ ५१ ॥

तमर्नतिशयनीयं सर्वतः सारयोगा- दांवरहितमनेकेनाङ्गभाजा फलेन। अकृशमकृशलक्ष्मीश्चेतसाशंसितं स स्वमिव पुरुषकारं शैलमभ्याससाद ॥ ५२ ॥

**अन्वयः—**अकृशलक्ष्मीः सः सर्वतः सारयोगात् अनतिशयनीयम् अनेकेन अङ्गभाजा फलेन अविरहितम् अकृशं चेतसाशंसितं तं शैलम् अभि स्वं पुरुषकारम् इव आससाद।

**विग्रहः—**अकृशाः लक्ष्म्यः यस्य सः = अकृशलक्ष्मीः। सारस्य योगस्तस्मात् = सारयोगात्। न अतिशयनीयम् = अनतिशयनीयम्। अङ्गं भजतीति अङ्गभाक्, तेनाङ्गभाजा। नास्ति । विरहितम् = अविरहितम्। पुरुषस्य कारस्तं = पुरुषकारम्।

**अर्थः—**अकृशलक्ष्मीः = विशाललक्ष्मीः। सः = अर्जुनः। सर्वतः = सर्वत्र। सारयोगात् = बलप्रयोगात्। अनतिशयनीयम् = अनतिक्रमणीयम्। अनेकेन = बहुना। अङ्गभाजा = समीप गतेन। फलेन = कार्यसिद्ध्या। अविरहितम् = अशून्यम्। अकृशम् = अतनुं। चेतसाशंसितं = प्राप्तुम् इष्टम्। तं = पूर्वोक्तम्। शैलम् अभि = नीलमणिपर्वतम् प्रति। स्वं = निजम्। पुरुषकारम् = भाग्यम् इव। आससाद = प्राप्तवान्। अत्रोपमालङ्कारः। मालिनीवृत्तम्।

६० | किरातार्जुनीयम्

कोष:--'सारो बले स्थिरांशे च न्यासे क्लीबं वरे त्रिषु' इत्यमरः ।

**हिन्दी--**जिस प्रकार अर्जुन का भाग्य सर्वथा अनतिक्रमणीय, शीघ्र होने-वाला तथा अनेक फलों से युक्त महान् था उसी प्रकार नीलमणिपर्वत भी था। पूर्ण बल लगाकर भी उसे कोई पार नहीं कर सकता था। बहुत समय से अर्जुन इस विशाल पर्वत पर आने के लिए इच्छुक थे। इस प्रकार इन्द्रनील पर्वत पर अर्जुन पहुँच गये ॥ ५२ ॥

इति भारविकृतो सुधाटीका-संबलित-किरातार्जुनीये पञ्चमः सर्गः ।

षष्ठः सर्गः

रुचिराकृतिः कनकसानुमयो परमः पुमानिव पतिं पतताम् ।
धृतसत्पथस्त्रिपथगामभितः स तमारुरोह पुरुहूतसुतः ॥ १ ॥

अन्वयः—अथो रुचिराकृतिः धृतसत्पथः सः पुरुहूतसुतः कनकसानुं तम् परमः पुमान् पतताम् पतिम् इव त्रिपथगाम् अभितः आरुरोह ।

विग्रहः—रुचिरा आकृतिर्यस्य सः=रुचिराकृतिः । धृतः सतां पन्था येन सः=धृतसत्पथः । पुरुहूतस्य सुतः = पुरुहूतसुतः । कनकस्य सानवो यस्य तम्=कनकसानुम् । त्रिभिः पथिभिर्गच्छतीति त्रिपथगा, ताम्=त्रिपथगाम् ।

अर्थः—अथो = इन्द्रनीलासादनानन्तरम् । रुचिराकृतिः = सौम्यरूपः । धृतसत्पथः = गृहीतसन्मार्गः । सः = अर्जुनः । पुरुहूतसुतः = इन्द्रपुत्रः । कनकसानुं = सुवर्णशेखरम् । तम् = इन्द्रनीलाद्रिम् । परमः पुमान् = विष्णुः । पततां = पक्षिणाम् । पतिं = स्वामिनं, गरुडम् इव । त्रिपथगाम् = भागीरथीम् । अभितः = अभिमुखम् । आरुरोह = आरोहणं कृतवान् । अत्र प्रमिताक्षरावृत्तम् ।

कोषः—‘समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः’ इत्यमरः ।

हिन्दी—इन्द्रकील पर्वत पर पहुँचने के पश्चात् सुन्दर शरीरवाले, सन्मार्ग पर चलनेवाले इन्द्रपुत्र अर्जुन ने भागीरथी के सम्मुख से सुवर्ण-शिखरों वाले उस इन्द्रनील पर्वत पर इस प्रकार चढ़ना आरम्भ किया जैसे पुराणपुरुष (विष्णु) गरुड़ पर चढ़ते हैं ॥ १ ॥

अथास्य कार्यसिद्धिनिमित्तानि सूचयन् मार्गं वर्णयति :—
तमनिन्द्यवन्दिन इवेन्द्रसुतं विहितालिनिक्कणजयध्वनयः ।
पवनेरिताकुलविजिह्मशिखा जगतीरुहोऽवचकरुः कुसुमैः ॥ २ ॥

अन्वयः—विहितालिनिक्कणजयध्वनयः पवनेरिताकुलविजिह्मशिखाः जगतीरुह अनिन्द्यवन्दिनः इव तम् इन्द्रसुतं कुसुमैः अवचकरुः ।

विग्रहः—विहिताः अलिनिक्कणा जयध्वनय इव यैस्ते=विहितालिनिक्कणजयध्वनयः । पवनेन ईरिताः अतएव, आकुलाः विजिह्माः शिखाः येषां ते=

६२ किरातार्जुनीयम्

पवनेरिताकुलविजिह्यशिखाः । अनिन्द्याः ये वन्दिनस्ते = अनिन्द्यवन्दिनः ।
इन्द्रस्य सुतस्तम् = इन्द्रसुतम् ।
अर्थः—विहितालि निक्कणजयध्वनयः = कृतभ्रमर विजयध्वनयः । पवनेरिता-
कुलविजिह्यशिखाः = वायुप्रेरितलोलवक्रशाखाग्राः । जगतीरुहः = भूरुहः । अनिन्द्य-
वन्दिन इव = अनवद्यस्तुतिपाठका इव । तम् = उपर्युक्तम् । इन्द्रसुतम् =
पुरुहूतपुत्रम् (अर्जुनम्) । कुसुमैः = पुष्पैः । अवचकरुः = अभिववृषुः । अत्र
सङ्करालङ्कारः ।
कोषः—'शिखा ज्वाला केकिमौलोः शिखाशाखाप्रगौलिषु' इति वैजयन्ती ।
हिन्दी—जयध्वनि के रूप में भौंरों के मधुर गुञ्जन से युक्त, वायु के द्वारा
झुकी हुई सुन्दर शाखाओं वाले वृक्षों ने प्रशस्त वन्दीजनों की भाँति इन्द्रसुत
अर्जुन का पुष्पों के द्वारा अभिषेक किया अर्थात् अर्जुन के स्वागत में वृक्षों ने
पुष्पवृष्टि की ॥ २ ॥

अवधूतपङ्कजपरागकणास्तनुजाह्नवीसलिलवीचिभिदः ।
परिरेभिरेऽभिमुखमेत्य सुखाः सुहृदः सखायमिव तं मरुतः ॥ ३ ॥

अन्वयः — अवधूतपङ्कजपरागकणाः तनुजाह्नवीसलिलवीचिभिदः सुखाः
मरुतः सुहृदः सखायम् इव तम् अभिमुखम् एत्य परिरेभिरे ।
विग्रहः—पङ्कजानां परागः पङ्कजपरागस्तस्य कणाः, अवधूताः पंकजपराग-
कणाः यैस्ते—अवधूतपङ्कजपरागकणाः । तनुजाह्नव्याः सलिलम्, तस्य वीचय-
स्ताः भिन्दन्तीति = तनुजाह्नवीसलिलवीचिभिदः । सुखयन्तीति सुखाः ।
अर्थः—अवधूतपङ्कजपरागकणाः = उद्धृतकमलकेसरकणाः । तनुजाह्नवी-
सलिलवीचिभिदः = क्षीणगङ्गाजलतरङ्गभिदः । सुखाः = सुखकराः । मरुतः =
पवनाः । सुहृदः = मित्ररूपाः । सखायम् = मित्रम्, इव, तम् = अर्जुनम् ।
अभिमुखम् = सम्मुखम् । एत्य = गत्वा । परिरेभिरे = आलिङ्गितवन्तः ।
कोषः—'भंगस्तरंग ऊर्मिर्वा स्त्रियां वीचिरथोर्मिषु' इत्यमरः ।
हिन्दीः—पङ्कजपराग को बिखेरते हुए, छोटी-छोटी गंगाजल की लहरों को
भेदते हुए चलनेवाले सुखदायी मित्र पवन ने उसी प्रकार अर्जुन का आलिंगन
किया जैसे कोई मित्र अपने प्रियमित्र के मिलने पर करता है ॥ ३ ॥

उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः ।
मुदमस्य मङ्गलिकतूर्यकृतां ध्वनयः प्रतेनुरनुवप्रमपाम् ॥ ४ ॥

षष्ठः सर्गः६३

**अन्वयः—**उदितोपलस्खलनसंवलिताः स्फुटहंससारसविरावयुजः अनुवप्रम् अपाम् ध्वनयः अस्य माङ्गलिकतूर्यकृताम् मुदम् प्रतेनुः ।

**विग्रहः—**उदितानि उपलानि = उदितोपलानि, तेषु, स्खलनम्, तेन संवलिताः = उदितोपलस्खलनसंवलिताः । हंसानां सारसानाञ्च विरावाः हंस-सारसविरावास्तैः । स्फुटैः हंससारसविरावैः युज्यन्ते इति स्फुटितहंससारस-विरावयुजः । मङ्गलं प्रयोजनं येषां तं = माङ्गलिकास्तै । तूर्यैः कृताम् = माङ्ग-लिकतूर्यकृताम् ।

**अर्थः—**उदितोपलस्खलनसंवलिताः = उन्नतपाषाणप्रतिघातचूर्णिताः । स्फुट-हंससारसविरावयुजः = हंससारसपक्षिकूजनयुक्ताः । अनुवप्रम् = उच्चस्थानात्पत-ताम् । अपाम् = जलानाम् । ध्वनयः = स्वराः । अस्य = अर्जुनस्य । माङ्गलिक-तूर्यकृताम् = मङ्गलकाले तूर्यवाद्यकृताम्, मुदम् = मोदम् । प्रतेनुः = विस्तार-यामासुः । अत्र निदर्शनालङ्कारः ।

कोषः—‘पुष्कराह्वस्तु सारसः’ इत्यमरः ।

**हिन्दी—**उन्नत पाषाणों से टकराकर छिन्न-भिन्न हुई, स्पष्ट हंसों और सारसों के कूजन से युक्त ऊँचे से नीचे की ओर गिरने वाले जल की कलकल ध्वनियों ने अर्जुन के माङ्गलिक काल में होनेवाले मृदङ्गादि वाद्य घोषों से जनित मोद की अभिवृद्धि की ॥ ४ ॥

अवरुग्णतुङ्गसुरदारुतरौ निचये पुरः सुरसरित्पयसाम् ।
स ददर्श वेतसवनाचरितां प्रणति बलीयसि समृद्धिकरोम् ॥ ५ ॥

**अन्वयः—**सः पुरः अवरुग्णतुङ्गसुरदारुतरौ बलीयसि सुरसरित्पयसां निचये वेतसवनाचरितां समृद्धिकरीं प्रणति ददर्श ।

**विग्रहः—**तुङ्गश्चासौ सुरदारुस्तस्मिन्, अवरुग्णे तुङ्गसुरदारुतरो इति = अवरुग्णतुङ्गसुरदारुतरौ । सुरसरितः पयांसि = सुरसरित्पयांसि, तेषां = सुरसरि-त्पयसाम् । वेतसवनेन आचरिता, ताम् = वेतसवनाचरिताम् । समृद्धिं करोतीति समृद्धिकरी ताम् = समृद्धिकरीम् ।

**अर्थः—**सः = अर्जुनः । पुरः = अग्रे । अवरुग्णतुङ्गसुरदारुतरौ = भग्नोन्नत-देवदारुवृक्षे । बलीयसि = बलवत्तरे । सुरसरित्पयसां = गङ्गाजलानाम् । निचये = राशौ । वेतसवनाचरिताम् = वानीरवनाचरिताम् । समृद्धिकरीम् = श्रेयस्करीम् । प्रणति = नतिम् । ददर्श अवलोकयामास ।

६४ किरातार्जुनीयम्

कोषः—'रथ्याभ्रपुष्पविदुलशीतवानीरवञ्जुलाः' इत्यमरः।

हिन्दी—अर्जुन ने सामने ही गङ्गाजल में ऊँचे-ऊँचे देवदारु वृक्षों की टूटी [हुई शाखाओं को इस प्रकार उछलते-डूबते देखा जैसे कि वे झुकी हुई बेंतप्रताओं की भाँति कल्याणकारिणी प्रणतियाँ हों ॥ ५ ॥

प्रबभूव नालमवलोकयितुं परितः सरोजरजसारुणितम् ।
सरिदुत्तरीयमिव संहतिमत्स तरङ्गरङ्गि कलहंसकुलम् ॥ ६ ॥

अन्वयः—सः परितः सरोजरजसा अरुणितम् संहतिमत् तरङ्गरङ्गि सरिदुत्तरीयम् इव कलहंसकुलम् अवलोकयितुम् अलम् न प्रबभूव ।

विग्रहः—सरोजानां रजस्तेन = सरोजरजसा । तरङ्गैः रङ्गि = तरङ्गरङ्गि । कलहंसानां कुलम् = कलहंसकुलम् ।

अर्थःसः = अर्जुनः । परितः = अभितः । सरोजरजसा = कमलपरागेण । अरुणितम् = पाटलितम् । संहतिमत् = नीरन्ध्रम् । तरङ्गरङ्गि = ऊर्मिशोभि । सरिदुत्तरीयम् इव = नदीस्तनांशुकसदृशम् । कलहंसकुलम् = कादम्बकुलम् । अवलोकयितुम् = द्रष्टुम् । अलम् = अत्यर्थम् । न प्रबभूव = न शशाक ।

कोष—'कादम्बः कलहंसः स्यात्' इत्यमरः ।

हिन्दी—वह (अर्जुन) चारों ओर कमलरज से रंगे हुए, अभिन्न तथा जलतरंगों से शोभित, गङ्गा के उत्तरीय के समान बने हुए हंससमूह को अधिक समय तक देखने में समर्थ नहीं हो सके ।

दधति क्षतीः परिणतद्विरदे मुदितालियोषिति मदस्रुतिभिः।
अधिकां स रोधसि बबन्ध धृतिं महते रुजन्नपि गुणाय महान् ॥ ७ ॥

अन्वयः—सः क्षतीः दधति परिणतद्विरदे मदस्रुतिभिः मुदितालियोषिति रोधसि अधिकां धृतिं बबन्ध । महान् रुजन् अपि महते गुणाय ।

विग्रहः—परिणताः द्विरदाः यस्मिंस्तस्मिन् = परिणतद्विरदे । मदानां स्रुतयः ताभिः = मदस्रुतिभिः । मुदिताः अलियोषितः यस्मिंस्तस्मिन् मुदितालियोषिति ।

अर्थःसः = अर्जुनः । क्षतीः = क्षतानि । दधति = धारयति । परिणतद्विरदे = तिर्यग्दन्तप्रहारिद्विरदे । मदस्रुतिभिः = मदस्रवणैः । मुदितालियोषिति = प्रसन्नभ्रमरस्त्रीजने । रोधसि = तटे । अधिकाम् = महतीं । धृतिम् = प्रीतिम् ।

षष्ठः सर्गः ६५

बबन्ध = बद्धवान् । महान् = साधुः । रुजन् = पीडितो भवन् । अपि । महतेगुणाय = महोत्कर्षाय । भवति । अत्र अर्थान्तरन्यासालङ्कारः । कोषः— 'तिर्यग्दन्तप्रहारस्तु गजः परिणतो मतः' इति हलायुधः । **हिन्दी—**अर्जुन के लिए गङ्गा का तट अधिक प्रियकर बन गया । यह तट हाथियों की तिरछी दांतों की चोटों से क्षत-विक्षत था । हाथियों के मदक्षरण से प्रसन्न भौंरे उसमें व्याप्त थे । महान् पुरुष पीड़ित होकर भी महान् उत्कर्ष के लिए प्रयत्नशील रहते हैं ॥ ७ ॥

अनुहेमवप्रमरुणैः समतां गतमूर्मिभिः सहचरं पृथुभिः ।
स रथाङ्गनामवनितां करुणैरनुबध्नतीमभिननन्द रुतैः ॥ ८ ॥

**अन्वयः—**सः अनुहेमवप्रम् अरुणैः पृथुभिः ऊर्मिभिः समतां गतम् सहचरं करुणैः रुतैः अनुबध्नतीं रथाङ्गनामवनिताम् अभिननन्द ।

**विग्रहः—**अनु ( पश्चात् ) हेमवप्रस्य समीपे = अनुहेमवप्रम् । सह भूतं चरं = सहचरम् । रथाङ्गनाम्नां वनिता, ताम् = रथाङ्गवनिताम् ।

**अर्थः—**सः = अर्जुन । अनुहेमवप्रम् = हेमसानुसमीपे । अरुणैः = पाटलैः । पृथुभिः = विस्तृतैः । ऊर्मिभिः = तरङ्गैः । समतां = समत्वम् । गतम् = प्राप्तम् । सहचरं = प्रियम् । करुणैः = दीनैः । रुतैः = कूजितैः । अनुबध्नतीम् = अन्विष्यन्तीम् । रथाङ्गनामवनिताम् = चक्रवाकीम् । अभिननन्द = अभिनन्दनंचकार । अत्र तद्गुणालंकारः ।

कोषः—'सुवर्णं विस्तो हेम्नोऽक्षे' इत्यमरः । 'हिरण्यं हेम हाटकम्' इत्यमरः ।

**हिन्दी—**अर्जुन ने स्वर्ण-शिखर के निकट अरुण तथा विस्तृत तरङ्गों के द्वारा समता करनेवाले प्रिय सहचर (चक्रवाक) को करुण स्वर से कूजन करके ढूँढती हुई चक्रवाकी को अभिनन्दित किया ॥ ८ ॥

सितवाजिने निजगदू रुचायश्चलवीचिरागरचनापटवः ।
मणिजालमम्भसि निमग्नमपि स्फुरितं मनोगतमिवाकृतयः ॥ ९ ॥

**अन्वयः—**चलवीचिरागरचनापटवः रुचयः अम्भसि निमग्नम् अपि मणिजालम् मनोगतम् स्फुरितम् आकृतयः इव सितवाजिने निजग्दुः ।

**विग्रहः—**चलवीचीनां रागः = चलवीचिरागः, तस्य रचना = चलवीचिराग०

५ कि०

६६ | किरातार्जुनीयम्

रचना, तस्यां पटवः = चलवीचिरागरचनापटवः । मणीनां जालम् = मणिजालम् । मनसि गतम् = मनोगतम् । सिताः वाजिनः यस्य, तस्मै = सितवाजिने ।

अर्थः—चलवीचिरागरचनापटवः = चञ्चलतरङ्गरञ्जनरचनासमर्थाः । इनयः = प्रभाः । अम्भसि = जले । निमग्नम् = निमज्जतम् । अपि मणिजालम् = मणिसमूहम् । मनोगतम् = चेतोगतम् । स्फुरितम् = रोषादिविकारम् । आकृतय इव = भ्रूभङ्गादिबाह्यविकारा इव । सितवाजिने = अर्जुनाय । निजग्दुः = ज्ञापयामासुः ।

कोषः—‘मणिर्द्वयोरत्नजातौ रत्ने मुक्तादिकेऽपि च ।’ इत्यमरः ।

हिन्दी—चञ्चल तरङ्गों के रंगों की रचना करने में कुशल, रत्नों की प्रभायें जल में डूबो हुई थीं, उन प्रभाओं ने जल में छिपे मणि-समूह की सूचना अर्जुन को उसी प्रकार दी जैसे कि मनोगत रोषादि विकार आकृतियों से ही प्रकाश (ज्ञात) हो जाते हैं ॥ ९ ॥

उपलाहतोद्धततरङ्गधृतं जविना विधूतविततं मरुता । स ददर्श केतकशिखाविशदं सरितः प्रहासमिव फेनमपाम् ॥१०॥

अन्वयः—उपलाहतोद्धततरङ्गधृतम् जविना मरुता विधूतविततं केतकशिखाविशदम् अपां फेन सरितः प्रहासम् इव सः ददर्श ।

विग्रहः—उपलैः आहताः उद्धताः तरङ्गाः = उपलाहतोद्धततरङ्गाः = तैः धृतम् = उपलाहतोद्धततरङ्गधृतम् । विधूतं च विततं च = विधूतविततम् । केतकस्य शिखः = केतकशिखा = तद्वद् विशदं = केतकशिखाविशदम् ।

अर्थः—उपलाहतोद्धततरङ्गधृतम् = प्रस्तरताडनोद्धतवीचिधृतम् । जविना = वेगवता । मरुता = वायुना । विधूतविततम् = उद्धतविस्तृतम् । केतकशिखाविशदम् = केतकशाखाग्रधवलम् । अपाम् = अम्भसां फेनम् = अब्धिकफम् । सरितः = नद्यः । प्रहासम् = अट्टहासम् । इव = सदृशम् । सः = अर्जुनः । ददर्श = अवलोकयामास ।

अत्रोत्प्रेक्षालंकारः ।

कोषः—‘डिण्डीरोऽब्धिकफः फेन’ इत्यमरः ।

हिन्दी—अर्जुन ने केतकी पुष्प के समान श्वेत जल-फेन को नदी के अट्टहास के समान देखा । यह फेन पत्थरों से ताड़ित होकर उत्पन्न हुई तरंगों से युक्त था तथा तीव्र वायु उसे उछालकर फैला रही थी ॥ १० ॥

षष्ठः सर्गः ६७

बहु बर्हिचन्द्रकनिभं विदधे धृतिमस्य दानपयसां पटलम् ।
अवगाढमीक्षितुमिभेभपतिं विकसद्विलोचनशतं सरितः ॥ ११ ॥

अन्वयः—बर्हिचन्द्रकनिभं बहु दानपयसां पटलम् अवगाढम् इभपतिम् ईक्षितुम् विकसत् सरितः विलोचनशतम्, अस्य धृतिम् विदधे ।

विग्रहः—बर्हिणः चन्द्रकनिभम् = बर्हिचन्द्रकनिभम् ; दानस्य पयस्तेषाम् = दानपयसाम् । इभानां पतिः, तम् = इभपतिम् । विलोचनानि च तानि शतानि तेषां समाहार इति विलोचनशतम् ।

अर्थः—बर्हिचन्द्रकनिभं = मयूरमेचकसदृशम् । बहु = अनेकधा । दानमदजलानाम् । पटलम् = बिन्दुसमूहम् । अवगाढम् = अन्तःप्रविष्टम् इभपतिम् = गजराजम् । ईक्षितुम् = द्रष्टुम् । विकसत् = उन्मिषत् । सरितः = नद्यः । विलोचनशतम् = नेत्रशतम् इव । अस्य = अर्जुनस्य । धृतिम् = प्रीतिम् । विदधे = चकार । अत्रोत्प्रेक्षालंकारः ।

कोषः—‘समो चन्द्रकमेचकौ’ इत्यमरः

हिन्दी—मयूरपिच्छ के समान, प्रचुर मदजलबिन्दु जल में प्रविष्ट गजराज को देखने के लिए नदी के खुले हुए सैकड़ों नेत्रों के समान अर्जुन के प्रेम को बढाने में सहायक हुए ॥ ११ ॥


प्रतिबोधजृम्भणविभिन्नमुखी पुलिने सरोरुहदृशा ददृशे ।
पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दुरिव शुक्तिवधूः ॥ १२ ॥

अन्वयः—प्रतिबोधजृम्भणविभिन्नमुखो पतदच्छमौक्तिकमणिप्रकरा गलदश्रुबिन्दु इव शुक्तिवधूः पुलिने सरोरुहदृशा ददृशे ।

विग्रहः—प्रतिबोधे जृम्भणम् = प्रतिबोधजृम्भणम्, तेन विभिन्नम् मुखम् यस्याः सा = प्रतिबोधजृम्भणविभिन्नमुखी। पतन् अच्छमौक्तिकमणीनां प्रकरः यस्याः सा = पतदच्छमौक्तिकमणिप्रकरा । गलन्तः अश्रुबिन्दवः यस्याः सा = गलदश्रुबिन्दुः । शुक्तिः वधुः इव सा = शुक्तिवधूः । सरोरुहम् इव दृक् यस्य तेन = सरोरुहदृशा ।

अर्थः—प्रतिबोधजृम्भणविभिन्नमुखी = उद्बोधोच्छूनविवृतास्या । पतदच्छमौक्तिकमणिप्रकरा=प्रसरदच्छमौक्तिकमणितोमा । गलदश्रुबिन्दुः = पतदश्रुबिन्दुः ।

६८ किरातार्जुनीयम्

इव शुक्तिवधूः = शुक्तिकावधूः । पुलिने = सैकते । सरोरुहदृशा = कमलनेत्रेणार्जुनेन : ददृशे = दृष्टा । अत्र सन्देहालङ्कारः । कोषः—'पुलिनं सैकतं सिकतामयम्' इत्यमरः । **हिन्दी:—**कमल के समान नेत्रों वाले अर्जुन ने पुलिन-प्रदेश में झाँसुओं की झड़ीसी लगाती हुई रमणी के समान शुक्तिका (सीपी) को देखा। यह सीपी इस प्रकार खुली हुई थी जैसे जगकर जम्भाई लेते हुए मुख खोले हुए रमणी होती है । इस सीप से मौक्तिक कांति फैल रही थी ॥ १२ ॥

शुचिरप्सु विद्रुमलताविटपस्तनुसान्द्रफेनलवसंवलितः । स्मरदायिनः स्मरयतिस्म भृशं दयिताधरस्य दशनांशुभृतः ॥ १३ ॥

**अन्वयः—**अप्सु शुचिः तनुसान्द्रफेनलवसंवलितः विद्रुमलताविटपः स्मरदायिनः दशनांशुभृतः दयिताधरस्य भृशं स्मरयतिस्म ।

**विग्रहः—**तनुना सान्द्रेण च फेनस्य लवेन संवलितः = तनुसान्द्रफेनलवसंवलितः । विद्रुमलतायाः विटपः = विद्रुमलताविटपः । स्मरं दातुं शीलमस्य सः- स्मरदायी, तस्य = स्मरदायिनः । दशनांशु बिभर्तीति तस्य = दशनांशुभृतः । दयितायाः अधरस्तस्य = दयिताधरस्य ।

**अर्थः—**अप्सु = जलेषु । शुचिः = स्वच्छः । तनुसान्द्रफेनलवसंवलितः = क्षीणसघनफेनशीकरसङ्गतः । विद्रुमलताविटपः = विद्रुमलतापल्लवः । स्मरदायिनः = कामोद्दीपकस्य । दशनांशुभृतः = दन्तकान्तिकलिउस्य । दयिताधरस्य = प्रियाधरस्य । भृशम् = अत्यन्तम् । स्मरयतिस्म = स्मरणं कारयति स्म । अत्र स्मरणालङ्कारः ।

कोषः—'विटपः पल्लवे विड्गे विस्तारे स्तम्बशाखयोः' इति विश्वः । **हिन्दी:—**जल में स्वच्छ तथा छोटे व घने फेन-कणों (बिन्दुओं) से युक्त विद्रुमलता का पल्लव, कामोद्दीपक, दशनकान्तिककलित प्रियतमा के अधर का स्मरण करा देता था ॥ १३ ॥

उपलभ्य चञ्चलतरङ्गधूतं मदगन्धमुत्थितवतां पयसः । प्रतिदन्तिनामिव स सम्बुबुधे करियादसामभिमुखान्करिणः ॥ १४ ॥

**अन्वयः—**सः चञ्चलतरङ्गधूतं मदगन्धम् उपलभ्य पयसः उत्थितवतां करियादसां प्रतिदन्तिनाम् इव अभिमुखान् करिणः सम्बुबुधे ।

षष्ठः सर्गः ६९

षष्ठः सर्गः ६९

विग्रहः—चञ्चलैः तरंगैः धृतम् चञ्चलतरङ्गधृतम् । मदस्य गन्धस्तं = मदगन्धम् । कर्याकाराणां यादसाम् = करियादसाम् ।
अर्थः—सः = अर्जुनः । चञ्चलतरङ्गधृतम् = चपलोर्मिधृतम् । मदगन्धम् = मदजलगन्धम् । उपलभ्य = आघ्राय । पयसः = अम्भसः । उत्थितवताम् = उद्भूतानाम् । करियादसाम् = गजाकाराणां जलजन्तूनाम् । प्रतिदन्तिनां = प्रतिगजानाम् इव । अभिमुखान् = अभियातान् । करिणः = गजान् । सम्बुबुधे = ददर्श ।
कोषः—'मतङ्कजो गजो नागः कुञ्जरो वारणः करी' इत्यमरः ।
हिन्दी—अर्जुन ने चंचल तरङ्गों से आवृत मदगन्ध को सूंघकर जल की सतह से उठे हुए हाथियों के आकार के जलजन्तु जो कि प्रतिदन्तिओं के समान थे, उन्हें प्रतिदन्तिओं के समान ही देखा ॥ १४ ॥

स जगाम विस्मयमृदीक्ष्य पुरः सहसा समुत्पिपतिषोः फणिनः ।
प्रहितं दिवि प्रजविभिः श्वसितैः शरदभ्रविभ्रममपां पटलम् ॥ १५ ॥

अन्वयः—सः पुरः सहसा समुत्पिपतिषोः फणिनः प्रजविभिः श्वसितैः दिवि प्रहितं शरदभ्रविभ्रमम् अपां पटलम् उदीक्ष्य विस्मयम् जगाम ।
विग्रहः—समुत्पतितुम् इच्छोः = समुत्पिपतिषोः । शरदभ्रस्य विभ्रम इव विभ्रमः यस्य तत् = शरदभ्रविभ्रमम् ।
अर्थः—सः = अर्जुनः । पुरः = अग्रे । सहसा = हठात् । समुत्पिपतिषोः = समुत्पतितुमिच्छोः । फणिनः = सर्पस्य । प्रजविभिः = वेगवद्भिः । श्वसितैः = फूत्कारैः । दिवि = आकाशे । प्रहितं = प्रेरितम् । शरदभ्रविभ्रमम् = शरन्मेघसुन्दरम् । अपाम् = अम्भसाम् । पटलम् = चयम् । उदीक्ष्य = दृष्ट्वा । विस्मयम् = आश्चर्यम् । जगाम = अगच्छत् । अत्र स्वभावोक्तिरलङ्कारः ।
कोषः—'द्योदिवौ द्वे स्त्रियामभ्रम्' इत्यमरः ।
हिन्दी—अर्जुन ने सामने सहसा उछलने को इच्छुक सर्प की वेगवती फुंकारों से आकाश में प्रक्षिप्त शरत्कालीन मेघों के समान सुन्दर जलसुषमा को देखकर बड़ा आश्चर्य किया ॥ १५ ॥

स ततार सैकतवतीरभितः शफरोपरिस्फुरितचारुदृशः ।
ललिताः सखीरिव बृहज्जघनाः सुरनिम्नगामुपयती सरितः ॥१६॥

७० | किरातार्जुनीयम्

अन्वयः— सः सैकतवतीः अभितः शफरीपरिस्फुरितचारुदृशः सुरनिम्नगाम् उपयतीः बृहज्जघनाः ललिताः सखीः इव सरितः ततार ।

विग्रहः— सिकताः आसु सन्तीति ताः = सैकतवतीः । शफरीणां परिस्फुरितानि तानि एव चारुदृशो यासां ताः = शफरीपरिस्फुरितचारुदृशः । निम्नम् गच्छतीति निम्नगा । सुराणां निम्नगा, तां = सुरनिम्नगाम् । बृहत् जघनं यासां ताः = बृहज्जघनाः ।

अर्थः— सः = अर्जुनः । सैकतवतीः = सिकतायुक्ताः अभितः = परितः । शफरीपरिस्फुरितचारुदृशः = मत्स्योत्स्फुरितसुन्दरनयना । सुरनिम्नगाम् = गङ्गानदीम् । उपयतीः = भजन्तीः । बृहज्जघनाः = स्थूलजघनाः । ललिताः = सुन्दरीः । सखीः = प्रियाः इव । सरितः = नदीः । ततार = अतिक्रमणं चकार ।

कोषः— 'प्रोष्ठी तु शफरी द्वयोः ।' इत्यमरः ।

हिन्दी— अर्जुन ने रेतीली और चारों ओर उछलती हुई मछलियों से युक्त नदियों को पार किया । यह कूदती हुई मछलियाँ मानो उन नदियों की सुन्दर आँखें हों । गङ्गा नदी में मिलनेवाली वे नदियाँ सघनजघनों वाली गङ्गा की सहेलियों के समान थीं ।। १६ ।।

अधिरुह्य पुष्पभरनम्रशिखैः परितः परिष्कृततलां तरुभिः ।
मनसः प्रसत्तिमिव मूर्ध्नि गिरेः शुचिमामसाद स वनान्तभुवम् ॥१७॥

अन्वयः— सः अधिरुह्य.पुष्पभरनम्रशिखैः तरुभिः परितः परिष्कृततलां शुचिं मनसः प्रसत्तिम् इव गिरे। मूर्ध्नि वनान्तभुवम् आससाद ।

विग्रहः— पुष्पभरेण नम्राः शिखाः येषाम् तैः = पुष्पभरनम्रशिखैः । परिष्कृतं तलं यस्यास्ताम् = परिष्कृततलाम् । वनान्ता भूस्ताम्, वनान्तभुवम् ।

अर्थः— सः = अर्जुनः अधिरुह्य = गिरिमारुह्य । पुष्पभरनम्रशिखैः = कुसुमभारावनतशिखैः । तरुभिः = पादपैः परितः = अभितः । परिष्कृततलाम् = शुद्धतलां भूषितस्वरूपां वा । शुचिम् = शुद्धाम् । मनसः = चेतसः । प्रसत्तिम् = प्रसादम् । इव । गिरेः = पर्वतस्य । मूर्ध्नि = शिखरे । वनान्तभुवम् = वनस्थलीम् आससाद = प्राप्तवानिति । अत्रोत्प्रेक्षालङ्कारः ।

कोषः— 'अथ स्वरूपयोरस्त्री तलम्' इत्यमरः । 'अन्तोऽप्यवसिते मृत्यौ स्वरूपे निश्चयेऽन्तिके' इति वैजयन्ती ।

षष्ठः सर्गः७१

हिन्दी—अर्जुन ने इन्द्रनील पर्वत पर चढ़कर फलों के भार से झुके हुए वृक्षों के द्वारा शोभित चारों ओर स्वच्छ तलवाली वनस्थली को देखा। यह वनस्थली पर्वत के मस्तक पर मन को प्रसन्न करनेवाली साक्षात् मूर्त्ति के समान थी॥ १७॥

अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः।
धृतिमाततान तनयस्य हरेस्तपसेऽधिवस्तुमचलामचलः ॥ १८ ॥

अन्वयः—अनुसानु पुष्पितलताविततिः फलितोरुभूरुहविविक्तवनः अचलः हरेः तनयस्य तपसे अधिवस्तुम् अचलाम् धृतिम् आततान।

विग्रहः—सानु सानु = अनुसानु। पुष्पिताः लताविततयः यस्मिन् सः = पुष्पितलताविततिः। फलिताः उरवः भूरुहाः येषु तानि विविक्तानि वनानि यस्मिन् सः = फलितोरुभूरुहविविक्तवनः। न चलतीत्यचलः।

अर्थः—अनुसानु = प्रतिसानु। पुष्पितलताविततिः = कुसुमितवल्लीविततिः। फलितोरुभूरुहविविक्तवनः = फलितबहुपादपविजनकाननः। अचलः = महीधरः इन्द्रकीलो नाम। हरेः = इन्द्रस्य। तनयस्य = सुतस्य, अर्जुनस्य। तपसे = तपश्चर्यार्थम्। अधिवस्तुम् = अधिष्ठातुम्। अचलाम् = स्थिराम्। धृतिम् = उत्साहम्। आततान = विस्तारयामास।

कोषः—'विविक्तौ पूतविजनौ' इत्यमरः।

हिन्दी—इन्द्रनील पर्वत की प्रत्येक चोटी पर पुष्पित लताओं के वितान तने हुए थे। निर्जन वनों में उपजाऊ वृक्ष फल-फूलों से लदे थे। इस प्रकार इन्द्रनील पर्वत ने तपश्चरण के लिए अर्जुन की प्रीति को और भी बढ़ा दिया॥ १८॥

प्रणिधाय तत्र विधिनाऽथ धियं दधतः पुरातनमुनेर्मुनिताम्।
श्रममादधावसुकरं न तपः किमिवावसादकरमात्मवताम् ॥ १९ ॥

अन्वयः—अथ तत्र विधिना धियं प्रणिधाय मुनितां दधतः पुरातनमुनेः असुकरं तपः श्रमं न आदधौ। आत्मवताम् अवसादकरम् किम् इव।

विग्रहः—पुरातनः मुनिः, तस्य = पुरातनमुनेः। न सुकरमसुकरम्। अवसादं करोतीत्यवसादकरम्।

अर्थः—अथ = अनन्तरम्। तत्र = इन्द्रकीलपर्वते। विधिना = योगशास्त्रा-

७२किरातार्जुनीयम्

नुसारण धियं = चित्तवृत्तिम् । प्रणिधाय = नियम्य । मुनितां = मुनित्वम् । दधतः = धारयतः । पुरातनमुनेः = अर्जुनस्य । असुकरम् = दुष्करम् । तपःश्रमं = खेदम् । न आदधौ = न चकार । आत्मवताम् = मनस्विनाम् । अवसादकरं = खेदकरम् । किम् इव = नास्ति किञ्चिदपि । अत्रार्थान्तरन्यासङ्कारः ।

कोषः—'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः ।' इत्यमरः ।

**हिन्दी—**इसके बाद इन्द्रकील पर्वत पर योगशास्त्रानुकूल चित्तवृत्ति का नियमन (निरोध) करके अर्जुन को कठिन तप का श्रम नही हुआ । मनस्वी पुरुषों को दुःखदायी (कष्टकर) कुछ भी नही होता है ॥ १९ ॥

शमयन्धृतेन्द्रियशमैकसुखः शुचिभिर्गुणैरघमयं स तमः ।
प्रतिवासरं सुकृतिभिर्ववृधे विमलः कलाभिरिव शीतरुचिः ॥ २० ॥

**अन्वयः—**धृतेन्द्रियशमैकसुखः शुचिभिः गुणैः अघमयं तमः शमयन् विमलः प्रतिवासरं सुकृतिभिः कलाभिः शीतरुचिः इव ववृधे ।

**विग्रहः—**धृतमिन्द्रियशमः एव एकं सुखं येन सः = धृतेन्द्रियशमैकसुखः। वासरं वासरं = प्रतिवासरम् । शीताः रुच्यः यस्य सः शीतरुचिः ।

**अर्थः—**धृतेन्द्रियशमैकसुखः = धृतविषयव्यावृत्त्येकसुखः । शुचिभिः = निर्मलैः । गुणैः = मंत्र्यादिगुणैः । अघमयम् = पापरूपम् । तमः = अज्ञानम् । शमयन् = निवर्तयन् । विमलः = अमलिनः । सः = अर्जुनः । प्रतिवासरं = प्रतिदिनम् । सुकृतिभिः = सुकृतैः, तपोभिरित्यर्थः । कलाभिः = किरणैः । शीतरुचिः = सुधांशुः । इव = समम् । ववृधे = वृद्धिं प्राप ।

कोषः—'कला तु षोडशो भागो विम्बोऽस्त्री' इत्यमरः ।

**हिन्दी—**जिस प्रकार शुभ्र चन्द्रमा इन्द्रिय-ताप को मिटाकर, अपनी कलाओं से अन्धकार मिटाता हुआ बढ़ता रहता है उसी प्रकार अर्जुन ने अपनी इन्द्रियों को नियमित कर सुख प्राप्त किया ओर वह अपने मैत्री आदि गुणों के द्वारा पापकार अज्ञान को नष्ट करते हुए अपने सुकर्मों से नित्य प्रति बढ़ने लगे ॥ २० ॥

अधरीचकार च विवेकगुणादगुणेषु तस्य धियमस्तवतः ।
प्रतिघातिनीं विषयसङ्गरतिं निरुपप्लवः शमसुखानुभवः ॥ २१ ॥

**अन्वयः—**विवेकगुणात् अगुणेपु धियम् अस्तवतः तस्य निरुपप्लवः शमसुखानुभवः च प्रतिघातिनीं विषयसङ्गरतिम् अधरीचकार ।

षष्ठः सर्गः ७३

**विग्रहः--**विवेक एव गुणः, तस्मात् = विवेकगुणात् । निर्गतः उपप्लवः यस्मात् सः निरुपप्लवः । शम एव सुखम् = शमसुखम् तस्य अनुभवः = शमसुखानुभवः । विषयाणां सङ्गः = विषयसंगः = तस्मिन् रतिस्ताम् = विषयसङ्गरतिम् ।

**अर्थः--**विवेकगुणात् = तत्त्वावधारणात् । अन्येषु = कामक्रोधादिदुर्गुणेषु । धियम् = बुद्धिम् । अस्तवतः = निवारितवतः । तस्य = अर्जुनस्य । निरुपप्लवः = निर्बाधः । शमसुखानुभवः = शान्त्यानन्दानुभवः । च । प्रतिघातिनों = सोपप्लवाम् । विषयसङ्गरतिम् = शब्दानुपयोगरुचिम् । अधरीचकार = विषयनिस्पृहम् चकार ।

कोषः--'ओष्ठाधरो तु रदनच्छदौ दशनवाससी' इत्यमरः ।

**हिन्दी:--**तत्त्वज्ञान के अवधारण से काम क्रोधादि दुर्गुणों में लगी हुई बुद्धि को उससे अलग करनेवाले अर्जुन के निर्बाध शम-सुखानुभव ने अपनी विरोधिनी विषय-सङ्गरति को नीचे कर दिया अर्थात् तपः-कर्म के द्वारा विषयादिरति को पराजित कर दिया ॥ २१ ॥

मनसा जपैः प्रणतिभिः प्रयतः समुपेयिवानधिपतिं स दिवः ।
सहजेतरौ जयशमौ दधती बिभराम्बभूव युगपन्महसी ॥ २२ ॥

अन्वयः-- प्रयतः मनसा जपैः प्रणतिभिः दिवः अधिपतिं समुपेयिवान् सः सहजेतरौ जयशमौ दधती महसी युगपद् बिभराम्बभूव ।

विग्रहः-- सहजः इतरश्च = सहजेतरौ । जीयते अनेन इति जयः । शम्यते अनेन इति शमः जयश्च शमश्च = जयशमौ ।

**अर्थः--**प्रयतः = हिंसादिविरतः । मनसा = ध्यानेन । जपैः = विशिष्टमन्त्राभ्यासैः । प्रणतिभिः = नमस्कारैः । दिवः = स्वर्गस्य । अधिपतिम् = स्वामिनम् इन्द्रम् । समुपेयिवान् = उपसेदिवान् । सः = अर्जुनः । सहजेतरौ = प्राकृतिकागन्तुको । जयशमौ = वीरशान्तरसौ । दधती = पुष्णती । महसी = तेजसी, युगपद् = सहैव । बिभराम्बभूव = बभार ।

कोषः--'शमथस्तु शमः शान्तिः' इत्यमरः ।

**हिन्दी--**हिंसादि कार्यों से विरत अर्जुन ने स्वर्गाधिपति इन्द्र की प्राप्ति के लिए ध्यान से तथा जप व नमस्कारादि क्रियाओं से सहज और अजित वीर व

७४ | किरातार्जुनीयम्

शान्त रसों को धारण किया। वीर और शान्तरस मय तेजों से युक्त होते हुए अर्जुन के द्वारा एक साथ ही शोभित हुए ॥ २२ ॥

शिरसा हरिन्मणिनिभः स वहन् कृतजन्मनोऽभिषवणेन जयः।
उपमां ययावरुणदीधितिभिः परिमृष्टमूर्द्धनि तमालतरौ ॥ २३ ॥

अन्वयः—हरिन्मणिनिभः अभिषवेण कृतजन्मनः जटाः शिरसा वहन् सः अरुणदीधितिभिः परिमृष्टमूर्द्धनि तमालतरौ उपमां ययौ।

विग्रहः—कृतानि जन्मानि याभिस्ताः = कृतजन्मनः । अरुणैः दीधितिभिः = अरुणदीधितिभिः । परिमृष्टा मूर्द्धा यस्य तस्मिन् = परिमृष्टमूर्द्धनि । तमालस्य तरुः तस्मिन् = तमालतरौ ।

अर्थः—हरिन्मणिनिभः = मरकतमणिसदृशः । अभिषवेण = स्नानेन । कृतजन्मनः = उत्पन्नाः । जटाः = सटा । शिरसा = मूर्ध्ना । वहन् = धारयन् । सः = अर्जुनः । अरुणदीधितिभिः = अरुणकिरणैः । परिमृष्टमूर्द्धनि = व्याप्तशिरसि । तमालतरौ = तमालवृक्षे । उपमाम् = साम्यम् । ययौ = अगच्छत् ।

कोषः—'भानुः करो मरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम् ।' इत्यमरः ।

हिन्दी—मरकतमणि के समान कान्तिमान, स्नान के द्वारा पिङ्गळी बनी हुई जटाओं को शिरपर धारण किये अर्जुन अरुण-किरणों से व्याप्त तमाल वृक्ष के समान दिखलाई पड़ रहे थे ॥ २३ ॥

धृतहेतिरप्यधृतजिह्ममतिश्चरितैर्मुनीनधरयञ्शुचिभिः ।
रमयाञ्चकार विरजाः स मृगान् कमिवेशते रमयितुं न गुणाः ॥ २४ ॥

अन्वयः—धृतहेतिः अपि अधृतजिह्ममतिः शुचिभिः चरितैः मुनीन् अधरयन् विरजाः सः मृगान् रमयाञ्चकार । गुणाः कम् इव रमयितुम् नेशते ।

विग्रहः — धृतः हेतिः येन सः = धृतहेतिः । न धृता = अधृता जिह्मा मतिः येन सः = अधृतजिह्ममतिः ।

अर्थः—धृतहेतिः = धृतायुधः । अपि । अधृतजिह्ममतिः = कुटिलमतिरहितः । शुचिभिः = पवित्रैः । चरितैः = चरित्रैः । मुनीन् = महर्षीन् । अधरयन् = तिरस्कुर्वन् । विरजाः = रजोगुणरहितः सः = अर्जुनः । मृगान् = हरिणान् । रमयाञ्चकार = रमयामास । गुणाः = दयादिगुणाः । कमिव रमयितुं न ईशते = कं न वशीकुर्वन्ति । अत्रार्थान्तरन्यासङ्कारः ।