भारतकोश
संग्रह पर लौटें

किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)

Kiratarjuniyam of Bharavi Hindi

महाकवि भारवि द्वारा

स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)

DevanagariHindipublished707 पृष्ठ

चतुर्थः सर्गः १५

पूर्वोक्तैः शरद्गुणैः। संस्तवस्थिरम्=परिचयेन दृढम्। घनागमश्रियः=प्रावृल्लक्ष्म्याः। प्रेम। तिरोहितम्=निरर्थकं कृतम्। अत्र वास्तवालंकारः। कोषः—'जम्बालः पंकोऽस्त्री शादकर्दमौ' इत्यमरः। **हिन्दी—**शरदृतु में पकी हुई फसलें सुन्दर लगने लगती हैं, नदियाँ अपनी उच्छृंखलता (विनाश कार्य को) छोड़ देती हैं तथा भूमि कीचड़ रहित हो जाती है। इस समय शरत्कालीन गुणों से परिचित लोगों के परिचय से दृढ़ बना हुआ वर्षाकालीन शोभा-सम्बन्धी प्रेम तिरोहित हो जाता है॥ २२॥

पतन्ति नास्मिन्विशदाः पतत्रिणो धृतेन्द्रचापा न पयोदपङ्क्तयः। तथापि पुष्णाति नभः श्रियं परां न रम्यमाहार्यमपेक्षते गुणम्॥ २३॥ **अन्वयः—**अस्मिन् विशदाः पतत्रिणः न पतन्ति, धृतेन्द्रचापाः पयोदपङ्क्तयः न (पतन्ति)। तथापि नभः परां श्रियं पुष्णाति। रम्यम् आहार्यम् गुणम् न अपेक्षते। **विग्रहः—**धृतम् इन्द्रचापं याभिस्ताः धृतेन्द्रचापाः। पयोदानां पंक्तयः = पयोदपंक्तयः। **अर्थः—**अस्मिन् = नभसि। विशदः = शुभ्राः। पतत्रिणः=पक्षिणः (बलाकाः) न पतन्ति = न प्रसरन्ति। धृतेन्द्रचापाः = इन्द्रचापयुताः। पयोदपंक्तयः = घनपंक्तयः। न (पतन्ति = प्रसरन्ति)। तथापि = शोभकारणाभावेऽपि। नभः = गगनम्। परां = महतीम्। श्रियम् = शोभाम् पुष्णाति। रम्यम् = रमणीयं वस्तु। आहार्यम् = आरोप्यमाणम्। गुणम्। नापेक्षते = नैवापेक्षां करोति। अत्रार्थान्तर-न्यासालङ्कारः। कोषः—'नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्' इत्यमरः। **हिन्दी—**शरदृतु में आकाश में न तो विशदपक्षी (बगुला) उड़ते दिखलाई पड़ते हैं और न मेघमालाएं ही इन्द्रधनुष से शोभित होती हैं। तथापि शरत्काल में आकाश बड़ा सुन्दर लगता है। स्वभावतः सुन्दर वस्तु आलंकारिक सामग्रियों की अपेक्षा नहीं करती है॥ २३॥

विपाण्डुभिर्म्लानतया पयोधरैश्च्युताचिराभागुणहेमदामभिः। इयं कदम्बानिलभर्तुरत्यये न दिग्वधूनां कृशता न राजते॥ २४॥ **अन्वयः—**कदम्बानिलभर्तुः अत्यये म्लानतया विपाण्डुभिः च्युताचिराभागुण-

१६किरातार्जुनीयम्

हेमदामभिः पयोधरैः दिग्वधूनाम् इयं कृशता न राजते ( इति ) न ।
विग्रहः—कदम्बानिल एव भर्त्ता, तस्य = कदम्बानिलभर्तुः । अचिरभागुणाः एव दामानि = अचिरभागुणदामानि । च्युतान्यचिरभागुणदामानि येभ्यस्तैः = च्युताचिरभागुणहेमदामभिः । दिश एव वध्वस्तासां = दिग्वधूनाम् ।

अर्थ— कदम्बानिलभर्तुः = वर्षत्तोः । अत्यये = विरहे । म्लानतया = निर्जलतया दुर्बलतया च । विपाण्डुभिः = विशदैः । च्युताचिरभागुणहेमदामभिः = च्युतविद्युल्लतागुणसुवर्णसूत्रालंकारैः । पयोधरैः = मेघैः स्तनैर्वा । दिग्वधूनाम् = दिशासुन्दरीणाम् । इयम् = एतादृशी । कृशता = क्षीणता । न राजते = न शोभते इति न । अर्थात् राजत एव । अत्र रूपकालंकारः ।

कोषः— 'स्तनाम्भोदो पयोधरौ' इति वैजयन्ती ।
हिन्दी— वर्षा ऋतु रूपी पति के चले जाने पर दिग्वधुओं की कृशता, निर्जलता रूपी खिन्नता से विद्युल्लता रूप सुवर्णसूत्राभरण से रहित होकर भी मेघरूपी स्तनमण्डल से क्यों शोभित नहीं होती है ? अर्थात् अवश्यमेव सुशोभित होती है ॥ २४ ॥

विहाय वाञ्छामुदिते मदात्ययादरक्तकण्ठस्य रुते शिखण्डिनः ।
श्रुतिः श्रयत्युन्मदहंसनिःस्वनं गुणाः प्रियत्वेऽधिकृता न संस्तवः ॥२५॥

अन्वयः— मदात्ययात् अरक्तकण्ठस्य शिखण्डिनः उदिते रुते वाञ्छां विहाय श्रुतिः उन्मदहंसनिःस्वनं श्रयति । प्रियत्वे गुणाः अधिकृताः, न संस्तवः ।
विग्रहः— मदस्य अत्ययः = मदात्ययः, तस्मात् = मदात्ययात् । अरक्तः कण्ठो यस्य सः अरक्तकण्ठस्तस्य अरक्तकण्ठस्य । उन्मदाश्च ते हंसाः = उन्मदहंसास्तेषां निःस्वनम् = उन्मदहंसनिःस्वनम् ।
अर्थः— मदात्ययात् = मदक्षयात् । अरक्तकण्ठस्य = अश्राव्यस्वरस्य । शिखण्डिनः = मयूरस्य । उदिते = उच्चकैः । रुते = कूजिते । वाञ्छाम् = अभिलाषम् । विहाय = त्यक्त्वा । श्रुतिः = श्रोत्रम् । उन्मदहंसनिःस्वनम् = मत्तमरालकूजितम् । श्रयति = भजते । प्रियत्वे = प्रीतिकरत्वे । गुणाः अधिकृताः = नियुक्ताः । संस्तवः = परिचयः । नाधिकृतः । अत्रार्थान्तरन्यासालंकारः ।
कोषः— 'कर्णशब्दग्रहो श्रोत्रं श्रुतिः स्त्री श्रवणं श्रवः' इत्यमरः ।
हिन्दी— शरद्ऋतु में मद नष्ट हो जाने से कर्णकटुध्वनिवाले मयूर के उच्च

चतुर्थः सर्गः १७

स्वर से कूजन को सुनने की इच्छा छोड़कर कान मदोन्मत्त हंसों की ध्वनि श्रवण करते हैं। प्रियता में गुण ही कारण होते हैं, चिरकालीन परिचय नहीं ॥ २५ ॥

अमी पृथुस्तम्बभृतः पिशङ्गतां गताः विपाकेन फलस्य शालयः ।
विकासि वप्राम्भसि गन्धसूचितं नमन्ति निघ्रातुमिवासितोत्पलम् । २६।

अन्वयः—अमी पृथुस्तम्बभृतः फलस्य विपाकेन पिशङ्गतां गताः शालयः वप्राम्भसि विकासि गन्धसूचितम् असितोत्पलं निघ्रातुम् इव नमन्ति ।

विग्रहः—पृथून् स्तम्बान् बिभर्तीति पृथुस्तम्बभृत्, तस्य = पृथुस्तम्बभृतः । वप्रस्याम्भः वप्राम्भस्तस्मिन् वप्राम्भसि । गन्धेन सूचितम् गन्धसूचितम् । असितम् च तत् उत्पलम् = असितोत्पलम् ।

अर्थः—अमी = इमे । पृथुस्तम्बभृतः = पृथुगुच्छभृतः । फलस्य = प्रसवस्य विपाकेन = परिणामेन । पिशङ्गतां गताः = पिशङ्गत्वं प्रापिताः । शालयः = व्रीहि-विशेषाः । वप्राम्भसि = केदारजले । विकासि = विकसितम् । गन्धसूचितम् = गन्धज्ञापितम् । असितोत्पलम् = नीलोत्पलम् । निघ्रातुम् = आघ्रातुम् । इव । नमन्ति = नम्रतां यान्ति । अत्रोत्प्रेक्षालङ्कारः ।

कोषः—‘स्तम्बो गुच्छस्तृणादिनः’ इत्यमरः । ‘पुंनपुंसकयोर्वप्रः केदारः क्षेत्रम्’ इत्यमरः । ‘निर्वर्णनं तु निध्यानं दर्शनालोकनेंक्षणम्’ इत्यमरः ।

हिन्दी—फसल के पकने के कारण पीले बने हुए ये लच्छेदार धान के पौधे पानी से भरे हुए खेतों में खिले हुए एवं सुगन्धित नील कमलों को सूँघने के लिए मानो झुक रहे हैं ॥ २६ ॥

मृणालिनीनामनुरञ्जितं त्विषा विभिन्नमम्भोजपलाशशोभया ।
पयः स्फुरच्छालिशिखापिशङ्गितं दृतं धनुष्खण्डमिवाहिद्विषिः ॥ २७॥

अन्वयः—मृणालिनीनां त्विषा अनुरञ्जितम् अम्भोजपलाशशोभया विभिन्नम् स्फुरच्छालिशिखापिशङ्गितम् दृतम् अहिद्विषः धनुष्खण्डम् इव पयः ।

विग्रहः—अम्भोजानां पलाशनाञ्च या शोभा, तया = अम्भोजपलाशशोभया । स्फुरद्भिः शालिशिखाभिः पिशङ्गितम् = स्फुरच्छालिशिखापिशङ्गितम् । अहिं विद्देष्टीति अहिद्विट्, तस्य = अहिद्विषः । धनुषः खण्डं = धनुष्खण्डम् ।
२ कि०

१८ किरातार्जुनीयम्

अर्थः — मृणालिनीनां = कमलिनीनाम् । त्विषा = कान्त्या । अनुरञ्जितम् = तद्वर्णतामापादितम् । अम्भोजपलाशशोभया = पद्मपलाशकान्त्या । विभिन्नम् = मिश्रितम् । स्फुरच्छालिशिखापिशङ्गितम् = स्फुरत्कलमाग्रपिङ्गलीकृतम् । द्रुतं = पलायितम् । अहिद्विषः = इन्द्रस्य । धनुष्खण्डम् इव = चापखण्डम् इव । पयः = वप्राम्भः । अत्र उत्प्रेक्षालङ्कारः ।

कोषः — 'सर्पे वृत्रासुरेऽप्यहिः' इति वैजयन्ती ।

हिन्दी — धान के खेतों में भरा हुआ जल कमल-लताओं की कान्ति से शोभित, कमल दल की शोभा से मिश्रित तथा झूमते हुए धानों की बालियों से पीला मालूम पड़ता था । हरे, लाल एवं पीले आदि अनेक वर्णों से युक्त वह जल इस प्रकार इन्द्र धनुष की शोभा धारण करता था ॥ २७ ॥

विपाण्डु संव्यानमिवानिलोद्धतं निरुन्धतीः सप्तपलाशजं रजः ।
अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासाः वनराजियोषितः ॥ २८॥

अन्वयः — विपाण्डु अनिलोद्धतम् सप्तपलाशजं रजः संव्यानम् इव निरुन्धतीः अनाविलोन्मीलितबाणचक्षुषः सपुष्पहासाः वनराजियोषितः ।

विग्रहः — अनिलेन उद्धतम् = अनिलोद्धतम् । सप्त पलाशानि येषां ते = सप्तपलाशाः । तेषां पुष्पाणि = सप्तपलाशानि, तेषु जातं = सप्तपलाशजम् । अनाविलानि उन्मीलितानि च बाणानि चक्षूंषि इव यासां ताः = अनाविलोन्मीलितबाणचक्षुषः । पुष्पाणि हासा इव तैः सह वर्त्तन्त इति सपुष्पहासाः वनराजयः योषित इव = वनराजियोषितः ।

अर्थः — विपाण्डु = शुभ्रम् । अनिलोद्धतम् = पवनोत्क्षिप्तम् । सप्तपलाशजम् = सप्तपलाशजातं । रजः = परागम् । संव्यानम् = उत्तरीयम् इव । निरुन्धतीः = निवारयन्त्यः । अनाविलोन्मीलितबाणचक्षुषः = अकलुषोन्मीलितनीलसैरेयकचक्षुषः । सपुष्पहासाः = विकसितकुसुमाः । वनराजियोषितः = वनराजिस्त्रियः ।

कोषः — 'संव्यानमुत्तरीयञ्च' इत्यमरः । 'नीलस्त्वथर्गलो दासी बाण ओटंर' इति धन्वन्तरिः ।

हिन्दी — वनराजियां कामिनियों के समान हैं, उनके पुष्प हास के समान तथा बाणवृक्ष (कटैया) निर्मल, खुली हुई आँखों के सदृश हैं । वायु के द्वारा

चतुर्थः सर्गः १९

उड़ाया हुआ छितौन का पीला पराग उनके पीले वस्त्रों सा है। मानों उस पीत रजरूपी वस्त्र को वायु द्वारा उड़ाये आने पर वे वनराजि-वधुएँ उसे रोक सी रही हैं ॥ २८ ॥

अदोपितं वैद्युतजातवेदसा सिताम्बुदच्छेदतिरोहितातपम् ।
ततान्तरं सान्तरवारिसीकरैः शिवं नभोवर्त्म सरोजवायुभिः ॥ २९ ॥

अन्वयः — वैद्युतजातवेदसा अदोपितम् सिताम्बुदच्छेदतिरोहितातपम् सान्तरवारिसीकरैः ततान्तरं सरोजवायुभिः शिवं नभोवर्त्म ।

विग्रहः — विद्युति भवः जातवेदाः वैद्युतजातवेदास्तेन वैद्युतजातवेदसा । सिताम्बुदानां छेदैः तिरोहितम् आतपम् = सिताम्बुदच्छेदतिरोहितातपम् । वारीणां सीकराः वारिसीकराः । अन्तरेण सहिताः वारिसीकराः, तैः सान्तरवारिसीकरैः । ततम् अन्तरं यस्मिन् तत् ततान्तरम् । सरोजानां वायुभिः सरोजवायुभिः । नभसो वर्त्म = नभोवर्त्म ।

अर्थवैद्युतजातवेदसा = वैद्युताग्निना । अदोपितम् = अप्रकाशितम् । सिताम्बुदच्छेदतिरोहितातपम् = शुभ्राम्भोदलखण्डैस्तिरोहितघर्मम् । सान्तरवारिसीकरैः = विरलाम्बुकणैः । ततान्तरम् = व्याप्तमध्यम् । सरोजवायुभिः = कमलगन्धयुक्तपवनैः । शिवम् = रम्यम् । नभोवर्त्म = आकाशमार्गम् । अत्र स्वभावोक्तिरलङ्कारः ।

कोषः — 'प्रकाशो द्योत आतपः' इत्यमरः । 'नभोऽन्तरिक्षं गगनम्' इत्यमरः ।

हिन्दी — आकाशमार्ग विद्युत्प्रकाश से प्रकाशित नहीं हो रहा था, शुभ्र-बादलों से सूर्य की धूप भी छिप गई थी । जलकणों से युक्त तथा कमल-सुरभि से सुगन्धित वायु के द्वारा वह (आकाशमार्ग) अतीव रमणीय बन गया था ॥ २९ ॥

सितच्छदानामपदिश्य धावतां रुतैरमीषां प्रथिताः पतत्रिणाम् ।
प्रकुर्वते वारिदरोधनिर्गताः परस्परालापमिवामला दिशः ॥ ३० ॥

अन्वयः — अपदिश्य धावताम् अमीषां सितच्छदानां प्रथिताः पतत्रिणा रुतैः वारिदरोधनिर्गताः अमलाः दिशः परस्परम् आलापम् इव प्रकुर्वते ।

विग्रहः — सिताः छदाः सन्ति येषां ते तेषाम् = सितच्छदानाम् । वारिदानां रोषः = वारिदरोधः । वारिदरोषेण निर्गताः = वारिदरोषनिर्गताः ।

२०किरातार्जुनीयम्

अर्थः— व्यपदिश्य धावताम् = गच्छताम् । अमीषाम् । सितच्छदानाम् = हंसानाम् । पतत्रिणाम् = पक्षिणाम् । रुतैः = कूजनैः । प्रथिताः वारिरोध-निर्गताः = मेघोपरोधनिर्मुक्ताः । अमलाः = मलरहिताः । दिशः = ककुभः । परस्परम् = अन्योन्यम् । आलापम् = वार्ताम् इव । प्रकुर्वते = कुर्वन्ति । अत्रोत्प्रेक्षा-लङ्कारः ।

कोषः— 'हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसोकसः' इत्यमरः ।

हिन्दी— (उपर्युक्त वस्तुओं के कारण) आकाशमार्ग में दौड़ते (उड़ते) हुए श्वेत पंखों वाले पक्षियों (हंसों) के कलकूजन से युक्त दिशायें बादलों के अवरोध से मुक्त होकर निर्मल हो गई थीं । ऐसा ज्ञात होता था जैसे दिशायें आपस में वार्त्तालाप कर रही हों ॥ ३० ॥

विहारभूमेरभिघोषमुत्सुकाः शरीरजेभ्यश्च्युतयूथपंक्तयः ।
असक्तमूर्धांसि पयः क्षरन्त्यमूरुपायनानीव नयन्ति धेनवः ॥ ३१ ॥

अन्वयः— विहारभूमेः अभिघोषम् उत्सुकाः च्युतयूथपंक्तयः अमूः धेनवः असक्तम् पयः क्षरन्ति । ऊधांसि शरीरजेभ्यः उपायनानीव नयन्ति ।

विग्रहः— विहारभूमेः = विहारस्य भूमिस्तस्याः । च्युताः यूथानां पंक्तयः यासु ताः च्युतयूथपंक्तयः । शरीरेभ्यः जाताः = शरीरजाः, तेभ्यः = शरीरजेभ्यः ।

अर्थः— विहारभूमेः = गोचरात् । अभिघोषम् = व्रजम् । उत्सुकाः = उत्कण्ठिताः । च्युतयूथपंक्तयः = त्रुटितश्रेणीबन्धाः । अमूः धेनवः = गावः । असक्तम् = अप्रतिबन्धम् । पयः = क्षीरम् । क्षरन्ति = स्रवन्ति । ऊधांसि = पयोधरोर्ध्वभागाः । शरीरजेभ्यः = अपत्येभ्यः । उपायनानि इव अतितोषकारीणि इव नयन्ति = प्रापयन्ति । अत्रोत्प्रेक्षालंकारः ।

कोषः— 'घोषः आभीरपल्ली स्यात्' इत्यमरः । 'सजातीयैः कुलं यूथम्' इत्यमरः ।

हिन्दी— चरागाहों से निवासस्थान की ओर लौटती हुई गाएँ अपने बछड़ों को देखने के लिए उत्सुक हो रहीं थीं । अतएव दौड़-दौड़ कर उन्होंने अपनी पंक्तियाँ तोड़ डालीं थीं । वे अपने बच्चों का स्मरण कर लगातार दूध टपका रही थी । दूध से भरे हुए स्तन मानों वे गाएँ अपने बच्चों को भेंट में देने के लिए ला रही थीं ॥ ३१ ॥

चतुर्थः सर्गः | २१

जगतप्रसूतिर्जगदेकपावनो व्रजोपकण्ठं तनयैरुपेयुषो ।
द्युतिं समग्रां समितिर्गवामसावुपैति मन्त्रैरिव संहिताहुतिः ॥ ३२ ॥

अन्वयः—जगतप्रसूतिः जगदेकपावनी व्रजोपकण्ठं तनयैः उपेयुषो, असौ गवां समितिः मन्त्रैः संहिताहुतिः इव समग्रां द्युतिम् उपैति ।

विग्रहः—जगतः प्रसूतिः=जगतप्रसूतिः । जगताम् एकपावनी=जगदेकपावनी । व्रजस्योपकण्ठम्=व्रजोपकण्ठम् । सहिता आहुतिरिव=संहिताहुतिः ।

अर्थः—जगतप्रसूतिः=जगत्कारणम् । जगदेकपावनो=जगतां मुख्यशोधनी । व्रजोपकण्ठम्=गोष्ठान्तिकम् । तनयैः=वत्सैः । उपेयुषो=संगता असौ । गवां=धेनूनां । समितिः=संहतिः । मन्त्रैः=ऋग्यजुरादिभिः । संहिताहुतिः=योजिताहुतिः । इव, समग्रां=सम्पूर्णाम् । द्युतिम्=कान्तिम् । उपैति=गच्छति ।

कोषः—'उपकण्ठान्तिकाभ्यर्णाम्यग्राः' इत्यमरः । 'मन्त्रो ऋगादिगुह्योक्तिः' इति वैजयन्ती ।

हिन्दी—संसार की रक्षा करने में समर्थ, संसार को एकमात्र पावन करने वाली गायें अपने बछड़ों के संग गोशालाओं में खड़ी थीं । गायों का यह समूह ऋग्यजुरादि मन्त्रों से युक्त हव्यादि के समान रक्षाकार्य एवं पवित्र बनाने का कार्य करता हुआ अपनी सम्पूर्ण शोभा को प्राप्त हो रहा था ॥ ३२ ॥


कृतावधानं जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने ।
इदं जिघत्सामपहाय भूयसीं न सस्यमभ्येति मृगीकदम्बकम् ॥ ३३ ॥

अन्वयः—जितबर्हिणध्वनौ सुरक्तगोपीजनगीतनिःस्वने कृतावधानम् इदम् मृगीकदम्बकं भूयसीं जिघत्साम् अपहाय सस्यं नाभ्येति ।

विग्रहः—बर्हिणानां ध्वनिः बर्हिणध्वनिः । जितो बर्हिणध्वनिः येन तस्मिन्=जितबर्हिणध्वनौ । गीतस्य निःस्वनो गीतनिस्वनः, सुरक्तः यः गोपीजनः=सुरक्तगोपीजनस्तस्य गीतनिःस्वनस्तस्मिन्=सुरक्तगोपीजनगीतनिःस्वने । कृतम् अवधानम् येन तत्=कृतावधानम् । मृगीणां कदम्बकं=मृगीकदम्बकम् । अत्तुमिच्छा जिघत्सा ताम्=जिघत्साम् ।

अर्थः—जितबर्हिणध्वनौ=केकानुकारिणि । सुरक्तगोपीजनगीतनिःस्वने=कलकण्ठवल्लभोजनगाने । कृतावधानम्=दत्तैकाग्रचित्तम् । इदम्=पुरोवर्ति । मृगीकदम्बकम्=मृगोयूथम् । भूयसीं=महतीम् । जिघत्साम्=अत्तुमिच्छाम् ।

२२ किरातार्जुनीयम्

अपहाय = विहाय । सस्यं = धान्यादिकम् । न अभ्येति = नोपैति । कोषः—'मृगे कुरंगवातायुहरिणाजिनयोनयः' इत्यमरः । **हिन्दी—**अर्जुन ने देखा—मयूरों की ध्वनि को जीतनेवाली कलकण्ठवाली गोप-कामिनियों के गान में दत्तचित्त होकर मृगीसमूह ने प्रबल चरने की इच्छा को ही छोड़ दिया अर्थात् गीतासक्ति से हरिणियां भूख-प्यास भी भूल गई ॥ ३३ ॥

असावनास्थापरयाऽवधीरिताः सरोरुहिण्या शिरसा नमन्नपि ।
उपैति शुष्यन्कलमः सहाम्भसा मनोभुवा तप्त इवाभिपाण्डुताम् ॥ ३४ ॥

**अन्वयः—**शिरसा नमन् अपि अनास्थापरया सरोरुहिण्या अवधीरितः अम्भसा सह शुष्यन् असौ कलमः मनोभुवा तप्त इव अभिपाण्डुताम् उपैति ।

**विग्रहः—**अनास्थायां परा तया = अनास्थापरया । मनसा भवतीति मनोभूः तेन = मनोभुवा ।

**अर्थः—**शिरसा = मूर्ध्ना । नमन् = प्रणमन् । अपि । अनास्थापरया = अनादरपरया । सरोरुहिण्या = कमलिन्या । अवधीरितः = अवज्ञातः । अम्भसा = जलेन । सह । शुष्यन् असौ कलमः = शालिविशेषः । मनोभुवा = मदनेन । तप्त इव = कामार्त्त इव । अभिपाण्डुताम् = पाण्डुवर्णत्वम् । उपैति = गच्छति । अत्र समासोक्त्युपमयोः अङ्गाङ्गिभावेन संकरालङ्कारः ।

कोषः—'शालयः कलमाद्याश्च षष्टिकाद्याश्च पुंस्यमी' इत्यमरः ।

**हिन्दी—**लटकती हुई बालियों वाला कलम नामक विशेष धान अनादरकारिणी कमलिनी से तिरस्कृत होकर, जल के साथ-साथ स्वयं सूखा जा रहा है तथा कामार्त होकर दिन-प्रतिदिन पीला सा पड़ता जा रहा है ॥ ३४ ॥

अमी समुद्धूतसरोजरेणुना हृता हृतासारकणेन वायुना ।
उपागमे दुर्चरिता इवापदां गतिं न निश्चेतुमलं शिलीमुखाः ॥ ३५ ॥

**अन्वयः—**समुद्धूतसरोजरेणुना हृतासारकणेन वायुना हृताः अमी शिलीमुखाः आपदाम् उपागमे दुर्चरिताः इव गतिं निश्चेतुं न अलम् ।

**विग्रहः—**सरोजानां रेणुः = सरोजरेणुः = समुद्धूता सरोजरेणुः येन, तेन = समुद्धूतसरोजरेणुना । हृता आसारकणाः येन तेन = हृतासारकणेन ।

**अर्थः—**समुद्धूतसरोजरेणुना = उद्भूतकमलकेसरेण । हृतासारकणेन =

चतुर्थः सर्गः २३

उपात्ताम्बुकणेन । वायुना = पवनेन । हृताः = आकृष्टाः । अमी शिलीमुखाः = भ्रमराः । आपदाम् = आपत्तीनाम् । उपागमे = प्राप्ते, दुश्चरिताः = चोरादय इव, गतिम् = उपायं । निश्चेतुं = निश्चयं कर्तुं । न अलम् = न समर्थाः ।

कोषः— 'धारासम्पात आसारः' इत्यमरः । 'देशोपायगमे गतिः ।' इति वैजयन्ती ।

हिन्दी— उड़ती हुई सरोजरेणु (कमल-केसर) वाली तथा वर्षा के जलकणों से युक्त वायु द्वारा उड़ाये गये ये भौंरे, आपत्ति में पड़े हुए चोरादि दुष्टों के समान अपने रक्षोपाय का कोई निर्णय नहीं कर पा रहे थे ॥ ३५ ॥

मुखैरसौ विद्रुमभङ्गलोहितैः शिखाः पिशङ्गी कलमस्य बिभ्रती ।
शुकावलिर्व्यक्तशिरीषकोमला धनुःश्रियं गोत्रभिदोऽनुगच्छति ॥ ३६ ॥

अन्वयः— विद्रुमभङ्गलोहितैः मुखैः पिशङ्गीः कलमस्य शिखाः बिभ्रती व्यक्तशिरीषकोमला असौ शुकावलिः गोत्रभिदः धनुःश्रियम् अनुगच्छति ।

विग्रहः— विद्रुमस्य भङ्गः विद्रुमभङ्गः । विद्रुमभङ्गवल्लोहितानि तैः = विद्रुमभङ्गलोहितैः । व्यक्तशिरीषवत् कोमला = व्यक्तशिरीषकोमला । धनुषः श्रीः = धनुःश्रीस्ताम् = धनुःश्रियम् । शुकानामवलिः = शुकावलिः ।

अर्थः— विद्रुमभङ्गलोहितैः = विद्रुमखण्डवद्रक्तैः । मुखैः = आननैः । पिशङ्गीः = पिशङ्गवर्णाः । कलमस्य = शालिविशेषस्य । शिखाः = शाखाग्राणि । बिभ्रती = धारयन्ती । व्यक्तशिरीषकोमला = विकसितशिरीषसवर्णा, असौ शुकावलिः = शुकपंक्तिः । गोत्रभिदः = इन्द्रस्य । धनुःश्रियं = धनुषः शोभां । अनुगच्छति = अनुकरोति । अत्रोपमालङ्कारः ।

कोषः— 'वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्' इत्यमरः ।

हिन्दी— प्रवाल के टुकड़ों के समान अरुण मुखों (चञ्चुओं) से पीले रंग की धान की पकी हुई बालियों को धारण करते हुए विकसित शिरीष कुसुम के समान शुकों की पंक्ति इन्द्रधनुष की शोभा को धारण कर रही थी ॥ ३६ ॥

इति कथयति तत्र नातिदूरादथ ददृशे पिहितोष्णरश्मिबिम्बः ।
विगलितजलभारशुक्लभासां निचय इवाम्बुमुचां नगाधिराजः ॥३७॥

अन्वयः— अथ तत्र इति कथयति नातिदूरात् पिहितोष्णरश्मिबिम्बः नगाधिराजः विगलितजलभारशुक्लभासाम् अम्बुमुचाम् निचयः इव ददृशे ।

२४किरातार्जुनीयम्

विग्रहः— उष्णरश्मेः बिम्बः उष्णरश्मिबिम्बः। पिहितः उष्णरश्मिबिम्बो येन सः पिहितोष्णरश्मिबिम्बः। नगानामधिराजः=नगाधिराजः। विगलितः जलभारः येषां ते=विगलितजलभाराः, अतएव शुक्लभासः, तेषां=विगलितजलभारशुक्ल-भासाम्। अम्बु मुञ्चन्तीत्यम्बुमुचः, तेषामम्बुमुचाम्।

अर्थः— अथ=अनन्तरम्। तत्र=तस्मिन् पूर्वोक्ते यक्षे, इति=इत्थं। कथयति=भणति सति। नातिदूरात्=अनतिदूरात्। पिहितोष्णरश्मिबिम्बः=तिरोहितसूर्यबिम्बः। नगाधिराजः=हिमालयः। विगलितजलभारशुक्लभासाम्=त्यक्ताम्बुभारशुभ्रभासाम्। अम्बुमुचाम्=मेघानाम्। निचयः=समूह इव ददृशे=दृष्टः।

कोषः— ‘भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः’ इत्यमरः।

हिन्दी— इस प्रकार वार्तालाप करते हुए यक्ष ने निकट ही भगवान् भुवन-भास्कर के मण्डल को तिरोहित कर देनेवाले नगाधिराज हिमालय को देखा। यह हिमालय जलभार से रहित, शुभ्र कान्तिवाले बादलों के समूह के समान दिखलाई पड़ा॥ ३७॥

तमतनुवनराजिश्यामितोपत्यकान्तं नगमुपरि हिमानीगौरमासाद्य जिष्णुः।
व्यपगतमदरागस्यानुसस्मार लक्ष्मीमसितमघरवासो बिभ्रतः सीरपाणेः॥

अन्वयः— जिष्णुः अतनुवनराजिश्यामितोपत्यकान्तम् उपरि हिमानीगौरं तं नगम् आसाद्य व्यपगतमदरागस्य असितम् अधरवासः बिभ्रतः सीरपाणेः लक्ष्मीम् अनुसस्मार।

विग्रहः— अतनुभिः वनराजिभिः श्यामिताः उपत्यकान्ता यस्य तम् अतनुवनराजिश्यामितोपत्यकान्तम्। हिमानीवद् गौरस्तम्=हिमानीगौरम्। व्यपगतो मदरागो यस्य तस्य व्यपगतमदरागस्य। सीरः पाणौ यस्य तस्य=सीरपाणेः।

अर्थः— जिष्णुः=अर्जुनः। अतनुवनराजिश्यामितोपत्यकान्तम्=महद्वृक्षवीथिश्यामलासन्नभूमिप्रदेशम्। उपरि। हिमानीगौरम्=हिमसंघातशुभ्रम्। तं पूर्वोक्तम्। नगम्=पर्वतम् (हिमालयम्)। आसाद्य=प्राप्य। व्यपगतमदरागस्य=निवृत्तमदरागस्य। असितं=नीलम्। अधरवासः=उत्तरीयवस्त्रम्। बिभ्रतः=धारयतः। सीरपाणेः=हलायुधस्य। लक्ष्मीं=शोभाम्। अनुसस्मार=स्मृतवान्।

अत्र स्मरणालङ्कारः।

चतुर्थः सर्गः २९

कोषः— 'उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका।' इत्यमरः। 'हलायुषः, नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हलो। संकर्षणः सीरपाणि' इत्यमरः।
हिन्दी— विस्तृत वनपंक्तियों से नीली बनी उपत्यकाओं (पर्वत का निचला भाग) से घिरे हुए, बर्फ की चट्टानों से ढके शुभ्र वर्ण के हिमालय पर्वत पर पहुँचकर अर्जुन ने हाला के राग से युक्त, नील वस्त्र पहने हुए सीरपाणि बलराम की शोभा का स्मरण किया ॥ ३८ ॥

इति भारविकृतौ सुभाटोकासंवलिते किरातार्जुनीये चतुर्थः सर्गः।


-:- • -:-

पञ्चमः सर्गः

अथ हिमवद्वर्णनमारभते । तत्र पञ्चदशभिः कुलकमाह—
अथ जयाय नु मेरुमहीभृतो रभसया नु दिगन्तदिदृक्षया ।
अभिययौ स हिमाचलमुच्छ्रितं समुदितं नु विलंघयितुं नभः ॥ १ ॥

अन्वयः—अथ सः मेरुमहीभृतः जयाय नु, रभसया दिगन्तदिदृक्षया नु, नभः विलंघयितुं नु समुदितम् उच्छ्रितं हिमाचलम् अभिययौ ।

विग्रहः—महीं बिभर्तीति महीभृत् तस्य = महीभृतः । द्रष्टुमिच्छा दिदृक्षा, दिगन्तानां दिदृक्षा तया = दिगन्तदिदृक्षया ।

अर्थः—अथ = अनन्तरम् । सः = अर्जुनः । मेरुमहीभृतः = सुमेरुपर्वतस्य । जयाय = जयार्थम् । नु ( इति वितर्के ) रभसया = उत्कण्ठया । दिगन्तदिदृक्षया नु = दिशावलोकनेच्छया वा । नभः = आकाशम् । विलंघयितुम् नु = लंघयितुम् वा । समुदितम् = समुत्पतितमिव । उच्छ्रितम् = अत्युन्नतम् । हिमाचलम् = एतन्नामकपर्वतम् । अभिययौ = ययौ । द्रुतविलम्बितवृत्तम् । अत्रोत्प्रेक्षा-लङ्कारः ॥ १ ॥

कोषः—'नु पृच्छायां वितर्के च' इत्यमरः । 'रभसो वेगहर्षयोः' इति वैजयन्ती ।

हिन्दी—(शरद ऋतु की शोभा देखने के पश्चात्) अर्जुन कदाचित् हिमालय को देखने के लिए हिमालय पर्वत पर गये । यह हिमालय इतना ऊँचा था मानो वह सुमेरु पर्वत को अपनी उच्चता से जीतना चाहता हो ! अथवा वह दिशाओं के अवसान अपनी इस उच्चता से देखने को उत्कण्ठित हो रहा हो ! अथवा वह आकाश को पार करना चाहता हो ! ॥ १ ॥

तपनमण्डलदीपितमेकतः सततनैशतमोवृतमन्यतः ।
हसितभिन्नतमिस्रचयं पुरः शिवमिवानुगतं गजचर्मणा ॥ २ ॥

अन्वयः—एकतः तपनमण्डलदीपितम् अन्यतः सततनैशतमोवृतम् पुरः हसितभिन्नतमिस्रचयम् गजचर्मणा अनुगतं शिवम् इव ।

विग्रहः—तपनमण्डलेन दीपितम् = तपनमण्डलदीपितम् । सततेन नैशेन

पञ्चमः सर्गः २७

तमसः वृतम् = सततनैशतमोवृतम् । हसितेन भिन्नः तमिस्रचयः यस्य तम् = हसितभिन्नतमिस्रचयम् । गजस्य चर्म = गजचर्म, तेन गजचर्मणा ।

अर्थः— एकतः = एकस्मिन्भागे । तपनमण्डलदीपितम् = सूर्यमण्डलप्रकाशितम् ! अन्यतः = अन्यस्मिन्भागे । सततनैशतमोवृतम् = अनवरतनिशातमसाऽऽच्छन्नम् । पुरः = अग्रे । हसितभिन्नतमिस्रचयम् = अट्टहासनिरस्ततमस्तोमम् । गजचर्मणा = हस्तिचर्मणा । अनुगतं = पश्चाद्व्याप्तम् । शिवम् = शङ्करम् । इव स्थितम् । अत्रातिशयोक्तिरलङ्कारः ।

कोषः— 'पश्चात्सादृश्ययोरनु' इत्यमरः ।

हिन्दी— इस ( हिमालय ) की उच्चता के कारण सूर्यमण्डल के सामने वाला भाग सदैव दीपित रहता है और उसका विपरीत भाग घने अन्धकार से आवृत रहता है अर्थात् एक भाग में आकाश होता है तो दूसरे में घोर अन्धकार । इससे प्रतीत होता है कि हाथी की खाल ओढ़े हुए, अट्टहास से अन्धकार को फाड़ते हुए यह साक्षात् शिव हों ॥ २ ॥

क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतमदृष्टपरस्परैः ।
प्रथयितुं विभुतामभिनिमितं प्रतिनिधिं जगतामिव शम्भुना ॥ ३ ॥

अन्वयः— अदृष्टपरस्परैः क्षितिनभःसुरलोकनिवासिभिः कृतनिकेतम् शम्भुना विभुतां प्रथयितुम् अभिनिमितं जगतां प्रतिनिधिमिव ।

विग्रहः— अदृष्टाः परस्परे यैस्ते = अदृष्टपरस्परास्तैः तथोक्तैः । क्षितौ नभसि सुरलोके च निवसन्तीति, तैः = क्षितिनभःसुरलोकनिवासिभिः । कृतं निकेतं येन तम् = कृतनिकेतम् ।

अर्थः— अदृष्टपरस्परैः = अदृष्टान्योन्यैः । क्षितिनभःसुरलोकनिवासिभिः = भूर्भुवःस्वर्लोकवासिभिः । कृतनिकेतं = कृतावासम् । शम्भुना = शिवेन । विभुतां = स्वसामर्थ्यम् । प्रथयितुम् = प्रस्तारयितुम् । अभिनिमितम् = निमितम् । जगतां = लोकानां । प्रतिनिधिम् = प्रतिकृतिम् इव स्थितम् । अत्रोत्प्रेक्षालङ्कारः ।

कोषः— 'प्रतिकृतिरर्चा पुंसि, प्रतिनिधिरुपमोपमानं स्यात्' इत्यमरः ।

हिन्दी— पृथ्वी, आकाश तथा सुरलोक वासी परस्पर में अदृष्ट होकर ( एक दूसरे को न देखते हुए ) हिमालय पर्वत पर रहते हैं अत एव प्रतीत होता है कि भगवान् शङ्कर ने अपने यश का प्रचार करने के लिए इस हिमालय को विश्व के प्रतिनिधि रूप में बनाया है ॥ ३ ॥

२८ | किरातार्जुनीयम्

भुजगराजसितेन नभःश्रिता कनकराजिविराजितसानुना । समुदितं निचयेन तडित्वतीं लघयता शरदम्बुदसंहतिम् ॥ ४ ॥

अन्वयः— भुजगराजसितेन नभःश्रिता कनकराजिविराजितसानुना तडित्वतीम् शरदम्बुदसंहतिं लघयता निचयेन समुदितम् ।

विग्रहः— भुजगानां राजा भुजगराजः । भुजगराजवदसौ सितस्तेन = भुजगराजसितेन । नभः श्रयतीति तेन = नभःश्रिता । कनकस्य राज्यः कनकराज्यः, ताभिः विराजिताः सानवः यस्य तेन = कनकराजिविराजितसानुना । शरदः अम्बुदाः शरदम्बुदाः, तेषां संहतिस्ताम् = शरदम्बुदसंहतिम् ।

अर्थः— भुजगराजसितेन = शेषाहिधवलेने । नभःश्रिता = गगनस्पृशा । कनकराजिविराजितसानुना = स्वर्णरेखाशोभितसानुना । तडित्वतीं = विद्युद्युक्ताम् । शरदम्बुदसंहतिम् = शरन्मेघचयम् । लघयता = लघूकूर्वता । निचयेन = समूहेन । समुदितम् = समुद्गतम् । अत्रोपमालङ्कारः ।

कोषः— 'कूटोऽस्त्री शिखरं शृङ्गम्' इत्यत्र निचयशब्दः शृङ्गवाची भवितुमर्हति ।

हिन्दी— शेषनाग के समान श्वेत तथा स्वर्ण रेखाओं से सुशोभित हिमालय का शिखरसमूह इतना ऊँचा है कि वह विद्युद्-युक्त, शरत्कालीन मेघमालाओं को तिरस्कृत कर रहा है ॥ ४ ॥


मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः । दधतमुच्चशिलान्तरगोपुराः पुर इवोदितपुष्पवना भुवः ॥ ५ ॥

अन्वयः— मणिमयूखचयांशुकभासुराः सुरवधूपरिभुक्तलतागृहाः उच्चशिलान्तरगोपुराः उदितपुष्पवनाः भुवः पुर इव दधतम् ।

विग्रहः— मणिमयूखानां चयः अंशुकानीव, तैः भासुराः = मणिमयूखचयांशुकभासुराः । सुरवधूभिः परिमुक्ताः लताः गृहा इव = सुरवधूपरिभुक्तलतागृहाः । उच्चानि शिलान्तराणि गोपुराणीव यासु ताः = उच्चशिलान्तरगोपुराः । पुष्पाणां वनानि पुष्पवनानि, उदितानि पुष्पवनानि यासु ताः = उदितपुष्पवनाः ।

अर्थः— मणिमयूखचयांशुकभासुराः = मणिकिरणसमूहवस्त्रभासुराः । सुरवधूपरिभुक्तलतागृहाः = सुराङ्गानोपमुक्तलतागृहाः । उच्चशिलान्तरगोपुराः = उच्चशिलामध्यपुरद्वाराः । उदितपुष्पवनाः = अर्जितकुसुमकाननाः । भुवः = पृथिवीः । पुरः = नगराणि । इव = सदृशम् । दधतम् = धारयन्तम् । अत्रोपमालङ्कारः ।

पञ्चमः सर्गः २९

कोषः—‘किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः’ इत्यमरः।
**हिन्दी—**इस हिमालय के भूभाग नगर के समान है। ये नगर विविध रत्नों की किरणों से भासित तथा देवाङ्गनाओं द्वारा उपभुक्त लतागृहों वाले हैं। ऊँची-ऊँची शिलाओं के बीच के रिक्त स्थान उसके गोपुर (पुर द्वार) हैं और उनमें सुन्दर पुष्पवाटिकाएँ भी हैं ॥ ५ ॥

अविरतोज्झितवारिविपाण्डुभिर्विरहितैरचिरद्युतितेजसा ।
उदितपक्षमिवारतनिःस्वनैः पृथुनितम्बविलम्बिभिरम्बुदैः ॥ ६ ॥

**अन्वयः—**अविरतोज्झितवारिविपाण्डुभिः अचिरद्युतितेजसा विरहितैः आरत-निःस्वनैः पृथुनितम्बविलम्बिभिः अम्बुदैः उदितपक्षम् इव ।

**विग्रहः—**अविरतम् उज्झितवारयः, अत एव विपाण्डवश्च, तैः अविरतोज्झित-वारिविपाण्डुभिः । अचिरद्युतेस्तेजस्तेन = अचिरद्युतितेजसा । आरतं निःस्वनं येषां तैः = आरतनिःस्वनैः । पृथुभिः नितम्बविलम्बिभिः = पृथुनितम्बविलम्बिभिः । उदितानि पक्षाणि यस्य तम् उदितपक्षम् ।

**अर्थः—**अविरतोज्झितवारिविपाण्डुभिः = अविच्छिन्नोज्झितजलपाण्डुभिः । अचिरद्युतितेजसा = विद्युत्तेजसा । विरहितैः = रहितैः । आरतनिःस्वनैः = प्रशान्त-गर्जितैः । पृथुनितम्बविलम्बिभिः = महाकटकसङ्गिभिः । अम्बुदैः = घनैः । उदित-पक्षम् इव = सञ्जातपक्षमिव । स्थितम् । अत्रोत्प्रेक्षालङ्कारः ।

कोषः—‘कटकोऽस्त्री नितम्बोऽद्रेः’ इत्यमरः ।
हिन्दी — इस हिमालय के विपुल नितम्बभाग के समान भूभाग पर बादल उठते रहते हैं । ये उठे हुए बादल अविरल वर्षा करते रहने के कारण भूरे रंग के हो गये हैं। बिजली की चमक समाप्त हो जाने पर भी वे गम्भीर गर्जन कर रहें हैं । वे बादल हिमालय के नये उत्पन्न हुए पंखों के समान दिखलाई पड़ रहे हैं ॥ ६ ॥

दधतमाकरिभिः करिभिः क्षतैः समवतारसमैरसमैस्तटैः ।
विविधकामहिता महिताम्भसः स्फुटसरोजवना जवना नदीः ॥ ७ ॥

**अन्वयः—**आकरिभिः करिभिः क्षतैः समवतारसमैः असमैः तटैः महिताम्भसः विविधकामहिताः स्फुटसरोजवनाः जवनाः नदीः दधतम् ।

**विग्रहः—**समवतारेषु समाः तैः समवतारसमैः । महितानि अम्भांसि यासु,

३०किरातार्जुनीयम्

ताः = महिताम्भसः। विविधेभ्यः कामेभ्यः हिताः = विविधकामहिताः। स्फुटानि सरोजानां वनानि यासु ताः = स्फुटसरोजवनाः।

अर्थः—आकरिभिः = आकरजैः। करिभिः = गजैः। क्षतैः = नष्टैः। अमन्दारसमैः = तीर्थसमैः। असमैः = असदृशैः। तटैः = रोधोभिः। महिताम्भसः = श्लाघ्यजलाः। विविधकामहिताः = अनेककामानुकूलाः। स्फुटसरोजवनाः = विकसितकमलकाननाः। जवनाः = वेगवतीः। नदीः = सरितः। दधतम् = धारयन्तम्। अत्र यमकालङ्कारः।

कोषः—'खनिः स्त्रियामाकरः स्यात्' इत्यमरः।

हिन्दी—इस हिमालय पर बहुत सी तेज बहनेवाली नदियाँ हैं। उनके तट अनेकों रत्नों की खानि तथा वे हाथियों के द्वारा नष्ट करके बराबर कर दिये गये हैं जो बड़े सुन्दर लगते हैं। हिमालय पर तीव्रता से बहने वाली नदियाँ पवित्र जलवाली एवं अनेकों कामों में हितकर हैं जिनमें खिले हुए कमलों के वन हैं॥७॥


नवविनिद्रजपाकुसुमतिविषां द्युतिमत्ता निकरेण महाश्मनाम्।
विहितसान्ध्यमयूखमिव क्वचिन्निचितकाञ्चनभित्तिषु सानुषु॥८॥

अन्वयः—नवविनिद्रजपाकुसुमतिविषाम् महाश्मना द्युतिमत्ता निकरेण क्वचित् निचितकाञ्चनभित्तिषु सानुषु विहितसान्ध्यमयूखमिव।

विग्रहः—नवानि विनिद्राणि जपाकुसुमानि = नवविनिद्रजपाकुसुमानि तेषां त्विष इव त्विषो येषां ते तेषाम् = नवविनिद्रजपाकुसुमतिविषाम्। निचिताः काञ्चनभित्तयो येषु, तेषु = निचितकाञ्चनभित्तिषु। सन्ध्याया भवाः सान्ध्याः। विहिताः सान्ध्याः मयूखाः यस्मिन् तम् = विहितसान्ध्यमयूखम्।

अर्थः—नवविनिद्रजपाकुसमात्वषम् = नूतनविकसितजपापुष्पकान्तीनाम्। महाश्मनाम् = मणीनाम्। द्युतिमत्ता = कान्तिमत्ता। निकरेण = समूहेन क्वचित् = कुत्रचित्। निचितकाञ्चनभित्तिषु = संघटितस्वर्णभित्तिषु। सानुषु = शृङ्गेषु। विहितसान्ध्यमयूखम् = कृतसान्ध्यकिरणम्, इव स्थितम्। अत्रात्प्रेक्षालङ्कारः।

कोषः—'ओण्ड्रपुष्पं जपापुष्पं रूपिका ताम्रपुष्पिका' इति वाग्भटः।

हिन्दी—इस हिमालय पर नवीन (ताजे) खिले हुए जपापुष्प (गुड़हल)

पञ्चमः सर्गः
३१

के समान कान्तिवाली मणियां शोभित हो रही हैं। इस प्रकार मणिसमूह के प्रकाश से युक्त, हेमयुक्त चोटियों पर कहीं-कहीं सन्ध्याकालीन किरणें भी दिखलाई पड़ती हैं ॥ ८ ॥

पृथुकदम्बकदम्बकराजितं ग्रथितमालतमालवनाकुलम् ।
लघुतुषारतुषारजलश्च्युतं धुतसदानसदानन्दन्तिनम् ॥ ९ ॥

अन्वयः—पृथुकदम्बकदम्बकराजितम् ग्रथितमालतमालवनाकुलम् लघुतुषारतुषारजलश्च्युतं धुतसदानसदानन्दन्तिनम् ।

विग्रहः—कदम्बवत् कदम्बकानि, तैः कदम्बकदम्बकैः । पृथुभिः कदम्बकदम्बकैः राजितम्=पृथुकदम्बकदम्बकराजितम् । ग्रथितमालैः तमालवनैः आकुलम्=ग्रथितमालतमालवनाकुलम् । लघुतुषारं यत्तुषारजलम् = लघुतुषारतुषारजलम् । लघुतुषारतुषारजलं श्च्योतति यः, तम् = लघुतुषारतुषारजलश्च्युतम् । सदाननाः दन्तिनः = सदाननदन्तिनः । सदानाः ये सदाननदन्तिनः सदानसदाननदन्तिनः । धुताः सदानसदाननदन्तिनः येन तम् धुतसदानसदाननदन्तिनम् ।

अर्थः—पृथुकदम्बकदम्बकराजितम् = बृहत्स्तबकनीपकुसुमराजितम् । ग्रथितमालतमालवनाकुलम् = पंक्तिबद्धतमालवनाकीर्णम् । लघुतुषारतुषारजलश्च्युतम् = अल्पसीकरहिमोदकवर्षम् । धुतसदानसदानन्दन्तिनम् = धृतमदशोभनाननगजम् ।

कोषः—'कदम्बमाहुः सिद्धार्थे नीपे च निकुरम्बके' इति विश्वः । 'कालस्कन्धस्तमालः स्यात् तापिच्छोऽपि' इत्यमरः । 'तुषारो हिमसीकरो' इति शाश्वतः ।

हिन्दी—यह हिमालय बड़े-बड़े कदम्बपुष्पों से युक्त, पुष्पमाला के सदृश तमालवन से पूर्ण, बिन्दु-बिन्दु तुषार-कणों को टपकाता हुआ तथा मदवाले सुन्दर सूंड़ों वाले हाथियों से परिपूर्ण है ॥ ९ ॥

रहितरत्नचयान्न शिलोच्चयानपलताबभवना न दरीभुवः ।
विपुलिनाम्बुरुहा न सरिद्वधूरकुसुमान्दधतं न महोरुहः ॥ १० ॥

अन्वयः—रहितरत्नचयान् शिलोच्चयान् न दधतम्, अलताबभवनाः दरीभुवः न ( दधतम् ), विपुलिनाम्बुरुहाः सरिद्वधूः न ( दधतम् ) अकुसुमान् महीरुहः न दधतम् ।

३२ किरातार्जुनीयम्

विग्रहः—रत्नचयैः रहिताः तान् । अपगतानि लताभवनानि यासुस्तास्तथोक्ताः । विगतानि पुलिनानि अम्बुरुहाणि च यासां ताः = विपुलिनाम्बुरुहाः । सरितः वध्व इव ताः = सरिद्वधूः ।

अर्थः—रहितरत्नचयान् = त्यक्तरत्नसमूहान् । शिलोच्चयान् = शिखराणि न दधतम् । अपलताभवनाः = लतागृहरहिताः । दरीभुवः = गुहाप्रदेशान् न दधतम् । विपुलिनाम्बुरुहाः = विगतपुलिनजलरुहाः । सरिद्वधूः = सरिताबालाः = न दधतम् । अकुसुमान् = पुष्परहितान् । महीरुहः = वृक्षान् न दधतम् ।

कोषः—‘दरी तु कन्दरो वा स्त्री देवखातबिले गुहा’ इत्यमरः ।

हिन्दी—इस हिमालय के शिखर रत्नराशियों से रिक्त नहीं हैं। इसकी कन्दरायें लताभवनों से हीन नहीं हैं। इसमें बहनेवाली वधूरूपी नदियाँ पुलिनों तथा कमल पुष्पों से रहित नहीं हैं और न इसमें फल-फूलरहित वृक्ष ही हैं ॥ १० ॥

व्यथितसिन्धुमनीरशनैः शनैरमरलोकवधूजघनैर्घनैः ।
फणभृतामभितो विततं ततं दयितरम्यलताबकुलैः कुलैः ॥ ११ ॥

अन्वयः—अनीरशनैः घनैः अमरलोकवधूजघनैः शनैः व्यथितसिन्धुं दयितरम्यलताबकुलैः फणभृतां कुलैः अभितः ततं विततम् ।

विग्रहः—निर्गताः रशनाः येभ्यस्तैः = नीरशनैः, न नीरशनैरनीरशनैः । अमरलोकानां वध्वः, तासां जघनैः = अमरलोकवधूजघनैः । व्यथिताः सिन्धवः यस्मिंस्तम् = व्यथितसिन्धुम् । दयिताः रम्याः लताबकुलाः = दयितरम्यलताबकुलास्तैः दयितरम्यलताबकुलैः । फणानि बिभ्रतीति फणभृतः, तेषां = फणभृताम् ।

अर्थः—अनीरशनैः = ध्वनिमेखलैः । घनैः = निबिडैः । अमरलोकवधूजघनैः = देवाङ्गनाजघनैः । शनैः = मन्दम् । व्यथितसिन्धुम् = क्षोभितनदोकम् । दयितरम्यलताबकुलैः = प्रियरम्यलताकेसरैः । फणभृतां = सर्पाणां, कुलैः = समूहैः । अभितः = परितः । ततम् = व्याप्तम् । विततम् = विस्तृतम् ।

कोषः—‘विशारदो मद्यगन्धो बकुलः स च केसरः’ इति वैद्यके ।

हिन्दी—इस हिमालय के प्रदेश में बहनेवाली नदियाँ देवाङ्गनाओं के

पञ्चमः सर्गः ३३

पञ्चमः सर्गः ३३

मेखलायुक्त स्थूल जघनों के द्वारा मन्द-मन्द आकुलित रहती हैं अर्थात् उनमें सुरसुन्दरियां जलक्रीड़ा करती हैं। चन्दनादि की प्रिय लताओं और केसर के लिए मतवाले बने हुए साँप झुण्ड के झुण्ड हिमालय के वन में रहते हैं। इस प्रकार यह हिमालय चारो ओर फैला हुआ है ॥ ११ ॥

ससुरचापमनेकमणिप्रभैरपपयोविशदं हिमपाण्डुभिः ।
अविचलं शिखरैरुपबिभ्रतं ध्वनितसूचितमम्बुमुचां चयः ॥ १२ ॥

अन्वयः—अनेकमणिप्रभैः हिमपाण्डुभिः शिखरैः ससुरचापम् अपपयोविशदम् अविचलं ध्वनिसुचितम् अम्बुमुचां चयम् उपबिभ्रतम् ।

विग्रहः—अनेकाः मणिप्रभाः येषां तैः अनेकमणिप्रभैः । हिमेन पाण्डुभिः=हिमपाण्डुभिः । सुरचापेन सहितम्=ससुरचापम् । अपगतं पयः यस्मात् सः=अपपयाः । अपपयाः अत एव विशदश्च तम् = अपपयोविशदम् । ध्वनितेन सूचितम् = ध्वनितसूचितम् । अम्बूवनि मुञ्चन्तीत्यम्बुमुचस्तेषाम् = अम्बुमुचाम् ।

अर्थः—अनेकमणिप्रभैः = बहुमणिप्रभैः । हिमपाण्डुभिः = हिमपीतैः । शिखरैः = सानुभिः । ससुरचापम् = सेन्द्रचापम् । अपपयोविशदम् = निर्जलविशदम् । अविचलं = निश्चलम् । ध्वनितसूचितम् = गर्जितज्ञापितम् । अम्बुमुचाम् = मेघानाम् । चयम् = राशिम् । उपबिभ्रतम् = धारयन्तम् । अत्र सन्देहालङ्कारः ।

कोषः—‘प्रभादृग्विषिखस्त्वङ्भाभाश्छेविद्युतिदीप्तयः’ इत्यमरः ।

हिन्दी—हिमालय के शिखर अनेकों मणियों की कान्ति से युक्त तथा बर्फ के कारण शुभ्रवर्णवाले हैं । उस पर इन्द्रधनुषयुक्त, जल से रिक्त होने के कारण शुभ्रवर्णवाली मेघमालाएँ ढकी रहती हैं । वे मेघमालाएं गर्ज-गर्ज कर अपना परिचय देती हैं ॥ १२ ॥

विकचवारिरुहं दधतं सरः सकलहंसगणं शुचि मानसम् ।
शिवमगात्मजया च कृतेर्ष्याया सकलहं सगणं शुचिमानसस् ॥ १३ ॥

अन्वयः—विकचवारिरुहं सकलहंसगणं शुचि मानसं सरः ( दधतम् ) कृतेर्ष्या अगात्मजया सकलहं सगणं शुचिमानसं शिवं च दधतम् ।

विग्रहः—विकचानि वारिरुहाणि सन्ति यस्मिन् तत् = विकचवारिरुहम् ।

३ कि०

३४ | किरातार्जुनीयम्

कलहंसानां गणाः कलहंसगणास्तैः सहितम् = सकलहंसगणम् । कृता ईर्ष्या यया तया = कृतेर्ष्यया । अगस्य आत्मजा, तया = अगात्मजया । कलहेन सहितं = सकलहम् । गणैः सहितम् = सगणं । शुचि मानसं यस्य तम् = शुचिमानसम् ।

अर्थः— विकचवारिरुहम् = विकसितकमलम् । सकलहंसगणम् = कलहंस-युतम् । शुचि = पवित्रम् । मानसं सरः = मानसरोवरं सरः ( दधतम् ) कृतेर्ष्यया = विहितेर्ष्यया । अगात्मजया = पार्वत्या । सकलहं = सविवादम् । सगणम् = सप्रमथम् । शुचिमानसं = पूतमानसम् । शिवम् = शङ्करम् । च दधतम् = धारयन्तम् । अत्र यमकालङ्कारः ।

कोषः— 'कदम्बः कलहंसः स्यात्' इत्यमरः ।

हिन्दी— यह हिमालय पर्वत खिले हुए कमल तथा अनेक प्रकार के हंस-पक्षियों से युक्त मानसरोवर झील को धारण किये हुए हैं । ईर्ष्या-युक्त ( कुपित ) पार्वती जी व भूत-प्रेतादिकों के सहित विशुद्ध मनवाले शङ्कर जी यहाँ निवास करते हैं ॥ १३ ॥

ग्रहविमानगणानभितो दिवं ज्वलयतौषधिजेन कृशानुना ।
मुहुरनुस्मरयन्तमनुक्षपं त्रिपुरदाहमुमापतिसेविनः ॥ १४ ॥

अन्वयः— दिवम् अभितः ग्रहविमानगणान् ज्वलयता ओषधिजेन कृशानुना अनुक्षपम् उमापतिसेविनः त्रिपुरदाहम् मुहुः अनुस्मरयन्तम् ।

विग्रहः— ग्रहाः च विमानानि च ग्रहविमानानि, तेषां गणान्तान् = ग्रह-विमानगणान् । ओषधिभ्यः जातस्तेन = ओषधिजेन । क्षपा क्षपा = अनुक्षपम् । उमायाः पतिः = उमापतिः, तं सेवन्ते ये तान् = उमापतिसेविनः । त्रयाणां पुराणां समाहारस्त्रिपुरम्, तस्य दाहस्तम् = त्रिपुरदाहम् ।

अर्थः— दिवम् अभितः = दिवोऽभिमुखम् । ग्रहविमानगणान् = चन्द्रादि-देवयानान् । ज्वलयता = प्रदीपयता । ओषधिजेन = तृणविशेषजन्येन, कृशानुना = अग्निना । अनुक्षपम् = प्रतिक्षपम् । उमापतिसेविनः = प्रमथादीन् । त्रिपुरदाहम् = त्रिपुरज्वालनम् । मुहुः = वारंवारम्, अनुस्मरयन्तम् = स्मरयन्तम् । अत्र स्मरणालंकारः ।

कोषः— 'व्योमयानं विमानोऽस्त्री' इत्यमरः ।

हिन्दी— इस हिमालय पर चारो ओर चन्द्रादिग्रहों के विमानों का प्रकाश