किरातार्जुनीयम् (घण्टापथ व सुधा टीका सहित)
Kiratarjuniyam of Bharavi Hindi
महाकवि भारवि द्वारा
स्रोत: Kiratarjuniyam with Ghantapath & Sudha Hindi Commentary by Sheshraj Sharma (उद्गम)
सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् [ ८३
सर्गः ] घण्टापथ-सुधान्याख्याद्वयोपेतम् [ ८३
धरा। पवायन् पयसां धरास्तान्पयोधरान्मेघान्वाभ्यर्थयतेऽभियाति 'याच्ञायामभि- धाने च प्रार्थना कथ्यते बुधैः' इति केशवः। यद्वाऽवकूजतीत्यर्थः। प्रा अभ्यर्थते। 'प्रा स्पादाच्चाऽवरोधयोः, इत्यभिधानात्प्रा अवरोधेन प्रा इति तृतीयान्तरम्। आका- रान्तस्य प्राशब्दस्य योगविभागात् 'आतो धातोः' इत्याल्लोपः। तथापि महीयसो महत्तरस्य सा प्रकृतिः खलु यथा प्रकृत्याऽन्यसमुच्छ्रितिं परवृद्धिं न सहते। महतः परमर्द्दनमेव पुरुषार्थः इत्यर्थः। पूर्ववदलङ्कारः ॥ २१ ॥
अन्वयः—मृगाधिपः, किं फलम्, अपेक्ष्य, ध्वनतः पयोधरान् प्रार्थयते। सा महीयसः प्रकृतिः खलु। यथा अन्यसमुच्छ्रितिं न सहते ॥ २१ ॥
सुधा—मृगाधिपः = मृगेन्द्रः, सिंह इति यावत्, किम् = किंरूपम्, फलम्=प्रयो- जनम्, वा लाभम्, अपेक्ष्य = उद्दिश्य, मनसि निश्चित्येति भावः ध्वनतः = गर्जतः, पयोधरान् = जलधरान्, मेघानित्यर्थः। प्रार्थयते = याचते, अब्रूतेच किमपीति। तदा कथं तदन्तं वारिदं ज्ञात्वा सिंहो गर्जतीत्याह—सा = अन्योत्कर्षामर्षणा, मही- यसः = गरीयसः, मनस्विन इत्यर्थः। प्रकृतिः—स्वभावः। खलु = किल, वर्तते यया = प्रकृत्या, अन्यसमुच्छ्रितिम् = पराभ्युदयम्, न सहते = न मर्षयति, महान् इति शेषः। शत्रोरुत्कर्षनाशनमेव महतः पुरुषार्थफलम् ॥ २१ ॥
समासः—मृगाणामधिपः मृगाधिपः। धरन्तीति धराः पयसां धराः पयोधराः स्तान् पयोधरान्। अन्यस्य समुच्छ्रितिरन्यसमुच्छ्रितिस्तामन्यसमुच्छ्रितिम् ॥ २१ ॥
व्याकरणम्—अपेक्ष्य = अप + ईक्ष् + क्त्वा + ल्यप्। प्रार्थयते=प्र + अर्थ + लट्। सहते = सह् + लट् ॥ २१ ॥
वाच्यान्तरम्—मृगाधिपेन किं फलमपेक्ष्य ध्वनन्तः पयोधराः प्रार्थ्यन्ते तथा महीयसः प्रकृत्या भूयते, यया अन्यसमुच्छ्रितिः न सह्यते ॥ २१ ॥
कोषः—'स्त्रीस्तनाब्दौ पयोधरौ' इत्यमरः। 'संसिद्धिप्रकृतीत्विमे। स्वरूप स्वभावश्च निसर्गश्च' इत्यमरः। 'विषेषवाक्यालङ्कारजिज्ञासानुनये खलु' इत्यमरः॥
सारार्थः—भूस्थोऽपि सिंहः आकाशगतस्य मेघस्य गर्जनं श्रुत्वा 'कः कोऽयम- स्मत्समशब्द्यकरोऽन्यः' इति धिया तं प्रति गर्जति। एवं महतां स्वभावः यन्न केन प्रतिपक्षिण उत्कर्षं दृष्ट्वा स्वस्यापि तदधिकोत्कर्षार्थं यतते ॥ २१ ॥
भावार्थः—सिंह गर्जते हुए बादल से क्या कुछ माँगता है ? (नहीं उसको झपटता है) वह महान् लोगों (बड़ों) की आदत होती है कि जिससे वे औरों की उन्नति नहीं सहते ॥ २१ ॥
संप्रति उक्तप्रयोजनं विगमयति—उक्तार्थोपसंहारं जिगस उच्यते—
कुरु सम्प्रतिसेव विक्रमे नृप निर्धूत तमः प्रमादजम्। ध्रुवमेतदवेहि विद्विषां स्वबलात्सम्पदमा विपत्पया ॥ २२ ॥
९० | किरासार्जुननीयम् । | [ द्वितीय
कुरु तदिति । हे नृप, तत्तस्मादुक्तरीत्या पराक्रमोत्साहयोर्हेतुत्वाद्धेतोः 'यत्तच्छब्दस्ततो हेतौ' इत्यमरः। प्रमादजं तमो मोहं निर्धूय निरस्य विक्रमे पौरुष एव मतिं कुरु। विक्रममेवाङ्गीकुरु, नतूपायान्तरमित्यर्थः । न च विक्रमवैफल्यशङ्का कार्येत्याह—ध्रुवमिति। विद्विषां विपत्तयस्त्वदनुत्साहहतास्तवानुत्साहेनावसादेन हताः प्रतिबद्धाः। अन्यथा प्रागेव विपद्येरन्निति भावः। इत्येतद् ध्रुवं निश्चितमवेहि 'विद्धि। ध्रुवं नित्ये निश्चिते च' इति शाश्वतः॥ २२॥
अन्वयः—हे नृप, तत्, प्रमादजं, तमः, निर्धूय, विक्रमे, एव मतिं कुरु, विद्विषां विपत्तयः, त्वदनुत्साहहताः (सन्ति) । एतद्, ध्रुवम्, अवेहि ॥ ॥
सुधा—हे नृप = हे राजन्, तत् = तस्मात्कारणात्, प्रमादजम् = अनवधानेन जनितम्, तमः = मोहम्, निर्धूय = निरस्य, दूरीकृत्येत्यर्थः । विक्रमे = पराक्रमे मतिं = बुद्धिम्, कुरु = विधेहि, नान्यथा कार्यसिद्धिरित्यर्थः । तथाहि, विद्विषाम् = शत्रूणाम्, विपत्तयः = विपदः, क्लेशा इत्यर्थः । त्वदनुत्साहहताः = भवदनुद्योगक्षीणाः, अर्थाद्यदा भवानुत्साहमङ्गीकरिष्यति, तदा तेषां विपत्तयो भविष्यन्ति। यावदेव भवानुद्योगतत्परो न, तावदेव तेषां विपत्तयो न, अपितु सम्पदत्यः सन्तीत्येतत् = इति, ध्रुवम् = निश्चितम्, अवेहि = जानीहि । नास्त्यत्र सन्देहलेशोऽपीति शेषः ॥ २२ ॥
समासः—प्रमादाज्जायते इति प्रमादजस्तं प्रमादजम् । न उत्साह इत्यनुत्साहः तव अनुत्साह इति त्वदनुत्साहस्तेन त्वदनुत्साहेन हता इति त्वदनुत्साहहताः ॥२२॥
व्याकरणम्—कुरु = कृ + लोट् । निर्धूय = निर् + धूञ् + क्त्वा + ल्यप् । अवेहि = अव + इण् + लोट् ॥ २२ ॥
वाच्यान्तरम्—हे नृप ! तत् प्रमादजं तमो निर्धूय विक्रमे मतिः क्रियताम् । विद्विषां विपत्तिभिः त्वदनुत्साहहताभिर्भूयते, एतत् ध्रुवं भवता अवेद्यताम् ॥२२॥
कोशः—'बुद्धिर्मनीषा धिषणा धीः प्रज्ञा शेमुषी मतिः' इत्यमरः । 'शक्तिः पराक्रमः प्राणो विक्रमस्त्वतिशक्तिता' इत्यमरः । 'प्रमादोऽनवधानता' इत्यमरः ॥२२॥
सारार्थः—यतो विक्रमेण विना कार्यसिद्धिर्न हि भवति, अतो भवताऽप्यनुत्साहं परित्यज्य उद्योगतत्परेण भवितव्यम् । तावदेव शत्रोः सम्पदौ वर्तन्ते, यावद्भवतोत्साहो नाङ्गीकृतः। यदैव उत्साहमङ्गीकरिष्यति तदैव शत्रोर्विपत्तयः उत्पत्स्यन्ते ।
भाषार्थः—हे महाराज ! आप भूल से किये हुए मोह को दूर कर उद्योग में बुद्धि लगाइये । आप ही के अनुत्साह (अनुद्योग व आलस्य) से दुश्मनों की विपत्तियाँ रुकेंगी, यह आप निश्चित समझें ॥ २२ ॥
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् ९१
न च नः पराजयशङ्का कार्येत्याह—
द्विरदानिव दिग्विभावितांश्चतुरस्तोयनिधीनिवार्यतः ।
प्रसहेत रणे तवानुजान् द्विषतां कः शतमन्युतेजसः ॥ २३ ॥
द्विरदानिति । दिग्विभावितानिक्षु प्रसिद्धांस्तानायत आगच्छतः । याङ्पूर्वा-द्विण्धातोः शतृप्रत्ययः । चतुरो द्विरदान्दिग्गजानिव, तथोक्तविशेषणांश्चतुरस्तोय-निधीनिव, रण आयतो दिग्विभावितान्शतमन्युतेजस इन्द्रविक्रमांश्चतुरस्तवानुजा-न्द्धिषतां मध्ये कः प्रसहेत । सोढुं शक्नुयादित्यर्थः । 'शकि लिङ् च' इति शक्यार्थे लिङ् । अतो निःशङ्कं प्रवर्तस्वेति भावः ॥ २३ ॥
**अन्वयः—**द्विषतां, कः, दिग्विभावितान्, चतुरः, द्विरदान्, इव, तोयनिधीन्, इव, रणे, आयतः शतमन्युतेजसः, तव, अनुजान्, प्रसहेत ? ॥ २३ ॥
**सुधा—**द्विषतां = शत्रूणाम्, पक्षे इति शेषः, कः = को वीरः वर्तते य इति गजान्, इव । रणे = समरे, चतुरः = चतुर्मितान्, तोयनिधीन् = समुद्रान्, इव, आयतः = आगच्छतः, शतमन्युतेजसः = इन्द्रसमविक्रमान्, तव = युधिष्ठिरस्य, अनुजान् = कनिष्ठान्, अस्मदादीनित्यर्थः प्रसहेत = सोढुं शक्नुयात् ? न कोऽपि तादृशोऽस्मत्प्रतिपक्षयोग्यो वीरवरो लक्ष्यते विपक्षपक्षे इति भावः ॥ २३ ॥
समासः द्वौ रदौ वर्त्तेते येषां ते द्विरदास्तान् । दिक्षु विभाविता दिग्विभावितास्तान् दिग्विभावितान् । तोयानां निधयस्तोयनिधयस्तांस्तोयनिधीन् । शतं मन्यवो यस्य सः शतमन्युः, शतमन्योस्तेज इव तेजो येषां ते शतमन्युतेजसस्तान् शतमन्युतेजसः ॥ २३ ॥
**व्याकरणम्—**आयातः = आ + इण् + शतृ, प्रसहेत = प्र + षह् + लिङ् ॥ २३ ॥
**वाक्यान्तरम्—**दिग्विभाविताः द्विरदा इव चत्वारस्तोयनिधय इव चायन्तः शतमन्युतेजसः तव अनुजाः, द्विषतां मध्ये केन प्रसहेरन् ॥ २३ ॥
कोषः—'हस्ती दन्तावलो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः । 'कलियो समरानीकरणः कलहविग्रहौ' इत्यमरः । 'जिष्णुर्लेखर्षभः शक्रः शतमन्युर्दिवस्पतिः' इत्यमरः ॥ २३ ॥
**सारार्थ—**यदि भवानधुना परिमितपरिजनात्सर्वोऽसमर्थो युद्धकरणे भवेदितमिति जानाति तदा यत्नं विचारयतु, यत् सबल इन्द्रसमविक्रमाः भ्रातरो वयं च दिग्गजाः इव आकारेण, युद्धे तु सागरा इवामतिक्रमणीयाश्च स्मः । तस्मादस्माकं पञ्चानां सम्मिलितानां पुरः शत्रुयशीयः को निजबलवीर्यान्वितः जनं तिष्ठेत्, यो न पराभवनासिद्धिंर्भविष्यतीति ॥ २३ ॥
**भाषार्थः—**चारों दिग्गजो के समान बलवान् और आकार से अथाह सागर के
किरातार्जुनीयम् [ द्वितीय
समान आक्रमण योग्य नहीं, ऐसे इन्द्र के समान पराक्रम वाले आपके भाइयों से दुश्मनों के पक्ष में कौन है ? जो ठहर कर क्षण भर युद्ध करे ॥ २३ ॥
आशीर्वादव्याजेन फलितमाह—
ज्वलतस्तव जातवेदसः सततं वैरिकृतस्य चेतसि।
विदधातु शमं शिवेतरा रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥
ज्वलत इति । तव चेतसि सततं ज्वलतो वैरिकृतस्य जातवेदसः । क्रोधाग्नेरित्यर्थः शिवेतराऽशिवाऽमङ्गला । वैधव्यदुःखजनकत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिर्वैरिवनिताऽश्रुप्रवाहः शमं विदधातु । वैरिकृतस्य क्रोधस्य वैरिवधमन्तरेण शान्त्यसम्भवादवश्यं तद्वधस्त्वया कर्तव्य इत्यर्थः । क्रोधस्य विषयस्य निगरणेन विषयिणो जातवेदस एवोपनिबन्धादतिशयोक्तिरलङ्कारः । तदुक्तम्—'विषयस्यानुपादानाद्विषय्युपनिबध्यते । यत्र सातिशयोक्तिः स्यात्कवेः प्रौढोक्तिजीविता ॥' इति । तत्रापि क्रोधस्य जातवेदसो भेदेऽप्यभेदाध्यवसायादभेदेऽभेदरूपा । सा एवाम्बुनिर्वाप्यत्वोक्तिश्च घटते । तथा च तथाम्बुसेकेनाग्निः शाम्यति तथा शत्रुवधेन क्रोध इत्यौपम्यं गम्यते ॥ २४ ॥
**अन्वयः—**शिवेतरा, रिपुनारीनयनाम्बुसन्ततिः, तव; चेतसि सततं, वैरिकृतस्य, ज्वलतः, जातवेदसः शमं विदधातु ॥ २४ ॥
**सुधा—**शिवेतरा = अमङ्गला, अभद्रेति यावत्, वैधव्यक्लेशेत्पन्नत्वादिति भावः । रिपुनारीनयनाम्बुसन्ततिः = शत्रुस्त्रीनेत्राश्रुधारा (कर्त्री), तव = युधिष्ठिरस्येत्यर्थः । चेतसि = मनसि, सततम् = अनिशम्, नित्यमिति यावत् । वैरिकृतस्य = शत्रुप्रयुक्तस्य ज्वलतः = प्रदीप्तस्य, उच्छिखस्येत्यर्थः । जातवेदसः = अग्नेः, शत्रुविहितमहापराधजनितदुःखाग्निज्वलाया इति भावः । शमम् = उपशान्तिम्, विदधातु = करोतु । अग्निर्गलधारायाः पातेन शाम्यति, तथैव तव दुःखाग्निरपि वैरिरमणीवैधव्यजनिताश्रुधारया शाम्यतु इति भावः ॥ २४ ॥
**समासः—**वैरिणा कृतयः वैरिकृतः तस्य वैरिकृतस्य । शिवादितरा शिवेतरा । नयनानामम्बूनि, तेषां सन्ततिः, नयनाम्बुसन्ततिः । रिपूणां नार्यः रिपुनार्यस्तासां नयनाम्बुसन्ततिरिति रिपुनारीनयनाम्बुसन्ततिः ॥ २४ ॥
**व्याकरणम्—**ज्वलतः = ज्वल् + शतृ । विदधातु = वि + धा + लोट् ॥ २४ ॥
**वाच्यान्तरम्—**शिवेतरया रिपुनारीनयनाम्बुसन्तत्या तव चेतसि सततं ज्वलतः वैरिकृतस्य जातवेदसः शमः विधीयताम् ॥ २४ ॥
कोषः—'शुचीटयोनिर्ज्वलनो जातवेदास्तनू्नपात्,' इत्यमरः । 'सततानावरताश्रान्तसन्तताविरतानिशम्' इत्यमरः । 'चित्ते तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । 'शमयस्तु शमः शान्तिः' इत्यमरः ॥ २४ ॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५३
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ५३
सारार्थः—तावत्तव दुःखाग्निश्चिर्वं विलीनो भविष्यति, यावत्ते रिपवो न मरिष्यन्ति, अतो निजदुःखरोगस्य भेषजं शत्रुसंहाररूपं कुर्विति ॥ २४ ॥
भाषार्थः—आप के हृदय में कौरवों के कारण हरदम जलती हुई दुःखरूपी आग को अमङ्गल दुश्मन की रमणियों की आँसू की धारा बुझाये ॥ २४ ॥
इति दर्शितविक्रियां सुतं मरुतः कोपपरीतमानसम् ।
उपसान्त्वयितुं महीपतिर्नृरदं दुष्टमिवोपचक्रमे ॥ २५ ॥
इतीति । इत्युक्तरीत्या दर्शिता विक्रिया विकारो वागारम्भात्मको येन तं कोपपरीतमानसं कोपाक्रान्तचित्तं म् । इदं विशेषणद्वयं द्विरदेऽपि योज्यम् । मरुतः सुतं भीमं महीपतिर्युधिष्ठिरो दुष्टं द्विरदमिव । एतेन भीमस्य शौर्यमेव, न बुद्धिरस्तीति गम्यते । उपसान्त्वयितुमनुनेतुमुपचक्रमे प्रवृत्तः । 'प्रोपाभ्यां समर्थाभ्याम्' इत्यात्मनेपदम् । राजा तावदुपकारविशेषापेक्षया कस्यचिद्वचसो जनः सर्वैरीश्वरवद्वशीकरणीयः, न तु त्याज्य इति भावः ॥ २५ ॥
अन्वयः—महीपतिः, इति, दर्शितविक्रियं, कोपपरीतमानसं, मरुतः सुतम्, दुष्टं द्विरदम्, इव, उपसान्त्वयितुम्, उपचक्रमे ॥ २५ ॥
सुधा—महीपतिः = पृथिवीपतिः, युधिष्ठिर इत्यर्थः । इति = इत्थम्, पूर्वोक्तम्, चतुर्विंशतिश्लोकोक्तरूपम् । दर्शितविक्रियम् = प्रकटीकृतमनःक्षोभम्, कोपपरीतमानसम् = क्रोधाव्याप्तचित्तम्, मरुतः = वायोः, सुतम् = पुत्रम्, भीममित्यर्थः । यस्य वायोदंशाज्जनितत्वात्, दुष्टं = मदमत्तम्, द्विरदम् = गजम्, इव, उपसान्त्वयितुम् = सान्त्वयितुं वानुनेतुम्, वा, उपचक्रमे = आरब्धवान्, प्रवृत्त इत्यर्थः ॥ २५ ॥
समासः—दर्शिता विक्रिया येन स दर्शितविक्रियस्तं दर्शितविक्रियम् । कोपेन परीतं मानसं यस्य सः कोपपरीतमानसस्तं कोपपरीतमानसस् मरुतः पतिर्महीपतिः । द्वौ रदौ ( मुखनिर्गतौ ) यस्य स द्विरदस्तं द्विरदम् ॥ २५ ॥
व्याकरणम्—उपसान्त्वयितुम् = उप + सान्त्व + णिच् + तुमुन् । उपचक्रमे = उप + क्रम् + लिट् ॥ २५ ॥
वाच्यान्तरम्—महीपतिना इति दर्शितविक्रिये कोपपरीतमानसे मरुतः सुते उपसान्त्वयितुं दुष्टे द्विरदे इव उपचक्रमे ॥ २५ ॥
कोषः—'आत्मजस्तनयः सूनुः सुतः पुत्रः' इत्यमरः । 'समीरमारुतमरुज्जगत्प्राणसमीरणाः' इत्यमरः । 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । 'दन्ती दन्तावल्रो हस्ती द्विरदोऽनेकपो द्विपः' इत्यमरः ॥ २५ ॥
सारार्थः—एवं पूर्वोक्तरूपेण वक्तुं प्रवृत्तं क्रुद्धं भीमं युधिष्ठिर उपशमनरूपया सान्त्वनक्रियया निवृत्तं विधातुं तत्परो बभूव यथा कश्चिद्गजारूढो मदमत्तं हस्तिनं सान्त्वनेन प्रकृतित्वं करोति ॥ २५ ॥
९४ | किरातार्जुनीयम् । | [ द्वितीयः
भावार्थः—इस तरह मन के क्षोभ को दर्शाया है जिसने और क्रोध से भरा है दिल जिसका ऐसे वायुपुत्र (भीमसेन) को, महाराज युधिष्ठिर अपने कोमल वचनों से ठण्डा करने के लिए प्रस्तुत हुए, जैसे कोई मतवाले हाथी को वश में लाने के लिये उपाय करे ॥ २५ ॥
प्रथमं तावत्स्तुत्यादिभिः प्रसादयति—
अपवर्जितविप्लवे शुचौ हृदयग्राहिणि मङ्गलास्पदे । विमला तव विस्तरे गिरां मतिरादर्श इवाभिदृश्यते ॥ २६ ॥
अपवर्जितेति । विप्लवः प्रमाणबाधः । अन्यत्र बाह्यमलसंक्रमः । सोऽपवर्जितो यस्य तस्मिन्नपवर्जितविप्लवे । शुचौ सौशब्द्यं लोहशुद्धिश्च शुचित्वम् । तद्वतीत्यर्थः । अत एव हृदयग्राहिणि मनोरमे मङ्गलास्पदे । एकत्र हितार्थप्रतिपादकत्वादन्यत्र मङ्गलवस्तुत्वाच्च श्रेयस्करे । 'रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरूनग्निं तथा सूर्यं प्रातः पश्येत्सदा बुधः ॥' इति पुराणवचनात् । तव गिरां विस्तरे वाक्यप्रपञ्चे । 'प्रथने वावशब्दे' इति घञ्प्रतिषेधात् 'ऋदोरप्' इत्यप् । अत एव 'विस्तारो विग्रहो व्यासः स च शब्दस्य विस्तरः' इत्यमरः । मतिस्त्वद्बुद्धिरादर्शे दर्पण इव । 'दर्पणे मुकुरादर्शौ' इत्यमरः । विमला विशदाऽभिदृश्यते । वाग्वैशद्यादेव मतिवैशद्यमनुमीयते तत्पूर्वं कत्वात्सत्येत्यर्थः ॥ २६ ॥
अन्वयः—[अ]पवर्जितविप्लवे, शुचौ, हृदयग्राहिणि, मङ्गलास्पदे तव गिरां, विस्तरे (तव), विमला मतिः, आदर्श, इव, अभिदृश्यते ॥ २६ ॥
सुधा—अपवर्जितविप्लवे = प्रमाणयुक्ते, शुचौ = शब्दसौष्ठवे, हृदयग्राहिणि = मनोहरे, मङ्गलास्पदे = विजयप्रदे, तव भीमस्य, गिराम् = वाचाम्, विस्तरे = प्रपञ्चे तव, विमला = निर्मला, मतिः बुद्धिः, अपवर्जितविप्लवे = त्यक्तबाह्यमले, निर्मले इत्यर्थः । शुचौ = रजःकाष्ठकोष्ठादिविरहीकृते, पूजादौ स्पर्शायोग्यत्वात् विरहय्यामित्थावेति शेषः । हृदयग्राहिणि = हृदयव्यूर्ध्वावयवप्रतिबिम्बवति वा; दर्शनेन मनोहरे, मङ्गलास्पदे = कल्याणभाजने, यात्रायां प्रभाते च तद्दर्शनस्य मङ्गलजनकत्वात् । विस्तरे = असङ्क्षिप्ते, महतीत्यर्थः, यत्र सम्यक् कर्णनासागात्रोऽवलोक्यते तादृशे, आदर्श = दर्पणे, काचपदार्थे, इव, अभिदृश्यते = अवलोक्यते । यथा दर्पणे मुखमवलोक्यते स्पष्टं, तथैव वचनसमूहेऽपि त्वत्तुर्बुद्धिर्लक्ष्यते इति भावः ॥ २६ ॥
व्याकरणम्—अभिदृश्यते = अभि + दृश् + लट् ॥ २६ ॥
वाच्यान्तरम्—अपवर्जितविप्लवे, शुचौ, हृदयग्राहिणि, मङ्गलास्पदे, तव, गिरां, विस्तरे तव, मतिम्, आदर्श, इव अभिपश्यामि ॥ २६ ॥
कोशः—'प्रमाणबाधः किक विप्लवः स्यात्तद्युक्तिशून्यं वचनं मतं तत्, इति । 'माङ्गल्यं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'वाणी तु भारती भाषा'
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । ९५
गीर्वाग्वाणी सरस्वती' इत्यमरः । 'विस्तरो विग्रहो व्यासः स च शब्दस्य विस्तरः।' 'दर्पणे मुकुरादर्शौ' इत्यमरः ॥ २६ ॥
सारांशः—यथा निर्मले दर्पणे सुस्पष्टं स्वमुखं विलोक्यते, तथैव तव परिशुद्धे वाक्प्रपञ्चे तव मत्याः स्वरूपं दृश्यते ॥ २६ ॥
साराऽर्थः—युक्ति युक्त, पवित्र मनोहर, मङ्गलप्रद तुम्हारी बातों के समूह में तुम्हारी बुद्धि उसी तरह साफ दिखलाई देती है, जैसे शीशे ( आईने ) में किसी का प्रतिबिम्ब दिखाई देता है ॥ २६ ॥
अथैनमेनाह—
स्फुटता न पदैरपाकृता न च न स्वीकृतमर्थगौरवम् ।
रचिता पृथगर्थता गिरां न च सामर्थ्यमपोहितं क्वचित् ॥ २७ ॥
स्फुटेति । उपपत्तिरिति च पदैः सुप्तिङन्तरूपशब्दैः स्फुटता विशदार्थता नापाकृता न त्यक्ता अर्थगौरवमर्थभूयस्त्वं च न न स्वीकृतम् । स्वीकृतमेवेत्यर्थः । नञ्द्वयेनात्यन्तार्थगौरवाभावनिवर्तनार्थं नञ्द्वयम् । 'सम्भाव्यनिषेधविवर्त्तने द्वौ प्रतिषेधौ' इति वामनः । गिरां पदानामवान्तरवाक्यानां च पृथगर्थता भिन्नार्थता । अपुनरुक्तार्थतेति यावत् । रचिता कृता तथा क्वचिदपि सामर्थ्यं गिरामन्योन्यसाकाङ्क्षत्वं नापोहितं न वर्जितम् । अन्यथा दशदाडिमादिवाक्यवदेकवाक्यता न स्यात् । यथाहुर-'अर्थैकत्वादेकं वाक्यं सापेक्षं चेद्विभागे स्यात्' इति । नन्वर्थगौरवमित्यत्र कथं षष्ठीसमासः 'पूरणगुण—' इत्यादिना प्रतिषेधात् । नैष दोषः । ये शुक्लादयः शब्दा गुणे गुणििन च वर्तन्ते, यथा पटस्य शौक्ल्यं शुक्लः पट इति च तेषामेवायं निषेधाह् । ये पुनः स्वतो गुणमात्रवचना यथा गौरवं प्राधान्यं रसो गन्धः स्पर्श इत्यादिशब्दाः तेषामनिषेधात् तथा 'तस्यैश्च गुणैः षष्ठी समस्यते' इति वचनाद् बहुलमनिवृत्तः प्रयोगदर्शनाच्च । बलाकायाः शौक्ल्यमित्यादौ तु भाष्यकारवचनात्समासः । अत एवाह वामनः—'पत्रपीतिमादिषु गुणवचनसमासो वाक्योपपाद' इति ॥ २७ ॥
अन्वयः—पदैः, स्फुटता, न अपाकृता । अर्थगौरवं, च, न, स्वीकृतम्, (इति) न, गिरां पृथगर्थता, रचिता, क्वचित्, सामर्थ्यं, न, अपोहितम् ॥ २७ ॥
सुधा—पदैः = सुप्तिङन्तशब्दैः, सुप्तिङन्तं पदमित्युक्तलक्षणत्वात् । स्फुटता = स्पष्टार्थता, न अपाकृता = न त्यक्ता, त्वयेति शेषः सर्वत्र श्रुतमात्रेणैव शब्दस्य सम्यगर्थावबोधो जायते इति भावः परन्त्वेवंविधमपदेषु—अर्थगौरवं न तिष्ठते, तद्दोषपरिहारार्थमाह—अर्थगौरवम् = आशयविशदत्वम्, न स्वीकृतम् = नाङ्गीकृतम्, इति न, अर्थात्स्वीकृतमेव, स्फुटत्वेऽपि शब्दस्येति शेषः । गिराम् = वाचाम्, पृथगर्थता = अपुनरुक्तार्थता, स्वीकृता, न क्वचित् तव वाक्प्रपञ्चे पुनरुक्तिर्निरीक्ष्यतेति, वा पृथगर्थता = भिन्नार्थता, काकुव्यङ्ग्यरूपतया यास्तीत्येवार्थः । अथ च हेतूपमेयहेत्वोर्दीपवद्युक्तस्य सम्बन्धात् क्वचित्सुतरायपि परस्परं साकाङ्क्षत्वं, न चापोहितम्
९६ | किराताऽर्ज्युनीयम् । | [द्वितीय
न आच्छादितम्, गोपितमित्यर्थः अर्थात् सर्वत्रोत्साहशक्तिस्त्वया स्वकुलोचितस्वभावेन वर्णितेति भावः ॥ २७ ॥
समासः—अर्थस्य गौरवमर्थगौरवम् । पृथक् अर्थः यासां ताः पृथगार्थास्तासां भावः पृथगर्थता ॥ २७ ॥
व्याकरणम्—अपाकृता = अप + आङ् + कृ + क्तः + टाप् । स्वीकृतम् = स्वी+ च्विः कृ + क्तः । रचिता = रच् + क्तः + टाप् । अपोहितम् = अप + ऊह + क्तः ॥ २७ ॥
वाच्यान्तरम्—पदानि स्फुटतां न अपाकृतवन्ति । भवान् अर्थगौरवं न स्वीकृतवान् इति, न, गिरां पृथगर्थतां न रचितवान् । क्वचित्सामर्थ्यं न अपोहितवान् ॥ २७ ॥
कोषः—'सम्भाव्यनिषेधनिवर्त्तने द्वौ प्रतिषेधौ' इति वामनः । 'अभावे नञ् प्रनापि मा स्म माऽलं च वारणे' इत्यमरः ॥ २७ ॥
सारार्थः—हे भीम ! त्वया प्रतिपाद्येषु वचनेषु, सर्वत्र सरलतः, अर्थबहुलत्वं पुनरुक्तता पराक्रमविशेषता च प्रदर्शिता ॥ २७ ॥
भावार्थः—हे भीम ! पदों में जो सरलता, तुमने दिखाई और थोड़े शब्दों में अधिक अर्थ का प्रयोग किया, कहीं भी पुनरुक्ति ( जो एक बार वही दूसरी बार) नहीं कही और भी अपने पराक्रम को छिपाया नहीं ॥ २७ ॥
उपपत्तिरुदाहृता बलादनुमानेन न चागमः क्षतः ।
इदमीदृगनीदृगाशयः प्रसभं वक्तुमुपक्रमेत कः ॥ २८ ॥
उपपत्तिरिति । किञ्च बलाद् बलमाश्रित्य । कर्मणि ल्यब्लोपे पञ्चमी बलेन उपपत्तिर्युक्तिरुदाहृता । पराक्रमपक्ष एव श्रेयानिति युक्तिरुक्तेत्यर्थः उचितं चेतन्महावीरस्येति भावः । तथाऽनुमानेन युक्त्याऽऽगमः शास्त्रं च न क्षतो न दूषितः किन्त्वागमाविरुद्धमेवोक्तम् । अन्यथा तद्विरोधादनुमानस्यैव प्रामाण्यभङ्गादिति भावः ईदृगित्थं क्षत्रियुक्तमिदं वचनमविद्यमान ईदृगाशय इत्थं क्षत्रयुक्ताभिप्रायो यस्य सोऽनीदृगाशयः । 'अभिप्रायश्छन्द आशयः' इत्यमरः कः प्रसभं हठाद्वक्तुमुपक्रमेत । न कोऽपीत्यर्थः । इत्थं वक्तुमुपक्रमितैव नास्ति, वक्ता तु दूरापास्त एवेति भावः । केचित्तेतच्छ्लोकत्रयं निन्दापरत्वेनापि योजयन्ति । तदसत् हितोपदेशमात्रतत्परस्यातिवत्सलस्य राज्ञो मत्सरिण इव महावीरे भ्रातरि विधेये सर्वार्थदक्षभूतनिन्दातात्पर्य्यकल्पनाऽनौचित्यादिति ॥ २८ ॥
अन्वया—बलात्, उपपत्तिः उदाहृता । अनुमानेन, च आगमः, न क्षतः। अनीदृगाशयः, कः, ईदृक्, इदं, प्रसभं, वक्तुम् उपक्रमेत ॥ २८ ॥
सुधा—बलात् = बलमाश्रित्य, पौरुषमङ्गीकृत्येत्यर्थः । उपपत्तिः = युक्तिः, उदाहृता = उक्ता, त्वया भीमेनेति शेषः । अनुमानेन च = तर्केणापि, आगमः = शास्त्रम्, न क्षतः = न बाधितः, अर्थात्सर्वं शास्त्रानुकूलमेव वचः समुदीरितं त्वयेति भावः। अनीदृगाशयः = ईदृशाभिप्रायरहितः कः = अन्यज्जनः, शक्नुयादिति शेषः । ईदृक् = ...
सर्गः ] घण्टापथ-सुधाव्याख्यासहोपेतम्
इत्यस्य, इदम् = पूर्वोक्तम्, वचनमिति शेषः। प्रसभम् = सहसा, अविमृश्येत्यर्थः। वक्तुमुच्चारयितुम्, उपक्रमेत=प्रारभेत, न कोऽपि त्वदन्य एवं वक्तुं शक्नोतीत्यर्थः॥
समासः— ईदृक् आशयो यस्य स ईदृगाशयः, न ईदृगाशय इति अनीदृगाशयः॥
व्याकरणम्— उपपत्तिः = उप + पद् + क्तिन्। उदाहृता = उत् + आ + हृ + क्त + टाप्। वक्तुम् = वच + तुमुन्। उपक्रमेत = उप + क्रम् + विधिलिङ् ॥ २८ ॥
वाच्यान्तरम्— त्वां वक्तार उपपत्तिमुदाहृतवान्। अनुमानेन चाशयं न वक्तारम्। अनीदृगाशयेन केन ईदृग् वचनं वक्तुमुपक्रम्येत ॥ २८ ॥
कोषः— ‘उपपत्तिस्तु युक्तिः स्यात्कारणप्रतिपादकम्, इति कोशः। 'प्रसह्यं तु बलात्कारो हठोऽथ स्खलितं क्षुरम्' इत्यमरः। 'अभिप्रायस्त्वम् आशयः' इत्यमरः ॥२८॥
सारार्थः— त्वया यद्यपि पूर्वोक्तं सकलं वाक्यं विरमविचार्या एवोदीरितं तथापि नैकमपि युक्तिहीनं वचः, न च केनापि वाक्येन शास्त्रमर्यादा उल्लङ्घिता। वस्तुतस्त्वादृश एव एवं वक्तुं कोऽपि न समर्थो विद्यते ॥ २८ ॥
भावार्थः— हे भीम ! तुम कहने में शीघ्रता करके भी सब कह गये हो, तो भी सब ठीक ही ठीक कहे हो। किसी वाक्य में अनुमान से भी नीतिशास्त्र की मर्यादा खण्डित नहीं हुई है और कौन ऐसा अभिप्राय न रखने वाला एकाएक ऐसा बोल सकता है ? ॥२८॥
यदि साधूक्तं तर्हि तथैव क्रियतामित्याशङ्क्याह—
अविप्लुततया तथापि मे हृदयं निर्णयमेव धावति ।
अवसाययितुं क्षमाः सुखं न विधेयेषु विशेषसम्पदः ॥ २९ ॥
अविप्लुततयेति । तथापि त्वया सम्यगभिहितेऽपि मे हृदयमविप्लुतत्वाज्ज्ञानशून्यत्वा। अद्यापि संशयगतमेवेत्यर्थः। निर्णयमेव धावत्यनुसरति । मनेच्छ इति। यावत् । अद्यापि निर्णयस्यानुद्भावादिति भावः। निर्णयधावुने हेतुमाह—अथेति । विधेयेषु सन्धिविग्रहादिकर्तव्यार्थेषु या विशेषसम्पदोऽवान्तरभेदभूयांस्यस्ताः सुखमक्लेशेनैवावसाययितुम्, पुरुषान्प्रत्यानुकूल्येन स्वरूपाणां लक्षणेन बोद्धुं प्रत्यवगन्तुमित्यर्थः। स्वतेभ्यंन्तादपि कर्मकर्तृकात्तुमुन्। 'शेरन्नायि'ति सूत्रसत्वान्न विप्रणः। क्षमन्त इति क्षमाः पचाद्यच्। क्षमा न भवन्ति 'द्वयं फले प्रिये सिद्धौ' इत्यमरः। विधेयमात्रस्य सुगमत्वेऽपि तद्विशेषाणां सौक्ष्म्यात् बाहुल्याच्च दुर्ज्ञेयत्वमित्यपि निर्णयाकाङ्क्षेति तात्पर्यार्थः। अत्र विशेषवाक्यं प्रत्युत्तरवाक्यार्थस्य हेतुविधानाद्वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः। तदुक्तम्—'हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्' इति ॥ २९ ॥
अन्वयः— तथापि, मे, हृदयम् अविप्लुततया, निर्णयम्, एव धावति । विधेयेषु, विशेषसम्पदः, सुखम्, अवसाययितुं, न क्षमाः (भवन्ति) ॥ २९ ॥
सुधा— तथापिसुयुक्तियुक्तोऽप्यस्मद् वाक्येऽपि, हेभ्रातः, युधिष्ठिरस्य, हृदयं...
७ कि० सं० द्वि०
९८ किरातार्जुनीयम्। [ द्वितीय
मनाः, अवितृप्ततया = असन्तुष्टतया, तात्कालिकारम्भविवभवपारावारस्याल्पत्वावलोकने- जन्मासन्तोषतयेत्यर्थः। निर्णयम् = निश्चयम्, एव धावति = अनुसरति। यद्यपि बहुनाऽस्माद्विपक्षोऽद्यबलैरधिकतरोऽस्ति, युद्धे कदाचित्प्रबलस्यापि पराजयः तथा हीनबलस्य तु बहुधा पराजय एव दृश्यते अयते, अतोऽस्मिन् समये कृते युद्धे नियमेन ममैव जयः स्यादिति नानुमीयते। अतः पूर्वंप्रकर्षाभावं उपायं कृत्वा प्रबलो भूत्वा नियतं जेष्याम्येवेति मनसि निश्चयः स्याद्यदा, तदा करिष्यामियुद्धमिति भावः।, विधेयेषु = कर्त्तव्यकार्येषु, सन्धिविग्रहादिविधित्यर्थः। विशेषसम्पदः = उत्कृष्टसम्पत्तयः, अवान्तरभूमानः, सुखम् = अक्लेशम्, अवसायितुम् = प्रत्या- यितुम, न क्षमाः = न समर्थाः भवन्ति इति शेषः ॥ २९ ॥
समासः-न विशेषण तृप्त इत्यवितृप्तस्तस्य भावस्तत्ता अवितृप्तता तया भवि- तृप्ततया। विशेषाश्च ताः सम्पदः, विशेषसम्पदः ॥ २९ ॥
व्याकरणम्-धावति = धाव् + लट् । अवसाययितुम् = अव + षो + णिच् + तुमुन् ॥२९॥
वाक्यान्तरम्-तथापि मे हृदयेन अवितृप्ततया निर्णय एव धाव्यते। विधेयेषु विशेषसम्पत्तिः सुखम्, अवसाययितुम् न क्षमाभिर्भूयते ॥ २९ ॥
कोषः-'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः'। 'क्षमं शक्ते हिते त्रिषु' 'अय सम्पदि। सम्पत्तिः श्रीश्च लक्ष्मीश्च' इति चामरः ॥ २९ ॥
सारार्थः-यद्यपि त्वया सर्वं युक्तियुक्तं नीतिशास्त्रानुसारमेवोक्तं; तथापीदानीं शत्रोः प्रबलतया रणकरणं समुचितमिव न पश्यामि। यदा जयलाभोन्मुखा सम्भ- भवामः तदा समरं विधास्यामः ॥ २९ ॥
भाषार्थः-तो भी मेरा दिल असन्तोष के कारण अभी निर्णय ही की तरफ दौड़ता है। करने योग्य कर्मों में उसके सूक्ष्म भेद बिना कष्ट के प्रतीति कराने के समर्थ नहीं होते ॥ २९ ॥
वस्तुविशेषावधारणमन्तरेणैव प्रवृत्तिरित्याशङ्क्याह— सहसा विदधीत न क्रियामविवेकः परमापदां पदम्। वृणते हि विमृश्यकारिणं गुणलुब्धाः स्वयमेव सम्पदः ॥ ३० ॥
विदधेति। क्रियत इति क्रिया कार्यं सहसा। अविमृश्येत्यर्थः। 'सहसेत्याकस्मिकार्थ विसर्गाभो' इति गणव्याख्याने। स्वरादिपाठादव्ययम्। न विदधीत न कुर्यात्। कुतः। अविवेकोऽविमृश्यकारित्वं परमासमापदां पदं स्थानम्। कारणमित्यर्थः। व्यतिरेकेणोक्तमन्वयेनाह—वृणत इति। गुणलुब्धा गुणपुञ्जा इति स्वयंवर हेतुक्तिः। सम्पदः श्रियः। विमृश्य करोतीति विमृश्यकारी। 'उपपदमतिङ्' इति संसासः। तं स्वयमेव वृणते भजन्ते हि। 'वृञ् सम्भक्तौ' इति धातुः। तस्माद्वि-
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् । ९९
मूर्त्यैव प्रवर्तितव्यमित्यर्थः । अत्र सहसा विधानविवेकमयविमृश्यकारित्त्वान्वय-कारणत्वाद्रूपव्यतिरेककार्येण समर्थनाद्वैधर्म्येणार्थान्तरन्यासः । द्वितीयार्धेन च स एव साधर्म्येणेति ज्ञेयम् ॥ ३० ॥
अन्वयः—सहसा, क्रियां न विदधीत । अविवेकः, परमापदां, पदं (भवति) । हि, गुणलुब्धाः, सम्पदः विमृश्यकारिणं, स्वयम्, एव, वृणते ॥ ३० ॥
सुधा—सहसा = अविचार्य, क्रियाम् = कार्यम्, न, विदधीत = कुर्यात् । विमृचार्यैव कार्यं करणीयमित्यर्थः । अविवेकः = अविचारः, अविचारकारित्वम्, परमापदाम् = विशेषदुःखितीनाम्, पदम् = स्थानम्, भवति । यो हि नरो विना विवेकं, हठात् किमपि कार्यं करोति, स न तत्फलं तु न केवलं लभते प्रत्युत तस्य विशेषक्लेशो भोगायैवापतति । हि = यतः, गुणलुब्धाः = शौर्याद्यन्यीवशिष्टेषु-गुणगृध्नव इत्यर्थः । सम्पदः = सम्पत्तयः, ऐश्वर्याणीति भावः विमृश्यकारिणम् = विचार्य कर्तारम्, जनमिति शेषः । स्वयम् = आत्मनैव, वृणते = भजन्ते, स्वीकुर्वते यथा कन्या बहूनां मध्ये कमपि स्वप्रसन्नुकूलं वरं वृणीते, तथैव सम्पदोरपि विमृश्यकारिणमेव भजते ॥ ३० ॥
समासः—न विवेकः, अविवेकः । परमा आपदः परमापदस्तासां परमापदाम् । विमृश्य करोतीति विमृश्यकारी, तं विमृश्यकारिणम् । गुणेषु लुब्धाः गुणलुब्धाः ॥
व्याकरणम्—विदधीत = वि + धा + विधिलिङ् । वृणते = वृञ् + कर्तरि + लट् + आत्मने० ॥
वाच्यान्तरम्—सहसा क्रिया न विधीयेत । अविवेकेन परमापदां पदेन भूयते । हि गुणलुब्धाभिः सम्पद्भिः स्वयमेव विमृश्यकारी व्रियते ॥ ३० ॥
कोषः—'विपत्त्यां विपदापदौ' इत्यमरः । 'पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रि-वस्तुषु' इत्यमरः । 'गुणस्तु गणनः । लुब्धोऽभिकाषुकस्तृष्णक् समौ लोलुपलोलुपौ' इत्यमरः । 'अथ सम्पदि । सम्पत्तिः श्रीश्च लक्ष्मीश्च' इत्यमरः ॥ ३० ॥
सारांश—कस्यापि कार्यस्य करण्यात्पूर्वमेव तस्साह्यासं हानिं च विचार्य पश्चात् करं तत् कर्त्तव्यम्, यः किल विना विचारं कर्म करोति सः प्रायशः पश्चात्तापमनु-तापञ्च प्राप्नोत्येव । अथ च यो विचार्य किमपि करोति, स सर्वदा सुखमेधते । न हि तं कदाचिद् दुःखमापतति यतोऽविचारिता एव दुःखस्यापन्नः ॥ ३० ॥
भावार्थः—बिना विचारे कुछ न करना चाहिये । क्योंकि विचार के करके करना ही सब विपत्तियों का स्थान है । क्योंकि गुण का लोभ रखनेवाली सम्पत्तियाँ खुद ही, विचारकर काम करनेवालों को स्वीकार करती हैं ॥ ३० ॥
अनु साहसिकस्यापि फलसिद्धिरैश्वर्यत एव तर्हि विवेकेनेत्याह—
अभिवर्षति योऽनुपाठयन्विधिवीजानि विवेकवारिणा ।
स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति ॥ ३१ ॥
१०० किरातार्जुनीयम् । [ द्विती०
अमीति । यः पुमान् विधीयन्ते इति विधयः कृत्यवस्तूनि बीजानीवेत्युपमित- समासः । शरदं लोक इवेति वाच्यगतोपमाऽनुसारात् । तानि विधिबीजानि विवेको वारीव तेन विवेकवारिणा, पूर्ववत्समासः । अनुपालयन्प्रतीक्षमाणः संवर्द्धयन् अभिवर्षति सिञ्चति । स पुमान् । फलं साधननिष्पाद्योऽर्थः, सस्यं च 'सस्ये हेतुकृते फलम्' इत्युभयत्राप्यमरः । तच्छालिनीं क्रियां कर्म लोको जनः । "लोकस्तु भुवने जने' इत्यमरः । शरदामिव सदा नित्यमधितिष्ठति, सदा क्रियाफलं प्राप्नोत्येव न तु कदाचिद्व्यभिचरतीत्यर्थः । साहसिकस्य काकतालीयन्यायेन फलसिद्धिविवेकिनस्तु नियतेति भावः । अत्र फलशब्देन सस्यहेतुकृतयोरर्थयोरभेदाध्यवसायाच्छलेषा- तिशयोक्तिस्तदनुगृहीता चोपमेत्यनुसन्धेयम् ॥ ३१ ॥
अन्वयः—यः, विधिबीजानि, विवेकवारिणा, अनुपालयन्, अभिवर्षति, सदा, फलशालिनीम्, क्रियाम्, लोकः, शरदम्, इव, अधितिष्ठति ॥ ३१ ॥
सुधा—यः = कश्चित् भूपः, विधिबीजानि = कर्त्तव्यकार्यनिदानानि, विवेक- वारिणा = विचाररूपजलेन, अनुपालयन् = संरक्षन्, अभिवर्षति=सिञ्चति, सान्त्वयति; सदा = सर्वदा, फलशालिनीम् = सस्यभरिताम्, सिद्धियुक्तामित्यर्थः । क्रियां = कार्यम् । लोकः = कृषकः, यथा शरदम् = शरत्कालम्, आश्विनकार्त्तिकौतमासा- वित्यर्थः, इव, अधितिष्ठति = प्राप्नोति । यथा कृषीवलोऽन्नानां बीजानि भूमौ उप्त्वा, जलेन सिञ्चन् कार्त्तिकान्ते, सस्यसमृद्धिमत् क्षेत्रं पश्यति । तथैव भूपः कार्यकर्त्ताऽपीति भावः ॥ ३१ ॥
समासः—विधय एव बीजानि, विधिबीजानि । विवेक एव वारि इति विवेक- वारि, तेन विवेकवारिणा । फलेन श्लाघते या सा फलशालिनी तां फलशालिनीम्।
व्याकरणम्—अभिवर्षति = अभि + वृष् + लट् । अनुपालयन् = अनु + पाल् + णिच् + शतृ । अधितिष्ठति = अधि + स्था + लट् ॥ ३१ ॥
वाच्यान्तरम्—विधिबीजानि विवेकवारिणा अनुपालयता येन अभिवृष्यते तेन सदा लोकेन शरदिव फलशालिनी क्रिया अधिष्टीयते ॥ ३१ ॥
कोषः—'विधिर्विधाने दैवे च' इत्यमरः । 'हेतुर्ना कारणं बीजं निदानं त्वादि- कारणम्' इत्यमरः । 'विवेकः पृथगात्मता' इत्यमरः । 'आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्' इत्यमरः । 'सस्ये हेतुकृते फलम्' इत्यमरः । 'स्यात्ततौ वासरं शरद्' इत्यमरः ॥ ३१ ॥
सारार्थः—यथा कृषीवलाः स्वक्षेत्रे धान्यानां बीजान्युप्त्वा, ततोऽङ्कुरितान् धान्यभिन्नातृणादीन् उत्सार्य तोयवादिना पोषयन्तो मध्ये नदीकूपवापिका- प्रणालिकाभ्या सिञ्चन्ति, ते चाश्विनकार्त्तिकयोर्मध्ये पूर्णानि सस्यानि लभन्ते । तथैव नीतिज्ञा जनाः कर्त्तव्यकृत्यानां निदानानि सन्धिविग्रहाद्युपायेन, सहायकादिविधींश्च संरक्षन्ति, ते नियतं परिणामे कार्यसिद्धिं प्राप्नुवन्ति ॥ ३१ ॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १०१
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् १०१
भावार्थः—जो कोई किसी काम के बुनियाद की रक्षा करता हुआ, उसे विचाररूप जल से सींचता है, वह हर वक्त अपने कामों में सिद्धि पाता है। जैसे किसान ग्रीष्मान्त में धान्यादिकों के बीज बोकर बचाता हुआ पानी सींचता है, और आश्विन-कार्तिक में अपने हरे-भरे खेत को देखता है।
नियता विवेकिना फलसिद्धिरित्युक्तम्। सम्प्रति तामेव दृढयितुं स्तौति—
शुचिः भूषयति श्रुतं वपुः प्रशमस्तस्य भवत्यलंकिया।
प्रशमाभरणं पराक्रमः स नयापादितसिद्धिभूषणः ॥ ३२ ॥
शुचीति—शुचि सम्प्रदायशुद्धं श्रुतं शास्त्राध्ययनं कर्तृ वपुर्भूषयति। अन्यथा विद्वान्पुरुषः शोच्य इति भावः। तस्य श्रुतस्य प्रशमः क्रोधाद्युपशान्तिस्तद्विषया भूषणं भवति। अन्यथा श्रुतवैफल्यादिति भावः। पराक्रमः सत्त्वप्रसरे शौर्यं प्रशमस्याभरणं भवति। अन्यथा सर्वः परिभूयत इति भावः स पराक्रमः नयापादिता नीतिसम्पादिता। विवेकपूर्विकेति यावत्। सा चासौ सिद्धिश्च सैव भूषणं यस्य तथोक्तः। अन्यथा साहसिकस्य सिद्धिः काकतालीयन्यायेन पचे पराक्रमवैयर्थ्यं स्यादिति भावः। 'वपुषो भूष्यतैवात्र सिद्धेर्भूषणतैव तु। उभयं मध्यमानां तु तेषां पूर्वोत्तरेच्छया॥' इति विवेकः। एवं विशिष्टसिद्धेरन्यभूषिततया एव भूषणत्वेनोक्त्या सर्वोत्तरतया स्तुतिर्गम्यते। अत्रोत्तरस्य पूर्वपूर्वविशेषणत्वान्नैकावल्यालङ्कारः। तदुक्तम्—'यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव। भवति परं परमेषाऽलङ्कृतिरेकावली कथिता' इति ॥३२॥
अन्वयः—शुचि, श्रुतं वपुः, भूषयति। प्रशमः तस्य, अलंकिया, भवति। पराक्रमः, प्रशमाभरणं (भवति)। सः, नयापादितसिद्धिभूषणः (भवति) ॥३२॥
सुधा—शुचि = सम्प्रदायशुद्धम्, गुरुशासनानुसारमित्यर्थः। श्रुतम् = शास्त्रम् (कर्तृ), वपुः = गात्रम्, भूषयति = अलङ्करोति। गुरुशिक्षानुसारं सुपरिणम्यमाणं शास्त्राध्ययनम्, अध्येतुः शरीरस्य भूषणं भवतीति भावः। तथा हि 'विद्या रूपं कुरूपाणाम्' इत्युक्तं नीतौ। अथ, प्रशमः = परिशान्तिः, तस्य = श्रुतस्य, शास्त्रस्येत्यर्थः। अलङ्क्रिया = अलङ्कारः भूषणमिति यावत्, भवति = जायते। यद्यपि पठित्वाऽपि चेत्क्रोधोपशान्तिर्न कृता, तर्हि व्यर्थमेव पठनं तस्य, यदि तत्स्यात्तर्हि सहसा जना गणयन्ति इति भावः। अथ, पराक्रमः = विक्रमः, उद्योग इत्यर्थः। प्रशमाभरणम् = क्षान्तेर्भूषणम् भवति, यदा शान्तो जन उद्योगहीनो भवति, तदा दोषायामेव कल्पते इत्यर्थः। सः = पराक्रमः, नयापादितसिद्धिभूषणः = नीतिसम्पादितफलकाङ्कारः भवति। यदि पराक्रमी जनो नीत्या स्वकार्यं सम्पादयति तदैव स प्रशस्यः। यदि च स एकाधिकतया केवलमुद्धतं वपुः विधाय कार्यं न साधयति, प्रत्युत परकृतमपि नाशयति, तदा स निन्द्य एवेति भीमं प्रत्याक्षेपोऽयं निस्तारार्थिकोऽयं भवतो मन्त्रणाबोधः इत्यर्थः ॥३२॥
१०२ किरातार्जुननीयम् । [द्वितीय
समासः—प्रशमस्याभरणं प्रशमाभरणम् । नयेनापादिता सिद्धिनयापादित- सिद्धिः, सैव भूषणं यस्य स नयापादितसिद्धिभूषणः ॥ ३२ ॥ व्याकरणम्—भूषयति = भूष + स्वार्थे णिच् + लट् । भवति = भू + लट् ॥ ३२ ॥ वाच्यान्तरम्—शुचिना श्रुतेन वपुर्भूष्यते । प्रशमेन तस्य अलंकिया भूयते । प्रशमाभरणेन पराक्रमेण भूयते । नयापादितसिद्धिभूषणेन भूयते ॥ ३२ ॥ कोशः—'उज्ज्वलं निर्मलं पूतं पवित्रं शुद्धमेव च' इति कोशः । 'श्रुतं शास्त्राव- धृतयोः' इत्यमरः । 'शमयस्तु शमः शान्तिः' इत्यमरः । 'भूषणं स्यादलङ्क्रिया । अलङ्कारस्त्वाभरणं परिष्कारो विभूषणम्' इत्यमरः । शक्तिः पराक्रमः प्राणो विक्रम- स्त्वतिशक्तिता' इत्यमरः ॥ ३२ ॥ सारार्थः—शरीरस्य विद्यैव भूषणम् । विद्याया भूषणं शान्तिः । शान्तेश्च यथार्ह- समये पराक्रमप्रकरणम् । पराक्रमस्य भूषणं नीतिपूर्विका कार्यसिद्धिरिति ॥ ३२ ॥ भावार्थः—शरीर का अलङ्कार नियमानुसार विद्याध्ययन है और विद्या का अलङ्कार शान्ति है, शान्ति का भूषण पराक्रम है और पराक्रम का भूषण न्याय से कार्य को सिद्ध करना है ॥ ३२ ॥
विमृश्य कुर्यादिति स्थितम् । तत्र विमर्शोपायः क इत्युक्ते शास्त्रमेवेत्याह— मतिभेदतमस्तिरोहिते गहने कृत्यविधौ विवेकिनाम् । सुकृतः परिशुद्ध भागमः कुरुते दीप इवार्थदर्शनम् ॥ ३३ ॥
मतीति । मतिभेदः कार्यविप्रतिपत्तिः मतिभेदस्तम इवेत्युपमितसमासः, दीप इवेत्युपमाऽनुसारात् तेन तिरोहित आच्छन्नेऽत एव गहनं दुरवगाहे कृत्यविधौ कार्यानुष्ठाने विवेकिनां सुकृतः सदभ्यस्तोऽत एव परिशुद्धः निर्वितर्कोऽव्यभि- चारिचेष्टितः प्रभातादिदोषरहितश्च, आगमः शास्त्रम् । 'आगमः शास्त्र आम्नाये' इति विश्वः । दीप इवार्थदर्शनं कार्याज्ञानं वस्तुप्रतिभासनं च कुरुते ॥ ३३ ॥
अन्वयः—मतिभेदतमस्तिरोहिते, गहने विवेकिनां, कृत्यविधौ, सुकृतः, परि- शुद्धः, आगमः, इव अर्थदर्शनं कुरुते ॥ ३३ ॥
सुधा—प्रतिमभेदतमस्तिरोहिते = अनिश्चयान्धकाराच्छादने, गहने = दुर्ज्ञेये, विवे- किनाम् = विचारवतां, कृत्यविधौ = कार्यविधाने, कर्मक्रमे इत्यर्थः । सुकृतः = सम्य- गभ्यस्तः, परिशुद्धः ॥ भ्रान्तिवर्जितः आगमः = शास्त्रम् । मतिभेदतमस्तिरोहिते = बुद्धिभ्रमकारकान्धकारपिहिते, अत एव, गहने = दुष्प्रवेशे, दुर्गमे इत्यर्थः । विवेकिनां = विवेकिनाम्, धीमत्सुजानामित्यर्थः 'चेतो रजो जवो वेगो' इत्युक्तेः । कृत्यविधौ = गृहकृत्यानुष्ठाने, सुकृतः = सुविहितः, सम्यग्गृहे तत्तत्स्थाने निवेशितः । परिशुद्धः = निर्मलवर्तितैलादियुक्तः । दीपः = प्रदीपः, इव अर्थदर्शनम् = अभिप्राय- प्रकटनम्, दीपपक्षे अर्थदर्शनं = घटपटादिपदार्थावलोकनं, कुरुते = करोति ॥ ३३ ॥
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १०३
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम्। १०३
**समासः—**मतेर्भेदो मतिभेदः मतिभेदस्तम इवेति मतिभेदतमः, तेन मतिभेद- तमसा तिरोहितम्, इति मतिभेदतमस्तिरोहितम्, तस्मिन् मतिभेदतमस्तिरोहिते । कृत्यस्य विधिः कृत्यविधिस्तस्मिन् कृत्यविधौ । विवेकोऽस्त्येषामिति विवेकिनस्तेषां विवेकिनाम् ॥ ३३ ॥
**व्याकरणम्—**कुरुते = कृ + लट् + त ॥ ३३ ॥
**भाषान्तरम्—**मतिभेदतमस्तिरोहिते विवेकिनां कृत्यविधौ सुकृतेन परिशुद्धेन वाग्मयेन दीपेनेवार्थदर्शनं क्रियते ॥ ३३ ॥
कोषः—'मतिभेदो भ्रमो भ्रान्तिर्निश्चय इतीष्यते' इति कोषान्तरम् । 'ध्वान्तं तमिस्रं तिमिरं तमः' इत्यमरः । 'कलिलं गहनं समे' इत्यमरः । 'दीपकः प्रदीप्त आख्यातः' इति कोषः ॥ ३३ ॥
**सारार्थः—**मन्दबुद्धीनां सन्देहरूपान्धकारयुक्ते दुर्ज्ञेये नीतिशास्त्रविषयेऽपि सुप्रसिद्धो- ऽभियुक्तं नीतिशास्त्रं तदाचरणस्याशयं प्रकटयति । तथैव अन्धकारवति दुर्ज्ञेये गृहे प्रकाशकरस्य दीपस्य साहाय्येनावलोकनशीलस्यापि पदार्थदर्शनं सञ्जा- तञ्चैव ॥ ३३ ॥
**भाषार्थः—**जैसे अन्धकारवाले घर में अच्छी तरह से तैल-बत्तीवाला दीप पदार्थ को दिखाता है, वैसे ही सन्देहरूप अन्धकारयुक्त एवं दुर्ज्ञेय कठिन समझने के योग्य नीतियों के कार्य-पक्ष में अच्छी तरह से अभ्यास किया हुआ नीतिशास्त्र दीपक के समान अभिप्राय समझाता है ॥ ३३ ॥
एवं विदुरथ कुर्वतो दैवादयथाप्तिमोऽपि न कश्चिदपराध इत्याह—
स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि यच्छतां मनः ।
विधिहेतुरहेतुरागसां विनिपातोऽपि समः समुन्नतेः ॥ ३४ ॥
स्पृहणीयेति । स्पृहणीयगुणैर्निरवद्याभ्युदयैर्महात्मभिः । सभ्यैश्चरितेऽभ्युदितैः वर्त्मन्याचारे मनो यच्छतां नियमयतां सम्यगेव व्यवहरतामित्यर्थः । विधिहेतु- र्दैवनििमत्तः । 'विधिर्विधाने दैवे च' इत्यमरः । अत एवागसामपराधानामहेतुरवि- निपातो दैविकावद्योऽपि । 'विनिपातोऽवपाते स्याद् दैवोत्थितव्यसनेऽपि च' इति विश्वः । समुन्नतेरतिवृद्धेः समस्तुल्यः । दैविकेषु पुरुषस्यापुंस्त्वादप्रमादादिति भावः । तथाह कामन्दकः—'यस्तु सम्यगुपक्रान्तं कार्यमेति विपर्ययम् । पुरुषस्तत्र नाभ्यर्च्यो दैवान्तरितपौरुषः ॥' इति ॥ ३४ ॥
**अन्वयः—**स्पृहणीयगुणैः, महात्मभिः, चरिते, वर्त्मनि, मनः, यच्छताम्, विधि- हेतुः, आगसाम् अहेतुः, विनिपातः, समुन्नतेः, समः (भवति) ॥ ३४ ॥
**सुधा—**स्पृहणीयगुणैः = अनुकरणीयगुणैः सर्वैषां प्रशंसनीयकल्याणैरिति यावत् । महात्मभिः = महानुभावैः, महद्भिरित्यर्थः । चरिते = अनुष्ठिते, प्रचारिते इति यावत् । वर्त्मनि = मार्गे, मनः = चेतः, यच्छताम् = नियमयताम्, यथावद्विदधताम् ।
१०४ | किरातार्जुनीयम् । | [ द्वितीयः
विधिहेतुः ॥ दैवनेमित्तको दैविक इत्यर्थः । अत एव, आगसाम् = अपराधानाम्, निजकृतप्रमादानामित्यर्थः । अहेतुः=अनिमित्तकः, आकस्मिक इत्यर्थः । विनिपातः= भ्रंशःस्खलनम्, अर्थाद्विहितकर्मण्यसाफल्यलाभ इत्यर्थः । अपि समुन्नतेः = अभ्युदयस्य, समः = समानः, भवति । 'महाजनो येन गतः स पन्था' इति नीत्या महद्भाचरिताचरणेन प्रचलता । जनानामवनतिरप्युन्नतेः सदृश्येवेति भावः ॥ ३४ ॥
समासः— स्पृहणीया गुणा येषां ते स्पृहणीयगुणास्तैः स्पृहणीयगुणैः । महानात्मा येषां ते महात्मानस्तैर्महात्मभिः । विधिरेव हेतुर्यस्य स विधिहेतुः ॥ ३४ ॥
व्याकरणम्— चरिते=चर + क्तः । यच्छताम् = दाण् (यच्छ) + शतृप्रत्ययः ॥३४॥
वाक्यान्तरम्— स्पृहणीयगुणैर्महात्मभिश्चरिते वर्त्मनि मनो यच्छतां जनानाम् विधिहेतुना, आगसामहेतुना, विनिपातेनापि, समुन्नतेः समेन भूयते ॥ ३४ ॥
कोषः— 'अयनं वर्त्म मार्गाऽध्वपन्थानः पदवी सृतिः' इत्यमरः । 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । विधिविधाने दैवे च' इत्यमरः । 'विनिपातोऽवपाते स्याद् दैवादिव्यसनेऽपि च' इति विश्वः ॥ ३४ ॥
भावार्थः— यत्कर्म, प्रशस्त्याचरणैर्महानुभावैरनुष्ठीयते, तथाविधं कर्मकुर्वतां यदि दैवकोपात्सत्कर्मफलं नहि भवति, तथाऽपि मनोहानिर्न विधेया । अतो राजनीतिविहितानुसारं कर्म करिष्यतामस्माकं पराजयोऽपि स्याच्चेत्तदा स चापि विजयलाभेनैव समो ज्ञातव्य इत्यर्थः ॥ ३४ ॥
भाषार्थः— प्रशंसनीय (सराहने लायक) गुणों से युक्त महानुभावों से प्रचार किये हुए रास्ते में मन को लगाये हुए लोगों की दैविक दुर्घटना या बिना अपराध की अवनति भी उन्नति ही के बराबर समझी जाती है ॥ ३४ ॥
सम्प्रति यद्विमृश्यं तदाह—
शिवमौपयिकं गरीयसीं फलनिष्पत्तिमदूषितायतिम् ।
विगणय्य नयन्ति पौरुषं विजितक्रोधरया जिगीषवः ॥ ३५ ॥
शिवमिति । जिगीषवो विजेतुमिच्छवो नृपा विजितक्रोधरया जितक्रोधवेगाः सन्तो गरीयसीं प्रभूतामदूषितायतिमक्षतोत्तरकालम् । स्वन्तामित्यर्थः । फलनिष्पत्तिं फलसिद्धिं विगणय्य । फलवत्त्वं निश्चित्येत्यर्थः । पौरुषं पुरुषकारं शिवमनुकूलमौपयिकमुपायम् । विनयादित्वात्स्वार्थे ठक् । उपायाद्ध्रस्वत्वाच्च । नयन्ति प्रापयन्ति पौरुषमुपायेन योजयन्तीत्यर्थः । नानिश्चितफलं कर्म कुर्वन्त इति भावः । यथाह कामन्दकः—'निष्फलक्लेशबहुलं सन्दिग्धफलमेव वा । न कर्म कुर्यान्मतिमान् सदा वैरानबन्धि च ॥' इति । नयतिः प्राप्त्यर्थे द्विकर्मः अत्र पौरुषस्य कर्तृस्थकर्मत्वऽस्त्युपायस्यासत्वाच्चाक्रोधं विनयत इत्यादिवत् 'कर्तृस्थे चाशरीरे कर्मणि' इत्यात्मनेपदं न भवति ॥ ३५ ॥
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् १०५
सर्गः ] घण्टापथ-सुधाव्याख्योपेतम् १०५
**अन्वयः—**विजितक्रोधरयाः, जिगीषवः, गरीयसीम्, अदूषितायतिम्, फलनिष्पत्तिम्, विगणय्य, पौरुषम्, शिवम्, औपयिकम्, नयन्ति ॥ ३५ ॥
**सुधा—**विजितक्रोधरयाः=हतकोपवेगाः, शान्ता इत्यर्थः । जीगीषवः=जयाभिलाषिणः माहशाः । न तु भवादृशाः क्रोधोद्धता इति भावः । गरीयसीम् = महीयसीम्; महत्तरामिति यावत् । अदूषितायतिम् = परिपूर्णपरिणाम्, सुखोदर्कमिति यावत् । फलनिष्पत्तिम् = फलसिद्धिम्, विगणय्य = विचार्य, शिवम्=कल्याणकरम्, औपयिकम् = उपायसाध्यम् पौरुषम्=पुरुषकारम्, उद्योगमिति यावत्, नयन्ति प्रापयन्ति । न हि सन्दिग्धफले कार्ये विचारशीला लगन्तीति ॥ ३५ ॥
**समासः—**फलस्य निष्पत्तिस्ताम् फलनिष्पत्तिम् । न दूषिता, अदूषिता, अदूषिता आयतिर्यस्याः सा, अदूषितायतिस्तामदूषितायतिम् । क्रोधस्य रयः क्रोधरयः, विजितः क्रोधरयो यैस्ते विजितक्रोधरयोः । जेतुमिच्छवो जिगीषवः ॥ ३५ ॥
**व्याकरणम्—**विगणय्य = वि + गण् + णिच् + क्त्वा + ल्यप् । नयन्ति = नी + लट् ॥ ३५ ॥
**वाच्यान्तरम्—**विजितक्रोधरयैर्जिगीषुभिः गरीयसीमदूषितायतिम्, फलनिष्पत्तिम् विगणय्य शिवम् औपयिकम्, नीयते ॥ ३५ ॥
कोषः—'भ्रःश्रेयसं शिवं भद्रं कल्याणं मङ्गलं शुभम्' इत्यमरः । 'उत्तरः काल आयतिः' इत्यमरः ॥ ३५ ॥
**सारार्थः—**ये विजयाभिलाषिणो मनीषिणः सन्ति, ते स्वभ्युदयस्य बाधकं क्रोधं पूर्वमेव विजित्य यस्य परिणामे मधुरं सुखं, लाभोऽपि महान्, तादृशमेवोद्योगं कुर्वन्ति । नहि ईश्वरसाहाय्याशया किमप्यनिश्चितं फलं कर्मेति ॥ ३५ ॥
**भाषार्थः—**जीतने की इच्छा रखनेवाले लोग पहले क्रोध के वेग को जीतकर पीछे जिस काम में अधिक लाभ और परिणाम में विशेष सुख समझते हैं, ऐसे कल्याणकारक तथा उपायसाध्य उद्योग को करते हैं। अन्धाधुन्ध किसी असाध्य, अनिश्चितफल और परिणाम में क्लेशप्रद काम नहीं करते ॥ ३५ ॥
यदुक्तं विजितक्रोधरया इति तदावश्यकमित्याह—
अपनेयमुदेतुमिच्छता तिमिरं रोषमयं धिया पुरः ।
अविभिद्य निशाकृतं तमः प्रभया नांशुमताऽप्युदीयते ॥ ३६ ॥
अपनेयमिति । उदेतुमभ्युदेतुमिच्छता राज्ञा पुरः प्रथमं रोषमयं रोषादागतम् । ‘मयट् च’ इति मयट् । तिमिरमज्ञानं धिया विवेकबुद्ध्या करणेनापनेयमपनोद्यम् । तथाहि । अंशुमताऽपि कर्त्रा प्रभया तेजसा करणेन निशाकृतं तमो ध्वान्तमविभिद्य नोदीयते । किन्तु विभिद्यैवेत्यर्थः । सूर्यस्याप्येवं किमुतान्वेषामित्यपिशब्दार्थः । इणो भावे लट् ॥ ३६ ॥
| १०६ | किरातार्जुनीयम् । | [ द्वितीय. |
|---|
अन्वयः—उदेतुम्, इच्छता, (जनेन) पुरः, धिया, रोषमयं तिमिरम्, अपनेयम् । अंशुमता, अपि प्रभया, निशाकृतं, तमः, अविभिद्य, न उदीयते ॥ ३६ ॥
सुधा—उदेतुम्=उदयं प्राप्तुम्, अभ्युदयलाभार्थमित्यर्थः। इच्छता=वाञ्छता। जनेनेति शेषः । पुरः=प्रथमम्, धिया=बुद्ध्या, विवेकवत्येति शेषः। रोषमयम्=क्रोधरूपम्। तिमिरम् = तमः मोहमित्यर्थः । अपनेयम्=अपहर्त्तव्यम्, दूरीकार्यमिति यावत् । यथा अंशुमता=सूर्येण, अपि, प्रभया=कान्त्या, तेजसा इत्यर्थः । निशाकृतम्=रात्रिजनितम्; तमः = अन्धकारम्, अविभिद्य=अदूरीकृत्य, अविनाशयेति यावत् । न = नहि, उदीयते = उदयः प्राप्यते । तर्हि, का कथाऽन्येषां तेजस्विनामपीति ॥ ३६ ॥
समासः—निशया कृतं निशाकृतम् ॥ ३६ ॥
व्याकरणम्—अपनेयम् = अप + नी + यत् । अविभिद्य = नञ् + वि + भिद् + क्त्वा + ल्यप् । उदीयते = उत् + इण् + लट् ॥ ३६ ॥
वाच्यान्तरम्—उदेतुमिच्छन् (राजा) पुरः, धिया रोषमयं तिमिरम्, अपनयेत् । अंशुमानपि प्रभया निशाकृतं तमोऽविभिद्य नोदेति ॥ ३६ ॥
कोषः—'अन्धकारोऽस्त्रियां ध्वान्तं तिमिस्रं तिमिरं तमः' इत्यमरः । 'कोपक्रोधामर्षरोषप्रतिघा रुट्क्रुधौ स्त्रियौ' इत्यमरः, 'स्यात्पुरः पुरतोऽग्रतः' इत्यमरः । 'निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा' इत्यमरः । 'अंशुमान् सविता सूर्यो मार्त्तण्डो मिहिरो रविः' इत्यन्यकोषः ॥ ३६ ॥
सारार्थः—इह जगति यः किल स्वाभ्युदयमिच्छेत्, स तु पूर्वं समुन्नतिबाधकं क्रोधं परित्यज्य यत्नान्तरं कुर्यात्। यथा तेजस्विनां धुरीणोऽपि सूर्यो यावद्रात्रिजमन्धकारं न नाशयति तावन्नोदेतीति । अतो भवान् क्रोधं त्यजतु, ततः कार्यसिद्धिर्भविष्यतीति भीमं प्रति युधिष्ठिरोक्तिः ॥ ३६ ॥
भाषार्थः—उन्नति (तरक्की) चाहनेवालों को चाहिए कि पहले (शुरू में) अपने गुस्से को रोकें। क्योंकि सूर्य भी जब तक रात में जमे हुए अन्धकार को अपनी किरणों से नाश नहीं कर लेते; तब तक उदय नहीं होते। अन्धकार को नाश करने के बाद में उदित होते हैं ॥ ३६ ॥
ननु दुर्बलस्यैवमस्तुक्रोधादेव कार्यसिद्धिरित्यत आह—
बलवानपि कोपजन्मनस्तमसो नाभिभवं रुणद्धि यः।
क्षयपक्ष इवैन्दवीः कलाः सकला हन्ति स शक्तिसम्पदः ॥३७॥
बलवानिति । बलवान्शूरोऽपि यः कोपाज्जन्म यस्य तस्य कोपजन्मनः । 'अवश्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः' इति वामनः' । तमस्रो मोहस्य । कृद्योगलक्ष्कर्तरि षष्ठी । अभिभवमाक्रामति न रुणद्धि न निवारयति । स नृपः क्षयस्य पक्ष क्षयपक्षः
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १०७
सर्गः ] घण्टापथ-सुधाव्याख्याद्वयोपेतम् । १०७
कृष्णपक्षः ऐन्द्वीरिन्दुसम्बन्धिनीः कला इव। 'कला तु षोडशो भागः' इत्यमरः। सकलाः समग्राः, शक्तिसम्पदः प्रभुमन्त्रोत्साहशक्तिस्त्रितयोऽपि हन्ति नाशयति। अन्धस्य जङ्घाबलमिव क्रोधान्धस्य लोकोत्तरमपि सामर्थ्यं व्यर्थमेवेत्यर्थः। अत्र कालस्य सर्वकारणत्वाद्व्ययपक्षस्य कलाक्षयकारित्वमस्त्येव। तमसस्तु तत्कालविजृम्भणात्तथा व्यपदेशः ॥३७॥
अन्वयः—बलवान्, अपि यः कोपजन्मनः, तमसः, अभिभवं, न, रुणद्धि । सः, क्षयपक्षे, ऐन्द्वीः, कलाः, इव, सकलाः, शक्तिसम्पदः हन्ति ॥ ३७ ॥
सुधा—बलवान् = सामर्थ्यवान्, अपि, यः = कश्चित् ( न तु दुर्बलः ) कोप-जन्मनः = रोषजनितस्य, तमसः = मोहस्य, अभिभवम् = आक्रमणम् न रुणद्धि = न निवारयति । सः = कोपाभिभवपीडितः, क्षयपक्षे = कृष्णपक्षे; ऐन्द्वीः = चान्द्रीः,- कला इव सकलाः = निखिलाः, निःशेषा इत्यर्थः । शक्तिसम्पदः = प्रभुमन्त्रोत्साह-शक्तिसम्पत्तीः, हन्ति = नाशयति । अतः प्रथमं भवान् कोपं परिहरतु, इति भीमं प्रत्याक्षेपः ॥ ३७ ॥
समासः—कोपाद् जन्म यस्य तस्य कोपजन्मनः । क्षयस्य पक्षः क्षयपक्षः, तस्मिन् क्षयपक्षे । यद्वा क्षयश्चासौ पक्षः क्षयपक्षः । शक्तयः एव सम्पदः, शक्तिसम्पदः ॥३७॥
वाच्यान्तरम्—बलवता येन कोपजन्मनस्तमसोऽभिभवो न रुद्ध्यते, तेन क्षय-पक्षे ऐन्द्यः कला इव सकलाः शक्तिसम्पदो हन्यन्ते ॥ ३७ ॥
कोषः—'जनुर्जन्मजननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । 'कला तु षोडशो भागः' इत्यमरः ॥ ३७ ॥
सारार्थः—यः सामर्थ्यवान् जनः स्वशरीरजमपि रिपुं क्रोधं न नाशयितुं समर्थः स कथं शरीरनिर्गतं शत्रुं नाशयिष्यति । प्रत्युत क्रोधमोहावृतस्य कृष्णपक्षे चन्द्र-सम्बन्धिन्यः क्षीयमाणाः कला इव सर्वाः प्रभुमन्त्रोत्साहशक्तयः क्षीयन्ते ॥ ३७ ॥
भावार्थः - जो कोई कोप से उमडे हुए मोह के आक्रमण को नहीं रोक सकता वह कृष्णपक्ष की चन्द्रमाकी कला की तरह अपनी सब शक्ति सम्पत्ति खो देता है ।
विमृश्य कुर्वतः क्रियाप्रकारमाह—
समवृत्तिरुपैति मार्दवं समये यश्च तनोति तिग्मताम् ।
अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनीपतिः ॥३८॥
समेति । यः समा नातिमृदुर्नाति तिग्मा वृत्तिर्यस्य स समवृत्तिः सन् समये सत्यवसरे मार्दवं मृदुवृत्तित्वमुपैति, तिग्मतां तीक्ष्णवृत्तित्वं च तनोति । स मेदिनी-पतिर्विवस्वानिव ओजसा तेजसा लोकमधितिष्ठत्याक्रमति । सूर्योऽपि ऋतुभेदेन समवृत्तिरित्यादि योज्यम् ॥ ३८ ॥
१०८ किरातार्जुनीयम् । [ द्वितीय
अन्वयः—यः समवृत्तिः (सन्), समये; मार्दवम् उपैति, तिग्मतां, च तनोति, सः, मेदिनीपतिः, विवस्वान्, इव, ओजसा, लोकम् अधितिष्ठति ॥३८॥
सुधा—यः = कश्चित्, समवृत्तिः = मध्यमव्यापारवान्, नात्युग्रा नातिशान्ता वृत्तिर्यस्य तादृशः सन् इत्यर्थः । समये = शान्त्यवसरे, मार्दवम् = सहिष्णुताम्, उपैति = प्राप्नोति, तथा च क्रोधकरणोचितसमये, तिग्मताम् = उग्रताम् ; कठोरवृत्तित्वमित्यर्थः । तनोति = विस्तारयति, सः = उभयवृत्तिः, मेदिनीपतिः = भूपतिः राजेत्यर्थः । विवस्वान् = सूर्यः, इव, ओजसा = तेजः प्रभावेण, लोकं = जनं भुवनं च, अधितिष्ठति = आक्रामति । यथा ग्रीष्मसमये यः सूर्यः प्रचण्डकिरणः, स एव हेमन्तेऽतीव सुसहो भवति तथैव, राज्ञाऽपि अपराधिनी जने तीव्रेण, सज्जने उपकारकरे च मृदुवृत्तिना भवितव्यमित्यर्थः ॥ ३८ ॥
समासः—समा वृत्तिर्यस्य स समवृत्तिः । मेदिन्याः पतिर्मेदिनीपतिः ॥ ३८ ॥
व्याकरणम्—उपैति = उप + इण् + लट् । तनोति = तनु + लट् । अधितिष्ठति = अधि + स्था + लट् ॥ ३८ ॥
वाच्यान्तरम्—येन समवृत्तिना समये मार्दवमुपेयते, तथा च तिग्मता तन्यते । तेन महीपतिना, विवस्वतेव, ओजसा लोकोऽधितिष्ठ्यते ॥ ३८ ॥
कोषः—'लोकस्तु भुवने जने' इत्यमरः । 'गोत्रा कुः पृथिवी पृथ्वी क्ष्माऽवनिर्मेदिनी मही' इत्यमरः । 'भास्वद्विवस्वत्सप्ताश्वहरिदश्वोष्णरश्मयः' इत्यमरः ॥३८॥
सरलार्थः—यो राजा सदैव सहनशीलो भवति, अथवा सदैव क्रोधोद्धतो भवति स नहि प्रजाः वशीकर्तुं रक्षितुं च शक्नोति । अतो यः सज्जने गुणिनी जने नम्रतां मृदुतां च, दुर्जने दण्ड्ये चोग्रतां तीक्ष्णतां भजते स एव राजा प्रजाः पालयितुं समर्थो भवति । यथा सूर्यः हेमन्तसौ परमप्रियोऽपि ग्रीष्मेऽतीव दुःसहो भवति, तथैव ॥ ३८ ॥
भाषार्थः—जैसे सूर्य समय समय पर सह्य और असह्य होते हैं, वैसे ही राजा को भी कभी सहिष्णु और कभी कड़ा होना चाहिये । जो ऐसा होता है, वह अपनी प्रजा को वश में रख सकता है ॥ ३८ ॥
क्व चिराय परिग्रहः श्रियां क्व च दुष्टेन्द्रियवाजिहृद्यता ।
शरदभ्रचलाश्चलेन्द्रियैरसुरक्षा हि बहुच्छलाः श्रियः ॥ ३९ ॥
क्वेति । श्रियां सम्पदां चिराय बहुकालं परिग्रहः स्वायत्तीकरणं क्व । इन्द्रियाणि वाजिन इवेति समासः । दुष्टानामसन्मार्गधाविनामिन्द्रियवाजिनां वश्यो वशङ्गतस्तस्य भावस्तत्ता क्व । नोभयमेकत्र तिष्ठतीत्यर्थः । कुतः हि यस्माच्छरदभ्रवच्चलाः किञ्च बहुच्छला बहुव्याजाः बहुरन्ध्रा इति यावत् । 'छलं तु स्खलिते व्याजे' इति विश्वः । श्रियः सम्पदः । चलेन्द्रियैरजितेन्द्रियैरसुरक्षा रक्षितुमशक्याः । कथञ्चित्प्राप्ता अपि श्रियो नाविनितेषु तिष्ठन्तीत्यर्थः । वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ ३९ ॥