मालतीमाधवम् (महाकवि भवभूति - शास्त्रीय शृंगार एवं तान्त्रिक प्रकरण नाटक सम्पूर्ण १० अङ्क)
Malatimadhavam of Mahakavi Bhavabhuti with Commentary
महाकवि भवभूति द्वारा
१६ मालतीमाधवे साक्षात्कामं नवमिव रतिर्मालती माधवं य- द्गाढोत्कण्ठा लुलितलुलितैरङ्गकैस्ताम्यतीति ॥ १८ ॥ अवलोकिता—बाढम् । तदो ताए उव्वेअविणोअणं माहवपडि- च्छन्दं अभिलिहिअं लवङ्गिआए मन्दारिआहत्थे अज्ज णिक्खित्तं दाव । कामन्दकी—(विचिन्त्य ।) सुविहितं लवङ्गिकया । माधवानुचरः कलहंसो नाम विहारदासीं मन्दारिकां कामयते । तदनेन तीर्थेन तत्प्रतिच्छन्दकमुपोद्घाताय माधवान्तिकमुपेयादित्यभिप्रायः । १०. बाढम् । ततस्तयोद्वेगविनोदनं माधवप्रतिच्छन्दकमभिलिखितं लव- ङ्गिकया मन्दारिकाहस्तेऽद्य निक्षिप्तं तावत् । स्वमन्दिरासन्नपुरवीथ्यां बहुशो गतागतानि कुर्वाणं माधवं क्रीडासौधशिखरगोपा- नसीसंनिहिततुङ्गगवाक्षमार्गस्थिता मालती प्रत्यक्षं नूतनं दाहानन्तरोत्पन्नं कामं रतिरिव नूतनोत्पन्ना सतीत्वेन तस्मिन्नेव स्वभर्तरि बद्धानुरागा दृष्ट्वा सामिलाषं पुनः पुनर्विलोक्य गाढोत्कण्ठा तत्तदनुभावव्यज्यमानप्रवृद्धरणरणिकालुलितलुलितैर्मदन- संतापेनात्यन्तकल्लुषितैः । कामावस्थानिमित्तकमनीयवर्णान्तरशालिभिरङ्गकैरिति यावत् । ताम्यति म्लायतीति कथितमित्यन्वयः । अत्रोत्कण्ठास्वरूपं तदनुभावा- श्च भावप्रकाशिकायाम्—सर्वैन्द्रियसुखास्वादो यत्रास्तीति मनःश्रियः(?) । तत्प्रा- प्तीच्छां ससंकल्पामुत्कण्ठां कवयो विदुः॥ अन्तःसंभोगसंकल्पस्तत्तदाशावलोकनम्। अङ्गग्लानिर्मनोरक्तिर्मनोरथविचिन्तनम् ॥ अधिजानुभुजालम्बिकपोलतलमासनम्। प्रसन्नमुखरागश्च खेदोष्मा गद्गदा च वाक् ॥ उत्कण्ठानुभवा भावाः कथ्यन्ते भाव- कोविदैः ॥' इति । अत्र मालत्या माधवविषयोऽभिलाषः प्रथमावस्थेति मन्तव्यम् । यथा—'अभिलाषमनःसङ्गौ संकल्पो गुणनुतिः क्रियाद्वेषः । तापो मानत्यागोन्मा- दौ मूर्च्छा मृतिर्दशावस्थाः ॥' अत्र च 'अभिलाषस्पृहा रम्ये दृष्टे चालम्बने स्मृते । औत्सुक्यस्वेदरूमाञ्चहर्षविस्मयसाध्वसैः॥ चापलस्तम्भलज्जाद्यैरनुभावैश्च भाव्यते ॥' इति ॥ १८ ॥ अवलोकिता—बाढम् । यल्लवङ्गिकया कथितं तद्दृढमित्यर्थः। दृढत्वे युक्त्यन्तरमाह-ततस्तया मालत्योद्वेगविनोदनं माधवप्रतिच्छन्दकं तत्सदृशी प्रतिमा- मभिलिखितं यत्प्रतिच्छन्दकं लवङ्गिकया मन्दारिकाहस्तेऽद्य निक्षिप्तं तावत् । क्रमेण माधवहस्तं प्राप्स्यतीति तावच्छब्दार्थः ॥ कामन्दकी । विचिन्त्येति । मन्दा- रिकाहस्ते चित्रफलकनिधानस्य तात्पर्यं विचार्य तद्विवृणोतीति शेषः। सुविहितमि- त्यादि । अनुचरश्चेटः । विहारदासीं बौद्धालयापरिचारिकां तां मन्दारिकाम् । तीर्थे- नावतरणमार्गेण । उपोद्घाताय प्रकृतकार्यसिद्धिहेतुभूतायार्थाय । स चायं मयीयमनु- रक्तेति माधवस्य प्रत्ययः । सत्येव तस्मिंस्तस्य प्रकृतकार्ये प्रवृत्तिसिद्धेरित्यभिप्रायः ।
प्रथमोऽङ्कः । ३७ अवलोकिता—माहवो वि कोऊहलं उप्पादिअ मए पउत्तम- णमहोत्सवं मअणुज्जाणं पहादे अणुप्पेसिदो। तत्थ किल मालदी गमिस्सदि। तदो अण्णोण्णदंसणं होदिति। कामन्दकी—साधु वत्से, साधु। अनेन मत्प्रियाभियोगेन स्मारयसि मम पूर्वशिष्यां सौदामिनीम्। अवलोकिता—भअवदि, सा दाणिं सोदामिणी समासादिअ- अच्छरिअमन्तसिद्धिप्पहावा सिरिपव्वदे कावालिअव्वदं धारेदि। कामन्दकी—कुतः पुनरियं वार्ता। अवलोकिता—अत्थि एत्थ णअरीए महामसाणप्पदेसे कराला नाम चामुण्डा। कामन्दकी—अस्ति। या किल विविधजीवोपहारप्रियेति साह- सिकानां प्रवादः। अवलोकिता—तँस्सिं क्खु सिरिपव्वदादो आअदत्स इदो १. माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं प्रभातेऽनुप्रेषितः। तत्र किल मालती गमिष्यति। ततोऽन्योन्यदर्शनं भवि- ष्यतीति। २. भगवति, सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीप- र्वते कापालिकव्रतं धारयति। ३. अस्त्यत्र नगर्यो महाश्मशानप्रदेशे कराला नाम चामुण्डा। ४. तस्मिन्खलु श्रीपर्वतादागतस्येतो नातिदूरश्मशानवासिनः साधकस्य इदं तात्पर्यं मन्दारिकाहस्ते चित्रफलकनिधानस्येत्यर्थः ॥ अवलोकिता । स्वानु- ष्ठितं कार्यानन्तरमाह—अत्र माधवोऽपि कौतूहलमुत्पाद्य मया प्रवृत्तमदनमहोत्सवं मदनोद्यानं प्रभातेऽनुप्रेषितः। किमर्थम्। तत्र किल मालती गमिष्यति। ततोऽन्यो- न्यदर्शनं भविष्यतीति हेतोः ॥ कामन्दकी। साध्वित्यादि । मत्प्रिये मद- भिलषितसंपादनेऽभियोगोऽत्यन्ताभिनिवेशस्तेन ॥ अवलोकिता—भगवति, सेदानीं सौदामिनी समासादिताश्चर्यमन्त्रसिद्धिप्रभावा श्रीपर्वते कापालिकव्रतं धार- यति ॥ कामन्दकी । कुत इति । कस्मादुपलब्धेत्यर्थः ॥ अवलोकिता— अस्त्यत्र नगर्यां महाश्मशानप्रदेशे कराला नाम चामुण्डा ॥ कामन्दकी । अस्तीति । अस्ति। प्रसिद्धैव सा श्रूयत इत्यर्थः। विविधानां मनुष्यपशुप्रभृतीनां जीवानामुपहारे प्रिया । अनेन पञ्चमाङ्के मालत्युपहारप्रदर्शनं सूचितम्। साह- सिकानां साहसशीलानाम् ॥ अवलोकिता—तस्मिन्खलु श्रीपर्वतादागतस्येतो-
१८ मालतीमाधवे णादिदूरमसाणवासिणो साधअस्स मुण्डंधारिणो अघोरघण्टणामहेअस्स अन्तेवासिणी महापहावा कवालकुण्डला णाम अणुसंज्झं आगच्छइ । तदो इअं पउत्ति । कामन्दकी—सर्वं हि सौदामिन्यां संभाव्यते । अवलोकिता—१अलं दाव एदिणा । भअवदि, सो वि पासअरो माहवस्स बालमित्तं मअरन्दो णन्दणस्स भइणिं मदअन्तिअं जइ समुव्वहइ तं वि माहवस्स दुइअं पिअं होदि । कामन्दकी—नियुक्तैव तत्र मया प्रियसखी बुद्धरक्षिता । अवलोकिता—२सुविहिदं भअवदीए । कामन्दकी—तदुत्तिष्ठ । माधवप्रवृत्तिमुपलभ्य मालतीमेव पश्यावः। (इत्युत्तिष्ठतः ।) कामन्दकी—(विचिन्त्य ।) अत्युदारप्रकृतिर्मालती नाम । निपुणं निसृष्टार्थदूतीकल्पस्तन्त्रयितव्यः । सर्वथा मुण्डधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामा- नुसंध्यमागच्छति । तत इयं प्रवृत्तिः । १. अलं तावदेतेन । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । २. सुविहितं भगवत्या । नातिदूरश्मशानवासिनः साधकस्य मन्त्रसाधनोद्यतस्य मुण्डधारिणो नरशिरःकपा- लधारिणोऽघोरघण्टनामधेयस्यान्तेवासिनी महाप्रभावा कपालकुण्डला नामानुसं- ध्यमागच्छति । तत इयं प्रवृत्तिर्वार्ता । मया श्रुतेति शेषः ॥ कामन्दकी । सर्वमिति । संभाव्यत इति । अनेनोत्तरत्र सौदामिनीसाध्यान्यद्भुतानि सूचि- तानि ॥ अवलोकिता—अलं तावदेतेनालं तावदनुपयुक्तेनाघोरघण्टवृत्ता- न्तकथनेनेत्यर्थः । भगवति, सोऽपि पार्श्वचरो माधवस्य बालमित्रं मकरन्दो नन्दनस्य भगिनीं मदयन्तिकां यदि समुद्वहति तदपि माधवस्य द्वितीयं प्रियं भवति । अनेनोपनायकस्य मकरन्दस्य गर्भसंधौ पताकावृत्तान्तः सूचितो भवति ॥ कामन्दकी । नियुक्तेति । तदपि मया पूर्वमेवानुसंहितमित्यर्थः । अवलो- किता—सुविहितं भगवत्या ॥ कामन्दकी । तदिति । माधवप्रवृत्तिमुपलभ्य किं मदनोद्याने तयोरन्योन्यदर्शनमभून्न वेति वार्तां ज्ञात्वेत्यर्थः । मालतीमेव पश्यावः। कुलकुमारीजनानुचिते ह्यस्मदुपदिष्टे स्वयमात्मप्रदानसाहसे यथासौ नाशङ्कते तथा नैवातिपरिचयेन वशीकर्तव्येति भावः ॥ कामन्दकी । विचिन्त्येति । कीदृशं
शरज्ज्योत्स्ना कान्तं कुमुदमिव तं नन्दयतु सा सुजातं कल्याणी भवतु कृतकृत्यः स च युवा । गरीयानन्योन्यप्रगुणगुणनिर्माणनिपुणो विधातुर्व्यापारः फलतु च मनोज्ञश्च भवतु ॥ १९ ॥ (इति निष्क्रान्ते ।) मिश्रविष्कम्भः । (ततः प्रविशति गृहीतचित्रफलकोपकरणः कलहंसः ।) कलहंसः—केहिं दाणिं तुलिअमअरद्धआवलेवरूवविब्भमा- १. केदानीं तुलितमकरध्वजावलेपरूपविभ्रमाक्षिप्तमालतीहृदयमाहात्म्यं दूत्यमाचरणीयमिति । विमृश्य । निश्चिनोतीति शेषः । अत्युदारातिगम्भीरा प्रकृति- र्यस्याः सा । तथा गाम्भीर्यं च—'यस्य प्रभावादाकारा हर्षक्रोधभयादिषु । भावेषु नोपलक्ष्यन्ते तद्गाम्भीर्यं प्रकीर्तितम् ॥' इत्युक्तरूपम् । तेन मालत्यतिगम्भीरप्र- कृतित्वाच्चरमावस्थायामपि स्वाभिप्रायं स्वयं न निवेदयतीति हेतोर्निपुणं यथा स्यात्तथा निसृष्टार्था या दूती तस्याः कल्पो या व्यापारपद्धतिस्तन्मन्त्रयितव्यः प्रधा- नीकर्तव्यः । प्राधान्येनाश्रयणीय इत्यर्थः । निसृष्टो निक्षिप्तः 'त्वमेव वेत्सि सर्वं कृत्यम्' इति समर्पितोऽर्थः । कार्यभारो यस्यामिति व्युत्पत्त्या स्वतन्त्रकार्यनिर्वाहि- का दूती कथ्यते । तदुक्तम्—'रूढानुरागयोर्यूनोरभिलाषं मनोगतम् । ज्ञात्वा ताभ्यामनादिष्टा तदपेक्षितसिद्धये ॥ या प्रवर्तेत सा प्रोक्ता निसृष्टार्थेति कोविदैः । निसृष्टः कार्यभारोऽस्यामिति व्युत्पत्तिसंभवात् ॥' इति । अवाच्यकौटिल्यो यत्कृताः संध्यादयः प्रमाणं स निसृष्टार्थो दूतः। यथा भगवान्पाण्डवानामिति ॥ इदानीं स्वव्या- पारसाफल्यमाशास्ते—सरथेति । शरज्ज्योत्स्नेति । कल्याणी मनोहराकारानु- गुणशीलसंपन्ना सुजातं सुजन्मानं कान्तं स्वप्राणनायकं शारदचन्द्रिकाकुमुदमिव समानुरागसंघटने दृष्टान्तः । नन्दयतु निरतिशयानन्दसमृद्धं करोतु । तेन स च युवा कृतपुण्यश्चरितार्थो भवतु । उभयोः समानुरागत्त्वेन स च तां नन्दयतु । सा च कृतकृत्या भवतीत्ययमर्थोऽर्थाल्लभ्यते । तं चकारो द्योतयति । एवं च सति गरीयान्गुरुतरोऽन्योन्यस्य परस्परस्य प्रगुणा अनुगुणा ये गुणास्तेषां निर्माणे निपुणो विधातुर्व्यापारः फलतु तत्संघटनलक्षणेनैव फलेन फलवान्भवतु । मनोज्ञः सर्वजनश्लाघ्यो भवतु । तादृगन्योन्यानुरूपनिर्माणस्य तयोः संघटनमेव फलम् । अन्यथा व्यर्थमेव स्यात् । यदाह कालिदासः—'परस्परेण स्पृहणीयशोभम्' इत्यादिश्लोकेन । अत्रोपमोपस्तुत्यमन्योन्यमलंकारः । अत्र परस्परानुरागस्य बीज- स्यानुरूपेण स्तुतेर्विलोभनं नामाङ्गम् । यथा—'तद्गुणाख्या विलोभनम्'इति ॥१९॥ मिश्रविष्कम्भोऽयम् । नीचमध्यमपात्रप्रयोजितत्वादिति ॥ 'माधवानुचरः कलहंसो नाम' इति वाक्ये सूचितमुपदर्शयन्नङ्कमरभते—तत इत्यादि । अङ्कलक्षणं
' (dva) with 'ि' = 'द्वि'. And then 'ला' (lā). Then 'स' (sa). Then 'त' (ta) with 'स' before it? No, 'त' with 'स' = 'स्त'? Or 'तस्तेना'? Wait, 'त', 'स', '्ते', 'ना'? Look at line 18: ...विभ्रमः [space] सौंदर्यसंपद्विलासतस्तेना- Wait, let's count characters in that word: सौ (1) ं (2) द (3) र्य (4) सं (5) प (6) द्वि (7) ला (8) स (9) त (10) स्ते (11) ना (12) Wait, let's look at the image: 1: सौ 2: ं 3: द 4: र्य 5: सं 6: प 7: द्वि (or ट्टि?) 8: ला 9: स 10: स्ते 11: ना Wait, where is 'त'? Is there a 'त'? Wait, is it "विलासात्तेना-"? Or "विलासतस्तेना-"? Look closely at: 'ला' next is 'स' next is 'ते'? Wait, is it 'स' with 'त' below? No, it's 'स' then 'ते' or 'स' + 'त' + '
। २१ भ्रमति भुवने कन्दर्पाज्ञा विकारि च यौवनं कलितमधुरास्ते ते भावाः क्षिपन्ति च धीरताम् ॥ २० ॥ (ततः प्रविशति यथानिर्दिष्टरूपो माधवः ।) माधवः— तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे । दरूपफलशून्यत्वेन शून्या च । शून्या यथा—‘तारासम्पुटा स्निग्धा निष्कम्पा शून्य- दर्शना । बाह्यार्थग्राहिणी श्यामा शून्यदृष्टिस्तु चिन्तनात् ॥’ इति । अनेन चिन्ता- ख्यो व्यभिचारी व्यज्यते । ‘प्रयत्नपूर्वकार्थेषु स्मृतिश्चिन्तेति कथ्यते’ इति । तथा शरीरमसौष्ठवं बलहीनम् । स्वव्यापाराससमर्थकरचरणादिकमित्यर्थः । अनेन ग्लान्या- ख्यो व्यभिचारी व्यज्यते । यथा—‘वाङ्मनःकायकर्माणि ग्लानिर्गमयतीति यत्’ इति । श्वसितमधिकं पूर्वापेक्षया प्रबलम् । अनेन श्रमविषादमोहादयो व्यज्यन्ते । निःश्वासस्यानुभावस्यानेकभावसाधारणत्वात् । एवं चानुस्मृतिरूपा तृतीयावस्था दर्शिता । यथा—‘मुहुर्मुहुर्निःश्वसिति मनोरथविचिन्तनैः । प्रद्वेषादन्यकार्याणाम- नुस्मृतिरुदाहृता ॥’ इति । किं न्वेतत्स्यात् । एषां चिन्तालसादीनां निमित्तं किं नु भवेदिति मकरन्दस्य वितर्कः । विमृश्य तन्निमित्तं निर्धारयति—किमन्य- दिति । अथवा किमत्र वितर्केण मदनविकारव्यतिरिक्तं किमेतेषां निमित्तं संभा- व्यते । न किंचिदपीत्यर्थः । तदेव निमित्तमाह—भ्रमतीति । भुवने कंदर्पाज्ञा भ्रमति अप्रतिहता विजृम्भते । यौवनं च प्रथमं द्वितीयं वा । इतरयोरत्रायोग्य- त्वात् । विकारि विकारजननशीलम् । यौवनं यथा—‘रतिव्यायामसहने मत्तेभ- स्येव मत्तता । विद्यते युवभावो यस्तद्यौवनमुदाहृतम् ॥’ इति । ‘यौवनं तु चतुर्धा स्यात्’ इत्यादिना भावप्रकाशे यौवनविशेषलक्षणं प्रपञ्चितं तत एव ज्ञातव्यम् । ललिताः सुन्दरा नयनसुखकरा मधुरा मनोहराश्च ते ते भावा इन्दूद्यानादय उद्दी- पनविभावाः स्वभावधीरस्यापि धीरतां धैर्यं क्षिपन्त्यपसारयन्ति । धैर्यं यथा— ‘चाप्लेनानुपहता सर्वार्थेष्वविकत्थना । स्वाभाविकी चित्तवृत्तिर्धैर्यमित्यभिधी- यते ॥’ इति । नूनमद्य मदनोद्याने मदनोत्सवदर्शनायागतोऽसौ कस्यांचिदासक्त- चित्तो मदनावस्थयैवाभिभूतो वर्तत इत्यर्थः । ससंदेहो निश्चयान्तःसमुच्चयालं- कारः ॥ २० ॥ दिष्ट्येत्यादिना माधवप्रवेशः सूचितः । तदाह—तत इत्यादिना । यथानिर्दिष्टः गमनमित्यादिना निरूपितावस्थः ॥ तामित्यादि । मे चेतः कर्तृ । इन्दुवन्मनोज्ञमुखीं तां पूर्वक्षणे नयनातिथीकृतां सुचिरं बहुकालं विभाव्य ऐकाग्र्येण विषयान्तरपरित्यागेन भावनाविषयं कृत्वा । ध्यात्वेत्यर्थः । कथंकथमपि केनकेनापि प्रकारेण कदाचिदप्यननुभूतचरेण । ईदृगसाविति निरूपयितुमशक्ये- नावस्थाभेदेनेत्यर्थः । व्यपवर्तते वैकृतादन्यथैव वर्तते । विकारमुपयातीत्यर्थः । किं कृतवेलापेक्षायां तामेवापयवृत्तिमाह—अकाण्डेऽनवसरे । प्रथमदर्शनसमय
२२ मालतीमाधवे लज्जां विजित्य विनयं विनिवार्य धैर्य- मुन्मथ्य मन्थरविवेकमकाण्ड एव ॥ २१ ॥ आश्चर्यम् । यद्विस्मयस्तिमितमस्तमितान्यभाव- मानन्दमन्दममृतप्लवनादिवासीत् । तत्संनिधौ तदधुना हृदयं मदीय- मङ्गारचुम्बितमिव व्यथमानमास्ते ॥ २२ ॥ मकरन्दः—(उपसृत्य ।) सखे माधव, इत इतः ललाटंतपस्तपति घर्मांशुः । तदस्मिन्नुद्याने मुहूर्तमुपविशावः । (उभौ परिक्रामतः ।) कलहंसः—कहं मअरन्दसहअरो इमं एव्व बालुज्जाणं अलं- करेदि माहवो । ता दंसिमि मअणवेअणाखिज्जमाणमालदी- १. कथं मकरन्दसहचर इदमेव बालोद्यानमलंकरोति माधवः । तद्दर्श- यामि मदनवेदनाखिद्यमानमालतीलोचनसुखावहात्मनोऽस्य प्रतिच्छन्द- कम् । अथवा विश्रामसौख्यं तावदनुभवतु । एव । लज्जाम् । कथमार्यविगर्हिते परोपहासनीये कर्मणि प्रवृत्तोऽहमिति मनःसं- कोचनं लज्जा । यथा—'मनःसंकोचनं लज्जा ह्यनौचित्यप्रवर्तनात्' इति । तां विजित्य निरस्य विनयं विनीततां विनिवार्य । धैर्यं धीरतामुन्मथ्य मथिला मन्थरो मन्दीभूतो विवेकः कृत्याकृत्यज्ञानं यथा स्यात्तथेति ॥ अत्र लज्जात्यागो विवेकमन्द्येन उन्मादश्चेति सप्तमाष्टमावस्थाद्वयमादावेव रागोत्कर्षप्रदर्शनाथैमुक्त- मिति द्रष्टव्यम् । मन्थरविवेकमिति चेतोविशेषणं वा ॥ २१ ॥ आश्चर्यम् । यद्विस्मयेति । यन्मदीयं मनस्तस्याः संनिधौ विस्मयेनामानुषलोकोचितापूर्वला- वण्यदर्शनजनितेन चित्तविकासेनाद्भुतरसस्थायिना रसतामापन्नेन स्तिमितं निष्प- न्दमस्तमितान्यभावं विगलितवेद्यान्तरममृतप्लवनादिव सुधार्र्णवनि मज्जनेनेवानन्देन निरतिशयसुखाविर्भावेन मन्दं तदास्वादैकपरतया निरुद्धवृत्त्यन्तरमभूत् । तदेवे- दानीं तदसंनिधावङ्गारचुम्बितं प्रदीप्तेन्धनशकलसंस्पृष्टमिव । दग्धमिति वक्तव्ये मनोगतप्रेयसीदाहभिया चुम्बितमिति कोमलोक्तिः । व्यथमानं संतप्यमानमास्ते । तत्संनिधानासंनिधानयोः क्षणमात्रभेदेनातीव मनोऽवस्थावैलक्षण्यमाश्चर्यमित्यर्थः ॥ २२ ॥ मकरन्दोऽन्यमनस्कतयात्मानमपश्यन्तमपि स्वयमेव प्रज्ञापयन्नाकार- यति—मकरन्दः । सखे माधवेति । इत इतः । आगम्यतामिति शेषः । ललाटेत्यादि । ललाटंतपो नभोमध्यवर्तीत्यर्थः । 'असूर्यललाटयोर्हृक्षितपोः' इति खन् । 'खित्यनव्ययस्य' इति मुमागमः ॥ कलहंसः—कथं मकरन्दसह- चर इदमेव बालोद्यानमलंकरोति माधवः । तद्दर्शयाम्यस्य मदनवेदनाखिद्यमान-
प्रथमोऽङ्कः । २३ लोअणसुहावहं अत्तणो से पडिच्छन्दं । अहवा विस्सामसोक्खं दाव अणुहोदु । मकरन्दः—तदस्यैव तावदुच्छ्वसितकुसुमकेसरकषायशीतलामो- दवासितोद्यानस्य काञ्चनपादस्याधस्तादुपविशावः । (उभौ तथा कुरुतः ।) मकरन्दः—वयस्य माधव, सकलनगराङ्गनाप्रवर्तितमहोत्सवा- भिरामाकामदेवोद्यानयात्राप्रतिनिवृत्तमन्यादृशमिव भवन्तमवधारयामि । अपि त्वमवतीर्णोऽसि रतिरमणबाणगोचरताम् । (माधवः सलज्जमधोमुखस्तिष्ठति ।) मकरन्दः—(विहस्य ।) किमवनम्रमुग्धमुखपुण्डरीकः स्थितोऽसि । पश्य । अन्येषु जन्तुषु च यस्तमसावृतेषु विश्वस्य धातरि समः परमेश्वरेऽपि । सोऽयं प्रसिद्धविभवः खलु चित्तजन्मा मा लज्जया तव कथंचिदपह्नुतिर्भूत् ॥ २३ ॥ मालतीलोचनसुखावहम् । चित्रस्य दर्शनमात्रफलकत्वात् । आत्मनः प्रतिच्छन्दकम् । अथवा विश्रामसौख्यं तावदनुभवतु । पश्चाद्दर्शयिष्यामीति शेषः ॥ मकरन्दः— तदिति । विकसितकुसुमकिञ्जल्कानां कषायशीतलो य आमोदो दूरविस्रमरो गन्धः । कषायशीतलयो रसधर्मत्वेऽपि तादृशरसेनाकार्यसमवायादामोदधर्म- त्वोपचारः तेन सुरभीकृतोद्यानस्य काञ्चनपादपस्य चाम्पेयतरोश्छायायामुपवि- शावः ॥ सकलेत्यादि । अन्यादृशं विलक्षणावस्थम् । अपिः प्रश्ने ॥ विह- स्येति । स्वमनोगतज्ञानादवनतानने माधवे सत्यं मदनविकार एव मदुन्नीतो हेतुरेतद्वैलक्ष्यस्येति स्वमतिसंवादाद्विहस्य सानुकूल्यप्रदर्शनेन लज्जां शिथिलयि- तुमाहेति शेषः। किमिति । मुग्धं सुन्दरम् । त्वदन्तःकरणनिर्विशेषे मयि किमा- शङ्कया लज्जया वा । तावद्विस्रब्धं कथयेत्यर्थः । किं च न खलु त्वदुपज्ञ एवार्यं स्मराभिषङ्गः सुरासुरनरसाधारणत्वात् । तेनानन्यकृतपूर्वान्तस्यानुचितवन्नैतदपह्नवो न्याय्य इत्याह—अन्येष्विति । यो विश्वस्य धातरि जगत्स्रष्टरि सुरज्येष्ठे स्वदु- हितृकामुके परमेश्वरे स्मरशासनेऽपि वामदेहार्धनिवेशितप्रेयसीके तमसावृतेष्व- ज्ञानोपहतविवकेष्वन्येषु जन्तुषु । प्राणिमात्र इत्यर्थः । समोऽवैषम्येणाकुण्ठित- व्यापारः । स तादृशोऽयं सर्वमनोगतश्चित्तजन्मा प्रसिद्धविभवः प्रथितप्रभावः खलु ब्रह्मादीनपि स्ववशीकरोति । का कथान्येष्विति भावः । ततो लज्जया तव मनोगतस्य विकारहेतोरपह्नुतिरपह्नवः । चित्ते नियमनमिति यावत् । मा भूत् ।
३४ मालतीमाधवे माधवः—वयस्य, किं न कथयामि । श्रूयताम् । गतोऽहमव- लोकिताजनितकौतुकः कामदेवायतनम् । इतस्ततः परिक्रम्य परिश्र- मादुल्लसितमधुरमदिरामोदपरिमलाकृष्टसकलमिलदलिपटेलसंकुलकु- लितमुकुलावलीमनोहराभरणस्य रमणीयाङ्गणभुवो बालबकुलस्यालवा- लपरिसरे स्थितः । तस्य च यदृच्छया निरन्तरनिपतितानि विकसि- तानि कुसुमान्यादाय विदग्धरचनामनोहरां स्रजमभिनिर्मातुमारब्ध- वान् । अनन्तरं च देवस्य संचारिणी मकरकेतनस्य जगद्विजयवैज- यन्तिका निर्गत्य गर्भभवनादुज्ज्वलविदग्धमुग्धबालनेपथ्यविरचनावि- भावितकुमारीभावा महानुभावप्रकृतिरत्युदारपरिजना कापि तत एवागतवती । लज्जां विसृज्य कथयेत्यर्थः ॥ २३ ॥ माधवः—वयस्य, किं न कथयामि । सर्व- विश्रम्भास्पदस्य तवाप्यपह्नवः किमित्याशयः । यदाहुः—समानुरागव्यसनो रह- स्यास्यैकभाजनम् । विपत्प्रतिक्रियादक्षो वयस्यः परिकीर्तितः ॥' इति । अवलोकि- तया जनितं कौतुकं 'अद्य खलु महानुत्सवो मदनोद्याने नागरिकाणाम्, तत्तत्रापि तद्दर्शनार्थं गन्तव्यम्' इत्येवमुत्पादितो गमनोत्साहो यस्य सोऽहं कामदेवायतनमु- त्सवस्थानं गतोऽभूवम् । तत्र चेतस्ततः परिक्रम्य रम्यवस्तुविलोकनलोभा- त्परिश्रमात्परिक्रमणसंजातादुल्लसितो विसर्पन्त्यो मधुरो मनोहोरो मदिरामोदस- मानो यः परिमलः केसरकुसुमस्येव जातिप्रयुक्तः तेनाकृष्टं यत्सकलानां मिल- तामलीनां पटलं तेन संकुला व्यासाकुलिता च या मुकुलश्रेणिः सैव मनोहरमा- भरणं यस्य सः । तथा च रमणीयेऽङ्गणे कामदेवायतनपुरोभागे भवति तथा । तेन सम्यगुत्सवावलोकनयोग्यदेशलमुक्तम् । बालबकुलस्य । बालत्वादुपविश्य करापचयकुसुमस्येत्यर्थः । आलवालपरिसरे प्रतिदिनजलसेकशीतले स्थितः । निरन्तरनिपतितानि सान्द्रनिपतितानि । उपवेशनस्थल एव यावदपेक्षं लभ्यानि विकसितानि तस्य कुसुमानि यदृच्छया स्वेच्छयादाय विदग्धा मनोज्ञा या रचना ग्रथना तया मनोहरां स्रजमभिनिर्मातुमारब्धवान् । अनन्त- रमिति । संचारिणी संचरणशीला जगद्विजयवैजयन्तिका त्रिभुवनविजयलाञ्छ- नभूता पुरःसरी पताका । तामेवानु मन्मथो जगज्जिगीषया निर्गतः । तस्य चाह- मादिशरव्यतामुपगतोऽस्मीत्याशयः । उज्ज्वलं प्रकाशमानं विदग्धमग्राम्यं मुग्धं सुन्दरं बालोचितनेपथ्यं प्रसाधनं तस्य या विरचना तया विभावितः कुमारी- भावः कन्यात्वं यस्याः । प्रथमयौवने वर्तमानत्वात् । वयसा पुनर्न ज्ञायते कुमारी- यमित्याशयः । महानुभावप्रकृतिरतिगम्भीरस्वभावा । अत्युदारोऽतिदक्षिणः । 'उदारो दातृमहतोर्दक्षिणे चाभिधीयते' इति दर्शनात् । परिजनो यस्याः सा । तत एव यत्राहं स्थितस्तत्रैवेति सप्तम्यर्थे तसिः । सार्वविभक्तिकत्वात् । अथ तत्प्रथमतो
प्रथमोऽङ्कः । २५ सा रमणीयकनिधेरधिदेवता वा सौन्दर्यसारसमुदायनिकेतनं वा । तस्याः सखे नियतमिन्दुकलामृणाल- ज्योत्स्नादि कारणमभून्मदनश्च वेधाः ॥ २४ ॥ अथ प्रणयिनीभिरनुचरीभिः कुसुमसंचयावचयलीलाभिलाषवती- भिरभ्यर्थ्यमाना तमेव बकुलपादपोद्देशमागतवती । तस्याश्च कस्मिंश्चि- दपि महाभागधेयजन्मनि बहुदिवसोपचीयमानमिव मन्मथव्यथावि- कारमुपलक्षितवानस्मि । यतः । परिमृदितमृणालीम्लानमङ्गं प्रवृत्तिः कथमपि परिवारप्रार्थनाभिः क्रियासु । लोचनपथगोचरं तस्याः स्वरूपमिदानीमपि प्रत्यक्षमिव विभाव्यमानं निर्वर्णयति— सेति । रमणीयस्य भावो रमणीयकम् । 'योपधाद्गुरूपोत्तमात्' इति वुञ् । आ- भिरूप्यमिति यावत् । तस्य निधिर्निक्षेपः शङ्खपद्मादिमान् । तस्याधिष्ठातृदेवता वा । सौन्दर्यस्य सर्वावयवसौष्ठवस्य निकेतनं मन्दिरं वा । सखे, तस्या निर्माणे कारणमु- पादानमिन्द्वादि । न तु भौतिकम् । मदनश्च वेधाः । न तु साधारणो वेदाभ्यासजडः । यदाह—'अस्याः सर्गविधौ प्रजापतिरभूच्चन्द्रो नु कान्तिप्रदः' इत्यादि । अनेन नायिकागुणवर्णनेन तद्विषयो महानुरागोऽपि श्रेयानिति बीजगुणप्रशंसनाद्विलोभनं नाम मुखसंधेरङ्गमुक्तम् । यथा—'तद्गुणाख्या विलोभनम्' इति । गुणस्वरूपनिरूप- णाद्गुणस्तुतिरूपा चतुर्थ्यवस्था माधवस्य प्रदर्शिता । यथा—'रूपौदार्यगुणैर्लीला- चेष्टाहासितवीक्षितैः । दर्शनालापमाधुर्यैर्नास्यस्तत्ससमा वधुः ॥' इति । 'यत्रेदृशी शिवा वाणी भवेत्सैव गुणस्तुतिः' इति । वितर्कश्च व्यभिचारी व्यज्यते । यथा— 'ऊहो वितर्क इत्युक्तः परार्थेषु यथामति' इति । संशयापह्नवयोः संसृष्टिः ॥ २४ ॥ अथेति । प्रणयिनीभिः प्रेमविषयाभिरनुचरीभिः परिसरवर्तिनीभिः । कुसुम- संचयस्यावचय एव लीला तस्यामभिलाषवतीभिरभ्यर्थ्यमाना स्वयमेव गन्तुका- मापि शालीनतया कुण्ठितेच्छा सती तदपनोदाय मनोविनोदिनीभिः प्रार्थ्य- माना तमेव यत्राहं स्थितः । तस्याश्च कस्मिंश्चिदपि लोकोत्तरे । महाभागधेयाद- श्वमेधाद्यपि तत्कर्मकलापं यदुत्पादने वराकप्रायं तादृशसुचरितविशेषाज्जन्म यस्य तस्मिन् । अन्यादृशस्य तदभिलाषपात्रतालक्षणत्रिभुवनसाम्राज्यसिंहासनाधिरो- हणसौभाग्यानर्हत्वात् । बहुदिवसोपचीयमानमिव चिरकालाप्रवर्धमानमिव मन्मथा- ज्जाता या व्यथा तज्जन्यं विकारमुपलक्षितवानस्मि । उभयथा लिङ्गान्याह—यतः । परिमृदितेति । परिमृदितापचयेन म्लायमाना मृणाली बिसतन्तुरिव । 'जाते- रस्त्रीविषयादयोपधात्' इति ङीप् । म्लानं ग्लानिमुपगतम् । कार्श्यं नाम मदन- दशा सूचिता । क्रियासु स्नानपानादिकासु परिवारप्रार्थनाभिः परिजनस्य चाटुवा-
२६ मालतीमाधवे कलयति च हिमांशोर्निष्कलङ्कस्य लक्ष्मी- मभिनवकरिदन्तच्छेदकान्तः कपोलः ॥ २५ ॥ सा मम दर्शनादमृतमय्यमृतवर्तिरिव चक्षुषोर्निरतिशयमानन्दमुत्पाद- यन्त्ययस्कान्तमणिशलाकेव लोहधातुमन्तःकरणमुपसंहृतवती । किं बहुना । संतापसंततिमहाव्यसनाय तस्या- मासक्तमेतदनपेक्षितहेतु चेतः । प्रायः शुभं च विदधात्यशुभं च जन्तोः सर्वंकषा भगवती भवितव्यतैव ॥ २६ ॥ क्यपादप्रणामादिभिरनुनयैः कथमपि कृच्छ्रेण प्रवृत्तिः । न तु स्वारस्येन । क्रियाद्वेष- रूपारतिर्नाम मन्मथावस्था दर्शिता । व्याधिवशादप्येतत्संभवतीत्यन्यदसाधारणं लिङ्गमाह—कलयतीति । अभिनवेति । सद्यःकृत्तद्विरददन्तच्छेदकमनीयः कपो- लः निष्कलङ्कस्य हिमांशोर्लक्ष्मी
प्रथमोऽङ्कः । २७ मकरन्दः—स्नेहश्च निमित्तसव्यपेक्षश्चेति विप्रतिषिद्धमेतत् । पश्य । व्यतिषजति पदार्थानान्तरः कोऽपि हेतु- र्न खलु बहिरुपाधीनप्रीतयः संश्रयन्ते । विकसति हि पतङ्गस्योदये पुण्डरीकं द्रवति च हिमरश्मावुद्गते चन्द्रकान्तः ॥ २७ ॥ ततस्ततः । माधवः—ततश्च तत्र सभ्रूविलास मथ सोऽयमितीव नाम संप्रत्यभिज्ञमिव मामवलोक्य तस्याः । श्वासादिकमपि कार्यं भवितुं प्रभवति । तादृशी भवितव्यता प्राक्तनादृष्टपरिपक्ति- रेव जन्तोः प्राणिमात्रस्य शुभमशुभं च विदधाति । यद्बुद्धिसंपादने न वयं स्वत- न्त्रास्तद्वदनिष्टप्रतीकारेऽपि । कर्मवशाद्यद्यदुपमतं तत्तदवश्यमनुभोक्तव्यमित्यर्थः । अर्थान्तरन्यासोऽलंकारः ॥ २६ ॥ मकरन्दः—स्नेहश्चेति । निमित्तसव्यपेक्षो बाह्योपाधिसापेक्षः । स्नेहत्वमौपाधिकत्वं चेत्येतद्द्वयमेकत्र धर्मिणि विरुद्धमि- त्यर्थः । यत्तु भावप्रकाशे स्नेहद्वैविध्यमुक्तम् , यथा—'मनसो यद्यार्द्रत्वं विष- येषु च तत्त्वतः । भयशङ्कावसानात्मा स एष स्नेह उच्यते ॥ द्विधा द्रवः स्यान्म- नसः स्पर्शनाद्दर्शनादपि । जतुवद्वह्निसंस्पर्शाद्दर्शनाच्चन्द्रकान्तवत् ॥ आर्द्रता निश्चि- रत्वं यत्सर्वावस्थासु मानसम् । ययोः परस्परस्यास्ते तदपि स्नेह ईरितः ॥ द्विधा भवेत्स च स्नेहः कृत्रिमाकृत्रिमात्मकः । सोपाधिः कृत्रिमः स्नेहो निरुपाधि- रकृत्रिमः ॥ उपाधौ विनिवृत्ते तु तज्जन्योऽपि निवर्तते । स्नेहः स्वभावजो याव- द्द्रव्यभावी भविष्यति ॥' इत्यादिना, तत्सोपाधिके स्नेहे स्नेहत्वोपचारात्स्नेहशब्दप्र- योग इति मन्तव्यम् । स्वाभाविकस्नेहस्य बाह्योपाधिनैरपेक्ष्यमेवोपपादयति— पश्येत्यादि । दृष्टान्तमुखेनेममर्थमवधारयेत्यर्थः । व्यतिषजतीति । पदा- र्थांन्भावानचेतनांश्चेतनांश्च । आन्तरो गूढः । कार्यैकसमधिगम्यः कोऽपीदन्तया निरूपयितुमशक्यो हेतुर्व्यतिषजति परस्परं संघटयति । पुनः प्रीतयः स्नेहा बहिरुपाधीन्बाह्यानि निमित्तानि न संश्रयन्ते । दृष्टान्तमाह—पतङ्गस्य रवेरुदये पुण्डरीकं विकसति । हिमरश्मौ चन्द्रे चोद्गत उदिते चन्द्रकान्तमणिर्द्रवति । नचात्र परिदृश्यते बाह्योपाधिः कश्चिदृते स्वभावसौहार्दात् । तद्वत्कस्यचित्कुत्रचिदवलो- कनमात्रेणान्तःकरणं विकसति द्रवीभवतीति स्वाभाविकस्नेहस्य महिमायमित्यर्थः । दृष्टान्तालंकारः ॥ २७ ॥ ततस्तत इति । अनन्तरवृत्तान्तं ब्रूहीति शेषः ॥ माधवः—ततश्चेति । तदनन्तरं तत्र तस्मिन्नेवावसरे । सभ्रूविलासेति । तस्याश्चतुरेण विदग्धेन सखीजनेन मामवलोक्य । अथ मदवलोकनानन्तरं स्मितसु- ४ मालतीमा०
२८ मालतीमाधवे अन्योन्यमेव चतुरेण सखीजनेन मुक्तास्तदा सितसुधामधुराः कटाक्षाः ॥ २८ ॥ मकरन्दः—(स्वगतम् ।) कथं प्रत्यभिज्ञापि नाम । माधवः—अथ ताः सलीलमुत्तालकरकमलतालिकातरलवलयाव- लीकमुद्ग्रस्तकलहंसविभ्रमाभिरामचरणसंचरणरणायमानमञ्जुमञ्जीर- रणितानुविद्धमेखलाकलापकिङ्किणीरणरणत्कारमुखरं प्रतिनिवृत्य 'भ- र्तृदारिके, दिष्ट्या वर्धामहे । यदत्रैव कोऽपि कस्या अपि वल्लभ- स्तिष्ठति' इति मामङ्गुलीदलविलासेनाख्यातवत्यः । धामधुरा दरहसितामृतसाहचर्यमनोहराः कटाक्षा आकृतद्योतका दृष्टिविशेषा अन्योन्यं मुक्ताः प्रहिताः । मां दृष्ट्वा स्मितपूर्वकं परस्परमवलोकनं कृतवत्य इत्यर्थः । अथ मामवलोक्येत्यवलोकवक्रियां विशिनष्टि—सप्रत्यभिज्ञमिवेति । प्रत्यभिज्ञा नाम पूर्वानुभूतस्य पुरोवर्त्यैक्यावगाहिनी धीः । सा च परबुद्धित्वान्न मया प्रत्य- क्षीकृता, किंतूत्प्रेक्षितेति इवशब्देन द्योतयति । कथं त्वयैतदुत्प्रेक्षितमित्याशङ्क्य- बीजमाह—सोऽयमितीव नामेति । नाम प्रसिद्धौ । यो मालतीजीवितवल्लभो माधवो नाम प्रसिद्धः सखीजनकथासु स एवायमितीव तत्तेदन्तांशावच्छेदः प्रत्यभिज्ञोत्प्रेक्षाबीजम्, तस्यापि तदिदंशब्दाभिलापरूपस्य तदानीमभावात् । ज्ञाना- कारस्य अप्रत्यक्षत्वात् सोऽप्युत्प्रेक्षित एवेतीवशब्देन सूचयति । तदपि कथ- मुन्नीतमित्याशङ्क्य स्फुटं तल्लिङ्गमाह—सभ्रूविलासमिति । भ्रुवोर्विलासो विक्षेपः । योऽस्माभिर्भर्तृदारिकाचित्तचोरो माधवो नाम गोष्ठीषु प्रसज्यते स एवायमित्येवं- रूपार्थद्योतिका चेष्टाभ्रूलतोन्नमनचातुरी तत्सहितं यथा भवति तथा पूर्वानुभू- तपुरोवर्तिलक्षणतत्तेदन्ताभिव्यञ्जिका भ्रूचेष्टा, पदार्थाभिनयरूपत्वाच्चेष्टायाः । तेन तया तत्तेदन्तावच्छेदनेनासाधारणधर्मेण मद्विषया तासां प्रत्यभिज्ञाभ्यूहिते- त्यर्थः। भाविकमलंकारः ॥ २८॥ मकरन्दः—स्वगतम् । कथमिति । नामेति संभावनायाम् । अननुभूतपूर्वे कथं तासां प्रत्यभिज्ञासंभव इति वितर्कः। इदं चात्म- गतं वेदितव्यम् । अन्यथा माधवेनोत्तरस्य वक्तव्यतापत्तेः। माधवः—अथेति । अनन्तरं तस्याः पुरत एव मत्समीपमागतास्ताः परिचारिका मां दृष्ट्वा प्रतिनिवृत्य पश्चादागच्छन्त्यै तस्यै । अङ्गुल्य एव दलानि। अङ्गुलीनां दलत्वरूपणं करस्य कमलत्वं द्योतयति । तेषां विलासोऽप्रागल्भ्यललितक्रिया तेन मां कथितवत्यः । कथं प्रतिनिवृत्येत्यपेक्षायां त्रीणि क्रियाविशेषणानि । तत्र सलीलं लीलया सहितं यथा भवति तथा । लीला नामाङ्गव्यापारेणाभीष्टार्थानुकरणम् । यथा—'मनो- मधुरवागङ्गचेष्टितैः प्रीतिचोदितैः । प्रियानुकरणं लीला सा स्यात्स्त्रीपुंसयोरपि ॥' उत्ताला उन्नताः करकमलयोस्तालिका ऊर्ध्वप्रसारिताङ्गुलीककरतलद्वयपरस्परा- स्फालनं तेन तरला वलयावली कङ्कणश्रेणिर्यथा स्यात्तथा । उद्ग्रस्ता उद्दिग्ना मत्ताश्च ये कलहंसास्तेषां विभ्रमो विशिष्टभ्रमणं मनोज्ञा गतिस्तद्वदभिरामं चरणसंचरणं
प्रथमोऽङ्कः । २९ मकरन्दः—हन्त, महतः प्रथमानुरागस्योद्भेदः । कलहंसः—^१एदाणं सरसरमणिज्जाणुबन्धिणी क्खु इत्थिआ- कहा । मकरन्दः—ततस्ततः । माधवः— अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं विजयि मान्मथमाविरासीत् ॥ २९ ॥
१. अनयोः सरसरमणीयानुबन्धिनी खलु स्त्रीकथा । तेन रणरणायमानं मनोज्ञं यन्मञ्जीरं नूपुरं तस्य रणितेन शिञ्जितेनानुविद्धः संभिन्नो यः काञ्चीदामनिविष्टक्षुद्रघण्टिकारणरणत्कारस्तेन मुखरं यथा स्यात्तथेति । किमि- त्याख्यातवत्य इत्यपेक्षायां भर्तृदारिके दिष्ट्या भाग्येन वर्धामहे । यस्मादत्रैव प्रदेशे ‘या लतान्विष्यते सैव लता संप्रति पादयोः’इति रीत्या पुरत एव कोऽप्ययम् । असा- विति साक्षान्निर्देश्टमनुचितत्वात्सप्रच्छादनाय सामान्योक्तिः । कस्या अपीत्यत्रापि तवैवानौचित्याद्गूढोक्तिः । वल्लभो दयितस्तिष्ठतीति । केचित्तु स्त्रीलिङ्गमप्ययुक्तं मन्यमानाः ‘कस्यापि’ इति पठित्वा जनस्येति व्याचक्षते ॥ मकरन्दः । हन्तेति हर्षे । महतोऽतिप्ररूढस्य पूर्वानुरागस्योद्भेदः प्रकाशः । प्रतिभातीति शेषः । उद्भेदो नाम मुखसंध्यङ्गम् । यथा—‘उद्भेदो गूढभेदनम्’इति॥कलहंसः। अनयोः सरसरमणीयानुबन्धिनीत्यविच्छिन्ना स्त्रीकथा । वर्तत इति शेषः । मकरन्दः— ततस्तत इति ॥ माधवः-अत्रान्तर इति । अस्मिन्नवसरे आयताक्ष्या- स्तस्या मान्मथमाचार्यकम् । मन्मथ एव हि कुमारीजनस्यात्यन्तापरिचिततादा- त्मिको दीयमानविविधविलासशिक्षायामाचार्यः । तस्याचार्यकमाचार्यभावः । ‘योपधाद्गुरूपोत्तमाद्वुञ्’ । विविधशृङ्गारचेष्टाशिक्षाप्रावीण्यमाविरासीत्प्रादुर्भूत् । कीदृशम् । वाग्विभवातिवृत्तवैचित्र्यमुक्तिप्रकारसर्वस्वोल्लङ्घिविचित्रभावम् । अत एव किमपि विशेषतो निर्देष्टुमशक्यम् । उल्लसितो विभ्रमो यत्र । विभ्रमः शृङ्गारचेष्टा- विशेषः । यथा—‘वागङ्गसत्त्वाभिनयभूषास्थानविपर्ययः । त्वरया कल्पितोऽभीष्टद- र्शने यः स विभ्रमः ॥’ इति । तन्मनसैव केवलमनुसंधीयमानं भूरिसात्त्विकवि- कारं प्रचुरतरस्तम्भादिसात्त्विकभावम् । सात्त्विकभावादिर्यदुक्तम्—‘तद्भावभावनं येन भवेत्तदनुकूलतः । तत्सत्त्वं तेन निर्वृत्ताः सात्त्विका इत्युदीरिताः ॥’ यथा— ‘स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभेदश्च वेपथुः । वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्त्विका मताः ॥’ इति । अपास्तधैर्यमन्योन्यदर्शनादुभयोरप्यपाकृतचित्तस्थैर्यम् । विजयि जयशीलम् । कुत्राप्यकुण्ठितप्रसरमिति । अत्र परिपूर्णशृङ्गारानुभवनिबन्धना-
३० मालतीमाधवे ततश्च । स्तिमितविकसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारभाजाम् । प्रतिनयनविपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ३० ॥ तदुचितमोहावेगादिव्यभिचारिप्रतीतेरालम्बनोद्दीपनविभावसंनिधानपूर्णः शृङ्गारर- सध्वनिः । परिकरश्चालंकारः ॥ २९ ॥ अतश्च चिरकालप्रवृत्तस्य गरीयसः पूर्वानु- रागस्य शब्दविकल्पस्मरणसंतानोपचितस्य जीवितसर्वस्वायमानस्य तस्यैव साल- म्बनविभावस्य सांमुख्यादन्योन्यकटाक्षमिश्रीभावादुत्पूरस्य सुधाकरकरस्पर्शादिव क्षीरसागरस्यापूरितान्तरतया परिपूर्णकुम्भोच्छलनन्यायेन मुहुर्बहिरुच्छलतो निरति- शयपरिपोषात्मिकां रसतामापन्नस्य तरङ्गच्छटा इव प्रथमानुभावभूताः शृङ्गारदृष्टयो मदालम्बनाः प्रादुरासन्नित्याह—ततश्च । स्तिमितेति । अहमालोकितानां शृङ्गा- रदृष्टिविशेषाणां विविधं पात्रमभूवम् । 'प्रसादललिता कान्ता शालिनी मन्मथा- शया । विचलद्भ्रूकटाक्षा च शृङ्गारे दृष्टिरिष्यते ॥' इति । तद्विशेषं दर्शयितुं विशिनष्टि—स्तिमितानामुन्मीलनानन्तरमेव पुरोवर्तिनि मयि निपत्य दर्शनलोभेन तत्रैव विषये निश्चलानाम् । स्तिमितं नाम शृङ्गारदृष्टिविकारः । यथा—'खगोच- रान्न चाल्येत यत्तत्स्तिमितमुच्यते' इति । ततो विकसितानां विषयगताशेषविशे- षग्राहिणाम् । विकसितदृष्टिविकारो यथा—'विकासितं यद्विषये विशेषमवगाहते' इति । अतो विषयाह्लादजन्मानन्दभावनयोल्लसन्ती किंचिदुच्छ्वसन्ती चतुराख्य- भ्रूकर्मसहिता भ्रूलता येषाम् । चतुरं नाम भ्रूकर्म । यथा—'चतुरं किंचिदुच्छ्वासा- न्मधुरा रचना भ्रुवोः' इति । प्रसन्नाख्यश्वानेन दृष्टिविकार उक्तः । यथा— 'प्रसन्नं तद्भवेत्सभ्रूविलासं सस्मितं च यत्' इति । अतो मसृणानामनुरागपेशला- नाम् । मसृणदृष्टिविकारो यथा—'मसृणं तत्तु विज्ञेयमनुरागकषायितम्' इति । ततः सुखपारवश्यान्मुकुलितानामुन्मीलितानाम् । मुकुलिता दृष्टिरनेनोक्ता । मुकुलि- ताख्यश्च दृष्टिविकारो यथा—'स्फुरिताश्लिष्टपक्ष्मोग्रा मुकुलोर्ध्वपुटोच्छ्रिता । सुखो- न्मीलिततारा च मुकुला दृष्टिरिष्यते । दृष्टिर्मुकुलिता स्वप्नसुखनिद्रासु वर्तते ॥' इति । अनेन विकूणिताख्यदृष्टिविकार उक्तः॥ विकूणितं यथा—'भागत्रयस्य संकोचो विकासस्त्वपरस्य च । यस्या दृष्टेर्विलक्षणेन तद्विकूणितमुच्यते ॥' इति । ततः पुनर्दर्श- नष्टदृष्ट्या प्रान्तेऽपाङ्गदेशे विस्तारभाजां विसृत्वराणाम् । सम्यगाश्लिष्टविषयाणामि- ति यावत् । अपाङ्गदृष्टिर्हि तत्रैव निपतन्ती सम्यग्विषयं परिच्छिनत्ति । अनेन विस्तारी सस्पृष्टश्चेति दृष्टिविकारद्वयमुक्तम् । यथा—'येनाश्लिष्टो हि विषयस्तद्वि- स्तारीति कथ्यते । भूयोभूयः स्पृहा यत्र दृष्टेस्तत्सस्पृहं भवेत् ॥' इति । ततः प्रतिनयनस्य तदवलोकनाय प्रहितस्य मन्नेत्रस्य निपात आभिमुख्येन युगपदुपस्थाने लज्जया किंचिदाकुञ्चितानामीषत्संकुचितानाम् । संकुचितं नाम दृष्टिविकारो यथा— 'अपाङ्गभागसंकोचो यत्र तत्कुञ्चितं भवेत्' इति । बहुवचनेन धारावाहिन्यायेन
तावताप्त्यतृप्तत्वाच्चैतन्यलक्षणं' -> 'तावताप्यतृप्तत्वाच्चैतन्यलक्षणं'?
Look at: ता व ता प्य तृ प्त त्वा च्चै त न्य ल क्ष णं
Wait, is it प्य or प्त्य?
It is प्य (प + य): तावताप्यतृप्तत्वाच्चैतन्यलक्षणं.
Line 27:
मुन्मूल्यामन्त्रन्नित्येवं नालिकेरफलसमाधिरुक्तेति व्याचक्षते । कीदृशैः कटाक्षैरै-
Wait:
'मुन्मूल्यामन्त्रन्नित्येवं' or 'मुन्मूल्याभक्षयन्नित्येवं' or 'मुन्मूल्यामश्नन्नित्येवं'?
Let's zoom in on line 27:
मुन्मूल्या
Then: म
Then: श्न with न्नि?
Wait! Look at the coconut metaphor: "तदन्तःसारमुन्मूल्य भक्षयति" (L24).
So here: "मूलमुन्मूल्या..."
Is it मश्नन्नित्येवं (अश्नन् = eating)?
Look at the letters:
म
then श with subscript न?
३४ मालतीमाधवे अपि च । परिच्छेदव्यक्तिर्न भवति पुरःस्थेऽपि विषये भवत्यभ्यस्तेऽपि स्मरणमतथाभावविरसम् । न संतापच्छेदो हिमसरसि वा चन्द्रमसि वा मनो निष्ठाशून्यं भ्रमति च किमप्यालिखति च ॥ ३४ ॥ कलहंसः—१दिढं खु एसो कए वि अज्ज अवहरिदो । अवि णाम मालदी एव्व सा हवे । १. दृढं खल्वेष कयाप्यद्यापहृतः । अपि नाम मालत्येव सा भवेत् । 'उन्मादो विरहोत्थो य अतस्मिंस्तद्ग्रहाग्रहः । सर्वावस्थासु सर्वत्र सर्वथा सर्वदा मनः ॥ तद्गतं तत्कथाह्लादि प्रद्वेष्टीष्टानपीतरान् । दीर्घं मुहुर्निश्वसिति तिष्ठत्यनि- मिषेक्षणः ॥ विहारकाले रुदति क्रन्दति ध्यायति क्षणम् । ग्लायति स्पन्दते ख- स्मिन्हसति स्तौति मुह्यति ॥ इत्थमुन्मादजा भावाः कथिता नाट्यकोविदैः ॥' इति । एतैरेव विशेषणैः कोऽपीति व्याख्यातम् ॥३३॥ इदानीमस्य विकारस्य कार्याण्यनु- भवाक्षापरिच्छेद्या इत्याह—परिच्छेदव्यक्तिरिति । पुरःस्थेपीन्द्रियसन्निकृष्टे ग्रहणयोग्ये विषये परिच्छेदेन घटोऽयं पटोऽयमित्यवधारणात्मकेन सम्यगनुभवे- न कृता व्यक्तिरभिव्यक्तिस्तत्र स्फुरणं तज्जन्यं प्राकट्यं वा न भवति । अनेन मनसो विकारोपहतत्वाच्चक्षुराद्यनवस्थानेन बाह्यार्थप्रमायामव्यापार उक्तः । स्मरणेऽपि न सम्यग्व्याप्रियत इत्याह—भवतीति । अनभ्यस्ते सकृदापाततो गृहीते कदाचिदनु- भवो न संस्कारमादध्यात् । आहितो वा संस्कारो दार्ढ्याभावात्कदाचिन् न स्मृतिं जनयेदपि । पुनर्गृहीते वस्तुनि दृढतरे संस्काराधानाद्यथानुभवं स्मृत्या भाव्यम् । इह पुनरभ्यस्तेऽपि विषये न यथानुभवं स्मृतिरुत्पद्यते विद्यमानेष्वपि सदृशवस्तु- दर्शनादिषु संस्कारोद्बोधकारणेषु । प्रत्युत दोषवशादतथाभावेनातथात्वेन विरसं विपर्यस्तं स्मरणं भवति । क्वचिदपि पूर्वानुभूते स्मरणं नोत्पद्यते । अपि तु स्मृति- विपर्यय एवेत्यर्थः । हिमसरसि तुषारवाप्यां वा चन्द्रमसि वामृतमयशरीरे संता- पच्छेदो न भवति । केनापि शिशिरद्रव्येणानिर्वापणात्संतापो न निवर्तत इत्यर्थः । तेन त्वया न कस्मिंश्चिदपि शैत्योपचारे प्रयतितव्यमिति भावः । तथापि मनो निष्ठया निर्वहणेन शून्यम् । कंचिदर्थमनुसंधातुमुपक्रम्य मध्य एव तस्यात्यन्तविक्षे- पणात्प्रक्रान्तनिर्वहणासमर्थमित्यर्थः । तत्र हेतुमाह—भ्रमति चेति । क्वचिदप्यर्थे न क्षणं तिष्ठतीत्यर्थः । 'जडयति च तापं च तनुते' इत्युक्तयोरेव जाड्यसंतापयोरे- तद्विवचनमिति मन्तव्यम् । विरोधाभास एवालंकारः अतिशयोक्तिर्वा ॥ ३४ ॥ कलहंसः—दृढं खल्वेष कयाप्यथापहृतः । अपि नाम मालत्येव सा भवेत् । दृढं यथा वनितान्तरवार्तामपि न सहते तथा । कयाप्यद्य यात्रासमये नयनपथप- तितया । यात्रा हि यूनोः प्रथमावलोकने प्राथमिकोपायः । यथा—'यात्रा पुर-
प्रथमोऽङ्कः । ३५ मकरन्दः—(स्वगतम् ।) अहो अभिषङ्गः । तत्किं निषेधयामि प्रियसृहृदम् । अथवा । मा मूमुहत्खलु भवन्तमनन्यजन्मा मा ते मलीमसविकारघना मतिर्भूत् । इत्यादि नन्विह निरर्थकमेव यस्सि- न्कामश्च जृम्भितगुणो नवयौवनं च ॥ ३५ ॥ (प्रकाशम्) वयस्य, अपि विदिते तदन्वयनामनी । स्कन्दनमुत्सवो वा स्वप्नोऽथ चित्रं रतिसंकथा वा । भवन्त्युपायाः प्रथमावलोकने यूनोर्यतो वृद्धिमुपैति रागः ॥' इति । अपहृतः स्वायत्तचित्तः कृतः । सा एत- च्चित्ताकर्षिणी । अपिनामेति संभावनायाम् । माल्येव संभाविता । तस्या एवैतद- भिलाषगोचरतायोग्यलावण्याशालित्वादिति भावः ॥ मकरन्दः—स्वगतमिति । अश्राव्यार्थप्रयोगे स्वगतमिति प्रयुज्यते । तदुक्तम्—'अश्राव्यश्राव्यभेदेन द्विधा वस्तु प्रकीर्तितम् । सर्वत्र नियतस्येति श्राव्यं च द्विविधं स्मृतम् ॥ अश्राव्यं स्व- गतं तत्र प्रयोज्यं स्वगतं त्विति । सर्वश्राव्यं प्रकाशं स्यात्प्रकाशमिति तद्वदेत् ॥ श्राव्यं तु नियतस्यैव नाट्यधर्ममपेक्ष्य च । द्विधा विभज्यते तत्र जनान्तमपवारि- तम् । त्रिपताकाकरेणान्यानपवार्यान्तरा कथाम् । अन्योन्यामन्त्रणं यत्स्यात्तज्जना- न्तिकमुच्यते ॥ रहस्यं कथ्यतेऽन्यत्र परावृत्यापवारितम् । वस्तुनिर्वाहकत्वेन नाट्य- धर्मप्रसङ्गतः ॥' इति । अभिषङ्गोऽभिनिवेशः । अपूर्वोऽयमेकपदे चित्तासङ्गप्रकर्ष इत्यद्भुतावेशात्परिभावनं नाम संध्यङ्गमुक्तं भवति । 'परिभावोऽद्भुतावेशः' इति । तत्किमिति । इत्थमिदानीमस्योन्माददशा वर्तते । तेन समनन्तरदशोपनिपाता- त्पूर्वमेव किमेनमसद्भाभिषङ्गात्निवारयामीति स्वात्मन्येव वितर्कः । एवं वितर्क्य निवारणमशक्यमिति निर्धारयति—अथवा । मा मूमुहदिति । अनन्यजन्मा स्वचित्तैकयोनिः कामो भवन्तं मा मूमुहन्न मोहं प्रापयतु । आशिषि ङ् । तव मतिर्मलीमसो मलिनश्चित्तैकाग्र्यप्रत्यनीकत्वान्निन्दितो यो विकारो मन्मथाभिषङ्गस्तेन घना सान्द्रतरा छन्ना मा भूदित्याद्युपदेशजातमित्थैवामवस्थेऽस्मिन्निरर्थकमकार्यका- रित्वात्रिष्फलम् । नन्वित्यात्मन एवावधारणे । नैरर्थक्ये हेतुमाह—यस्मिन्माधवे कामश्च जृम्भिताः संजातजृम्भाः प्रत्यग्रव्यक्तनिद्रा विजृम्भमाणगुणा विरहिजन- प्राणहारिणो व्यापारा यस्य तथाभूतो वर्तते । यौवनं च प्रवृद्धविवेकप्रमोषणा- दिधर्मकं वर्तते । तस्मान्नेदानीमस्य किंचिदप्युपदेष्टव्यमस्ति । पाटच्चरलुष्ठितसर्वस्वं पथिकं प्रति 'चोरभूयिष्ठोऽयं मार्गः, तन्नानेन पथा गन्तव्यम्' इत्युपदेशवद्वृथैव बलवन्मन्मथाकृष्टमानसं प्रति मदनवशगो मा भूरित्युपदेशोऽतीतकालत्वाद्द्यर्थ एव । यदाह—'यो हि ब्रूयाद्भुक्तवन्तं मा भुक्था इति किं तेन कृतं स्यात्' इति ॥ ३५ ॥ एवमात्मन्येव निषेधाशक्यतं निर्धार्य तदभिलषितसंपादनेनैव तदुपद्रवं परिजिहीर्षुरानुकूल्यमवलम्ब्य पृच्छति—प्रकाशमिति । वयस्य, सा तावत्त्वदु-
माधवः—श्रूयताम् । अथ तस्याः करेणुकाधिरोहणसमय एव ततः सखीकदम्बकादन्यतमा वारयोषिद्विलम्ब्य कुसुमापच- यक्रमेण नेदीयसी भूत्वा प्रणम्य कुसुमापीडव्याजेन मामेवमुक्त- वती—‘महाभाग, सुश्लिष्टगुणतया रमणीय एष संनिवेशः । कुतूह- लिनी च नो भर्तृदारिकास्मिन्वर्तते । तस्यामभिनवो विचित्रः कु- सुमेषुव्यापारः । तद्भवतु कृतार्थता वैदग्ध्यस्य । फलतु निर्माणरम- णीयता । समासादयतु सरस एष भर्तृदारिकायाः कण्ठावलम्बनम- हार्हताम्’ इति । पर्य्यनुरक्तेति तदुक्तेन तच्चेष्टाविशेषेण ज्ञातम् । कस्मिन्कुले जाता संबन्धयोग्या वा किंनामधेया वेत्येतदितः परं ज्ञातव्यम् । तत्साधनाय त्वया यत्किंचिद्विदितमिति प्रश्नः ॥ माधवः—श्रूयतामित्यादि । विलम्ब्य कुसुमापचयव्याजेन वि- लम्बं कृत्वा । कुसुमापचयक्रमेण तान्युपचिनोमि । तानि तानीत्येवंरूपेण नेदीयसी भूयः संनिहिता भूत्वा कुसुमापीडव्याजेन प्रणम्य शिरसि स्रग्बन्धनव्याजेन लला- तटघटितकरकमलसंपुटा नमस्कृत्य । नमस्कारेण स्वभर्तृदारिकायास्त्वमेव भर्तेति तया सूचितम् । मामेवं वक्ष्यमाणमुक्तवती । सा तावत्पूर्वमेवावलोकितादिमुखा- न्माधवस्य सर्वकलाकौशलं ज्ञातवती सती निपुणं वक्तुमुपक्रमते—महाभागे- त्यादि । महान्भागो भागधेयं यस्य । ‘रूपनामभागेभ्यो धेयः’ इति स्वार्थे धेयप्र- त्ययविधानाद्भाग एव भागधेयम् । आकृतिविशेषेणैवोपलक्ष्यमाणमहाभाग्याति- शयेत्यर्थः । एष संनिवेशः कुसुमसंनिवेशनप्रकारः स्रग्विरचनावैदग्ध्यं सुश्लिष्टगुण- तया सुसंघटितग्रन्थिमतसूत्रत्वेन रमणीयो मनोहरः । कुतूहलिनी चास्मिन्स्निग्धा- तिशये कुसुमदामविरचनाविशेषे चास्माकं भर्तृदारिका । भूरिवसोरमात्यस्य राज- तुल्यत्वात्तत्सुतापि भर्तृदारिकेत्युच्यते बहुमानसूचनाय । तस्यामधिकरणभूतायाम- भिनवोऽन्यत्रादृष्टपूर्वो विचित्रश्चमत्कारकारी कुसुमेषुविषये व्यापारो माल
प्रथमोऽङ्कः । ३७ मकरन्दः—अहो वैदग्ध्यम् । माधवः—तया मदनुक्तयाख्यातम्—‘इयममात्यभूरिवसोः प्रसूतिर्मालती नाम । अहं च भर्तृदारिकायाः प्रसादभूमिर्धात्रेयिका लवङ्गिका नाम इति । कलहंसः—(सहर्षम् ।) किं¹ णाम मालदित्ति । दिट्ठिआ विल- सिदं भअवदा देवेण कुसुमाउहेण । जिदं अम्हेहिं । १. किं नाम मालतीति । दिष्ट्या विलसितं भगवता देवेन कुसुमायुधेन । जितमस्माभिः । खीजनस्य तटस्थसहृदयलोकस्य चाशास्यत्वेन बुद्धौ विपरिवर्तमानः संनिवेशो भवतोः संबन्धोऽभिलाषमात्रम् । तस्यां विषयेऽभिनवः केनापि विरहिणाननुभूत- पूर्वः, अतएव विचित्रो विस्मयकारी कुसुमेषोर्व्यापारः । त्वामुद्दिश्य स्मरेण बल- वदभिभूत इत्यर्थः । तत्तस्मादन्योन्यसमागमेनोभयोर्वैदग्ध्यस्य सकलकलापरीक्षा- नस्य कृतार्थता भवतु । त्वदीयवैदग्ध्यसारं सैव लोके वेदितुमर्हा तस्याश्च त्वमेवे- त्यन्योन्यसदृशाभिज्ञविषयलाभादुभयोर्वैदग्ध्यं चरितार्थमस्त्वित्यर्थः । वैदग्ध्यलक्षणं च—‘लौकिके वैदिके वार्थे तथा सामयिकेऽपि च । सम्यक्परिचयप्रौढिर्वैदग्ध्य- मिति गीयते ॥’ इति । निर्माणस्य भवदुभयसृष्टिलक्षणस्य विधातृव्यापारस्य रमणी- यता सर्वलोकातिशायिसौन्दर्यसंपादकत्वेन मनोहरता भवदुभयसमागमेनैव फलेन फलतु । अन्यथैकसृष्टिश्रमगुणोज्ज्वलस्त्रीपुंसनिर्माणप्रयासो विधेर्व्यर्थ एव भवेदिति भावः । तदेष त्रिभुवनरत्नभूतः सरसः सानुरागो रसिकाग्रणीश्च भवांस्तस्याः कण्ठावलम्बनेन कण्ठालिङ्गनेन महार्घतां प्राप्नोतु । सा ह्यमूल्यरत्नभूतं भवन्तं स्वक- ण्ठालिङ्गनसौख्येन रतिरमणपरीक्षके कल्पितेन महताधिकेन लावण्यद्रविणेन दरि- द्रश्वेतरयुवतिजनासंपाद्येन मूल्येन क्रेतुमर्हा नान्या काचिदिति भावः । अत्र कुसु- मदामप्रार्थनाव्याजेन पूर्वं निष्पन्नार्थस्य मालतीविरहरूपस्य भाविनश्च निर्वहणपर्य- न्तानुवर्तमानबकुलदामसाक्षिकसर्वव्यापारसूचनात्पताकास्थानकमिदम् । यथा— ‘अतीतानागते कार्ये कथ्येते यत्र वस्तुनः । अन्यापदेशव्याजेन पताकास्थानकं हि तत् ॥’ इति । अत एव चिरकालास्थायिनी म्लानापि सौरभ्यमयी बकुल- माला सैव कविना निर्दिष्टा न लितरकुसुममालेति ॥ मकरन्दः । वैदग्ध्यं तत्प- रिचारिकाया एवेदृशं वचनकौशलं चित्रमित्यर्थः ॥ माधवः । अनुयुक्तया केयं कस्य सुता वेति पृष्टया । कथितं तया—इयमित्यादि । प्रसूतिरपत्यम् । न तु दत्ता संकरजाता वा । तेन विवाहयोग्यता सूचिता । प्रसादभूमिर्विश्रम्भभाजनम् । तेन मयि शङ्का न कार्येत्युक्तम् । धात्रेयीत्यनुल्लङ्घ्यवचनत्वं सकलतन्मर्मज्ञानं चात्मनः सूचितम् ॥ कलहंसः—सहर्षमिति । यया लिखितमस्य प्रतिच्छन्दकमानीतं मया तस्यामेव मालत्यामासक्तोऽयमिति सफल इदानीं मम व्यापार इति हर्षहेतुः ।