भारतकोश
संग्रह पर लौटें

मालविकाग्निमित्रम् (महाकवि कालिदास - संस्कृत मूल एवं हिन्दी व्याख्या)

Malavikagnimitram of Kalidasa with Hindi Commentary

महाकवि कालिदास / पं. रामचन्द्र मिश्र द्वारा

DevanagariSanskritpublished111 पृष्ठ

**राजा—**बाढं जाने । ततः किम् । **गणदासः—**सोऽहममुना हरदत्तेन प्रधानपुरुषसमक्षमयं मे न पादरजसापि तुल्य इत्यधिक्षिप्तः । **हरदत्तः—**देव, अयमेव प्रथमं परिवादकरः । अत्रभवतः किल मम च समुद्रपल्वलयोरिवान्तरमिति । तदत्रभवानिमं मां च शास्त्रे प्रयोगे च विमृशतु । देव एव नौ विशेषज्ञः प्राश्निकः । **विदूषकः—**समत्थं पडिण्णादं । **गणदासः—**प्रथमः कल्पः । अवहितो देवः श्रोतुमर्हति । **राजा—**तिष्ठ यावत् । पक्षपातमत्र देवी मन्यते । तदस्याः पण्डितकौशिकीसहितायाः समक्षमेव न्याय्यो व्यवहारः । **विदूषकः—**सुट्ठु भवं भणादि । **आचार्यौ—**यद्देवाय रोचते । **राजा—**मौद्गल्य, अमुं प्रस्तावं निवेद्य पण्डितकौशिक्या सार्ध- माहूयतां देवी । **कञ्चुकी—**यदाज्ञापयति देवः । (इति निष्क्रम्य सपरिव्राजिकया देव्या सह प्रविष्टः ।) इत इतो भवती । धारिणी—(परिव्राजिकां विलोक्य ।) भअवदि, हरदत्तस्स गण- दासस्स अ संरम्भे कहं पेक्खसि । **परिव्राजिका—**अलं स्वपक्षावसादशङ्कया । न परिहीयते प्रति- वादिनो गणदासः । १. समर्थं प्रतिज्ञातम् । २. सुष्ठु भवान्भणति । ३. भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि । त्यादि । तीर्थाद्विशिष्टाद्गुरोरभिनयविद्या नाट्यविद्या शिक्षिताभ्यस्ता । दत्तप्रयो- गश्चास्मि । दत्तः शिष्येभ्यः प्रतिपादितः प्रयोगो विनियोगो येन स तथोक्तः ॥ समर्थं प्रतिज्ञातम् ॥ प्रथमः कल्पो मुख्यः पक्षः ॥ न्याय्यो युक्तः । व्यवहारो वि- वादः ॥ सुष्ठु भवान्भणति ॥ भगवति, हरदत्तस्य गणदासस्य च संरम्भे कथं पश्यसि कथं मन्यसे । अनयो कतरस्य पराजयं ^ * * । अलं स्वपक्षे

१६ मालविकाग्निमित्रे धारिणी—जंइवि एवं राजपरिग्गहो से पहाणत्तणं उवहरइ । परिव्राजिका—अयि, राज्ञीशब्दभाजनमात्मानमपि चिन्तयतु भवती । पश्य । अतिमात्रभासुरत्वं पुष्यति भानोः परिग्रहादर्कः । अधिगच्छति महिमानं चन्द्रोऽपि निशापरिगृहीतः ॥ १३ ॥ विदूषकः—अइ, उअट्ठिदा देवी पीठमद्दिं पण्डिअकोसिइं पुरोकरिअ धारिणी । राजा—पश्याम्येनाम् । यैषा मङ्गलालंकृता भाति कौशिक्या यतिवेषया । त्रयी विग्रहवत्येव सममध्यात्मविद्यया ॥ १४ ॥ परिव्राजिका—(उपेत्य) विजयतां देवः । राजा—भगवति, अभिवादये । १. यद्यप्येवं राजपरिग्रहोऽस्य प्रधानत्वमुपहरति । २. अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुरस्कृत्य धारिणी । त्यादि । अत्र परिव्राजिकायाः स्त्रीत्वात्प्राकृते प्राप्ते संस्कृताश्रयणं लिङ्गित्वादिति मन्तव्यम् । तथा चोक्तम्—'देवद्विजनरेन्द्राणां लिङ्गिनां संस्कृतं वचः' इति ॥ यद्यप्येवं राजपरिग्रहोऽस्य हरदत्तस्य प्रधानत्वंमुपहरति ॥ अतिमात्रभासुरत्व- मित्यादि। स्पष्टोऽर्थः ॥ अयि, उपस्थिता देवी पीठमर्दिकां पण्डितकौशिकीं पुर- स्कृत्य धारिणी। पीठमर्दो नाम कामपुरुषार्थसहायो नायकसमीपवर्ती पुरुषःकथ्यते । तथा चोक्तम्—'पीठमर्दः समीपस्थः कार्यालोचनकोविदः'इति। अत्र विदूषकः परि- हासेन परिव्राजिकायां पण्डितकौशिक्यां तद्धर्ममारोपयतीति मन्तव्यम् ॥ मङ्गले- त्यादि । मङ्गलालंकृता मङ्गलं शोभनं यथा भवति तथालंकृता भूषितैषा धारिणी यतिवेषया यतेः परिव्राजकस्य वेष इव वेषः काषायादिधारणं यस्याः सा तथोक्ता तया कौशिक्या समं सार्धं भाति प्रकाशते । अत्रोपमामाह—विग्रहवत्या शरी- रिण्याध्यात्मविद्यया समं त्रयीव वेदत्रयीव। विग्रहवतीव विभक्तिविपरिणामेन योज-

प्रथमोऽङ्कः । १७ परिव्राजिका— महासारप्रसवयोः सदृशक्षमयोर्द्वयोः । धारिणीभूतधारिण्योर्भव भर्ता शरच्छतम् ॥ १५ ॥ धारिणी—१जेदुं अज्जउत्तो । राजा—स्वागतं देव्यै । (परिव्राजिकां विलोक्य ।) भगवति, क्रि- यतामासनपरिग्रहः । (सर्वे उपविशन्ति ।) राजा—भगवति, अत्रभवतोर्हरदत्तगणदासयोः परस्परं विज्ञान- संघर्षिणोर्भगवत्या प्राश्निकपदमध्यासितव्यम् । परिव्राजिका—(सस्मितम् ।) अलमुपालम्भेन । पत्तने सति ग्रामे रत्नपरीक्षा । राजा—नैतदेवम् । पण्डितकौशिकी खलु भगवती । पक्षपाति- नावहं देवी च । आचार्यो—सम्यगाह देवः । मध्यस्था भगवती नौ गुणदोषतः परिच्छेत्तुर्महति । राजा—तेन हि प्रस्तूयतां विवादः । परिव्राजिका—देव, प्रयोगप्रधानं हि नाट्यशास्त्रम् । किमत्र वाग्व्यवहारेण । कथं वा देवी मन्यते । देवी—२जंइ मं पुच्छसि, एदाणं विवादो एव ण मे रोअदि । गणदासः—देव, न मां समानविद्यया परिभवनीयमवगन्तुमर्हसि । विदूषकः—³भोदि, पेक्खामो उरब्भसंवादं । किं मुहा वेअ- णदाणेण । १. जयत्वार्यपुत्रः । २. यदि मां पृच्छसि, एतेषां विवाद एव न मे रोचते । ३. भवति, पश्याम उरभ्रसंवादम् । किं मुधा वेतनदानेन । नीयम् ॥ महासारेत्यादि । महासारप्रसवयोः । महान्सारो वरः प्रसवः संतानं ययोस्ते तयोः । सदृशक्षमयोः । सदृशी समाना क्षमा सहिष्णुत्वं ययोस्ते तयोः । शेषं स्पष्टम् ॥ जयत्वार्यपुत्रः ॥ यदि मां पृच्छसि, एतयोर्विवाद एव न मे रोचते ॥ भवति,

१८ मालविकाग्निमित्रे देवी- १णं कलहप्पिओसि । विदूषकः- २मा एवं । अण्णोण्णकलहप्पिआणं मत्तहत्थीं एक्कदरस्सि अणिज्जिदे कुदो उवसमो । राजा-ननु स्वाङ्गसौष्ठवातिशयमुभयोर्दृष्टवती भगवती । परिव्राजिका-अथ किम् । राजा-तदिदानीमतः परं किमाभ्यां प्रत्याययितव्यम् । परिव्राजिका-तदेव वक्तुकामास्मि । श्लिष्टा क्रिया कस्यचिदात्मसंस्था संक्रान्तिरन्यस्य विशेषयुक्ता । यस्योभयं साधु स शिक्षकाणां धुरि प्रतिष्ठापयितव्य एव ॥ १६ ॥ विदूषकः- ३सुदं अज्जेहिं भअवदीए वअणं । एसो पिण्डितत्थे उवदेसदंसणादो णिण्णओत्ति । हरदत्तः-परमभिमतं नः । गणदासः-देवि, एवं स्थितम् । १. ननु कलहप्रियोऽसि । २. मैवम् । अन्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत- उपशमः । ३. श्रुतमार्याभ्यां भगवत्या वचनम् । एष पिण्डितार्थ उपदेशदर्शना- न्निर्णय इति । पश्याम उरअसंवादम् । किं मुधा वेतनदानेन ॥ ननु कलहप्रियोऽसि ॥ मैवम् । अ- न्योन्यकलहप्रिययोर्मत्तहस्तिनोरेकतरस्मिन्ननिर्जिते कुत उपशमः॥श्लिष्टेत्यादि कस्यचित्कस्यापि पुरुषस्यापि क्रिया शिक्षा । विद्याभ्यास इत्यर्थः । आत्मसंस्था आ- त्मनिष्ठा सती श्लिष्टा संगता । रम्या भवतीत्यर्थः । अन्यस्य पुरुषस्य संक्रान्तिःशिष्येषु क्रियासंक्रमणम् । संक्रान्तिशब्दोऽत्रान्तर्भावितण्यर्थः । विशेषयुक्तातिशयवती । यस्य पुरुषस्योभयम्,आत्मसिद्धिःपरसंक्रमणं च, साधु रम्यं स पुरुष एव शिक्षकाणामुपदे- शकानां धुर्यग्रे प्रतिष्ठां प्रापयितव्य । श्रुतमार्याभ्यां एष पिण्डितार्थ इति अत्र माठ

प्रथमोऽङ्कः । १९ देवी—जँदा उण मन्दमेधा सिस्सा उवदेसं मलिणेन्ति, तदा आअरिअस्स दोसो णु । राजा—देवि, एवमापठ्यते । विनेतुराद्रव्यपरिग्रहोऽपि बुद्धि- लाघवं प्रकाशयतीति । देवी—(स्वगतम्) कँहं दाणिं (गणदासं विलोक्य प्रकाशम् ।)— अलं अज्जउत्तस्स ऊसाहकारणं मणोरहं पूरिअ । विरम णिरत्थ- आदो आरम्भादो । विदूषकः—सुँट्ठु भोदी भणादि । भो गणदास, संगीदपदं लब्भिअ सरस्सईए उवाअणमोदअं खादमाणस्स किं ते सुहणि- ग्गहेण विवादेण । गणदासः—सत्यसमयमेवार्थो देवीवाक्यस्य । श्रूयतामवसरप्रा- प्तमिदानीम् । लब्धास्पदोऽस्मीति विवादभीरो- स्तितिक्षमाणस्य परेण निन्दाम् । यस्यागमः केवलजीविकायै तं ज्ञानपण्यं वणिजं वदन्ति ॥ १७ ॥ १. यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति, तदाचार्यस्य दोषो नु । २. कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा । विरम निरर्थकादारम्भात् । ३. सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपाय- नमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन । क्तिर्नाम संध्यङ्गमुक्तं भवति ॥ यदा पुनर्मन्दमेधाः शिष्या उपदेशं मलिनयन्ति,तदा- चार्यस्य दोषो नु । नुः प्रश्ने॥कथमिदानीम् । अलमार्यपुत्रस्योत्साहकारणं मनोरथं पूरयित्वा विरम निरर्थकादारम्भात् ॥ सुष्ठु भवती भणति । भो गणदास, संगीतपदं लब्ध्वा सरस्वत्युपायनमोदकान्खादतः किं ते सुखनिग्रहेण विवादेन ॥ लब्धा- स्पदोऽस्मीत्यादि । स्पष्टोऽर्थः ॥ अचिरोपनीतायां शिष्यायां पुनःप्रतिष्ठितस्योप-

२० मालविकाग्निमित्रे देवी—अंइरोवणीदाए सिस्साए उण पडिट्ठिदस्स उवदेसस्स अण्णाय्यं पआसणं । गणदासः—अत एव मे निर्बन्धः । देवीः—तेणं हि दुवेवि उवदेसं भववदीए दंसेध । परिव्राजिका—देवि, नैतन्न्याय्यम् । सर्वज्ञस्याप्येकाकिनो निर्ण- याभ्युपगमो दोषाय । देवी—(जनान्तिकम् ।) मूढे परिव्वाजिए, मं जाग्गंतिंपि सुत्तं विअ करेसि । (इति सासूयं परावर्तते ।) (राजा देवीं परिव्राजिकायै दर्शयति ।) परिव्राजिका— अनिमित्तमिन्दुवदने किमत्र भवतः पराङ्मुखी भवसि । प्रभवन्त्योऽपि हि भर्तृषु कारणकोपाः कुटुम्बिन्यः ॥ १८ ॥ विदूषकः—णं सकारणं एव । अत्तणो पक्खो रक्खिदव्वो । (गणदासं विलोक्य) दिट्ठिआ कोववाजेण देवीए परित्तादो भवं । सुसिक्खिदो वि सव्वो उवदेसेण णिण्हादो होदि । गणदासः—देवि, श्रूयताम् । एवं जनो गृह्णाति । तदिदानीम् १. अचिरोपनीतायां शिष्यायां पुनः प्रतिष्ठितस्योपदेशस्यान्याय्यं प्रका- शनम् । २. तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् । ३. मूढे परिव्राजिके, मां जाग्रतीमपि सुप्तामिव करोषि । ४. ननु सकारणमेव । आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भवान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । देशस्यान्याय्यं प्रकाशनम् । तेन हि द्वावप्युपदेशं भगवत्यै दर्शयतम् ॥ मूढे परिव्रा- जिके, मां जाग्रतीमपि सुप्तामिव करोषि ॥ अनिमित्तमित्यादि स्पष्टोऽर्थः ॥ ननु सकारणमेव आत्मनः पक्षो रक्षितव्यः । दिष्ट्या कोपव्याजेन देव्या परित्रातो भ- वान् । सुशिक्षितोऽपि सर्व उपदेशेन निष्णातो भवति । अत्र देवीकोपेन वस्तुवि- च्छेदे प्राप्ते विदूषककृत

प्रथमोऽङ्कः । २१ विवादे दर्शयिष्यामि क्रियासंक्रान्तिमात्मनः । यदि मां नानुजानासि परित्यक्तोऽस्म्यहं त्वया ॥ १९ ॥ (आसनादुत्थातुमिच्छति ।) देवी—(स्वगतम् ।) का गई ! (प्रकाशम् ।) पहवदि आअरिओ सिस्सजणस्स । गणदासः—चिरमपदे शङ्कितोऽस्मि । (राजानमवलोक्य ।) अनु- ज्ञातं देव्या । तदाज्ञापयतु देवः कस्मिन्नभिनयवस्तुन्युपदेशं दर्श- यिष्यामि । राजा—यदादिशति भगवती । परिव्राजिका—किमपि देव्या मनसि वर्तते । ततः शङ्कितासि । देवी—भेण वीसद्धं । पहवदि पहू अत्तणो परिअणस्स । राजा—मम चेति ब्रूहि । देवी—भंअवदि, भणेदाणीम् । परिव्राजिका—देव, शर्मिष्ठायाः कृतिं चतुष्पदोत्थं छलिकं दुष्प्रयोज्यमुदाहरन्ति । तत्रैकार्थसंश्रयमुभयोः प्रयोगं पश्यामि । तावता ज्ञायत एवात्रभवतोरुपदेशान्तरम् । आचार्यौ—यदाज्ञापयति भगवती । विदूषकः—तेणं हि दुवेवि वग्गा पेक्खाघरे संगीदरअणं करिअ तत्तभवदो दूर्द पेसअह । अहवा मुदङ्गसद्दो एब णो उत्थावइस्यदि । १. का गतिः । प्रभवत्याचार्यः शिष्यजनस्य । २. भण विस्रब्धम् । प्रभवति प्रभुरात्मनः परिजनस्य । ३. भगवति, भणेदानीम् । ४. तेन हि द्वावपि वर्गौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं प्रेषयतम् । अथवा मृदङ्गशब्द एव न उत्थापयिष्यति । संधेयम् ॥ विवाद इत्यादि । स्पष्टोऽर्थः ॥ का गतिः प्रभवत्याचार्यः शिष्यजनस्य ॥ भण विस्रब्धम् । प्रभवति प्रभुश्चात्मनः परिजनस्य ॥ भगवति, भणेदानीम् ॥ तेन हि द्वावपि वर्गौ प्रेक्षागृहे संगीतरचनां कृत्वा तत्रभवतो दूतं प्रेषयतम्। अथवा मृदङ्गशब्द

२२ मालविकाग्निमित्रे हरदत्तः—तथा। (इत्युत्तिष्ठति।) (गणदासो धारिणीमवलोकयति।) देवी—(गणदासं विलोक्य।) विअंई होहि। (आचार्यौ प्रस्थितौ) परिव्राजिका—इतस्तावत्। आचार्यौ—(परिवृत्य।) इमौ स्वः। परिव्राजिका—निर्णयाधिकारे ब्रवीमि। सर्वाङ्गसौष्ठवाभिव्य- क्तये विगतनेपथ्ययोः पात्रयोः प्रवेशोऽस्तु। उभौ—नेदमावयोरुपदेश्यम्। (इति निष्क्रान्तौ।) देवी—(राजानमवलोक्य।) जंइ राअकज्जेसु ईरिसी उवाअणि- उणदा अजउत्तस्स, तदो सोहं भवे। राजा— अलमन्यथा गृहीत्वा न खलु मनस्विनि मया प्रयुक्तमिदम्। प्रायः समानविद्याः परस्परयशःपुरोभागाः॥ ३० ॥ (नेपथ्ये मृदङ्गध्वनिः। सर्वे कर्णं ददति।) परिव्राजिका—हन्त। प्रवृत्तं संगीतम्। तथा ह्येषा जीमूतस्तनितविशङ्किभिर्मयूरैरुद्ग्रीवैरनुरसितस्य पुष्करस्य। निर्ह्रादिन्युपहितमध्यमस्वरोत्था मायूरी मदयति मार्जना मनांसि ॥२१॥ १. विजयी भव। २. यदि राजकार्येष्वीदृश्युपायनिपुणतार्यपुत्रस्य, ततः शोभनं भवेत्। एव न उत्थापयिष्यति॥ विजयी भव॥ सर्वाङ्गेत्यादि। अत्र गुणवत्त्वस्य गम्य- मानत्वादिलोचनं नाम संध्यङ्गमुक्तं भवति॥ यदि राजकार्येष्वीदृश्युपायनिपुणतार्य- पुत्रस्य, ततः शोभनं भवेत्। अत्र गूढार्थोद्भेदनादुद्भेदो नाम संध्यङ्गमुक्तं भवति॥ अलमन्यथा गृहीत्वेत्यादि। स्पष्टोऽर्थः॥ जीमूतस्तनितेत्यादि। जीमूत- स्तनितविशङ्किभिर्जीमूतस्य स्तनितं गर्जितं विशङ्कन्त इति तथोक्तास्तैरुद्ग्रीवैरुकण्ठै- र्मयूरैः शिखण्डिभिरनुरसितस्यानुध्वनितस्य पुष्करस्य वाद्यभाण्डमुखस्य मायूरी मयूरप्रिया मार्जना मनांसि मदयति हर्षयति। कीदृशी मार्जना। उपहितमध्य- मस्वरोत्था उपहितो योजितो मध्यमस्वरो मध्यमसंज्ञकस्वरस्तस्मादुत्तिष्ठत्युदेतीति तथोक्ता मार्जना नाम ।

An exact line-by-line transcription of the Sanskrit text in Devanagari script:

प्रथमोऽङ्कः . २३ राजा—देवि, तस्याः सामाजिका भवामः । देवी—(स्वगतम् ।) अहो अविणओ अज्जउत्तस्स । (सर्वे उत्तिष्ठन्ति ।) विदूषकः—(अपवार्य ।) भो, धीरं गच्छह्म । तत्तभोदी धा- रिणी विसंवादइस्सिदि । राजा— धैर्यावलम्बिनमपि त्वरयति मां मुरजवाद्यरागोऽयम् । अवतरतः सिद्धिपथं शब्दः स्वमनोरथस्येव ॥ २२ ॥ (इति निष्क्रान्ताः सर्वे ।) इति प्रथमोऽङ्कः । १. अहो अविनय आर्यपुत्रस्य । २. भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति । तथोक्तं भारतीये—'षोडशाक्षरसंपन्नं चतुर्मार्गं तथैव च ॥ द्विर्लेपनं षडकरणं त्रियति त्रिलयं तथा । त्रिगतं त्रिप्रचारं च त्रिसंयोगं त्रिपाणिकम् ॥ दशार्धपा- णिप्रहृतं त्रिप्रहारं त्रिमार्जनम् । एमिरङ्गैस्तु संपन्नं वाद्यं पुष्करजं भवेत् ॥' तत्र 'मायूरि चार्धमायूरी तथा कार्मारवीति च । तिस्रस्तु मार्जना ज्ञेयाः पुष्करेषु स्वराश्रयाः ॥ गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे । मध्यमश्चोध्वंगः कार्यो मायूर्यास्तु स्वरास्त्वमी ॥ वामके पुष्करे षड्ज ऋषभो दक्षिणे तथा । धैवतश्चोर्ध्वगोऽर्धमायूर्या निर्दिशेद्बुधः ॥ ऋषभः पुष्करे वामे षड्जो दक्षिणपु- ष्करे । पञ्चमश्चोर्ध्वगः कार्यः कार्मारव्याः स्वरा अमी ॥' इति ॥ अहो, अविनय आर्यपुत्रस्य ॥ भोः, धीरं गच्छामः । तत्रभवती धारिणी विसंवादयिष्यति ॥ धैर्यावलम्बिनमित्यादि । अयं मुरजवाद्यरागो मुरजवाद्यस्य रञ्जकत्वं धैर्या- बलम्बिनमपि मां त्वरयति संभ्रमयति । सिद्धिपथं सिद्धिमार्गमवतरतः प्राप्नुवतः स्वमनोरथस्यात्मवाञ्छितस्य शब्द इव ध्वनिरिव । अत्र बीजस्य पुनरावर्तना- त्समाधानं नाम संध्यङ्गमुक्तं भवति । अत्रैव सुखागमस्य गम्यमानत्वात्प्राप्तिर्नाम संध्यङ्गमुक्तं भवति । अत्रोपक्षेपादिषु संध्यङ्गेषु कतिचिदेव कविनोक्तानि नेतराणि तथापि न दोषः । 'न्यूनमप्यत्र यैः कैश्चिदङ्गैर्नाट्यं न दुष्यति । यद्युपात्तेषु संपत्तिराराधयति तद्विदः ॥' इति वचनात् । अत्र नृत्यदर्शननिश्चयान्ते प्रथमा- ङ्कार्थे समाप्तेऽपि तमसमाप्यैवोत्तborderङ्कादौ विष्कम्भादौ प्रतिपाद्यायाः संगीतरचनाया अत्रैव निपातनादङ्कावतरणं नामार्थोपक्षेपकमुक्तं भवति । यथोक्तम्—'अङ्काव- तारस्त्वङ्कान्ते पात्रेणाङ्कस्य सूचनात्' इति ॥ इति श्रीकाटयवेमभूपविर- चिते कुमारगिरिराजीये मालविकाग्निमित्रव्याख्याने प्रथमोऽङ्कः ॥

२४ मालविकाग्निमित्रे द्वितीयोऽङ्कः। (ततः प्रविशति संगीतरचनायामासनस्थो राजा सवयस्यो धारिणी परिव्राजिका विभवतश्च परिवारः।) राजा—भगवति, अत्रभवतोराचार्ययोः प्रथमं कतरस्योपदेशं द्रक्ष्यामः। परिव्राजिका—ननु समानेऽपि ज्ञानवृद्धभावे वयोवृद्धत्वाद्गण- दासः पुरस्कारमर्हति। राजा—मौद्गल्य, एवमत्रभवतोरावेद्य नियोगमशून्यं कुरु। कञ्चुकी—यदाज्ञापयति देवः। (इति निष्क्रान्तः।) (प्रविश्य।) गणदासः—देव, शर्मिष्ठायाः कृतिर्लयमध्या चतुष्पदास्ति। तस्याश्चतुर्थवस्तुनः प्रयोगमेकमनाः श्रोतुमर्हति देवः। राजा—आचार्य, बहुमानादवहितोऽस्मि। (निष्क्रान्तो गणदासः।) राजा—(जनान्तिकम्।) वयस्य, नेपथ्यपरिगतायाश्चक्षुर्दर्शनसमुत्सुकं तस्याः। संहर्तुमधीरत्या व्यवसितमिव मे तिरस्करिणीम् ॥ १ ॥ कविरिदानीमङ्कान्तरं प्रस्तौति—ततः प्रविशतीत्यादि। 'भगवति, अत्र- भवतोः' इत्यादिना 'गणदासः पुरस्कारमर्हति' इत्यन्तेन प्रतीयमानं राज्ञ उपायतो मालविकादर्शनप्रवर्तनं प्रयत्नो नाम द्वितीयावस्थितिरिति मन्तव्यम्। अत्र बिन्दुप्रयत्नयोः समन्वयात्प्रतिमुखसंधिरित्यनुसंधेयम् ॥ देव, शर्मिष्ठाया इ- त्यादि। शर्मिष्ठा नाम वृषपर्वणो राक्षसराजस्य दुहिता। तस्याः कृतिः काव्यम्। लयमध्या लयेन तालकालेन मध्या मध्यमानयुक्ता। चतुष्पदा चत्वारि पदानि खण्डानि यस्याः सा तथोक्ता। तस्याः कृतिसंबन्धिनश्चतुर्थवस्तुनश्चतुर्थस्य तुर्यस्य वस्तुनः प्रबन्धस्य प्रयोगमभिनयमेकमना अवहितः सन् श्रोतुमर्हति। अत्रशृङ्गा- रस्य प्रतिपाद्यमानत्वाल्लयमध्येत्युक्तम्। तथा चोक्तं भारतीये—'शृङ्गारहास्योर्म- ध्यलयः। करुणे विलम्बितः। वीररौद्राद्भुतबीभत्सभयानकेषु द्रुतः॥ 'नेपथ्य- परिगताया इति।' नेपथ्यपरिगताया यवनिकान्तरस्थितायास्तस्या मालवि- काया मे तिरस्करिणीं

द्वितीयोऽङ्कः । २७ विदूषकः—(अपवार्य ।) उवद्विदं णअणमहु संणिहिदमक्खिअं च । ता अप्पमत्तो दाणिं पेक्ख । (ततः प्रविशत्याचार्यावेक्ष्यमाणाङ्गसौष्ठवा मालविका ।) विदूषकः—(जनान्तिकम् ।) पेक्खदु भवं । ण खु से पडिच्छ- न्दादो परिहीअदि महुरदा । राजा—(अपवार्य ।) वयस्य, चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् । संप्रति शिथिलसमाधिं मन्ये येनेयमालिखिता ॥ २ ॥ गणदासः—वत्से, मुक्तसाध्वसा सत्त्वस्था भव । राजा—(आत्मगतम् ।) अहो सर्वस्थानानवद्यता रूपविशेषस्य । तथाहि । १. उपस्थितं नयनमधु संनिहितमक्षिकं च । तदप्रमत्त इदानीं पश्य । २. पश्यतु भवान् । न खल्वस्याः प्रतिच्छन्दात्परिहीयते मधुरता । यवनिकां संहर्तुमपनेतुं व्यवसितमिवोद्युक्तमिव । अत्रेष्टार्थविषयेच्छाया गम्यमा- नत्वाद्विलासो नाम संध्यङ्गमुक्तं भवति ॥ उपस्थितं नयनमधु संनिहितमक्षिकं च । तस्मादप्रमत्त इदानीं पश्य ॥ ततः प्रविशतीत्यादि । आचार्यावेक्ष्यमा- णाङ्गसौष्ठवा आचार्येण गणदासेनावेक्ष्यमाणमङ्गानां सौष्ठवं यस्याः सा तथोक्ता । सौष्ठवं नामाङ्गानां शोभनावस्था । यथोक्तम्—‘अनुच्चनीचचलतामङ्गानां समपा- दताम् । कटिकूर्परशीर्षांसकण्ठानां समरूपताम् ॥ रम्यां प्रतीकविश्रान्तिमुरसश्च समुन्नतिम् । अभ्यासोपहितामाहुः सौष्ठवं नृत्यवेदिनः ॥’ पश्यतु भवान् । न ख- ल्वस्याः प्रतिच्छन्दात्परिहीयते मधुरता ॥ अत्रापवार्येत्येतन्नियतश्राव्यार्थभेदस्या- पवारितस्य विवक्षितत्वे कविना प्राकप्रयुक्तमिति मन्तव्यम् । यथोक्तं वसन्त- राजीये—‘अर्थस्त्वेकेन विज्ञेयो नियतश्राव्य इष्यते । द्विविधः स परिक्षेयो जना- न्तश्चापवारितः ॥’ अत्र ‘परैरुलक्ष्यव्यापारं कथितोऽर्थोऽपवारितः । उक्त्वा प्राग- पवार्येति पश्चादेनं प्रयोजयेत् ॥’ इति ॥ चित्रगतायामित्यादि । मे हृदयं मनश्चित्रगतायामालेख्यगतायामस्यां मालविकायां कान्तिविसंवादशङ्कि कान्ते- श्शोभाया विसंवादं विपर्यास शङ्कत इति तथोक्तम् संप्रतीदानीम् । साक्षाद्दर्शने

२६ मालविकाग्निमित्रे दीर्घाक्षं शरदिन्दुकान्ति वदनं बाहू नतावंसयोः संक्षिप्तं निबिडोन्नतस्तनमुरः पार्श्वे प्रमृष्टे इव । मध्यः पाणिमितो नितम्बि जघनं पादावरालाङ्गुली छन्दो नर्तयितुर्यथैव मनसि श्लिष्टं तथास्या वपुः ॥ ३ ॥ मालविका—(उपगानं कृत्वा चतुष्पदवस्तु गायति ।) दुल्लहो पिओ मे तस्सि भव हिअअ णिरासं अह्मो अपङ्कवो मे परिप्फुरइ किं पि वामो । एसो सो चिरदिट्ठो कहँ उण उवणइदव्वो णाह मं पराहीणं तुइ परिगणअ सतिण्हम् ॥ ४ ॥ (ततो यथारसमभिनयति ।) १. दुर्लभः प्रियो मे तस्मिन्भव हृदय निराश- महो अपाङ्गो मे परिस्फुरति किमपि वामः । एष स चिरदृष्टः कथं पुनरुपनेतव्यो नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥ रहितेत्यर्थः । सत्त्वस्था सत्त्वगुणयुक्ता । अविकृता भवेत्यर्थः । यथोक्तम्—‘चि- त्तस्याविकृतिः सत्त्वं विकृतेः कारणे सति’ इति । अत्र विकृतिकारणं नायकसं- निधिः ॥ अहो इत्याश्चर्ये । सर्वस्थानानवद्यता सर्वेषु स्थानेषु सर्वावयवेष्वनवद्यता निर्दोषता । रमणीयतेत्यर्थः । दीर्घाक्षमियादि । वदनं मुखं दीर्घाक्षं दीर्घे आयते अक्षिणी लोचने यस्य तत्तथोक्तम् । शरदिन्दुकान्ति शरदिन्दोः शरच्चन्द्रस्य कान्तिखि कान्तिर्यस्य तत्तथोक्तम् । बाहू भुजावंसयोः स्कन्धयोर्नतौ नम्रौ । मध्योऽवलग्नं पाणिमितः पाणिना हस्तेन मितः परिमितः । जघनं नितम्बि नितम्बातिशययुक्तम् । पादौ चरणावरालाङ्गुली अराला आकुञ्चिता अङ्गु- लयो ययोस्तौ तथोक्तौ । अस्या मालविकाया वपुः शरीरं नर्तयितुर्नृत्याचार्यस्य छ- न्दोऽभिप्रायो यथा यादृशस्तथा तेन प्रकारेण श्लिष्टं संगतम् । अनेन नर्तक्या नृत्तार- म्भोचितावस्थानविशेष उक्तः । तथा चोक्तं वसन्तराजीये—‘अङ्गस्य चतुरस्रत्वं सम्पादौ लताकरौ । आरम्भे सर्वनृत्तानामेतत्सामान्यमिष्यते ॥’ इति ॥ उपगानं रागदीप्तं कृत्वा चतुष्पदवस्तु चतुष्पदसंज्ञकं प्रबन्धं गायति वस्त्विति प्रबन्धः । ‘प्रबन्धो रूपकं वस्तु निबन्धस्याभिधात्रयम्’ इत्युक्तत्वात् । दुर्लभः प्रियो मे तस्मि- न्भव हृदय निराशम् । अहो अपाङ्गो मे परिस्फुरति किमपि वामः । एष स चि- रदृष्टः कथं पुनरुपनेतव्यः । नाथ मां पराधीनां त्वयि परिगणय सतृष्णाम् ॥ ततो यथारस मत्र रसोऽयोगविप्रलम्भशृङ्गार

द्वितीयोऽङ्कः । २७ विदूषकः-(जनान्तिकम्।) भो, चउप्पदवत्थुअं दुवारीकरिअ तुइ उवठ्ठाविदो अप्पा तत्तहोदीए । राजा-सखे, एवमेव ममापि हृदयम् । अनया खलु जनमिममनुरक्तं विद्धि नाथेति गेये वचनमभिनयन्त्याः स्वाङ्गनिर्देशपूर्वम् । प्रणयगतिमदृष्ट्वा धारिणीसंनिकर्षा- दहमपि सुकुमारप्रार्थनाव्याजमुक्तः ॥ ५ ॥ (मालविका गीतान्ते निष्क्रमितुमारब्धा ।) १. भोः, चतुष्पदवस्तु कं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या । यथोक्तम्-'अप्राप्तिर्विप्रलम्भः स्याद्यूनोर्जाताभिलाषयोः । विप्रलम्भस्य भेदाः स्युरयोगो विरहस्ततः ॥ प्रवासः शापः करुणा मानश्चेति च षण्मताः॥' तत्र । 'संप्राप्ते पागसङ्गे यस्तमयोगं प्रचक्षते' इति । अत्र चतुष्पद्याः पादचतुष्टये क्रमेण निर्वेदः सविस्मयो हर्षश्चिन्ता दैन्यं चेति संचारिभावास्तत्तदनुभावैर्मुखरागादिभिः सम्य- क्प्रकाशिता इत्यनुसंधेयम् । तेषां लक्षणमुक्तं वसन्तराजीये-'इष्टार्थविरहव्याधि- निन्दासदनमानसैः । दारिद्र्यसंताननाशपरवृद्ध्यवलोकनैः । निष्फलत्वमतिर्नॄणां निर्वेदो जीवितादिषु ॥' अत्रेष्टार्थविरहजनितो निर्वेदः । 'अन्तर्बाष्पोपमध्यानानिः- श्वासस्यावमाननैः । दैन्यगद्गदवैवर्ण्यैरभिनेयो भवेदयम् ॥ हर्षो मनःसमुल्लासो गुरुदेवमहीभुजाम् । प्रसादात्प्रिय सङ्गाच्च भवेदिष्टार्थलाभतः ॥' अत्रेष्टार्थलाभज- नितो हर्षः । अपाङ्गस्फुरणस्नेष्टाथलाभहेतुत्वात् । 'मुखे नेत्रे प्रसन्नत्वात्प्रियोक्ति- पुलकोद्गमः । दानत्यागपरीरम्भैरभिनेयो भवेदयम् ॥ इष्टालाभादिष्टनाशादनि- ष्टाप्तेश्च दैन्यतः । चित्तस्यैकाग्रता चिन्ता' । अत्र चिन्तेष्टाल भजनिता । 'स्मरणं चानुपस्मृतिः॥ संतापोच्छ्वासनिश्वासा मान्द्यमिन्द्रियकर्मणाम् । अधोमुखत्वमित्याद्यै- रभिनेयो भवेदयम् ॥ अनौजस्त्वं तु मनसो दैन्यमित्यभिधीयते । मनःसंतापदारिद्र्य- चिन्तौत्सुक्यादिभिर्भवेत्॥' अत्रौत्सुक्यजनितं दैन्यम् । 'अङ्गानामपि शैथिल्यं देहसं- स्कारवर्जनम्। अधितं भरतेऽस्मिन्वै अनुभावाः प्रदर्शिताः॥' इति ॥ भोः, चतुष्पद- वस्तु कं द्वारीकृत्य त्वय्युपस्थापित आत्मा तत्रभवत्या ॥ जनमिममित्यादि । नाथ स्वामिन्, इमं जनम् । मामित्यर्थः । अनुरक्तं स्निग्धम् । त्वयीति शेषः । विद्धि जा- नीहि । इत्येवंविधे गेये गीते । वचनं 'णाह मं पराहीणं' इत्यादिवाक्यं स्वाङ्गनिर्देश- पूर्वमात्मशरीरप्रदर्शनपूर्वं यथा भवति तथाभिनयन्त्या हस्तादिभिः प्रकाशीकुर्वत्या। अनया मालविकया धारिणीसंनिकर्षाद्विहितां प्रणयगतिं मम स्नेहप्रवृत्तिमदृष्ट्वा- ज्ञात्वा । अनुभावानामप्रकाशनादिति भावः । सुकुमारप्रार्थनाव्याजं सुकुमारा मृ-

२८ मालविकाग्निमित्रे विदूषकः—भोदि१, चिट्ठ किंचि । वो विसुमरिदो कम्म- भेदो । तं दाव पुच्छिस्सम् । गणदासः—भद्रे, उपदेशविशुद्धा यातुमर्हसि । (मालविका निवृत्य स्थिता ।) राजा—(आत्मगतम् ।) अहो, सर्वास्ववस्थासु चारुता शोभान्तरं पुष्यति । तथा हि । वामं संधिस्तिमितवलयं न्यस्य हस्तं नितम्बे कृत्वा श्यामाविटपसदृशं स्रस्तमुक्तं द्वितीयम् । पादाङ्गुष्ठाल्लुलितकुसुमे कुट्टिमे पातिताक्षं नृत्तादस्याः स्थितमतिंतरां कान्तमृज्वायतार्थम् ॥ ६ ॥ देवी—२णं गोदसवअणं वि अज्जो हिअए करेदि । गणदासः—देवि, मा मैवम् । दैवप्रत्ययात्संभाव्यते सूक्ष्मद- र्शिता गौतमस्य । मन्दोऽप्यमन्दतामेति संसर्गेण विपश्चितः । पङ्कच्छिदः फलस्येव निकषेणाविलं पयः ॥ ७ ॥ १. भवति, तिष्ठ किंचित् । वो विस्मृतः कर्मभेदः । तं तावत्प्रक्ष्यामि । २. ननु गौतमवचनमप्यार्यो हृदये करोति । डुलारसनीयेत्यर्थः। सा चासौ प्रार्थना सैव व्याजोपदेशो यस्मिन्कर्मणि तत्तथो- क्तम् । अङ्गुक्त इवोदित इव ॥ भवति, तिष्ठ किंचित्क्षणमात्रम् । वो विस्मृतः कर्म- भेदः । तं तावत्प्रक्ष्यामि ॥ वाममित्यादि । संधिस्तिमितवलयं संधौ मणिबन्धे स्तिमितं निश्चलं वलयं कङ्कणं यस्य स तथोक्तः । तं वामं सव्यं हस्तं नितम्बे न्यस्य निधाय । श्यामाविटपसदृशं फलिनीशाखासंनिभं द्वितीयं दक्षिणं हस्तं स्रस्तमुक्तं स्रस्तं शिथिलं यथा भवति तथा मुक्तं विसृष्टम् । लम्बितमित्यर्थः । कृत्वा विधाय । पादाङ्गुष्ठाल्लुलितकुसुमे पादाङ्गुष्ठेनाल्लुलितमामृष्टं कुसुमं यस्य तत्तथोक्तं तस्मिन्कुट्टिमे । स्फटिकादिखचितस्थले पातिते व्यापारिते अक्षिणी यस्मिन्कर्मणि तथोक्तम् । ऋज्वायतार्थम् ऋजु अवक्रम्रायतं दीर्घं अर्धं शरीरस्योर्ध्वभागो यस्य तत्तथोक्तम् । अस्याः स्थितमवस्थानं नृत्तात्तर्त्तनादतिंतरामत्यर्थं कान्तं मनोहरं भवति । अत्र वाक्यस्य विशेषितलात्पुष्पं नाम संध्यङ्गमनुक्तं भवति ॥ ननु गौतमवचनमप्यार्यो हृदये करोति ॥ मन्दो संशोध्यैः । अस्य वाक्यस्योपप

द्वितीयाऽङ्कः । २९ (विदूषकं विलोक्य ।) ततः शृणुमो वयं विवक्षितमार्यस्य । विदूषकः—(गणदासं विलोक्य ।) कौसिईं दाव पुच्छ । पच्छा जो मए कम्मभेदो दिट्ठो तं भणिस्सं । गणदासः—भगवति, यथादृष्टमभिधीयताम् । गुणो वा दोषो वा । परिव्राजिका—यथादृष्टं सर्वमनवद्यम् । कुतः । अङ्गैरन्तर्निहितवचनैः सूचितः सम्यगर्थः पादन्यासो लयमनुगतस्तन्मयत्वं रसेषु । शाखायोनिर्मृदुरभिनयस्तद्विकल्पानुवृत्तौ भावो भावं नुदति विषयाद्रागबन्धः स एव ॥ ८ ॥ गणदासः—देवः कथं वा मन्यते । राजा—वयं स्वपक्षे शिथिलाभिमानाः संवृत्ताः । गणदासः—अद्य नर्तयितास्मि । १. कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि । तिमत्त्वादुपन्यासो नाम संध्यङ्गमुक्तं भवति । कौशिकीं तावत्पृच्छ । पश्चाद्यो मया कर्मभेदो दृष्टस्तं भणिष्यामि ॥ अङ्गैिरित्यादि । अन्तर्निहितवचनैरन्तर्नि- हितान्यभ्यन्तरस्थापितानि वचनानि पदानि यैस्तैरङ्गैर्हस्तादिभिः । अत्राभ्यासपा- टवादङ्गानां स्वत एवान्तर्निहितवचनत्वमुत्प्रेक्षितमिति मन्तव्यम् । अर्थो गीतार्थः सम्यक् साधु । सूचितः प्रकाशितः । पादन्यासः पादस्य न्यासो विन्यासः । लयम- नुगतोऽनुसृतः । लयो नाम तालमानम् । 'तालवर्ती तु यः कालः स काललयना- ल्लय.' इत्युक्तत्वात् । अत्र पादन्यासस्य स्वतो लयानुसरणमभ्यासपाटवादिति मन्तव्यम् । रसेषु रसविषयेषु तन्मयत्वं तादात्म्यम् । रसात्मता भवतीत्यर्थः । अत्र रसशब्देनोपचारात्परितोषातिशयवत्त्वादिभावाः कथ्यन्ते । प्रकृतरसस्यैकत्वा- द्रसेष्विति बहुवचनानुपपत्तिप्रसङ्गात् । अभिनयः प्रयोगः । यथोक्तम्—'प्रयोगो यस्तु नाट्यादेर्भवेदभिनयो हि सः' इति । शाखायोनिः शाखा योनिः प्रभवो यस्य स तथोक्तस्तथाविधः सन् । मृदुः सुकुमारः । शाखा नाम नृत्तहस्तानां मानप्रचारः । यथोक्तम्—'शाखा तु नृत्तहस्तानां या मात्रोचितनर्तना' इति । तद्विकल्पानु- वृत्तौ तस्याभिनयस्य विकल्पो भेदस्तस्यानुवृत्तिरनुगतिः प्राप्तिः । तस्यां सत्यां भावः अभिनीयमानो निर्वेदादिर्विषयादाश्रयात् । प्रकृतात्स्थान इत्यर्थः । भावं

३० मालविकाग्निमित्रे उपदेशं विदुः शुद्धं सन्तस्तमुपदेशिनः । श्यामायते न युष्मासु यः काञ्चनमिवाग्निषु ॥ ९ ॥ देवी—दिट्ठिआ अपरिक्खदाराहणेण अज्जो वड्ढइ । गणदासः—देवीपरिग्रह एव वृद्धिहेतुः । (विदूषकं विलोक्य ।) गौतम, वदेदानीं यत्ते मनसि वर्तते । विदूषकः—पुढमोपदेसदंसणे पुढमं बह्मणस्स पूआ कादव्वा । सा णं वो विसुमरिदा । परिव्राजिका—अहो प्रयोगाभ्यन्तरः प्रश्नः । (सर्वे प्रहसिताः ।) (मालविका स्मितं करोति ।) राजा—(आत्मगतम्।) उपात्तसारश्चक्षुषा मे स्वविषयः । यदनेन स्मयमानमायताक्ष्याः किंचिदभिव्यक्तदशनशोभि मुखम् । असमग्रलक्ष्यकेसरमुच्छ्वसदिव पङ्कजं दृष्टम् ॥ १० ॥ गणदासः—महाब्राह्मण, न खलु प्रथमं नेपथ्यप्रदर्शनमिदम् । अन्यथा कथं त्वामर्चनीयं नार्चयिष्यामः । विदूषकः—मँए णाम मुद्धचादएण विअ सुक्खवणगज्जिदे १. दिष्ट्यापरिक्षताराधनेनार्यो वर्धते । २. प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । ३. मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेऽन्तरिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभवत्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि । पूर्वासिनीतं संचारिणं शुद्धल्याकरोति । रागबन्धो रञ्जनप्रयोगः स एव । पूर्वं यादृशस्तादृश एवेत्यर्थः ॥ उपदेशं विदुरित्यादि । उपदेशिनः शिक्षकस्य । युष्मासु युष्मादृशेषु । विवेकिष्वित्यर्थः । न श्यामायते न मलिनीभवति । ‘लोहि- तादिडाज्भ्यः क्यष्’ । ‘वा क्यषः’ इति विकल्पादात्मनेपदम् ॥ दिष्ट्या अपरिक्ष- ताराधनेनार्यो वर्धते ॥ प्रथमोपदेशदर्शने प्रथमं ब्राह्मणस्य पूजा कर्तव्या । सा ननु वो विस्मृता । अत्र परिहासस्य गम्यमानत्वान्नर्मेति संध्यङ्गमुक्तं भवति ॥ स्पष्टोऽर्थ मया नाम मुग्धचातकेनेव शुष्कघनगर्जितेन्त

द्वितीयोऽङ्कः । ३१ अन्तरिक्खे जलपाणं इच्छिदं । अथवा पण्डिदसंतोसपच्चया णं मूढजादी जदो अत्तहोदीए सोहणं भणिदं तदो से इमं पारि- तोसिअं पअच्छामि । (इति राज्ञो हस्तात्कटकमाकर्षति ।) देवी—चिंष्ट दाव । गुणन्तरं आणन्तो किंणिमित्तं तुमं आ- हरणं देसि । विदूषकः—पेरकेरंति करिअ । देवी—(आचार्य विलोक्य ।) अज्ज गणदास, दंसिदोवदेसा दे सिस्सा । गणदासः—वत्से, प्रतिष्ठस्वेदानीम् । (मालविका सहाचार्येण निष्क्रान्ता ।) विदूषकः—(जनान्तिकम् ।) एँत्तिओ मे मादिविहवो भवन्तं सेविदुं । राजा—अलमलं परिच्छेदेन । अहं हि भाग्यास्तमयमिवाक्ष्णोर्हृदयस्य महोत्सवावसानमिव । द्वारपिधानमिव धृतेर्मन्ये तस्यास्तिरस्करणम् ॥ ११ ॥ १. तिष्ठ तावत् । गुणान्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि । २. परकीयमिति कृत्वा । ३. आर्य गणदास, दर्शितोपदेशा ते शिष्या । ४. एतावान्मे मतिविभवो भवन्तं सेवितुम् । रिक्षे जलपानमिष्टम् । अथवा पण्डितसंतोषप्रत्यया ननु मूढजातिः । यतोऽत्रभ- वत्या शोभनं भणितं ततोऽस्यै इदं पारितोषिकं प्रयच्छामि ॥ तिष्ठ तावत् । गुणा- न्तरमजानन्किंनिमित्तं त्वमाभरणं ददासि ॥ परकीयमिति कृत्वा ॥ आर्य गण- दास, दर्शितोपदेशा ते शिष्या । अनेन मालविकानिर्गमनहेतुना देवीवचनेन राज्ञो हितरोधनान्निरोधो नाम संध्यङ्गमुक्तं भवति ॥ एतावान्मे मतिविभवो भवन्तं सेवितुम् ॥ भाग्यास्तमयमित्यादि । तस्या मालविकायास्तिरस्करणं तिरोधानमक्ष्णोर्नेत्रयोर्भाग्यास्तमयमिव भाग्यस्य भागधेयस्यास्तमयमिव नाशमिव। हृदयस्य मनसो महोत्सवस्यावसानमन्तमिव । धृतेः प्रीतेर्द्वारपिधानमिव द्वारस्य प्रवेशमार्गस्य पिधानं तिरोधानमिव । मन्ये संभावयामि । अत्रार्तेर्गम्यमानत्वाद्वि-

३२ मालविकाग्निमित्रे विदूषकः—(जनान्तिकम् ।) दलिद्दो विअ आदुरो वेज्जेण ओ- सदं दीअमाणं इच्छसि । (प्रविश्य ।) हरदत्तः—देव, मदीयमिदानीं प्रयोगमवलोकयितुं क्रियतां प्रसादः । राजा—(आत्मगतम् ।) अवसितो दर्शनार्थः । (दाक्षिण्यमवलम्ब्य प्रकाशम् ।) ननु पर्युत्सुका एव वयम् । हरदत्तः—अनुगृहीतोऽस्मि । (नेपथ्ये ।) वैतालिकः—जयतु जयतु देवः । उपारूढो मध्याह्नः । तथा हि । पत्रच्छायासु हंसा मुकुलितनयना दीर्घिकापद्मिनीनां सौधान्यत्यर्थतापाद्गलभिपारचयद्वेषिपारावतानि । बिन्दुक्षेपान्पिपासुः परिसराति शिखी भ्रान्तिमद्वारियन्त्रं सर्वैरुक्तैः समग्रस्त्वमिव नृपगुणैर्दीप्यते सप्तसप्तिः ॥ १२ ॥ विदूषकः—अविहा अविहा । अह्माणं उण भोअणवेला उव- द्विदा । उद्दवेलादिक्कमे चिहृच्छुआ दोसं उदाहरन्ति । (हरदत्तं विलोक्य ।) किं दाणिं भणसि । हरदत्तः—नास्ति वचनस्यान्यस्यावकाशोऽत्र । राजा—तेन हि त्वदीयमुपदेशं श्वो वयं द्रक्ष्यामः । विश्राम्यतु भवान् । हरदत्तः—यदाज्ञापयति देवः । (इति निष्क्रान्तः ।) १. दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि । २. अविध अविध । अस्माकं पुनर्भोजनवेलोपस्थिता । उचितवेलातिक्रमे चिकित्सका दोषमुदाहरन्ति । किमिदानीं भणसि । ध्रुतं नाम संध्यङ्गमुक्तं भवति ॥ दरिद्र इवातुरो वैद्येनौषधं दीयमानमिच्छसि ॥ पत्रच्छायायेत्यादि । स्पष्टोऽर्थः ॥ अविध अविध । अस्माकं पुनर्भोजनवेलोप- स्थिता । चिकित्सका किमिदानीं भणसि

द्वितीयोऽङ्कः । ३३ देवी—१णिब्बट्टेदु अज्जउत्तो मज्जणविहिम् । विदूषकः—२भोदि, विसेसेण पाणभोअणं तुवरावेहि । परिव्राजिका—(उत्थाय ।) स्वस्ति भवते (इति सपरिजनया देव्या सह निष्क्रान्ता ।) विदूषकः—भो³ वअस्स, ण केवलं रूवे, सिप्पेवि अहुदीआ मालविआ । राजा—वयस्य, अव्याजसुन्दरीं तां विज्ञानेन ललितेन योजयता । परिकल्पितो विधात्रा बाणः कामस्य विषदिग्धः ॥ १३ ॥ किं बहुना । सखे, चितयन्तव्योऽसि । विदूषकः—४भवदावि अहं । दिढं विपणिकन्दु विअ मे उअ- रब्भन्तरं दज्जइ । राजा—एवमेव भवान्सुहृदर्थेऽपि त्वरताम् । विदूषक—५गहीदो खणो । किं तु मेहावलीणिरुद्धा जोण्हा विअ पराहीणदंसणा तत्तहोदी । भवं वि सूणापरिसरचरो विअ १. निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् । २. भवति, विशेषेण पानभोजनं त्वरय । ३. भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका । ४. भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । ५. गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना तत्र- भवती । भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च । तदनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे । निर्वर्तयत्वार्यपुत्रो मज्जनविधिम् ॥ भवति, विशेषेण पानभोजनं त्वरय ॥ भो वयस्य, न केवलं रूपे, शिल्पेऽप्यद्वितीया मालविका ॥ अव्याजसुन्दरीमि- त्यादि । ललिते सुभगेन विज्ञानेन संगीतकलापरिज्ञानेन ॥ भवताप्यहम् । दृढं विपणिकन्दुरिव म उदराभ्यन्तरं दह्यते । विपणिकन्दुनीम पण्यवीथिकायां पिष्टपचनपात्रम् । 'कन्दुनी स्वेदनी स्त्रियाम्' इत्यमरः ॥ एवमेवेत्यादि । एवमेवेत्थमेव । यथा भवान्भोजनरूपे स्वकार्ये त्वरते तथा सुहृदर्थे मदर्थे माल- विका पुनर्दर्शने त्वरताम् । अत्र दृष्टनष्टस्य बीजस्यानुसर्पणात्परिसर्प इति संध्यङ्ग- मुक्तं भवति ॥ गृहीतः क्षणः । किं तु मेघावलीनिरुद्धा ज्योत्स्नेव पराधीनदर्शना

३४ मालविकाग्निमित्रे विहंगो आमिसलोलुओ भीरुओ अ। ता अणादुरो भविअ कज्जसिद्धिं पत्थेन्तो मे रोअसि। राजा-कथमनातुरो भविष्यामि। सर्वान्तःपुरवनिताव्यापारप्रतिनिवृत्तहृदयस्य। सा वामलोचना मे स्नेहस्यैकायनीभूता ॥ १४ ॥ (इति निष्क्रान्ताः सर्वे।) इति द्वितीयोऽङ्कः। ――――― तत्रभवती। भवानपि सूनापरिसरचर इव विहङ्ग आमिषलोलुपो भीरुकश्च तस्मादनातुरो भूत्वा कार्यसिद्धिं प्रार्थयमानो मे रोचसे। अत्र सान्त्वनस्य गम्य- मानत्वात्पर्युपासनं नाम संध्यङ्गमुक्तं भवति ॥ सर्वान्तःपुरेत्यादि। यत्स्नेहस्य प्रेम्ण एकायनीभूता। एकं केवलमयनं स्थानम्। आश्रय इत्यर्थः। तद्भूता। अत्राङ्के मालविकाया निष्क्रमणेन कथाविच्छेदे सति सर्वान्तःपुरेत्यादिना गम्य- मानो राज्ञोऽभिलाषातिशय उत्तराङ्ककथाहेतुत्वाद्बिन्दुरित्यनुसंधेयम् ॥ इति श्रीकाटयवेमभूपविरचिते कुमारगिरिराजीये मालविकाग्निमित्र- व्याख्याने द्वितीयोऽङ्कः ॥