मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
उपाधिवादः 373 3 उपाधिशब्दप्रवृत्तिनिमित्तमिदमुच्यते । अन्यत्र वस्तुनि स्वीयधर्मस्यारोपहेतुता ॥ जपायुपाधिः स्फटिकारुण्यबुद्धेर्हि तादृशः । दर्पणो मुखमालिन्यबुद्धेश्चोपाधिरिष्यते ॥ तथा स्वधर्मभूतायाः व्याप्तेः बुद्धिं करोति या । मैत्रीसुतत्वे हेतौ सा शाकपाकजता मता ॥ निरुपाधिकसंबन्धरूपव्याप्तिपरिग्रहात् । उपाधिशब्दाभिधेयापरित्यागेन दूषणे ॥ तात्पर्यं समशब्दस्य प्रयोक्तॄणां प्रतीयते । इतरेषां तु तात्पर्यमेतदध्यवसीयते ॥ व्यापकस्य निवृत्त्यैव व्याप्यं हि विनिवर्तते । पक्षे साध्यस्य बाधेनोपाधेर्दूषणता मता ॥ व्यर्थस्स्यात्समशब्दस्य प्रयोग इति निर्णयः । 4 व्यभिचारोन्नायकत्वेनोपाधेर्दूषकात्मता ॥ नव्यनैयायिकैरुक्ता सा किंचिदुपदर्श्यते । हेतुस्त्वसौ साध्यव्यापकोपाधिव्यभिचारतः ॥ साध्येन व्यभिचारी स्यात् यदित्थं तत्तथेष्यते । एवं सामान्यमुखतः दोषस्योन्नयनं विदुः ॥ 5 स उपाधिशङ्कितश्च निश्चितश्चेति च द्विधा । योग्यं चायोग्यमिति च द्वयं चोभयथा मतम् ॥
374 मानमयरहस्यश्लोकवार्तिकं योग्यं योग्यानुपलब्ध्याऽयोग्यं तर्केण धूयते । भूयोदर्शनतश्शक्या दृश्योपाधेः निराक्रिया ॥ अदृश्योपाधिशङ्का तु तर्कैरिति विदुः परे । उपाधित्वेन शङ्क्यस्य संबन्धो निरुपाधिकः ॥ अन्यथोपाधिता नास्ति तद्वदन्यत्र गृह्यताम् । अप्रयोजकताहेतुरुपाधिरिति निर्णयः ॥ यत्रानुकूलतर्कस्यासंभवस्सोऽप्रयोजकः । 6 नोपाधिः पक्षतोऽन्यत्वं साधनं च विपक्षतः ॥ बाधनं न सपक्षेभ्यः सर्वानुमितिबाधनात् । पक्षाद्भेदः विपक्षाच्च भेदः भेदः सपक्षतः ॥ नोपाधिर्न च हेतुस्स्यात्प्रतिरोधो नचैव हि । नोपाधिरिति पद्यस्य फलितार्थस्त्वसौ स्थितः । भूयोदर्शनतो व्याप्तिग्रहो न्यायविदीरितः । सकृद्दर्शनतो व्याप्तिग्रहस्स्यादेकदेशिनाम् ॥ 7 व्याप्याङ्गीकरणेऽनिष्टव्यापकस्य प्रसञ्जनम् । तर्कस्स चोभयविधविषयोपेत इष्यते ॥ प्रामाणिकपरित्यागोऽप्रामाणिकपरिग्रहः । एष चात्माश्रयान्योन्याश्रयचक्रकभेदतः ॥ प्रतिबन्धनवस्था च तथाऽनिष्टप्रसञ्जनम् । इत्येवंभेदतश्चापि प्रोक्तः षड्धा च पञ्चधा ॥
लिङ्गविचारः ३ व्याप्तिः तर्काप्रतिहतिः अवसानं विपर्यये । अनिष्टाननुकूलत्वे इति तर्काङ्गपञ्चकम् ॥ गौरवं लाघवं चेति तर्कः सार्वत्रिकावुभौ । गौरवं कल्पनाधिक्यं लाघवं त्वल्पकल्पना ॥ तर्कशब्दं पुनः केचिदनुमाने प्रयुञ्जते । अनुमानविशेषोऽयमिति केचित्प्रचक्षते ॥ सहकार्यनुमानस्य मानस्येति विदुः परे । तर्कः पृथक् मानमिति प्राहुर्जैनविपश्चितः ॥ ४ व्याघातपर्यवसितं सर्वं दूषणमिष्यते । उपलम्भे त्ववसितं सर्वं साधनमुच्यते ॥ (77) लिङ्गविचारः. 1 लिङ्गं व्याप्यं च हेतुश्चोपपत्तिर्युक्तिरेवच । साधनं स्थापना चेति पर्याय इति निर्णयः ॥ अन्यथाऽनुपपत्त्येकलक्षणं लिङ्गमिष्यते । पित्रोश्च ब्राह्मणत्वेन पुत्रब्राह्मणताऽनुमा ॥ सर्वलोकप्रसिद्धा न पक्षधर्ममपेक्षते । प्रयोगपरिपाटी तु प्रतिपाद्यानुसारतः ॥ प्रतिज्ञा हेतुरेवेति द्वयस्यैव प्रयोज्यता । व्युत्पादनाय मन्दानां दृष्टान्तादेरपीष्यते ॥
376 मानमेयरहस्यश्लोकवार्तिके 2 इत्यार्हतानां सिद्धान्तः ह्यथ वेदान्तिभिः परैः । व्याप्तिश्च पक्षधर्मत्वं उभयं लिङ्गलक्षणम् ॥ व्याप्त्यभावे पुनर्व्याप्यत्वासिद्धिरिति निश्चिता । पक्षधर्मत्वस्य हानौ स्वरूपासिद्धिरिष्यते ॥ अव्याप्तापक्षधर्मौ द्वौ हेत्वाभासौ समासतः । तयोरेव प्रपञ्चेन स्यादसिद्धादिकल्पना ॥ इति न्यायपरिशुद्धिकारसिद्धान्तसंग्रहः । व्याप्तिस्तथा समुचितदेशवृत्तित्वमेव च ॥ द्वयं प्रमाणपद्धत्यां लिङ्गरूपं निरूपितम् । 3 अथ त्रिलक्षणविदामेतद्वार्त्सीभुवां मतम् ॥ पक्षे सत्त्वं सपक्षे च सत्त्वं चैव विपक्षतः । व्यावृत्तत्वमिति त्रीणि लिङ्गरूपाणि ते विदुः ॥ हेत्वाभासा अपि ततस्त्रय एव हि तन्मताः । आभासोऽपि हि सर्वत्र स्वस्वरूपविपर्ययः ॥ 4 पञ्चलक्षणकं लिङ्गमाहुर्न्यायविदः पुनः । पक्षे सत्त्वं सपक्षे च सत्त्वमेवं विपक्षतः ॥ व्यावृत्तत्वं तथैवासत्प्रतिपक्षत्वमेव च । अबाधितत्वमित्येतदत्र लक्षणपञ्चकम् ॥ 5 एकैकापायतस्तेषां हेत्वाभासास्तु पञ्चधा । अत्रार्हतस्याक्षेपोऽयं देवसूरेर्निशम्यताम् ॥
लिङ्गविचारः 377 अज्ञातस्य हि लिङ्गस्य हेतुता न च कस्यचित् । प्रसज्यते तार्किकाणां ज्ञातत्वमधिकं ततः ॥ हेतोश्च ज्ञापकत्वेन ज्ञातत्वं यदि लभ्यते । विपक्षव्यावृत्तिमात्रादबाधोप्यत्र लभ्यते ॥ अन्यथानुपपत्त्यैकरूपस्यैतत्प्रपञ्चनम् । षड्रूपता तथा पञ्चरूपता वा त्रिरूपता ॥ 6 यन्न्यायपरिशुद्धयुक्तमन्यथारूपपञ्चकम् । तदप्यत्रावधातव्यं प्रक्रियामात्रभेदतः ॥ असिद्धार्थत्वं च साध्यज्ञापनाय प्रवृत्तता । विशिष्यानास्कन्दितता व्याप्तिग्राहकमानतः ॥ संदिह्यमानविषयवत्ता व्यक्तिविभिन्नता । पक्षस्थहेतुव्यक्तौ स्यादित्येतद्रूपपञ्चकम् ॥ दृष्टान्तव्यक्तिवृत्तौ तु हेतौ तेषां विपर्ययः । सिद्धार्थत्वादिकं रूपपञ्चकं तत्र शाश्वतम् ॥ ततश्च दश रूपाणि सद्धेतोरसतः पुनः । न्यूनानीति विदुर्धीराः व्यासाभिरुचयस्तु ते ॥ 7 लिङ्गं तु त्रिविधं कार्यस्वभावानुपलब्धयः । इति वैभाषिकाः प्राहुरिति सर्वत्र विश्रुतम् ॥ पक्षधर्मस्तदंशेन व्याप्तो हेतुस्त्रिधैव सः ।
378 मानमेयरहस्यश्लोकवार्तिके हेतुबिन्दुवचस्त्वेतत्कीर्तितं धर्मकीर्तिना । स एव भिक्षुः बहुधा कुमारिलहृदिस्थितः ॥ यद्यप्यनुपलब्धिस्सा स्वभावान्तर्निपातिनी । तथापि प्रतिषेधस्य साधनात्पृथगुच्यते ॥ सा चैकादशधेत्येके परे षोडशधेति च । प्राहुर्विभागवैचित्र्यात् पृथक्कृतिफलं न्विदम् ॥ तथा प्रसङ्गानुमानं तद्विपर्यय इत्यपि । विभागोऽस्ति तदर्थं तु वक्तीत्थं किरणावली ॥ तत्स्वभावानुमानं यत् प्रसङ्ग इति कथ्यते । व्यापकानुपलब्धिर्या स विपर्यय इष्यते ॥ 8 मात्रानिमित्तसंयोगिविरोधिसहचारिभिः । स्वस्वामिवध्यघाताद्यैः सांख्यानां सप्तधाऽनुमा ॥ 9 अस्येदं कारणं कार्यं संबन्ध्येकार्थयोगिता । विरोधि लैङ्गिकमिति चतुर्धा कणभोजिनाम् ॥ 10 इति वाचस्पतिः प्राह नैयायिकमते पुनः । पूर्ववच्छेषवच्चैव दृष्टं सामान्यतस्त्रिधा ॥ इत्यक्षपादसूत्रोक्तं कार्यं कारणमेवच । अकार्यकारणं चेति तस्यार्थः कैश्चिदिष्यते ॥ 11 तथैव शाबरे भाष्ये त्वौपवर्षं द्विधेरितम् । यथा प्रत्यक्षतोदृष्टसंबन्धं प्रथमं मतम् ॥
परं सामान्यतोदृष्टसम्बन्धमिति कीर्तितम् । विशेषतोदृष्टमेव प्रत्यक्षत इतीर्यते ॥ सामान्यतोदृष्टमेव स्याद्वैभाषिकसम्मतम् । परोक्षमानं सामान्यगोचरन्विति तन्मतम् ॥ वैशेषिकादयस्तत्र त्वित्थं व्यवहरन्ति हि । दृष्टं चादृष्टमिति च शब्दमात्रप्रभेदतः ॥ 12 सामान्यतोदृष्टमेव द्वितीयमिह कथ्यते । तदेव परिशेषानुमानं व्याख्यातृसम्मतम् ॥ क्रियादिविषयादृष्टस्वलक्षणमितीतरे । दृष्टस्वलक्षणं सर्वमिति केचित् विदुः परे ॥ तेन सामान्यतोदृष्टं दृष्टं चापि विशेषतः । इति द्विधाऽनुमानं स्यादितरेषां विपश्चिताम् ॥ साङ्ख्या गोहिं विज्ञानं दृष्टमित्यभिधीयते । अत्यन्तजात्यभेदेऽपिचानुमानं तदिष्यते ॥ अत्यन्तजातिभेदे तु दृष्टं सामान्यतो मतम् । यथा प्रवृत्तिस्सफला वणिक्कर्षकभूभुजाम् ॥ तथा वर्णाश्रमवतां दृष्टार्थानभिलाषिणाम् । इति प्रशस्तपादेन द्वयमेतदुदाहृतम् ॥ दृष्टं वह्न्यादिकं तत्रादृष्टं कर्मादिकं त्विति । अनुमानप्रमेयं च द्विविधं गुरवो विदुः ॥
विशेषविषयं त्वाद्यं परं सामान्यगोचरम् । नातीन्द्रियेऽनुमानं स्यादिति कौमारिलं मतम् । प्रत्यक्षदृष्टसंबन्धं ययोरेव विशेषयोः । गोमयेन्धनतज्जन्यविशेषादिमतिः कृता ॥ तद्देशस्थेन धूमेन तत्र कालान्तरे पुनः । यदाऽग्निर्बुध्यते पुंसा विशेषविषयं तु तत् ॥ संदिह्यमानसद्भाववस्तुबोधात्प्रमाणता । विशेषदृष्टमेतच्च लिखितं विन्ध्यवासिना ॥ प्राप्तिसामान्येन यत्र गतिसामान्यधीर्भवेत् । आदित्यादौ तत्र दृष्टं सामान्यमिति वार्तिकम् । अर्थापत्त्यैव शक्त्यादेस्सिद्धिमेते विदुर्बुधाः । अनुमानेन शक्त्यादेस्सिद्धिं प्राभाकरा विदुः ॥ तेनेश्वराद्यसिद्धौ तु वेदस्यापौरुषेयता । निराबाधेति हृदयं कौमारिलमिति स्थितम् ॥ 13 सांख्यास्सामान्यतोदृष्टमतीन्द्रियपदं विदुः । तेन क्रिया सकरणिकेतीन्द्रियं साधयन्ति ते ॥ अनुमानं पुनस्सामान्यावधारणलक्षणम् । यथादेशान्तरप्राप्तेर्गतिमच्चन्द्रतारकम् ॥ प्रत्यक्षं तु विशेषस्य प्राधान्येनावधारणा । इति पातञ्जले योगभाष्येऽप्येतद्विवेचितम् ॥
14 नैयायिकानां व्याख्यानमित्थमत्रावधार्यते । वह्न्यादिकं विशेषेण दृष्टमित्यभिधीयते ॥ रूपाद्रसानुमानं तु दृष्टं सामान्यतो मतम् । शृङ्गाद्विशफवत्त्वं वा सामान्येनावधार्यते ॥ परिशेषानुमानं वा सामान्यत इतीर्यते । अथवाऽतीन्द्रियं वस्तु सामान्यविषयं मतम् ॥ अतीन्द्रियानुमानस्य परिशेषानुमानतः । विशेषः कथितः सूक्ष्मः जयन्तेन स उच्यते ॥ इच्छादिकं शरीरादिविलक्षणसमाश्रयम् । शरीरादिषु बाधायां कार्यत्वादिति तत्क्रमः ॥ परिशेषानुमानस्य प्रवृत्तिक्रम एष हि । इच्छादेर्नाश्रयो देहः प्रसक्तोऽन्योऽपि नाश्रयः ॥ इत्येवं प्रतिषेधेन शिष्यमाणस्तदाश्रयः । इत्थं विशेषमालक्ष्य द्विधा व्याख्यत्स पक्षिलः ॥ 15 अथौपनिषदानां तु व्याससूत्रावलम्बिनाम् । अभिप्रायस्त्वसौ न्यायपरिशुद्धौ प्रकाशितः ॥ विशेषतोदृष्टमेतद्विशेषानुगमे सति । भवेत्सामान्यतोदृष्टं सामान्यानुगमे सति ॥ अस्मदध्यक्षयोग्यार्थानुमानं स्याद्विशेषतः । तदयोग्यार्थानुमानं आहुस्सामान्यतः बुधाः ॥
82 मानमेयरहस्यश्लोकवार्तिके तेनेन्दुपरभागादिसिद्धिः शैलापरान्तवत् । व्यक्तेरैक्येऽपिवा देशकालावस्थाभिदावशात् ॥ शृङ्गाच्छैलः स्वरात्पुत्रः रोहिणी कृत्तिकोदयात् । विशेषतोदृष्टमेतत् परं धूमादिकं भवेत् ॥ एतेऽतीन्द्रियवस्तूनां शास्त्रतस्सिद्धिवादिनः । बादरायणसिद्धान्तशास्त्रयोनिनये स्थितः ॥ भवन्तं च भविष्यन्तं भूतं व्यवहितं तथा । सूक्ष्मं च विप्रकृष्टं चेत्येवंजातीयकं तथा ॥ वेदो बोधयितुं शक्तः नान्यदित्यस्ति शाबरम् । तद्युक्तं ततश्चानुमानं त्रैकाल्यगोचरम् ॥ सर्वार्थविषयं चेति न्यायवित्प्रवरोदितम् । विवादोऽयमनादिस्स्यात् उक्तियुक्त्योः परस्परम् । 16 स्वार्थं परार्थमिति च द्विविधं हि विभज्यते । नैयायिकैः तत्र दोषमिममाहुः परे बुधाः ॥ सर्वाणि चानुमानानि स्वानुसंधानशक्तितः । प्रवृत्तानि स्वव्यवहृतिसाधनानीति हि स्थितम् । चेद्विभज्य च वक्तव्यमेवं वक्तुं हि साम्प्रतम् । स्वयंसिद्धं चान्यवाक्यपूर्वकं चेति भेदतः ॥ स्वार्थं परार्थमिति हि प्रत्यक्षादावपीष्यताम् । दोषज्ञाः सूक्ष्ममतयः श्रोतारो नहि केवलम् ॥
व्याप्तिः ३ नचापूर्वास्तीर्थकराः न भवन्तीति निर्णयः । तथात्वे प्रथमैकान्तपरिशेषः प्रसज्यते ॥ (78) व्याप्तिः. 1 अथ व्याप्तिपदार्थीयविकल्पस्यापि संग्रहः । तत्प्रमाणविकल्पोऽपि संग्रहादिह सूच्यते ॥ अविनाभावनियमः व्याप्तिस्सौगतसम्मता । सा च साध्यवदन्यस्मिन्नसंबन्धो निरुच्यते ॥ व्यतिरेकस्सुग्रहस्स्याद्दुर्ग्रहो यावदन्वयः । अतएवाविनाभाव इत्युक्तिः व्यतिरेकतः ॥ व्यतिरेकव्याप्तिरेवानुमानाङ्गतया मता । वैधर्म्यतश्च दृष्टान्तः विपक्षाद्विनिवृत्तये ॥ कार्यकारणभावो वा स्वभावो वाऽत्र गृह्यते । व्याप्तिग्रहोपायतया तैर्बौद्धैरिति निर्णयः ॥ 2 नैयायिकैस्साहचर्यनियमो व्याप्तिरिष्यते । तच्च व्यापकसामानाधिकरण्यमितीर्यते ॥ साहचर्यं चान्वयतः तथैव व्यतिरेकतः । द्वेधाऽपि सम्मतं तेन लिङ्गं त्रिविधमुच्यते ॥ साहचर्येऽत्र घटकः संबन्धः बहुधा मतः । नौलुक्यवच्चतथैव सांख्यवन्नापि सप्तधा ॥
384 "मानमेयरहस्यश्लोकवार्तिके इयानेव विशेषोऽत्र भावयोर्यादृशी ययोः । व्याप्यव्यापकता सैव व्यत्यस्ता तदभावयोः ॥ अग्नेर्भावस्य भूयस्त्वात्तदभावोऽल्पतां व्रजेत् । धूमभावस्य चाल्पत्वात् तदभावो महत्तरः ॥ व्यभिचारज्ञानशून्यसहचारस्य दर्शनम् । हेतुर्व्याप्तिग्रहे तर्कः क्वचिच्छङ्कानिवर्तकः ॥ यावतीनां साध्यहेतुव्यक्तीनां स्यादलौकिकम् । सामान्यलक्षणासत्त्या सहचारस्य दर्शनम् ॥ 3 मीमांसकानां सिद्धान्ते व्याप्तिस्तत्त्वमिदं मतम् । व्याप्तिर्हि नियमः कश्चित् संबन्धोऽस्ति विलक्षणः संबन्धो व्याप्तिरिष्टाऽत्र लिङ्गधर्मस्य लिङ्गिना । व्याप्यस्य गमकत्वं च व्यापकं गम्यमिष्यते ॥ यो यस्य देशकालाभ्यां समो न्यूनोऽपिवा भवेत् । स व्याप्यः व्यापकस्तस्य समो वाऽभ्यधिकोऽपि वा येन केनापि संबन्धेनैष क्वापि नियम्यते । स एव लिङ्गधर्मस्य लिङ्गता समुदाहृता ॥ तथा च नियमाख्यो यस्संबन्धो व्याप्तिलक्षणः । तदभावादागमोऽपि प्रमाणं स्याद्विलक्षणम् ॥ व्याप्तिस्सपक्षदृष्टैवानुमानाङ्कतया मता । सर्वदेशव्याप्तिरत्र दुर्ग्रहैव विपश्चिताम् ॥
व्याप्तिः 38. भूयोदर्शनगम्या च व्याप्तिस्सामान्यधर्मयोः । क्वचिच्च कृत्तिकारोहिण्याद्ययोर्हि विशेषयोः ॥ कैश्चित् यावद्देशकालव्याप्तिधीरङ्गमिश्यते । मानं मृगयमाणाश्च प्रत्यक्षं तत्सकृद्विदुः ॥ बालोऽपि दीपकलिकास्पर्शाद्वेत्ति तथा सकृत् । योगिप्रत्यक्षतुल्यं तन्मानसं केचिदब्रुवन् ॥ भूयोदर्शनसंजातसंस्कारसचिवं पुनः । प्रत्यक्षं चरमं व्याप्तौ मानं केचित्प्रचक्षते ॥ यत्रयत्र भवेद्धूमः तत्रतत्राग्निरित्यसौ । यस्स्यादवगमः स्सोऽयं परोक्षो ह्यानुमानिकः ॥ इति कौमारिलाः प्राहुः नाङ्गं यावन्मतिस्ततः । अन्वयो व्यतिरेकश्च यथासंभवमिष्यते ॥ नियम्यत्वनियन्तृत्वे भावयोर्यादृशी मते । ते एव विपरीते तु विज्ञेये तदभावयोः ॥ गमकस्यैकदेशस्य व्याप्तिं गम्येन भाषितुम् । साध्यसाधर्म्यवैधर्म्यदृष्टान्तः प्रतिपाद्यते ॥ तत्र हेत्वर्थमुद्दिश्य साध्योपादानमिष्यते । उद्देश्यो व्याप्यते धर्मः व्यापकश्चोत्तरो मतः ॥ यद्वृत्तयोगः प्राथम्यमित्याद्युद्देश्यलक्षणम् ।
386 मानमेयरहस्यश्लोकवार्तिके उद्देश्यतावच्छेदकव्यापकत्वं हि भासते । विधेयस्येत्येतदेव विवृतं नव्यतार्किकैः ॥ साध्येन साधनस्याथ व्याप्तिमन्थे प्रचक्षते । व्याप्तिरावृत्तिरेषा स्यादथवाऽधिकदेशता ॥ भूमौ प्रतिष्ठितो वह्निः धूमाग्रं व्योम्न्यवस्थितम् । व्याप्नोति कथमित्यत्र प्रत्यवस्थीयते परैः ॥ 4 निरूपाधिकसम्बन्धो व्याप्तिरित्यपरे विदुः । उपाधिस्साधनाव्याप्तिसाध्यव्याप्त्यादिगर्भितः ॥ तत्रोपाधिव्याप्तिवस्तुनिर्णयेऽन्योन्यसंश्रयः । तत्रचेत्थं समाधानं परिशुद्धावुदीरितम् ॥ यो यावत्साध्यदेशस्थः न यावद्धेतुदेशगः । स उपाधिरिति ज्ञानान्न दोष इति निश्चितम् ॥ 5 अन्तर्व्याप्तिः बहिर्व्याप्तिरिति व्याप्तिर्द्विधा मता । सिषाधयिषितव्यक्तिव्याप्तिरन्तरितीर्यते ॥ बहिः व्यक्त्यन्तरव्याप्तिरिति ह्यार्हतनिर्णयः । पक्षे व्याप्तिर्भवेदन्तः त्वन्यत्र बहिरिष्यते ॥ इति प्रमाणतत्त्वेऽपि विस्तृतं देवसूरिणा । विशेषव्याप्तिरन्तः स्यात् बहिसामान्यतो भवेत् ॥ वृथा विभाग इत्याहुः विबुधा न्यायवेदिनः । व्यतिरेकव्याप्तिबुद्ध्याऽप्यन्वयव्याप्तिरेव हि ॥
अवधार्येत सैव स्यादनुमाङ्गमितीतरे । इत्थं व्याप्तिविकल्पोऽयं संक्षेपादिह सूचितः ॥ 6 अथ साधर्म्यवैधर्म्यविचारे किंचिदुच्यते । शाक्या वैधर्म्यवचनं पाक्षिकं नैव सेहिरे ॥ वैधर्म्यमेव वक्तव्यं सर्वदेत्यप्यवादिषुः । धूमत्वं नाम सामान्यं न वस्तु परमार्थतः ॥ अस्तु वाऽथापि साधर्म्यं न वक्तुमिह शक्यते । अशेषदेशकालेषु दुर्ग्रहः शिखिनोऽन्वयः ॥ विपक्षव्यतिरेकस्तु सुज्ञानः स्याददर्शनात् । सुकरं चैकदेशस्थैनैवानग्निष्वदर्शनम् ॥ तस्माद्धूमो ह्यनग्निभ्यो रिच्यमानोऽवबोधकः । अनग्निव्यावृत्तिमुखादग्नेरिह विनिश्चयः ॥ अतद्व्यावृत्तिविषयौ लिङ्गशब्दावतो मतौ । अत्र प्रत्युक्तिरेषा स्यादपोहश्लोकवार्तिकम् ॥ न चादर्शनमात्रेण ताभ्यां प्रत्यायनं भवेत् । सर्वत्रेव ह्यदृष्टत्वात्प्रत्याय्यं नावशिष्यते ॥ अस्य चायमभिप्रायस्संग्रहात्प्रतिपाद्यते । विपक्षादर्शनं त्वत्रादर्शनस्वनशब्दितम् ॥ प्रत्यायनं पुनरतद्व्यावृत्तिविषयं मतम् । तच्छब्दार्थौ लिङ्गशब्दौ तत्रापोहमतिः क्वचित् ।
388 मानमेयरहस्यश्लोकवार्तिके अन्वयस्य सपक्षेऽपि विपक्षवददर्शनात् । द्वाभ्यां च व्यावृत्त एषः धूमस्संशयको भवेत् ॥ तथाचापोहहूपार्थो लोके नैव प्रसिद्ध्यति । अतोऽन्वयोऽप्यङ्गमिति स्वीकृतुमुचितं बुधैः ॥ अन्वयस्य क्वचिद्दृष्टौ ह्यतद्व्यावृत्तिनिश्चयः । यत्तु सर्वत्रान्वयोऽयं दुर्गहस्स्यादितीरितम् ॥ तत्तुल्यं व्यतिरेकेऽपि नैषोऽदर्शनमात्रतः । किन्तु दृश्यादर्शनात, एकदेशास्थितस्य तु ॥ न कदाचिद्धि सर्वत्र दृश्यादर्शनसंभवः । तेन सर्वत्रान्वयेऽथ व्यतिरेके च सर्वतः ॥ अविज्ञातेऽपि बहुशः साहित्यावगमात्पुनः । व्यभिचारादर्शनेन सनाथादनुमोदयः ॥ सर्वैरभ्युपगन्तव्यः एवं शब्देऽपि दृश्यताम् । तद्वस्तुविषयौ लिङ्गशब्दौ नापोहगोचरौ ॥ अपोहवार्तिकश्लोकभाव एवं निरूपितः । 7 अन्वयव्यतिरेकी च तथा स्यात्केवलान्वयी ॥ केवलव्यतिरेकी च हेतुः व्याप्तिप्रभेदतः । अतस्त्रिधाऽनुमानं स्यादिति न्यायविदां मतम् ॥ कौमारिलाद्याः नेच्छन्ति हेतुं तं व्यतिरेकिणम् । तथा वादीन्द्रादयश्च नेच्छन्त्यन्वयिनं पुनः ॥
व्याप्तिः 38 अन्वयव्यतिरेक्येकहेतुमात्रविदस्ति चेत् । तृतीयश्शोभते पन्थाः स च द्वावपि दूषयेत् ॥ नैयायिकास्तु तान्सर्वान् दूषयेयुः महाधियः । अत्रायमभिसंधिस्स्यात् केवलव्यतिरेकिणः ॥ निरासे वेदविदुषां न्यायशुद्ध्यादिसूचितः । हैतुकास्साधयन्त्यत्र केवलव्यतिरेकिणा ॥ यद्यदिच्छन्ति तत्सर्वं स चादौ भज्यते यदि । त्र्यंशोऽवरोपितो भारो भवेद्धैतुकभञ्जने ॥ प्रमाणवादारम्भे च तद्विस्तर उदीरितः । साध्याप्रसिद्धिः वैषम्यं व्यर्थतोपनयस्य च ॥ अन्वयेनैव सिद्धिश्च व्यतिरेकिणि दूषणम् । तत्स्थाने ह्यभिषिञ्चन्ति पञ्चमीं प्रमितिं तु ते ॥ व्यतिरेकव्याप्तिबुद्ध्या साऽन्यथाऽकारि तार्किकैः । यच्चानुकूलतर्के सत्यप्रसिद्धविशेषणः ॥ न दोष इति भाषन्ते तार्किकाः तदसङ्गतम् । तर्को हि नाप्रसिद्धार्थं क्वचित्साधयितुं क्षमः ॥ अतोऽप्रसिद्धतादोषः तर्के सत्यपि दुस्त्यजः । केवलव्यतिरेकी च स क्वचिद्भावगोचरः ॥ अभावगोचरश्चेति द्विविधो विबुधैर्मतः । गौरिति व्यवहर्तव्य इति स्याद्भावगोचरः ॥
इतरेभ्यो भिद्यत इत्यभावाविशेषयो मतः । व्यावृत्तिर्व्यवहारश्च लक्षणस्य प्रयोजनम् ॥ इति व्यवहृतिः प्राचां विदुषां तन्निबन्धना । 8 केवलान्वयिहेतुश्च सम्मतो न्यायवेदिभिः ॥ अत एवाविनाभावः दुर्ग्रहः तत्र कथ्यते । धर्मादयः प्रमेयत्वात् प्रत्यक्षाः कस्यचित्त्विति ॥ उदाहरन्ति न्यायज्ञाः केवलान्वयिनं क्वचित् । इदं वाच्यं ज्ञेयतयेत्यपि क्वापि प्रयुज्यते ॥ तद्दूषयति वादीन्द्रः समाधिस्तत्र हि श्रुतः । वाच्यत्वं ज्ञायते चैवं ज्ञेयत्वमभिधीयते ॥ विरोधो व्यक्तिभेदेन यथावदुपशाम्यति । वाच्यत्वेऽपि च वाच्यत्वं ज्ञेयत्वे ज्ञेयता तथा ॥ व्यक्तिभेदाद्विरोधस्य शान्तिः बीजाङ्कुरादिवत् । नात्माश्रयप्रसक्तिर्वा नान्योन्याश्रयताऽपि वा ॥ प्रमेयत्वाभिधेयत्वप्रसङ्गे इति निर्णयः । तथापि विफलं त्वेतदिति केचन जानते ॥ इदं प्रयोजनं ज्ञेयं तत्त्वमुक्ताकलापतः । यतो वाचो निवर्तन्त इति श्रुत्येकदेशिनाम् ॥ सद्विवर्तविदां मार्गनिरोधः प्रथमं फलम् । दुस्साधं क्वचिदप्येवमवाच्यत्वादि चेत्तदा ॥
अनुमेयवादः 391 किं पुनस्सर्ववचसां प्रतिष्ठा यत्र तत्रतु । 9 महाविद्या नाम कश्चिद्धेतुः वादीन्द्रसम्मतः ॥ स केवलान्वयी यावत्सपक्षेषु स्थितो मतः । महाविद्यासूत्रकर्ता यः कुलार्काभिधो बुधः ॥ महाविद्याप्रवीणश्च शिवादित्याभिधो बुधः । तस्यास्ति किंचिद्व्याख्यानं महाविद्याविडम्बनम् । तस्य प्रणेता वादीन्द्रः यस्स्याच्छङ्करकिङ्करः । विवादाध्यासितं स्वस्वेतरवृत्तित्ववर्जितः ॥ यस्सकर्तृकनिष्ठस्स्यात्तस्याधिकरणं भवेत् । प्रमेयत्वात्कलशवत् इत्यादिः केवलान्वयी ॥ एतेन क्षित्यङ्कुरादेस्स्यात्सकर्तृकतेति च । तर्कानुकूल्यतस्तत्र बलाबलविनिर्णयः ॥ इति प्राचीनसिद्धान्ताः प्रायस्संगृह्य दर्शिताः । वेदान्तसूरिभिर्न्यायपरिशुद्धाविति स्थितम् ॥ (79) अनुमेयवादः. 1 न्यायवार्तिकतात्पर्यटीकायां कारिका इमाः । दिङ्नागकथिताः वाचस्पतिमिश्रैरुदाहृताः ॥ केचिद्धर्मान्तरं मेयं लिङ्गस्याव्यभिचारतः । संबन्धं केचिदिच्छन्ति सिद्धत्वाद्धर्मधर्मिणोः ॥
392 मानमेयरहस्यश्लोकवार्त्तिके लिङ्गं धर्मे प्रसिद्धं चेत् किमन्यत्तेन मीयते । अथ धर्मिणि तस्यैव किमर्थं नानुमेयता ॥ संबन्धेऽपि द्वयं नास्ति षष्ठी श्रूयेत तद्वति । अवाच्योऽनुगृहीतत्वात् न चासौ लिङ्गसंगतः ॥ लिङ्गस्याव्यभिचारस्तु धर्मेणान्यत्र दृश्यते । तत्र प्रसिद्धं तद्युक्तं धर्मिणं गमयेदिति ॥ २ मीमांसकानां सिद्धान्ते त्वनुमेयमिदं मतम् । इदानीं पर्वते वह्निरस्तीत्यनुमितिः भवेत् ॥ देशकालानुरक्तस्य वह्नेः प्रागप्रसिद्धितः । सिद्धसाधनशङ्का तु वारितैवं कुमारिलैः ॥ पर्वतस्याग्निरस्तीति संबन्धोऽस्तीति वा तयोः । न हि प्रयुञ्जते धीराः संबन्धोऽतो न साध्यते ॥ तस्माद्धर्मविशिष्टस्य धर्मिणः स्यात् प्रमेयता । तत्र धर्मी धूम एव प्राच्यतार्किकसम्मता ॥ ३ गुरुभिस्त्वन्यथा तत्र निर्णीतं तत्प्रदर्श्यते । व्याप्तिग्रहणवेलायां धूमवत्यखिले स्थले ॥ वह्निमत्ताऽस्तीतिबुद्धेः प्रकृते पर्वते पुनः । धूमवत्त्वं ग्रहीतव्यं नच तेजस्विता पुनः ॥ सा हि पूर्वगृहीतैव संस्कारात्स्मर्यते तदा । प्रत्युत्पन्ननिदानोत्था संगतिस्त्वनुमा ततः ॥