मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)
Manameyodaya of Narayana Bhatta with Commentary
नारायण भट्ट एवं नारायण पण्डित द्वारा
अनुमेयवादः 393 4 सामान्यव्याप्तिसहितपक्षधर्मत्वधीबलात् । सामान्ये पक्षनिष्ठत्वं विशेषः न्यायविन्मतः ॥ अनुमेयं च मत्त्वर्थः नान्यशब्दार्थ इत्यतः । संबन्धसाध्यतापक्षाक्षेपास्सर्वे निवारिताः ॥ तस्माल्लोकायिताशङ्काः सर्वा अप्याकुलीकृताः । इति नैयायिकैकान्तः विश्रुतस्सर्ववादिनाम् ॥ स एव प्रायशस्सर्वैः स्वीकृतो नव्यसूरिभिः । निरूढतर्कसंस्काराः सुधियः प्रथमं यतः ॥ 5 यत्सिषाधयिषन्त्यत्र तार्किकाः परमेश्वरम् । तत्रानुमाने यत्किंचित्प्रसङ्गादिह कथ्यते ॥ प्राधान्येनानुमानं तु त्रिविधं हीशसाधनम् । कार्यालिङ्गकमाद्यं स्यात् द्वितीयं वेदलिङ्गकम् ॥ अदृष्टलिङ्गकं चान्यत् विस्तरः कुसुमाञ्जलौ । वेदलिङ्गकमेवोपदेशलिङ्गकमुच्यते ॥ विवादाध्यासितं ह्येतत्कार्यत्वात्स्यात्सकर्तृकम् । कादाचित्कत्वतः कार्यं सर्ववित्कर्तृपूर्वकम् ॥ अन्वयव्यतिरेक्याद्यं द्वितीयं व्यतिरेकवत् । वेदवाक्यं कर्तृपूर्वं वाक्यत्वाद्भारतादिवत् ॥ वेदस्सर्वज्ञप्रणीतः वेदत्वात् व्यतिरेक्यदः । अदृष्टं सकलं साक्षात्कर्तृधीमदधिष्ठितम् ॥
394 मानमेयरहस्यश्लोकवार्तिके अचेतनत्वे च सति कार्यकारित्वतस्त्विति । अत्र दोषादोषचिन्ता प्रवृत्ता महती कथा ॥ (80) न्यायवादः. 1 प्रतिज्ञा चापदेशश्च तथैव च निदर्शनम् । तथैव चानुसंधानं प्रत्याम्नायश्च पञ्चमः ॥ 2 इति प्रशस्तपादोक्तमथ पक्षिलभाषितम् । प्रतिज्ञा च तथा हेतुरुदाहरणमित्यपि ॥ तथैवोपनयश्चापि भवेन्निगमनं ततः । जिज्ञासा संशयश्चैव शक्यप्राप्तिः प्रयोजनम् ॥ व्युदासस्संशयस्येति दशान्येऽवयवान्विदुः । प्रमाणसामर्थ्यबुद्धिः शक्यप्राप्तिरितीर्यते ॥ परे तु पञ्चावयवान् प्रतिज्ञादीन् प्रचक्षते । न्यायः परप्रत्ययार्थः वाच्यं यावदपेक्षितम् ॥ पञ्चावयवसंयुक्तमित्याहुरिह केचन । अत्रचावयवव्यूहे प्रमाणानि परस्परम् ॥ संभूयसंदिग्धमर्थं साधयन्तीति भाषितम् । शब्दः प्रतिज्ञाऽनुमानं हेतुः प्रत्यक्षमेव तत् ॥ उदाहरणमत्रोपमानं चोपनयो मतः । सर्वेषामुपसंहारो भवेन्निगमनं पुनः ॥
न्यायवादः ३९५ ३ स्वाभिप्रायानुसारेण परः प्रत्यायते परैः । तत्र स्वप्रतिपत्तिर्हि क्रमेणैवं प्रजायते ॥ प्रथमं पर्वतोऽध्यक्षः कथ्यते स प्रतिज्ञया। ततो लिङ्गस्योपलब्ध्या हेतुना तन्निवेद्यते ॥ ततो व्याप्तिस्मृतिः साऽपि दृष्टान्तेनाभिधीयते । ततः परामर्शसिद्धिः स चोपनयवेदितः ॥ ततश्चानुमितिस्सैषा प्रोक्ता निगमनादिह । एवं च पञ्चावयवाः जयन्तेन निगुम्भिताः ॥ ४ इति तार्किकसिद्धान्तं प्रायस्सर्वोऽनुमन्यते । अथ मीमांसकानां तु मते भेदः प्रदर्श्यते ॥ प्रतिज्ञया निगमनं हेतुनोपनयस्तथा । गतार्थ इति कः कुर्यात् पञ्चावयवघोषणाम् ॥ तदेवं पौनरुक्त्येन तथाऽध्याहारदोषतः । तर्कबौद्धमते हित्वा वयं त्र्यवयवे स्थिताः ॥ तत्तु पञ्चतयं केचित् द्वयमन्ये वयं त्रयम् । उदाहरणपर्यन्तं यद्बोद्राहरणादिकम् ॥ ५ तथाचावयवद्वैधवादिभिस्सौगतैरिह । यत्सत्तत् क्षणिकं सन्तश्चामी भावा इतीर्यते ॥ तत्रोदाहरणं चोपनयश्चेति द्वयं मतम् । सूच्यन्ते नहि पाठ्यन्ते धीमन्तो वादिनः खलु ॥
396 मानमेयरहस्यश्लोकवार्त्तिके पक्षस्य वचनं नाम प्रतिज्ञा स च दुर्वचः । ज्ञातव्ये पक्षधर्मत्वे पक्षो धर्म्यभिधीयते ॥ व्याप्तिकाले भवेद्धर्मः साध्यसिद्धौ पुनर्द्वयम् । तस्मान्नयाये प्रतिज्ञायाः प्रयोगो नेति जानते ॥ सपक्षः स्यात्समानोऽर्थः साध्यधर्मसहत्तवतः । सपक्षलक्षणं त्वेतद्दिङ्नागविबुधोदितम् ॥ अनुमेयेऽथ तत्तुल्ये सद्भावः नास्तिताऽसति । इत्येवं धर्मकीर्तेश्च सपक्षविषयं वचः ॥ एवं स्थितेऽपि कैश्चित्तु बौद्धैः क्षणिकवादिभिः । सपक्षलक्षणं साध्यधर्मवत्त्वमितीरितम् ॥ ततश्च पक्ष एव स्यात्सपक्ष इति तन्मतम् । सत्त्वेन क्षणभङ्गानुमाने सर्वसपक्षता ॥ ततश्च पक्षवचनमनपेक्षितमुच्यते । तत्तु सर्वैरपि परैः विबुधैः प्रतिषिद्ध्यते ॥ 6 प्रतिज्ञा हेतुरिति च द्वयमेवार्हता विदुः । मन्दबुद्धिविवेकाय दृष्टान्ताद्यपि कुत्रचित् ॥ 7 न च शक्यं प्रतिज्ञातुं पक्षो नास्तीति केवलम् । एतत्प्रतिज्ञावाक्यार्थे पक्षोपगमसंभवात् ॥ तस्य चानभ्युपगमे न हि पक्षो निषिद्ध्यते । न हेतुनिरपेक्षात्मा पक्षो नामास्ति कश्चन ॥
न्यायवादः ३९ प्रसाधयितुमिष्टो हि हेतुना पक्ष उच्यते । हेतुमात्रनिषेधोऽपि न च सर्वत्र शक्यते ॥ स्वप्रवृत्तिविरोधेन न कारकनिषेधनम् । ज्ञापकस्य निषेधस्तु व्यवहारविरोधकृत् ॥ न दृष्टान्तनिषेधोऽपि सर्वलोकविसम्मतेः । तत्पक्षहेतुदृष्टान्तमर्यादा सुप्रतिष्ठिता ॥ तथा न्यायनिरुक्त्याख्यवादेऽधिकरणात्मकः । न्यायो निरूप्यते चैवं नयोऽप्यार्हत उच्यते ॥ ८ यो वादिप्रतिवादिभ्यां निश्चितस्साधनं तु तत् । इति दिङ्नागोक्तमतः नासत्यात्सत्यधीः क्वचित् ॥ येऽपि रेखादयो दृष्टाः वर्णानां प्रतिपादकाः । न ते स्वेनापि रूपेण परमार्थत्ववर्जिताः ॥ वर्णात्मना न सत्याश्चेत्सर्वभावेष्वयं विधिः । पदार्थान्तररूपेण न सत्यं किंचिदिष्यते ॥ हेत्वादीनां तु भवतः स्वरूपेणाप्यसत्यता । तेन बाष्पादिवत्तेषामुपायत्वं न लेख्यवत् ॥ नन्वसत्यपि बाह्येऽर्थे बुद्ध्यारूढेन सिद्ध्यति । वासनाशब्दभेदोत्थविकल्पप्रविभागतः ॥ न्यायविद्भिरिदं चोक्तं धर्मादौ बुद्धिमाश्रिते । व्यवहारोऽनुमानादेः कल्प्यते न बहिः स्थिते ॥
३९८ मानमेयरहस्यश्लोकवार्तिके अस्तीदं वचनं तेषामिदं तत्र परीक्ष्यताम् । भेदोऽसतः कथं हि स्यात् बुद्धिशब्दप्रकल्पनात् निर्वस्तुके कथंचस्यात्प्रसवो बुद्धिशब्दयोः । शब्दभेदोऽपि भवतः तदभावान्न सिद्ध्यति ॥ ननु यद्वन्मया हेतुः नेष्यते दूषणं तथा । तेन मे दूषणाभावात् अदुष्टं किं न साधनम् ॥ नेदानीं दूषणं कार्यं साधनाभावतो यदि । त्वयैवास्मदभिप्रेता स्वपक्षासिद्धिराश्रिता ॥ एवमादिवचोभेदैः निरालम्बनसाधनम् । दूषितं विस्तरेणेदं वीक्ष्यतां श्लोकवार्तिके ॥ असत्यात्सत्यधीयुक्तिं समालम्ब्य हि शाङ्करे । शारीरके जगन्मिथ्यावाद एष समर्थितः ॥ नन्वेकत्वैकान्तवादे नानात्वं न प्रसिद्ध्यति । प्रत्यक्षादिप्रमाणानि व्याहतानि भवन्ति हि ॥ तथा विधिप्रतीषेधशास्त्राण्यप्यफलानि च । मोक्षशास्त्रं तथा शिष्यशासित्रादि विहन्यते ॥ कथंवा सत्यमेकत्वमनृतादवगम्यते । अत्रोच्यते प्राक्प्रबोधात् सर्वं सत्स्वाप्नवत्ततः ॥ सर्वोपपत्तिरेकत्वं त्वसत्यादपि गम्यते । यथा शङ्काविषाद्धेतोर्मरणाद्युपजायते ॥
हेत्वाभासाः 399 रज्जुसर्पान्मृगजलाद्दंशनस्नानधीरपि । सत्याप्रबोधनिर्बाधा फलमप्युपलभ्यते ॥ शुभाशुभस्वप्नदृग्भ्यां सूच्येते साध्वसाधुनी । तथा सत्याक्षरज्ञानमस्ति रेखानृताक्षरात् ॥ देहात्मप्रत्ययो यद्वत्प्रमाणत्वेन कल्पितः । लौकिकं तद्वदेवेदं प्रमाणं त्वात्मनिश्चयात् ॥ इत्यादिः विस्तरो ज्ञेयः, तत्र श्रीभाष्यकृत्पुनः । असत्ये विषयेऽप्यत्र प्राह ज्ञानस्य सत्यताम् ॥ तेन ज्ञानेन सत्येन मता सर्वत्र सत्यधीः । सत्यादसत्यधीर्वा स्यान्नासत्यात्सत्यधीः क्वचित् ॥ सर्वस्यास्य विवादस्य निदानं वचनं पुनः । अनिर्वाच्यविचारे प्राक् धर्मकीर्तेरुदाहृतम् ॥ (81) हेत्वाभासाः. 1 अनुमेयेन संबद्धं प्रसिद्धं च तदन्विते । तदभावे च नास्त्येव तल्लिङ्गमनुमापकम् ॥ विपरीतमतो यत्स्यात् एकेन द्वितयेन वा । विरुद्धासिद्धसंदिग्धमलिङ्गं काश्यपोऽब्रवीत् ॥ इति प्रशस्तपादेन प्रोक्तं वैशेषिकं मतम् । अथ नैयायिकमते विश्वनाथस्य संग्रहः ॥
00 मानमेयरहस्यश्लोकवार्तिके २ अनेकान्तो विरुद्धश्चाप्यसिद्धः प्रतिपक्षितः । कालात्ययापदिष्टश्च हेत्वाभासास्तु पञ्चधा ॥ आद्यस्साधारणस्तु स्यादसाधारणोऽपरः । तथैवानुपसंहारी त्रिधाऽनैकान्तिको भवेत् ॥ यस्सपक्षे विपक्षे च भवेत्साधारणस्तु सः । यस्तूभयस्माद्व्यावृत्तः स चासाधारणो मतः ॥ तथैवानुपसंहारी केवलान्वयिसाध्यकः । यस्साध्यवति नैवास्ति स विरुद्ध उदाहृतः ॥ आश्रयासिद्धिराद्या स्यात् स्वरूपासिद्धिरप्यथ । व्याप्यत्वासिद्धिरपरा स्यादसिद्धिरतः त्रिधा ॥ विरुद्धयोः परामर्शो हेत्वोस्सत्प्रतिपक्षता । साध्यशून्यो यत्र पक्षः त्वसौ बाध उदाहृतः ॥ ३ असिद्धिश्च विरुद्धश्चानैकान्तिक इति त्रयः । हेत्वाभासा इति प्राहुरार्हता अपि कोविदाः ॥ यस्संदिग्धविपक्षस्स्यात् स त्वनैकान्तिको मतः । बाधादिरप्यसिद्ध्यादावन्तर्भावमिहार्हति ॥ प्रमाणानां स्वरूपेण संख्यया विषयेण च । फलेन च चतुष्पात्त्वं आभासस्तद्विपर्ययः ॥ ४ प्रत्यक्षादिप्रमाणानामाभासस्यापि दर्शनात् । हेत्वाभासस्य चैकस्य ग्रहणं चोपलक्षणम् ॥
हेत्वाभासाः 4 5 अनुमानाभास एव साध्याभासादिसंभवात् । सोऽपि ग्राह्य इति प्राहुरपरे विबुधोत्तमाः ॥ 6 समासमाविनाभावावेकत्र स्तो यदा तदा । समेन यदि नो व्याप्तस्तयोर्हीनोऽप्रयोजकः ॥ विपक्षे बाधकाभावादुपाधेर्वाऽपि संभवात् । हेत्वाभासोऽन्यथासिद्धयन् अप्रयोजक इष्यते ॥ संदिग्धनैकान्तिकस्स्यादप्रयोजक इत्यपि । सौगतोक्तिरयुक्ता यदसिद्धेरुपजीव्यता ॥ 7 स्वेनैव स्वस्य रोधश्चेत्स्वव्याघातो ननूच्यते । स्वस्य सिद्धावासिद्धौ वा विरोधः किं करिष्यति। अत्रोच्यते या हि युक्तिः परपक्षापनुत्तये । उपात्ता तत्सजातीया स्वपक्षं चेत्प्रतिक्षिपेत् ॥ तादृश्या परपक्षस्य नच दोषः प्रसज्यते । स्वपक्ष एव दुष्टस्स्यादिति दूषकतोदिता ॥ दुष्टस्यापिच यद्यस्ति दूषकत्वं तदा भुवि । नित्यं स्यात्कलहः मौनं शरणं वाऽथ वादिनाम्। 8 सर्वं बाधितमेवास्तु वादिनामिति नैव सत् । बाधस्य बाधेऽबाधेऽपि सर्वाबाधोऽवतिष्ठते ॥ विचारो वस्तुरूपश्चेत्किं सिद्धयेत्सर्वशून्यता । विचारोऽवस्तुरूपश्चेदपि नो सर्वशून्यता ॥ M.R. 51
402 मानमेयरहस्यश्लोकवार्तिके 9 मीमांसकानां सिद्धान्ते त्वथाभासो निरूप्यते । दोषोऽनुमाने द्विविधः प्रतिज्ञाहेतुभेदतः ॥ त्रिधा प्रतिज्ञादोषस्स्यात् स्ववाग्विहतिलक्षणः । वन्ध्या मे जननीत्येवं सर्वं वाक्यं मृषेत्यपि ॥ यावज्जीवमहं मौनी धर्मिधर्मोक्तिरोधतः । असिद्धिश्चाप्यनैकान्तिकत्वं बाधकतेति च ॥ हेतुदोषस्त्रिधा ख्यातः पञ्चधाऽसिद्धिरुच्यते । स्वरूपासिद्धिसंबन्धासिद्धी च व्यतिरेकतः ॥ असिद्धिराश्रयासिद्धिः व्याप्त्यसिद्धिश्च पञ्चमी । शशशृङ्गादिहेतुत्वे स्वरूपासिद्धिरुच्यते ॥ पक्षावृत्तेस्तु हेतुत्वे संबन्धासिद्धिरुच्यते । व्यतिरेकासिद्धिरेषा हेतुः पक्षात्मको यदि ॥ आश्रयासिद्धिरत्र स्यान्नचेत्पक्षः प्रसिद्धयति । भिन्नाधारे साध्यहेत्वोः व्याप्यत्वासिद्धिसंभवः ॥ द्विधाऽनैकान्तिकत्वं स्याद्धेतुदोषोऽप्यनन्तरः । आद्यं सव्यभिचारं स्यात् परं सप्रतिसाधनम् ॥ बाधकत्वं विरुद्धत्वं तृतीयो दोष इष्यते । 10 भाट्टानां संशयोभीष्टः फलं सप्रतिसाधने ॥ गुरूणां तादृशो दोषः नेष्टः वस्तुविरोधतः । नहि वस्तु विकल्प्येत न विरुद्धसमुच्चयः ॥
एतेन वस्तुनो नानाकारता भाट्टसम्मता । सोऽनेकान्तो वाद इति गुरुभिस्त्वधरीकृतः ॥ अतएवानित्यदोषं प्राहुर्नैयायिका अपि । रत्नकोशकृतोऽप्यत्र विदुस्संशयहेतुताम् ॥ असाधारणदोषस्य शाक्यास्संशयहेतुताम् । वदन्ति तच्चानुमतं दूषितं च कुमारिलैः ॥ 11 विरुद्धव्यभिचारीति केचिज्जात्यन्तरं विदुः । साधारणविशेषं तं प्राहुः केचन सूरयः ॥ असाधारणमित्यन्ये प्रतिपक्षं परे विदुः । यथा परोदितैरेव पक्षहेतुनिदर्शनैः ॥ विरुद्धसाधने तत्र विरुद्धव्यभिचारिता । सर्वसत्प्रतिपक्षाणां विरुद्धव्यभिचारिताम् ॥ कदाचिदूचुराचार्याः समासरुचयो बुधाः । 12 पक्षेण व्यभिचारस्य चोदना शाक्यसम्मता ॥ संदिग्धानैकान्तिकता सोच्यते, नान्यसम्मता । अनुमानस्य चोच्छित्तिस्तादृग्दोषानुधावने ॥ 13 स व्यधिकरणासिद्धः हेतुः पक्षेतरस्थितः । इत्याहुरपरे सोऽपि संबन्धासिद्धिमान् भवेत् ॥ 14 असाधारण एवायमनध्यवसिताभिधः । हेत्वाभासान्तरमिति भूषणन्यायसम्मतः ॥
भासर्वज्ञादयो न्यायसारादाविममाश्रिताः । पन्थानमिति विज्ञेयं मानमेयोदयादितः ॥ सर्वोदाहरणं न्यायमञ्जर्यादिषु विश्रुतम् । पश्यन्त्वपेक्षावन्तश्चेदयं दिङ्मात्रसूचकः ॥ (82) कथा. 1 एकाधिकरणौ धर्मौ तुल्यकालौ विरोधिनौ । पृथक्परिग्रहौ पक्षप्रतिपक्षावुदीरितौ ॥ परस्परविरुद्धार्थवादिनोर्हि विवादिनोः । व्यवहारः कथेत्युक्तः सा कथा त्रिविधा मता ॥ वादजल्पवितण्डाभिः तत्स्वरूपं पुनस्त्विदम् । वीतरागकथा वादः विजिगीषुकथा परः ॥ वितण्डा स्थापनाहीना परपक्षैकदूषणम् । प्रतिज्ञा साधनं चैव दूषणं च विनिर्णयः ॥ व्यवहारश्चतुष्पादः लोकवच्चैव निर्णयः । सर्वथा सदुपायानां वादमार्गः प्रवर्तते ॥ 2 अधिकारोऽनुपायत्वान्न वादे शून्यवादिनः । इति सत्यविदः प्राहुः, आद्यो वादस्स खण्डने । यदि शून्यविदं वादानधिकारं वदेत्सुधीः । तस्मिन्नेव विवादेनाधिकारं दित्सति स्वयम् ॥
[Header] कथा 40
यदि शून्यविदन्यं प्रत्याहानाधिकृतिं सुधीः । तस्य चाप्रतिवादित्वात् निग्रहस्थानमेव तत् ॥ अत्रोत्तरं पुनरिदं ते वादानधिकारिणः । इत्यन्तेवसतां सोऽयमुपदेशो भवेदिति ॥ कथानधिकारवाचा निष्प्रयोजनतोदिता । इति मार्गान्तरं न्यायपरिशुद्धावुदीरितम् ॥ प्रयोजनानुयोगेन वितण्डावादिनिग्रहः । वात्स्यायनोदितः सोऽध्वा विद्वद्भिरनुगम्यते ॥ विस्तरश्शतदूषण्यां वेदान्ताचार्यसूरिभिः । कृतः कथाऽनधिकारवादे नावमिके पुनः ॥ 3 वादेषु नियमा एते कल्प्यन्ते प्रौढिसिद्धये । अदन्त्यो वा निरोष्ठ्यो वा लुङ्प्रयोगोऽथवा तथा यङ्प्रयोगो यक्प्रयोगः इत्यादिश्शब्दगोचरः । अनुमानेनैव तथा शब्देनैव तथेति वा ॥ वैदिकेनागमेनैवेत्येवं मानव्यवस्थितिः । छलजात्यादयोऽप्येवं निग्रहस्थानलक्षणाः ॥ कक्ष्यादिनियमाश्चापि न्यायशास्त्रे हि विश्रुताः । एवंविधा हि निर्बन्धाः वादिनां जयहेतवः ॥ 4 अर्थिप्रत्यर्थिनोस्तावन्न द्वयोर्जयसंभवः । एकस्य विजयेऽपि स्यात् सफला सत्कथैव सा
यत्र द्वयोर्न विजयः नवा तत्त्वविनिश्चयः । कुकथां कथयन्त्येनां असदुक्तिपरंपराम् ॥ तां द्विकक्ष्यादिकामेके षट्कक्ष्यावधिकां विदुः । पूर्वत्रासंभवात् सभ्यैः उत्तरत्र निवारणात् ॥ असदप्रतिभादौ तु पक्षैकत्वमपि क्वचित् । सभ्येष्वसत्स्वदक्षेष्वप्युपर्युपरि धावति ॥ 5 अथ पत्रमुखो वादो विदुषां हृदयंङ्गमः । प्रमेयाम्बुजमार्त्तण्डोदाहृतः कश्चिदुच्यते ॥ प्रसिद्धावयवं वाक्यं स्वेष्टस्यार्थस्य साधकम् । साधुगूढपदप्रायं पत्रमाहुरनाकुलम् ॥ श्वान्तभासितभूताद्यत्यन्तात्मदुभान्तवाक् । परन्तद्योतितोदीप्तमितितस्वात्मकत्वतः ॥ चित्राद्यदन्तराणीयमारेकान्तात्मकत्वतः । यदित्थं न तदित्थं न यथाकिंचिदिति त्रयः ॥ तथाचेदमिति प्रोक्तौ चत्वारोऽवयवा मताः । तस्मात्तथेति निर्देशे पञ्च पत्रस्य कस्यचित् ॥ 6 छलैश्च निग्रहस्थानैः जातिभिश्चापि साधनम् । उपालम्भश्च वादे चेत् स जल्प इति निर्णयः ॥ विद्यायाः पालनार्थं सः न लाभाद्यर्थमिष्यते । छलं च त्रिविधं प्रोक्तं तद्द्वाविंशतिधा पुनः ॥
कथा 40 निग्रहस्थानमुदितं चतुर्विंशतिधा परम् । इति न्यायविदः प्राहुः परैर्विविधमिष्यते ॥ 7 छलं च प्रायशः विश्वव्यामोहनमिति स्थितम् । जातिः स्वव्याघातकत्वादसदुत्तरमुच्यते ॥ परापादितदोषाणामनभ्युपगमेन वा । तदुद्धारेण वा दोषं ब्रूयादिति विनिर्णयः ॥ तथैवाप्रतिपत्त्या वाऽथवा विप्रतिपत्तितः । प्रतिज्ञादिपरित्यागान्निग्रहस्थानसंभवः ॥ तूष्णींभावो यदा तूष्णींभावो निग्रहकारणम् । प्रलपेत्तु यदा तत्र भवेत्प्रलापितं तु तत् ॥ यथायथा चेष्टते सः तथा निग्रहहेतुता । अनन्तं निग्रहस्थानं कीर्तितं धर्मकीर्तिना ॥ एवं नानाविधकथाभासतत्त्वावलोकिनाम् । सदुत्तरैस्तदुत्थानात् तत्त्वधीजयसंभवः ॥ अन्यथा षण्डचेष्टावद्भवेयुरफलाः कथाः । इति प्रख्यापनायात्र कथाभास उदाहृतः ॥ 8 वादरूपैवैकधेति कथां तामार्हता विदुः । वीतरागकथा वाद इत्यतो विश्रुतो भुवि ॥ विश्रुता वीतरागास्ते नाम्नाऽपि प्रायशो बुधाः । पराजयभयाद्वीतरागता यशसेऽपि वा ॥
408 मानमेयरहस्यश्लोकवार्तिके इति भेदानादरस्स्यादित्याहुर्वादकौतुकाः । नियोज्यः पर्यन्नूयोज्यः न कश्चित्कस्यचिद्भुवि ॥ संभवैतिह्यचेष्टादिप्रमाणानां यथायथम् । अनुमानप्रभृतिषु ह्यन्तर्भावो बुधैर्मतः ॥ चेष्टा सामायिकी शब्दव्यवहारानुसारिणी । अस्येयं बोधिकेत्येवं भरताद्यागमे स्थिता ॥ एवं लिप्यादिकमपि यथासंभवमर्हति । अन्तर्भावं ततस्तत्र न विकल्पोऽस्ति वादिनाम् इत्येवमनुमानस्य सारांशः परिकीर्तितः । बहुभिर्बहुधा प्राज्ञैः प्रायशो विस्तरः कृतः ॥ (83) उपमानम् 1 वृद्धनैयायिकास्तत्रातिदेशवचनं श्रुतम् । संज्ञाप्रतीतिफलकमुपमानं प्रचक्षते ॥ उपायमात्रावगमे शब्दव्यापारविश्रमात् । निरपेक्षोपेयबोधतत्परादागमाद्भिदा ॥ यथा परार्थानुमानं नागमः किंतु भिद्यते । लिङ्गसामर्थ्यरूपस्योपायस्य प्रतिपादनात् ॥ 2 नव्यनैयायिकानां तु सिद्धान्तोऽथ प्रदर्श्यते । श्रुतातिदेशवाक्यस्य तथा विपिनगामिनः ॥
ग्रामीणस्य प्रथमतः पश्यतो गवयादिकम् । सादृश्यधीर्गवादीनां या स्यात्सा करणं मतम् । वाक्यार्थस्यातिदेशस्य स्मृतिर्व्यापार इष्यते । गवयादिपदानां तु शक्तिधीरुपमा फलम् ॥ तस्मादयं स गवयो नामेत्येवंविधा मतिः । उपमानैकजन्यैव न प्रमाणान्तरोद्भवा ॥ साधर्म्यादथ वैधर्म्याद्धर्ममात्राच्च तत् त्रिधा । गवयो गौरिवेत्यादिवाक्यं साधर्म्यमूलकम् ॥ गवादिवन्न द्विशफः भवेद्वाजीति यद्वचः । तद्वैधर्म्यनिदानं स्यात् धर्ममात्रात्पुनर्यथा ॥ दीर्घग्रीवः प्रलम्बोष्ठः कण्टकाशी क्रमेलकः । सादृश्यवचनं चैतद्द्वयोरस्यादुपलक्षणम् ॥ प्रत्यक्षप्रत्यभिज्ञास्स्युः सादृश्यादिधियो यतः । गवयेन सदृग्गौरित्येषा नोपमितिस्ततः ॥ प्रसिद्धेन हि सादृश्यमप्रसिद्धस्य गम्यते । गवा गवयपिण्डस्य न तु युक्तो विपर्ययः ॥ यच्चावगतविज्ञानं प्रत्युत्पन्ननिदानजम् । सा संगतिः स संवादः सोऽनुवाद इतीर्यते ॥ सादृश्यस्यानिमित्तत्वान्निमित्तस्याप्रतीतितः । समयो दुर्ग्रहः पूर्वं शब्देनानुमयाऽपिवा ॥ M.R. 52
प्रायस्सर्वेऽनुमानान्तर्भावमाहुर्यथापुनः । एषैव गौरसेतिबुद्धिरनुमाऽन्योन्यहस्तवत् ॥ यद्वाऽऽप्तवाक्याद्युत्पत्तिश्चिह्नोन्नीतानिमित्ततः । ३ अथ मीमांसकैकान्तः किंचित्संगृह्यतेऽधुना ॥ दृश्यमानार्थसादृश्यात्स्मर्यमाणार्थगोचरम् । असन्निकृष्टसादृश्यज्ञानं मैमांसकं मतम् ॥ गवयस्थितसादृश्यदर्शनं करणं भवेत् । फलं गोगतसादृश्यज्ञानमित्यवधार्यते ॥ तस्माद्यत्स्मर्यते तत् स्यात्साहश्येन विशेषितम् प्रमेयमुपमानस्य सादृश्यं वा तदन्वितम् ॥ प्रत्यक्षेणावबुद्धेऽपि सादृश्ये गवि च स्मृते । विशिष्टस्यान्यतोऽसिद्धेरुपमानप्रमाणता ॥ प्रत्यक्षे च यथा देशे स्मर्यमाणे च पावके । विशिष्टविषयत्वेन नानुमानाप्रमाणता ॥ तथोपमानप्रामाण्यं विदुषां हृदयङ्गमम् । आग्नेयवाक्यं स्वसदृक्सौर्येणोपमितं यदा ॥ तदाचोपस्थिते स्वार्थे तृतीयोंऽशो ह्यपेक्षितः । सौर्यभावनया ग्राह्य इत्यस्त्येतत्प्रयोजनम् ॥ तथा प्रतिनिधिद्रव्यसंग्रहोऽपि क्वचिद्भवेत् । नचेदमनुमानादिनेति मानं पृथक्ततः ॥
उपमानम् 47 4 उपमानप्रमेयं चेत्संबन्धः स्यात्पदार्थयोः । स सामयिक एव स्यात् आरण्यकनरश्रुतः ॥ एवमारण्यकाः केचित् केचिन्नागरकास्तथा । केचिद्देशान्तरनरविश्रुताः कतिचित्पुनः ॥ द्वीपान्तरनरप्रोक्ता एवं सर्वे पदात्मकाः । शब्दास्स्युरिति संकेतसिद्धान्तः विजयी भवेत् ॥ औत्पत्तिकं तु संबन्धं शब्दस्यार्थेन ये विदुः । अर्थापत्तिप्रमाणेन साक्षात्तैस्तद्ग्रहो मतः ॥ प्रत्यक्षं चानुमानं च तदुत्पादे प्रवर्तते । अतस्संबन्धविज्ञानं त्रिप्रमाणकमुच्यते ॥ संबन्धाक्षेपशान्त्यन्ते वागेषा श्लोकवार्तिके । शब्दवृद्धाभिधेयांश्च प्रत्यक्षेणात्र पश्यति ॥ श्रोतुश्च प्रतिपन्नत्वमनुमानेन चेष्टया । अन्यथाऽनुपपत्त्या च बुद्धयेत् शक्तिं द्वयाश्रिताम् ॥ अर्थापत्त्याऽवबुध्यन्ते संबन्धं त्रिप्रमाणकम् । न च सामयिकस्तस्मात्संबन्ध इति निर्णयः ॥ ये तु सामयिकं तं च संबन्धं तार्किका विदुः । तेषां व्याकरणादीनि प्रमाणानीति निश्चितम् ॥ अतस्संकेतसंबन्धसिद्ध्यर्थं मार्गशोधनम् । तन्मार्गप्रतिरोधाय त्रिप्रमाणकतोदिता ॥
412 मानमेयरहस्यश्लोकवार्तिके सर्वमेतच्च वेदस्यापौरुषेयत्वसिद्धये । तत्पौरुषेयतायै च नदीनां सागरो गतिः ॥ (84) अर्थापत्तिः 1 प्रमाणषट्कविज्ञातो यत्रार्थो नान्यथा भवेत् । अदृष्टं कल्पयेदन्यं साऽर्थापत्तिरुदाहृता ॥ तत्र प्रत्यक्षतो ज्ञाताद्दाहाद्दहनशक्तता । तथैवानुमितात्सूर्ये यानात्तच्छक्तिशालिता ॥ तथैवोपमितार्थात्स्यादर्थान्तरकल्पना । इत्यायूह्यं बुधैस्तत्र निर्णयांशोऽवगम्यताम् ॥ साधारणप्रमाणानामसाधारणमानतः । विरोधादविरुद्धांशे धीरर्थापत्तिरुच्यते ॥ यथा जीवनमानस्य मन्दिराभावमानतः । विरोधात्करणीभूतात् बहिर्भावस्य कल्पना ॥ तस्माद्यो विद्यमानस्य गृहाभावोऽवगम्यते । स हेतुस्स बहिर्भावमगृहीत्वा न गृह्यते ॥ प्रमेयस्य प्रवेशोऽयं विशेषोऽस्त्यनुमानतः । विलक्षणप्रमाणत्वात् तस्य नास्त्यत्र दोषता ॥ 2 तार्किकध्वंसनोपायमेतादृशमजानता । गुरुणा कल्पितः कश्चिज्जीवनस्यात्र संशयः ॥