भारतकोश
संग्रह पर लौटें

मानमेयोदय (नारायण भट्ट - भाट्ट मीमांसा प्रमाण एवं प्रमेय शास्त्र सटीक)

Manameyodaya of Narayana Bhatta with Commentary

नारायण भट्ट एवं नारायण पण्डित द्वारा

DevanagariHindipublished672 पृष्ठ

शब्दप्रामाण्यवादः 42 पदानां सन्निधिर्वाक्यं तद्राशिः ग्रन्थ इष्यते । इति कौमारिलमतं अथ प्राभाकरं पुनः ॥ 4 गुरुर्लौकिकशब्दानामनुमानत्वमिच्छति । सर्वशब्दानुमानत्ववादिनः कणभोजिनः ॥ अत्र लौकिकवाक्यानां व्यभिचाराभिमानतः । अर्थासंस्पर्शितां शब्दस्याहुः केचित्पुराविदः ॥ 5 अत्र प्रतिब्रुवाणानामभिप्रायोऽयमुच्यते । विवक्षितार्थविज्ञानमिन्द्रियार्थनिबन्धनम् ॥ तस्य ज्ञानं च वाक्येन लिङ्गभूतेन गम्यते । ज्ञात्वैवार्थं ब्रवीतीति य एवमवधारितः ॥ तस्य ज्ञानेन नियतं वाक्यं ज्ञानानुमापकम् । ज्ञानं चार्थविनाभावि तेनार्थेऽपि विनिश्चयः ॥ ततोऽर्थे निश्चिते पश्चात्सोऽर्थो वाक्येन गम्यते । तस्यां दशायां वाक्यस्य तस्य स्यादनुवादता ॥ वाक्यार्थस्यानुमानेन व्यभिचारभये गते । अभिधत्ते पुनर्वाक्यमनुवाद इति स्थितम् ॥ 6 नान्तरीयकताऽभावाच्छब्दानां वस्तुभिस्सह । नार्थसिद्धिस्ततस्ते हि वक्तृभिप्रायसूचकाः ॥ इति कीर्तिवचोमूलो विचारोऽत्रावधार्यताम् । व्यवहाराविसंवादान्मानतेन्द्रियलिङ्गयोः ॥

428 मानमेयरहस्यश्लोकवार्तिके आप्तवादाविसंवादाच्छब्दः प्रामाण्यमृच्छति । पूर्वं वाक्यं लिङ्गभूतं वक्तुर्ज्ञानावधारणे ॥ वक्तृज्ञानप्रसूतं हि वाक्यं तत्कार्यमिष्यते । कार्यात्कारणसिद्धिश्च सर्वेषामपि सम्मता ॥ ततश्च पुंवाक्यमात्रं न शास्त्रमभिधीयते । नन्वर्थ एव प्रथमं पुंवाक्येनावगम्यते ॥ अन्यथा तु कथं वक्तुः धीर्विशिष्टाऽनुमीयते । अर्थेनैव विशेषो हि निराकारतया धियाम् ॥ नचाप्रतीतेनार्थेन विशेषो ह्यवगम्यते । अत्र ब्रूते यथार्थत्वशङ्कयाऽर्थो न निश्चितः ॥ अनिश्चितो नहि ज्ञात इति तात्पर्यसंग्रहः । वाक्याद्वाक्यार्थानुमानवादिनस्सौगतानुगाः ॥ वैशेषिकाश्च गुरवः वक्तृज्ञानानुमाविदः । तत्रापि गुरवो लोकवाक्यमात्रानुमाविदः ॥ अपौरुषेयमेवैकं शास्त्रं वाक्यचयात्मकम् । तत्रापि चोदना शास्त्रं नाभिधेति विनिर्णयः ॥ आप्तवादाविसंवादसामान्यादनुमानतः । अभिन्नत्वमनूद्येत्थं दूषितं श्लोकवार्तिके ॥ आप्तवादाविसंवादादत्रचेदनुमानता । निर्णयस्तावता सिद्धयेद्बुद्धयुत्पत्तिर्न तत्कृता ॥

वाक्यार्थश्चान्य एवेति ज्ञातः पूर्वतरं ततः ॥ तत्रचेदाप्तवादेन सत्यत्वमनुमीयते । वाक्यार्थप्रत्ययश्चात्र कथं वाऽनुमितिस्त्विति ॥ 7 अलंकारविदः प्राहुश्शब्दानां विषयो द्विधा । प्रतिपाद्योऽनुमेयश्च प्रथमोऽपि द्विधा मतः ॥ वाच्यो व्यङ्ग्यश्चेति ततः विवक्षालक्षणः परः । विवक्षाविषयत्वे तु शब्दानां लिङ्गता मता ॥ व्यङ्ग्यस्वरूपे विषये शाब्दता स ध्वनिर्मतः । असौ वादः पूर्वमुक्तवादसंस्कारमूलकः ॥ (88) शब्दप्रमाणपरिकरः. 1 आप्तवाक्यं तु शब्दः स्यादाप्तत्वमिदमुच्यते । प्रतारणाद्यप्रयोज्यहिताहितमनीषयोः ॥ प्रयोजकत्वमाप्तत्वं समानं वेदलोकयोः । इति कैश्चिन्निरुक्तं स्यात् अन्यैरपरथा यथा ॥ यदनाप्तानुच्चरितं वाक्यं शब्द स्स इष्यते । प्रमाणं तल्लोकवेदसाधारणमिति स्थितम् ॥ 2 अर्थावबोधकशब्द इत्याहुस्स्फोटवादिनः । श्रोत्रग्राह्यश्शब्द इति तत्प्रतिद्वन्द्विदृष्टिः ॥

430 मानमेयरहस्यश्लोकवार्तिके ३ आप्तवाक्यं शब्द इति प्राहुर्न्यायविशारदाः । आप्तो यथार्थवक्तेति पौरुषेयत्वसिद्धये ॥ वेदानां प्रोच्यते, तेन प्रामाण्यं परतो मतम् । पदज्ञानं तु करणं द्वारं तत्र पदार्थधीः ॥ शाब्दबोधः फलं तत्र शक्तिधीस्सहकारिणी । आसत्तियोग्यताऽऽकाङ्क्षा तात्पर्यज्ञानमिष्यते ॥ कारणं, सन्निधानं तु पदस्यासत्तिरुच्यते । पदार्थे तत्र तद्वत्ता योग्यता परिकीर्तिता ॥ यत्पदेन विना यस्यानुभावकता भवेत् । साऽऽकाङ्क्षा वक्तुरिच्छा तु तात्पर्यं परिकीर्तितम् ॥ इति न्यायविदां मार्गः वैदिकानां पुनस्त्वसौ । परस्परापेक्षितत्वमाकाङ्क्षा स्यात्पदार्थयोः ॥ तात्पर्यविषयार्थानां बाधाभावो हि योग्यता । पदजन्या पदार्थानामासत्तिः स्यादुपस्थितिः ॥ तत्तदर्थप्रतीतीच्छा तात्पर्यं वक्तृरवस्थिता । वेदेऽपीच्छासमाकारः व्यापारोऽभ्युपगम्यते ॥ शरीरवादे प्रागुक्ता तन्त्रवार्तिकपद्धतिः । तन्निर्णयाय मीमांसा न्यायनिर्णयलक्षणा ॥ लोके तु वक्तुरिच्छेयं ज्ञेया प्रकरणादिना । लौकिकोऽलौकिकश्चेति शब्दोऽतो द्विविधो मतः॥

शब्दप्रमाणपरिच्छेदः 43 4 शब्दार्थयोस्तु संबन्धो वृत्तिस्सा हि चतुर्विधा । मुख्या गौणी लाक्षणिकी तात्पर्यं चेति भेदतः । मुख्या वृत्तिश्शक्तिरेषा सा पदार्थान्तरं मता । जातावेव हि शक्तिस्स्यात् व्यक्तिधीस्तुल्यवित्तिचितः आक्षेपाद्वा स चाक्षेपः लक्षणा लिङ्गमेव वा । अर्थापत्तिः कुब्जशक्तिरित्येवं हि विकल्प्यते ॥ या स्वरूपसती शाब्दबोधे शक्तिः प्रयोजिका । व्यक्तिनिष्ठा कुब्जशक्तिरिति प्राभाकरा विदुः ॥ 5 अवस्थानेऽपि चैकत्र मुख्यवृत्तेरसौ पुनः । तात्पर्यवृत्तिरन्यत्र दूरे संक्रमतेऽन्यथा ॥ सामान्यतः प्रयोगेऽपि विशेषावगतिः कथम् । तात्पर्यवृत्तिरभिधावृत्तेरपि बलीयसी ॥ यत्परस्स हि शब्दार्थ इति तस्माद्विदुर्बुधाः । प्रवृत्तिस्सर्वशास्त्राणां यस्मात्तात्पर्यनिर्णये ॥ पदार्थपर्यवसितोऽभिधाव्यापार इष्यते । तथापि तात्पर्यवृत्तिरपर्यवसिता मता ॥ अपर्यवसिता वृत्तिर्यत्र तत्रैकवाक्यता । सा पर्यवसिता या स्यात्पदे वाक्ये च केवले ॥ गुणसंबन्धतो गौणी लक्षणा शक्ययोगतः । तात्पर्यशक्तिः तात्पर्यनिर्णयात्सा बलीयसी ॥

432 मानमेयरहस्यश्लोकवार्तिके तां लक्षणां केचिदाहुः बोध्यसंबन्धरूपतः । असतोऽपि हि शब्दोत्थज्ञानगोचरतेष्यते ॥ तथाऽगृहीतसंबन्धाः पदार्था एव सर्वशः । आगमार्थं बोधयन्तः बलीयांसो भवन्ति हि ॥ नियमस्मरणापेक्षाल्लिङ्गात्प्रबल आगमः । विशेषतश्च वेदस्य निर्दोषत्वाद्वलिष्ठता ॥ अव्युत्पन्नशब्दराशिः स्वस्वरूपं हि बोधयेत् । अतश्च देवताशब्दः स्वरूपे पर्यवस्यति ॥ 6 अभिधेयेन संबन्धात्सादृश्यात्समवायतः । वैपरीत्यात्क्रियायोगाल्लक्षणा पञ्चधा मता ॥ भर्तृमित्रवचस्त्वेतत् अपरैष्षड्विधा मता । जहदादिविभेदेन त्रिविधा नव्यवैदिकैः ॥ 7 पदार्थबोधनं शब्दशक्तिजन्यत्वतः पदैः । पार्थसारथ्यादिबुधैः अभिधानमितीर्यते ॥ संस्कारोद्बोधनद्वारा पदार्थानां तु बोधनम् । तत्स्यात् स्मरणमेवेति चिदानन्दादयो विदुः ॥ पदार्था एव वाक्यार्थं पुनस्संसर्गलक्षणम् । बोधयेयुर्लक्षणया तात्पर्यानुपपत्तितः ॥ मीमांसाशास्त्रनिष्णात़ाः नव्याः प्राहुर्बुधोत्तमाः । तस्मान्नानापदार्थानुरक्तो वाक्यार्थ इष्यते ॥

शब्दविभागः 433 पदार्थमूलो नामूलो नच संकेतमूलकः । विस्तरोऽस्य त्वन्विताभिधाने चाभिहितान्वये ॥ (89) शब्दविभागः. 1 ऋऌक्सूत्रे महाभाष्ये शब्दभेदो निरूपितः । चतुष्टयी हि शब्दानां प्रवृत्तिरिह जायते ॥ जातिशब्दाः क्रियाशब्दाः गुणशब्दाः तथा परे । यदृच्छाशब्दसंज्ञाः स्युः ते च डित्थादयो मताः ॥ ये प्रवृत्तिनिमित्तं तदर्थस्थमनपेक्ष्य च । प्रयोक्तृभिप्रायमात्रात्प्रवर्तन्ते हि ते पुनः ॥ शब्दस्वरूपमेवात्र निमित्तमिति निर्णयः । अथचालंकारिकोक्तो विभागस्त्वपरो यथा ॥ 2 चतुर्धा वाचकश्शब्दः जातिवाचक आदिमः । द्वितीयो गुणवाची स्यात् तृतीयः कर्मवाचकः ॥ द्रव्यवाची तुरीयः स्यात् तेषां विवरणं त्विदम् । अनुप्राणनहेतुर्यः धर्मः तस्य हि वाचकः ॥ जातिवाचक इत्युक्तः तत्रानुप्राणनं पुनः । विशेषतो याऽऽकाङ्क्षा स्यात् शान्तिस्तस्या इतीर्यते जातिः प्राणप्रदात्रीति चात एवाभिधीयते । अर्थस्यानुप्राणितस्य सिद्धधर्मो विशेषणम् ॥ M.R. 55

यत्स्यात्तद्वाचकश्शब्दः गुणवाचक उच्यते । तादृशो यस्साध्यधर्मः तद्वाची कर्मवाचकः ॥ एतत्त्रितयसंयुक्तं वस्तु द्रव्यमितीर्यते । तद्वाचको द्रव्यवाचीत्येवं प्राज्ञैरनूदितम् ॥ जातिस्सामान्यमित्याद्या जातिमात्रस्य वाचकाः। व्यक्तिस्स्वरूपमित्याद्या व्यक्तिमात्रस्य वाचकाः॥ गोघटाश्वादयो जातिविशिष्टव्यक्तिवाचकाः । गुणादिवाचकाश्शब्दाः द्रव्यपर्यन्तबोधकाः ॥ असौत्रोऽपि च मत्वर्थीयादिस्तद्गुणवाचिनः । निष्कर्षप्रतिरुद्धायाः शक्तेरुत्तम्भको मतः ॥ वैभवात्क्वचिदायातः भूरिकेवलदर्शनात् । नचेत्तेषामसाधुत्वप्रसङ्गो दुर्निवारणः ॥ गुणैकनियतास्तावद्गन्धरूपरसादयः । गन्धत्वाद्यवच्छिन्नगन्धादिगुणवाचिनः ॥ तेषां न द्रव्यपर्यन्ता वृत्तिः क्वचन दृश्यते । न गन्धः पद्ममित्यस्ति सामानाधिकरण्यधीः ॥ सामान्यतश्च शब्दानांमर्था अपि चतुर्विधाः । मुख्यो गौणो लाक्षणिकस्तात्पर्यार्थ इति श्रुताः॥ स्याद्वाचको लाक्षणिको व्यञ्जकश्चेति च त्रिधा । इतिचाप्यपरैरालंकारिकैः प्रविभज्यते ॥

शब्दविभागः 435 3 नामाख्यातनिपातोपसर्गभेदैः चतुर्विधम् । पदं विभज्यते शास्त्रे सर्वस्मिन् पदवेदिभिः ॥ 4 प्रादयो ह्युपसर्गास्स्युः निपाताश्चादयो मताः । तिङन्तास्त्वाख्यातसंज्ञाः सुबन्ता नामसंज्ञिताः ॥ उपसर्गा निपाताश्च वाचका द्योतका इति । मतद्वयं, वाचकत्वं शक्तिस्स्यात्सामुदायिकी ॥ विशेषणं द्योतकत्वं तच्च शक्त्यपवादनम् । सर्वं सर्वार्थशक्तं चेदपवादो ह्यपेक्ष्यते ॥ तदा पदान्तरं तत्स्यात् अन्वाख्यानमनर्थकम् । उक्ते विशेषणं, किंचिदुच्यमानविशेषणम् ॥ तेन शक्त्यपवादोऽयं भवेदर्थापवादवत् । चादयो वाचकाः प्राद्या द्योतका इति तार्किकाः । सर्वेऽपि द्योतका एवेत्याहुश्शाब्दिककोविदाः । मीमांसकास्तु मध्यस्थाः चिन्तनश्रमभीरवः ॥ 5 नैयायिकविभागोऽपि किंचिदत्र निरूप्यते । प्रकृतिः प्रत्ययश्चेति निपातश्चेति स त्रिधा ॥ निरुक्ता प्रकृतिर्द्वेधा नामधातुविभेदतः । यत्प्रातिपदिकं प्रोक्तं तन्नाम्नो नातिरिच्यते ॥ रूढं च लक्षकं चैव योगरूढं च यौगिकम् । तच्चतुर्धा परैरूढयौगिकं मन्यतेऽधिकम् ॥

436 मानमेयरहस्यश्लोकवार्तिके 6 अम्बाम्बेति यदा बालश्शिक्षमाणः प्रभाषते । अव्यक्तं तद्विदां तेन व्यक्ते भवति निर्णयः ॥ एवं साधौ प्रयोक्तव्ये योऽपभ्रंशः प्रयुज्यते । तेन साधुव्यवहितः कश्चिदर्थोऽभिधीयते ॥ नापभाषतवै न म्लेच्छतवै इति यद्यपि । निषेधो वर्ततेऽथापि प्रमादो धीमतामपि ॥ कल्पसूत्रस्मृतिग्रन्थमीमांसागृह्यकारिणः । शिष्टाः दृष्टाः प्रयुञ्जानाः अपशब्दाननेकंशः ॥ शब्दशास्त्रप्रवक्तारस्त्रयोऽपि मुनयः पुनः । शास्त्र एव स्खलन्तीति विवृतं तन्त्रवार्तिके ॥ अन्तो नास्त्यपशब्दानामतिहासपुराणयोः । मरणान्तो व्याधिरसौ यद्व्याकरणमुच्यते ॥ इति चौशनसाः प्राहुरिति प्राह बृहस्पतिः । दुष्टग्रहगृहीतो वा भीतो वा राजदण्डतः ॥ पितृभ्यामभिशस्तो वा कुर्याद्व्याकरणे श्रमम् । वृत्तिः सूत्रं तिलाः माषाः कपत्री कोद्रवौदनः ॥ अजडाय प्रदातव्यं जडीकरणमुत्तमम् । इत्थं शङ्कासंग्रहोऽथ समाधेरपि संग्रहः ॥ रूपान्तरेण देवास्ते विचरन्ति महीतले । ये व्याकरणसंस्कारपवित्रितमुखा नराः ॥

यश्च व्याकुरुते वाचं यश्च मीमांसतेऽध्वरम् । तावुभौ पुरुषौ लोके पङ्क्तिपावनपावनौ ॥ वरं हि जातास्तिमयः गभीरे हि जलाशये । न मानवाः व्याकरणशुद्धिहीनमुखा भुवि ॥ ऐन्द्रं चान्द्रं च माहेशं दौर्गं कौमारमेवच । कालापं चैवाऽऽपिशलं कातन्त्रादिकमुच्यते ॥ अष्टादश पुराणानि चाष्टौ व्याकरणानि च । ज्ञात्वा सत्यवतीसूनुश्चक्रे भारतसंहिताम् ॥ 7 ननुचाशक्तिजा दोषाः प्रमादजनिताश्च ये । परिहर्तुमशक्यत्वान्न निषेध्या इति त्वसत् ॥ प्रमादमेव मा कार्षीः सामर्थ्याय यतस्व च । एवमर्थो निषेधोऽयं नाद्रियेतान्यथा ह्यसौ ॥ अन्ये सुखमुखारूढाः न क्लेशेन विवक्षवः । शक्ताश्चैवाप्रमत्ताश्च वदेयुरनिवारिताः ॥ अशक्तैर्नाशिताश्चान्ये दाक्षिण्याद्यनुवर्तनात् । जानन्तोऽपि प्रयुञ्जीरन् यदि शास्त्रं न वारयेत् ॥ तत्कथं नाम यत्किञ्चित् स्यादपभ्रंशकारणम् । दूरात्परिहरेयुस्तदिति यत्नो नियम्यते ॥ रीतिरेषा निषेधेषु चान्येषु परिगृह्यताम् । प्रमादश्चाप्यशक्तिश्च न पुरस्कृत्यतां बुधैः ॥

आर्याश्च म्लेच्छभाषाभ्यः कल्पयन्तः स्वकं पदम् पदान्तराक्षरोपेतं कल्पयन्ति कदांचन ॥ तस्माद्ये याज्ञिकैर्यैषां वैद्यैर्वार्था निरूपिताः । तेषां त एव शब्दानांमर्थाः मुख्या नचेतरे ॥ 8 भेदो नाम पदार्थानामवच्छेदः परस्परम् । संसर्गोऽपि पदार्थानामन्योन्येनानुरञ्जनम् ॥ स्वप्राधान्यात्पदार्थानां धर्मावेतावुभावपि । धर्मिभेदेन भिद्येते न ह्येकत्वमुपाश्रितम् ॥ अर्थैकत्वादेकवाक्यमित्यत्रेदं विचिन्तितम् । भाष्यवार्तिकयोः पूर्वमीमांसायां विलोक्यताम् । 9 नाम्नां द्विधैव संबन्धः सर्ववाक्येष्ववस्थितः । सामानाधिकरण्येन षष्ठ्या वा प्रतिपाद्यते ॥ सामानाधिकरण्यं च धर्मः शब्दगतः स्थितः । तस्य तात्पर्यविषयोऽप्यर्थस्ताच्छब्द्यमश्नुते ॥ सामानाधिकरण्यं तत्तादात्म्यमिति कीर्त्यते । विरोधैकान्तसिद्धान्ते तत्स्वरूपैक्यलक्षणम् ॥ तद्धि तावद्धर्मधर्मिजातिव्यक्त्यादिषूच्यते । धर्मधर्मिविभेदे तु सर्वथा नैक्यसंभवः ॥ धर्मभेदे तदायत्तो धर्मिभेदः व्यवस्थितः । स सिद्धान्तस्सौगतानामिति धीमद्भिनिश्चितः ॥

शब्दविभागः 439 तादात्म्यं तु विदुः केचित् ये भेदाभेदलक्षणम् । जातिव्यक्त्यादिषु तथा तादात्म्यमुपयन्ति ते ॥ अनेकान्तविदस्ते स्युः भाट्टास्तन्मार्गयायिनः । भर्तृप्रपञ्चादयश्च तन्मार्गस्य प्रवर्तकाः ॥ धर्मधर्म्यादिषु भिदावादिभिस्तार्किकैः मतः । धर्म्यैक्ये धर्मयोर्भेदः धर्मैक्येऽपि च धर्मिणोः ॥ विशिष्टयोरप्यभेदः तथा शुद्धविशिष्टयोः । तत्सिद्धान्ते तु तादात्म्यं वदितुं बहुधोचितम् ॥ सामानाधिकरण्येन चैवं तादात्म्यलक्षणम् । ऐक्यं त्रिधा विशुद्धैक्यं विशिष्टैक्यं भिदाऽभिधा ॥ अखण्डरसवस्त्वैक्यं चतुर्धाचोपपादितम् । सत्यादिशोधकवचस्स्वतद्व्यावृत्तिमार्गतः ॥ तत्त्वमस्यादिवाक्येषु चान्वयेनोपलक्षणात् । सर्वं खल्विदमित्यादौ मिथ्यार्थारोपणेन तु ॥ ज्योतींषि विष्णुरित्यादौ बाधया चोपपादितम् । ययाकयाऽपि विधया निर्विशेषं सुरक्षितम् ॥ ऐक्याध्यासापवादाश्च विशेषणविशेष्यता । सामानाधिकरण्यं च चतुर्धेत्यप्यवादिषुः ॥ विप्रो ब्राह्मण इत्यादौ विशुद्धैक्यं व्यवस्थितम् । इदं रजतमित्यादौ अध्यासस्स्याद्विवक्षितः ॥

देह आत्मेत्यादिदेशे त्वपवादः प्रकीर्त्यते । नीलमुत्पलमित्यादौ स्याद्विशेषणतेति च ॥ सविशेषब्रह्मविदः तत्त्वत्रयविदश्च ये । सर्वत्र तेषां तादात्म्यं विशिष्टाद्वैतलक्षणम् ॥ अविरोधान्तरङ्गत्वजातिभोगाद्यभेदतः । एकोक्तिरपृथक्सिद्धेः देशकालदशादिभिः ॥ परिणामविदो ये च भेदाभेदविदोऽपि च । अनेकान्तविदां तेषां तत् भेदाभेदलक्षणम् ॥ संप्रदायप्रभेदेन विवक्षाभेदतोऽपिवा । वेदान्तिनां भिदा तत्र विश्रुतेत्युपरम्यते ॥ 10 चतुर्विधस्तथा भेदः पूर्वस्त्वात्यन्तिको मतः । औपाधिको द्वितीयस्स्यात् तृतीयः पारिणामिकः । वैवर्तिकश्चतुर्थस्स्यात् अभेदोऽपि चतुर्विधः । अखण्डत्वं च तादात्म्यं वैशिष्ट्यं चौपचारिकम् । अतश्च बाधाद्ब्रह्मैक्यात् आत्मत्वादुपचारतः । तच्चतुर्धा जगद्ब्रह्मसामानाधिकरण्यगीः ॥ स्वभावाच्च विवर्ताच्च संकल्पात्परिणामतः । चतुर्विधं कारणत्वं वादिभिस्तैर्विकल्प्यते ॥ तथा कूटस्थशब्दार्थः चतुर्धा परिदृश्यते । कूटस्थो निर्विकारस्स्यात्तथा साधारणोऽपिचं ॥

वेदवादः 44 मायाध्यक्षोऽथवा ज्ञेयः राशिवत्स्थित एववा । योगवृत्त्यैव कूटस्थपदमेवं विकल्प्यते ॥ (90) वेदवादः. 1 कूटस्थनित्यवर्णानां राशिर्वेदोऽभिधीयते । क्रमः प्रवाहानित्यस्स्यादिति मीमांसका विदुः ॥ क्रमावच्छिन्नवर्णौघस्सदा सर्वज्ञबुद्धिगः । कूटस्थनित्यं वेदाख्यं तत्त्वं श्रीमध्वसम्मतम् ॥ सृष्टिकाले च वर्णानामुत्पत्तिं प्रलये पुनः । विनाशं केचिदिच्छन्ति सैषा कल्पान्तनित्यता ॥ वर्णस्याशुविनाशोऽपि क्रमे स्वातन्त्र्यभङ्गतः । वेदनित्यत्ववादस्स्यादिति साधारणी सृतिः ॥ 2 अथान्येषां वैदिकानामभिप्रायस्य संग्रहः । अयमेषः तत्त्वविद्भिः विनिर्णीतः प्रकाश्यते ॥ वेदो हि नित्योऽभिप्रायः कश्चित्स्यात्पारमेश्वरः । श्रुतिस्स्मृतिर्ममैवाज्ञेत्यादि मानं परश्शतम् ॥ तदभिव्यञ्जके वाक्ये वेदशब्दः प्रयुज्यते । प्रयुज्यते चाप्यर्थे हि वेदविच्छास्त्रविद्यथा ॥ यज्ञेन वाच इतिच बह्वृचैः पठ्यते श्रुतिः । हृदयेनाभ्यनुज्ञात इत्येषा मानवी स्मृतिः ॥

442 मानमेयरहस्यश्लोकवार्तिके हृदयं वेद इतिच भाष्यं मेधातिथोरिह । महतां हृदयं वेद इत्यप्याह कुमारिलः ॥ महत्परिग्रहो ह्येष विशेषो ह्यागमान्तरात् । एकस्य प्रतिभानं तु कृतकान्न विशिष्यते ॥ अपिचोदयनाचार्यैः यन्न्यायकुसुमाञ्जलौ । उत्पत्तितो वाऽभिव्यक्तितो वाऽभिप्रायतोऽपिवा अनवच्छिन्नवर्णानां नैरर्थक्यमितीरितम् । तत्र नैयायिकमतमुत्पत्तिपदसूचितम् ॥ मीमांसकमतं चाथाभिव्यक्तिरिति कथ्यते । अस्वातन्त्र्यं हि रचनाविशेषे हि तदाशयः ॥ अथाभिप्रायत इति तदौपनिषदं मतम् । सर्वार्थसिद्धौ वेदान्ताचार्योक्तिरवबुध्यताम् ॥ एतदेवहि वेदस्यापौरुषेयत्वनित्यते । प्राक्प्रागुच्चारणाधीनोच्चार्यमाणत्वमेव तत् ॥ नह्येकरूपवाक्यस्य प्रवाहानादितां विना । प्रतिपद्यामहे वेदवाक्येष्वन्यामनादिताम् ॥ प्रतिकल्पं चैकरूपाभिसन्धिः परमेश्वरः । वाक्यं वदत्येकरूपमिति वेदस्य नित्यता ॥ नैतावताऽऽज्ञारूपत्वं वेदवाक्ये विहन्यते । द्योतयत्येव हि विभोरभिप्रायं सनातनम् ॥

अन्यथा करणे शक्तोऽप्येतं नान्यथयत्यसौ । धाता यथा पूर्वमिति स्वयमेवोपदिश्यते ॥ अव्यवस्थितशङ्काऽपि दूरेणोत्सार्यते ततः । सर्वेभ्यो वत्सलतरं शास्त्रमित्यपि कीर्त्यते ॥ वर्णं पदं वा वाक्यं वा स्फोटं तदतिरेकि वा । तत्त्वान्तरं वेति बुधाः जानते ये तु वैदिकाः ॥ प्रमाणानि पुनर्यानि ज्ञायन्ते तत्र भूरिशः । सर्वेषामत्र तात्पर्यमिति सामान्यनिर्णयः ॥ ३ नित्यत्वादेरसिद्धत्वात्, अभ्युपेत्योच्यतेऽथवा । सुतरामप्रमाणत्वं वक्तृप्रामाण्यवर्जनात् ॥ परिग्रहाच्च महतां प्रामाण्यमिह दुर्वचम् । ज्ञापकश्चायमप्यर्थः कारके संगतिः कुतः ॥ कोऽयं महाजनो नाम किमाचारः किमास्पदः । किंसंख्यः किंसमाचार इति व्याख्यातुमर्हसि ॥ महाजनगृहीतत्वं पित्राद्यनुगमादि च । बौद्धाः द्वीपान्तरापेक्षं वदन्त्येव स्वदर्शने ॥ प्रमाणान्तरदृष्टं हि शब्दोऽन्यं प्रापयेत्सदा । स्मृतिवच्च स्वयं तस्य प्रामाण्यं नोपपद्यते ॥ नूनं तत्रानुभूतोऽसावित्याप्तोक्तिनिबन्धना । बुद्धिरस्साक्षाददृष्टेऽपि युक्ताऽर्थे पुरुषोक्तिः ॥

44 मानमेयरहस्यश्लोकवार्तिके नात्मीयादन्यदीयाद्वा प्रत्यक्षादेर्विना क्वचित् । वचसस्सत्यता दृष्टा तथा स्याच्चोदनास्वपि ॥ तेन सत्यपि विज्ञाने प्रतिभादेर्यथैव हि । स्वातन्त्र्यान्न प्रमाणत्वं तथा वेदेऽपि दृश्यताम् ॥ स्वर्गयागादिसंबन्धविषया चोदना मृषा । प्रत्यक्षाद्यगतार्थत्वात् ईदृग्बुद्धादिवाक्यवत् ॥ यद्वाऽऽप्तेनाप्रणीतत्वात् बालोन्मत्तादिवाक्यवत् । व्योमादिवच्च नित्यत्वात्प्रामाण्यस्य निराकृतिः ॥ यदिवा पुरुषाधीनप्रामाण्यास्सर्वचोदनाः । स्वतो वा न प्रमाणं स्युः वाक्यत्वात्पुरुषोक्तिवत् ॥ प्रामाण्यं वा नरापेक्षं सर्वशब्देषु गम्यताम् । शब्दैस्संबध्यमानत्वात् अप्रामाण्यं यथैव हि ॥ न स्याद्वक्तृगुणानां चेत् वचःप्रामाण्यहेतुता । तद्दोषैरप्रमाणत्वं किमित्यस्य भविष्यति ॥ ततश्च पुरुषाभावात्सति वा शुद्ध्यसंभवात् । निर्मूलत्वादप्रमाणत्वं चोदनायां न युज्यते ॥ एवंस्थिते तु वेदस्य सतिवाऽसतिवा नरे । प्रामाण्यं दुर्लभमिति शङ्कायामिदमुच्यते ॥ 4 स्वतस्सर्वप्रमाणानां प्रामाण्यमिति गम्यताम् । नहि स्वतोऽसती शक्तिः कर्तुमन्येन शक्यते ॥

तस्माद्बोधात्मकत्वेन बुद्धेः प्राप्ता प्रमाणता । अर्थान्यथात्वहेतूत्थदोषज्ञानादपोद्यते ॥ अप्रामाण्यं त्रिधा भिन्नं मिथ्यात्वाज्ञानसंशयैः । वस्तुत्वाद्विविधस्यात्र संभवो दुष्टकारणात् ॥ पौरुषेये तु वचने प्रमाणान्तरमूलता । तदभावे हि तद्दुष्येत् इतरन्न कदाचन ॥ कर्तृमत्त्वे तु वेदस्य सम्यङ्गिथ्यात्ववादिभिः । कर्ता गुणाश्च दोषाश्च महाजनपरिग्रहः ॥ एवमादि विना युक्त्या कल्प्यं, मीमांसकैः पुनः । इदानीमिव सर्वत्र दृष्टान्नाधिकमिष्यते ॥ तेन नाप्तोपदेशत्वं न स्यादागमलक्षणम् । नाप्तस्य संभवो वेदे, लोके नाप्तात्प्रमाणता ॥ स्वतः सर्वप्रमाणत्वं नचेत्स्याद्दोषदर्शनम् । तेनैव सर्वाक्षेपाणां निवारणमिति स्थितम् ॥ (91) वेदवैलक्षण्यवादः. 1 वेदाद्बुद्धागमस्यायं विशेषस्तन्त्रवार्तिके । निरूपितो विस्तरशः तत्संक्षेपोऽवधार्यताम् ॥ यदेव भवतां गोत्रं तदस्माकमपीतिवत् । आहुः स्वागमनित्यत्वं परवाक्यानुकारिणः ॥

महाजनगृहीतत्वं पित्राद्यनुगमादि च । तेऽपि द्वीपान्तराक्षेपं वदन्त्येव स्वदर्शने ॥ संप्रदायविरुद्धं तद्वचनं ह्यवधार्यते । बुद्धोपदिष्टो धर्मोऽयं अनित्यं सर्वसंस्कृतम् ॥ क्षणिकास्सर्वसंस्काराः अस्थिराणां कुतः क्रियाः । बुद्धिबोध्यं त्रयादन्यत् संस्कृतं क्षणिकं च तत् ॥ नच शब्दार्थसंबन्धकूटस्थत्वमनिच्छताम् । नित्यता व्यवहारस्य निराधाराऽवकल्पते ॥ शब्दादिषु विनश्यत्सु व्यवहारः क्व वर्तताम् । २ स्थितैषां धर्मतेत्येतत् अर्थशून्यमतो वचः ॥ एषेत्यपि न निर्देष्टुं शक्या क्षणविनाशिनी । किमुत स्थितया साकं एषेत्यस्यैकवाक्यता ॥ तस्मान्नागमनित्यत्वं शब्दानित्यत्ववादिनाम् । नच पुंवचनं सर्वं सत्यत्वेनावगम्यते ॥ वागिह श्रूयते यस्मात्प्रायादनृतवादिनी । तस्मादपौरुषेयैव नित्या भवति नेतरा ॥ ३ यद्धेतुदर्शनं तन्त्रवार्तिके विशदीकृतम् । तदेव चाप्युदयनः व्याचख्यौ कुसुमाञ्जलौ ॥ सम्यङ्निरूपिता न्यायपरिशुद्धौ पदव्यसौ । तत्संक्षेपोऽप्यत्र किंचित्क्रियते सुधियां कृते ॥