मुद्गल पुराण (अष्टावतार चरितम्)
Mudgala Puranam with Commentary
महर्षि मुद्गल द्वारा
स्रोत: निर्णय सागर प्रेस · निर्णय सागर प्रेस (उद्गम)
[Header: खं. ४ अ. ३० | पान ८३]
भूत्वा ब्रह्मभूतो बभूव ह । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥५६॥ एवं व्रतस्य माहात्म्यं कथितं ते नृपोत्तम ।
अन्यत्त्वं शृणु भावेन परं कार्तिकसंभवम् ॥५७॥ चांडालः कोऽपि पापात्मा हिंसायां तत्परोऽभवत् । जघान ब्राह्मणा-
नन्यान् जंतून् वनसमाश्रितान् ॥५८॥ परस्त्रियं वने दृष्ट्वाऽयभक्तां हठसंयुतः । एवं नानाविधं पापं चकार दुर्मतिः सदा
॥५९॥ कदाचित् कार्तिके मासि चतुर्थ्यां वनमाश्रितः । कृष्णायां तत्र सर्पेण दष्टः पापपरायणः ॥६०॥ ततोऽतिभयसंयुक्तः
स्वगृहं प्रत्यपद्यत । तत्रोपायाः कृता नाना स्वजनैर्विषहारकाः ॥६१॥ तथापि विषबाधा च न जहौ तं सुदुर्मतिम् ।
ततश्चन्द्रोदये किंचित् सावधानो बभूव ह ॥६२॥ तत्रान्नं भक्षयित्वा स पुनस्तद्गरलेन च । व्याकुलः पतितस्तत्र गतचेष्टो-
ऽन्त्यजोऽभवत् ॥६३॥ पंचम्यां स मृतः पापी ब्रह्मभूतो बभूव ह । व्रतपुण्यप्रभावेन तदद्भुतमिवाऽभवत् ॥६४॥ एवं
नानाविधा राजन् व्रतपुण्यप्रभावतः । बभूविरे ब्रह्मभूता मया वक्तुं न शक्यते ॥६५॥ एतत्ते कथितं सर्वं माहात्म्यं
कार्तिके नृप । संकष्ट्या यस्तु पठति शृणोतीप्सितमालभेत् ॥६६॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते कार्तिककृष्णचतुर्थीमाहात्म्यवर्णनं नाम एकोनत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मार्गशीर्षे च कृष्णायाश्चतुर्थ्या वद मानद । माहात्म्यं सर्वदं स्वामिन् येन तृप्तो
भवाम्यहम् ॥१॥ वसिष्ठ उवाच । इतिहासं पुरावृत्तं कथयामि सविस्तरम् । राजा बभूव तेजस्वी हरिश्चंद्रः प्रतापवान् ॥२॥
अयोध्यायां स्थितः सोऽपि नानाधर्मपरायणः । सदा सद्गुणसंयुक्तो यज्वा कर्मपरायणः ॥३॥ यद्यच्च याचते विप्रस्तद्ददाति स
हर्षतः । तस्य पुण्येन तुल्यं तु न बभूव धरातले ॥४॥ ततश्छलयितुं योगी विश्वामित्रः समाययौ । सर्वराज्यं नृपस्यैव जगृहे
दानमार्गतः ॥५॥ राज्यभ्रष्टं नृपं कृत्वा परप्रांते गतं पुनः । नानामिषेण तं तत्राच्छलयन् मुनिसत्तमः ॥६॥ ततः सोऽपि
नृपोऽत्यंतं धर्मयुक्तो बभूव ह । न चचालातिदुःखेन संयुक्तः परमार्थवित् ॥७॥ तत्रैकदा चतुर्थी सा मार्गशीर्षे समागता ।
कृष्णा नृपः क्षुधायुक्तो बभूव तृषया युतः ॥८॥ छलितो मुनिनाऽत्यंतं ततश्चंद्रोदयोऽभवत् । तत्रान्नं भक्षयामास राजेंद्रो
दैवयोगतः ॥९॥ पंचम्यां बुद्धिसंभेदो विश्वामित्रस्य चाऽभवत् । तज्ज्ञात्वा विस्मितो योगी विचचार स्वचेतसि ॥१०॥
पान ८४
ततस्तेन व्रतं तत्र ज्ञातं राज्ञा कृतं महत् । प्रत्यक्षं वरदो भूत्वा हरिश्चंद्रमुवाच ह ॥११॥ कुरु राज्यं महाबुद्धे शृणु मे परमं
वचः । तव राज्ये चतुर्थीजं व्रतं नष्टं बभूव ह ॥१२॥ तेन त्वं पीडया युक्तः प्रजातोऽसि नृपाधम । अहं संक्षुभितो वाऽपि
तदर्थं नात्र संशयः ॥१३॥ सर्वाद्यौ तद्द्रुतं कार्यं चतुःपादप्रदं नृप । नित्यवन्नात्र संदेहः सर्वसिद्धिप्रदायकम् ॥१४॥ त्वया
नानाविधं पुण्यं कृतं विधियुतं महत् । तत्सर्वं निष्फलं जातं व्रतहीनप्रभावतः ॥१५॥ जनैः सर्वैर्महाराज नरके त्वं
पतिष्यसि । त्वया कृतं व्रतं मुख्यमधुनाऽज्ञानतो महत् ॥१६॥ तेनाऽहं प्रीतिसंयुक्तः कृतो वै राजसत्तम । तत् कुरुष्व
महीपाल जनैः सौख्यमवाप्स्यसि ॥१७॥ एवमुक्त्वा ददौ तस्मै मंत्रमष्टाक्षरं मुनिः । सविधिं गणनाथस्य सोऽपि तं
पुनरब्रवीत् ॥१८॥ हरिश्चन्द्र उवाच । गणेशस्य स्वरूपं मे वद सर्वज्ञ ते नमः । व्रतस्यैव प्रभावं त्वं विधियुक्तं महामुने ॥१९॥
विश्वामित्र उवाच । गणेश्वरस्य माहात्म्यं शृणु संक्षेपतो नृप । एक एव गणेशोऽयं सर्वे तस्य गणाः स्मृताः ॥२०॥ मनोवाणीमयं
विश्वं तदेव गणवाचकम् । नानाभावसमायुक्तं मया वक्तुं न शक्यते ॥२१॥ मनोवाणीविहीनं यन्नानाब्रह्मप्रवाचकम् ।
गणरूपं तु विज्ञेयं वेदे पश्य महीपते ॥२२॥ सिद्धिर्भ्रांतिकरी प्रोक्ता बुद्धिर्भ्रांतिधरा नृप । ताभ्यां क्रीडति विघ्नेशश्चित्ते
चिंतामणिः स्थितः ॥२३॥ तं भजस्व विधानेन तदा शांतिमवाप्स्यसि । राज्यकर्ताऽपि वन्द्यस्त्वं योगिनां प्रभविष्यसि ॥२४॥
चित्तं पंचविधं प्रोक्तं तत्र मोहश्च पंचधा । समोऽहं चित्तमुत्सृज्य चिंतामणिर्भविष्यसि ॥२५॥ एवमुक्त्वा व्रतस्यैव
माहात्म्यं मुनिपुंगवः। श्रावयामास तस्मै तत्ततश्चांतर्हितोऽभवत् ॥२६॥ विश्वामित्रं गतं ज्ञात्वा राजा हर्षसमन्वितः । अयो-
ध्यायां ययौ वेगात् प्रधानैरनुमोदितः ॥२७॥ नागरैः सह राजाऽपि चकार व्रतमुत्तमम् । शुक्लकृष्णचतुर्थीजं गणेशभजने रतः
॥२८॥ सर्वत्रैवं प्रशस्तं तद् व्रतं चकार हर्षतः । भूमिसंस्था जनाः सर्वे व्रतं चक्रुर्विशेषतः ॥२९॥ नानेन सदृशं किंचित् सर्वदं
व्रतमुत्तमम् । ततो रोगादिभिर्हीनो बभूवे हर्षसंयुतः ॥३०॥ राजा गणपतिं नित्यमभजन्नान्यचेतसा । पुत्रे राज्यं विनिक्षिप्य
सस्त्रीकश्च ययौ वनम् ॥३१॥ तत्रैव गणराजं सोऽभजत् सुतपसा युतः । शांतिं प्राप्तो विशेषेणाऽभवद्योगी स पार्थिवः ॥३२॥
अंते स्वानंदगो भूत्वा गणेशे लीनतां गतः । एवं व्रतस्य माहात्म्यं कथितं तेऽजननंदन ॥३३॥ जनाः सर्वे क्रमेणैव ब्रह्मभूता
बभूविरे । चतुर्थीव्रतजेनैव पुण्येन परमेण ते ॥३४॥ अन्यच्छृणु महीपाल मालवे नगरं महत् । कर्णा नाम च तत्राऽऽसीद्वेश्या
नरविमोहिनी ॥३५॥ लोकान् सा हावभावेन मोहयामास तत्क्षणात् । नाना जनाः स्वधर्मं त्यक्त्वाऽभवन् वै तदात्मकाः
[खं. ४ अ. ३१] [पान ८५]
॥३६॥ स्वस्वस्त्रियं परित्यज्य तन्निष्ठास्ते बभूविरे । मद्यमांसरताः सर्वे नराधिप कृतास्तया ॥३७॥ ब्राह्मणादय एवं ते
भ्रष्टा जाता विशेषतः । चौर्यादिकर्मसंयुक्ताः किं वदामि महामते ॥३८॥ कथने परदोषाणां दोषी भवति मानवः ।
एतादृशी तु सा वेश्या पापरूपाऽतिदारुणा ॥३९॥ नानाजनैर्युता राजन्नरके कृतनिश्चया । न विरामं चकाराऽपि नराणां
मोहने कदा ॥४०॥ एकदा ज्वरसंयुक्ता मार्गशीर्षे बभूव च । चतुर्थ्यां कृष्णपक्षे साऽभवद्दाहेन पीडिता ॥४१॥ पंचम्यां
सा मृता तत्र ब्रह्मभूता बभूव ह । व्रतस्यैव प्रभावेण पतितानां सहायिनी ॥४२॥ एवं नाना जना राजन् ब्रह्मभूता बभूविरे ।
तन्न ते कति वै ब्रूयां नालं वर्षायुतैरपि ॥४३॥ मार्गशीर्षचतुर्थ्या यन् माहात्म्यं कथितं परम् । पठनात् श्रवणात् सर्वसिद्धिदं
भवति ह्यहो ॥४४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते मार्गशीर्षकृष्णचतुर्थीमाहात्म्यवर्णनं नाम त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । पौषकृष्णचतुर्थ्यास्तु माहात्म्यं वद भो गुरो । न तृप्यामि कथां शृण्वन् सर्वसिद्धिकरीं
पराम् ॥१॥ वसिष्ठ उवाच । इतिहास प्रवक्ष्यामि पुरातनभवं महान् । राजा वीरसहो नाम बभूवे हस्तिनापुरे ॥२॥ बलवान्नीति-
युक्तश्चाभवच्छस्त्रास्त्रपारगः । धर्मशीलो वदान्यः स मान्यान् मानयिता भृशम् ॥३॥ नानादानरतश्चापि वांध्यदोषयुतो-
ऽभवत् । तदर्थं यत्नमास्थाय देवसेवापरोऽभवत् ॥४॥ ब्राह्मणैः पुत्रकामार्थं पुत्रीयामिष्टिमाहरत् । नैव लेभे स तदपि पुत्रं
वंशविवर्धनम् ॥५॥ तीर्थक्षेत्रादिकस्थाने नानाधर्मानकारयत् । स्वयं पूजापरो भूत्वा न लेभे संततिं ततः ॥६॥ ततोऽति-
दुःखितो राजा त्यक्त्वा राज्यं वने ययौ । सस्त्रीको भ्रममाणः स शीतोष्णैः पीडितोऽभवत् ॥७॥ महावनान्तरं गत्वा
दुःखशोकसमन्वितः । सिंहव्याघ्रादिकान् दृष्ट्वा भयहीनश्चचार ह ॥८॥ तत्राऽऽजगाम योगींद्रस्त्रितो नाम महामुनिः ।
तं दृष्ट्वा प्रणनामाऽऽदौ कृतांजलिपुटः स्थितः ॥९॥ तेन पृष्ट उवाचाऽसौ निजं सर्वं महायशाः । रुरोद तं महायोगी जगाद
करुणायुतः ॥१०॥ त्रित उवाच । राज्ये ते नृपशार्दूल सर्वसिद्धिकरं व्रतम् । नष्टं चतुर्थीजं पूर्णं तेन वंध्योऽसि निश्चितम् ॥११॥
सर्वांदौ तत् प्रकर्तव्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं सर्वं चतुःपादप्रदं भवेत् ॥१२॥ नानाधर्मपरस्त्वं वै जनास्तथैव
ख. ४ अ. ३१
पान ८६
मानद । फलहीनप्रभावेण पतिष्यंति च रौरवे ॥१३॥ एवमुक्त्वा चतुर्थ्यास्तु माहात्म्यं मुनिसत्तमः । श्रावयामास संपूर्णं
ततस्तं त्वब्रवीन्नृपः ॥१४॥ वीरसह उवाच । गणेश्वरस्य माहात्म्यं वद मे करुणानिधे । एतादृशं व्रतं यस्य तं भजिष्यामि
नित्यदा ॥१५॥ त्रित उवाच । गणेशस्य स्वरूपं यद्वक्तुं शक्यं कथं भवेत् । उपाधियुक्तं भावेन कथयामि शृणुष्व तत् ॥१६॥
अहं पुरा तपोयुक्तः शापानुग्रहणे क्षमः । एको द्वितश्च मे राजन् भ्रातरौ विद्यया युतौ ॥१७॥ ताभ्यां यज्ञार्थमेवाहं गतो
राज्ञो महात्मनः । अभवं कारयित्वा तं स्वगृहे गंतुमुत्सुकः ॥१८॥ दक्षिणापशुभिर्युक्तं विपुलैर्मार्गसंस्थितम् । भ्रातरौ
लोभसंयुक्तौ कूपे क्षिप्त्वा प्रजग्मतुः ॥१९॥ जलहीने हि कूपेऽहं पतितः खेदसंयुक्तः । तत्र मानसिकं यज्ञं प्रचकार
हितावहम् ॥२०॥ आजग्मुरस्तत्र देवाद्या हविर्भागार्थमादरात् । मया संपूजिताः सर्वे तृप्ताः संहर्षिता बभुः ॥२१॥ अमरा
ईप्सितं सर्वे वरं मह्यं ददुर्नृप । ततः कूपाच्च मां सर्वे बहिः क्षिप्त्वा प्रजग्मिरे ॥२२॥ ततोऽहं याचयित्वाऽन्यं नृपं गोभिः
समन्वितः । हर्षेण स्वाश्रमं गत्वा संस्थितस्तप आचरन् ॥२३॥ ततोऽतितपसा ज्ञानं सर्वगं ह्यभवत्ततः । तपस्त्यक्त्वा
च योगेन प्राभवं भूमिसाधकः ॥२४॥ जडोन्मत्तपिशाचाद्या भूमयः साधिता मया । अंते ब्रह्मगतोऽतिष्ठं समात्माऽहं
स्वशांतिदे ॥२५॥ स्वाश्रमे हर्षयुक्तोऽहं ततो मुद्गल आगतः । धर्मशीलो वदान्यश्च मान्यान् मानयिता भृशम् ॥२६॥
योगींद्रैर्वंदितो नित्यं तं दृष्ट्वा प्रणतोऽभवम् । पूजयित्वा सुविश्रांतं तमपृच्छं कृतांजलिः । शांतियोगं वद स्वामिन् शांतिभ्यः
शांतिदायकम् ॥२७॥ मुद्गल उवाच । असच्छक्तिश्च सत्सूर्यः समो विष्णुर्महामुने । अव्यक्तः शंकरस्तेषां संयोगे गणपो-
ऽभवत् ॥२८॥ संयोगे मायया युक्तो गणेशो ब्रह्मनायकः । अयोगे मायया हीनो भव ते मुनिसत्तम ॥२९॥ संयोगा-
योगयोर्योगे योगो गाणेशसंज्ञकः । शांतिभ्यः शांतिदः प्रोक्तो भज तं भक्तिसंयुतः ॥३०॥ एवमुक्त्वा गणेशस्य ददौ
मंत्रं स मुद्गलः । एकाक्षरं विधियुतं ततः सोऽंतर्हितोऽभवत् ॥३१॥ ततोऽहं गणराजं तमभजं सर्वभावतः । तेन शांति-
समायुक्तश्चरामि ह्यकुतोभयः ॥३२॥ न गणेशात् परं ब्रह्म न गणेशात् परं तपः । न गणेशात् परं कर्म ज्ञानं न गणपात्
परम् ॥३३॥ न गणेशात् परो योगो भक्तिर्न गणपात् परा । तस्माच्च सर्वपूज्योऽयं सर्वादौ सिद्धिदायकः ॥३४॥ गणेशानं
परित्यज्य कर्म ज्ञानादिकं चरेत् । तत्सर्वं निष्फलं याति भस्मनि प्रहुतं यथा ॥३५॥ सर्वांस्त्यक्त्वा गणेशानं भजतेऽनन्य-
चेतसा । सर्वसिद्धिं लभेत् सद्यो ब्रह्मभूतः स कथ्यते ॥३६॥ एवमुक्त्वा त्रितस्तस्मै ददौ मंत्रं दशाक्षरम् । विधियुक्तं ततः
साक्षादंतर्धानं चकार ह ॥३७॥ राजा वीरसहो राजन् हर्षतः स्वपुरं ययौ । प्रधानैर्नागरैः सर्वैर्मानितः संस्थितोऽभवत् ॥३८॥
तत्रादौ पौषगां कृष्णां चतुर्थी तां समागताम् । चकार स्वपुरस्थैः स विधियुक्तां सुहर्षितः ॥३९॥ प्रशस्तं तद् व्रतं तेन
कृतं सर्वत्र भूमिप । शुक्लकृष्णचतुर्थीजं व्रतं चक्रुर्जना भुवि ॥४०॥ ततः पुत्रं महाशूरं नीतिज्ञं धर्मसंयुक्तम् । लेभे
नानागुणैर्युक्तं जनाः संहर्षिता बभुः ॥४१॥ रोगादिभिर्विनिर्मुक्ता हृष्टाः पुष्टाश्च तेऽभवन् । यत्र तत्र चतुर्थीजं माहात्म्यम-
वदन् जनाः ॥४२॥ पुत्रं राज्ये समास्थाप्य राजा निर्वृत्तिधारकः । सस्त्रीको गणनाथं तमभजद्भावसंयुतः ॥४३॥ अंते
ब्रह्ममयः सोऽपि बभूव व्रतपुण्यतः । क्रमेण भूमिसंस्थास्ते ब्रह्मभूता बभूविरे ॥४४॥ एवं व्रतस्य माहात्म्यं कथितं ते
नृपोत्तम । अन्यच्छृणु महाभाग पापनाशकरं महत् ॥४५॥ गौडे कश्चिद् वणिक् पापी लोभयुक्तो बभूव ह । द्रव्यार्थं
पितरं सोऽपि जघान विषदोषतः ॥४६॥ मातरं स तथा दुष्टो मार्गे नानाजनांस्तथा । वणिजो विषयोगेन मारयामास
नित्यदा ॥४७॥ एवं बहुधनो जातः परस्त्रीलालसोऽभवत् । मद्यमांसपरो दुष्टो सतीसंगेषु लालसः ॥४८॥ नानामिषेण
दुष्टः स्म सतीर्धर्षति वेगतः । परस्त्रियस्ततो राज्ञा धृतोऽसौ ताडितोऽभवत् ॥४९॥ निगडैर्बद्ध एवाऽसौ संस्थितो राजवेश्मनि ।
दैवयोगेन पौषी सा प्राप्ता कृष्णा चतुर्थिका ॥५०॥ तस्यामन्नादिभिर्हीनः स्थितो दुःखसमन्वितः । चंद्रोदये रक्षकैर्यद्दत्त-
मन्नमभक्षयत् ॥५१॥ पंचम्यां राजदूतैः स शूलप्रोतो ममार ह । ब्रह्मभूतः स वै जातो व्रतपुण्यप्रभावतः ॥५२॥
एवमज्ञानसंयुक्ता ज्ञानयुक्ता बभूविरे । ब्रह्मभूता व्रतस्यैव प्रभावेण महामते ॥५३॥ तत्रैव कति ते राजन् कथयामि
विशेषतः । न वक्तुं शक्यते तस्मादुक्तं संक्षेपतो मया ॥५४॥ इदं पौषस्य संकष्ट्या माहात्म्यं संशृणोति यः । पठेद्वा
तस्य शुभदं भविष्यति निरंतरम् ॥५५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते पौषकृष्णचतुर्थीमाहात्म्यवर्णनं नामैकत्रिंशोऽध्यायः ॥
शीर्षक (Header):
खं. ४ अ. ३२ | पान ८८
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । मलमासे च संकष्ट्याश्चतुर्थ्या वद मानद । माहात्म्यं प्रीतिदं पूर्णं न तृप्तोऽहं
कृपानिधे ॥१॥ वसिष्ठ उवाच । आंध्रदेशे महाराजो बभूवे रैवतांतरे । धर्मदत्त इति ख्यातो नानाधर्मपरायणः ॥२॥
यज्वा विनीतकोऽत्यंतं नीतिज्ञोऽखिलतोषकृत् । षष्ठांशग्राहकः सोऽपि प्रजापालनतत्परः ॥३॥ जलोदरयुतोऽकस्माद्भवन्
मानदायकः । सार्वभौमोऽतिपापेन गृहीतः सर्वशास्त्रवित् ॥४॥ नानोपायाः कृतास्तस्य शांतये नृपसत्तम । तथाऽपि
रोगनिर्मुक्तो न बभूव महीपतिः ॥५॥ तुलादानादिकान्येव महादानानि पीडितः । चकार रोगयुक्तस्तदप्यत्यंतमजायत ॥६॥
परिक्रमन् स तीर्थानि चकार विधिसंयुतः । देवताऽराधनं राजा नाऽभवद्रोगवर्जितः ॥७॥ ततोऽतिदुःखितो राजा जलेनैवा-
त्मघातनम् । विषेण कर्तुमुद्युक्तो नानाजनैः सुविह्वलैः ॥८॥ ततोऽकस्मान् महायोगी चाष्टावक्रः समाययौ । तद्गृहे तं
नमस्कृत्य पूजयामास बांधवैः ॥९॥ भोजितं तं प्रणम्यैव कृत्वा करपुटं नृपः । धर्मदत्त उवाचाऽसौ विनयावनतोऽभवत् ॥१०॥
धर्मदत्त उवाच । धन्योऽस्म्यनुगृहीतोस्मि सफलो मे भवोऽभवत् । तव दर्शनतो विप्र साक्षाद्योगीश्वरस्य तु ॥११॥ आत्मघाते-
ऽहमुद्युक्तस्तत्र ते दर्शनं महत् । प्राप्तं पुण्यसमूहेन नरको न भविष्यति ॥१२॥ वसिष्ठ उवाच । एवं वदंतमानंदयुक्तो
योगींद्रसत्तमः । उवाच तं महाराजं दयया करुणानिधिः ॥१३॥ अष्टावक्र उवाच । किमर्थं देहघाते त्वमुद्यतोऽसि महामते ।
रोगदुःखविनिर्मुक्तो भविष्यसि न संशयः ॥१४॥ तव राज्ये महीपाल चतुर्थीमुख्यकव्रतम् । नष्टं तेन महोग्रेण पापेन
संयुतो भवान् ॥१५॥ राजा राष्ट्रकृतं पापं त्वया प्राप्तं तथैव तत् । त्वमपि व्रतसंहीनः पतितोऽसि नृपाधम ॥१६॥
सर्वादौ तद्व्रतं कार्यं चतुर्वर्गफलप्रदम् । तदा कर्म कृतं राजन् फलयुक्तं भवेत् किल ॥१७॥ त्वया धर्मयुतं कर्म कृतं
नानाविधं तथा । चतुःपदार्थहीनं तद्बभूव ह जनैः कृतम् ॥१८॥ सर्वैः सह जनै राजन्ररके त्वं पतिष्यसि । तदर्थं व्रतराजं
तत् कुरु सर्वसमन्वितः ॥१९॥ एवमुक्त्वा चतुर्थ्या यन् माहात्म्यं मुनिसत्तमः । श्रावयामास तस्मै स करुणायुतचेतसा ॥२०॥
श्रुत्वा मुख्यं स माहात्म्यं धर्मदत्तः सुविस्मितः । उवाच तं हि योगींद्रं हर्षयुक्तेन चेतसा ॥२१॥ धर्मदत्त उवाच ।
पूर्वपुण्यं महन् मेऽस्ति कथनाय न शक्यते । मयेदृशं व्रतं विप्र श्रुतं तेन महाद्भुतम् ॥२२॥ अधुना विघ्नराजस्य स्वरूपं मे
दयानिधे । कथयस्व सदा देवं भजिष्यामि महाप्रभुम् ॥२३॥ न सामान्यं चरित्रं तत्तस्य देवाधिपस्य यत् । यस्येदृशं व्रतं
मुख्यं सर्वसिद्धिप्रदं भवेत् ॥२४॥ अष्टावक्र उवाच । धर्मदत्त महाभाग शृणु त्वं गणपस्य यत् । यस्येदृशं व्रतं मुख्यं सर्वसिद्धि-
खं. ४ अ. ३२ | पान ८९
प्रदं भवेत् ॥२५॥ निर्गुणं गजवाच्यं यद्ब्रह्म मस्तकमेव च । तस्य देहः सगुणं ब्रह्म योगे गजाननः ॥२६॥ सिद्धिर्भ्रांतिस्वरूपा
सा बुद्धिर्भ्रांतिधराऽभवत् । ताभ्यां क्रीडति विघ्नेशो मायाभ्यां परमार्थतः ॥२७॥ स्वसंवेद्येन योगेन लभ्यते दर्शनं महत् ।
तेन स्वानंदवासी स कथ्यते योगिभिः प्रभुः ॥२८॥ संयोगेऽयं गकारः सो योगेऽयं च णकारकः । तयोः स्वामी गणेशानः
शांतियोगेन लभ्यते ॥२९॥ पंचधा चित्तवृत्तिर्या तस्यां मोहस्तु पंचधा । समोहं चित्तमुत्सृज्य लभ्यते चित्तचालकः ॥३०॥
तेनाऽयं गणनाथस्तु चिंतामणिरिति स्मृतः । तं भजस्व महाभाग तदा शांतो भविष्यसि ॥३१॥ एवमुक्त्वा ददौ तस्मै मंत्रं
मालात्मकं प्रभुः । सविधिं धर्मदत्ताय ततः सोऽंतर्हितोऽभवत् ॥३२॥ राजाऽपि हर्षसंयुक्तो बभूवाचितरां ततः ।
धन्यमात्मानमेवं स्म मन्यते भाग्यगौरवात् ॥३३॥ तत्रादौ मलमासे या चतुर्थी कृष्णपक्षगा । समागता जनै राजा तां
चकार विधानतः ॥३४॥ ततस्तेन व्रतं मुख्यं तत् सर्वत्र प्रकाशितम् । ततो जना व्रतं चक्रुर्भूमिस्या यत्र तत्र ते ॥३५॥
ततो रोगविनिर्मुक्तो धर्मदत्तो बभूव ह । जनाः सर्वे तथा हृष्टा बभूवू रोगवर्जिताः ॥३६॥ नित्यं गणपतिं राजाऽभजच्चानन्य-
मानसः । गणेशप्रीतये नानादानानि स ददौ सदा ॥३७॥ ततो राज्ये स्वपुत्रं स संस्थाप्यैकांतसंस्थितः । सस्त्रीको गणनांथं
तमभजद्ध्यानमार्गतः ॥३८॥ अंते जगाम विघ्नेशं तल्लीनः स बभूव ह । जनाः सर्वे क्रमेणैते ब्रह्मभूता बभूविरे ॥३९॥
एवं व्रतस्य माहात्म्यं सर्वसिद्धिप्रदायकम् । कथितं ते महीपाल शृण्वन्यत्त्वं कथानकम् ॥४०॥ गांधारदेशवासीयः क्षत्रियः
पापकारकः । बभूव स परद्रव्यहारकश्चौर्यमार्गतः ॥४१॥ द्यूतमचरतो नित्यं परस्त्रीलंपटोऽभवत् । गोमांसभक्षणे सक्तो
मिथ्यावाक् साक्ष्यपूरकः ॥४२॥ नानाभेदैः सुदुर्बुद्धिः कलहं यत्र तत्र वै । चकार सर्वदा राजन् हिंसाकर्मपरायणः ॥४३॥
ततो राज्ञा महापापी वने निष्कासितो बलात् । जघान मार्गगांस्तत्र जंतून्नानाविधान् खलः ॥४४॥ द्विजादीनां वधे सक्तः
स्त्रीबालवधकारकः । एवं नानाविधं पापं नित्यमेव चकार सः ॥४५॥ ततो द्रव्ययुतोऽत्यंतं बुभुजे भोगमुत्तमम् ।
हृदीप्सितं स दुष्टात्मा नानाचौरसमन्वितः ॥४६॥ कदाचित् पर्वतद्रोणीं मलमासे स आश्रितः । चतुर्थ्यां कृष्णपक्षस्य
हिंसार्थं लोभसंयुतः ॥४७॥ ततो मानवमेकं तु मार्गस्थं स ददर्श ह । निःसृत्याधावदत्यंतं शस्त्रहस्तो वधाय वै ॥४८॥
पपाल क्रूरकर्माणं दृष्ट्वा तं सोऽपि भीतितः । क्रोशमात्रं ततो दुष्टः पपात पदव्युत्क्रमात् ॥४९॥ पतितं तं समाज्ञाय नरः
क्रोधसमन्वितः । पाषाणेन महादुष्टं मारयामास मस्तके ॥५०॥ मस्तकः स्फुटितस्तत्र क्षत्रियस्य नराधिप । तेन स
[Header]
खं. ४ अ. ३३ | पान ९०
व्याकुलोऽत्यंतं गतचेष्टो बभूव ह ॥५१॥ रात्रौ चंद्रोदये किंचित् सावधानोऽभवत् कुधीः । पायसं भक्षयामास स्वल्पं
दुःखसमन्वितः ॥५२॥ ततो ममार पंचम्यां गतः स्वानंदके पुरे । तत्र दृष्ट्वा गणेशानं ब्रह्मभूतो बभूव ह ॥५३॥ एवं व्रतप्रभावेण
पापकर्मा स क्षत्रियः । ब्रह्मभूतो बभूवाऽपि किं पुनर्शानतः कृतम् ॥५४॥ नानाजना व्रतेनैव भुक्त्वा भोगान् हृदीप्सितान् ।
ब्रह्मभूता बभूवुश्च कथितुं तन्न शक्यते ॥५५॥ इदं कृष्णचतुर्थ्यां यन् माहात्म्यं मलमासके । शृणोति यस्तु पठति स
ईप्सितमवाप्नुयात् ॥५६॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते मलमासकृष्णपक्षचतुर्थीमाहात्म्यवर्णनं नाम द्वात्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । शमीमूले च यस्तिष्ठेच्चतुर्थ्यां मुनिसत्तम । संकष्ट्यां तस्य माहात्म्यं वद मे करुणा-
निधे ॥१॥ वसिष्ठ उवाच । इतिहासं प्रवक्ष्यामि पुरातनभवं नृप । सर्वसिद्धिकरं पूर्णं श्रवणात् पठनान्नृणाम् ॥२॥ पांचाले
ब्राह्मणः कश्चिदत्रिगोत्रसमुद्भवः । पूर्वकर्मविपाकेन कुष्ठयुक्तो बभूव ह ॥३॥ नानाक्षतसमाकीर्णः प्रस्रवत् पूयशोणितः ।
कीटकैः सर्वतो व्याप्तो ह्यंधः कुब्जोऽभवन्नृप ॥४॥ तं दृष्ट्वा तादृशं पुत्रं पिता परमदुःखितः । अत्रिं जगाम शरणं तं पप्रच्छ
प्रणम्य सः ॥५॥ तेनापि कथितं राजन् शमीमूले स्थितो भवेत् । चतुर्थी संकटीं कुर्यात्तदा पापात् प्रमुच्यते ॥६॥ ततः
सोऽपि स्वपुत्रं तं शमीमूले महीपते । समानाय्य बबंधैव दाम्ना सर्वार्थसाधकः ॥७॥ सूर्योदयात् समारभ्य यावच्चन्द्रोदयो-
ऽभवत् । तावत्तत्र महारोगी सोऽतिष्ठद्बंधनाकुलः ॥८॥ ततः पित्रा समानीतः स्वगृहे सोऽपि तत्क्षणात् । नेत्रयुक्तो
बभूवाऽथ रोगादिभिर्विवर्जितः ॥९॥ कुब्जताहीनरूपं तं संस्थितं विगतज्वरम् । तद् दृष्ट्वा परमाश्चर्यं विप्राः सर्वे विसिस्मिरे
॥१०॥ ततः सोऽपि गणेशानमभजन्नित्यमादरात् । चतुर्थ्यां कृष्णपक्षे वै शमीमूले स्म तिष्ठति ॥११॥ अंते शांतिसमायुक्तो
ब्रह्मभूतो बभूव ह । एवं तिष्ठेच्छमीमूले सोऽसाध्यं कुरुते वशम् ॥१२॥ अन्यच्छृणु महीपाल माहात्म्यं सर्वसिद्धिदम् ।
चोरः कश्चिन् महान् पापी नगरे स गतोऽभवत् ॥१३॥ स्फोटयित्वा गृहं किंचित्तेन तत्र प्रविश्य सः । धनं गृहीत्वा निर्यातो
नरैर्दृष्टः पपाल सः ॥१४॥ जनैः कोलाहलस्तत्र कृतः परमदारुणः । श्रुत्वा राज्ञो ययुर्दूताः शस्त्रहस्ता महाबलाः ॥१५॥
[Header]
खं. ४ अ. ३३ | पान ९१
ज्ञात्वा वृत्तांतमुग्रं ते धाविताः क्रोधसंयुताः । वेगेन तं महाचौरं जघ्नुः शस्त्रप्रहारतः ॥१६॥ छिन्नांगं पतितं चौरं
दूताः संगृह्य दारुणम् । तं बबंधुः शमीवृक्षे ततो राजानमाययुः ॥१७॥ समागता चतुर्थी सा तत्राऽकस्मात् महीपते ।
कृष्णा सोऽपि महाचौरो शमीमूलस्थितोऽभवत् ॥१८॥ पंचम्यां क्षतहीनांगं चौरं सर्वत्र शोभनम् । संजातं राजदूतास्ते
ज्ञात्वा राज्ञे न्यवेदयन् ॥१९॥ राजा तत्र समागम्य तं प्रणम्य पुरःस्थितः । एतस्मिन्नंतरे तत्र विमानं सहसाऽऽगतम् ॥२०॥
तं तत्रागृह्य निक्षिप्य गणान् शुंडाविराजितान् । तान् प्रणम्य स पप्रच्छ राजर्षिर्गंतुमुत्सुकान् ॥२१॥ महासेन उवाच । भो
भो गणपतेर्दूताः किमनेन कृतं महत् । वदेत करुणायुक्तास्तद्वयं करवामहै ॥२२॥ गणेशा ऊचुः । कृष्णपक्षे चतुर्थ्यां यः
शमीमूले जपेन्मनुम् । तिष्ठेत् सूर्योदयाद्यावत्तथा चन्द्रोदयो भवेत् ॥२३॥ निराहारः स विघ्नेशं पूजयेत् व्रतकारकः ।
पश्चाद्विप्रांश्च संभोज्य स्वयं भुंजीत वाग्यतः ॥२४॥ रात्रौ जागरणं कुर्यात् पंचम्यां पूजनं पुनः । प्रकुर्यात् गणराजस्य स
ईप्सितमवाप्नुयात् ॥२५॥ फलयुक्तः सद्य एव भवत्यत्र न संशयः । अंते स्वानंदगो भूत्वा ब्रह्मभूतः स जायते ॥२६॥
एवमुक्त्वा गता दूताश्चौरेण सहिता नृप । चौरो विघ्नेश्वरं दृष्ट्वा ब्रह्मभूतो बभूव ह ॥२७॥ ततो राजा महाभागो गणेश-
भजने रतः । स चतुर्थ्यां शमीमूले तिष्ठन्नियमसंयुतः ॥२८॥ ततो राजा गतिं लेभे त्रिलोक्यां व्रतपुण्यतः । ब्रह्मादीनां
सभायां स गत्वाऽतिष्ठत् स्वयेच्छया ॥२९॥ पुनः स्वनगरे राजा चंपावत्यां जगाम ह । एवं सर्वत्रगो भूत्वा रराजे राजमंडले
॥३०॥ अंते सर्वजनै राजा नगरस्थैर्महामते । जगाम विघ्नराजं तं ब्रह्मभूतो बभूव ह ॥३१॥ इदं ते मुख्यमाहात्म्यं शमीमूल-
स्थितेर्महत् । चतुर्थ्यां कथितं राजन् संकष्ट्यां सर्वसिद्धिदम् ॥३२॥ शृणुयाद्यः पठेद्वा स सद्य एव फलं लभेत् । ईप्सितं
गणराजस्य प्रसादान्नात्र संशयः ॥३३॥ एवं नाना जना राजन्धांध्यदोषादिवर्जिताः । बभूवुश्चरितं तेषां मया वक्तुं न
शक्यते ॥३४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते शमीमूलचतुर्थीव्रताचरणवर्णनं नाम त्रयस्त्रिंशोऽध्यायः ॥
यहाँ दिए गए पृष्ठ का देवनागरी लिप्यंतरण प्रस्तुत है:
॥ श्रीगणेशाय नमः ॥ दशरथ उवाच । श्रावणादिषु मासेषु लड्वादीन् यस्तु भक्षति । तस्य विधियुतं विप्र माहात्म्यं वद
सर्वदम् ॥१॥ वसिष्ठ उवाच । मनोर्वैवस्वतस्यैव पुत्र इक्ष्वाकुसंज्ञकः । राज्यलोभी कनिष्ठः सन् व्रतं चकार सिद्धिदम् ॥२॥
बभक्ष श्रावणे कृष्णसंकष्ट्यां पंचखाद्यजान् । लड्डुकान् सप्त भावेन व्रतसाधनतत्परः ॥३॥ दधिभक्षणमात्रं स भाद्रे
कृष्णे चकार ह । आश्विने निर्जलं तद्वच्चकार व्रतमनुत्तमम् ॥४॥ कार्तिके दुग्धभुक् राजाऽतिष्ठत् स्वनियमे रतः । मार्गशीर्षे
जलं पीत्वाऽभजत्तं गणनायकम् ॥५॥ पौषे गोमूत्रमात्रं तु व्रतं पीत्वा समाचरत् । माघे शुक्लतिलान् राजा बभक्ष
व्रतकारणात् ॥६॥ फाल्गुने शर्करायुक्तं मानवोऽभक्षयद् घृतम् । चैत्रे तद्वत् पंचगव्यं पूजयित्वा विनायकम् ॥७॥ वैशाखे
पद्मबीजं स बभक्ष व्रतधारकः । ज्येष्ठे घृतं गवां भक्षंश्चकार व्रतमुत्तमम् ॥८॥ आषाढे मधुमात्रं स बभक्ष नियमे रतः ।
चंद्रोदये गणेशानं पूजयित्वा विधानतः ॥९॥ ततस्तस्य व्रतस्यैव प्रभावेण महामते । सुद्युम्नो मनुपुत्रो य इलो ज्येष्ठो-
ऽभवन्नृप ॥१०॥ ततो मुनिभिराचं तं राजानं स चकार ह । मनुरिक्ष्वाकुमेवं तु सार्वभौमं महाद्युतिम् ॥११॥ एवं त्वसाध्यकं
राजन्निच्छेद्रै यदि मानवः । धर्ममार्गेण तत् सोऽपि लभते नात्र संशयः ॥१२॥ एवं नाना जना राजन् व्रतपुण्यप्रभावतः ।
लब्ध्वांऽते ब्रह्मभूताश्च बभूवुर्भूममंडले ॥१३॥ अतस्त्वं राजशार्दूल पापरूपोऽसि सांप्रतम् । तव राज्ये व्रतं नष्टं नृपाधम
न बुध्यसे ॥१४॥ जनैः सह व्रतं तस्मात् कुरुष्व त्वं भविष्यसि । पुत्रयुक्तश्च विघ्नेशमंते गच्छसि निश्चितम् ॥१५॥
मुद्गल उवाच । प्रणम्य तं दशरथो महाराजो जगाम ह । स्वपुरे जनसंयुक्तश्चकार व्रतमुत्तमम् ॥१६॥ ततो भूपेन सर्वत्र
प्रशस्तं तद्व्रतं कृतम् । चक्रुः सर्वजना भूमौ व्रतं गाणेश्वरं महत् ॥१७॥ व्रतपुण्यप्रभावेण विष्णुः साक्षाद्वभूव ह ।
चतुर्धाऽत्मानमाभाज्य पुत्रस्तस्य महात्मनः ॥१८॥ रामश्च भरतो राजा लक्ष्मणः शत्रुसूदनः । पुत्राश्चत्वार एवं ते
बभूवुर्बलसंयुताः ॥१९॥ अंते जगाम विघ्नेशं दशरथः प्रतापवान् । लोका दुःखविहीनाश्च ब्रह्मभूता बभूविरे ॥२०॥
वसिष्ठर्षेदशरथस्येमं विप्रस्य धीमतः । संवादं व्रतहेतुं तु यः शृणोति पठेन्नरः ॥२१॥ तस्मै विघ्नेश्वरः साक्षाद्ददाति
फलमुत्तमम् । पुत्रपौत्रादिसंयुक्तं धनधान्यसमन्वितम् ॥२२॥ नानारोगविहीनत्वमैश्वर्यादियुतं महत् । अंते गणपतौ लीनं
करोत्यत्र न संशयः ॥२३॥ चतुर्थ्याश्चरितं पूर्णं कथितं ते प्रजापते । श्रोतुमिच्छा पुनः किं ते वर्तते वद सांप्रतम् ॥२४॥
॥ ओमिति श्रीमदांत्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते वसिष्ठदशरथसंवादसमाप्तिवर्णनं नाम चतुर्विंशोऽध्यायः ॥
खं. ४ अ. ३५ पान ९३
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । उद्यापनं व्रतस्यास्य वद त्वं मुनिसत्तम । येन सांगं फलं सर्वं लभते व्रतकारकः ॥१॥
मुद्गल उवाच । उद्यापनं प्रजानाथ व्रतस्यादौ मतं बुधैः । अथवा वर्षमध्ये तत् कर्तव्यं व्रतकारिणा ॥२॥ अथवा भाद्रमासे वै
शुक्लायां च प्रजापते । उद्यापनं प्रकर्तव्यं कृष्णायां माघमासके ॥३॥ महामंडपं कुर्यात् कदलीस्तंभमंडितम् । नाना-
शोभासमायुक्तं विभवे सति मानद ॥४॥ वित्तशाठ्यं न कुर्यात् स यथाविभवमाचरेत् । छत्राऽऽदर्शादिभिः शोभां
दीपमालाविराजितम् ॥५॥ मणिमुक्तादिकैः पूर्णं भूषणैश्च विशेषतः । यत्र तत्र यथायोग्यं प्रकुर्याद्व्रतकारकः ॥६॥ मध्याह्न-
समये तस्याः शुक्लायाः कथितं प्रभो । चन्द्रोदये च कृष्णायाश्चतुर्थ्याः पूजनं चरेत् ॥७॥ गोमयेन प्रलिप्याऽथ धान्यराशिं
प्रकल्पयेत् । तन्मध्येऽष्टदलं पद्मं कुर्यात्तद्रुरुणा स्वयम् ॥८॥ तत्र संस्थाप्य सौवर्णं कलशं ताम्रजं तथा । रौप्यं वा मृन्मयं
दक्ष वस्त्रयुग्मेन वेष्टयेत् ॥९॥ तस्योपरि सुवर्णस्य पात्रं स्थाप्य महामतिः । वस्त्रं ततो गणेशस्य यंत्रं कुर्याद्विचक्षणः
॥१०॥ तत्र गणपतेश्चैव मूर्तिर्धातुविनिर्मिता । सर्वावयवसंयुक्ता भूषणै राजिता भवेत् ॥११॥ द्विजोत्तमश्च संस्थाप्य
पूजयेत्तां यथाविधि । ब्राह्मणान् वरयेच्छुद्धानैकविंशतिसंख्यकान् ॥१२॥ गणानां त्वेति मंत्रस्य जपं कुर्याद्विशेषतः ।
ततो होमं प्रकुर्वीत सहस्रं वा तदर्धकम् ॥१३॥ अष्टोत्तरशतं वाऽपि तथा जपद्दशांशकम् । गीतवाद्यपुराणानि वेदाध्ययनमेव
च ॥१४॥ नानाशास्त्रप्रवादांश्च कुर्वंतु ब्राह्मणास्ततः । यत्र तत्र गणेशस्य कथाः संकथयंतु ते ॥१५॥ ततः पूर्णाहुतिं
कुर्याद्वसोर्धारां स पातयेत् । बलिदानं ततः कुर्यात्ततो वायनकं चरेत् ॥१६॥ एकविंशतिपक्वान्नैरैकविंशतिसंख्यकैः ।
नैवेद्यैर्ब्राह्मणान् संभोज्यार्थयेत्तान् विशेषतः ॥१७॥ दक्षिणां विपुलां दत्त्वा सपत्नीकान् प्रतोषयेत् । योषिद्भ्यः कंचुकीर्दद्या-
द्भूषणानि महामतिः ॥१८॥ कृष्णायां च चतुर्थ्यां स चन्द्रायार्घ्यं प्रदापयेत् । शुक्लायां तत्तथा दक्ष चेरेच्चन्द्रार्घ्यवर्जितम्
॥१९॥ आदौ स तिथये दद्यात् पश्चाद्विघ्नेश्वराय वै । ततश्चन्द्राय तन् मंत्रैरर्घ्यं मंत्रसमन्वितम् ॥२०॥ तिथीनां मातृरूपे त्वं
देवि सर्वार्थदायिनि । गृहाणार्घ्यं मया दत्तं चतुर्थ्यै ते नमो नमः ॥२१॥ गजानन नमस्तुभ्यं नानासिद्धिप्रदायिने । गृहाणार्घ्यं
बुद्धिपते मया दत्तं शुभप्रद ॥२२॥ अत्रिगोत्रसमुद्भूत गणेशप्रीतिवर्धन । गृहाणार्घ्यं मया दत्तं रोहिण्यामृतधारक
॥२३॥ कृष्णपक्षे सदा रात्रौ भोजनं स समाचरेत् । शुक्लपक्षे च पंचम्यां ब्राह्मणादींस्तु भोजयेत् ॥२४॥ चतुर्थ्यां
जागरं कुर्यात् गणेशकथयान्वितः । पंचम्यां पूर्ववत् पूज्य नैवेद्याद्यैर्महामतिः ॥२५॥ दीनांधकृपणेभ्यश्च दद्यादन्नादिकं
खं. ४ अ. ३६ पान ९४
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
तथा । ब्राह्मणेभ्यो विशेषेण दक्षिणां दापयेन्नरः ॥२६॥ सर्वान् संभोज्य दानेन तोषयेद्देवसन्निधौ । गणेशदृढभक्तिं स
याचयेत्तेभ्य आदरात् ॥२७॥ ततः सोपस्करां मूर्तिं दद्यात् स्वगुरवे स्वयम् । एकविंशतिविप्रेभ्यः कलशान् दापयेत्ततः
॥२८॥ संतोष्योदारधीः सर्वान् स भावेन क्षमापयेत् । ततो गणपतिं नित्यं भजेतानन्यचेतसा ॥२९॥ एवमुद्यापनं
कुर्याद्व्रतस्यास्य महामतिः । स संपूर्णफलं भुक्त्वा ब्रह्मभूतो भविष्यति ॥३०॥ वक्तुं न शक्यते दक्ष माहात्म्यं च
व्रतोद्भवम् । सोद्यापनं विशेषेण कथितं ते यथामति ॥३१॥ इदं चतुर्थीजं दक्ष चरितं संशृणोति चेत् । पठेद्वा तस्य विघ्नेशो
मानसेप्सितदो भवेत् ॥३२॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते चतुर्थ्युद्यापननिरूपणं नाम पंचत्रिंशोऽध्यायः ॥
❧★❧
॥ श्रीगणेशाय नमः ॥ दक्ष उवाच । माहात्म्यं यच्छुतं मुख्यं चतुर्थीसंभवं महत् । कृतकृत्यश्च तेनाऽहं संजातो मुनिसत्तम ॥१॥
अधुना वद माहात्म्यं लोभासुरनिबर्हणे । गजाननस्य योगीश चरित्रं सर्वसिद्धिदम् ॥२॥ मुद्गल उवाच । इतिहास प्रवक्ष्यामि
पुरातनभवं प्रभो । सर्वसिद्धिप्रदं दक्ष श्रवणेन न संशयः ॥३॥ एकदा शैलवर्ये तु कैलासे शंकरः स्थितः । पार्वत्या स्वगणैः
सार्धं देवैर्मुनिभिरावृतः ॥४॥ तत्राऽऽजगाम पौलस्त्यः कुबेरो निधिसंयुतः । प्रणम्य गिरिजायुक्तं शंकरं पुरतः स्थितः ॥५॥
समीपे शंकरस्यैव गत्वा चामरसंयुतः । असेवत महात्मानं भक्तियुक्तेन चेतसा ॥६॥ अकस्माद्दैवयोगेन दृष्ट्वा पर्वतनंदिनीम् ।
रूपेणाप्रतिमां सर्वावयवैः शोभनैर्युताम् ॥७॥ साक्षान् मायामयीं शक्तिं मोहयुक्तो बभूव ह । कामबाणाभिभूतः
सन्नपश्यत्तां सुविह्वलः ॥८॥ सकामदृष्टिसंयुक्तं पश्यंतं तं धनाधिपम् । दृष्ट्वा कोपसमायुक्ता बभूवे शंकरप्रिया ॥९॥
क्रोधेन वक्रनेत्रं सा ज्वालयामास तत्क्षणात् । कुबेरस्य महादेवी सोऽपि शोकाकुलोऽभवत् ॥१०॥ अतिविह्वलगात्रत्वात्
प्रास्कंदद् वीर्यमुत्तमम् । धनपस्याऽत्र पुत्रोभूत् पपात शोभया युतः ॥११॥ ततः स लज्जया युक्तः प्रणनाम महेश्वरीम् ।
नियम्यात्मानमानिंद्य तुष्टाव विविधैः स्तवैः ॥१२॥ ततः सा शंकरेणैव सांत्विता जगदंबिका । पिंगाक्षं तं चकाराऽपि
पुत्रभावप्रदर्शिनी ॥१३॥ जगदंबा लोभनार्थं कुबेरोऽभूत् समुद्यतः । मातृगामिस्वरूपत्वात् पुत्रस्तस्य प्रतापवान् ॥१४॥
❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖❖
खं. ४ अ. ३६ पान ९५
लोभ एव समाख्यातं नाम तस्य द्विजैस्ततः । संगृह्य तं गृहं देवो धनदः प्रजगाम ह ॥१५॥ कुबेरभवने संस्थं लोभं तं
नारदो मुनिः । ज्ञात्वा जगाम पाताले वीणागानपरायणः ॥१६॥ तारं पातालसंस्थं तं दानवानां हितैषिणम् । इंद्रेण निर्जितं
ज्ञात्वा नारदः प्रययौ मुनिः ॥१७॥ तारः समुत्थितो विप्रं प्रणनाम मुदा युतः । पप्रच्छाऽऽपूज्य वृत्तांतं दानवानां हितावहम्
॥१८॥ तार उवाच । इंद्रेणाऽहं जितो विप्र दानवा मर्दिता भृशम् । अधुना किमु कुर्यां तद्वद मे मुनिसत्तम ॥१९॥ नारद उवाच ।
अलकायां कुबेरस्य पुत्रोऽभूद्वीर्यपातः । लोभस्तत्र समागत्य हर त्वं पुत्रमादरात् ॥२०॥ तं पालय महाभाग तेन ते
वाञ्छितं महत् । भविष्यति न संदेहो मम तस्माद्वचः कुरु ॥२१॥ एवमुक्त्वा महायोगी नारदोऽन्तर्हितोऽभवत् । तारः स्म
हर्षितोऽत्यंतं मेने स कृतकृत्यताम् ॥२२॥ मायया दानवाधीशस्त्वलकायां जगाम ह । गृहीत्वा लोभकं पुत्रं सुप्तं
स्वगृहमागमत् ॥२३॥ लोभं केनचिदागत्य हृतं ज्ञात्वा धनाधिपः । न शोकं मानसे सोऽपि प्रचक्रे दुर्निमित्तजम् ॥२४॥
तारः पुत्रं समानीय पालयामास हर्षतः । बालकीडनकैर्युक्तं तं दृष्ट्वा विस्मितोऽभवत् ॥२५॥ उत्पाट्य बालकैर्वृक्षान् रेमे लोभः
प्रतापवान् । तलप्रहारवेगेन दारुणां बिभिदे शिलाम् ॥२६॥ एवं नानाविधं कर्मास्य दृष्ट्वा दानवोत्तमाः । हर्षयुक्ता बभूवुस्ते
मेनिरे कृतकृत्यताम् ॥२७॥ ततः पंचमवर्षे स चकार व्रतबंधनम् । वेदानध्यापयामास शुक्रशिष्यैर्महाबलः ॥२८॥ स आसुरीं
महामायां सर्वदेवविमोहिनीम् । विद्यामभ्यस्य लोभस्तु शस्त्रास्त्रे पारगोऽभवत् ॥२९॥ ततः प्रणम्य विप्रेंद्रं शुक्रं
सर्वविदांवरम् । पप्रच्छ सर्वदं पूर्णमुपायं लोभ आदरात् ॥३०॥ ततः पंचाक्षरीं विद्यां ददौ तस्मै महामुनिः । शैवीं
विधियुतां लोभस्तं प्रणम्य ययौ वनम् ॥३१॥ तत्र गत्वा तपस्तेपे शिवं ध्यात्वा महासुरः । जपं चकार भावेन निराहार-
परायणः ॥३२॥ भस्मांगलेपसंयुक्तः शैवमार्गपरायणः । तोषयामास यत्नेन शंकरं सर्वदं परम् ॥३३॥ एवं तपसि लोभः
स संस्थितो बहुवासरम् । ततस्तस्य शरीरेऽपि वल्मीको ववृधे महान् ॥३४॥ दिव्यवर्षसहस्रेण प्रसन्नः शंकरः प्रभुः ।
आययौ तं वरं दातुं पार्वत्या सह शूलभृत् ॥३५॥ समागतं महेशानं न बुबोध स दानवः । ततस्तं जलमासिच्य शंभुः
शक्तं चकार ह ॥३६॥ ततः शंभुं समालोक्य हर्षयुक्तेन चेतसा । जगाद तं प्रणम्यादावुत्थितो दानवाधिपः ॥३७॥
लोभासुर उवाच । धन्यं मेऽद्य तपो मंत्रो धन्यौ मे जनकौ प्रभो । जन्म ज्ञानादिकं सर्वं येन दृष्टो महेश्वरः ॥३८॥ किं स्तौमि
त्वां महेशान साक्षाद्ब्रह्म सनातनम् । तथापि स्तौमि देवेश त्वद्दर्शनस्फुरन्मतिः ॥३९॥ नमस्ते विश्वनाथाय सर्वांतर्यामिणे
ख ४ अ. ३७
पान ९६
नमः। शंकराय शिवायैव ह्यनंतगुणराशये ॥४०॥ त्रिनेत्राय महादेव शक्तियुक्ताय शंभवे । निर्गुणाय गुणानां ते चालकाय
नमो नमः ॥४१॥ अमेयशक्तये तुभ्यं गिरीशाय वृषध्वज । स्रष्ट्रे पात्रे च संहर्त्रे त्रिधारूपाय वै नमः ॥४२॥ अकर्तु-
मन्यथा कर्तुं कर्तुं शक्ताय ते नमः । सदा मोहविहीनाय मृडाय सततं नमः ॥४३॥ स्वाधीनाय परेशाय सहजे खेलकारिणे ।
शूलहस्ताय देवानां पतये ते नमो नमः ॥४४॥ कैलासवासिने तुभ्यं भस्मलेपकराय वै । दिगंबराय सर्वेभ्यः सर्वदाय नमो
नमः ॥४५॥ एवं स्तुत्वा महेशानं तूष्णीं भावेन संस्थितः । लोभासुरः प्रसन्नात्मा साश्रुकः स कृतांजलिः ॥४६॥ तमुवाच
महादेबो वरं वृणु हृदीप्सितम् । दास्यामि तपसा स्तोत्रेण तुष्टो दानवोत्तम ॥४७॥ त्वया कृतमिदं स्तोत्रं मम प्रीतिविवर्धनम् ।
भविष्यति न संदेहो भुक्तिमुक्तिप्रदायकम् ॥४८॥ यः पठिष्यति दैत्येंद्र श्रावयिष्यति वा नरः । श्रोष्यते स लभेत् सद्यो
वाञ्छितं मत्प्रियः सदा ॥४९॥ श्रुत्वा शंकरवाक्यं स तं जगाद महासुरः । हर्षेणोत्फुल्लनेत्रश्च भक्त्या विनयसंयुतः ॥५०॥
लोभासुर उवाच । वरदोऽसि यदि त्वं च तदा भक्तिं च ते दृढाम् । देहि राज्यं महादेव ब्रह्मांडस्य विशेषतः ॥५१॥
नानैश्वर्यसमायुक्तमारोग्यादिसमन्वितम् । मनसीप्सितमेवं मे सिद्धयतु त्वदनुग्रहात् ॥५२॥ मनोवाणीमयं यच्च तस्मान्
मृत्युर्न मे भवेत् । सदानंदसमायुक्तं मां कुरुष्व कृपानिधे ॥५३॥ लोभासुरस्य वाक्यं वै श्रुत्वा चकितमानसः ।
शंकरस्तपसा बद्धस्तथेति तमुवाच ह ॥५४॥ अंतर्धाय स्वमात्मानं कैलासस्थो बभूव ह । लोभासुरः प्रसन्नात्मा स्वगृहं
प्रत्यपद्यत ॥५५॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरवरप्राप्तिवर्णनं नाम षट्त्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । लोभासुरः समागत्य पितरं मातरं ततः । प्रणम्य सुहृदः सर्वान् यथायोग्यं चकार
ह ॥१॥ महिषासुरपुत्रीं स उवाह रूपशालिनीम् । तृष्णां गुणयुतां सोऽपि तया संहर्षितोऽभवत् ॥२॥ एवं नाना विभोगेन
सुहृदानंदकारकः । बभूव बलसंयुक्तो मदेन भृशमोहितः ॥३॥ मद्यां समागतः सोऽपि दानवैः परिवारितः । नगरं निर्ममे
तत्र सदा विषयवर्धनम् ॥४॥ चकार नाम तस्यापि सुखदं दानवेरितः । ततो दिग्भ्यः समायाता नाना दैत्यगणाः
खं. ४ अ. ३७ पान ९७
पुरे ॥५॥ ततो लोभोऽसुरैः सर्वैः स्वयं गत्वा महामुनिम् । शुक्रं समानयत्तत्र प्रणम्य भावसंयुतः ॥६॥ शुक्रेण प्रेरिता
दैत्या गतास्तत्र महापुरे । देवांतकश्च वृत्रश्च बलिर्जृम्भः प्रतापवान् ॥७॥ नरांतकः प्रहेतिश्च हेतिर्विप्रचित्तिस्तथा । इत्याद्या
बहवश्चान्ये मिलिता अभवन् प्रभो ॥८॥ ब्राह्मणैः कारयामास ततः शुक्नोऽभिषेचनम् । दैत्यादीनां महाराज्ये स्थापयामास
तं मुनिः ॥९॥ सर्वे संहृष्टकास्तत्र बभूवुर्दानवोत्तमाः । ततः स्वस्वगृहेष्वेतेऽगमन् घोषकरा भृशम् ॥१०॥ ततो बहौ गते
कालेऽसुरो लोभः प्रतापवान् । आह्वयामास दूतैस्तान् दानवान् बलसंयुतान् ॥११॥ आज्ञामात्रेण तस्यैव समाजग्मुर्बला-
न्विताः । असुरा भयदाः सर्वेऽसुरं लोभं प्रजापते ॥१२॥ लोभासुरोऽसुरान् सर्वान् संप्रपूज्य यथाविधि । उवाच तान्
महावाक्यं हर्षयन् दानवोत्तमः ॥१३॥ लोभासुर उवाच । विप्रचित्त्यादिकाः सर्वे शृणुध्वं मे वचो हितम् । भवतां पुण्ययोगेन
जेष्यामि सकलं जगत् ॥१४॥ यदिच्छा भवतां वृद्धाः श्रेष्ठा अत्रैव संगताः । तदाऽऽज्ञा मे प्रकर्तव्या करोमि बलसंयुतः
॥१५॥ एवं तस्य वचः श्रुत्वा हर्षिता दानवोत्तमाः । जगुस्तं भावगंभीरं साधु साधु त्वयेरितम् ॥१६॥ जेष्यामस्त्वत्प्रसादेन
देवान् विष्णुपुरोगमान् । पराक्रमतुला तेन विद्यते जगति प्रभो ॥१७॥ ततोऽतिहर्षिताः सर्वे शुक्रं तत्र समानयन् ।
तेनाज्ञप्ता महाभागाः सज्जास्ते प्रबभूविरे ॥१८॥ गजासुरो विप्रचित्तिर्देवांतकनरांतकौ । प्रतापवांश्च तारो वै प्रहेतिर्हेतिरेव
च ॥१९॥ बलिर्जृम्भस्तथाऽन्ये वै दंशिता अभवंस्तदा । स्वस्वसेनायुताः सर्वे नानावाहनगा बभुः ॥२०॥ पदातयोऽप्य-
संख्याता अश्वारोहास्तथाऽपरे । पशुसंस्थाः खगारोहा अपाराश्च समाययुः ॥२१॥ गजारोहा रथारूढा नानावाहनसंस्थिताः ।
महासुराः शस्त्रसंयुक्ता लोभासुरमाययुः ॥२२॥ तैः समेत्य महाबाहुर्लोभः संहर्षितोऽभवत् । पृथिवीजयनार्थाय
कालकंपनकारकः ॥२३॥ एतादृशा महावीरा यत्रातिष्ठन् सुदंशिताः । तैर्युद्धं नृपशार्दूलाः किं कर्तारोऽल्पमानवाः ॥२४॥
नृपाः केचिन् मृतास्तत्र संग्रामे दारुणे प्रभो । केचित्तान् शरणं जग्मुः पलायनपरा ययुः ॥२५॥ एवं सप्तसमुद्रांतां पृथिवीं
जित्वा महाबलाः । असुरा हर्षिताः सर्वे सार्वभौमा बभूविरे ॥२६॥ ये मृतास्तत्सुतास्तैस्ते स्थापिताः करदायिनः ।
पलायिताश्च तत्स्थाने स्थापिता दानवोत्तमाः ॥२७॥ शरणं ये गतास्तेऽपि स्थापिता हर्षसंयुताः । वरं तस्य समाज्ञाय
शेषस्तांश्च समाययौ ॥२८॥ वार्षिकं करभारं स कृत्वा दत्त्वा महाधनम् । साम्ना तैः पूजितः सोऽपि स्वगृहे नागराड् ययौ ॥२९॥
ततोऽतिहर्षिता दैत्या ययुः स्वर्गं सुशोभनम् । लोभासुरेण संयुक्ता महामाया महाबलाः ॥३०॥ इंद्रः सुरगणैः सार्धं
दंशितो वज्रधारकः। बृहस्पतिं प्रणम्यैवं जगाद स्वमतं प्रभुः ॥३१॥ इंद्र उवाच । लोभासुरः समायातो दानवैर्बलवत्तरैः ।
तेन योद्धुं गमिष्यामि त्वदाज्ञावशगः प्रभो ॥३२॥ इंद्रस्य वचनं श्रुत्वा निःश्वस्य मुनिपुंगवः । जगाद तं महेंद्रं बृहस्पतिः
स प्रतापवान् ॥३३॥ गुरुरुवाच । शैवेन वरदानेन युक्तोऽसौ दैत्यनायकः । नानारूपधरः सोऽपि जेतुं नैव प्रशक्यते ॥३४॥
अतः सर्वं परित्यज्य विष्णोश्च शरणं सुर । गच्छ सोऽपि महाबुद्धिः करिष्यति हितं महत् ॥३५॥ गुरोर्वचनमाकर्ण्य
सुरेंद्रः शोकसंयुतः । सुरेंद्रैः सहितः सोऽपि विकुंठमगमत्तदा ॥३६॥ देवस्थानानि सर्वाणि दृष्ट्वा शून्यानि सर्वतः । दैत्या
हर्षयुताः सर्वे प्रवेशं चक्रुरंजसा ॥३७॥ दैत्यराजोऽमरावत्यां लोभः सर्वसमन्वितः । गत्वाऽऽसने महेंद्रस्य समारूढो बभौ
स्वयम् ॥३८॥ सर्वान् संमान्य दैत्येंद्रो ददौ नानापदानि सः । दैत्येंद्रास्तत्र संस्थास्ते मुमुदुर्भोगकारकाः ॥३९॥ गंधर्वास्तं
महादैत्यमप्सरोभिः समन्विताः । सिषेविरे प्रजापाल विद्याध्राद्याः समाहृताः ॥४०॥ देवोद्यानेषु दैत्येंद्रा बभ्रमुर्हर्षसंयुताः ।
यत्र तत्र महाभागा व्यहरंस्ते यथासुखम् ॥४१॥ लोभासुरं प्रणम्यैव संस्थिता विगतज्वराः । अवदन्न समः कश्चिल्लोभेन
भुवनेषु च ॥४२॥
॥ ओमिति श्रीमदान्ते पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरस्येन्द्रपदप्राप्तिवर्णनं नाम सप्तत्रिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । इंद्रः सुरगणैः सार्धं बृहस्पतिपुरोगमः । वैकुंठे विष्णुमानम्य गत्वा तुष्टाव तं स्तवैः
॥१॥ ततस्तुष्टो हरिः प्राह महेंद्रं मान्यभावतः । स्थीयतां दैवतैः सर्वैः किं कार्यं समुपस्थितम् ॥२॥ त्यक्त्वाऽमरावतीं तात
किमर्थं चागतो भवान् । श्रिया हीनः पदा देवैर्वद दुःखं महाद्भुतम् ॥३॥ इंद्र उवाच । किं वदामि जगत्पाल सर्वज्ञं त्वां
महामते । तथापि शृणु वृत्तांतं शोकंदं दैवकारितम् ॥४॥ लोभासुरश्च शैवेन वरेण बलदर्पितः । दानवैर्द्रैर्महाबाहुर्यो त्वं
स ह्यागतोऽधुना ॥५॥ गुरुणा बोधिताः सर्वे वयं प्राप्ता जनार्दन । त्यक्त्वा राज्यादिकं सर्वं विचारं कुरु सर्वथा ॥६॥
दैत्योऽमरावतीसंस्थो देवस्थानानि माधव । प्रददाति च दैत्येभ्यः स्वर्गराज्यं करोति सः ॥७॥ त्वं पालकः श्रुतौ प्रोक्तस्तस्मा-
च्छरणमागतान् । रक्ष लोभासुरं हत्वा देवानामीश्वरो भवान् ॥८॥ तेषां तद्वचनं श्रुत्वा विष्णुः कोपसमन्वितः ।
जगाद देवराजं तं महाबाहुर्विचक्षणः ॥९॥ श्रीहरिरुवाच । हनिष्यामि महादैत्यं लोभं दानवसंयुतम् । मा कुरुष्व वृथा चिंतां कुरु
राज्यं मयार्पितम् ॥१०॥ एवमुक्त्वा महेंद्रं स देवेंद्रैः सह माधवः । वेगेनारुह्य गरुडं ययौ ताममरावतीम् ॥११॥ समागतं
महाविष्णुं महासैन्यसमाकुलम् । ज्ञात्वा दूर्मुखात् सर्वे दानवाः सज्जका ययुः ॥१२॥ लोभः क्रोधसमाविष्ट आययौ
योद्धुमाहवः । रथारूढः स्वयं साक्षान् मृत्युरूपोऽयमुच्यते ॥१३॥ लोभं दृष्ट्वाऽसुराः सर्वे भयभीताः समंततः । महाकायं
महावीर्यं कालकालं प्रदुद्रुवुः ॥१४॥ पलतस्तान् समाश्वास्य विष्णुर्युद्धोद्यतोऽभवत् । तेन सार्थं ययुः सर्वे महेंद्राद्याश्च
दंशिताः ॥१५॥ समागतं रमानाथं रणभूमौ प्रतापवान् । लोभः क्रोधसमाविष्टो चोदयत् सोऽसुरांस्ततः ॥१६॥ ततो युद्धं
समभवद्देवानां दानवैः सह । तुमुलं शस्त्रसंघातैर्मारयंतः परस्परम् ॥१७॥ अन्योन्यं ते जयं सर्वे दानवाः सुरनायकाः ।
इच्छंतो न जयं तत्राप्नुवन् दक्ष हतोद्यमाः ॥१८॥ रक्तौघैः संप्रवृत्ता स्म नदी परमभीतिदा । विश्रामं निशि चक्रुर्न क्रोधा-
वेशैः परस्परम् ॥१९॥ दिनत्रयं महाघोरं युद्धं दारुणरूपकम् । तत्र प्रवृत्तं क्रोधेन युक्ता देवाः समाययुः ॥२०॥ गणा
विष्णोश्च संक्रुद्धास्तथा देवेंद्रमुख्याकाः । नानास्त्रैर्दानवान् सर्वान् ममर्दुः सर्वतः प्रभो ॥२१॥ ततो हाहारवं कृत्वा दानवा
भयसंयुताः । न लेभिरे यशो दैत्याः पलायंत समंततः ॥२२॥ ततो हर्षयुता देवा नादं चक्रुः सुदारुणम् । जय विष्णो
महाभाग वदंति स्म परस्परम् ॥२३॥ ततोऽतिक्रोधसंयुक्ता दानवेंद्राः समाययुः । विप्रचित्तिमुखास्तत्र शरवृष्टिं प्रचक्रिरे
॥२४॥ तेषां बाणैः सुराः सर्वे छिन्नांगाः पतिता मृधे । तद् दृष्ट्वा क्रोधयुक्ताश्च देवेंद्रस्तान् प्रदुद्रुवुः ॥२५॥ अभवत् द्वंद्वयुद्धं
च नियतं रोमहर्षणम् । तेषां मध्येऽथ किंचित्त्वां कथयामि समासतः ॥२६॥ इंद्रेण युयुधे तत्र गजासुरः प्रतापवान् ।
अग्निना च स्वयं तारो वायुना विप्रचित्तिकः ॥२७॥ वरुणेन ययौ तत्र बलिः क्रोधसमन्वितः । कुबेरेण प्रहेतिश्च मदनेन
च हेतिकः ॥२८॥ सूर्येण युयुधे क्रोधात् स प्रतापी नरांतकः । देवांतको विष्णुना स क्रोधयुक्तः समाययौ ॥२९॥ जृंभः
सोमेन दैत्येशो युयुधे बलसंयुतः । यमेनैव महाबाहुर्वृत्रश्च युयुधे भृशम् ॥३०॥ नानाद्वंद्वभवं युद्धं चक्रुर्देवेंद्रकैः सह ।
दैत्येंद्रा बलगर्विष्ठा वर्णनाय न शक्यते ॥३१॥ अहोरात्रं रता युद्धे न विरामं प्रचक्रिरे । नानाशास्त्रास्त्रवर्षेण ववृषुस्ते
परस्परम् ॥३२॥ दिवसास्तत्र पंचैव गतास्तेषां प्रयुध्यताम् । नाप्राप्यत जयो देवैर्दैत्यैः परमदुर्जयैः ॥३३॥ ततोऽतिक्रोप-
संयुक्तः स प्रतापी गजासुरः । इंद्रं संगृह्य चिक्षेप महापर्वतमस्तके ॥३४॥ मूर्च्छितो देवराजः स ततो देवाः पलायिताः ।
******************************************************************** पान १००
एवं द्वंद्वरतैर्दैत्यैर्देवेंद्रा मूर्च्छिताः कृताः ॥३५॥ हा हा कृत्वा ततः सर्वं देवसैन्यं दिशो दश । पपाल तन् महाश्चर्यं दृष्ट्वा
विष्णुश्चकोप ह ॥३६॥ चक्रं प्रगृह्य चिक्षेप महाबाहुः स दारुणम् । दैत्यसैन्ये ततस्तेन हता दैत्या अनेकशः ॥३७॥
केषांचिन्मस्तकेष्वेतदपतद्दारुणं महत् । चिच्छेद हस्तपादादीन् दानवानामितस्ततः ॥३८॥ ततो दैत्येंद्राः सर्वे आययुस्ते
जनार्दनम् । शस्त्रास्त्रैः सर्वतो दुष्टा मारयामासुरेव तम् ॥३९॥ नारायणस्ततः कोपसंयुक्तोऽतिप्रतापवान् । गजासुरं स
विव्याध बाणैर्दशभिरावृतम् ॥४०॥ तं मूर्च्छितं चकाराऽसौ ततो देवांतकं हरिः । सप्तभिस्ताडयामास पातयामास भूतले
॥४१॥ एवं सर्वान् महाविष्णुः दानवेंद्रान् सुदारुणान् । विव्याध मूर्च्छितांश्चक्रे शरवर्षैः समंततः ॥४२॥ ततो हाहारवं
कृत्वाऽपलत्तत् सैन्यमुल्बणम् । दानवानां भयार्तं वै दशदिक्षु विशेषतः ॥४३॥ ततो लोभः समायातः क्रोधयुक्तो
जनार्दनम् । जगाद वचनं सोऽपि मोहयुक्तो महासुरः ॥४४॥ लोभ उवाच । सम्यक् कृतं त्वया विष्णो येन मे दर्शनं गतः ।
अधुना त्वां न मुंचामि जीवयुक्तं कदाचन ॥४५॥ नामरूपात्मकेभ्यश्च मरणं नैव मे भवेत् । ज्ञात्वा किमर्थमायातो
ज्ञानहीनो यथा नरः ॥४६॥ गदां गृहीत्वैवमुक्तवा ताडयामास केशवम् । पपात मूर्च्छया विष्णुस्ततः सैन्यं व्यमर्दयत्
॥४७॥ मुहूर्तमात्रकालेन सावधानो बभूव ह । पपाल देवराजैः स त्यक्त्वा संग्राममंडलम् ॥४८॥ प्रहस्य दानवान्
सर्वान् सावधानांस्तथाऽकरोत् । लोभासुरः प्रसन्नात्मा तैः सार्धं स्वपुरेऽगमत् ॥४९॥ स्तुतो बंदिजनैस्तेभ्यो दत्त्वा दानानि
हर्षितः । इंद्रासने समासीनो रेजे दानवसत्तमः ॥५०॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खंडे गजाननचरिते विष्णुपराजयो नामाष्टत्रिंशोऽध्यायः ॥
❧❧❧
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततोऽतिदुःखितो विष्णुर्देवेंद्रैश्च समन्वितः । त्यक्त्वा वैकुंठमेवं स ययौ शंभुं
शरण्यकम् ॥१॥ गत्वा कैलासके दक्ष शिवं नत्वा जनार्दनः । स्तुत्वा वृत्तांतमेवं स कथयामास विस्तरात् ॥२॥ श्रुत्वा
महेश्वरो विष्णुं स देवं स्वपुरागतम् । सांत्वयामास युक्तैश्च नानादृष्टांतदर्शनैः ॥३॥ शिव उवाच । मा चिंतां कुरु विष्णो
त्वं सर्वज्ञ जगदीश्वर । तपःपुण्यं महोग्रं यत्तेन त्वं स पराजितः ॥४॥ तपः कृतं च लोभेन फलं तस्य जनार्दन । भुक्त्वा
खं. ४ अ. ३९ पान १०१
मरिष्यते नाथ कालस्तत्र प्रतीक्ष्यताम् ॥५॥ देवैः सह महाविष्णो मत्समीपे स्थिरो भव । मदीयभक्तियुक्तो ह्यागमिष्य-
त्यत्र नैव सः ॥६॥ एवमुक्त्वा वचो विष्णुं शंकरः शोकसंयुतः । देवैस्तेन समायुक्तोऽतिष्ठत् कैलासपर्वते ॥७॥ अथ
लोभासुरं सर्वैः संस्थितं दानवैर्वृतम् । इंद्रासने महाबाहुं तमूचुर्दानवोत्तमाः ॥८॥ विप्रचित्त्याद्या ऊचुः । लोभ लोभ महाभाग
शृणु नो वचनं हितम् । विष्णुर्देवगणैः सर्वैः कैलासे शंकरं ययौ ॥९॥ अस्माकं शंकरः सोऽपीष्टदेवः पूज्य आदरात् ।
शत्रून् रक्षति नः शंभुर्भविष्यति विपक्षगः ॥१०॥ अधुना शंकरस्यास्य भावार्थं प्रेष्यतां महान् । दूतः सर्वार्थसूज्ञः कस्ततः
क्षेमं भविष्यति ॥११॥ शिवो यदि स देवानां पक्षगो भवति प्रभो । तदा शंभुं प्रजेष्यामस्तपोबलसमन्विताः ॥१२॥
न ते शंभुर्वरस्यैव दाता जानीहि मानद । कर्मणां फलदातारः कृता देवाश्च कर्मणा ॥१३॥ कर्माधीनं जगत् सर्वं सदेवासुर-
मानुषम् । कर्माज्ञावशगं दैत्य कर्मणा त्वं महाप्रभुः ॥१४॥ देवाः कर्मफलं लोभाद्दते न विशेषतः । तदैश्वर्यविहीनास्ते
पतंति स्वपदात् किल ॥१५॥ अतस्त्यक्त्वा स्वसंदेहं त्यज शंभुं विपक्षगम् । कुरु कर्माश्रयं त्वं वै तेन क्षेमं भविष्यति ॥१६॥
इत्युक्त्वा दानवेंद्रास्ते विरामं चक्रुरंजसा । लोभासुरस्तस्तेषां वचने निरतोऽभवत् ॥१७॥ गजासुरं महावीर्यं प्रेषयामास
सत्वरम् । कैलासे शंकरस्यैव भावार्थं भावधारकः ॥१८॥ गत्वा शंभुं महादैत्यः प्रणम्य प्रत्युवाच सः । वचनं लोभदैत्येन
प्रेषितं सामपूर्वकम् ॥१९॥ गजासुर उवाच । महादेव नमस्तुभ्यं शृणु मे वचनं हितम् । लोभासुरेण देवेश प्रेषितोऽहं
विशेषतः ॥२०॥ तेन संकथितं वाक्यं तच्छृणुष्व सुखप्रदम् । त्वं साक्षादीश्वरः पूर्णोऽस्माकं पूज्यो निरंतरम् ॥२१॥
विष्णुर्देववरः स्वामिन्नागतस्ते प्रसन्निधौ । अस्माकं शत्रुरेवाऽसौ तं त्यज त्वं सदाशिव ॥२२॥ वयं भक्तास्त्वदीयाश्चास्माकं
मित्रं तदेव ते । मित्रं शत्रुस्तथा शंभो पालयस्वावराद्वि नः ॥२३॥ नो चेत् संग्रामभावेन जेष्यामस्त्वां न संशयः । कर्मणा
त्वं समर्थश्चेत् संजातो भुंक्ष्व विष्टपम् ॥२४॥ कर्मणा लोभकः शंभो सर्वैश्वर्ययुतोऽधुना । तस्मादस्मान् महाभाग रक्ष ते
भक्तिसंयुतान् ॥२५॥ तस्य तद्वचनं श्रुत्वाऽब्रवीन्निःश्वस्य शंकरः । गुजासुरं स्वयं साम्ना वचनं हितकारकम् ॥२६॥
शिव उवाच । गजासुर महालोभं वद मे वचनं हितम् । गत्वा तं दानवेंद्रं त्वं सर्वासुरसमन्वितम् ॥२७॥ कैलासं विष्णुना
त्यक्त्वा सहितोऽहं स्वदेवपैः । गच्छामि यत्र कुत्रापि न त्यजामि जनार्दनम् ॥२८॥ कर्मणा त्वं समर्थश्चेत् संजातो भुंक्ष्व
विष्टपम् । सर्वं चराचरं तेऽभूत् स्वाधीनं नात्र संशयः ॥२९॥ एवमुक्त्वा सुदुर्बुद्धिं शंकरः सुरनायकैः । जगाम पर्वतोद्देशे
खं. ४ अ. ४०
पान १०२
त्यक्त्वा कैलासमात्मनः ॥३०॥ महावने महेशानः पर्वतद्रोणिमाश्वितः । देवैर्विष्णुमुखैः सर्वैः पशुवत् कालचालकः ॥३१॥
गजासुरः सभां गत्वा जगाद सकलैर्युतम् । लोभासुरं स वृत्तांतं श्रुत्वा संहर्षितोऽभवत् ॥३२॥ ततः स सत्यलोके च
वैकुंठेशंकरालये । दानवान् स्थापयामास नानादेवपदेषु वै ॥३३॥ इंद्रासनं परित्यज्य ययौ भूम्यां महासुरः । स्वपुरे
दानवेंद्रैश्चावसद्रोगपरायणः ॥३४॥ न ममर्शा निजात्मानं गर्वितः केवलं स तु । स्त्रीमांसमदिरादिष्वासंसक्तोऽभूत्
सुदुर्मतिः ॥३५॥ धन्यमात्मानमेवं स मन्यते स्म कृतार्थकम् । ब्रह्मांडं वशगं मेऽभून्न मत्तः श्रेष्ठ एककः ॥३६॥
॥ ओमिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे चतुर्थे खण्डे गजाननचरिते लोभासुरब्रह्माण्डजयो नामैकोनचत्वारिंशोऽध्यायः ॥
॥ श्रीगणेशाय नमः ॥ मुद्गल उवाच । ततो बहौ गते काले दानवा बलदर्पिताः । जगुर्लोभासुरं तत्र लोभयुक्ता विशेषतः
॥१॥ दानवेंद्रा ऊचुः । देवा लोभासुर स्वामिन्नस्माकं शत्रवो मताः । सुराश्चासुरवर्याणां वेदे प्रोक्ता विचारय ॥२॥ शस्त्रास्त्रै-
र्देवसंघास्ते न मरिष्यंति कर्हिचित् । अमरा वेदशास्त्रेषु कथिता नात्र संशयः ॥३॥ कर्मान्ना देवताः स्वामिन् क्षते कर्मणि
तत्क्षणात् । मरिष्यंति महाभाग तदर्थं यत्नमाचर ॥४॥ जित्वा ब्रह्मांडगोळं किं संस्थितोऽसि महासुर । न कृतार्थस्त्वमेवैवं
कदा जीवत्सु शत्रुभु ॥५॥ हिरण्यकशिपुर्जित्वा पुरा देवगणान् स्वयम् । राज्यं चकार सर्वत्र भुवनेषु न संशयः ॥६॥ ततो
देवैः प्रयत्नेन निर्मितो नृहरिः प्रभो । तेन हत्वा सुराधीशं देवाः स्वस्थानगा बभुः ॥७॥ अतस्त्वं दैत्यराजेंद्र हितं कुरु
विशेषतः । तदा चिरं महाराज सुखयुक्तो भविष्यसि ॥८॥ तेषां वचनमाकर्ण्य लोभासुरः सुमंदधीः । आज्ञापयत्ततो
दैत्यो दैत्येंद्रान् कर्मखंडने ॥९॥ ततो गजासुराद्याश्च निर्गता क्रोधसंयुताः । यत्र तत्र द्विजान् धृत्वा जघ्नुर्यज्ञान् विशेषतः
॥१०॥ यज्ञवृक्षांस्तथा गाश्च तीर्थानि यत्र तत्र ते । जघ्नुर्बभंजुरत्यंतं कर्मखंडनकारणात् ॥११॥ बभंजुः क्रोधसंयुक्ता देवता-
ऽऽयतनानि ते । स्वधर्मस्थं जनं दृष्ट्वा जघ्नुर्दानवसत्तमाः ॥१२॥ सर्वत्र दानवाधीशैर्लोभासुरस्य मूर्तयः । जनैः पूज्याः कृता दक्ष
तदाधारं बभूव ह ॥१३॥ न स्वाहा न स्वधा कुत्र बभूव प्रलये यथा । न वषट्कारगं कर्म त्रासितं भूमिमंडलम् ॥१४॥
लोभासुरयुतं सर्वैः कर्म तैः प्रतिपादितम् । ततो हाहारवैर्युक्ता बभूवुर्मानवाः प्रभो ॥१५॥ ब्राह्मणा वनगा भूत्वा केचिन-