मुद्राराक्षसम् (सटीक संस्कृत नाटक)
Mudrarakshasam Natakam with Hindi Commentary
महाकवि विशाखदत्त द्वारा
२४० मुद्राराक्षसम्
ओसारणा करीअदि । ( आर्या ! किं भणथ, किं निमित्तमेषाऽपसारणा क्रियते ? आर्या ! एष खलु कुमारो मलयकेतुः समुत्पन्नशीर्षवेदनममात्य-राक्षसं प्रेक्षितुमिहैवागच्छति । एतेन कारणेनापसारणा क्रियते । )
[ इति निष्क्रान्तः पुरुषः । ]
[ ततः प्रविशति भागुरायणेन कञ्चुकिना चानुगम्यमानो मलयकेतुः । ]
मलयकेतुः — [ निःश्वस्याऽऽत्मगतम् ] अद्य दशमो मासस्तातस्योपरतस्य । न चास्माभिर्वृथा पुरुषकारमुद्वहद्भिस्तमुद्दिश्य तोयाञ्जलिरप्यावर्जितः । अथवा, प्रतिज्ञातमेतत् पुरस्तात् ।
वक्षस्ताडनभिन्नरत्नवलयं भ्रष्टोत्तरीयांशुकं हाहेत्युच्चरितार्तनादकरुणं भूरेणुरुक्षालकम् । तादृङ्मातृजनस्य शोकजनितं सम्प्रत्यवस्थान्तरं शत्रुस्त्रीषु मया विधाय गुरवे देयो निवापाञ्जलिः ॥ ५ ॥
अन्वय — मातृजनस्य शोकजनितं वक्षस्ताडनभिन्नरत्नवलयं भ्रष्टोत्तरीयांशुकं भूरेणुरुक्षालकं हाहेत्युच्चरितार्तनादकरुणं तादृक् अवस्थान्तरं सम्प्रति शत्रुस्त्रीषु विधाय मया गुरवे निवापाञ्जलिः देयः ॥ ५ ॥
व्याख्या—मातृजनस्य—मातृणां जननीनां जनस्य समूहस्य, शोकजनित—शोकेन भर्तृवियोगदुःखेन जनितं समुत्पन्नं, वक्षस्ताडनभिन्नरत्नवलय—वक्षसः उरसः यानि ताडनानि आघाताः तैः भिन्नानि भग्नानि रत्नवलयानि मणिनिर्मित-कटकानि यस्मिन् तादृशम्, भ्रष्टोत्तरीयांशुक—भ्रष्टं स्वस्थानाच्च्युतमुत्तरीयांशुक-मुत्तरीयवस्त्रं यस्मिन् तादृशं, भूरेणुरुक्षालकम्—भुवः भूम्याः रेणवः धूलयः ताभिः रुक्षा अस्रिग्धा अलका चूर्णकुन्तलाः यस्मिन् तादृशम्, हाहेत्युच्चरितार्तनादकरुणम्—हा हा इति अनेन प्रकारेण उच्चरित उद्गतः यः आर्तनाद दीनस्वरः तेन करुणं हृदयविदारणं, तादृक्—तथाविधम्, अवस्थान्तरं—दशान्तरं, सम्प्रति—अधुना, शत्रुस्त्रीषु—अरिवधूषु, विधाय—कृत्वा, मया—मलयकेतुना, गुरवे—पित्रे निवापाञ्जलि—निवापस्य पितृदानस्य अञ्जलिमितं जलम्, देयः—समर्पणीयः ॥ ५ ॥
चतुर्थोऽङ्कः २४१
हिन्दी अनुवाद—[ आकाश में ] आर्यगण ? क्या कह रहे हो, किस कारण ( लोगों को ) हटाया जा रहा है ? आर्यवृन्द ! ये कुमार मलयकेतु उत्पन्न शिरोवेदना वाले अमात्य राक्षस को देखने के लिए यही आ रहे हैं। इस कारण हटाया जा रहा है।
[ पुरुष निकल जाता है। ]
[ तब भागुरायण और कंचुकी से अनुसरण किया जाता हुआ मलयकेतु प्रवेश करता है। ]
मलयकेतु—[ साँस खींचकर मन में ] पिताजी को मरे आज दसवाँ महीना है। व्यर्थ में पुरुषत्व को ढोते हुए हमने उनके उद्देश्य से जलांजलि भी अर्पित नहीं की। अथवा पहले यह प्रतिज्ञा की थी—
माताओं के शोक से उत्पन्न छाती पीटने के कारण टूटे हुए रत्न-कंकणों वाली, गिरे हुए उत्तरीय वस्त्र वाली, धरती की धूलों से रूखे बालों वाली और हाय-हाय इस प्रकार उच्चारण किये गये दीनस्वर के कारण हृदयविदारक—ऐसी भिन्न दशा ( अर्थात् दुर्दशा ) को वैरियों की स्त्रियो ( के भाग्य ) में ( बदल ) करके मुझे पिता का श्राद्ध-तर्पण करना है ॥५॥
**टिप्पणी—अपसारणा—**हटाना। अप√सृ + णिच् + युच्—अन, टाप्। **समुत्पन्नशीर्षवेदनम्—**समुत्पन्ना सञ्जाता शीर्षे शिरसि वेदना पीड़ा यस्य सः समुत्पन्नशीर्षवेदनः त्रिपदव्यधिकरणबहुव्रीहि स०, तम्। **उपरतस्य—**मृतस्य। **तातस्य—**अत्र शेषे षष्ठी। तातस्य सम्बन्धे इत्यर्थः। **दशमः—**दशानां पूरणः इति दशन्+डट्, तस्य मडागमः। तोयाञ्जलिः तोयस्य अञ्जलिः अञ्जलिमितं जलमित्यर्थः। **आवजितः—**दत्तः। आ√वृज् + णिच् + क्त कर्मणि। **अलक—**सिर के बाल, केशपाश। **तादृक्—**तद्√दृश् + क्विन् कर्त्तरि। **अवस्थान्तरम्—**अन्या अवस्था अवस्थान्तरम् मयूरव्यंसकादित्वात् नित्यसमासः। **निवापाञ्जलिः—**श्राद्धतर्पणमित्यर्थः। इस श्लोक में असम्भवद्वस्तुसम्बन्धरूप निदर्शना अलंकार है। इसमें शार्दूलविक्रीडित छन्द है। इस छन्द का लक्षण १, १२ में देखिए ॥५॥
तत् किमिह बहुना ?
उद्यच्छता धुरमकापुरुषानुरूपां।
गन्तव्यमाजिनिधनेन पितुः पथा वा।
मु० रा०—१६
| २४२ | मुद्राराक्षसम् |
|---|
आच्छिद्य वा स्वजननीजनलोचनेभ्यो नेयो मया रिपुवधूनयनानि बाष्पः ॥ ६ ॥
अन्वय —अकापुरुषानुरूपां धुरम् उद्वहता मया पितु पथा वा आजिनि-धनेन गन्तव्यम्, बाष्पो वा स्वजननीजनलोचनेभ्य आच्छिद्य रिपुवधूनयनानि नेयः ॥६॥
व्याख्या—अकापुरुषानुरूपाम्—अकापुरुषस्य वीरस्य अनुरूपां योग्या, धुरं—भारम्, उद्वहता—वहता, मया, पितु —जनकस्य, पथा—मार्गेण, वा—अथवा, आजिनिधनेन—आजौ सङ्ग्रामे निधनं मरणं तेन, गन्तव्यं—प्रस्थातव्यम्, बाष्पो वा—नेत्रजलं वा, स्वजननीजनलोचनेभ्य —स्वस्य आत्मन जननीजनस्य मातृसमूहस्य लोचनेभ्य नेत्रेभ्यः, आच्छिद्य—गृहीत्वा, रिपुवधूनयनानि—शत्रुस्त्रीनेत्राणि, नेय —प्रापणीयः ॥ ६ ॥
हिन्दी अनुवाद—इसलिए इस विषय में बहुत कहने से क्या (लाभ) ? वीर पुरुष के योग्य भार का वहन करते हुए मुझे पिता के मार्ग से या संग्राम में मृत्यु के द्वारा जाना चाहिए अथवा अपनी माताओं की आँखों से छीनकर शत्रु-वनिताओ की आँखों में आँसू को पहुँचा देना चाहिए ॥ ६ ॥
टिप्पणी—अकापुरुषानुरूपां—रूपम् अनुगता अनुरूपा। कुत्सित पुरुष कापुरुष वा कुपुरुष 'विभाषा पुरुषे' इत्यनेन कादेशस्य विकल्पात् । न कापुरुष अकापुरुष विरोधार्थे नञ्समास । तस्य अनुरूपा, ताम् । उद्वहता--वहन करते हुए । उद् √यम् + शतृ । अत्र 'समुदाङ्भ्योयमोऽग्रन्थे' इत्यनेन आत्मनेपदस्य दुर्वारत्वेऽपि 'स्वरितञितः कर्त्रभिप्राये क्रियाफले' इत्यनेन परस्मैपदम् । वा—विकल्पार्थक अव्यय । स्वजननीजनलोचनेभ्य —अत्र 'ध्रुवमपायेऽपादानम्, इत्यनेन पञ्चमी । इस श्लोक में विकल्प अलकार है और वसन्ततिलका छन्द है । इस छन्द का लक्षण १, ८ में देखिए ॥ ६ ॥
[ प्रकाशम् ] आर्य जाजले । उच्यन्तामस्मद्वचनादनुयायिनो राजान —'एक एवाहममात्यराक्षसस्यातर्कितागमनेन प्रीतिमुत्पादयितुमिच्छामि, अत कृतमनुगमनक्लेशेन' ति ।
कञ्चुकी—यदाज्ञापयति कुमार । [परिक्रम्याकाशे] भो भो राजान ! कुमार समाज्ञापयति—'न खल्वह केनचिदनुगन्तव्यः' इति । [ विलोक्य
चतुर्थोऽङ्कः २४३
सहर्षम् ] कुमार ! कुमार ! एते भवदाज्ञासमनन्तरमेव प्रतिनिवृत्ताः सर्व एव राजानः । पश्यतु कुमारः—
सोत्सेधैः स्कन्धदेशैः खरतरकविकाकर्षणात्यर्थभुग्नै- रश्वाः कैश्चिन्निरुद्धाः खमिव खुरपुटैः खण्डयन्तः पुरस्तात् । केचिन्मातङ्गमुख्यैर्विहतजवतया मूकघण्टैर्निवृत्ताः मर्यादां भूमिपाला जलधय इव ते देव नोल्लङ्घयन्ति ॥ ७ ॥
अन्वयः—कैश्चित् खुरपुटैः पुरस्तात् खं खण्डयन्तः इव अश्वाः खरतरकविकाकर्षणात्यर्थभुग्नैः सोत्सेधैः स्कन्धदेशैः निरुद्धाः । केचित् विहतजवतया मूकघण्टैः मातङ्गमुख्यैः निवृत्ताः । देव ! जलधय इव भूमिपालाः ते मर्यादां न उल्लङ्घयन्ति ॥ ७ ॥
व्याख्या—कैश्चित्—भूपालैः, खुरपुटैः—शफाग्रभागैः, पुरस्तात्—अग्रे, खम्—आकाशम्, खण्डयन्तः इव—चूर्णयन्तः इव, अश्वाः—घोटकाः, खरतरकविकाकर्षणात्यर्थभुग्नैः—खरतराः अतितीक्ष्णाः याः कविकाः खलीनाः तासां कर्षणैः सग्रहैः अत्यर्थम् अतिशयम् भुग्नैः कुटिलैः, सोत्सेधैः—उन्नतैः, स्कन्धदेशैः—ग्रीवाप्रदेशैः, निरुद्धाः—अवरुद्धाः । केचित्—इतरे राजानः, विहतजवतया—विहतः निरुद्धः जवः वेगः येषां तथाविधतया, मूकघण्टैः—मूकाः निःशब्दाः घण्टाः गलघण्टाः, येषां तैः, मातङ्गमुख्यैः—गजेन्द्रैः, निवृत्ताः—गमनविरताः । देव !—महाराज !, जलधय इव—समुद्रा इव, भूमिपालाः—नृपाः, ते—तव, मर्यादाम्—आज्ञां (समुद्रपक्षे वेलां), न उल्लङ्घयन्ति—न अतिक्रामन्ति ॥ ७ ॥
हिन्दी अनुवाद—[ प्रकट ] आर्य जाजलि ! हमारी ओर से अनुगमन करने वाले राजाओ से कहो कि मैं अकेला ही अमात्य राक्षस के पास सहसा उपस्थित होकर प्रीति को उत्पन्न करना चाहता हूँ । इसलिए पीछे-पीछे चलने का कष्ट करना व्यर्थ है ।
कञ्चुकी—कुमार की जो आज्ञा । [ घूमकर आकाश में ] हे राजवृन्द ! कुमार आज्ञा देते हैं कि मेरे पीछे-पीछे कोई न आवे [ देखकर हर्षपूर्वक ] कुमार ! कुमार ! ये सभी राजा लोग आपकी आज्ञा पाते ही लौट गए । कुमार देखे—
कुछ राजाओं ने खुरो के अग्रभागो से सामने आकाश को मानों चूर्ण करते
२४४ मुद्राराक्षसम्
हुए तथा अत्यन्त तीक्ष्ण लगामों के खींचने से अत्यधिक टेढ़े और ( इसीलिए ) समुन्नत हो उठने वाले ग्रीवाभागों से युक्त अश्वों को रोक लिया। कतिपय राजगण वेग के रोक देने के कारण निःशब्द घंटे वाले गजराजों के साथ लौट पड़े। महाराज ! समुद्र के समान राजा लोग आपकी आज्ञा का उल्लंघन नहीं करते हैं ॥ ७ ॥
टिप्पणी—अतर्कितागमनेन—सहसोपस्थित्या । √तर्क् + णिच् स्वार्थे + क्त कर्मणि = तर्कितम् न तर्कितम् नञ्तत्० । तादृशं गमनम् कर्मधारय स०, तेन । कृतम्—अलम् । अस्य योगे 'अनुगमनक्लेशेन' इत्यत्र तृतीया । पुरस्तात्—अव्ययमेतत् । पूर्वस्मिन् देशे इति पूर्व + टि—अस्ताति स्वार्थे । अतिशयेन खरम् इति खरतरम् । √भुज् + क्त कर्तरि = भुग्न। सोत्सेधे —उद् √भिद् + घञ् भावे = उत्सेधः = उच्छ्रायः । तेन सह इति सोत्सेधाः, तैः । स्कन्धदेशैः —अत्र इत्थम्भूतलक्षणे तृतीया । निरुद्धाः —नि √रुध् + क्त कर्मणि । मातङ्गमुख्यैः —मातङ्गानां मुख्याः षष्ठीतत्० वा मातङ्गेषु मुख्याः सुप्सुपा स०, तैः । निवृत्ताः—नि √वृत् + क्त कर्तरि । भूमिपालाः —भूमिं पालयति इति भूमि √पाल् + णिच् + अण् कर्तरि । इस श्लोक में स्वभावोक्ति अलंकार, उत्प्रेक्षा और उपमा अलंकारों से संसृष्ट है। इसमें स्रग्धरा छन्द है। इस छंद का लक्षण १, १ में देखिए ॥७॥
मलयकेतु —आर्य जाजले ! त्वमपि सपरिजनों निवर्तस्व । भागुरायण एको मामनुगच्छतु ।
कञ्चुकी—यदाज्ञापयति कुमारः ।
[ इति सपरिजनों निष्क्रान्तः ]
मलयकेतु —सखे भागुरायण ! विज्ञापितोऽहमिहागच्छद्भिर्भद्रभटप्रभृतिभिः, यथा—'न वयममात्यराक्षसद्वारेण कुमारमाश्रयणीयमाश्रयामहे, किन्तु कुमारस्य सेनापतिं शिखरसेनमुररीकृत्य दुष्टामात्यपरिगृहीतात् चन्द्रगुप्तादपरक्ताः सन्तः कुमारमाभिरामिकगुणयोगादाश्रयणीयमाश्रयामहे' इति । तन्मया सुचिरमपि विचारयता तेषां न वाक्यार्थोऽधिगतः ।
भागुरायण —कुमार ! नायमत्यन्तदुर्बोधोऽर्थः । पश्य, विजिगीषुमात्मगुणसम्पन्नं प्रियहितद्वारेणाश्रयणीयमाश्रयेदि' ति ननु न्याय्य एवायम् ।
चतुर्थोऽङ्कः २४५
मलयकेतुः—सखे भागुरायण ! नन्वस्माकममात्यराक्षसः प्रियतमो हिततमश्च ।
हिन्दी अनुवाद—मलयकेतु—आर्य जाजलि ! तुम भी परिजनों के साथ लौट जाओ । अकेला भागुरायण मेरे पीछे-पीछे आवे ।
कंचुकी—कुमार की जो आज्ञा ।
[ अनुचरों के साथ चला जाता है । ]
मलयकेतु—मित्र भागुरायण ! यहाँ आये हुए भद्रभट आदियो ने मुझसे कहा कि हम लोग अमात्य राक्षस के द्वारा आश्रय के योग्य कुमार का आश्रय नही ले रहे हैं, किन्तु कुमार के सेनापति शिखरसेन ( की बातों ) को स्वीकार करके दुष्ट अमात्य चाणक्य के वशीभूत चन्द्रगुप्त से विरक्त होकर उत्तम गुणों से विभूषित होने के कारण कुमार का आश्रय ले रहे है । सो मैने चिरकाल तक सोचने पर भी उनके वाक्य का तात्पर्य नही समझा ।
भागुरायण—कुमार ! यह तात्पर्य दुर्बोध नहीं है । देखिए, जीतने के इच्छुक, आत्मा के गुणों ( पराक्रम, उत्साह आदि ) से सम्पन्न और आश्रय के योग्य का आश्रय प्रिय एवं हितचिन्तक व्यक्ति के द्वारा ग्रहण करना चाहिए ।
मलयकेतु—मित्र भागुरायण ! आमात्य राक्षस तो हमारे अत्यन्त प्रिय एवम् अत्यन्त हितचिन्तक हैं ।
टिप्पणी—विज्ञापितः—निवेदितः । आमात्यराक्षसद्वारेण—अमात्य-राक्षस एव द्वारम्, तेन, करणे तृतीया । आश्रयणीयम्—सेवनीयम् । आश्रया-महे—सेवामहे । ऊरीकृत्य—स्वीकृत्य । ऊरी √कृ + क्त्वा—ल्यप्, 'ऊर्यादि-च्चिडाचश्च' इत्यनेन गतिसंज्ञा, 'कुगतिप्रादयः' इत्यनेन गतिसमासः । आभि-रामिकगुणयोगात्—प्रशस्तगुणभूषितत्वात् । अभि समन्तात् रमयति इति अभि √रम् + णिच् + अच् कर्तरि = अभिरामम् । तत् शीलमस्य इति अभिराम + ठक्—इक = आभिरामिकम् । तस्य गुणाः । तैः योगः, तस्मात् । हेतौ पञ्चमी । विजिगीषुम्—विजयाभिलाषिणम् । विजेतुम् इच्छुः विजिगीषुः वि√जि + सन्, द्वित्वादि + उ, तम् । प्रियहितद्वारेण—प्रियश्चासौ हितः प्रियहितः । स एव द्वारम् उपायः, तेन ।
२४६ मुद्राराक्षसम्
भागुरायण —कुमार ! एवमेतत्, किन्तु अमात्यराक्षसश्चाणक्ये बद्धवैरो न तु चन्द्रगुप्ते, तद्यदि कदाचिच्चन्द्रगुप्तश्चाणक्यमतिजितकाशि-नमसहमान साचिव्यादवरोपयेत्, ततो नन्दकुलभक्त्या नन्दान्वय एवाय-मिति कृत्वा, सुहृज्जनापेक्षया च, अमात्यराक्षसश्चन्द्रगुप्तेन सह सन्दधीत । चन्द्रगुप्तोऽपि पितृपारम्पर्यागत एवायमिति गत्वा सन्धि-मनुमन्येत । एव मत्यम्मास्वपि कुमारो न विश्वमेदित्ययमेषा वाक्यार्थ ।
मलयकेतु —युज्यते । सखे भागुरायण ! अमात्यराक्षसस्य गृहमार्ग मादेशय ।
भागुरायण —इत इत कुमार । [इत्युभौ परिक्रामत ।] कुमार ! इदमात्यराक्षसस्य गृह, प्रविशतु कुमार ।
मलयकेतु —एष प्रविशामि । [इत्युभौ प्रवेशम नाटयत ।]
राक्षस —[आत्मगतम्] आ स्मृतम् ! [प्रकाशम्-] भद्र ! अपि दृष्टस्त्वया कुसुमपुरे वैतालिक स्तनकलस ?
करभक —अमच्च ! अथ इ ? (अमात्य ! अथ किम् ?)
मलयकेतु —सखे भागुरायण ! कुसुमपुरवृत्तान्त प्रस्तूयते । तदुप-सर्पाव, शृणुवस्तावत्—
सत्त्वभङ्गभयाद्राज्ञा कथयन्त्यन्यथा पुर । अन्यथा विवृत्तार्थेषु स्वैरालापेषु मन्त्रिण ॥८॥
अन्वय —मन्त्रिण राज्ञा पुर सत्त्वभङ्ग भ्यात् अन्यथा कथयन्ति, विवृत्तार्थेषु स्वैरालापेषु अन्यथा ॥८॥
व्याख्या —मन्त्रिण —अमात्या, राज्ञा—नृपाणा, पुर —अग्रे, सत्त्वभङ्ग-भयात्—सत्त्वस्य मनस प्रभावस्य वा भङ्ग नाश तस्य भयात् भीत्या, अन्यथा—प्रकारान्तरेण, कथयति—वदति, विवृत्तार्थेषु—विवृत प्रकटीभूत अर्थ तात्पर्य येषु तादृशेषु, स्वैरालापेषु—स्वच्छन्दभाषणेषु, अन्यथा—अन्य-प्रकारेण (कथयन्ति) ॥८॥
हिन्दी अनुवाद —भागुरायण—कुमार ! यह ऐसा ही है । किन्तु अमात्य राक्षस का वैर चाणक्य से बँधा हुआ है न कि चन्द्रगुप्त से, इसलिए यदि
चतुर्थोऽङ्कः २४७.
कदाचित् अत्यन्त अभिमानी चाणक्य को सहन न करता हुआ चन्द्रगुप्त (उसे) मन्त्रि-पद से च्युत कर दे, तदनन्तर नन्द-वंश की भक्ति के कारण यह नन्द-वंश का ही है—यह समझकर तथा (चन्दनदास आदि) मित्रों की अपेक्षा के कारण अमात्य राक्षस चन्द्रगुप्त के साथ सन्धि कर ले, और चन्द्रगुप्त भी पितृ-परम्परा से आया हुआ ही यह है—यह सोचकर सन्धि का अनुमोदन करे तो ऐसी स्थिति में हम लोगों पर भी कुमार विश्वास न करें—यह इनके वाक्य का तात्पर्य है।
मलयकेतु—ठीक है। मित्र भागुरायण ! अमात्य राक्षस के घर का मार्ग बताओ।
भागुरायण—इधर से कुमार (आवें) इधर से। [दोनों घूम जाते हैं।] कुमार ! यह अमात्य राक्षस का घर है, कुमार प्रवेश करे।
मलयकेतु—यह प्रवेश करता हूँ। [दोनों प्रवेश करने का अभिनय करते हैं।]
राक्षस—[मन में] ओह ! स्मरण आ गया। [प्रकट] भद्र ! क्या तुम कुसुमपुर में वैतालिक स्तनकलस से मिले थे ?
करभक—अमात्य ! और क्या ?
मलयकेतु—मित्र भागुरायण ! कुसुमपुर का वृत्तान्त चल रहा है ! इसलिए हम दोनों समीप नहीं जाते, (यहीं से) तब तक सुनते हैं—
मंत्री लोग प्रभाव के नष्ट हो जाने के भय से राजाओं के सामने (किसी बात को) दूसरे ढंग से कहते हैं और प्रकट तात्पर्य वाली स्वच्छन्द बातचीतों में अन्य प्रकार से (कहते हैं) ॥८॥
टिप्पणी—एवमेतत्, किन्तु—भागुरायण चाणक्य का गुप्तचर है। वह राक्षस और मलयकेतु में फूट डालना चाहता है। फूट या भेद का लक्षण यह है—'स्नेहापरागानयनं संघर्षोत्पादनं तथा। संतर्जनं च भेदज्ञैर्भेदस्तु त्रिविधः स्मृतः॥' यहाँ भागुरायण ने 'स्नेहापरागानयन' भेद का प्रयोग किया है।
बद्धवैरः—धृतविद्वेषः। बद्धं वैरं येन स बद्धवैरः। अतिजितकाशिनम्—अनल्पमदशालिनम्। अतिजितेन अतिजयेन काशते तच्छीलः इति अतिजित
२४८ मुद्राराक्षसम्
काश्+णिनि कर्तरि ताच्छील्ये = अतिजितकाशी, तम् । साचिव्यात्—मन्त्रिपादात् । अवरोपयेत्—च्यावयेत् । अव√रुह्+णिच्, ह्म्य प+लिङ्—यात् । नन्दकुलभक्त्या राक्षस नन्दवंश के भक्त हैं और चन्द्रगुप्त नन्द का पुत्र है, इसलिए सम्भव है कि राक्षस चन्द्रगुप्त के प्रति आकृष्ट हो जायें। सुहृज्जनापेक्षया—अत्र हेतौ तृतीया । राक्षस के मित्र चन्दनदास सपरिवार कारागार में हैं और भी उनके कतिपय मित्र संकट में हैं। इसलिए चन्द्रगुप्त से उनका सन्धि कर लेना कोई आश्चर्य की बात नहीं है । सन्दधीत—सन्धिं कुर्यात् । यदि अपसारयेत् तदा सन्दधीत इति विवक्षाया हेतुहेतुमद्भावात् लिङ् । सन्धिम्—सम्√धा+कि भावे = सन्धि, तम् । विश्वसेत्—वि√श्वस्+लिङ्—यात् । अत्र सम्भावनाया लिङ् । श्वस् धातु अदादिगणीय है । इसलिए, यहाँ 'विश्वस्यात्' रूप होना चाहिए, किन्तु 'गणकार्यमनित्यम्' इस नियम के बल से, यहाँ अदादिगणीय कार्य न होकर भ्वादिगणीय कार्य हुआ। युज्यते—√युज् (दिवादि)+लट्—ते कर्तरि । शृणुमस्तावत्—भागुरायण ने मलयकेतु के मन में राक्षस के प्रति सन्देह का अंकुर उत्पन्न कर दिया है, इसलिए वह छिपकर राक्षस की बातचीत सुनना चाहता है । स्वैरालापेषु—आ√लप्+घञ् भावे=आलापा । स्वैरा आलापा कर्मधारय स०, तेषु । इस श्लोक में काव्यलिंग अलकार है और अनुष्टुप् छन्द है। इसका लक्षण १, ३ में देखिए ॥ ८ ॥
भागुरायण—यदाज्ञापयति कुमार ।
राक्षस—भद्र ! अपि तत् कार्यं सिद्धम् ?
करभक—अमच्चस्स प्पसाएण सिद्धम् । (अमात्यस्य प्रसादेन सिद्धम् ।)
मलयकेतु—सखे भागुरायण ! किं तत् कार्यम् ?
भागुरायण—कुमार ! गहन खलु सचिववृत्तान्तो नैतावता परिच्छेत्तु शक्यते । अवहितस्तावच्छृणु ।
राक्षस—विस्तरेण श्रोतुमिच्छामि ।
करभक—सुणादु अमच्चो, अत्थि दाव अह अमच्चेणाणत्तो, जहा—
चतुर्थोऽङ्कः
'करभअ ! कुसुमपुरे गच्छिअ भणिदव्वो मम वअणेण तुए वैआलिओ थणकलसो, जहा—'चाणक्कहदएण तेसु तेसुं अण्णाभङ्गेसुं अणुचिट्ठी-अमाणेसुं चन्दउत्तो समुत्तेअणसमत्थेहिं सिलोएहिं उबसिलोइदव्वो' त्ति । (शृणोत्वमात्यः, अस्ति तावदहममात्येनाज्ञप्तो यथा—'करभक ! कुसुमपुरं गत्वा मम वचनेन त्वया भणितव्यो वैतालिकः स्तनकलसः, यथा—'चाणक्यहतकेन तेषु तेषु आज्ञाभङ्गेषु अनुष्ठीयमानेषु चन्द्रगुप्तः समुत्तेजनसमर्थैः श्लोकैरुपश्लोकयितव्यः' इति ।)
राक्षसः—ततस्ततः ?
करभकः—तदो मए पाडलिउत्तं गच्छिअ सुणाविदो अमच्चस्स सन्देसं वैआलिओ थणकलसो । (ततो मया पाटलिपुत्रं गत्वा श्रावितोऽमात्यस्य सन्देशं वैतालिकः स्तनकलसः ।)
राक्षसः—ततस्ततः ?
करभकः—एत्थन्तरे णन्दकुलविणासदुम्मणस्स पोरजणस्स परिओसं सम्मुप्पाअन्तेण चन्दउत्तेण आघोसिदो कुसुमउरे कौमुदीमहोसबो । सोवि चिरआलपबत्तमाणो जणिदपरिओसो अहिमदबन्धुजणसमागमो बिअ, ससिणेहं बहुमाणिदो णअरजणेण । (अत्रान्तरे नन्दकुलविनाशदुर्मनसः पौरजनस्य परितोषं समुत्पादयता चन्द्रगुप्तेनाघोषितः कुसुमपुरे कौमुदीमहोत्सवः । सोऽपि चिरकालप्रवर्तमानो जनितपरितोषः अभिमत-बन्धुजनसमागम इव सस्नेहं बहुमानितो नगरजनेन ।)
हिन्दी अनुवाद—भागुरायण—कुमार की जो आज्ञा ।
राक्षस—भद्र ! क्या वह कार्य सिद्ध हुआ ?
करभक—अमात्य की कृपा से सिद्ध हो गया ।
मलयकेतु—मित्र भागुरायण ! वह कौन कार्य है ?
भागुरायण—कुमार ! दुर्ज्ञेय अमात्य का वृत्तान्त इतने से निश्चित नहीं किया जा सकता ।
राक्षस—विस्तार से सुनना चाहता हूँ ।
करभक—अमात्य सुनें । आपने मुझे आज्ञा दी थी कि—करभक ! कुसुमपुर
२५० मुद्राराक्षसम्
में जाकर, तुम मेरी ओर से वैतालिक स्तनकलस से कहना कि 'दुष्ट चाणक्य के द्वारा उन-उन आज्ञा-भंगों के किये जाने पर (तुम्हें) उत्तेजित करने में समर्थ श्लोकों से चन्द्रगुप्त की स्तुति करनी चाहिए'।
राक्षस— तत तत ?
करभक— तब मैंने पाटलिपुत्र में जाकर अमात्य का संदेश वैतालिक स्तनकलस को सुना दिया।
राक्षस— तत तत ?
करभक— इस बीच नन्दवंश के विनाश से खिन्न पुरवासियों को सन्तुष्ट करते हुए चन्द्रगुप्त ने कुसुमपुर में कौमुदीमहोत्सव (मनाये जाने) की घोषणा करवा दी। चिरकाल से चले आते हुए और आनन्द उत्पन्न करने वाले उस (कौमुदीमहोत्सव) का भी नागरिकों ने अभीष्ट वधु के आगमन के समान स्नेह-पूर्वक अभिनन्दन किया।
**टिप्पणी—अस्ति तावत्—**यहाँ 'अस्ति' एक अव्यय है। श्रावित —स्तनकलसं अमात्यसन्देशं श्रुतवान् = अह स्तनकलसम् अमात्यसन्देशं श्रावितवान्—मया स्तनकलस अमात्यसन्देश श्रावित । 'गतिबुद्धि—' सूत्रेणायं कर्मसंज्ञा—द्वितीया । नन्दकुलविनाशदुर्मनसः नन्दानां कुलानि नन्दकुलानि तेषां विनाश नन्दकुलविनाशः । तेन दु दुष्टं खिन्नमित्यर्थः मनो यस्य स नन्दकुलविनाशदुर्मनाः, तस्य । **चिरकालप्रवर्तमान —**प्र√वृत्+शानच् बन्तरि = प्रवर्तमान । चिरं काल । चिरकाल प्रवर्तमान द्वितीयातत्० । अत्र अत्यन्तसंयोगे द्वितीया, 'अत्यन्तसंयोगे च' इत्यनेन समासः ।
राक्षस —[ सराष्पम् ] हा देव नन्द !—
कौमुदी कुमुदानन्दे जगदानन्दहेतुना कीदृशी सति चन्द्रेऽपि नृपचन्द्र त्वया विना ॥ ९ ॥
**अन्वय —**नृपचन्द्र ! कुमुदानन्दे चन्द्रे सति अपि जगदानन्दहेतुना त्वया विना कौमुदी कीदृशी ? ॥ ९ ॥
**व्याख्या—**नृपचन्द्र !—हे चन्द्रतुल्यभूपाल !, कुमुदानन्दे—कुमुदानां कैरवाणाम् आनन्दे हर्षवर्धके, चन्द्रे—चन्द्रमसि, सति अपि—विद्यमानेऽपि,
चतुर्थोऽङ्कः २५३
मलयकेतुः—एवमेतत् ।
राक्षसः—ततस्ततः ?
करभकः—तदो चन्दउत्तेण आणाभङ्गकलुसिदहिअएण सुइरं अमच्चगुणं प्पसंसिअ प्पब्भंसिदो अहिआरादो चाणक्कहदओ । ( ततश्चन्द्रगुप्तेनाज्ञाभङ्गकलुषितहृदयेन सुचिरममात्यगुणं प्रशस्य प्रभ्रंशितोऽधिकारात् चाणक्यहतकः । )
मलयकेतुः—सखे भागुरायण ! गुणप्रशंसया दर्शितश्चन्द्रगुप्तेन राक्षसे भक्तिपक्षपातः ।
भागुरायणः—कुमार ! न तथा गुणप्रशंसया यथा चाणक्यवटोर्निराकरणेन ।
राक्षसः—भद्र ! किमयमेवैकः कौमुदीमहोत्सवप्रतिषेधश्चन्द्रगुप्तस्य चाणक्यं प्रति कोपकारणमुतान्यदप्यस्ति ?
मलयकेतुः—सखे भागुरायण ! चन्द्रगुप्तस्य अपरकोपकारणान्वेषणे किं फलमेष पश्यति ?
भागुरायणः—कुमार ! एतत् फलं पश्यति—'अतिमतिमान् चाणक्यो निष्प्रयोजनमेव किमिति चन्द्रगुप्तं कोपयिष्यति ? न च कृतवेदी चन्द्रगुप्त एतावता गौरवमुल्लङ्घयिष्यति । सर्वथा चाणक्यचन्द्रगुप्तयोः पुष्कलात् कारणाद् यो विश्लेष उत्पद्येत, स आत्यन्तिको भविष्यति' इति ।
हिन्दी अनुवाद—मलयकेतु—यह ऐसा ही है ।
राक्षस—तब क्या हुआ ?
करभक—तब आज्ञा-भंग होने के कारण अप्रसन्न चित्त वाले चन्द्रगुप्त ने बहुत देर तक आपके गुण की प्रशंसा करके चाणक्य को अधिकार से च्युत कर दिया ।
मलयकेतु—मित्र भागुरायण ! गुण की प्रशंसा के द्वारा चन्द्रगुप्त ने राक्षस के प्रति ( अपनी ) भक्ति का पक्षपात दिखलाया ।
२५४ मुद्राराक्षसम्
भागुरायण—कुमार ! गुण की प्रशंसा के द्वारा उतना नहीं जितना कि दुष्ट चाणक्य को हटाने के द्वारा ।
राक्षस—भद्र ! क्या यही एक कौमुदीमहोत्सव का रोका जाना चन्द्रगुप्त का चाणक्य के प्रति क्रोध का कारण है या और भी है ?
मलयकेतु—मित्र भागुरायण ! चन्द्रगुप्त के दूसरे क्रोध के कारण के अन्वेषण में क्या लाभ देखते हैं ?
भागुरायण—कुमार ! यह लाभ देखता हूँ—'अत्यन्त बुद्धिमान् चाणक्य बिना प्रयोजन के ही चन्द्रगुप्त को क्यों कुपित करेगा ? कृतज्ञ चन्द्रगुप्त भी इतने से ( चाणक्य की ) प्रतिष्ठा का उल्लङ्घन नहीं करेगा । सब प्रकार से परिपुष्ट कारण होने से चाणक्य और चन्द्रगुप्त में जो फूट पड़ेगा, वह आत्यन्तिक ( स्थायी ) होगा' ।
टिप्पणी—आज्ञाभङ्गकलुषितहृदयेन—कलुषं कृतम् इति कलुष + णिच् ( नामधातु ) + क्त कर्मणि = कलुषितम् । आज्ञाभङ्गेन कलुषितम् तथाविधं हृदयम् यस्य स , तेन। भक्तिपक्षपात —भक्त पक्षपातः चन्द्रगुप्तस्य भक्तिः राक्षसे पक्षपातिनी न चाणक्य इत्यर्थः । निराकरणेन—हटाने से । निर् + आ √कृ + ल्युट्—अन भाव । मतिमान्—प्रशस्ता मतिः अस्ति अस्य इति मति + मतुप् । कृतवेदी—कृतम् उपकृतम् वेत्ति इति कृत √विद् + णिनि साधुकारिणि कर्तरि = कृतवेदी = कृतज्ञः । आत्यन्तिक —प्रवृद्ध प्रतीकारायोग्य इत्यर्थः । अतिगतम् अन्तम् अत्यन्तम् । अत्यन्ते भवः इति अत्यन्त + ठञ्—इक = आत्यन्तिकः ।
करभक—अमच्च ! अत्थि अण्णदपि चन्दउत्तस्स कोवकारणं चाणक्के । ( अमात्य ! अस्त्यन्यदपि चन्द्रगुप्तस्य कोपकारणं चाणक्ये । )
राक्षस—किं किम् ?
करभक—जधा पढमं दाव उवेक्खिदो अणेण अवक्कमन्तो कुमारो मलयकेदू अमच्चरक्खसो अ । ( यथा प्रथमं तावदुपेक्षितोऽनेन अपक्रामन् कुमारो मलयकेतुः अमात्यराक्षसश्च । )
राक्षस—[ सहर्षम् ] सखे शकटदास ! हस्ततलगत्तो मे चन्द्रगुप्तो
चतुर्थोऽङ्कः २५५
भविष्यति । इदानीं चन्दनदासस्य बन्धनान्मोक्षः, तव च पुत्रदारैः सह समागमः, जीवसिद्धिप्रभृतीनां क्लेशच्छेदः ।
भागुरायणः—[ आत्मगतम् ] जातः सत्यं जीवसिद्धेः क्लेशच्छेदः ।
**मलयकेतुः—**सखे भागुरायण ! 'हस्ततलगतो मे सम्प्रति चन्द्रगुप्तो भविष्यति' इति व्याहरतः कोऽयमस्याभिप्रायः ?
**भागुरायणः—**किमन्यत् ? चाणक्यादपकृष्टस्य चन्द्रगुप्तस्योद्धरणान्न किञ्चित्कार्यमवश्यं पश्यति ।
**राक्षसः—**भद्र ! हताधिकारः साम्प्रतं क्वासौ वटुः ?
**करभकः—**तर्हि ज्जेब पाडलिपुत्ते प्पडिवसदि । ( तस्मिन्नेव पाटलिपुत्रे प्रतिवसति ।)
राक्षसः—[ सावेगम् ] भद्र ! तत्रैव प्रतिवसति, न तपोवनं गतः, प्रतिज्ञां वा न पुनः समारूढवान् ?
**करभकः—**अमच्च ! तपोवणं गमिस्सदि त्ति सुणीअदि । ( अमात्य ! तपोवनं गमिष्यतीति श्रूयते ।)
राक्षसः—[ सावेगम् ] शकटदास ! नेदमुपपद्यते । पश्य—
**हिन्दी अनुवाद—करभक—**अमात्य ! चाणक्य के प्रति चन्द्रगुप्त के क्रोध का कारण और भी है ।
**राक्षस—**क्या क्या ?
**करभक—**जैसे, पहले तो इसने भागते हुए कुमार मलयकेतु और अमात्य राक्षस की उपेक्षा की ।
राक्षस—[ हर्ष के साथ ] मित्र शकटदास ! चन्द्रगुप्त मेरे हाथ में आ जाएगा । अब चन्दनदास को बंधन से छुटकारा मिल जाएगा । तुम्हारा पुत्र और स्त्री से मिलन होगा और जीवसिद्धि आदि के दुःखों का अन्त हो जाएगा ।
भागुरायण—[ मन में ] जीवसिद्धि के दुःखों का अन्त तो सचमुच हो गया ।
२५६ | मुद्राराक्षसम्
मलयकेतु—मित्र भागुरायण ! 'अब चन्द्रगुप्त मेरे हाथ में आ जाएगा' ऐसा कहते हुए इसका क्या तात्पर्य है ?
भागुरायण—और क्या ? चाणक्य से अलग हुए चन्द्रगुप्त के उन्मूलन से किसी प्रयोजन को ( यह ) अवश्य नहीं देखता है ।
राक्षस—भद्र ! अधिकार से वंचित वह वटुक ( चाणक्य ) इस समय कहाँ है ?
करभक—उसी पाटलिपुत्र में रह रहा है ।
राक्षस—[आवेग के साथ] भद्र ! वही रह रहा है ? तपोवन नहीं गया ? या फिर प्रतिज्ञा नहीं की ?
करभक—अमात्य ! तपोवन जाएगा, ऐसा सुना जाता है ।
राक्षस—[ आवेग के साथ ] शकटदास ! यह युक्तिसंगत नहीं है । देखो—
टिप्पणी—हस्तलगत —करतलप्राप्त । हस्तस्य तलम् षष्ठीतत्० । तत्र गतं द्वितीयातत्० । अपकृष्टस्य—दूरीभूतस्य । उद्धरणात्—समुच्छेदात् । किञ्चित् कार्यम्—कामपि स्वार्थसिद्धि । न पश्यति—न उत्प्रेक्षते । हृताधिकार —हृत दूरीकृत अधिकारः नियोग यस्य स हृताधिकार बहुव्रीहि स० ।
देवस्य येन पृथिवीतलवासवस्य
स्वाग्रासनापनयजा निकृतिर्न सोढा ।
सोऽयं स्वयङ्कृतनराधिपतेर्मनस्वी
मौर्यात्कथ नु परिभूतिमिमा सहेत ? ॥ ११ ॥
अन्वय—येन पृथिवीतलवासवस्य देवस्य स्वाग्रासनापनयजा निकृति न सोढा, स अयं मनस्वी स्वयङ्कृतनराधिपते मौर्यात् इमां परिभूतिं कथं नु सहेत ? ॥११॥
व्याख्या—येन—चाणक्येन, पृथिवीतलवासवस्य—पृथिव्या तले महीपृष्ठे वासव इन्द्र इव तस्य, देवस्य—नन्दस्य, स्वाग्रासनापनयजा—स्वस्य आत्मनः यत् अग्रासनं श्रेष्ठासन तस्मात् य अपनय निष्कासन तस्मात् जाता उत्पन्ना,
चतुर्थोऽङ्कः २५७
निकृतिः अपमानः, न सोढा—न क्षान्ता, सः अयं—प्रसिद्धः, मनस्वी—मानी ( चाणक्यः ) स्वयङ्कृतनराधिपतेः—स्वयम् आत्मना कृतः सम्पादितः यः नराधिपतिः राजा तस्मात्, मौर्यात्—वृषलात्, इमाम्—एताम्, परिभूतिं—पराभवं, कथं नु—केन प्रकारेण, सहेत—मर्षयेत् ? ॥११॥
हिन्दी अनुवाद—जिसने भूतल पर इन्द्रतुल्य महाराज ( नन्द ) के ( द्वारा किये हुए ) अपने अग्रासन से निष्कासनजन्य अपमान का सहन नहीं किया, वह मनस्वी ( चाणक्य ) स्वयं के बनाये हुए राजा मौर्य से इस तिरस्कार को कैसे सहन करेगा ? ॥११॥
टिप्पणी—देवस्य निकृतिः—अत्र कृद्योगे कर्तरि षष्ठी। मनस्वी—प्रशस्तं मनः अस्ति अस्य इति मनस् + विनि मत्वर्थे। मौर्यात्—अत्र अपादाने पञ्चमी। इस श्लोक में अर्थापत्ति अलंकार अतिशयोक्ति अलंकार से संसृष्ट है। इसमें वसन्ततिलका छन्द है। इस छन्द का लक्षण १, ८ में देखिए ॥११॥
मलयकेतुः—सखे भागुरायण ! चाणक्यस्य तपोवनगमने पुनः प्रतिज्ञारोहणे वा काऽस्य स्वार्थसिद्धिः ?
भागुरायणः—कुमार ! नात्यन्तदुर्बोधोऽयमर्थः यावद्यावत् चाणक्यहतकश्चन्द्रगुप्ताद् दूरीभवति तावत्तावदस्य स्वार्थसिद्धिः ।
शकटदासः—अमात्य ! अलमत्यन्तविकल्पितेन, एतदुपपद्यत एव । कुतः ? पश्यत्वमात्यः—
राज्ञां चूडामणीन्दुद्युतिखचितशिखे मूर्ध्नि विन्यस्तपादः स्वैरेवोत्पाद्यमानं किमिति विषहते मौर्य आज्ञाविघातम् ? । कौटिल्यः कोपनोऽपि स्वयमभिचरणज्ञातदुःखः प्रतिज्ञां दैवात् पूर्णप्रतिज्ञः पुनरपि न करोत्यायतिज्यानिभीतः ॥१२॥
अन्वयः—चूडामणीन्दुद्युतिखचितशिखे राज्ञां मूर्ध्नि विन्यस्तपादः मौर्यः स्वैरेव उत्पाद्यमानम् आज्ञाविघात किमिति विषहते ? स्वयमभिचरणज्ञातदुःखः दैवात् पूर्णप्रतिज्ञः कौटिल्यः कोपनोऽपि आयतिज्यानिभीतः ( सन् ) पुनरपि प्रतिज्ञां न करोति ॥१२॥
व्याख्या—चूडामणीन्दुद्युतिखचितशिखे—चूडामणिः शिरोरत्नं तत् इन्दुः
मु० रा०—१७
३५८ | मुद्राराक्षसम्
चन्द्रः इव तस्य द्युतिभिः कान्तिभिः खचिता संश्लिष्टा शिखा केशगुच्छ यस्मिन् तथाविधे, राज्ञा—नृपाणां, मूर्ध्नि—मस्तके, विन्यस्तपाद—विन्यस्तो स्थापितो पादौ चरणौ येन तादृशः, मौर्य्य—वृषल, स्वैरेव—आत्मीयैरेव जनैरिति शेषः, उत्पाद्यमानम्—क्रियमाणम्, आज्ञाविघात—आदेशभङ्गं, किमिति—कथं, विषहते—मर्षयति ? स्वयमभिचरणज्ञातदुःख—स्वयम् आत्मना यत् अभिचरणम् अभिचार तस्मिन् ज्ञातम् अवगतम् दुःखं कष्टं येन तथाविध, दैवात्—भाग्यात्, पूर्णप्रतिज्ञ—पूर्णा सफला प्रतिज्ञा प्रतिश्रुतिः यस्य तथाविध, कौटिल्य—चाणक्य, कोपनोऽपि—क्रुद्धोऽपि, आयतिज्यानिभीत—आयतो उत्तरे काले या ज्यानि हानि निष्फलतेत्यर्थः तस्या भीत शङ्कितः (सन् ), पुनरपि—भूयोऽपि, प्रतिज्ञा—प्रतिश्रुति, न करोति—न विदधाति ॥१२॥
हिन्दी अनुवाद—मलयकेतु—मित्र भागुरायण ! चाणक्य के तपोवन में जाने या पुनः प्रतिज्ञा करने से इस (राक्षस) की क्या स्वार्थसिद्धि है ?
भागुरायण—कुमार ! यह तात्पर्य बहुत कठिन नहीं है। जैसे-जैसे दुष्ट चाणक्य चन्द्रगुप्त से दूर होता जाता है वैसे-वैसे इसकी स्वार्थसिद्धि होती है ।
शकटदास—अमात्य ! बहुत संदेह करना व्यर्थ है। यह ठीक ही है। क्योकि अमात्य देखें —
चन्द्रमा के समान चूडामणि की कान्तियों से खचित केशगुच्छ वाले राजाओं के मस्तकों पर चरणों को रखने वाला चन्द्रगुप्त अपने ही जनों से किये जाने वाले आज्ञा-भंग को कैसे सह सकता है ? अभिचार कर्म मे होने वाले दुःख को स्वयं समझने वाला तथा भाग्य से पूर्ण प्रतिज्ञा वाला चाणक्य क्रुद्ध होने पर भी भविष्यत्काल में होने वाली असफलता से सशंकित होने के कारण पुनः प्रतिज्ञा नहीं कर रहा है ॥१२॥
टिप्पणी—यावत् यावत्—वीप्सायां द्विरुक्तिः। विषहते—अत्र वर्तमानसामीप्ये लट् अतीते। 'परिनिविभ्यः'—इति षत्वम्। अभिचरण—अभिचार। तन्त्रोक्त मारण, मोहन, उच्चाटन आदि अनुष्ठान। 'हिंसाकर्माभिचारः स्यात्' इत्यमरः। दैवात्—अत्र हेतौ पञ्चमी। आयतिज्यानिभीत—आ + √ यम् + क्तिन् अधिकरणे = आयतिः = उत्तरकालः। √ ज्या + नि भावे औणादिकः = ज्यानिः। आयतौ ज्यानिः सुप्सुपा स०। तस्याः भीतः पञ्चमीतत्०। इस श्लोक
चतुर्थोऽङ्कः (२५६)
में उत्प्रेक्षा अलंकार है। और स्रग्धरा छन्द है। स्रग्धरा का लक्षण १, १ में देखिए ।।१२।।
राक्षसः—शकटदास ! एवमेतत् । तद् गच्छ, विश्रामय करभकम् ।
शकटदासः—यदाज्ञापयत्यमात्य, इति । [करभकेण सह निष्क्रान्तः ।]
राक्षसः—अहमपि कुमारं द्रष्टुमिच्छामि ।
मलयकेतुः—अहमेवार्यं द्रष्टुमागतः ।
राक्षसः—[नाट्येनावलोक्य] अये ! कुमार एवागतः । [आसनादुत्थाय] इदमासनमुपवेष्टुमर्हति कुमारः ।
मलयकेतुः—अहमुपविशामि । उपविशत्वार्यः [इत्युभौ यथासनमुपविष्टौ] आर्य ! अपि सह्या शिरोवेदना ?
राक्षसः—कुमारस्याधिराजशब्देनातिरस्कृते कुमारशब्दे कुतः शिरोवेदनायाः सह्यता ?
मलयकेतुः—स्वयमुरीकृतमेतदार्येण, न दुष्प्रापं भविष्यति । तत् कियन्तं कालमस्माभिरेवं सम्भृतबलैरपि शत्रुव्यसनमवेक्षमाणैरुदासितव्यम् ।
राक्षसः—कुमार ! कुतोऽद्यापि कालहरणस्यावकाशः ? प्रतिष्ठस्व रिपुजयाय ।
मलयकेतुः—अमात्य ! अपि किञ्चिच्छत्रुव्यसनमुपलब्धम् ।
राक्षसः—बाढमुपलब्धम् ।
मलयकेतुः—कीदृशम् ?
राक्षसः—सचिवव्यसनं, किमन्यत् ? अपकृष्टश्चाणक्याच्चन्द्रगुप्तः ।
मलयकेतुः—अमात्य ! सचिवव्यसनमेव ?
राक्षसः—कुमार ! अन्येषां भूपतीनां कदाचिदमात्यव्यसनमव्यसनमपि स्यात्, न पुनश्चन्द्रगुप्तस्य ।
हिन्दी अनुवाद—राक्षस—शकटदास ! यह ऐसा ही है। इसलिए जाओ, करभक को विश्राम कराओ।
२६० मुद्राराक्षसम्
शकटदास—अमात्य की जो आज्ञा । [ करभक के साथ बाहर चला जाता है । ]
राक्षस—मैं भी कुमार को देखना चाहता हूँ ।
मलयकेतु—मैं ही आर्य को देखने के लिए आ गया हूँ ।
राक्षस—[ अभिनय के साथ देखकर ] अरे ! कुमार ही आ गए । [ आसन से उठकर ] कुमार इस आसन पर बैठने के योग्य हैं ।
मलयकेतु—मैं बैठता हूँ । आर्य बैठें । [ यथायोग्य आसन पर दोनों बैठ जाते हैं । ] आर्य ! तो क्या सिर की वेदना सहन करने योग्य हुई ?
राक्षस—कुमार के महाराज शब्द से कुमार शब्द के तिरस्कृत न होने पर ( अर्थात् जब तक आप कुमार शब्द को हटाकर महाराज शब्द की पदवी नहीं धारण कर लेते तब तक ) सिर की वेदना सहन करने योग्य कहाँ से हो सकती है ?
मलयकेतु—आर्य ने यह स्वयं स्वीकार किया है, दुर्लभ नहीं होगा । इस-लिए किस समय तक सेना इकट्ठी करके भी हमलोग इस प्रकार शत्रु के विपत्ति-काल की प्रतीक्षा करते हुए उदासीन रहेंगे ?
राक्षस—कुमार ! अब काल-क्षेप को अवकाश कहाँ ? शत्रु-विजय के लिए प्रस्थान करो ।
मलयकेतु—अमात्य ! क्या शत्रु का संकट कुछ मालूम हुआ है ?
राक्षस—हाँ, मालूम हुआ है ।
मलयकेतु—कैसा ?
राक्षस—मन्त्री का संकट, और क्या ? चाणक्य से चन्द्रगुप्त अलग कर दिया गया ।
मलयकेतु—मन्त्री का संकट ही ?
राक्षस—कुमार ! दूसरे राजाओ के लिए कदाचित् मन्त्री का संकट संकट न भी हो, किन्तु चन्द्रगुप्त के लिए ( ऐसी बात ) नहीं है ।
टिप्पणी—सह्या—सोढुम् शक्या इति √सह् + यत् कर्मणि स्त्रियाम् ।
चतुर्थोऽङ्कः १२१
कुमारस्य ..... अधिराजशब्देन—अधिराज इत्याख्यया, कुमारशब्दे —कुमार इत्याख्यायाम्, अतिरस्कृते अन्तर्द्धानमसते यावत् कुमारसंज्ञां निरस्य अधिराजसंज्ञां नारोपयसि तावत् इत्यर्थः । अधिको राजा अधिराजः प्रादिसमासः, 'राजाऽहः सखिभ्यष्टच्' इत्यनेन टच्प्रत्ययः । सम्भृतबलैः —एकत्रितसैन्यैः । शत्रुव्यसनम्—शत्रोः व्यसनम् विपद् । उदासितव्यम्—तूष्णीं वर्तितव्यम् ।
मलयकेतुः—आर्य ! ननु विशेषतश्चन्द्रगुप्तप्रकृतीते ।
राक्षसः—किं कारणं यदस्यामात्यापराधप्रभवं व्यसनम् ?
मलयकेतुः—चन्द्रगुप्तप्रकृतीनां हि चाणक्यदोषा एव विरागहेतवः। तस्मिन्निराकृते प्रथममपि चन्द्रगुप्तानुरक्ताः प्रकृतयः इदानीं पुनः सुतरामेव तत्रानुरागं दर्शयिष्यन्ति ।
राक्षसः—कुमार ! नैतदेवं, इह द्विविधाः प्रकृतयः — चन्द्रगुप्तसहोत्थायिन्यो नन्दकुलानुरक्ताश्च । तत्र चन्द्रगुप्तसहोत्थायिनीनां प्रकृतीनां चाणक्यदोषा एव विरागहेतवः, न नन्दकुलानुरक्तानाम् । तास्तु खलु नन्दकुलमनेन पितृकुलभूतं कृत्स्नं कृतघ्नेन घातितमित्यपराधप्राधान्येन विप्रकृताः सत्यः स्वाश्रयमलभमानाश्चन्द्रगुप्तमेवानुवर्त्तन्ते । तास्त्वं पुनः प्रतिपक्षोद्धरणे सम्भावितशक्तिमभियोगात्प्रख्यातमपदानं परित्यज्य त्वामेवाश्रयिष्यन्ते इति । अत्र कुमारस्य भयमेव निदर्शनम् ।
व्याख्या—चन्द्रगुप्तप्रकृतीनां—मौर्यप्रजानां, चाणक्यदोषा एव-कौटिल्यहत्यादय एव, विरागहेतवः—अपरागकारणानि भवन्ति शेषः । तस्मिन्-कौटिल्ये, निराकृते—दूरीकृते सति, प्रथममपि—पूर्वमपि, चन्द्रगुप्तानुरक्ताः—शत्रुगुणे मौर्ये अनुरक्ताः अनुरागिण्यः, प्रकृतयः—प्रजाः, इदानीम्—अधुना, पुनः-भूयः, सुतरामेव-सर्वथैव, तत्र-चन्द्रगुप्ते, अनुरागं—स्नेहं, दर्शयिष्यन्ति-