भारतकोश
संग्रह पर लौटें

नलचम्पू / दमयन्ती-कथा (त्रिविक्रम भट्ट - विषमपदप्रकाश व्याख्या सहित सम्पूर्ण ७ उच्छ्वास)

Nala Champu (Damayanti Katha) of Trivikrama Bhatta with Commentary

त्रिविक्रम भट्ट द्वारा

DevanagariHindipublished258 पृष्ठ

द्वितीय उच्छ्वासः। ५१ किं वापीवरेणानेन न कृतम् ॥ क ॥ तदेष यावन्मध्यं बहुधापाञ्जरन्नावगाहते तावन्मे कुतः संतोषः । न च नदीक्षितेद्विजन्मनि निगृहीतेऽपि गरीयः पातकमस्ति ॥ ख ॥ अयि मुग्धे कलहंसिके, त्वं पुनः मानसंगतापि विमाननां सहसे, विपरीत: खल्वेषः । यतः सद्वंशकान्तारागविमुखो मधुपश्रेणिश्रयणी- यां सुराजीविनीं कान्तां कामयते । तदलमेन । गच्छ वत्से, यथा- प्रियम' इत्यभिहितवति वसुंधरेश्वरे ॥ ग ॥ सापि सपरिहासं हंसी 'हंहो विहंगभुजंग, मृणालिकां तामरसा- किमिति ॥ अथवानेन पीवरेण स्थूलेन किं न कृतम् । सर्वं कृतमेव तदित्युप- संहारे ॥ वास्तव तु वाप्यां वरेण प्रधानेनानेन ॥ क ॥ तदिति ॥ तस्मादेषोऽपराधी, पञ्जरस्येदं पाञ्जरं मध्यं यावन्नावगाहते । मे मम । तावत्कुतः संतोषः । अथायं द्विजन्मत्वादनिग्राह्य इत्यत आह—न चेति ॥ द्वाभ्यां सकाशाजन्म यस्य स द्विजन्मा न द्विजन्मा तथोक्ते . अर्थात्ति्रजाते निगृहीतेऽपि गरीयोऽत्यर्थं पातकं नच नैवास्ति । तस्मिन्कीदृशे । नदीक्षिते दीक्षा शैवादिमतपरिग्रहः संजातोऽस्येति । एतेन दीक्षितो लिङ्गी त्रिजातोऽप्यवध्य एव । अथवा अपिः समुच्चयार्थो भिन्नक्रमो द्विजन्मनीत्यनेन संयोज्यः । तथथा दीक्षिते व्रतिनि द्विजन्मनि ब्राह्मणे निगृहीते नच न पातकम् । पातकमेवेत्यर्थः । वास्तव तु तस्मादेष लत्पतिः । अपां जलानां मध्यं जरन्त्यावद्वार्धकावधि नावगाहते तावन्मे कुतः संतोषः । नयां क्षित उषिते द्विजन्मनि विहंगे नितरां गृहीते स्नेहात्स्वीकृते गरीयो- ऽत्यर्थं न च पातकमस्ति । श्रेय एवास्तीत्यर्थः । गरीय इति क्रियाविशेषणम् । अपिर्विरोधोद्भावने गृहीतशब्दस्य दण्डितार्थत्वात् ॥ ख ॥ अयीति ॥ मानेन संगता । विमानना अवगणना । पक्षे मानसं सरः । विषु पक्षिषु मानना पूजा । विपरीतो विरुद्धवृत्तः । पक्षे विभिः पक्षिभिः परिवृतः। कादम्ब- ककदम्बकेश्वरत्वात् । सदन्ययकान्तानुरागपराङ्मुखे । मद्यपश्रेणिसेव्याम् । सुरया जीवति या ताम् । इच्छति । पक्षे शोभना वंशा मस्करा येषु तेषु कान्तारेषु नगेभ्यो विमुखो भृङ्गपङ्किश्रितां सुष्ठु शोभनां राजीविनीं नलिनीम् । प्रियस्थानतिक्रमेण यथा- प्रियम् । प्रियो भर्ता इष्टप्रदेशश्च । इत्युक्तवति नृपे ॥ ग ॥ सापीति ॥ हंस्यपि हंसमवादीत् । हंहो इति प्रश्नपूर्वामन्त्रणे । विहंगविला- सिन् । तां राजनिवेदिताम् । मृणालिकानां पालननायिकाम् । अरसां निःस्ने- हाम् । तरसा बलेन । अनुरागेण खासक्त्या रञ्जितचित्त इच्छसि । नुः किमर्थे । न चायं विलासिधर्मः । वस्तुतस्तु मृणालिकां पद्मिनीम् । तामरसान्ते अम्भोने रसो निर्यासस्तत्रानुरागो यस्येति संबोधनम् । अन्तशब्दः स्वरूपार्थः । अथवा तामरस- १. 'अयि तु कलहंसिके', २ 'सुराजीविनीं कामयते' ३ 'नृपेश्वरे'

५० नलचम्पूः । 'अनेकधा यः किल पक्षपातं सदा सदम्भोजगतः करोति । स हंसिकेदारविहारशीलो न बध्यते किं बहुनाशकुन्तः' ॥ २० ॥ किं चान्यदपि श्रूयतां बन्धस्य कारणम् ॥ क ॥ अस्ति मत्परिग्रहे मृणालिकानामवननायिका, सापरागस्थगितमु- खकमलापि बलादनेन विनाशिता, विनिपत्योपरि जर्जरिता नखैः खण्डितमधरदलम्, दलितमलिकालकमण्डनम्, अपनीतः सुकुमार- भावः ॥ ख ॥ अनेकेति ॥ हे हंसिके, यः सदा जगतोऽपि सर्वस्यापि सदम्भो दाम्भिकः । तथानेकधोक्तोऽपि प्रणतिप्रत्युपकारादिना पक्षपातं ममत्वं करोति । तथा दार- क्रीडारतोऽब्रह्मचारी । तथा बहून्नाशयत्येवंविधः कुन्तः प्रासो यस्येति हिंसापा- परतः । स कथं न बध्यते । संसारकारायामिति शेषः । इति हंसीवचनप्रतिव- चनौचित्येन समपक्षे व्याख्या ॥ अथवा यो दाम्भिकः सदा जगतोऽपि पक्षस्य मित्रवर्गस्य पातं नाशं करोति । तथा जगतोऽपि दारेषु क्रीडापरः । तथा बहु- घातिकुन्तास्त्रः । स महापराधी बध्यत एव । नर्मणैव हंसीवचसोऽन्यथालम् । तत्त्वतस्तु प्रामाण्यम् । तद्यथा । हे हंसि । किं बहुना किं बहूक्त्या । सदम्भोजं सत्पद्मं, गतः प्राप्तः, सन्यः पक्षतिपातं करोति केदारविहारं च शीलयति स शकुन्तः पक्षी न बध्यते । किं तर्हि मुच्यत एव । तस्माद्युक्तमुक्तं लयेति वास्त- वोऽर्थः । एवमुत्तरत्रापि ॥ २० ॥ अपरपरिभोगप्रतिपादनेर्ष्ययोत्कृष्टदोषदर्शनेन च हंसं प्रति हंसीं कलहयन्नाह— किंचेति ॥ चकारः पराभिप्रायाक्षेपपूर्वके विशेषे । एवं नामासौ दुरात्मा निःशङ्को निर्मर्यादश्च ॥ क ॥ अस्तीति ॥ येन । आसतां लोकदाराः । मम राज्ञोऽपि परिग्रहे स्थितायां नायिकायां प्रवृत्तम् । मृणालिकानां पद्मिनीनामवने रक्षणे, नायिका स्वामिनी, सा ततोऽपरागाद्रागाभावात्, संवृतवक्त्रकमलापि बलात्कारादनेन लङ्घर्त्री विनाशिता । विनाशोऽत्र शीलखण्डनम्। तदाह—विनिपत्येति । अधर ओष्ठः, अलिकं ललाटं तस्य, तथा अलकानां केशानां च मण्डनम् । लुप्तम् । उदस्तः सुकुमारभावः । अर्थात्क- न्यात्वम् ॥ वास्तवे तु । मृणालिका पद्मिनी । नामेति संबोधने । वनस्य नायिकेव । परागो मकरन्दस्तेन छन्नमुखानि कमलानि यस्याम् । बलादपि अनेन विना पक्षिणा सा अशिता भक्षिता । अशेर्भोजनार्थात्कर्मणि क्तः । अधरदलमधःपत्रम् । अलय एव कालं कृष्णं कस्य शिरस उपरिभागस्य मण्डनम् । अपनीतो मृदुभावः । नखैर्जर्जरितत्वात् ॥ ख ॥

[Page Header] द्वितीय उच्छ्वासः । ५१


किं वापीवरेणानेन न कृतम् ॥ क ॥ तदेष यावन्मध्यं बहुधापाञ्जरन्नावगाहते तावन्मे कुतः संतोषः । नच नदीक्षितेद्विजन्मनि निगृहीतेऽपि गरीयः पातकमस्ति ॥ ख ॥ अयि मुग्धे कलहंसिके, त्वं पुनः मानसंगतापि विमाननां सहसे, विपरीतः खल्वेषः । यतः सद्वंशकान्तारागविमुखो मधुपश्रेणिश्रयणी- यां सुराजीविनीं कान्तां कामयते । तदलमेन । गच्छ वत्से, यथा- प्रियम' इत्यभिहितवति वसुंधरेश्वरे ॥ ग ॥ सापि सपरिहासं हंसी 'हंहो विहंगभुजंग, मृणालिकां तामरसा-


किमिति ॥ अथवानेन पीवरेण स्थूलेन किं न कृतम् । सर्वं कृतमेव तदित्युप- संहारे ॥ वास्तव तु वाप्यां वरेण प्रधानेनानेन ॥ क ॥ तदिति ॥ तस्मादेषोऽपराधी, पञ्जरस्येदं पाञ्जरं मध्यं यावन्नावगाहते । मे मम । तावत्कुतः संतोषः । अथायं द्विजन्मलादनिग्राह्य इत्यत आह—न चेति ॥ द्वाभ्यां सकाशाजन्म यस्य स द्विजन्मा न द्विजन्मा तथोक्ते, अर्थात्तिजाते निगृहीतेऽपि गरीयोऽत्यर्थं पातकं नच नैवास्ति । तस्मिन्कीदृशे । नदीक्षिते दीक्षा शैवादिमतपरिग्रहः संजातोऽस्येति । एतेन दीक्षितो लिङ्गी त्रिजातोऽप्यवध्य एव । अथवा अपिः समुच्चयार्थो भिन्नक्रमो द्विजन्मनीत्यनेन संयोज्यः । तथथा दीक्षिते व्रतिनि द्विजन्मनि ब्राह्मणे निगृहीते नच न पातकम् । पातकमेवेत्यर्थः । वास्तव तु तस्मादेष लत्पतिः । अपां जलानां मध्यं जरन्यावद्वार्धकावधि नावगाहते तावन्मे कुतः संतोषः । नयां क्षित उषिते द्विजन्मनि विहंगे नितरां गृहीते स्नेहात्स्वीकृते गरीयो- ऽत्यर्थं न च पातकमस्ति । श्रेय एवास्तीत्यर्थः । गरीय इति क्रियाविशेषणम् । अपिर्विरोधोद्भावने गृहीतशब्दस्य दण्डितार्थत्वात् ॥ ख ॥ अयीति ॥ मानेन संगता । विमानना अवगणना । पक्षे मानसं सरः । विषु पक्षिषु मानना पूजा । विपरीतो विरुद्धवृत्तः । पक्षे विभिः पक्षिभिः परिवृतः । कादम्ब- ककदम्बकेश्वरत्वात् । सदन्ययकान्तानुरागपराङ्मुखे । मद्यपश्रेणिसेव्याम् । सुरया जीवति या ताम् । इच्छति । पक्षे शोभना वंशा मस्करा येषु तेषु कान्तारेषु नगेभ्यो विमुखो भृङ्गपङ्किश्रितां सुष्ठु शोभनां राजीविनीं नलिनीम् । प्रियस्थानतिक्रमेण यथा- प्रियम् । प्रियो भर्ता इष्टप्रदेशश्च । इत्युक्तवति नृपे ॥ ग ॥ सापीति ॥ हंस्यपि हंसमवादीत् । हंहो इति प्रश्नपूर्वामन्त्रणे । विहंगविला- सिन् । तां राजनिवेदिताम् । मृणालिकानां पालननायिकाम् । अरसां निःस्ने- हाम् । तरसा बलेन । अनुरागेण खासक्त्या रञ्जितचित्त इच्छसि । नुः किमर्थे । न चायं विलासिधर्मः । वस्तुतस्तु मृणालिकां पद्मिनीम् । तामरसान्ते अम्भोने रसो निर्यासस्तत्रानुरागो यस्येति संबोधनम् । अन्तशब्दः स्वरूपार्थः । अथवा तामरस-


१ 'अपि तु कलहंसिके' २ 'सुराजीविनीं कामयते' ३ 'नृपेश्वरे'

५२ नलचम्पूः । न्तरसानुरागरञ्जितमनाः कामयसे किं वापीनदेहे नीरसेवके त्वयि न संभाव्यते' इत्याकलितकलहं कलहंसमवादीत् ॥ क ॥ सोऽपि 'वैदग्ध्यधुरंधर, धूर्तालापपण्डित, प्रज्ञाप्राग्भारगुरो, चातु- र्याचार्य, मा मे प्रियां प्रकोपय । सदृशा एव यूयं वयं च राजहंसाः । सरसां श्रियमनुभवामः । नदीनां पात्रेष्वेवस्थितिं कुर्मः । न चरणच- र्यायां न श्लाघ्यामहे । तत्सपक्षेषु विपक्षो माभूः ॥ ख ॥ एषा मे हृदयं जीव उच्छ्वासः प्राण एव च । संसारसुखसर्वस्वं प्राणिनां हि प्रियो जनः ॥ २१ ॥ रूपसंपन्नमग्राम्यं प्रेमप्रायं प्रियंवदम् । कुलीनमनुकूलं च कलत्रं कुत्र लभ्यते ॥ २२ ॥ तदलमलीककलहारम्भेण भवानप्येवं प्रेमप्रपञ्चनाटकनायको ना- तिचिरादेव यथा भवति तथा कमप्युपकारं करिष्यामि' इति राजान- मवादीत् ॥ ग ॥ अत्रान्तरेऽन्तरिक्षमण्डलादतिस्पष्टवर्णव्यक्तिर्मनोहारिणी वागश्रूय- त ॥ घ ॥ स्यान्तरे मध्ये सानुरागेति संबोधनम् । अथवा पीने स्थूलाङ्गे । नीरसे निःस्नेहे । निर्वीर्ये वा । बकप्राये त्वयि किं न संभाव्यते । अन्यत्र । त्वयि किंभूते वाप्यश्च नदाश्च तेष्वीहा यस्य । तथा नीरं जलं सेवते यः । किं न संभाव्यत इति । संभावना प्रशंसा- विषया । एकमेव हि वाक्यं प्रकरणादौचित्याच्च प्रशंसां निन्दां च प्रतिपादयति । यथा 'त्वमस्माकं किं किं न करिष्यसि' इति प्रसन्नेनोक्तं प्रशंसां गमयति, रुष्टेन च निन्दाम् ॥ क ॥ सोऽपीति ॥ राजहंसा राजमुख्या यूयं सरसां जनानुरागकरीं लक्ष्मीमनुभ- वथ । तथा पात्रेषु धर्मपात्रादिषु दीनां स्थितिं व्यवस्थां न कुरुथ ॥ तथा रणविधौ न न श्लाघ्यध्वे । चः समुच्चये । वयं पक्षे सरसां तडागानाम् । नदीनां सरितां कूल- मध्येषु । चरणं चर्या गतिविशेषः ॥ तत्तस्मादुक्तप्रकारेण समानपक्षेषु पक्षतिसहि- तेषु च । विरुद्धपक्षो माभूः ॥ ख ॥ एषेति ॥ एषैव मे हृदयं मनः । अभिन्नभावात् । जीवो जीवितम् । तत्सद्भावे जीवनात् । उच्छ्वासः श्वासरोधकचिन्तादिदुःखभरापगमहेतुत्वात् । प्राणः प्रधान- भूतो वायुः । देहाधारत्वात् । प्राणो बलमपि । जीवितात्यों बलाथों नतु वाय्वर्थः । यत्प्रशस्तपादः—'प्राणोऽन्तःशरीरे रसमलधातूनां प्रेरणादिहेतुः' इति ॥ २१ ॥ रूपेति ॥ प्रेम्णा तुल्यं प्रेमप्रायम् । सस्नेहमित्यर्थः ॥ २२ ॥ १ 'पात्रेस्थितिम्'; 'पात्रेषु स्थितिम्'. २ 'श्लाघामहे'. ३ 'प्रियाजनः'. ४ 'अपि च'. ५ 'प्रियंवद'. ६ 'तवाप्येवं विधेप्रेम'. ७ 'मनोहरा'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

द्वितीय उच्छ्वासः । ५३ 'राजन्राजीवपत्राक्ष क्षिप्रं हंसो विमुच्यताम् । भविष्यत्येष ते दूतो दमयन्त्याः प्रलोभने' ॥ २३ ॥ राजा तुं तस्याः सोष्मवलातैलपूरेणेवाङ्गममुत्पुलकयता, कर्णान्तरम- वतीर्णेन, दमयन्तीति नाम्ना कोमलतैत्तिरिपिच्छस्पर्शसुखमिवानुभव- न्मनाङ्किमीलिताक्षश्चिन्तयांचकार ॥ क ॥ 'आह्लादयन्ति सौख्याम्भः शातकुम्भीयकुम्भिकाः । काञ्चीकलापसँश्रीकाः श्रोणीबिम्बाः श्रुता अपि ॥ २४ ॥ तँत्केयं दमयन्ती, कश्चायमाश्चर्यभूतो विहंगः, का चेयं नभोभार- ती, सर्वमेतद्विस्तरेण वेदितव्यम्' इत्यवधारयन्नेकस्यामुत्फुल्लपल्लवितल- तामण्डपच्छायायामुन्निद्रकुसुममकरन्दशीकरासारशिशिरे शिलातले निषद्य तं हंसमवादीत् ॥ ख ॥ 'भद्र, साप्तपदीनं सख्यम्, उँत्पन्नकतिपयप्रियालापा प्रीतिः, प्रयो- जननिरपेक्षं दाक्षिण्यम्, अकारणप्रगुणं वात्सल्यम्, अनिमित्तसुन्दरो मैत्रीभावः सतां लक्षणम् ॥ ग ॥ अँस्ति च तत्सर्वं भवन्मूर्तावती निःशङ्कमभिधीयसे । कथय केयं दमयन्ती, कस्य सुँता, कीदृग्रूपम्, कुत्र सा वसति, कँश्च भवानस्माक- मुपकर्तुमिच्छति, का चेयं दिँव्यवाणी' इत्येवमुक्तः सँ कथयितुमा- रेभे ॥ घ ॥ 'शृङ्गाररसशृङ्गार तस्याः सौन्दर्यवीरुधः । कर्णमारोप्यतां देव वार्ताविस्मयपल्लवः ॥ २५ ॥ राजा त्विति ॥ बला गन्धद्रव्यविशेषस्तस्य तैलम् ॥ क ॥ आह्लादेति ॥ सौख्यजलसौवर्णकलश्यः । आसतां दृष्टाः स्पृष्टा वा । श्रुता अप्याह्लादयन्ति । यतः सौख्यस्य सर्वात्मना आधारभूताः ॥ २४ ॥ भद्रेति ॥ सप्त पदानि गम्यन्त उच्यन्ते वा यत्र सख्ये तत्साप्तपदीनम् । मैत्र्याः प्रीतेर्भावोऽभिप्रायः ॥ ग ॥ शृङ्गारेति ॥ रसेन सिच्यमाना वीरुद्धर्धते । शृङ्गारोऽपि कर्णकण्ठे निहितेन पल्लवेन शोभत इत्युभयसमागमौचित्यात् । सौन्दर्येण वीरुदिव सौकुमार्यात् । वार्तया विस्मयो वार्ताविस्मयः स एव पल्लवः ॥ २५ ॥ १ 'तु तेन तस्याः'. २ 'तित्तिर'. ३ 'सश्रीक'. ४ 'तत्का नाम सा दमयन्ती'. ५ 'उपपन्नकतिपय'. ६ 'अस्ति तत्सर्वम्'. ७ 'तनया'. ८ 'कश्चभवान्कस्मादस्माकम्'. ९ 'दिव्या वाणी'. १० 'सोऽथ कथयितुम्'.

५४ नलचम्पूः । अस्ति विस्तीर्णमेदिनीमण्डलमण्डनायमानो नगनगरपुरविहारारा- मरमणीयः सीतासहायसंचरितरघुपतिपादपद्मपवित्रारण्यः पुण्यतर- तरङ्गगङ्गागोदावरीवारिवारितदुरितदावानलप्रसरः मन्दर इव बलि- राजजनितपरिवर्तनः, कैलास इव महेश्वरलोककृतवसतिः, मेरुरिव सुवर्णप्रकृतिकमनीयो, यदुवंश इव दृष्टशूरपुरुषावतारः, सोमान्वय इव बुधप्रधानः वेदपाठ इवानेकैः सवनैरुपेतः पर्वते पर्वते स्थाणुभिः, पुरे पुरे पुराणपुरुषैः, जले जले कमलोद्भवैः पदे पदे देवकुलैः वने वने वरुणैः, स्थाने स्थाने नन्दनोद्यानैः, अर्गलः स्वर्गस्य, तापीप्रायो- ऽप्यनुतापी जनस्य, विन्ध्याद्रिसुद्रितायां दिशि देशानामुत्तरोऽपि दक्षिणो देशः ॥ क ॥ यत्र । शास्त्रे शस्त्रे च वेदे वैद्ये च भरते भारते च कल्पे शिल्पे च प्रधानो, धनी, धन्यो, धान्यवान्, विदग्धो वाचि, मुग्धो मुखे, स्निग्धो मनसि, वसति निरन्तरमशोको लोकः ॥ ख ॥ यंत्र क्रुद्धधूर्जटिललाटलोचनानलज्वालाकवलनाकुलः, त्रासादपा- ङ्गालोकनमात्रनिर्जितपरमेश्वरमनसां विलासिनीनामुच्चकुचकुम्भयोः अस्तीति ॥ देशानामुत्तरो मुख्यो दक्षिणदेशोऽस्ति । अपिर्विरोधे । उत्तर- शब्दस्य दिग्देशार्थत्वात् । बलिना बलवता, राज्ञा भीमक्षणेन जनितं परि समन्ताद्वर्तनं परिपालनं यस्य । पक्षे बलिराजो दैत्यः । परिवर्तनं भ्रमणम् । महानीश्वरोऽतिसमृद्धः शिवश्च । सुष्ठु वर्णा द्विजातयः । प्रकृतयोऽमात्याद्याः । पक्षे सुवर्णप्रकृत्या स्वर्णस्वभावेन काम्यः । शूरो विक्रमी वसुदेवपिता च । बुधो विद्वान्ग्रहविशेषश्च । स इति भिन्नम् । वनैः काननैः । पक्षे सवनैर्य- जैर्युक्तः ॥ स्थाणुः कीलः स्थिरपदार्थश्च । पुराणपुरुषो वृद्धो विष्णुश्च । कमलोद्भवैः कमलोत्पत्तिभिर्ब्रह्मभिश्च । कुलं गृहं वृन्दं च । वरुणो वृक्षो जलं वा । पक्षे प्रचेताः सूर्यो वा । नन्दन इति क्रियावचन इन्द्रवनसंज्ञा च । तैस्तै- र्बहुलविशिष्टैर्देवोऽर्गलोऽधिकः । स्वर्गे ह्येकैक एव स्थाणुप्रभृतिः । अस्मिंस्तु बहव इत्यर्थः । तापी नदी प्रायेण यत्र । विरोधे तु तापयत्यवश्यमिति तापी ॥ क ॥ यत्रेति ॥ कल्पे शिल्पे चेति । कल्पो यज्ञकर्मणामुपदेशकः । प्रधान इति । प्रकृष्टं धानं धारणं यस्य । शस्त्रास्त्रादीनि प्रकर्षेण धारयतीत्यर्थः । एवं सर्वत्र वाच्यलिङ्गता । मुख्यार्थस्य हि प्रधानशब्दस्याविष्टनपुंसकलिङ्गत्वम् ॥ ख ॥ यत्रेति ॥ देशे विलासिनीनां कुचादिष्ववयवेषु खोपकरणानि शृङ्गारादीनि स्थापयित्वा त्रासान्निलीनो मन्मथः । यतः । किंविशिष्टानां तासाम् । निर्जितं परमे- १ 'पवित्रारामः'. २ 'पुरुषैः'. ३ 'अनुतापी'. ४ 'यत्र च'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

द्वितीय उच्छ्वासः। ५५ शृङ्गारसर्वस्वम्, अधरपल्लवेषु मधु, भ्रूभङ्गेषु धनुः, कटाक्षेषु पुष्पबा- णान्निधाय निलीनोऽङ्गेषु जघनस्थलस्थापितरतिर्मकरकेतनः ॥ क ॥ यासां तारुण्यमेव सर्वाङ्गेषु शोभार्थमाभरणम्, उत्तुङ्गस्तनमण्डल- लावण्यमेव मुखकमलावलोकनाय दर्पणः, तारतरनयनकान्तिरेव मुखमण्डलमण्डनाय चन्दनललाटिका, भ्रूभङ्गा एव विभ्रमाय मृग- मदपत्रभङ्गाः, कटाक्षा एव युवजनजयाय परमास्त्राणि, बन्धूककुसु- म्रकान्तिदन्तच्छद एव लोकलोचनमनोमोहनाय माहेन्द्रमणिः, मुख- कमलपरिमलागतमधुकरमधुरझंकार एव विनोदाय वीणाध्वनिः॥ख॥ किं बहुना। ता एव निर्वृतिस्थानमहं मन्ये मृगेक्षणाः। मुक्तानामास्पदं येन तासामेव स्तनान्तरम् ॥ २६ ॥ मन्ये च। ताभिरेव विविधनिधुवननिधानकुम्भीभिः कुम्भोद्भवोऽपि भगवान्प्रलोभितो भविष्यति, येनाद्यापि न मुञ्चति दक्षिणां दिंश- मेव ॥ क ॥ अथवा। देशो भवेत्कस्य न वल्लभोऽसौ स्त्रीसंकुलः सुस्थितकामकोटिः। दग्धैककामं त्रिदिवं विहाय यस्मिन्कुमारोऽपि रतिं चकार ॥ २७ ॥ तस्यान्तर्भूतवैदर्भमण्डलस्यालंकारभूतमैनाकुलममरपति पुरप्रति- स्पर्धि परितःपरिखाप्रान्तरूढप्रौढहृद्योद्यानमालावलयितमदभ्रशुभ्राभ्रं- श्चराणां धनिनां मनो याभिः ॥ अथ च परमेश्वरो धूर्जटिः। सोऽपि ताभिर्निर्जित इत्युक्तिलेशः। एतेन शरणागतत्राणवैभवम् ॥ क ॥- यासामिति ॥ माहेन्द्रमिन्द्रजालम् । तत्रबलेनाविद्यमानवस्तुप्रकाशनमिति यावत् । तदर्थो मणिर्माहेन्द्रमणिः ॥ ख ॥ ता एवेति ॥ निर्वृतिर्मुक्तिः शर्म च। मुक्ता मुक्तात्मानो मौक्तिकानि च ॥ २६ ॥ देश इति ॥ कामकोटिर्देवी कंदर्पकोटयश्च । कुमारः कार्तिकेयो डिम्भश्च । रतिरास्थार्थैः । सुरतार्थेन च विरोधोद्भावना ॥ २७ ॥ तस्येति ॥ तस्य दक्षिणदेशस्यान्तर्भूतं वैदर्भं मण्डलं तदलंकारभूतम् । एवं विशेषणोपेतम् । निरुपद्रवम् । तुङ्गतरेषु रञ्जन्ति तरुणानि नवान्यर्जुनानि धवलानि १ 'पल्लवे'. २ 'दिशम्'. ३ 'अनाकृत'. ४ 'पुरप्रतिस्पर्धि'. ५ 'प्रान्तमारूढ'- ६ 'शारदाभ्र'.

५६ नलचम्पूः । लिहप्रासादशिखरशिखाभोगभ्रमरविरथतुरंगवेगम् एकत्रामिहोत्रमन्त्रप- वित्राहुतिहतसमस्तदिव्यान्तरिक्षभौमोत्पातसंघातैः, कृतमन्युभिरपि मन्युशून्यैः, उक्तसूक्तैरपि निरुक्तपरैः, सन्मार्गस्थैरपि गृहस्थैः, सकलत्रै- रपि ब्रह्मचारिभिः, अभ्यस्ततिथिभिरप्यतिथिकुशलैः, सामप्रयोगप्रधानै- रपि दण्डावलम्बिभिः, शतपथानुसारिभिरप्येकमागैँः ब्राह्मणैरध्यासि- तम्। एकत्र कुरुभिरिव द्रोणपुरःसरैः, प्रासादैरिव तुलाधारिभिः, नैया- यिकैरिवानुमेयानुमाननिपुणैः, वैशेषिकैरिव द्रव्यानुगुणकर्मविशेषप- ण्डितैः, वैयाकरणैरिव रूपसिद्धिप्रधानैः, रुद्रैरिवानकग्रन्थिवद्धकपर्दकैः, विपणिवणिग्जनैरधिष्ठितम् । एकत्र विटकौलदम्बदीक्षाभिरिव कुचरू- पलोभितलोकाभिः, कुकविकान्यपद्धतिभिरिव भग्नयतिगणवृत्ताभिः, निशाचरीभिरिव रजनीरागिणीभिः, सर्वतोमुखजघनचपलाभिरप्यना- र्याभिः, कर्णाटचेटीभिर्भरितम् । एकत्र बालकमिव कुलालाकी- यानि राजीवबानि तद्राजमाना ये राजहंसास्तैर्विराजितं वारि यस्यातस्या वरदा- यास्तीरे कुण्डिनं पुरं वर्तत इति शेषः । एकत्र ब्राह्मणैरध्यासितम् । कीदृग्भिः । आहुतिहतोपद्रवसंघैः । तथा कृतऋतुभिः । तथा कोपशून्यैः । निरुक्तं ग्रन्थविशेषो वचनाभावश्च । सन्मार्गः सदाचारः श्रेष्ठाध्वा च । सकलं सर्वं त्रायन्त इति सकलत्राः । ब्रह्म वेदं चरन्ति जानन्त्यवश्यम् । 'ब्रह्मचारिभिरपि सकलत्रैः' इति पाठे ब्रह्मचारिभिर्निषिद्धकामैः अतिथीनागन्तून्, कुशांश्च लान्ति स्वीकुर्वन्ति । साम वेदः सान्त्वं च । दण्ड आषाढो दमनं च । शतपथो यजुर्वेदभागः शत- संख्यः पन्थाश्च । एकमार्गैर्ऋजुभिः । सर्वत्रापिविरोधार्थे । स तु प्रतीयमानव्या- ख्यया । पुनरप्येकत्र । वणिग्भिरधिष्ठितम् । द्रोणो मानं कौरवगुरुश्च । सूत्रादिमानं गृहादीनां तिर्यग्धारणस्तम्भश्च तुला । अनुमेयं कणादि तस्या- नुमानमुद्देशज्ञानम् । पक्षे अनुमीयते तदनुमेयम् । अनुमीयतेऽनेन तदनु- मानम् । यथाऽयं वह्निमान्धूमवत्त्वादित्यत्र धूमोऽनुमानम् । वह्निरनुमेयः । द्रव्यस्य रूप्यकादेरनुगुणः संकलना तत्कर्मविशेषविज्ञाः । पक्षे द्रव्यानुगता गुणकर्मविशेषाः पदार्थाः । रूपं टङ्करूपकादिनाणकं शब्दश्च । कपर्दो वराटो जटाबन्धश्च । एकत्र । कर्णाटदासीभिर्भरितम् । कुचयो रूपेण लोभित- लोकाः । शाक्तदम्बदीक्षासु कुत्सितेन चरणा मांसादिनोपलोभितलोकाः । भग्न- मुनिवृन्दशीलाभिः । पक्षे भग्नयतिगणानि वृत्तानि यासु । यतिर्विरतिः । गणा मगणादयोऽष्टौ । वृत्तं पद्यम् ॥ रजनी हरिद्रा निशा च । रागो वर्णन्तरारोपण- मासक्तिश्च । कर्णाटे हि हरिद्रैवाङ्गरागः । मुखे जघने च चपलाः । आर्या साध्वी मात्रावृत्तमेदश्च । ततो नञ्योगः । अपिर्विरोधे । मुखजघनचपलाशब्द- स्यार्याख्याद्वयवाचित्वात् । एकत्र । कुलालैः कुम्भकारैः कुत्सितलालया चाकी- १ 'द्रव्यगुणकर्मसामान्यसमवायविशेषपण्डितैः'.

द्वितीय उच्छ्वासः । ५७ र्णम् । एकत्र वृद्धमिव कुजराजितम् । एकत्र चित्रविद्ययेव प्रव- र्धमानसकलशिशुशोभितया विन्यस्तस्वस्तिकया सर्वतोभद्रभूषणया भवनमालयालंकृतम् । एकत्र नाटकैरिव पताकाङ्कसंधिसंगतैः, दुष्टकिरातैरिव दृष्टकूटकर्मभिः, शस्त्रैरिव सुधारैः, विचित्रैरपि संचित्रैः, सं तुलैरप्यतुलैर्देवकुलैः संकुलम् । विशालमपि शाला- संपन्नम्, चतुश्चरणसंयुक्तमपि चरणरहितम्, विट्संभृतमपि शुचि- मार्गम्, सर्वत्र चत्वराधिकमपि स्थिरप्रकृति, मज्जन्महाराष्ट्रकुटुम्बिनी- मुखमण्डलविधीयमानोत्फुल्लकैमलशोभायास्तुङ्गतुङ्गरङ्गत्वरङ्गाङ्कतरुणार्जुनरा- जीवराजमानराजहंसविराजितवारेर्वरदायास्तीरे रमणीयकरसकुण्डं कुण्डिनं नाम नगरम् ॥ क ॥ यस्य नातिदूरे दर्शनदूरीकृतदुरितोपप्लवाप्लवनजनितपातकभङ्गां ग- ङ्गामुपहसन्ती स्वर्गमार्गाश्रयणनिश्रेणी पुण्यपयाः पयोष्णी वहति ॥ख॥ र्णम् । कुजैस्तरुभी राजितम् । पक्षे कुत्सितजरया जितम् । एकत्र । गृहश्रेण्या भूषितम् । प्रवर्धमानैः । सकलैः कलावद्भिः । शिशुभिर्डिम्भैः शोभितया । तथा विन्यस्ताः स्वस्तिका मौक्तिकादिक्षोदरचिताश्चतुष्का यस्याम् । सर्वत इति भिन्नम् । भद्राणि वास्तुशास्त्रख्यातानि भूषणं यस्याम् । यदिवा स्वस्तिकवर्धमानौ गृहावयवविशेषौ । पक्षे शिशुः सकलः स्वस्तिको वर्धमानः सर्वतोभद्र इत्याख्यानि पञ्च पत्राणि । एकत्र देवकुलैः संकुलम् । पताका ध्वजवासः सैवाङ्गो येषाम् । तथा संधिषु संगतानि । अविभाव्यसंधीनीत्यर्थः । नाटकेषु तु मुख्यनायकोपरि उपनायकचरितं पताका । अङ्कः प्रबन्धविभागः । मुख-प्रतिमुख-गर्भ-अवमर्श- निर्वहणाख्याः पञ्च संघयः । कूटं शिखरं कपटं च । सुधां लेपविशेषमियूति प्राप्नुवन्ति । पक्षे शोभना धारा येषाम् । विचित्रैरनेकप्रकारैः । न विगतचित्रैः । न तुला साम्यं येषाम् । तथा तुलया धारणस्तम्भेन सह । उभयत्रापि विरोधे । विशालं विस्तीर्णम् । व्यपेतशालम् । शाला गजाद्यालयः । चत्वारश्चरणा ऋग्वेदा- दयः । अपिचेति विरोधे । तदा रणेन युद्धेन रहितम् । विड्भिर्वैद्यैः संवृतम् । न विष्ठाभिः । चत्वरं चतुष्पथम् । प्रकृतिरमात्यादिः । विरोधस्तु चत्वरेति चकारस्य समुच्चयार्थस्य पूर्वपदेन योगे ॥ क ॥ यस्येति ॥ यस्य (पुरस्य) । नातिदूरे (निकटे) । गङ्गा स्नातपुण्यहेतुः । पयोष्णी तु दर्शनादपीत्यस्या विशेषः ॥ ख ॥ १ 'सुचित्रैः'. २ 'अतुलैरपि सतुलैः'. ३ 'कमलखण्ड'. ४ 'रामणीयक'.

५८ नलचम्पूः । यस्य च पश्चिमदेशे१ प्रणतसुरासुरमौलिनीलमणिमरीचिचञ्चरीक- चक्रचुम्बितचरणाम्भोजस्य भोजकटकृपजन्मनो जरापातितययातेः प्रचण्ड२दण्डदाण्डिक्यदण्डनाडम्बरितगण्डपाषाणविदलितवैदर्भमण्डल- स्य भगवतो भार्गवस्याश्रमः ॥ क ॥ यत्र च विपन्नाः सन्ति साधवो नै३ तु तरवः, विजृम्भमाणकमला- नि सरांसि न जनमनांसि, कुवलयालंकाराः क्रीडादीर्घिका न सीम- न्तिन्यः, विपदाक्रान्तानि सरित्कूलानि न कुलानि ॥ ख ॥ किं बहुना । देशानां दक्षिणो देशस्तत्र वैदर्भमण्डलम् । तत्रापि वरदातीरमण्डलं कुण्डिनं पुरम् ॥ २८ ॥ तत्रास्ति समस्तरिपुपक्षक्षोददक्षदक्षिणक्षोणीपालमौलिमाणिक्यनि- कषनिर्मलितचरणनखदर्पणश्चतुरु४दधिपुलिनचक्रवालवालुकासंख्यसं- ख्यविख्यातकीर्तनीयकीर्तिसुधाधवलितवसुन्धरावलयो निजभुजपञ्ज- रान्तरनिरुद्धशारिकायमाणरणरङ्गाङ्गणार्जितोर्जितजयश्रीः, यौवनम- दमत्तकान्तकुन्तलविलासिनीनयननीलोत्पलदलमालार्च्यमानलावण्य- यस्य चेति ॥ भार्गवः शुक्रः । भोजकटकृपेति अधिष्ठाननाम । तत्र जन्मा- स्येति । तथा च श्रुतिः—'शुक्रो भोजकटेऽभवत्' । कृपादिप्रसिद्ध्या हि अधिष्ठान- नामानि दृश्यन्ते । तथा च मरुदेशे शिवकूपः किरातकूपो जाङ्गलकूप इत्याद्यधिष्ठान- नामानि । वृषपर्वदैत्यसुतां शर्मिष्ठां शुक्रसुतां देवयानीं च ययातिर्नृपतिरुपयेमे । ततोऽसौ शर्मिष्ठाप्रीत्या देवयानीमवजानन् 'तवाङ्गे जरा पततु' इति शुक्रेण शप्तः । तथा दाण्डक्यो नाम भोजकटदेशाधिपः शुक्रसुतामरजः संज्ञां क्षत्रियः किल हठा- द्द्विजकन्यां परिणीतवान् । इति परिभूतंमन्येन शुक्रेण मन्युना पातालशैलगण्डवृष्टिना स वैदर्भमण्डलो हतः ॥ क ॥ यत्रेति ॥ विपद्भायन्त इति विपन्नाः सन्तः न वृक्षा विपर्णाः । एवं विकसत्क- मलानि । न तु कुत्सितो विजृम्भमाणः प्रसरन्मलः पापं येष्विति । यद्विश्वः—'मलं किट्टे पुरीषे च पापे च कृपणे मलः' । कुवलं सरोजं कुत्सितवलयं च । वीनां पदै- राक्रान्तानि कूलानि । कुलानि तु न विपदा विपत्त्या ॥ ख ॥ तत्रेति ॥ तत्र कुण्डिने रिपुपक्षक्षोदप्रवीणानामप्यनुकूलानां राज्ञां मौलिमणिनि- कषनिर्माजितनखादर्शः । तथा चतुरुदधिद्वीपपुञ्जवालुकावदसंख्यसंख्येच्चनेकरणेषु विख्यातकीर्त्यैव सुधया शुभ्रितभूमण्डलः । तथा जयश्रीः सारिकोपमा यस्य । एवं- विधो भीमो नाम राजास्ति ॥ कुन्तलस्य देशविशेषस्य विलासिन्यः । लावण्यमेव १ 'प्रदेशे'. २ 'प्रचण्डदाण्डिक्य'. ३ 'न तरवः'. ४ उदधिवेलापुलिन'

द्वितीय उच्छ्वासः । ५९ पुण्यप्रतिमः, रविरिव नासत्यजनकः, पुरंदर इव नाकविख्यातः, गरुत्मानिव नागमाधिक्षेपी, पद्मखण्ड इव नालसहितः, व्याकरण- प्रबन्ध इव नामसंपन्नः, धाम धाम्नाम्, आधारो धीरतायाः, पुरं पुरु- षकारस्य, आश्रयः श्रेयसां श्रियां श्रुतीनां च, राजा रणाङ्गनेष्वगणि- तभीर्भीमो नाम ॥ क ॥ यस्यानवरतमुत्कृष्टालयः क्रीडावनपादपाः पौरलोकश्च, अपरुषो दायादा वाग्विभवश्च, विमत्सराः सभासदो देशश्च, विकसद्रुचयो- ऽङ्गावयवाः क्रीडापर्वतश्च, अपराजयो मण्डनमणयः सेनासमूहश्च, अगतरुजो वने विनाशमन्वभवन्नितान्तं रिपवः पुष्पप्रकरश्च ॥ ख ॥ तस्य च कंदर्पकमनीयकान्तेर्मत्ताः करिणः सदामानो न मानिनी- लोकः, कृतविटपानमनाः क्रीडोद्यानतरवो नावरोधजनः, कटकालंकृ- तदोषः सीमन्तिन्यो न परिपन्थिनः ॥ ग ॥ पुण्यप्रतिमा। रविरिवेति । सर्वत्र नेति भिन्नम् । असत्यवक्ता न । अकविषु कुकविषु न प्रतीतः । आगमाञ्छास्त्राणि न तिरस्करोति । अलसेभ्यो हितः । आलेनानर्घेन सहितो वा न । आमेन रोगेण न युक्तः। पक्षे नासत्ययोर्देववैद्ययोर्जनकः पिता । नाकः स्वर्गः । नागानां सर्पाणां मां लक्ष्मीमधिक्षिपति लुम्पति । नालं काण्डम् । नाम प्रातिपदिकम् ॥ क ॥ यस्येति ॥ अत्र बहुत्वैकत्वश्लेषः ॥ उत्प्राबल्येन । अर्थात्सौरभजनितेन कृष्टा आनीता अलयो यैः । तथोक्तास्तस्य राज्ञः संबन्धिनः क्रीडार्थे वनवृक्षाः । जनस्तु उत्कृष्ट आलयो गृहं यस्य । अपगता रुट् येभ्यः । पक्षे परुषशब्दस्य नञ्तत्पुरुषे अरूक्षः स्निग्ध इत्यर्थः । विगतो मत्सरो येभ्यः । एकत्वे तु विमन्ति पक्षि- युक्तानि सरांसि यस्मिन् । विकसन्ती रुचिः कान्तिर्येषु । अन्यत्र दुर्वृक्षस्तंस्य चयः । अपगता राजिः संधिर्येभ्यः । पक्षे न पराजीयत इत्यच् । अगतरुजो- ऽदगपीडाः शत्रवः । इतः प्राप्तोऽन्तो मरणं यत्र तथाभूतं विशिष्टं नाशं नशनं भयाददर्शनं वनेऽनुभूतवन्तः । इणः क्ते 'इतः' इति रूपम् । पुष्पप्रकरस्तु पर्व- तवृक्षजो वने नितान्तं भृशं प्रध्वंसमनुबभूव । अनुभवन्नितान्तमिति ह्यस्तन्या बहुत्वैकत्वयोः ॥ ख ॥ तस्य चेति ॥ सह दाम्ना अर्गलनेन । पक्षे सदा मानो गर्वो यस्य । विट- पानां विस्ताराणामानमनं कृतं तैः । अन्यत्र कृतं विटानां पाने चुम्बने मनो येन । कटकैर्वलयैरंकृतौ दोषौ बाहू यासाम् । परिपन्थी तु स्कन्धावारेऽलमल्यर्थे कृतोपद्रवः ॥ ग ॥ १. 'नितान्तमिति' पाठः ।

६० नलचम्पूः । यस्य च चर॑णाम्भोजयुगलं विमलीक्रियते नमज्जनेन न मज्ज- नेन ॥ क ॥ यः शृङ्गारं जनयति नारीणां नारीणाम् ॥ ख ॥ यः करोत्याश्रितस्य नवं धनं न बन्धनम् ॥ ग ॥ यो गुणेषु रज्यते नरमणीनां न रमणीनाम् ॥ घ ॥ यस्य च नमस्याग्रहारेषु श्रूयते नलोपाख्यानं न लोपाख्यानम् ॥ ॥ ङ ॥ यस्य च राज्ये साक्षरस्य पुस्त॑कस्य बन्धः, सगुणस्य कार्मु॑कस्यार्क॑- र्षणम्, सुवंशप्रभवस्य च्छे॑त्रस्य दण्डः, सुजातेरुद्यानविशेष॑स्योत्खनन- म्, कुलीनस्य क॑न्दस्योन्मूलनारम्भः, सन्मार्गलग्नस्य पुनर्वसुभाज- श्चन्द्रस्यैव ग्रहणालोकनमभूत् ॥ च ॥ किं बहुना । देवो दक्षिणदिङ्मुखस्य तिलकः कर्णाटकान्ताकुच- क्रीडाशैलमृगः प्र॑तापकदलीकन्दः स किं वर्ण्यते । यस्यारातिकरीन्द्रकुम्भरुधिरक्लिन्नासिदंष्ट्राङ्कुरा शौर्यश्रीर्भुजदण्डमण्डपतले सिंहीव विश्राम्यति ॥ २९ ॥ यस्य चेति ॥ नमता जनेन न क्षालनेन । एतेन जनानुरागसंपत्तिः । एव- मग्रेऽप्युत्तरपदेषु नञ्संबन्धः ॥ क ॥ यस्य चेति ॥ नलस्योपाख्यानं भारतप्रतीतम् । नमस्यानां पूज्यानां देवद्वि- जादीनां ग्रामेषु लोपकथा नैव ॥ ङ ॥ यस्य चेति ॥ साक्षरं लिखिताक्षरः अधीताक्षरश्च । गुणो ज्या शौर्यादिश्च । आकर्षणं कर्णान्तप्रापणम् आक्षेपश्च । वंशो वेणुरन्वयश्च । दण्डो यष्टिर्दमनं च । जातिर्माल्ती विप्रादिश्च । उत्खननं वृक्षपुष्ट्य आलवालमार्दवायोत्कृष्टं खननं गोर्द- नमिति प्रतीतम् । पक्ष उच्छेदनम् । कुलीनः कौ क्षितौ मीनोऽभिजातश्च । सद्विद्य- मानं मृगस्येदं मार्गम् । लग्नं सक्तं संयोगो यस्य। पुनर्वसू नक्षत्रम्। ग्रहणं राहुयोगः। पक्षे सन्मार्गः सदाचारः । पुनरिति भिन्नम् । वसुभागधनी । ग्रहणं धारणम् । सन्नि- यतान्वितो मार्गः । अर्थाल्लभ इति वा । व्याख्यानगतिर्यथा । साक्षरस्य वर्णोपेतस्य पुस्तकस्यैव बन्धनं न जनस्येति ॥ च ॥ १ 'चरणाम्भोजम्'. २ 'पुस्तकस्यैव'. ३ 'कार्मुकस्यैव'. ४ 'कर्षणम्'. ५ 'छत्र- स्यैव'. ६ 'विशेषस्यैव'. ७ 'कन्दस्यैव'. ८ 'दिङ्मुखे तिलकः'. ९ 'प्रतापहस्तमृगमदः'.

द्वितीय उच्छ्वासः । ६१ तस्य च महामहीपतेरात्मरूपोपहसितसमस्तसुरसुन्दरीसौन्दर्यसा- रसंपत्तिकलङ्ककुलकन्दकन्दलीकंदर्पदर्पगजेन्द्रावष्टम्भस्तम्भयष्टिरखि- लजननयनकुरङ्गवागुरा रामणीयकपताकायमानोद्भिन्ननवयौवनश्रीः, शृङ्गारस्यागारम्, अवनिर्वनिताबिभ्रमाङ्कुराणाम्, आभोगः सौभाग्य- भोगस्य, रङ्गशाला रागवृत्तनृत्तस्य, सर्वान्तःपुरपुरंध्रिकाप्रधानभूता- ऽस्ति प्रिया प्रियङ्गुमञ्जरी नाम ॥ क ॥ यस्याः पद्मानुकारिणी कान्तिर्लोचने च रम्भाप्रतिस्पर्धिनी रूप- संपत्तिरूरुमण्डले च सुमनोहारिणी केशेकबरी भ्रूभङ्गचक्रे च, भ्र- मरकोद्भासिनी ललाटपट्टिका कर्णोत्पले च, प्रवालानुकारिणी दन्त- च्छदच्छाया करचरणयुगले च ॥ ख ॥ यस्याः सुवर्णमयं वचनं नूपुरं च पदे पदे मनो हरति ॥ ग ॥ यस्याः सुमधुरया वाचा सदृशी शोभते कण्ठे कुसुममालिका । अलिकालयाऽप्यलकवल्लरीमालया सह विराजते तिलकमञ्जरी ॥घ॥ किं बहुना । तस्याः कान्तिनिरुद्धमुग्धहरिणीलीलाचलचक्षुष- स्तारुण्यस्य भरादनालसलसल्लावण्यलक्ष्मीरेसः । लुब्धैर्लोकविलोचनाञ्जलिपुटैः पेपीयमानोऽपि स- न्नङ्गेष्वेव न माति सुन्दरतरो रङ्गस्तरङ्गैरिव ॥ ३० ॥ तस्येति ॥ भीमस्य प्रिया प्रियङ्गुमञ्जरी नामास्ति ॥ क ॥ यस्या इति ॥ अत्र प्रथमैकत्वद्वित्वयोः स्त्रीक्लीबयोश्च श्लेषः । सर्वत्र नान्त- त्वात् । पद्मा श्रीः पद्ममब्जम् । रम्भा अप्सरोन्तरं कदली च । सुमनसः पुष्पा- णि । पक्षे सुशब्देन समासः । भ्रमरकं ललाटस्थमलकं भृङ्गश्च । प्रवालो विद्रुमः पल्लवश्च ॥ ख ॥ यस्या इति ॥ सुष्ठु वर्णोऽकारादिः सुवर्णं च । तेन निर्वृत्तं पदं प्रकृतिविभ- क्तिसमुदायः पादन्यासश्च ॥ ग ॥ यस्या इति ॥ अत्र तृतीयाप्रथगयोः श्लेषः । सुष्ठु मधुनो मकरन्दस्य रयः प्रसरो यत्र । अलिकं ललाटमालयः स्थानमस्याः सा । तिलकमवे मञ्जरीति रूप- कम् । तृतीया पक्षे अलिवत्कालो वर्णो यस्याः । यदा ललिवत्कालेति क्रियते तदा ङीप् प्रसज्येत ॥ घ ॥ तस्या इति ॥ आ समन्तादलस आलसः । पश्चात्तन्न्र्योगः । तस्या लावण्य- १ 'उपहसित' २ 'आलस्य' ३ 'पुरंध्री' ४ 'केशपाशकबरी' ५ 'केशपाशकबरी' ६

६२ नलचम्पूः । एवमनयोः संकलसंसारसुखरसास्वादमुदितमनसोर्यान्ति दिवसाः ॥ क ॥ कदाचिच्चदुलतरतरुणषट्चरणचक्रचुम्बनाक्रमणभरभज्यमानमञ्ज- रीजालगलदमन्दमकरन्दबिन्दुकर्दमलेषु विविधाङ्गविहंगविहारविद्- लितदलदन्तुरान्तरालेषु स्मरबन्धुसुगन्धिगन्धवाहर्वाजिवाह्यालीषु वर- दायाः पुण्यपुलिनपालिपादपतलेषु रममाणयोः परिणतेन्द्रवारुणारुण- कपोलकान्तिरुल्लुषितदेहपिण्डकण्डूयनाकूततरलितकरकिसलया बाल- कमेकमूदरदेशलमपरमपि पृष्ठप्रतिष्ठितमुद्वहन्ती कापि कपिकुटुम्बि- नी दृष्टिप्रथमवातरत् ॥ ख ॥ तां चावलोक्य चेतस्यास्पदमकरोत्त्तयोरनपत्ययोर्विषमविषादवेदना- व्यतिकरः ॥ ग ॥ करपत्रधाराकैर्तनदुःसहदुःखदूनमनसोर्वैर्मैनस्यमभूद्धैंम्नि राज्ये जने जीविते च । किमनेनाधिपत्येनापत्यशून्येन ॥ घ ॥ सर्वथा सकलसुरासुरकिरीटकोटिकर्णशोणमणिमरीचिचञ्चरीक- चुम्बितचरणाम्बुजमम्बिकाप्रियं प्रतिपद्यामहे महेश्वरमित्यन्योन्यमा- लोचयांचक्रतुः ॥ ङ ॥ अथ विपुलवियद्विलङ्घनश्रमप्रशमनार्थमरुणेन वारुणीं प्रतिपानाथँ- मिवावतार्यमाणेषु रविरथतुरंगमेषु, अपरासक्ते दिवसभर्तरि शोकम- रादिव तमःपटलेनापूर्यमाणामाश्वासयितुमिव पूर्वां दिशमभिधावमा- नासु पादपच्छायासु, हारीतहरितहरिहारिणस्तररेणरण्यान्तराच्च मन्द- लक्ष्मीरसः सुन्दरतरश्चास्तरः । तरङ्गै रङ्गन्विलसन्निव । रसो हि भरादजिह्यौ लसति तरङ्गैश्च रञ्जति ॥ ३० ॥ कदेति ॥ मधुबिन्दुकर्दमवत्सु । पर्णदन्तुरमध्येसु । स्मरबन्धुः सुगन्धिगन्ध- वाह एव वाजी तस्य वाह्यालीप्रायेषु । वरदातरुतलेषु क्रीडतोरुभयोः कपिपत्नी इन्द्रवारुणीफलपिङ्गलकान्तिर्वानरी नयनपथं गता दृष्टेत्यर्थः ॥ ख ॥ तामिति ॥ तां च वीक्ष्य विषादव्यथासंपर्को हृदि पदमकरोत् ॥ ग ॥ अथेति ॥ अथानन्तरं श्रमशान्त्यर्थे वारुणीं पश्चिमां प्रति लक्ष्यीकृत्य नीयमा- नेषु रविरथाश्वेषु । प्रतिपानपक्षे वारुणी सुरा । अपरा दिग् अङ्गनान्तरं च । तमो मोहो ध्वान्तं च । तथा गोमण्डलेषु किरणौघेषु धेनुवृन्देषु च । यथासंख्यं रवे- र्वनान्तराच्चमन्दं चलमानेषु । द्वयादपि कीदृग्भूपात् । हारीताः शुकाभाः पक्षिणस्त- १ 'वाह'. २ 'विलोक्य'. ३ 'विकर्तन'. ४ 'वैरस्यम्'. ५ 'निजराज्यजने'. ६ 'कोणमणि'. ७ 'पतिम्'. ८ 'घनश्रम'.

द्वितीय उच्छ्वासः । ६३

मपवर्तमानेषु गोमण्डलेषु, अस्तांचलवनदेवतादत्तरक्तचन्दनार्घसंलि- ल्प्लवप्लाव्यमान इव लोहितायति पश्चिमाशामुखे, वारविलासिनीभिः कपोलमण्डलीमण्डनाय क्रियमाणेषु पत्रभङ्गेषु । भयेनेव पादपैः प्रारब्धे पत्रसंकोचकर्मणि, विघटिष्यमाणचक्रवाककामिनीकरुणकू- जितव्याजेन दिवसभर्तुरस्ताचलगमनं निवारयन्तीभिरिव विरहवि- धुराभिः कमलिनीभिर्विधीयमानेषु प्रार्थनाप्रणामाञ्जलिपुटेष्विव कम- लमुकुलेषु, क्रमेण पश्चिमाम्भोधितरङ्गान्तरतस्तरुणतरताम्रतामरसा- नुकारिकेसरायमाणरश्मिमञ्जरीलजटिलमवलोक्य तरणिमण्डलम- तिसंभ्रमभ्रमद्भमरनिकुरम्ब इव प्रधावमाने दूरं तिमिरपटले, कृष्णा- गुरुपङ्कपत्रभङ्गभूष्यमाणेष्विव दिगङ्गनामुखेषु, कोकिलकलापैराक्र- म्यमाणेष्विव वनान्तरेषु, विकचकुकुवलयबर्हलमेचकरुचिनिचयश्या- मलीक्रियमाणेष्विव सलिलाशयेषु, तापिच्छगुच्छच्छद्मच्छाद्यमाना- स्विव वनवृत्तिषु, नृत्यत्कलापिकुलकलापैः कालीक्रियमाणेष्विव शैल- शिरःशिलातलेषु, कज्जलालेख्यचित्रचर्च्यमानास्विव भवनभित्तिषु, विरहिणीनिःश्वासधूमश्यामीक्रियमाणेष्विव पान्थावसथेषु, कस्तूरि- कासलिलसिच्यमानास्विव कामुकविलासवासवेश्मवाटीषु, मदान्ध- सिन्धुरनिरुध्यमानेष्विव नृपभवनाङ्गनेषु, कलितकालकञ्चुकायामिव गगनलक्ष्म्याम्, मदनशरनिकरविद्रुतदरिद्रविटविपादानलस्फुलिङ्गे- ष्विव रङ्गत्सु ज्योतिरिङ्गणेषु, काञ्चनीषु तिमिरकरिकुम्भभेदभल्लीष्विव निशितासु प्रदीष्यमानासु प्रदीपकलिकासु, लवमानपाण्डुपुण्डरीक- ल्माषितकालिन्दीपरिस्पन्दसुन्दरेऽमृतमथनक्षणक्षुब्धक्षीरसागररसवि- न्दुस्तवकितनारायणवक्षःस्थल इव कांचिदपि श्रियं कलयति तारा- विराजिते वियति, विटङ्कान्तमनुसरन्तीषु वेश्यासु वेश्मपारावतप- द्धद्धरिता नीला ये हरयोऽश्वास्तैर्गच्छति । तस्मात् । वनाच्च हारीतैः शुकाभपक्षि- भिर्हरितैः शाद्वलैर्हरिभिर्वानरैश्च हारिणो मनोज्ञात् । रक्तचन्दनार्घः प्रस्तावाद्रवेरेव । पत्रभङ्गो विलेपनचित्रं पत्रवल्लीसंज्ञं पर्णानां भञ्जनं च । तथा कांचिदपि श्रियं शोभां नारायणवक्षसि तु श्रियमब्धिपुत्रीं प्राप्नुवति नक्षत्रांलङ्कृते नभसि । कालि- न्दीपरिस्पन्दो नारायणवक्षश्च वियत उपमानम् । पाण्डुपुण्डरीकाणि क्षीररसवि- १ 'तरङ्गरङ्गान्तरेषूत्तरत्तरुणताम्र' २ 'जटिलमपि'. ३ 'कोकिला' ४ 'बहललभपद्म- दमेचक'. ५ 'कलापकाली'. ६ 'शिलातलेषु, उदेष्यमाणनिजनायकालोकेप्रेष्यमाणसंध्या- वधूटाक्षमचक्रीकृतेष्विव गगनवर्त्मसु, कज्जलालेख्य'. ७ 'विलासवेश्मवेदिकासु'. ८ 'तिमि- रकरिकुम्भभेदकाञ्चनभल्लीष्विव'.

तन्निपङ्किषु च, भ्रमरसङ्गतासु कुलटासु कुमुदिनीषु च, नदीपालि- विरहितेषु चत्वरेषु चक्रवाकमिथुनेषु च, जाते जरद्गवयकायकालका- न्तिकाशिनि निशावतारे, तरुणतमालकाननमिवाञ्जनगिरिगुहागर्भ- मिवेन्द्रनीलमणिमहामन्दिरोदरमिव विशति सकलजीवलोके स लोकेश्वरः 'प्रिये प्रियङ्कुमञ्जरि, प्रसादय प्रणतप्रियकारिणमभङ्ग्यानङ्गद- र्पहरं हरम् । अहं च तदाराधनावधानमनुविधास्यामि' इत्यभिधाय यथावासमयासीत् ॥ क ॥ • ततश्च । अखण्डितप्रभावोऽथ प्रदोषेणान्धकारिणा । तस्याश्चित्ते स्थितः शंभुरुदयाद्रौ च चन्द्रमाः ॥ ३१ ॥ विभ्रते हारिणीं छायां चन्द्राय च शिवाय च । नभोगरुचये तस्मै नमस्कारं चकार सा ॥ ३२ ॥ नित्यमुद्वहते तुभ्यमन्तः सारङ्गरञ्जितम् ॥ भूतिपाण्डुर गोवाह सोम स्वामिन्नमो नमः ॥ ३३ ॥ न्दवश्च ताराणाम् । परिस्पन्दः प्रस्रवणम् । प्रवाह इति यावत् । विटो भुजंगः । कान्तः पतिः । पक्षे पक्षिणामावासयष्टेरूनतोऽशो विटङ्कस्तस्यान्तः । भ्रमो भ्रमणं तत्र रसस्तात्पर्यम् । अन्यत्र भ्रमरा भृङ्गाः । नेति भिन्नम् । पक्षे नदीनां पालिः सेतुः । इतीति सति स राजा यथावासमयासीत् । किं कृत्वा हे प्रिये, प्रसादय हरमहमपि तदाराधनमनुपृष्ठलग्नः करिष्यामीत्यभिधाय ॥ क ॥ अखण्डितेति ॥ शंभुशशिनोः श्लेषः । प्रकृष्टदोषेण । अन्धकनाम्ना प्रतिप- क्षेण । अव्याहतवैभवः । शशी च प्रदोषेण रजनीमुखेन । अन्धत्वविधायिना अन्धकारयुक्तेन वा। न खण्डितः प्रभाया आवो वृद्धिर्यस्य। अत्र अव वृद्धयर्थः ३१ विभ्रत इति॥ चन्द्रपक्षे हरिणस्येयं हारिणी छाया । कलङ्क इत्यर्थः । नभोगा वियद्व्यापिनी रुचैर्यस्य । शिवस्तु हारिणीं छायां कान्तिम् । तथा भोगे विलासे रुचिरभिलाषो यस्य पश्चात्तन्नियोगः ॥ ३२ ॥ नित्यमिति ॥ सहोमया वर्तत इति सोमः । तस्य संबोधनम् । तद्विशेषणं स्वामिन्निति । तथा भूत्या भस्मना पाण्डुरः शुभ्रः । तथा गौर्वृषो वाहनं यस्य । एवंभूत उमापते । अन्तर्मध्ये । सारमुत्कृष्टम् । गरं कालकूटम् । जितं महिम्ना स्तम्भितशक्ति । नित्यमुद्वहते बिभ्राणाय तुभ्यं नमो नमः । अत्र प्रकर्षे द्विवच- नम् । सोमश्चन्द्रोऽपि । तदा भवनं भूतिर्जन्म । जन्मना पाण्डुरः स्वभावश्वेतः । तथा गाः किरणान् वहतीत्यण् । पाण्डुराश्च ता गावश्चेति समासे कृते समासान्तो दुर्वारः। अन्तरिति कर्मपदम् । सारङ्गो मृगस्तेन रञ्जितं लाञ्छितमिति तद्विशेषणम् ॥ ३३ ॥ १ 'प्रविशति'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA

द्वितीय उच्छ्वासः। ६५ एवं च नातिचिरात् क्षुभ्यत्क्षीरसमुद्रसान्द्रसलिलोल्लोलैरिव प्लावयँ- ल्लोकं लोचनलोभनः स्मरसुहृज्जातः स चन्द्रोदयः। यस्मिन्संभृतवैरदारुणरणप्रारम्भिणो भ्राम्यतः क्रुद्धोलूककदम्बकस्य पुरतः काकोऽपि हंसायते ॥३४॥ अपिच। श्च्योतच्चन्दनचारुचन्द्ररुचिभिर्विस्तारिणीभीर्भरा- जातेयं जगती तथा कथमपि श्वेतायमानद्युतिः। उन्निद्रो दिनशङ्कया कृतारुतः काको वराकः प्रिया- मन्विष्यन्पुरतः स्थितामपि यथा चक्रभ्रमं भ्राम्यति ॥३५॥ अपिच। मुग्धा दुग्धधिया गवां विदधते कुम्भानधो वल्लवाः कर्णे कैरवशङ्कया कुवलयं कुर्वन्ति कान्ता अपि। कर्कन्धूफलमुच्चिनोति शबरी मुक्ताफलाकाङ्क्षया सान्द्रा चन्द्रमसो न कस्य कुरुते चित्तभ्रमं चन्द्रिका ॥३६॥ यत्र च। मुक्तादाममनोरथेन वनिता गृह्णन्ति वातायने गोष्ठे गोपवधूर्दधीति मथितुं कुम्भीगतान्वाञ्छति। उच्चिन्वन्ति च मालतीषु कुसुमश्रद्धालवो मालिकाः शुभ्रान्विभ्रमकारिणः शशिकरान्पश्यन्न को मुह्यति ॥३७॥ क्षुभ्यदिति ॥ स धवलिताशेषभुवनतलश्चन्द्रोदय उत्प्रेक्ष्यते। क्षुभ्यत्क्षीर- समुद्रसान्द्रसलिलोल्लोलैर्लोकं प्लावयन्निव जातः। क्षीरसमुद्रक्षोभस्य तत्सहचरि- तत्वात् ॥ ३४ ॥ श्च्योतदिति ॥ सातत्यभ्रमणेन कुलालप्रेषितचक्रवद्भ्रमो यत्रेति भ्रमणक्रिया- विशेषणम्। अथवा चक्रः कोकस्तस्येव भ्रमो यस्य। सोऽपि रात्रौ समीपवर्तिनी- मपि प्रियामन्विष्यन् भ्रमति ॥ ३५ ॥ मुग्धेति ॥ वल्लवा वालगोपालाः। शबर्योऽप्यारण्यकस्त्रियो विपर्यस्ता भवन्तु। सततपरिचितोत्तंसरचनाः कान्ता उत्तमस्त्रियोऽपि विपर्यस्ता इति' अपिर्विस्मये ३६ CC-0. Sarada Kripa Shastri Collection, New Delhi. Digitized by S3 Foundation USA

६६ नलचम्पूः । अपिच । किं कर्पूरकणाः स्रवन्ति वियतः किं वा मनोनन्दिनो मन्दाश्चन्दनविन्दवः किमु सुधानिष्यन्दधारा इमाः । इत्थं भ्रान्तिममी जनस्य जनयन्त्यङ्गे लगन्तः परा- मिन्दोः कुन्दविकासिकुड्मलदलस्रक्सुन्दरा रश्मयः ॥३८॥१ इति जनितमुदिन्दोः सिन्दुवारस्रगाभं किरति किरणजालं मण्डले दिक्मुखेषु । हरचरणसरोजद्वन्द्वमाराधयन्ती शुचिकुशशयनीये साथ निद्रां जगाम ॥ ३९ ॥ इति श्रीत्रिविक्रमभट्टविरचितायां दमयन्तीकथायां हरचरणसरोजाङ्कायां द्वितीय उच्छ्वासः ॥ तृतीय उच्छ्वासः । अथ क्रमेण रजतकुम्भमम्भोभरणार्थमिवेन्दुमण्डलमादाय पश्चिमा- म्भोनिधिपुलिनमनुसरन्त्यां तरुणकपोतकंधरा रोमराजिराजिन्यां रज- न्याम्, अखिलकमलखण्डकमलिनीनां विनिद्रायमाणकमलकुड्मल- विलोचनेषु कज्जलरेखास्विवोल्लसन्तीषु भ्रमरराजिषु, राजीवराजिपुञ्ज- किमिति ॥ कुन्दस्य विकासिनां कुड्मलदलानां स्रक् । तद्वत्सुन्दरा इति शौक्ल्यसौकुमार्यातिशयार्थः । जरत्कन्दस्य हि दलाग्राणि परुषाण्यरुणानि च भव- न्तीति ॥ ३८ ॥ इतीति ॥ इत्यमुना प्रकारेण । जनितहर्षम् । निर्गुण्डीकुसुममालाप्रतिमं करनि- करं दिक्मुखेषु किरति वितन्वति सतीन्दोर्मण्डले हरं ध्यायन्ती सा दर्भशय्यायाम- स्वपत् । समाधिलयं गतेति भावः ॥ ३९ ॥ इति विषमपदप्रकाशमेतं दमयन्त्यास्तनुते स्म चण्डपालः । शिशुमतिलतिकाविकासचैत्रं चतुरमतिस्फुटभित्तिचारुचित्रम् ॥ इति चण्डपालविरचिते दमयन्तीकथाविवरणे द्वितीय उच्छ्वासः समाप्तः ॥ अथेति ॥ अनन्तरं किरणसंस्पृष्टमेघे । रागवत्यारक्ते रवौ युक्ता सती खप्नं १ ‘अपिच रूप्यस्थाने बिडालः कलयति च करान्दुग्धबुद्ध्या सुधांशोः पार्श्वस्थां राजहंसः परिहरति वधूं चन्द्रिकाविप्रलब्धः । प्रेङ्खन्त्या हर्म्यदोलाध्वजपटशिखरच्छायया कुट्टिमाङ्के वल्गत्कृष्णाद्विषष्णात्तरलितनयनो भास्यते बद्धपोतः ॥’ २ ‘अथ च’

तृतीय उच्छ्वासः। ६७ निकुञ्जे शिञ्जानमञ्जीरमञ्जुलमुन्नदत्सु शरद्बलाहकवलक्षपक्षविक्षेप- पवनतरलिततरुणतामरसेषु दीर्घिकावतंसेषु, हंसेषु केंकोरयति च चक्र- वाकमिथुनमेलकमङ्गलमृदङ्ग इव रौप्यघर्घररवसरसं सारसकुले, अवश्य़ायजलशिशिरशीकरिणि मन्दान्दोलितविनिद्रद्रुममञ्जरीरजःक- णकषायिते तमःसर्पसंदष्टोज्जीवितजगन्निश्वासायमाने प्रस्खलति प्रभा- तसुरतश्रमखिन्नसुन्दरीकुचमण्डले मरुति, मनोहारिहारीतहरितहये हरति तिमिरपटलपटीं गगनलक्ष्म्‍याः करपरामृष्टपयोधरे रागवति सवितरि, मृगमदमिलितवैहलकुङ्कुममण्डनमञ्जरीभिरिव पिञ्जरिते पुरंदरदिङ्मुखे सुखप्रसुप्ता सा स्वप्नमद्राक्षीत् ॥ क ॥ किल सकलसुरासुरशिरःशेखरीकृतचरणकमलः, कमलाधिवासेन ब्रह्मणा नारायणेन च रचितरुचिरस्तुतिः, कृशानुरूपेण ललाटलोच- नेन चन्द्रमसा च भासमानः, विकचं कर्णे कुवलं करे कपालं च कलयन्, अहिंसाटोपं मनसा शिरसा च विभ्राणः, प्रोज्ज्वलन्नय- नार्चिश्रिताभस्म च समुद्वहन्, अधिकङ्कालेन स्कन्धेन कंधरार्धेन च विराजमानः, सालसदृशं भुजवनं भवानीं च दधानः, सर्वदानववारं त्रिशूलं मन्दाकिनीं च धारयन्, देवो दर्पितदनुजेन्द्रनिद्राहरो हर- श्चन्द्रमण्डलादवतीर्य 'पुत्रि प्रियंगुमञ्जरि, मञ्जरीमिमां गृहाण । ददर्श । अन्योऽपि रागवानासक्तः किल पटीमुत्सार्य कराभ्यां पाणिभ्यां स्तनौ स्पृशति । शरद्बलाहकवलक्षाः शरदभ्रधवलाः । केंकारो वाद्यविशेषः ॥ क ॥ स्वप्नमाह—किलेति । वार्तोक्तौ । हरः शक्तिमण्डलादुत्तीर्य पुत्रीत्यभिधाय ईदृशीं पारिजातमञ्जरीमदात् । कीदृशो हरः । ब्रह्मणा विष्णुना च कृतस्तुतिः । द्वयेनापि कीदृशेन । कमलेऽधिवासोऽस्य पद्मासनत्वात् । विष्णुस्तु कमलायाः श्रिया अधिवासस्तेन । तथा वह्निखरूपेण नेत्रेण चन्द्रमसा च कृशेन क्षामेण अनुगत- रूपेणाविनाभावसंबद्धमूर्त्तिना लसन् । तथा विकचं सविकासम् । कपालं तु विगताः कचाः केशा अस्मादिति विकचम् । तथा अहिंसाया आटोपमावेशम् । अहिं च साटोपं सस्पन्दम् । प्रोज्ज्वलद्दीप्यमानम् । भस्म तु प्रकर्षेणोज्ज्वलम् । अधिगतं कङ्कालं शरीरास्थि अर्थात्खट्वाङ्गं येन । कंधरार्धेन तु कालेन सह कालकूटत्वात् । अधिकमिति क्रियाविशेषणम् । सालद्रुमतुल्यं प्रांशुत्वात् । पक्षे सालसे लीलामन्थरे दृशौ यस्याः । सर्वान्दानवान्वारयति । गङ्गा तु सर्वदा नित्यं नवा अविच्छाया


१ 'मञ्जीररव'। २ 'केंङ्कारयत्सु मधुररवभरितभुवनेषु चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्गेष्विव रौप्यघर्धरीझर्झररवसरसं सारसकुलेषु; केंङ्कारयति चक्रवाकमिथुनमेलकमङ्गलमृ- दङ्ग इव भरितभुवने रौप्यघर्धरीघर्घररवसरसं सारसकुले'। ३ 'बहुल'. ४ 'भूत'. ५ 'कमलाधिवासिना. ६ 'विरचित'. ७ 'लोचनचन्द्रमसा'.

२. तृतीय-चतुर्थ उच्छ्वास: विदर्भ-वर्णन, हंस-दूत संवाद एवं दमयन्ती-प्रेम

६८ नलचम्पूः । मा भैषीः । प्रत्यूषसि मन्नियोगाद्दमनकनामा महामुनिरेष्यति स तेऽनुग्रहं करिष्यति' इत्यभिधाय स्वश्रवणशिखरान्तरादमन्दमकरन्दस्यं- न्दसुन्दरामोदमाद्यन्मधुकररवरमणीयां पारिजातमञ्जरीमदात् ॥ क ॥ सापि 'प्रसादोऽयम्' इत्यभिधाय स्वप्न एव प्रणामपर्यस्तमस्तका स्तुतिमकरोत् ॥ ख ॥ तुभ्यं नमो नमल्लोकशोकसंतापहारिणे । व्यर्थीकृतान्धकारातिदम्भारम्भाय शंभवे ॥ १ ॥ विभो विभूतिसंपन्न पन्नगेन्द्रविभूषण । नमो नमोघसंकल्प तुभ्यमभ्यन्तरात्मने ॥ २ ॥ अत्रान्तरे तरणिकोमलकान्तिभिन्न- भास्वत्सरोजदलदीर्घविलोचनायाः । तस्याः प्रबोधमकरोद्रजनीविराम- यामावसानमृदुमङ्गलतूर्यनादः ॥ ३ ॥ क्रमेण च प्राच्यां सिच्यमानायामिव वँहुलकुसुम्भाम्भःकुम्भैः ककुभि, प्रभवति तारकोच्छेदनाय सुकुमारे रश्मिजाले, पूर्वाचलस्थ- लीमधिरोहति जगत्प्रबोधप्रारम्भमङ्गलकलशेऽंशुमालिमण्डले, ताण्ड- वाडम्बरिणि पुण्डरीकखण्डे, हिण्डमानासु दीर्घिकामण्डनमण्डमा- लासु कारण्डवमण्डलीषु, विश्राम्यति श्रवणपुटेषु हृदयानन्दिनि वन्दि- वृन्दारकवृन्दवन्दनारम्भरवे, रणयत्सु वीणावेणुकोणान्वैणिकवैणवि- केषु, कण्ठकुहरप्रेङ्खोलनालंकारकुशले तारतरं गायति ग्रामरागं गाय- वाः पाथो यस्याः । अथवा सर्वं ददातीति सर्वदाः । आनूयन्त इत्यानवाः तथोक्ता वारोऽस्याः । एतेन कामुकत्वेन नर्मवचनादात्मजलानां खलुत्यलोक्तिः ॥ क ॥ तुभ्यमिति ॥ अन्धकारातीति कर्मधारयः ॥ १ ॥ विभो इति ॥ विभुः सर्वव्यापी । विशेषेण भूत्या भस्मना संपन्नः समृद्धः । यद्वा विभूत्या चतुर्दशभुवनाधिपत्यलक्षणया । तथा वासुकिभूषणः । मोघो निष्फलः संकल्पो ध्यानं यस्य । पश्चान्नञ्योगः । एतानि शिवसंबोधनानि ॥ २ ॥ क्रमेणेति ॥ यथा माहेन्द्र इन्द्रः, तथा सुकुमारः कुमारः । स हि तारकासु- रोच्छेदनाय प्राभवत् । सुकुमारं मृदु रश्मिजालं तु तारकाणां नक्षत्राणामुच्छि- त्तये । वैणिकवैणविकौ वीणावेणुवादकौ । अलंकाराश्च मुद्रितविवृत्तानुनासिकादयः । १ 'मन्नियोगाद्दमनकनामा महामुनिः प्रातरेष्यति'. २ 'विन्दुनिस्पन्द'. ३ 'प्रणामावनमितमस्तका'. ४ 'नमोऽस्त्वमोघ'. ५ 'तुरीययामा'. ६ 'क्रमेण प्राच्याम्'. ७ 'बहुलकुङ्कुमाम्भः'. CC-0. Prof. Satya Vrat Shastri Collection, New Delhi. Digitized by S3 Foundation USA