न्यायकुसुमाञ्जलि (उदयनाचार्य - ईश्वर-सिद्धि दार्शनिक तर्कशास्त्र एवं सान्वय सटीक)
Nyayakusumanjali of Udayanacharya with Commentary
आचार्य उदयन द्वारा
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६१ धात्वर्थमात्राभिप्रायेण प्रयोगे संयोगादिभिरनेकान्तात्, न हि शरसंयोगेन गगने किञ्चित् क्रियते, अन्त्यशब्दाभिव्यक्त्या वा, स्पन्दाभिप्रायेणासिद्धेः । व्यापाराभिप्रायेण शब्दलिङ्गेन्द्रियव्यापारैर्व्यभिचारात्, न हि तैः प्रमेये किञ्चित् क्रियते, अपि तु प्रमातर्येव । फलाभिप्रायेणापि तथा । अन्ततस्तेनैवानेकान्ताद् , अनवस्थानाच्च । आशुविनाशिधर्माभिप्रायेण द्वित्त्वादिभिरनियमात् । आशुकार- काभिप्रायेण कर्मण्यसिद्धेः, कर्मण्याशुकारकं ज्ञानमित्येव हि साध्यम् । कर्त्तर्याशु- कारकत्वस्य कर्मोपकारत्वेनाव्याप्तेः । शब्दादिव्यापारैरेवानेकान्तात् ॥ ३ ॥ स्यादेतत् , अनुभवसिद्धमेव प्राकट्यम् । तथा हि—ज्ञातोऽयमर्थ इति सामा- न्यतः, साक्षात्कृतोऽयमर्थइति विशेषतो विषयविशेषणमेव किञ्चित् परिस्फुरतीति चेत् । तदसत् । यथा हि— अर्थे नैव विशेषो हि निराकारतया धियाम् । प्रकाशः । 'अन्त्यशब्देति । न चान्त्यशब्दाभिव्यक्त्या तत्र ज्ञाततैवोत्पद्यते इति वाच्यम् । तस्याप्यवहि- तोत्तरक्षण एव नाशात् । समवायिकारणस्य च कार्यसमानकालतानियमात् । शब्दनित्यत्वस्य च निषेधादिति भावः । असिद्धेरिति । ज्ञानक्रिया न स्पन्द इत्यर्थः । ननु क्रिया फलमत्र, यद्धि फलं तत्प्रमेयनिष्ठकिञ्चिज्जनकं, प्रयत्नवदात्मसंयोगवदित्यत आह फलेति । अन्तत इति । फलेनापि फलजननेऽनवस्थेति क्वचिद्विश्रान्तौ तेनैव व्यभिचार इत्यर्थः । आशुविनाशित्वं क्षणचतुष्टयानव- स्थायित्वम् । अनियमाद् , व्यभिचारादित्यर्थः । कर्मण्याशुकारकत्वं हेतुः, कर्त्तर्याशुकारकत्वं वा, आशुकारकत्वमात्रं वा ? । नाद्यः । साध्याविशिष्टतया हेतोरसिद्धत्वादित्याह कर्मणीति । न द्विती- यतृतीयावनेकान्तादित्याह कर्त्तरिति । शब्दादिव्यापारैः पदार्थस्मृतिलिङ्गपरामर्शादिभिर्वाक्यार्थ- ज्ञानानुमित्यादिकं कर्त्तर्याशुक्रियते । न च कर्मणि वाक्यार्थे अनुमेयादौ वा किञ्चित् क्रियते इत्यनै- कान्तिकमित्यर्थः ॥ ३ ॥ कारिकोत्तरार्द्धं व्याख्यातुं शङ्कते अनुभवेति । निराकारमपि ज्ञानं यया विषयेण नीलत्वादिना नीलज्ञानाद्युच्यते, तथा ज्ञानरूपक्रिययैव ज्ञातो घट इति धीव्यपदेशौ, इत्थमभ्युपगमे च कृतो घट इत्यादावपि कृत्यादिजनितधर्माधारो घटः स्यात् । न चैतत् त्वयेष्यते, इति परिह- रति यथा हीति । घटक्रियेत्यत्र क्रियायामर्थो विशेषकः, कृतो घट इत्यत्रार्थे क्रिया विशेषिकेति भेदः । एवं घटज्ञानमित्यत्रार्थो ज्ञाने विशेषणं, ज्ञातो घट इत्यत्रार्थे ज्ञानं विशेषणम् । ननु घटोऽयमिति ज्ञानं घटधर्मिककिञ्चिद्धर्मजनकं घटज्ञानत्वाद् अपेक्षाबुद्धिवत् । न चापेक्षा- प्रकाशिका । प्रत्यक्षत्वमपि तस्य कथमिति वाच्यम् । प्रत्यक्षविषयस्य पूर्ववर्त्तितामात्रेणैव हेतुत्वात् । आशुविना- मकरन्दः । तस्येति । नचैवं प्रत्यक्षमपि कथं स्यादिति वाच्यम् । पूर्ववर्त्तितामात्रेणैव तस्य तद्धेतुत्वात् । समवायिकारणमात्रस्यैव कार्यसमानकालत्वनियमादिति भावः । टिप्पणी तत्प्रमेयनिष्ठेति । प्रमेयेति प्रकृतमभिप्रायम् फलं किञ्चिज्जनयतीत्येव व्याप्तिः । आत्मशरीर- संयोगवदिति । स च शरीरे चेष्टाजनकः ।
४६२ व्याख्यायात्रोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तथा, क्रिययैव विशेषो हि व्यवहारेषु कर्मणाम् ॥ ४ ॥ किं न पश्यसि, घटक्रिया पटक्रियेतिवत् कृतो घटः करिष्यते घट इत्यादि, तथैव गृहाण, घटज्ञानं पटज्ञानमितिवज्ज्ञातो घटो ज्ञायते इति । कथमसंबद्धयोर्ध- र्मधर्मिभाव इति चेद्, ध्वस्तो घट इति यथा । एतदपि कथमिति चेद् , नूनं ध्वंसेनापि घटे किञ्चित् क्रियते इति वक्तुमध्यवसितोऽसि । तन्निरूपणाधीन- निरूपणो ध्वंसः स्वभावादेव तदीय इति किमत्र संबन्धान्तरेणेति चेत् । प्रकृतेऽ- प्येवमेव । एतेन फलानाधारत्वादर्थः कथं कर्मेति निरस्तम् । विनाशयद्यत् करणव्यापार- प्रकाशः । बुद्धित्वमुपाधिः । घटसंयोगादिजनकाऽवयवसंयोगादौ साध्याव्यापकत्वात् । मैवम् । अप्रयोज- कत्वात् । अन्यथेच्छा स्वविषयनिष्ठकिञ्चिद्धर्मजनिका सविषयकत्वात् बुद्धिवदित्यादेरापत्तेः । तथापि ज्ञातो घट इति ज्ञानं विशेषणविशेष्ययोः सम्बन्धविषयकं विशिष्टज्ञानत्वात्, गौरिति ज्ञानवत् । वर्त्तमानेऽर्थे बाधकाभावात् । अन्यथा समवायोऽपि न सिद्ध्येदिति चेन्न । अतीतानागतयोर्ज्ञातताया अभावेन ज्ञातव्यवहाराभावापत्तेः । तस्य ज्ञाततासाध्यत्वात् । तत्र ज्ञानविषयावेव तद्विषयाविति चेन्न । वर्त्तमानेऽपि तयोरेव तद्विषयत्वापत्तेः । अतीतादिवर्त्तमानतप्रतीत्योर्वैलक्षण्याऽननुभवात् । अथ घट- पटयोरेकज्ञानविषयत्वेऽपि घटत्वेन घटो ज्ञातः, पटत्वेन पटो ज्ञात इति ज्ञातताभेदभानाज्ज्ञानभिन्ना ज्ञाततेति चेन्न । तस्यैव ज्ञानस्य सम्बन्धस्तत्र तत्र तेन तेन धर्मेण निरूप्यते इति ज्ञानस्वभावादेव नियमादिति भावः । प्रतिबन्धिमुक्त्वा मूलयुक्तिमाह तन्निरूपणेति । ननु ज्ञानजन्यफलानाश्नयत्वादर्थः कर्म न स्यादित्यत आह- एतेनेति । परसमवेतक्रियाफलशालित्वं न कर्मत्वम् । आत्मानं जानातीत्यत्राव्याप्तेः, किन्तु करणव्यापारविषयत्वम्, तच्चात्राऽस्त्येवेत्याह विनाशयद्यदिति । अर्थो ज्ञानस्य कर्मैव न भवति, प्रकाशिका । शित्वं क्षणिकत्वरूपमसिद्धमित्यत आह क्षणचतुष्टयेति ।' अप्रयोजकत्वादित्युपलक्षणम्, पक्षधर्मावच्छिन्नसाध्यव्यापकस्यापेक्षाबुद्धित्वस्योपाधित्वाच्चेत्यपि द्रष्टव्यम् । सम्बन्धत्वेन ज्ञातता- सिद्धिमाशङ्कते तथापीति । अन्यथेति । सम्बन्धं विनापि विशिष्टधीस्वीकार इत्यर्थः । प्रति- बन्दीमुक्त्वा मूलयुक्तिमाह अर्थ इत्यादि। ऐन्द्रियकोपलम्भाभावमिति मूलं अतीन्द्रियत्वं ज्ञानस्य तद्विषयकसाक्षात्काराभावः । स च जानातीन्द्रियतया न स्वरूपसदनुपलब्धिग्राह्य इत्यर्थः । मम इन्द्रियग्राह्यत्वेनाभिमतो य उपलम्भाभाव इति योजना । अनुपलब्धेस्तत्रैव त्वन्मते सामर्थ्या- दिति भावः । अस्तु वा स्मरणम् तथापि तदनुपपत्त्या नानुभवसिद्धिः, तत्कारणेवान्यथासिद्धिरित्यत मकरन्दः । अप्रयोजकत्वादित्युपलक्षणम्-पक्षधर्मावच्छिन्नसाध्यव्यापकमपेक्षाबुद्धित्वमुपाधिरित्यपि द्रष्टव्यम्। अन्यथेति । यदि सम्बन्धं विना विशिष्टधीः, तदेत्यर्थः ।
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६३ विषयत्वेन तदुपपत्तेः । स्वाभाविकफलनिरूपकत्वञ्च तुल्यम् । ननु ज्ञानमतीन्द्रियत्वादसाधारणकार्यानुमेयं तदभावे कथमनुमीयेत, अप्रती- तञ्च कथं व्यवहारपथमवतरेदिति ज्ञानव्यवहारान्यथानुपपत्त्या ज्ञातताकल्पनम् । तदप्यसत् । परस्पराश्रयप्रसङ्गात् । ज्ञाततया हि ज्ञानमनुमीयेत, ज्ञाते च तद्व्यवहा- रान्यथानुपपत्तिस्तां ज्ञापयेत् । कुतश्च ज्ञानमतीन्द्रियम् ? इन्द्रियेणानुपलभ्यमान- त्वादिति चेत् । न । अनुमानोपन्यासे साध्याविशिष्टत्वात् , अनुपलब्धिमात्रोप- न्यासे तु योग्यताऽविशेषिताऽसौ कथमैन्द्रियकोपलम्भाभावं गमयेत् , तद्विशेषणे तु कथमतीन्द्रियं ज्ञानमिति । तथाविधज्ञाततानाश्रयत्वादिति चेन्न । आश्रया- सिद्धेः । व्यवहारान्यथानुपपत्त्यैव सिद्ध आश्रय इति चेन्न । ज्ञानहेतुनैव तदुप- पत्तेः । तस्यात्ममनःसंयोगादिरूपस्य सत्त्वेऽपि सुषुप्तिदशायामर्थव्यवहाराभावा- न्नैवमिति चेन्न । तावन्मात्रस्य व्यवहाराहेतुत्वात् । अन्यथा ज्ञानस्वीकारेऽपि तुल्यत्वात् । स्मरणान्यथानुपपत्त्येति चेन्न । तस्याप्यसिद्धेः । अस्ति तावद्व्यवहा- रनिमित्तं किञ्चिदिति चेत् । किमतः ? । न ह्येतावता ज्ञानं तदिति सिद्ध्यति, प्रकाशः । अतीतादेरप्यर्थत्वात् , कारकविशेषस्य च कर्मत्वात् । अतीतानागतं जानामीति द्वितीयाप्रयोगः साधु- रिति तु तत्त्वम् । स्वाभाविकेति । यथा कर्तृव्यापारफलं विनाशः प्रतियोगिनिरूप्यः, तथा ज्ञानमपि विषयनिरूप्यमित्यर्थः । तद्विशेषणे त्विति । यदि योग्यानुपलब्ध्या योग्यस्य ज्ञानस्याऽभावोगृह्यते, तदा सिद्धमैन्द्रि- यकत्वं ज्ञानस्येत्यर्थः । तथाविधेति । साक्षात्कृतताऽनाश्रयत्वादित्यर्थः । आश्रयेति । ज्ञानस्याप्रत्य- क्षत्वे मानान्तरासम्भवेनाश्रयस्य ज्ञानस्यासिद्धेरित्यर्थः । ज्ञानस्य प्रत्यक्षतया स्वरूपासिद्धेरिति भावः । अज्ञाते घटादिव्यवहारो न स्यात् , तस्य व्यवहर्त्तव्यज्ञानसाध्यत्वादिति कार्येण कारणानुमानात् सिद्ध आश्रय इत्याह व्यवहारेति । ज्ञानहेतुत्वेनाभिमतादेवावश्यकान्द्यवहाराेपपत्तौ न तेन ज्ञानानुमानमि- त्याह ज्ञानेति । ज्ञानहेतुसद्भावेऽपि व्यवहाराभावान्न तेनान्यथासिद्धिरित्याह तस्येति । ज्ञान- हेतुसद्भावे सुषुप्तौ कुतो ज्ञानमेव न जायते ? तावन्मात्रस्याहेतुत्वादिति यदि, तदा या ज्ञानसामग्री सा व्यवहारसामग्र्यस्तु किमान्तरालिकेन ज्ञानेनेत्याह तावन्मात्रस्येति । अन्यथेति । ज्ञानमेव तदा किं न स्यादित्यर्थः । तस्यापीति । स्मरणस्यापि ज्ञानत्वेनातीन्द्रियत्वादसिद्धिरित्यर्थः । अत्राप्यनुभ- प्रकाशिका । ग्राह अत्रापीति । मकरन्दः । अस्तु वा स्मरणं, तथापि तदन्यथाऽनुपपत्त्या नानुभवसिद्धिः, तत्कारणेनान्यथासिद्धेरित्याह अत्रापीति । टिप्पणी । योग्यानुपलब्ध्या योग्यस्य ज्ञानस्येति । ज्ञानोपलम्भस्येत्यर्थः । अन्यथा ज्ञानाभाव- साधनस्यानुपक्रान्तत्वात् तथात्वे ज्ञातताया अप्यभावप्रसङ्गात् , अग्रे ज्ञानसाधनेन विरोध- प्रसङ्गाच्च । अतीतानागतं जानामीति द्वितीयाप्रयोगः साधुरिति । यथाऽन्वादियोगे कर्मसंज्ञाया- मपि न तस्य कर्मता, यथा च क्रियाविशेषणस्य कल्पितकर्मसंज्ञकत्वेऽपि न कर्मता, संज्ञाफलन्तु द्वितीया- प्रयोगसाधुत्वैव, तथा प्रकृतेऽपि सविषयकार्यकत्वात्वर्थयोगे कर्मसंज्ञां प्रयोगवलात् परिकल्प्य द्वितीयो- पपादनीया इति । द्वितीयाप्रयोगेन सार्वजनीनेन साधुः न कर्मार्थकंतया तस्यादिवन्द्वितीया प्रयोग- कल्पितसंज्ञामात्रफलीभूततया साधुरित्यर्थः ॥ अत्राप्यनुभवकारणादेवेति । अस्तु स्मरणं
४६४ व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तस्यैवासिद्धेः । तथापि नियतस्य कर्तुः प्रवृत्तेः कर्तृधर्मेणैव केनचित् प्रवृत्तिहे- तुना भवितव्यमिति चेत् । अस्तिवच्छा प्रत्यक्षसिद्धा, न तु ज्ञानम् । सैव कथं नियताधिकरणे उत्पद्यतामिति चेन्न । ज्ञानाभ्युपगमेऽपि तुल्यत्वात् । स्वहेतोः कुतश्चिदिति चेत् । तत एव इच्छा अस्तु, किं ज्ञानकल्पनयेति । स्यादेतत् । प्रकाशमाने खल्वर्थे तदुपादित्सादिरुपजायते, न तु सुषुप्त्यवस्था- यामप्रकाशमानेऽप्यर्थे इत्यनुभवसिद्धम् । तत इच्छायाः कारणं विलक्षणमेव किञ्चित् परिकल्पनीयं, यस्मिन् सति सुष्वापलक्षणमौदासीन्यमर्थविषयमात्मनो निवर्त्तते इति चेत् । हन्तैवं सुष्वापत्तिनिवृत्तिमनुभवसिद्धां प्रतिजानानेन ज्ञानमेवाप- रोक्षमिय्यते । अचेतयन्नेव हि सुषुप्त इत्युच्यते, अचैतन्यनिवृत्तिरेव हि चैतन्यं ज्ञान- मिति । तथाच कालात्ययापदिष्टो हेतुः । एतेन क्षणिकत्वादिति निरस्तम् । अपि च किमिदं क्षणिकत्वं नाम ? यद्या- शुतरविनाशित्वं, तदाऽनैकान्तिकम् । अथैकक्षणावस्थाायित्वं, तदसिद्धं प्रमाणा- भावात् । ननु स्थायिविज्ञानं यादृशमर्थक्षणं गृह्णदुत्पद्यते, द्वितीयेऽपि क्षणे किं तादृश- मेव गृह्णाति, अन्यादृशं वा, न वा कमपीति । न प्रथमः । तस्य क्षणस्यातीत- प्रकाशः । वकारणादेव स्मरणोत्पत्तिरित्यन्यथासिद्धिरिति भावः । तदिति । व्यवहारनिमित्तमित्यर्थः । तस्यै- वेति । ज्ञानासिद्धा व्यवहारे तज्जन्यत्वानिश्चयादित्यर्थः । कर्तृधर्मप्रवृत्तेः कर्तृधर्मकार्यत्वात् कर्तृधर्मतया ज्ञानं सिद्ध्येदित्याह तथा पीति । इच्छा स्वविषयविषयकात्मधर्मजन्या नियतविषयकधर्मत्वात् प्रय- त्नवदित्यभिप्रेत्याह सैवेति । अनुमानं ज्ञान एवानैकान्तिकमित्यभिप्रेत्याह ज्ञानेति । न च ज्ञानहे- तोरननुगमाद् व्यभिचारेण कारणत्वासम्भवः, परेषा मेकशक्तिमत्त्वेनापि कारणत्वग्रहसम्भवादिति भावः । अनुभवसिद्धमिति । यद्यप्येकात्मन्येकदा आश्रुतरविनाशिगुणत्रयानवस्थानादिच्छा- ज्ञानयोः पौर्वापर्याऽनुभवो न सम्भवति, तथापि ज्ञानव्यतिरेकाऽव्यवहितोत्तरकाले इच्छाव्यतिरेक- नियमात् कार्यकारणभावग्रह इति भावः । एतेनेति । कालात्ययापदेशेनेत्यर्थः । तदानैकान्तिकमिति । इच्छादावित्यर्थः । यादृशं, वर्त्तमान- क्षणावच्छिन्नम् । अन्यादृशं द्वितीयक्षणावच्छिन्नम् । तस्येति । द्वितीये क्षणे इत्यनुषज्जयते । वर्त्त- प्रकाशिका । परेषामिति तथा च तद्रीत्या ज्ञानहेतुनान्यथासिद्धिः स्यादेवेति भावः । यद्यपीति । कार्यकारणभावग्रहमादाय एकत्रैत्युक्तं प्रत्यक्षे विषयस्य समसमयतया हेतुत्वमित्यभिमानेन चैतदुपपादनीयम् । तथापीति । व्यतिरेकपदं प्रागभावपरम् , अन्यथा ज्ञाननाशेऽपीच्छासत्त्वा- न्नियमभङ्गापत्तेः । वर्त्तमानतेति । मकरन्दः । परेषामिति । तथा च तन्मते ज्ञानहेतुना तदन्यथासिद्धिः स्यादेवेति भावः । तथापीति । अत्र व्यतिरेकपदं प्रागभावपरम् । अन्यथा ज्ञाननाशेऽपीच्छासत्त्वान्नियमभङ्गापत्तेः । टिप्पणी । तथापि तदनुपपत्त्या नानुभवकल्पनं युज्यते, अनुभवं विनाप्यनुभवकारणत्वेनाभिमतादेव संस्कारा-
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६५ त्वात् । प्रत्यक्षज्ञानस्य च वर्त्तमानाभत्वात् । न चातीतमेव वर्त्तमानाभतयोल्लिखति, भ्रान्तत्वप्रसङ्गात् । न द्वितीयः, विरम्य व्यापारायोगात् । प्रथमोऽपि तथाभ्यु- पगमेऽनागतावेक्षणप्रसङ्गात् । न तृतीयः । ज्ञानत्वहानेरिति महाप्रतीयाः । तदसत् । ज्ञानं गृह्णातीत्यस्यैवार्थस्यानभ्युपगमात् । अपि तु तदेव ग्रहणमित्य- भ्युपगमः । तथा च ज्ञानं प्रथमे क्षणे यमर्थमालम्ब्य जातं, द्वितीयेऽपि क्षणे तदा- लम्बनमेव तन्न वेति प्रश्नार्थः । तत्र तदालम्बनमेव तदिति परमार्थः । न चैवं भ्रान्तत्वम् । विपरीतानवगाहनात् । तथापि ज्ञेयनिवृत्तौ कथं ज्ञानानुवृत्तिः, तद- नुवृत्तौ वा कथं ज्ञेयनिवृत्तिरिति चेत् । किमस्मिन्नुपपन्नम् । न हि ज्ञानमर्थश्चे- त्येकं तत्त्वमेकायुष्कं वेति । सत्यपि वा क्षणिकत्वे कथमप्रत्यक्षम् ? इत्थं यथो- च्यते— न स्वप्रकाशं, वस्तुत्वादितरवस्तुवत् । न च ज्ञानान्तरग्राह्यं, ज्ञानयौगपद्य- निषेधेन समानकालस्य तस्याभावात् । ग्राहककाले ग्राह्यस्यातीतत्वेन वर्त्तमाना- भत्वानुपपत्तेः । ग्राह्यकाले च ग्राहकस्यानागतत्वात्—इति चेत् । नन्वेवं ज्ञातताऽपि न प्रत्यक्षा स्यात्, क्षणिकत्वात् । कथम् ? इत्थम्—न स्वप्रकाशा वस्तुत्वात् । न जनकग्राह्या, अनागतत्वात्, विरम्य व्यापारायोगाच्च । न समसमयज्ञानग्राह्या, ज्ञानजनकेन्द्रियसम्बन्धाननुभवात् । न च तदुत्तरज्ञानग्राह्या, तदानीमतीतत्वा- दिति । क्षणिकत्वमेव तस्याः कुत इति चेत् । त्वदुक्तयुक्तैरेव । तथाहि—यं क्षणमाश्रित्य जाता ततः परमपि तमेवाश्रयतेऽन्यं वा, न वा कमपीति । तत्र न प्रथमः । तस्य तदानीमसत्त्वात् । न द्वितीयः । अप्रतिसंक्र- प्रकाशः । मानाभत्वादिति । वर्त्तमानविषयत्वादित्यर्थः । विरम्येति । ज्ञानं हि यं विषयीकृत्य उत्पन्नं, न तं जहाति, नान्यं वा विषयीकरोतीति ज्ञानस्वभावादित्यर्थः । न च प्रथमत एव तद्विषयीकरणे हेतु- रस्ति, भावित्वेनार्थस्य तदानीमवर्त्तमानत्वादित्याह प्रथमोऽपीति । द्वितीयक्षणे पूर्वक्षणविषयी- भूतस्यार्थस्य वर्त्तमानता भासते, तथाच तत्क्षणनाशेऽपि तथाविधमर्थं विषयीकुर्व्वज्ज्ञानम्भ्रान्तमेवो- त्तरक्षणेऽवतिष्ठते इति नोक्तदोष इत्याह तत्रेति । किमस्मिन्निति । ज्ञानार्थयोर्यौगपद्ये इत्यर्थः । स्वप्रकाशमिति । स्वप्रकाशत्वाप्रसिद्धावपि इदं घटज्ञानं नैतस्य विषयो ज्ञानत्वादित्यर्थः । ग्राहकेति । ग्राहकज्ञानकाले ग्राह्यं ज्ञानं नास्ति, ग्राह्यज्ञानकाले च तद्ग्राहकं ज्ञानमनागतमित्यर्थः । ज्ञातताजनकं यज्ज्ञानं तदेव न तद्ग्राहकं, तत्काले ज्ञातताया अनागतत्वेन वर्त्तमानत्वाभावादित्याह न जनकेति । ननु ज्ञातताजनकमेव ज्ञानं ज्ञाततां जनयित्वा तां ग्रहीष्यतीत्यत आह ज्ञानजनकेति । ज्ञाततासमकालोत्पन्नज्ञानेन न तद्ग्रहः, ज्ञातताजननोत्तरकाले तदिन्द्रियसम्बन्धस्य प्राप्त्या तत्स- मकालं तदभावादित्यर्थः । अनुभवेति । भू प्राप्तावित्येतस्य रूपम् । अप्रतिसंक्रमादाश्रयान्तरागम- प्रकाशिका । प्रथमक्षणावच्छिन्नतेत्यर्थः । तत्तक्षणेति । प्रथमक्षणेत्यर्थः । तथाविधमिति । प्रथमक्षणावच्छि- न्नमित्यर्थः । तथा च पाकरक्ते श्यामप्रतीतिवत् प्रमात्वमिति भावः । स्वप्रकाशत्वाप्रसिद्धाविति । मकरन्दः । वर्त्तमानतेति । प्रथमक्षणावच्छिन्नता भासते इत्यर्थः । तत्तक्षणेति । प्रथमक्षणनाशेऽपीत्यर्थः । तथाविधं प्रथमक्षणावच्छिन्नमित्यर्थः । पाकरक्ते श्यामोऽयमितिधिवदिति भावः । स्वप्रकाशत्वाप्रसिद्धाविति । सिद्धौ वा तत्रैवानैकान्तिकमिति भावः । ५६न्या० कु०
४६६ · व्याख्यातृत्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायो- मात् । एकक्षणावगाहिति च ज्ञाने तदन्यक्षणाऽऽश्रयज्ञातताफलत्वेन भ्रान्तत्वप्र- प्रकाशः । नादित्यर्थः । एकक्षणेति । अन्यविषयकज्ञानेनान्यत्र ज्ञातताजनने जनकज्ञानं भ्रमः स्यादित्यर्थः । प्रकाशिका । तत्सिद्धौ च तत्रैवानैकान्तिकत्वमिति भावः । अन्यविषयकेति । ज्ञातता चान्यवहिःपूर्वक्षण- मेवावच्छेदकतयावलम्बत इति प्रमायामप्येवंसति भ्रमत्वप्रसङ्ग इत्यवधेयम् । न च रजतज्ञा- नस्यापि शुक्तिविषयकत्वान्नान्यविषयकत्वमिति मूलस्थदृष्टान्तासङ्गतिरिति वाच्यम् । अन्यथा- ख्यात्यनभ्युपगन्तृमतेन मूलस्थदृष्टान्तोपपत्तेः, तथा च तन्मते यथा शुक्त्यविषयकरजतज्ञानस्य शुक्तिनिष्ठज्ञातताजनकत्या भ्रमव्यवहारास्पदत्वं तथात्रापि स्यादित्यर्थः । न च तद्विषयकत्वे कथं मकरन्दः । अन्यविषयकेति । न च रजतज्ञानस्यापि शुक्तिविषयत्वान्नान्यविषयकत्वमिति वाच्यम् । परमतेऽन्यथाख्यात्यनभ्युपगमेनातथात्वात् । तथा च शुक्त्यविषयकरजतस्मरणस्य शुक्तिनिष्ठज्ञातता- जनकत्वेन यथा भ्रान्तत्वं, तथा प्रकृतेऽपि स्यादिति भावः । न च ज्ञानस्य स्वविषयज्ञातताजननेऽ- तिप्रसङ्ग इति वाच्यम् । भेदाग्रहादेर्नियामकत्वादन्यथा व्यवहारजननेऽपि तदापत्तेरित्याशयः । टिप्पणी धानेन स्मरणोपपत्तेरिति भावः । अन्यविषयकज्ञानेनान्यत्र ज्ञातताजनन इति । अन्यधर्मा- वच्छिन्नविषयताकज्ञानेन अन्यधर्मावच्छिन्ने ज्ञातताजनन इत्यर्थः, तेन न रजतादीत्यादिमूलस्थ- दृष्टान्तासङ्गतिः, यथाश्रुते रजतज्ञानस्यापि शुक्तिविषयकत्वेनान्यत्र ज्ञाततेत्यादेरभावात् । केचित्तु अन्यथाख्यात्यनभ्युपगमपक्षे स्वाविषयनिष्ठज्ञातताजनकत्वमेव भ्रमत्वम् । इदं रजतमिति भ्रमाभिषिक्त- स्थले रजतप्रमया शुक्तौ ज्ञातताजननात्तत्र यथा भ्रमत्वं तथा प्रकृते वर्त्तमानक्षणावच्छिन्नविषयज्ञाने- नान्यत्रानागतक्षणावच्छिन्ने ज्ञाततापेक्षया वर्त्तमानावच्छिन्ने ज्ञातताजननाद् भ्रमत्वमित्याहुः । तच्चि- न्त्यम् । ज्ञाततावादिभट्टमते उत्तरकर्तृन्यायमते चान्यथाख्यात्यभ्युपगमात्; तदन्यतरमतावलम्बनेनैव कस्यचिदित्यर्थस्य वक्तुं युक्तत्वात् । किञ्चान्यथाख्यात्यनभ्युपगन्तृमते ज्ञातताया एवानभ्युपगमात् तस्या ज्ञानज्ञानार्थमभ्युपगमेन स्वप्रकाशतामतेऽन्यथैव तत्सिद्धेः, स्वविषयकेनेदंज्ञानेनैव च ज्ञाततोत्पत्तेः सम्भवे रजतज्ञानस्य तदुत्पादकत्वे मानाभावादतिप्रसङ्गाच्च । न च रजतज्ञानेदंज्ञानयोर्भेदग्रहाद् रजतार्थिनः पुरोवर्त्तिनि प्रवृत्त्यादिवत् पुरोवर्त्तिनि ज्ञाततामपि रजतज्ञानं जनयिष्यतीति वाच्यम् । शुक्तिज्ञानमात्रस्य रजतार्थिप्रवृत्तिजनकत्वाददर्शनाद्, रजतज्ञानभेदाग्रहापेक्षायामस्तु हि रजतज्ञानस्य प्रवृत्तावुपयोगः, शुक्तिज्ञानमात्रस्य तत्र ज्ञातताजनकत्वस्य क्लृप्ततया तत्र भेदाग्रहस्यापेक्षाकल्प- नस्यासम्भवात् । न च बाधोत्तरं रजतत्वेन शुक्तिरित्त्यनुभवाद्रजतत्वेन ज्ञाततोत्पत्तौ रजतज्ञाना- पेक्षा स्यादिति वाच्यम् । विषयत्वातिक्तिस्य ज्ञातत्वस्य रजतत्वावच्छिन्नत्वे मानाभावात् । भावे वा किमपराद्धं हि रजतत्वेन शुक्तिविषयतया तथासत्यन्यथाख्यात्यापत्तिः; प्रभाकरैश्च रजतत्वेन ज्ञातत्वस्य रजतत्वज्ञानभेदेनागृहीतशुक्तिज्ञानविषयत्वरूपत्वस्यैव स्वीकरणीयत्वात् । एव- न्दार्ष्टान्तिके घटस्यैव विषयत्वाज् ज्ञातताधारत्वाच्चान्यत्वभावाद् विशिष्टताम्पुरस्कृत्य भेदेऽन्यथापि सङ्गतेरुक्तत्वात् । न चान्यथाख्यातिपक्षे कथं सङ्गतिः, यस्य ज्ञातता तस्यैव विषयत्वे पूर्वक्षणादीनाम- विषयत्वेनान्यथाख्यात्यभावप्रसङ्गात्, विषयत्वस्य ज्ञाततानियतत्वे ज्ञातताधारस्याविषयत्वेन ज्ञान- स्यान्यथाख्यातित्वासम्भवादिति वाच्यम् । प्रकारविशेष्ययोरुभयोरेव ज्ञातताया विनिगमनाविरहे- णानुभवानुरोधेन च स्वीकरणीयत्वात् । प्रकारीभूतक्षणज्ञाततामादाय तस्यापि विषयत्वात् विशेष्ये ज्ञाततायाः क्षणान्तरसम्बन्धे स्वीकारे तस्य विषयत्वापत्त्याऽन्यथाख्यातेरापादनीयत्वात् । वस्तुतो
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४६७ सङ्गात् , रजतावगाहिति पुरोवर्त्तिवृत्तिज्ञातताफल इव । न चान्यमपि क्षणं ज्ञान- मवगाहते, तदानीं तस्यासत्त्वात् । न तृतीयः । निःस्वभावताप्रसङ्गात् । न ह्यसौ तदानीं तदीयान्यदीया वेति । अतीतेनापि तेनैव क्षणेनोपलक्षितानुवर्त्तते इति चेत् । एवं तर्हि वर्त्तमानार्थता प्रकाशस्य न स्यात् । अन्यथा ज्ञानस्यापि तथानुवृत्तेः को प्रकाशः । ननु क्षणान्तरमपि ज्ञातताजनकज्ञानस्य स्वतन्त्रो विषय इति न तद्भ्रम इत्यत आह न चेति । पूर्वक्षणे तदुत्तरक्षणस्यावर्त्तमानत्वादित्यर्थः ॥ एवं तर्हीति ॥ विषयवर्त्तमानतया ज्ञानस्य वर्त्तमानार्थता, सा च ज्ञानस्यातीतक्षणोपलक्षितविषयतायां न स्यादित्यर्थः ॥ तथेति ॥ अती- तेनापि क्षणेनोपलक्षितस्य वर्त्तमानार्थतयाऽनुवृत्तेरित्यर्थः । ननु ज्ञाततापक्षे अर्थनिरपेक्षवर्त्तमान- प्रकाशिका । तन्निष्ठज्ञातताजनकत्वमिति वाच्यम् । भेदाग्रहसाहित्येन व्यवहारजनकत्ववदुपपत्तेः । विषय इति । तथा च विषयतानिष्ठैव ज्ञाततेति न तज्जनकज्ञानं भ्रम इति भावः । पूर्वक्षण इति । तथा चोत्तरक्षणस्य ज्ञानविषयत्वान्न ज्ञातताश्रयत्वमिति भावः । विषयवर्तमानतयेति । ज्ञानविषयीभूतक्षणविशिष्टज्ञातता- सम्बन्धेनेत्यर्थः । विषयतायां ज्ञाततायामित्यर्थः । न स्यादिति । उत्तरक्षणे विशेषणीभूतक्षणविवक्षणा- दित्यर्थः । एतेनातीतक्षणोपलक्षितज्ञाततानुवृत्तौ पूर्वपक्षितायां यथाश्रुतविषयेत्यादिप्रकाशानुसारेणोत्तरम- सङ्गतमिति परास्तम् । एवन्तर्हीत्यादि फक्किकायां प्रकाशपदं ज्ञानपरमेव तेन न प्रकाशविरोधः । मूले एव च नहीत्यादौ अर्थनिरपेक्षेत्यादौ अर्थ मा भूदित्यादौ च प्रकाशपदं ज्ञाततापरमित्यवधेयम् । मकरन्दः । सा च ज्ञानस्येति । यद्यपि ज्ञानस्यातीतक्षणोपलक्षितविषयता न पूर्वपक्षिता, किन्तु ज्ञात- ताया अतीतज्ञानोपलक्षितायाः क्षणान्तरेऽनुवृत्तिः, तत्र च ज्ञानस्य वर्त्तमानार्थता न स्यादित्युत्तरम- सङ्गतम्, तथापि ज्ञानस्य ज्ञाततागोचरस्यातीतक्षणोपलक्षितज्ञातताविषयतायां वर्त्तमानार्थता न स्यादित्यर्थो बोध्यः । न चातीतक्षणस्योपलक्षणत्वमेव ज्ञाततायाश्च वर्त्तमानत्वमेवेति कथं वर्त्तमाना- र्थता, तज्ज्ञानस्य स्यादिति वाच्यम् । निराश्रयज्ञातताया ज्ञानगोचरत्वे ज्ञाततायामुपलक्षणस्यापि क्षणस्य ज्ञाने विशेषणत्वाभ्युपगमात् । वस्तुतो वर्त्तमानार्थता वर्त्तमानाश्रयता प्रकाशस्य ज्ञातताया न स्यादिति मूलार्थः प्रतिभाति । अत एवान्यथा ज्ञानस्यापीति फक्किका सङ्गच्छते । न हीत्यादि- फक्किकायामपि प्रकाशपदं ज्ञाततापरमेव, अन्यथा तद्वैयर्थ्यापत्तेः । प्रकाशे ‘नाश्रीयत’ इत्यग्रिम- 'फक्किकायामपि तथैवेति तदनुसारेण सर्वं योज्यमिति युक्तमुत्पश्यामः । टिप्पणी । विषयत्वानुपपत्तावेव तात्पर्यम् अविषये ज्ञाततोत्पत्तावतिप्रसङ्गात् । विषये च ज्ञाततोत्पत्तेरसम्भवा- न्निःस्वभावं ज्ञानं स्यादिति । भ्रमत्वापादनस्य चायमाशयः—प्रत्यक्षज्ञानस्य वर्त्तमानावभास- कत्वानुरोधेन वर्त्तमानक्षणस्य विषयत्वं त्वयाभ्युपेयम्, ज्ञाततामभ्युपगच्छताऽविषये ज्ञातत्वोत्पत्तौ ज्ञातताश्रयक्षणान्तरावच्छिन्नस्यापि विषयत्वमभ्युपेयमिति भ्रान्तत्वापत्तिस्त- वेति । एतेनातीताप्रकारीभूतवर्त्तमानक्षणे ज्ञाततोत्पत्त्यसम्भवेऽपि न क्षतिः । न हि विषयता ज्ञाततानियता विषयत्वस्य स्वरूपसम्बन्धात्मकस्यैव तेनाभ्युपगमात्, ज्ञातता हि विषयतानियता अन्य- थातिप्रसङ्गादभ्युपेयेति सर्वमवदातम् । एवन्तर्हीतीति । विषयवर्त्तमानतया ज्ञानस्येति । यद्यपि पूर्वापरमूलपर्यालोचनया प्रकाशपदमूलस्थं ज्ञाततार्थकमेव प्रतीयते, तथापि ज्ञातताया वर्त्त- मानार्थत्वाभावे ज्ञानस्य वर्त्तमानार्थावभासत्वानुपपत्तिरेव दोषः पर्यवस्यतीति पर्यवसितार्थकथनमेवेदं बोध्यं न तु व्याख्यानम् । यद्वा ज्ञानस्य ज्ञाततागोचरस्यातीतक्षणोपलक्षितज्ञातताविषयतया वर्त्तमान-
४६८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां दोषः । न हि वर्त्तमानार्थप्रकाशसम्बन्धमन्तरेण ज्ञानस्यान्या वर्त्तमानावभासता प्रकाशः । ज्ञाततासम्बन्धमात्रेणैव तज्जनकज्ञानस्य वर्त्तमानावभाता ऽर्थात्यये ऽप्युपपद्यते । त्वन्नयेऽर्थ- स्यातीतत्वाज्ज्ञाततायाश्चाभावात् सा नोपपद्येतेत्यत आह न हीति ॥ विषयवर्त्तमानतया वर्त्तमानावभाताज्ञानस्य न स्ववर्त्तमानतया । ज्ञाततायाश्च क्षणिकत्वेन तज्ज्ञानकाले नाशा- प्रकाशिका । अन्यथेतिमूलम् । प्रथमे क्षणे तद्विशिष्टज्ञाततासम्बन्धमात्रेणैवोत्तरक्षणेऽपि ज्ञानस्य वर्त्तमानार्थत्व इत्यर्थः । विषयवर्त्तमानतयेति । ज्ञानविषयीभूतक्षणविशिष्टज्ञाततासम्बन्धेनेत्यर्थः । नस्ववर्त्तमान- तयेति । ज्ञाततामात्रवर्त्तमानतयेत्यर्थः । ज्ञाततायाश्चेति पूर्वक्षणविशिष्टाया विशेषणविरहादुत्त- रक्षणेऽसत्त्वमेव क्षणिकत्वम् । तदुत्तरज्ञानकाल इति वस्तुगतिमनुरुध्योक्तम्, तदुत्तरकाल इत्येव विवक्षितम् । न विषयवर्त्तमानतेति । न पूर्वक्षणात्मकविषयविशिष्टज्ञाततावर्त्तमानत्वमित्यर्थः। मकरन्दः । तज्जनकेति । तद्विषयज्ञानस्येत्यर्थः, तेन नोत्तरविरोधः । ननूक्तं वर्त्तमानज्ञाततासम्बन्ध- मात्रेणैव वर्त्तमानभावत्वमित्यत आह ज्ञाततायाश्चेति । यदि च स्थूलकालाश्नयत्वान्न तस्याः क्षणि- टिप्पणी । कालस्याविषयतया वर्त्तमानावभाषता न स्यादित्यर्थः । यतः प्रकाशस्य ज्ञातताया न वर्त्तमानार्थता न वर्त्तमानार्थस्वरूपताऽतीतकालघटितत्वात् स्वज्ञानक्षणे स्वस्यावर्त्तमानत्वाच्चेति मूलार्थः । वर्त्त- मानज्ञाततासम्बन्धमात्रेणेति । जन्यजनकभावरूपसम्बन्ध इत्यर्थः । वर्त्तमानावभार्था- त्थयेऽपीति । वर्त्तमानक्षणावच्छिन्नस्य द्वितीयक्षणेऽत्ययेऽपि । उपपद्यत इति । तत्रैव द्वितीयक्षणेऽपि यदि ज्ञानं स्वीक्रियते तदाभ्युपपद्यते इत्यर्थः, तेनेदानीम्प्रत्यक्षत्वाय ज्ञाने क्षणिक- त्वस्य स्वीकृतत्वेऽपि न विरोधः । त्वन्नये=न्यायनये । सा नोपपद्यत इति । द्वितीयक्षण इति शेषः । विषयवर्त्तमानतयेति । ज्ञानविषयीभूतक्षणोपलक्षितज्ञाततासम्बन्धेन ज्ञानस्य द्वितीयक्षणे वर्त्तमानतयेत्यर्थः । वस्तुतो विषयस्य या वर्त्तमानता ज्ञानक्षणरूपा तेनैव ज्ञाततोपलक्षकेन वर्त्तमान- क्षणोपलक्षितज्ञाततयेत्यर्थः । वर्त्तमानावभाताज्ञानस्य न स्ववर्त्तमानतया इति । ज्ञाततामभ्युपग- म्यापि त्वया ज्ञातताया उपलक्षिकया विषयस्य वर्त्तमानतया ज्ञानविषयवर्त्तमानक्षणरूपया अर्थात्ता- दृशक्षणोपलक्षितज्ञाततयैव वर्त्तमानावभाता वाच्या, तथासति मयापि ज्ञानस्य वर्त्तमानावभासता तादृशक्षणोपलक्षितविषयकत्वेनैव द्वितीयक्षणेऽप्युपपादयितुं शक्येति क्षणिकत्वस्य ज्ञाने ज्ञाततायाश्च स्वीकारो नावश्यक इत्याशयः । न ज्ञानस्य वर्त्तमानावभासता स्वस्य ज्ञानस्य वर्त्तमानतया त्वया वाच्या । तथात्वे वेत्यस्य तथात्वे चेत्यर्थः । तथात्वे ज्ञानवर्त्तमानतया वर्त्तमानावभासरूपत्वे । इदञ्च प्रकाशव्या- ख्यानम् । प्रतीते ज्ञानत्वासम्भवात् मूलस्थप्रकाशानुवृत्तीत्यत्रापि प्रकाशपदस्य ज्ञानार्थत्वमभ्युपेत्य । ननु मया न वर्त्तमानक्षणोपलक्षितज्ञाततया न वा ज्ञानवर्त्तमानतया किन्तु वर्त्तमानक्षणावच्छिन्नार्थ- निष्ठज्ञाततया सोच्यत इति यद्यापत्तितो ब्रूयात्तत्राह ज्ञाततायाश्चेति । घटादिज्ञानस्थलेऽपि यद्यपि ज्ञातताया तथात्वासम्भवस्तथापि ज्ञातताज्ञानस्थले तादृशज्ञातताया ज्ञानविषयस्य ज्ञातत्वस्यैवासम्भ- वेन सर्वथाऽसम्भव इति तथोक्तम् । यद्वा स्ववर्त्तमानतया इत्यर्थस्य ज्ञाततामात्रवर्त्तमानतयेत्यर्थः । मूलस्थप्रकाशपदमपि ज्ञाततापरमेव भवति तदेव युक्तन्नहीत्यादिपूर्वग्रन्थे प्रकाशपदस्य तदर्थकत्वात् ज्ञानरूपप्रकाशस्य ज्ञानेनासम्बन्धादिति तस्यैव क्षणिकस्य ज्ञातत्वस्य ज्ञानसत्त्वकाले [ज्ञाततानिष्ठ- ज्ञाततोत्पत्तया आधारत्वेनाभिमत अभावात्तत्र ज्ञाततोत्पत्तेरसम्भवेन ज्ञाततावर्त्तमानत्वेन वर्त्तमाना-
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम्। ४६६ नाम। अर्थनिरपेक्षप्रकाशनानुवृत्तमात्रेण तथात्वे भूतभाविषयस्यापि ज्ञानस्य तथाभावप्रसङ्गात्। अथ मा भूदयं दोष इति स्थूल एव वर्त्तमानः प्रकाशेनाश्रीयते इत्यभ्युपगमः, तदा तज्ज्ञानस्यापि स एव विषय इति तस्यापि न क्षणिकत्वमिति । ननु ज्ञानमैन्द्रियकं चेद् विषयसञ्चारो न स्यात्। संजातसम्बन्धत्वात्। न च जिज्ञासानियमन्नियमः। तस्याः संशयपूर्वकत्वात्। तस्य च धर्मिज्ञानपूर्वकत्वात्। धर्मिणश्च सन्निधिमात्रेण ज्ञाने जिज्ञासापेक्षत्वे वा उभयथाऽप्यनवस्थानादिति । तन्न। ज्ञाततापक्षेऽपि तुल्यत्वात्, तस्या अपि हि ज्ञेयत्वे तत्परम्पराज्ञानापाताज्जि- ज्ञासानियमस्य च तद्वदनुपपत्तेः। न च इन्द्रियसम्बन्धविच्छेदाद्विराम इति युक्तम्। आत्मप्रकाशाव्यापनात्। स्वभावत एव काचिदसावजिज्ञासितापि ज्ञायते, न प्रकाशः। न्नार्थविषयवर्त्तमानता तथात्वे वा अतीतादिविषयकमपि ज्ञानं वर्त्तमानभं स्यात्। एवञ्चाग्रिम क्षणे अतीतज्ञातताविषयकं ज्ञानं न वर्त्तमानामं स्यादित्यर्थः ॥ ननु यदि ज्ञानं मानसं स्यात्तदा विषयान्तरग्रहो न स्यात् , संयुक्तसमवायरूपाया मनःप्रत्यासत्तेः सदा सत्त्वेन ज्ञानपरम्पराया एव ज्ञेयत्वादित्याह— नन्विति ॥ ननु ज्ञानं योग्यं मनःप्रत्यासन्नमपि जिज्ञासाज्ञेयमिति तन्नियमान्नोक्तदोष इत्यत आह न चेति ॥ सामान्यतो ज्ञाते विशेषतश्चाज्ञाते जिज्ञासा जायते इति सामान्यतो ज्ञानानुभवो वाच्यः, तस्यापि यदि जिज्ञासावैरपेक्ष्येण सन्निकर्षमात्राद् ग्रहः, तदाऽस्य सदातनत्वाद् ग्रहण- परम्पराया अविच्छेदादनवस्था। अथ तद्ग्रहेऽपि सा नियामिका, तदा तस्या अपि सामान्यतो ज्ञानार्थं जिज्ञासा वाच्या । साऽपि सामान्यज्ञानपूर्विका, तदपि जिज्ञासाऽधीनजन्मेति पूर्वपूर्वज्ञाना- पेक्षायामनवस्थेत्युभयथानवस्थार्थः। अत्र किञ्चिज्ज्ञानमजिज्ञासितं ज्ञायते, किञ्चिज्जिज्ञासितं, किञ्चिन्न ज्ञायत एवेत्यनियमान्नोक्तदोष इत्यभिप्रेत्य समाधातुं प्रतिवन्दिमुखेनाह ज्ञाततापक्षेऽपीति ॥ ननु चक्षुरादिना सम्बन्धविच्छेदाज्ज्ञातताग्रहविच्छेदः स्यादित्यत आह न चेति ॥ बाह्ये तथा प्रकाशिका। तथात्वे वेति। ज्ञाततावर्तमानत्वमात्रेणैव ज्ञानस्य वर्त्तमानाभावत्व इत्यर्थः। अतीतेति । क्षणरूप- विशेषणतयादेवातीतत्वम्, एवञ्चैतत्प्रघट्टकस्य कुटिलिकान्याख्यां विना मूलप्रकाशयोर्न परस्परं मकरन्दः। कत्वं, तदा ज्ञानस्यापि न स्यादित्याकर एव स्फुटम् । तथात्वे वेति । यदि स्ववर्त्तमानतया वर्त्तमा- टिप्पणी। वभासत्वासम्भव इत्यर्थः । अतीतादावपि यदि ज्ञाततोत्पत्तिरभ्युपेयते तदाह तथात्वे 'वेति । अथवा स्वाविषयनिष्ठयापि यदि वर्त्तमानज्ञाततया ज्ञातताज्ञानस्य स्वविषयघटादिनिष्ठवर्त्तमानज्ञाततया वर्त्तमानाभासत्वं स्यात्तत्राह तथात्वे वेति । अतीतादिज्ञानस्थलेऽपि कदाचित् स्वाव्यवहितपूर्व- क्षणोत्पन्नवर्त्तमानविषयज्ञानजन्यज्ञाततायाः स्वोत्पत्तिकक्षण उत्पत्तिमम्भवेन तया वर्त्तमानया तस्यापि वर्त्तमानाभासत्वं स्यादित्यर्थः। एवञ्चेति। विषयवर्त्तमानतयैव वर्त्तमानाभत्वे चेत्यर्थः । ज्ञातता- ज्ञानस्थले ज्ञातताया कथमपि वर्त्तमानावभासत्वं नोपपादयितुं शक्यते इति ज्ञानविषयक्षणोपलक्षित- विषयकत्वेन ज्ञानस्य वर्त्तमानावभासता द्वितीयक्षणेऽप्युपपादयितुं शक्येति न ज्ञानस्य क्षणिकत्वं न वाऽप्रत्यक्षत्वम्, नापि च ज्ञानज्ञानोपपादनाय ज्ञाततत्वं स्वीकरणीयमिति तात्पर्यार्थः । ज्ञातता- याश्च क्षणिकत्वेन तज्ज्ञानकाल इति। इदमुपलक्षणम्—ज्ञाततावर्तमानतया वर्त्तमानावभासत्वे विनश्यदवस्थविषयक्षणोत्पन्नप्रत्यक्षस्य तथात्वं न स्यात् स्वोत्तरक्षणे विषयाभावेन ज्ञाततोत्पत्तेर-,
४९० व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां तु सर्व्वेति चेत्, तुल्यम् । प्रागुत्पन्नज्ञाततास्मरणजनितजिज्ञासः समुन्मीलितनयनः सञ्जातज्ञानसमुत्पादितप्राकट्यं जिज्ञासुरेव प्रतिपद्यते इत्यतो नानवस्थेति चेत्। तुल्यमेतत् ॥ ननु ज्ञानं न सविकल्पकग्राह्यं, तस्य निर्विकल्पकपूर्वकत्वाद् निर्विकल्पकगृही- तस्य तावत्कालानवस्थानात् तस्य तेनैव विनाशात् । नापि केवलनिर्विकल्पक- वेद्यम् । तस्य सविकल्पकोन्नेयत्वेन तदभावे प्रमाणाभावात् । न च समवायाभाव- वन्निर्विकल्पकनिरपेक्षसविकल्पकगोचरत्वं ज्ञानस्येति साम्प्रतम् । तयोर्विशेपणां- शस्य प्राग्ग्रहणादनुमानादिवत्तदुपपत्तेः । प्रकृते तु ज्ञानत्वादेरनुपलब्धेरगृहीत- प्रकाशः। सम्भवेऽप्यात्मज्ञाततायां मनःसम्बन्धविच्छेदो न सम्भवतीत्यर्थः ॥ तुल्यमिति ॥ ज्ञानमपि किञ्चिदुद्भूतत्वाभावात्तद्ग्राहकात्ममनःसंयोगविशेषाभावाद्वा न ज्ञायते इत्यर्थः । पूर्वोत्पन्न- ज्ञाततायाः सामान्यतोऽग्रहादिदानीन्तन्यापि ज्ञातता ज्ञातेवेति तत्संस्काराधीनज्ञाततासामान्यजिज्ञासा- यामिन्द्रियसन्निकर्षादिदानीन्तनी ज्ञातता ज्ञायते इत्येवमनवस्थापरीहारो ज्ञानप्रत्यक्षत्वेऽपि तुल्य इति शङ्कोत्तराभ्यामाह प्रागिति ॥ तावत्कालेति ॥ घटज्ञानस्य तन्निर्विकल्पकाज्ज्ञानत्वविशि- ष्टज्ञानकाल एव नाशाद् विशेष्यनाशे सति तद्विशेष्यकज्ञानत्वविशिष्टज्ञानानुत्पादः स्यात् । प्रत्यक्ष- विशिष्टज्ञानस्य स्वसमानकालीनविशेष्यकत्वनियमादित्यर्थः ॥ तस्येति ॥ निर्विकल्पकस्यातीन्द्रिय- त्वाभ्युपगमेन सविकल्पकैकोन्नेयतया तदभावे तत्र मानान्तराभावादित्यर्थः ॥ समवायेति ॥ समवायवदभाववच्चेत्यर्थः ॥ तयोरिति ॥ समवायाभावयोर्विशेषणयोः सम्बन्धिप्रतियोगिनोर्ज्ञाना- नन्तरमेव ज्ञानाद्विशिष्टज्ञानसामग्रीनियमेन तथात्वेऽपि ज्ञाने ज्ञानत्वरूपविशेषणस्य पूर्वमज्ञानात् कथं तद्विशिष्टज्ञानमित्यर्थः। तथाच जानामीति वर्त्तमानज्ञानवैशिष्ट्यज्ञानमात्मनि न जायेतेति भावः। अत्र किञ्चिज्ज्ञानं निर्विकल्पकैकवेद्यं किञ्चित्सविकल्पकैकवेद्यं किञ्चिच्चावेद्यमेवेत्यऽनियम प्रकाशिका। सङ्गतिरिति निपुणेन निरूपणीयम् । उद्भूतत्वाभावादिति । योग्यविशेषगुणत्वेन ज्ञानेऽप्युद्भूत- त्वस्वीकार इति भावः। मनःसंयोगेति । अन्यतरकर्म्मजत्वव्याप्यजातिविशेषविशिष्टसंयोगाभावा- दित्यर्थः । इदं च समाधिद्वयमापाततो वस्तुतः फलवलेन विषयान्तरज्ञानसामग्री सुखादिसामग्री च प्रतिवन्धिकेति कल्पनीयमिति सिद्धान्तो द्रष्टव्यः । ननु विषयस्य पूर्ववर्त्तितामात्रेव साक्षात्कारहेतु- त्वमिति ज्ञाननाशक्षणे अनुव्यवसायोत्पत्तौ न विरोध इत्यत आह तथाचेति । तथा स्वीका- रेऽपि जानामीति वर्त्तमानतत्प्रतीतिरनुपपन्नैवेत्यर्थः । निर्विकल्पकैकेति । निर्विकल्पकत्वं च ज्ञानत्वांशे विषयस्य पूर्वज्ञातत्वेन तदंशे विशिष्टज्ञानसामग्रीसत्त्वादित्यवधेयम् । इदञ्चाग्रे वस्तुतो मकरन्दः। नाभवमित्यर्थः । एवञ्चेति । वर्त्तमानज्ञाततासम्बन्धस्यापि तदानीमभावादिति भावः। उद्भूतत्वाभा- वादिति, प्राचीनमते । निर्विकल्पकैकेति । तज्जन्याग्रिमविशिष्टज्ञानस्यैव तत्र मानत्वान्न पूर्व- टिप्पणी सम्भवात् । एतेन ज्ञाततायाः क्षणिकत्वस्य तदभिमतत्वेऽपि न क्षतिः। संयोगविशेषाभावाद्वा न- ज्ञायत इत्यर्थ इति । इदमापातः, वस्तुतः फलवलेन बहिरर्थज्ञानसामग्र्याः सुखादिसाम- ग्र्याश्च प्रतिबन्धकत्वकल्पनाद् विषयान्तरसञ्चारसम्भवः । तथा च जानामीति वर्त्तमान- ज्ञानेति । विषयस्य पूर्ववर्त्तित्वेनैव हेतुत्वे निर्विकल्पकोत्तरं ज्ञानप्रत्यक्षसम्भव इत्यत आह वर्त्त- मानेति । तथा च विषयस्यावर्त्तमानत्वेन वर्त्तमानाभासो न स्यादिति भावः । किञ्चिज्ज्ञानं निर्विकल्पकैकेति । प्रथमज्ञानं तस्य सविकल्पकासम्भवात् । किञ्चित् सविकल्पकैकवेद्य-
चतुर्थस्तवके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४७१ विशेषणायाश्च बुद्धेर्विशेष्यानुपसंक्रमात् कथमेवं स्यात् । न । उत्पन्नमात्रस्यैव बाह्यविषयज्ञानस्यालोचनात् । ततस्तत्पुरःसरं प्रथमत एव तज्जातीयस्य ज्ञानान्त- रस्य विकल्पनात् । इन्द्रियसन्निकर्षस्य तदैव विशेषणग्रहणलक्षणसहकारिसम्पत्तेः । व्यक्त्यन्तरसमवेतमपि हि सामान्यं गृहीतं तदेवेत्युपयुज्यते, अन्यथा अनुमानादि- प्रकाशः । इति नोक्तदोष इत्यभिप्रेत्याह उत्पन्नेति ॥ व्यवसायानाशक्षणोत्पन्नज्ञानान्तरे ज्ञानत्वविशिष्टज्ञानं प्रथमत एव जायते, व्यवसायानिष्ठविशेषणस्य ज्ञानत्वस्य निर्विकल्पकेन विषयीकृततया सम्भूतसामग्रीकत्वात् , तन्निष्ठतया विशेषणज्ञानस्य गौरवेणाप्रयोजकत्वात् । नन्वन्यव्यक्तिसमवेतत्वेन विशेषणज्ञानं न विशिष्टज्ञानजनकं, घटान्तरवृत्तित्वेन गुणक्रियादीनां विशेषणानां ज्ञानेऽपि घटान्तरे तद्विशिष्टज्ञाना- नुत्पादात् । ग्राह्यव्यक्तिवृत्तितया च तस्य प्रकृतेऽसम्भवात् । तदुत्पादानन्तरं ग्राह्यज्ञानव्यक्ति- नाशात् प्रत्यक्षानुपपत्तेरित्यत आह व्यक्त्यन्तरेति ॥ व्यक्त्यन्तरवृत्तित्वेनापि ज्ञानत्वस्य ज्ञानं तज्जातीयव्यक्त्यन्तरेषु विशिष्टज्ञानं जनयति, विशेषणस्य ज्ञानत्वस्याभेदात् । यथा पर्वतोऽ- भिमानित्यनुमितिमन्त्यव्यक्तिनिष्ठतया वह्निमत्त्वस्य विशेषणस्य ज्ञानं जनयति, वह्निभेदेऽपि वह्नि- मत्त्वस्य उपाधिर्विशेषणस्याभेदात् , अन्यथा अनुमित्युच्छेद इत्यर्थः ॥ ननु ज्ञानान्तरस्य निर्विकल्पकविषयस्य सविकल्पकवेद्यस्योत्पत्तौ हेत्वभावः, अनुमिनो- मीत्यनुव्यवसाये तदसम्भवश्च, सामग्र्यऽभावात् । उच्यते । आत्ममनःसंयोगस्य ज्ञानात्म- प्रकाशिका: । ज्ञानस्येत्यादिग्रन्थेन प्रकाशकृदेव व्यक्तीकरिष्यति । अत एव तत्र मानान्तराभावादिति पूर्वदूषणम- पास्तम् , तादृशनिर्विकल्पके प्रत्यक्षस्यैव मानत्वात् । तज्जन्यविशिष्टज्ञानस्य वा मानत्वात् । ननु इन्द्रिय- सन्निकर्षादिसामग्रीवलादेव तादृशं प्रत्यक्षं स्यादत आह अनुमिनोमीति । तत्रानुमित्यनन्तरस्य सिद्धयप्रतिबन्धकत्वादिति भावः । व्यवसायानाशक्षणे तद्विशेष्यकं न ज्ञानं किन्त्वात्मविशेष्यकमिति मकरन्दः । दोष इति भावः । ननु सामग्रीवलात्प्रत्यक्षं सम्भवत्येवेत्यत आह अनुमिनोमीति । क्वचित् प्रत्य- क्षस्य सम्भवेऽपि तत्रानुमितित्वस्य बाधादनुमित्यन्तरस्य सिद्धसावनेनानुत्पादात्तत्रासम्भव एवे- टिप्पणी । मिति । प्रथमज्ञानाशक्षणोत्पन्नस्वस्थितिक्षणोत्पन्नसविकल्पकविषयीभूतं तदानीं तस्य निर्विकल्पका- सम्भवात् सविकल्पकारणस्य विशेषणनिर्विकल्पककस्य प्राग्भूतत्वात् । किञ्चिच्चावेद्यमिति । प्रतिबन्धकीभूतबहिरर्थप्रत्यक्षसामग्रीक्षणोत्पन्नन्तदुत्तरक्षणे बहिरर्थप्रत्यक्षस्यैवोत्यादात् । प्रथमत एव जायत इति । एतेन तन्निर्विकल्पकापेक्षाप्यवच्छेदः, विशेष्यज्ञानस्याकारणत्वात् । ग्राह्य- व्यक्तिवृत्तितयेति । तथाचान्यवृत्तित्वज्ञानस्य प्रतिबन्धकत्वं वाच्यं स्यात् तदभावस्य च कारणत्वं तदपेक्षया लाघवात्तद्वृत्तितया विशेषणज्ञानस्य कारणत्वमेव वाच्यमिति भावः । एतेन ग्राह्यव्यक्ति- वृत्तितयेत्यस्य नासङ्गतिः । विशेषणज्ञानत्वस्याभेदादिति । तथाचैतादृशस्थले नोक्तप्रतिबन्ध- कत्वस्य कारणत्वस्य चावश्यकत्वमिति भावः । विशेषणस्याभेदादिति । इदञ्च सामान्यलक्षणान- भ्युपगमेन तदभ्युपमे क्वचित् पर्वते कस्यचिद् वह्निज्ञाने तत्पर्वतवृत्तितयापि तद्वह्नेर्ज्ञानात् । यद्वा यत्रानुमितिपूर्वं महानसादावेव वह्निमत्वं गृहीतं तदभिप्रायेण योजनेयम् । अन्यथानुमित्यु- च्छेद इति । उक्तप्रतिबन्धकत्वे कारणत्वे च । उत्पत्तौ हेत्वभाव इति । बहिरर्थविषयकप्रथम- ज्ञानसामग्र्यास्तदुत्पत्तिक्षणे सत्त्वे तस्याः प्रतिबन्धकत्वाज्ज्ञानत्वनिर्विकल्पकमेव न स्यात् । ज्ञानोत्प-
४७२ व्याख्यात्रयोपेतप्रकाशबोधनीयुतेन्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यायां चिकलपानामनुत्पादप्रसङ्गः। तद्गतस्य विशेषणस्याऽग्रहणाद्, अन्यगतस्य चानुप- प्रकाशः। समवायस्य च पूर्वसिद्धत्वेनोत्पन्नं ज्ञानं मनसा सम्बद्धञ्चेत्येकः कालः। ततो ज्ञातत्वनिर्विकल्पकस्यो- त्पादो ग्राह्यज्ञानस्य विनश्यत्ता सविकल्पकस्योत्पद्यमानतेत्येकः कालः। ततः सविकल्पकस्योत्पादो ग्राह्यज्ञानस्य विनाशो निर्विकल्पकस्य विनश्यत्तेत्येकः काल इत्येवमसमानकालत्वेन विशेष्यस्य ज्ञानस्य नाशक्षण एव ज्ञाने ज्ञातत्वविशिष्टज्ञानम्। विशेष्यस्य ज्ञानस्य विशिष्टज्ञानाव्यवहितपूर्ववर्तितया कारणत्वाविरोधात्। प्रत्यक्षस्य सम्बद्धवर्त्तमानार्थजन्यत्वेऽपि स्वसमानकालतया विशेष्यस्याऽहेतु- त्वात्, गौरवात्, यथा द्वे द्रव्ये इत्यत्र यथार्थविशिष्टज्ञानं द्वित्वनाशकालेऽपि, अन्यव्यवहितपूर्व- कालवर्त्तितया द्वित्वस्य विशेषणस्य विशिष्टज्ञानहेतोर्ज्ञानात्। विशिष्टज्ञानं जानामीति च वर्त्तमानत्वेन स्थूलकालोपाधिर्भासते, न तु क्षणः, तस्यातीन्द्रियत्वात्। यद्वा ज्ञानं ज्ञातत्वञ्च निर्वि- कल्पके भासते, ततो ज्ञातत्ववैशिष्ट्यं ज्ञाने, ज्ञानवैशिष्ट्यञ्चात्मनि भासते, विशेष्ये विशेषणं विशेषणे विशेषणान्तरं भासते इत्येव विशिष्टवैशिष्ट्यार्थः। वस्तुतो ज्ञानस्य विषय- निरूप्यतया समवायाभावयोरिव विशिष्टज्ञानसामग्रीसत्त्वाद् निर्विकल्पकं नास्त्येव, ज्ञाने विषयस्य विशेषणत्वात् तज्ज्ञाननैयत्येन सविकल्पकस्यैव सम्भूतसामग्रीकत्वात्। तथाच तदेव ज्ञानं ज्ञातत्वांशे प्रकाशिका। विशेष्यस्य समानकालत्वेन साक्षात्कारजनकत्वेऽपि विशेषणस्य च यथार्थविशिष्टज्ञानं प्रति स्वरूपतो जनकत्वेऽपि च न विरोध इत्याशयेनाह यद्वेति। तदेवेति। नरसिंहाकारकज्ञान इत्यर्थः। एवं प्रत्यक्षे विशेष्यसमसमयत्वं जानामीत्यत्र तमेव क्षणमादाय वर्त्तमानत्वञ्चोपपन्नम्। विशेष्ये विशेषण- मकरन्दः। त्यर्थः। व्यवसायनाशक्षणे तद्विशेष्यकं न ज्ञानं, किन्त्वर्थविशेष्यकमेव, तथा च विशेष्यस्य स्वस- मयवर्त्तितया प्रत्यक्षहेतुत्वेऽपि न दोष इत्याशयेनाह यद्वेति। विषयांशे इति। तथा च सविक- ल्पकतया तस्य योग्यत्वात्तत्रैव ज्ञातत्वविशिष्टधीस्तदात्मकस्यैव ज्ञातत्वरूपविशेषणज्ञानस्य पूर्वं टिप्पणी त्तिक्षणे विनष्टाया निर्विकल्पकक्षणे पुनः सम्पत्तेर्दुष्करत्वात्। प्रथमज्ञानाविषयार्थस्य तृतीयक्षणे विशिष्ट- बुद्धे सर्वथैवासम्भवः तद्धेतोर्निर्विकल्पकस्य प्रागनुत्पत्तेरुत्पत्तौ ज्ञातत्वनिर्विकल्पकासम्भवादिति भावः। अनुमिनोमीत्यनुव्यवसाय इति। उत्पन्नज्ञानुमित्यनन्तरनिर्विकल्पकेनानुमितित्वग्रहे तदनन्तरमनु- मितिव्यक्त्यन्तरोत्पादासम्भवात् सिद्धेः प्रतिबन्धकत्वात् क्षणविलम्बोत्पादेऽपि तदन्यस्य तत्क्षणे तत्प्रत्यक्षस्यासम्भवाद्यौगपद्यात्, तदात्मकस्य जातिसाङ्कर्येणासम्भवादुत्तरकालं विशेषणज्ञानविर- हेणासम्भवादिति भावः। ज्ञातत्वविशिष्टज्ञानमिति। अत्र पक्षे आत्मनोऽपि ज्ञाने विशेषण- त्वमेव मयि ज्ञानमित्यनुव्यवसायाकारः। विशिष्टज्ञाने = विशिष्टज्ञानस्थले। द्वित्वनाशकालेऽ- पीति। इदञ्चापेक्षाबुद्धेर्द्विक्षणव्यवस्थायित्वमेव स्वीकारणीयम्, अन्यथा विभुविशेषगुणनाशत्वा- वच्छिन्नं प्रति स्वोत्तरोत्पन्नविभुविशेषगुणत्वेन कारणतायां नावश्यतावच्छेदकेऽपेक्षाबुद्धयन्यत्वप्रवेशेन गौरवं स्यात्, तच्च निष्प्रामाणिकं द्वित्वप्रत्यक्षस्य विषयस्य पूर्ववर्तित्वमात्रेण कारणतायाव्युपपत्तेः समकालत्वस्य तत्र गौरवेणाप्रवेश्यत्वादित्यभिप्रायेण। स्थूलोपाधिर्भासते तेन ज्ञाननाशकालेऽपि तादृशप्रत्यक्षस्य नार्थोपत्तिः।। यद्वा ज्ञानं ज्ञातत्वञ्च निर्विकल्पक इति। अत्र पक्षे ज्ञानस्यापि विशेषणतया तज्ज्ञानार्थनिर्विकल्पे ज्ञानस्यापि विषयत्वकथनम्। विशिष्टवैशिष्ट्यार्थ इति। अत्र पक्षे आत्ममनोविशेष्यत्वेन प्रत्यक्षज्ञाने विषयस्य समानकालत्वेऽपि न क्षतिः। ज्ञानं ज्ञातत्वञ्च
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४७३ योगात्, किं लिङ्गग्रहणसहकारि स्यादिति । एतेन शब्दादिप्रत्यक्षं व्याख्यातमिति । स्यादेतत् । विषयनिरूप्यं हि ज्ञानमिष्यते । न चातीन्द्रियस्य परमाण्वादेर्म- नसा वेदनमस्ति । न चागृहीतस्य विशेषणत्वम् । न च नित्यपरोक्षस्यापरोक्ष- विशिष्टबुद्धिविषयत्वं व्याघातादिति । न । बाह्येन्द्रियग्राह्यस्याग्राह्यस्य वा पूर्व- ज्ञानोपनीतस्यैव मनसा वेदनात् । अन्यथाऽतीन्द्रियस्मरणस्याप्यनुत्पत्तिप्रसङ्गात् । इयांस्तु विशेषः—तस्मिन् सति तद्बलादेव, असति तु तज्जनितवासनावलात् । न चैवंसति स्मरणमेतत् । अगृहीतज्ञानगोचरत्वात् । न च विषयांशे तत्तथा प्रकाशः। निर्विकल्पकं, विषयांशे सविकल्पकमित्युभयरूपमेव, अंशभेदेनाविरोधात् । अनुमिनोमीत्यादौ तु न तथा, अनुव्यवसाये अनुमितित्वाभावात् । ग्रन्थस्तु ज्ञानान्तरस्य सामग्रीसत्त्वाद् यत्र सम्भवस्तत्परतया नेयः ॥ एतेनेति ॥ एकगकारादिनिष्ठतया गत्वादिनिर्विकल्पकेन गत्वादिविशिष्टज्ञानकाले एकगादि- व्यक्तेर्नशेऽपि गादिव्यक्त्यन्तरे गत्वादिविशिष्टज्ञानमित्यर्थः । ननु ज्ञानस्य विषयावच्छिन्नस्यैव मानसप्रत्यक्षत्वादतीन्द्रियार्थविषयज्ञानस्य न मानसत्वं, परमाण्वादेरतीन्द्रियत्वात्• अतस्तद्दृष्टान्ते- नैतज्ज्ञानस्याप्यमानसत्वमनुमेयम्, न चाप्रयोजकत्वम्, वाह्येन सह मनसः सन्निकर्षाभावलक्षण- प्रतिकूलतर्कस्य विपक्षबाधकत्वादिति शङ्कते स्यादेतदिति ॥ ज्ञानोपनीतविषयेण संयुक्तसमवेत- विशेषणताऽऽत्मकज्ञानरूपमनःप्रत्यासत्त्या मनसैव प्रत्यक्षाऽप्रत्यक्षविषयग्रहः, न चाऽतीन्द्रियत्व- व्याघातः, योगजधर्माजन्य-जन्यस्वविषयकसविकल्पकाजन्यजन्यप्रत्यक्षाऽविषयस्यातीन्द्रियत्वादिति परिहरति बाह्येति ॥ यदि च ज्ञानसंस्काराद्यपेक्षमपि मनो नातीन्द्रियार्थग्राहकं ततस्तत्करणिका स्मृतिरतीन्द्रिये न स्यादित्याह अन्यथेति ॥ ननु यदि ज्ञानादनुव्यवसायः स्मरणञ्च स्यात्, तदाऽनुव्यवसायः साक्षात्कारी, न तु स्मरणमिति कुतो नियम इत्यत आह इयांस्त्विति ॥ तस्मिन्निति ॥ ज्ञाने विद्यमाने तद्रूपप्रत्यासत्तेस्तदनुव्यवसायः साक्षात्कारी, ज्ञाने त्वऽसति संस्कार- रूपप्रत्यासत्तेस्तदन्यप्रत्यासत्त्यभावान्च्च स्मरणं परोक्षमेवेत्यर्थः । तथाप्यनुव्यवसायो व्यवसायगृहीत- गोचरत्वेन गृहीतग्राहित्वात् स्मृतिः स्यादित्यत आह न चैवमिति ॥ अगृहीतेति ॥ ज्ञानस्य व्यवसायाविषयस्यैवानुव्यवसायविषयत्वादित्यर्थः । अर्थांशे गृहीतग्राहित्वेऽपि न घटस्य विशेष्यता, प्रकाशिका। मिति न्यायेन नरसिंहाकारज्ञानोत्पत्त्यनन्तरमेव जानामीति प्रत्ययोत्पत्तेरिति भावः । अनुमिनो- मीति । आदिपदादुपमिनोमीत्यादिसंग्रहः । इदमुपलक्षणम्—पश्यामीत्यादावपि नेयं गतिरिति द्रष्टव्यम् । योगजेति । सामान्यलक्षणप्रत्यासत्त्यजन्येत्यपि विशेषणमत्र द्रष्टव्यम् । संयुक्त- विशेषणताया इति । इदमुपलक्षणम्—संस्कारातिरिक्तविशेष्यसन्निकर्षसत्त्वादित्यत्र तात्पर्यम् । मकरन्दः। सत्त्वादिति भावः । अत एवाह अनुमिनोमीत्यादाविति । योगजधर्माज्न्येति । अत्र सामान्यलक्षणप्रत्यासत्त्यजन्येत्यपि विशेषणं बोध्यम् । टिप्पणी निर्विकल्पके भासते इति यदुक्तं तत्राह वस्तुत इत्यादि । अनुमिनोमीत्यादाविति । तथा च व्यवसायात्तरक्षणे व्यवसायगृहीतविषयविशिष्टत्वेन ज्ञानविषयकतया सविकल्पकस्य ज्ञानत्वविष- ६० न्या० कु०
४७४ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ४ कारिकाव्याख्यार्था स्येदिति युक्तम् । अवच्छेदकतया प्रागवस्थावदवभासनात् । न च प्रत्यभिज्ञान- मपि ग्रहणस्मरणोकारम् । विरोधात् । अथ ग्रहणस्मरणयोः कियती सामग्री ? अधिकोऽर्थसन्निकर्षो ग्रहणस्य, संस्कारमात्रं सन्निकर्षः स्मरणस्य । अथ ग्रहणत्वेऽपि कुत एतदपरोक्षाकारम् ? कारणान्तरनिरपेक्षेण संस्कारा- धिकसन्निकर्षवतेन्द्रियेण जनितत्वात् । अथ कः संनिकर्षः ? ज्ञानेन संयुक्त- समवायः, तदर्थेन संयुक्तसमवेतविशेषणत्वमिति । मनसो निरपेक्षस्य वहि- र्व्यापारेऽन्धवधिराद्यभावप्रसङ्ग इति चेत् । ज्ञानावच्छेदकं प्रति नायं दोषः । न च ज्ञानापेक्षया वहिरित्यस्ति । नापि तद्विषयापेक्षयां निरपेक्षत्वं, तस्यैव ज्ञानस्या- पेक्षणात् । अथापि ज्ञानं प्रत्यक्षमित्यत्र किं प्रमाणम् ? प्रत्यक्षमेव । यदसूत्रयत्- 'ज्ञानविकल्पानां भावाभावसंवेदनादध्यात्मम्' ( न्याय० ५. १. ३१ ) इति ॥ ४ ॥ प्रकाशः । किन्तु ज्ञाने विशेषणता तत्तावदित्याह अवच्छेदकतयेति ॥ यथा प्रागवस्थास्मरणसहकारिणा चक्षुषा जनिते प्रत्यभिज्ञाने प्रागवस्थायाः संयुक्तविशेषणतया स्फुरणं, न स्मरणं, तथा व्यवसाय- सहकारिणा मनसा जनितेऽनुव्यवसाये संयुक्तसमवेतविशेषणतया विषयस्फुरणेऽपि न तस्य स्मरण- त्वमित्यर्थः । ननु प्रत्यभिज्ञानमपि तत्तांशे स्मरणमेव, इदन्त्वांशे त्वनुभव इत्यत आह न चेति ॥ स्मृतित्वानुभूतित्वजात्योर्व्याप्यवृत्तित्वेनांशाऽस्त्वेरित्यर्थः ॥ अथेति ॥ संस्कारजत्वाविशेषात् प्रत्य- भिज्ञानमनुभवो, न स्मृतिरिति कुतो नियम इत्यर्थः । अधिक इति ॥ संस्कारातिरिक्तायाः संयुक्त- विशेषणतायाः प्रत्यासत्तेः प्रत्यभिज्ञाने सत्त्वादित्यर्थः ॥ अथ संस्कारजन्यत्वेन स्मृतिवत्प्रत्यभिज्ञानं परोक्षमेव कुतो नेत्याशयेन पृच्छति अथेति ॥ उत्तरं- कारणान्तरेति ॥ लिङ्गाद्यनपेक्षेनेत्यर्थः । न च विनिगमकाभावः । प्रत्यभिज्ञाने अनुभवामीत्य- नुव्यवसायसाक्षिकत्वादनुभवत्वस्येति भावः । वस्तुतस्तत्तास्मृतिजन्यमेव प्रत्यभिज्ञानं, न संस्कार- जन्यम्, अन्यथा संस्कारद्वारा पूर्व्वानुभवस्य तत्करणतया ज्ञानकरणतया तस्य परोक्षतापत्तिः, तत्तास्मृतेश्च निर्व्यापारत्वेनाऽकरणत्वादिति तत्त्वम् ॥ ज्ञानेति ॥ इन्द्रियादिजनितव्यवसायापेक्षस्य मनसो वहिःप्रवृत्तेर्न स्वातन्त्र्येणेति नोक्तदोष इत्यर्थः । समाधानान्तरमाह न चेति ॥ साधकबाधकाभावात् संशयः स्यादित्याशयेन पृच्छति अथेति ॥ उत्तरं-प्रत्यक्षमेवेति ॥ जानामीति मानसप्रत्यक्षमेव ज्ञानप्रत्यक्षत्वे मानमित्यर्थः । तत्र सूत्रकारसम्मतिमाह यदिति ॥ ज्ञानविकल्पानां ज्ञानभेदानां प्रत्यक्षादीनां भावाभावौ, अस्ति प्रकाशिका । न तु तत्तयैव समं संयुक्तविशेषणतेत्यस्यार्थोऽतीतेन विषयेण सह लौकिकसन्निकर्षस्याजनकत्वात् । न च स्मृतिघटिता संयुक्तसमवेतविशेषणतेति तत्परोऽयं ग्रन्थ इति वाच्यम् । संस्कारजन्यत्वं प्रत्यभिज्ञानस्येति मतेनैतद्ग्रन्थावतार इति, अन्यथा स्वसंस्कारजन्यत्वेनेत्यग्रिमग्रन्थानुपथानात् । न च विनिगमकेति । इन्द्रियजन्यतया तत्प्रत्यक्षत्वे संस्कारजन्यतया च स्मृतित्व इत्यर्थः । ज्ञानावच्छेदकतयेत्यादिना समं नापि तद्विषयेत्यादिपौनरुक्त्यनिरासायाह समाधानान्तरं- मकरन्दः। न च विनिगमकेति । इन्द्रियजन्यतया प्रत्यक्षत्वं संस्कारजन्यतया स्मृतित्वं वेत्यत्र विनिगमकाभाव टिप्पणी यकत्वेन निर्विकल्पकस्यैव ज्ञानस्य जायमानस्योत्तरं विशेष्ये विशेषणमिति रीत्या ज्ञानांशे ज्ञानत्वाव-
चतुर्थस्तबके ] स्मृतेर्मितान्तरत्वखण्डनम् । ३७५ ननु नेश्वरज्ञानं प्रमा, नित्यत्वेनाफलत्वात् । नापि प्रमाणम् । अकारकत्वात् । अत एव न तदाश्रयः प्रमातेति । उच्यते- मितिः सम्यक् परिच्छित्तिस्तद्वत्ता च प्रमातृता ॥ तदयोगव्यवच्छेदः प्रामाण्यं गौतमे मते ॥ ५ ॥ समीचीनोऽनुभवः प्रमेति व्यवस्थितम् । तथा च अनित्यत्वेन विशेषण- मनर्थकम् । नित्यानुभवसिद्धौ तद्व्यवच्छेदस्यानिष्टत्वादसिद्धौ च व्यवच्छेद्या- भावात् । नचेदमनुमानम्, आश्रयासिद्धिबाधयोरन्यतराक्रान्तत्वात् । न तत्प्रमा- ॥ प्रकाशः ॥ मे प्रत्यक्षं ज्ञानं, नास्ति मे प्रत्यक्षं ज्ञानमित्याकारेणाधुना मनसा संवेद्येते इत्यर्थः । न्यायरुचिं प्रति आशुविनाश्यात्मविशेषगुणत्वेन सुखवत् प्रत्यक्षत्वमनुमेयमिति भावः ॥ नित्यत्वेनेति ॥ नित्यत्वेन फलानात्मकत्वादित्यर्थः । प्रमायाश्च क्रियात्वेन जन्यत्वादिति भावः ॥ नापीति ॥ निर्व्यापारत्वेनाकारक तया तद्विशेषकरणत्वस्याभाव इत्यर्थः ॥ अत एवेति ॥ समवायिकारणस्य प्रमातृत्वादित्यर्थः ॥ अनित्यत्वेनेति ॥ यथार्थानुभवत्वमेव प्रमात्वं नित्या- नित्यसाधारणम् । न च क्रियात्वविरोधः, धात्वर्थमात्रस्यैव नित्यानित्यसाधारणस्य सत्तादेरिव क्रियात्वात् । अनित्यत्वेन तद्विशेषणस्य गौरवेण व्यर्थत्वादित्यर्थः । दूषणान्तरमाह नित्येति ॥ न चेश्वरज्ञानं न प्रमा फलानात्मकत्वाद् गगनवदित्यनुमानमपि सम्भवतीत्याह न चेदमिति ॥ नापि प्रमाणमित्यत्र सिद्धसाधनत्वमेवेत्याह न तत्प्रमाकरणमिति ॥ स्वप्रमां प्रति तस्या- प्रकाशिका । मिति । आशुविनाशीति धर्मादौ व्यभिचारवारणाय विशेषणमिदम् । द्वित्वादौ व्यभिचार- इति विशेषेति । रूपा दौ व्यभिचार इत्यतिमेति । न चोभयत्र साध्यमेव स्वरूपयोग्यताया एव साध्यत्वात् , अन्यथा प्रत्यक्षविषयज्ञानव्यक्तौ व्यभिचारादिति वाच्यम् । मानसप्रत्यक्षविषयगुणत्व- व्याप्यजातिमत्त्वस्य साध्यत्वात् । चतुर्थक्षणवर्त्तिध्वंसप्रतियोगिताव्याप्यजातिमदात्मविशेषगुणत्वञ्च हे- तुरतो नाशुविनाशिसंस्कारव्यक्तौ व्यभिचारः । निर्व्यापारत्वेनेति । प्रमाऽनुकूलव्यापारशून्यतया प्रमां प्रत्यकारकतेत्यर्थः । न च क्रियात्वेति । तथा च न क्रियासम्बन्धनिमित्तकस्य कारण- पदस्य प्रयोग इति न प्रमातृपदप्रयोगः स्यादिति भावः । स्वप्रमामिति । स्वसमानाधिकरण- मकरन्दः । इत्यर्थः । आशुविनाशीति धर्मादौ व्यभिचारवारणार्थमिदम् । अन्त्यशब्दस्याप्रत्यक्षत्वप्रस्ते तत्र व्यभिचारादाह आत्मनीति । आत्ममनोद्वित्वे व्यभिचारादाह विशेषेति । न च निर्विकल्पकजीवन- योनियत्नयोर्व्यभिचारः, मानसप्रत्यक्षजातीयत्वस्य साध्यत्वात् । वस्तुतस्तु तदन्यत्वेन विशेषणान्न व्यभिचार इति । निर्व्यापारत्वेनेति । प्रमाऽनुकूलव्यापारशून्यतया तदाकारक तया इत्यर्थः । यद्यपि कूटलि- ङ्गादिस्थलेऽनुमितिप्रमाकरणत्वं तस्येष्यत एव, तथापि स्वप्रमां प्रति न तथात्वमिति भावः । न च क्रियात्वेति । क्रियासम्बन्धं विना कारकत्वाभावात्तद्विशेषप्रमातृत्वस्यासम्भव इत्यर्थः । स्वप्रमामिति । स्वसमानाधिकरणप्रमामित्यर्थः । टिप्पणी । गाहिज्ञानं जायते ज्ञानत्वविशिष्टवैशिष्ट्यावगाहिज्ञानस्य सम्भवात् पूर्वं ज्ञानत्वप्रकारकज्ञानस्य तत्का-
४७६ न्यायव्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [५ कारिकाव्याख्यायां करणमिति त्विष्यत एव, प्रमया संबन्धाभावात्। तदाश्रयस्य तु प्रमातृत्वमेत- देव, यत् तत्समवायः। कारकत्वे सतीति तु विशेषणं पूर्ववन्निर्थकमनुसन्धेयम्। यद्येवम् 'आप्तप्रामाण्यात्' (न्याय० २. ६. ६७) इति सूत्रविरोधः। तेन हीश्वरस्य प्रामाण्यं प्रतिपाद्यते, न तु प्रमातृत्वमिति चेन्न। निमित्तसमावेशेन व्यवहार- समावेशाविरोधात्। प्रमासमवायो हि प्रमातृव्यवहारनिमित्तं, प्रमया स्वयोगव्यव- च्छेदेन सम्बन्धः प्रमाणव्यवहारनिमित्तं, तदुभयञ्चेश्वरे। अत्रापि कार्य्येति विशे- षणं पूर्ववदनर्थक मूहनीयम्। स्यादेतत्—प्रमीयतेऽनेनेति प्रमाणं, प्रमिणोतीति प्रमातेति कारकशब्दत्व- मनयोः, तथा च कथमकारकमर्थ इति चेत्। न। एतस्य व्युत्पत्तिमात्रनिमित्त- त्वात्। प्रवृत्तिनिमित्तन्तु यथोपदर्शितमेव व्यवस्थापनात्। अन्यथा अस्मदादिषु न प्रमातृव्यवहारः स्यात्, सर्वत्र स्वातन्त्र्याभावात्। करणव्यवहारस्त्वन्यत्र यद्यप्यन्यनिमित्तकोऽपि, तथापीहोक्तनिमित्तविवक्षयैवेति। एवन्तर्हि पञ्चमप्रमा- णाम्युपगमेऽपसिद्धान्तः। न हि तत् प्रत्यक्षमनुमानमागमो वा, अनिन्द्रियलिङ्ग- प्रकाशः। करणत्वमिष्यत एवेत्यर्थः। अस्मदादिप्रमां प्रति तु तत्करणत्वं वर्त्तत एव, तस्य सर्व्वापारत्वा- दिति भावः॥ तदाश्रयस्येति॥ प्रमासमवायित्वस्यैव प्रमातृत्वात् तत्र तत्कारणान्तर्भावस्य व्यर्थत्वादित्यर्थः॥ पूर्ववदिति॥ सिद्धयसिद्धयोरुभयोरपि व्यावर्त्याभावादित्यर्थः। यदीश्वरस्य न प्रमाणत्वमिष्यते, तदा न्यायसूत्रप्रतिपादिततत्प्रमाणत्वविरोध इत्याह यद्येवमिति॥ प्रमया त्विति॥ चक्षुरादीनामपि चरमसहकारिक्षणे प्रमया अयोगव्यवच्छेदेन सम्बन्धस्य विद्यमान- त्वादित्यर्थः॥ पूर्ववदिति॥ सिद्धयसिद्धयोरुभयोरपि व्यावर्त्त्याप्रसिद्धेरित्यर्थः॥ सर्वत्रेति॥ यदि प्रमाकर्तृत्वेन प्रमातृत्वं, तदा अस्मदादीनामपि तदभावात् प्रमातृव्यवहारो न भवेत्-तद- नुकूलप्रयत्नवत्त्वं हि स्वातन्त्र्यम्, तत्कर्तृत्वं सर्वप्रमायामस्मदादीनामपि नास्ति, अस्मदादि- प्रयत्नं विनाऽप्यस्मदादिप्रमोत्पत्तेरित्यर्थः॥ अन्यत्रेति॥ लोक इत्यर्थः॥ अन्यनिमित्तकोऽ- प्रकाशिकाः। प्रमामित्यर्थः। तदनुकूलेति। तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः। अस्म- दादीनामपीति। जन्यात्मविशेषगुणमात्रस्यैवेश्वरमात्रकर्तृकत्वाभ्युपगमादिति भावः॥ ५॥ मकरन्दः। यदीश्वरस्येति। यद्यपि पूर्वं तज्ज्ञानस्य न प्रामाण्यमित्युक्तं न तु तस्य, तथापि तुल्यन्याय- तया तदप्युक्तप्रायमेवेति भावः। तदनुकूलेति। तदुपादानगोचरतदनुकूलज्ञानेच्छाकृतिमत्त्वलक्षणमित्यर्थः। अस्मदादीना- मिति। जन्यात्मविशेषगुणमात्रस्यैवेश्वरकर्तृकत्वेनाभ्युपगमादिति भावः॥ ५॥ टिप्पणी। रणस्याभावात्। तदुत्पत्त्यन्तरञ्च विशिष्टवैशिष्ट्यावगाहिघटमहं जानामीत्याकारकं प्रत्यक्षं जायते प्रथमस्या- नुव्यवसायस्य व्यवसायमादायापलक्षितवैशिष्ट्यावगाहिज्ञानस्यानुव्यवसायरूपमेव वर्त्तमानज्ञानमादाय
चतुर्थस्तबके ] स्मृतेर्मानान्तरत्वखण्डनम् । ४७७ शब्दकरणत्वात्। न, साक्षात्कारिप्रमावत्तया प्रत्यज्ञान्तर्भावाद् इन्द्रियार्थसन्निकर्षो- त्पन्नत्वस्य च लौकिकमात्रविषयत्वात्। स्यादेतत्—तथापीश्वरज्ञानं न प्रमा, विपर्ययत्वात्। यदा खल्वेतदस्मदादि- विभ्रमानालम्बते, तदैतस्य विषयमस्पृशतो न ज्ञानावगाहनसम्भव इति तदर्थोऽ- प्यालम्बनमभ्युपेयम्, तथा च तदपि विपर्ययः, विपरीतार्थालम्बनत्वात्। तदनवगाहने वा अस्मदादेर्विभ्रमानविदुषस्तदुपशमायोपदेशानामसर्वज्ञपूर्वकत्व- मिति। न। विभ्रमस्याप्रामाण्येऽपि तद्विषयस्य तत्त्वमुल्लिखतोऽभ्रान्तत्वात्। अन्यथा भ्रान्तिसमुच्छेदप्रसङ्गः। प्रमाणाभावात्। तथाप्यारोपितार्थावच्छिन्न- ज्ञानालम्बनत्वेन कथं न भ्रान्तत्वमिति चेत्। न यद् यत्र नास्ति तत्र तस्याव- गतिरिति भ्रान्त्यर्थत्वात् एतदालम्बनस्य चैवमुल्लिखतः सर्वत्र यथार्थत्वात्। न हि न तद्रजतं, नापि तन्नासत्, नापि तन्नावगतमिति ॥ ५ ॥ प्रकाशः। पीति ॥ अयोगव्यवच्छेदेन जनकत्वनिमित्तकोऽपीत्यर्थः। कारकविशेषवाचकः प्रमाणशब्द ईश्वरे वर्त्तते, किन्त्वन्यथेति भावः॥ साक्षात्कारीति ॥ साक्षात्कारिप्रमया त्वयोगव्यवच्छेदेन सम्बन्धस्य सम्भवेन प्रत्यक्षप्रमाणान्तर्भावान्नोक्तदोष इत्यर्थः। साक्षात्कारित्वं त्वीश्वरप्रमाया धर्मि- ग्राहकमानसिद्धमित्यर्थः। यथाश्रुतं सूत्रन्तु लौकिकप्रत्यक्षविषयमित्याह इन्द्रियार्थेति ॥ नन्वीश्वरस्य सर्वज्ञत्वेन सविषयभ्रमज्ञानाच्चीश्वरोऽपि भ्रान्तः स्यात्, भ्रमस्येव तस्या अपि भ्रमविषयविषयकत्वादित्याह—तथापीति। शुक्तौ रजतत्वप्रकाशकज्ञानवानिति ज्ञानं न भ्रमः, भ्रान्तस्य तथात्वात्। शुक्ताविदं रजतमिति ज्ञाने रजतत्वं प्रकारः तेन तद्भ्रमः, ईश्वर ज्ञाने तु रजतत्वप्रकारकत्वं प्रकार इति न भ्रमत्वम्। अत एवास्मदादिरपि भ्रान्तिज्ञो न भ्रान्त इत्याह विभ्रमस्येति ॥ प्रमाणाभावा- दिति ॥ भ्रमत्वग्राहकज्ञानस्य भ्रमविषयमुल्लिखतो भ्रमस्येवायथार्थत्वादित्यर्थः। भ्रमविषय- विषयकत्वेन न भ्रमत्वं, किन्तु यद्यत्र नास्ति तत्र तज्ज्ञानत्वेन, तथाच शुक्ताविदं रजतमिति ज्ञानं रजतत्वाभाववति रजतत्वविषयमिति भ्रमः, तदनुव्यवसायश्च यत्र रजतज्ञाने रजतत्वप्रकार- कत्वमस्ति, तत्र तदुल्लिखन् न भ्रमो विषयाबाधादित्याह यद् यत्रेति ॥ तदेव स्पष्टयति न हीति ॥ एतेन यद् यत्रास्ति, तत्र तज्ज्ञानं प्रमेत्यपि निरुक्तम् ॥ ५ ॥ टिप्पणी। सूक्ष्मकालगोचरत्वेनापि वर्त्तमानावभासता उत्पद्यते विशिष्टवैशिष्ट्यावगाहिनश्चोपलक्षितवैशिष्ट्यावगा- ह्यनुव्यवसायात्मकमेव वर्त्तमानं स्वकाले ज्ञानमादाय वर्त्तमानावभास इति। नन्वनुमिनोमीति विशिष्टवै- ष्ट्यावगाह्यनुव्यवसाये कथं वर्त्तमानावभासता तत्क्षणेऽनुमितित्वाश्रयस्य व्यवसायस्य चिराती तत्वात् तदनन्तरजायमानस्या नुव्यवसायद्वयस्य प्रत्यक्षत्वेनानुमितित्वाभावादित्यत आह अनुमिनोमीत्या- दाविति। स्वगत्या दृष्टान्त एव तस्य तथात्वं सूक्ष्मकालमादायैव च तथात्वम्, तदेव चेष्टं क्षण- स्यातीन्द्रियत्वात् जानामीत्यत्र तथोपपादनं प्रौढिप्रकटनमेवेति भावः। आदिपदेन पश्याभ्युपमि-
४७८ व्याख्यात्रयोपेतप्रकाशयुते न्यायकुसुमाञ्जलौ [ ५ कारिकाव्याख्यानो साक्षात्कारिणि नित्ययोगिनि परद्वाराऽनपेक्षस्थितौ भूतार्थानुभवे निविष्टनिखिलप्रस्ताववस्तुक्रमः । लेशादृष्टिनिमित्तदुष्टिविगमप्रभ्रष्टशङ्कातुषः शङ्कोन्मेषकलङ्किभिः किमपरैस्तन्मे प्रमाणं शिवः ॥६॥ इति चतुर्थः स्तवकः ॥४॥ प्रकाशः । स्तवक़ार्थं शिवस्तुतिव्याजेन सङ्कलयति साक्षात्कारिणीति ॥ भूतार्थानुभवे यथार्था- नुभवे ॥ साक्षात्कारिणि-प्रत्यक्षे ॥ निविष्टो विषयीभूतो निखिलः समस्तः प्रस्ताववस्तुनां नानापदार्थानां क्रमो यस्य, स तथा । अनुभवविषयसकलविश्व इत्यर्थः ॥ नित्ययोगिनि सदा सम्बद्धे । अत एव इन्द्रियादीनां द्वाराणामनपेक्षा स्थितिर्र्यस्य । लेशा अल्पा या अदृष्टिर्विशेषादर्शनं, तन्निमित्ता या दृष्टिः रागद्वेषाऽऽत्मिका, तद्विगमेन प्रभ्रष्टः शङ्कातुषो वेदप्रामाण्यशङ्कालेशो यस्मा- दित्यर्थः । यद्वा भूतार्थोऽनुभवो यस्य, तादृशि साक्षात्कारवति शिवे । निविष्टेत्यादि पूर्ववत् । स शिवः प्रमाणं, नाप्रमाणमिति न कण्ठतः परमतनिरासः । प्रमाणं साक्षी शरणमिति ध्वनितम् । दुष्टिमिति क्वचित् पाठः । तत्र भावे क्तः ॥६॥ इति श्रीमन्महामहोपाध्यायश्रीवर्द्धमानविरचिते कुसुमाञ्जलिप्रकाशे चतुर्थः स्तवकः ॥४॥ प्रकाशिका । 'साक्षात्कारवति' शिवे प्रत्यक्षज्ञानवति स्वस्मिन्नित्यर्थः । अत्र च 'नित्ययोगिनीति' मूलस्य सदास्थितज्ञान इत्यर्थः । परेति मूलस्य इन्द्रियाद्यनपेक्षा स्थितिर्ज्ञानं यस्य तस्मिन्नित्यर्थः ॥ ६ ॥ इति महामहोपाध्याय-ठक्कुर-श्री भगीरथविरचितायां कुसुमाञ्जलिप्रकाशिकायां चतुर्थस्तबकः । मकरन्दः । साक्षात्कारवति शिवे प्रत्यक्षज्ञानवति स्वस्मिन् इत्यर्थः ॥ ६ ॥ इति महामहोपाध्यायदेवदत्तात्मज-श्रीरुचिदत्तोपाध्याय-विरचिते कुसुमाञ्जलिमकरन्दे चतुर्थः स्तवकः । टिप्पणी । नैमिति 'शाब्दयामीत्यादेः परिग्रहः । अन्यत्तु ज्ञानान्तरस्येति । प्रथमत एव तज्जातीयस्य ज्ञानान्त- रस्य विकल्पनादिति अन्वयः । इति श्रीधर्मदत्तोपाध्याय (प्रसिद्धबच्चाझा) कृतकुसुमाञ्जलिचतुर्थस्तबकटिप्पणी समाप्ता ।
श्रीगणेशाय नमः ॥ न्यायकुसुमाञ्जलौ पञ्चमः स्तबकः । तत्साधकप्रमाणाभावादिति पञ्चमीं विप्रतिपत्तिं निराकर्त्तुमुपन्यस्यति— नन्वीश्वरे प्रमाणोपपत्तौ सत्यां सर्वमेतदेवं स्यात् तदेव तु न पश्याम इति चेत् । न ह्येष स्थाणोरपराधो यदेनमन्धो न पश्यति । तथाहि— कार्यायोजनधृत्यादेः पदात् प्रत्ययतः श्रुतेः ॥ वाक्यात् संख्याविशेषाच्च साध्यो विश्वविद्व्ययः ॥ १ ॥ क्षित्यादि कर्तृपूर्वकं कार्यत्वादिति ॥ १ ॥ प्रकाशः । नन्विति ॥ सर्वमिति ॥ प्रागुक्तान्यथासिद्ध्यादिनिरासरूपमित्यर्थः ॥ स्थाणोरीश्वरस्य, अर्थं च दारुविशेषस्य ॥ अन्धस्तत्र प्रमाणाऽदर्शी, चक्षुर्हीनश्च । कारिकायां संगृहीतं कार्यत्वं हेतुं विवृणोति । क्षित्यादीति ॥ नन्वत्र प्रत्येकं क्षित्यादि न पक्षः, तस्य स्वशब्देनाभिधातुमशक्यत्वात् । नापि मिलितम् , एकरूपाभावात् । न च शरीरीजन्यं जन्यं पक्षः । वेदाद्यव्याप्तेः, अदृष्टद्वारा शरीरिणोऽपि क्षित्या- दिकर्तृत्वात् । नाप्यदृष्टजनककृत्यजन्यं जन्यम् , ईश्वरकृतेरदृष्टजनकत्वेन क्षितौ तदभावात् । नापि प्रकाशिका । कार्येत्यादिमूलं तदर्थश्च कार्यपदम् भावपरं तेन क्षितिः सकर्तृका कार्यत्वादित्यनुमानमुक्तम् । आयूज्यते संयुज्यते ऽनेनेत्यायोजनं = परमाणुकर्म । अत्रापि भावपरतया परमाणुकर्म प्रयत्नजन्यं कर्मत्वादित्यनुमानमुक्तम् । धृतिपदमपि भावपरं, तेन ब्रह्माण्डधृतिः प्रयत्नवत्संयोगसाध्या धृति- त्वादित्यनुमानमुक्तम् । आदिपदेन च संहरणं विवक्षितम् , तथा च ब्रह्माण्डादि प्रयत्नविनाश्यं संहारात् = संहारप्रतियोगित्वादित्यनुमानमुक्तम् । पदं = वृद्धव्यवहारः, पद्यते गम्यतेऽर्थोऽनेनेति व्युत्प- त्तेतदपि भावपरम् , तथा च घटादिव्यवहारो स्वतन्त्रपुरुषविश्रान्तो व्यवहारत्वादित्यनुमानमुक्तम् । प्रत्ययशब्देन प्रामाण्यं विवक्षितम्, तथा च प्रमा गुणजन्या प्रामाण्यादिनुमानमुक्तम् । श्रुतेरिति भाव- परं, तथा च वेदाः सर्वज्ञप्रणीताः श्रुतित्वादित्यनुमानमुक्तम् । वाक्यपदमपि भावपरं, तेन वेदाः पौरुषेयो वाक्यत्वाद् भारतवदित्यनुमानमुक्तम् । संख्यापदमपि परमाणुद्वयणुकवृत्तिद्वित्वत्रित्वपरं भावपरमेवं, तेन परमाणुद्वित्वं द्वयणुकत्रित्वं वा अपेक्षाबुद्धिजम् अनेकवृत्तिसंख्यात्वादित्यनुमान- मुक्तमिति । यद्वा कार्यपदं तात्पर्यपरम् , तथा च वेदप्रामाण्यसम्पादकतात्पर्याधारतया परमेश्वरसिद्धिः । आयोजनं = व्याख्यानम् , तथा च वेदव्याख्यातुतया भगवतः सिद्धिः । धृतिरवधारणम् , तथा चार्थोवधारकोऽपि वेदस्य परमेश्वर एव । आदिपदग्राह्यमध्ययनम् , तथा चाध्येतापि वेदस्य प्रथम- मीश्वर एव । पदमीश्वरप्रणवादिपदम् , तद्वाच्यतयापि परमेश्वरसिद्धिः । प्रत्ययपदं लिङ्प्रत्ययपरम्, तथा च लिङभिधेयाप्ताभिप्रायाधिकरणतया परमेश्वरसिद्धिः । श्रुतेर्वेदादेव शब्दविधया परमेश्वर- टिप्पणी । वेदाद्यव्याप्तेरिति । पक्षतावच्छेदकेन तस्यासङ्ग्रहात् । क्षित्यादिकर्तृत्वाच्चेति । ईश्वर-
प्रकाशः। जन्यकृतिसाक्षादजन्यं जन्यम्, घटादेरपि पक्षतापत्तेः। नापि सकर्तृकत्वविवादविषयः, तत्सन्देह- विषयो वा(१) पक्षः, एकरूपाभावे क्षित्यादिसकलविषयविवादसंशययोरभावात्। किञ्च न वादिनोः संशयः, तयोर्निश्चितत्वात्। वाद्यनुमानयोस्तुल्यत्वेन मध्यस्थसंशय इति चेत्। तर्ह्यनुमानाभ्यां तत्संशयो, मध्यस्थसंशयानन्तरञ्च वाद्यनुमानमित्यन्योन्याश्रयः। न च क्षितिरेव पक्षः, अङ्कुरेण सन्दिग्धानैकान्तिकत्वात्। हेतौ साध्याभाववद्गामित्वसंशयस्य दूषकत्वात्। तस्य च साध्याभाववति हेतुसन्देहादिव हेतुमति साध्याभावसन्देहादपि दूषकत्वात्। पक्षे तत्सद्भावेऽप्यनुमानमात्रोच्छेद- कत्वेन तस्यादूषकत्वात्। न चाङ्कुरेऽपि तत एव साध्याँनुमितिः। तस्यापक्षत्वेन स्थापनानुमाना- विषयत्वात्। अनुमानान्तरस्य च क्षित्या सन्दिग्धानैकान्तिकत्वात्। तथा चाऽन्योन्याश्रया- देकस्याप्यनुमानस्याप्रवृत्तिः। एकैकमात्राभिज्ञसिद्धावपि सकलविषयज्ञानवदसिद्धिश्च ॥ साध्यमपि न कृतिमत्सहभावः, तज्जन्यत्वं वा, अस्मदादिना सिद्धसाधनात्। नाप्युपादान- गोचरापरोक्षज्ञानादिमज्जन्यत्वं, यत्किञ्चिदुपादानविवक्षायां घटोपादानगोचरज्ञानादिमताऽस्मदादिना- ऽर्थान्तरात्। न च ज्ञानादीनामपि जनकत्वं विवक्षितम्। न च घटोपादानगोचरज्ञानादेः क्षित्यादि- जनकत्वसम्भव इति वाच्यम्। तथापि क्षितिजनकादृष्टजनकज्ञानादीनामुपादानविषयत्वनियमेनादृष्ट- द्वारा तैरेव सिद्धसाधनात्। न च साक्षात्तज्जन्यत्वं विवक्षितम्। घटादेर्दृष्टान्तस्य साध्यवैकल्या- पत्तेः। न च शरीरक्रिया दृष्टान्तः। घटे व्यभिचारात्, तत्क्रियात्वस्यैवोपाधित्वाच्च। क्षित्युपादान- विवक्षायामप्रसिद्धिः। न चोपादानशब्दस्य सम्बन्धिशब्दतया तत्तत्समभिव्याहारात्तत्तदुपादान- बोधकत्वम्। शाब्द एव बोधे तथा व्युत्पत्तेः। अनुमितौ च येन रूपेण व्यापकत्वं, तेनैव रूपेण तस्य विषयत्वात्। तच्चोपादानत्वमेवेत्युक्तदोषानुपरोहात्। किञ्च घटे चिकीर्षाद्वारा कृतिसाध्येष्ट- साधनताज्ञानमनुमितिरूपं जनकमिति साध्यविकलो दृष्टान्तः, साध्याप्रसिद्धित्वाँ। प्रत्युत घटेऽनुमिति- प्रकाशिका । सिद्धिः। वाक्यपदं संसर्गविशेषप्रतिपादकशब्दपरम्, तादृशशब्दकारणसंसर्गज्ञानाधिकरणतया पर- मेश्वरसिद्धिः। संख्यापदं उत्तमपुरुषाभिधेयसंख्यापरम् कठकलापादिसंज्ञाविशेषपरं वा, तथा च वेदस्योत्तमपुरुषाभिधेयसंख्याधिकरणत्वेन. समाख्यानिबन्धनतत्सजातीयशरीरावच्छिन्नोच्चारणकर्तृ- त्वाश्रयतया वा परमेश्वरसिद्धिरिति । सन्देहविषयत्वं वा पक्ष इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रतिज्ञाविषय- स्यैव पक्षत्वमित्यभिमानेनेदम्। नन्वङ्कुरे सकर्तृकत्वमनुमाय क्षितौ तदनुमेयमत आह अनुमाना- न्तरस्येति। मकरन्द । सन्देहविषयत्वं वा पक्षः इति पाठे पक्षपदं पक्षतावच्छेदकपरम्। अपक्षत्वेनेति प्रति- ज्ञाविषयस्यैव पक्षत्वमित्यभिमानः। ननु प्रथममङ्कुरे तदनुमाय क्षितौ तदनुमेयमित्यत आह अनुमानान्तरस्येति । टिप्पणी । भिन्नशरीरिणमादायार्थान्तरात् सिद्धसाधनाद्वा पक्षासिद्धेरित्यर्थः। पक्षतागतेरिति । अर्थान्तर- तादवस्थ्यञ्च सन्देहविषयत्वम्। वापक्षः पक्षोध्येयः। पक्षतावच्छेदकमिति। यावत् सिद्धसा- धनादिति। अदृष्टद्वाराऽस्मदादेरपि जनकत्वात् विवक्षायामप्रसिद्धिः दृष्टान्तेऽसत्त्वम् तच्चोपादानत्व- मिति । व्यापकतावच्छेदकचेत्यर्थः। उक्तदोषपरिहारात् सिद्धसाधनम् ॥ साध्यप्रसिद्ध्यनुरोधेनापरोक्ष प्रवेशे त्वाह प्रत्युतेति । (१) सन्देहविषयत्वं वा पक्ष इति प्रकाशिकाममितोऽयं पाठोद्रष्टव्यः ।