भारतकोश
संग्रह पर लौटें

परिभाषेन्दुशेखर (नागेश भट्ट - व्याकरण परिभाषा सिद्धान्त एवं भैरवी टीका सटीक)

Paribhashendushekhara of Nagesha Bhatta with Commentary

महामहोपाध्याय नागेश भट्ट (सम्पादक: पं. विश्वनाथ मिश्र) द्वारा

DevanagariHindipublished373 पृष्ठ

॥ श्रीः ॥ चौखम्बा सुरभारती ग्रन्थमाला २३२ ❦ सर्वतन्त्रस्वतन्त्र-श्रोनागोजीभट्टविरचितः परिभाषेन्दुशेखरः म० म० कै० तात्याशास्त्रिणा कृतेन भूति-तिलकेन विभूषितः वाराणसेय-राज कीय-संस्कृत-महाविद्यालयभूतपूर्व-प्रधानाध्यापकेन वैयाकरणप्रवरेण 'मोकाटे'-इत्युपनामक-श्रीगणपति- शास्त्रिणा निर्मिता 'तत्त्वप्रकाशिका'ख्य- भूतिव्याख्यया समलङ्कृतः का शिक-श्रीस्याद्वादमहाविद्यालय-साहित्यविभागाध्यक्षेण वैजापुरकरोपा ह्व-श्रीनरहरिशास्त्रितनुजनुषा एम० ए०- न्याय-वेदा न्त-साहित्याचार्येण राष्ट्रपतिपुरस्कृतेन श्रीगोविन्दशर्मणा 'परिभाषेन्दु-पीयूषा'ख्य- शोधपत्रेण सह सम्पादितः चौखम्बा सुरभारती प्रकाशन वाराणसी

तत्त्वप्रकाशिकाकर्तुः हृद्गतम् अतिक्रान्तोऽर्धशतकादधिकः कालो यदा प्रभृति अत्र व्याकरणमातृगृहभूतायां काश्यां परमगुरुभिः श्रीबालसरस्वतीपादैः परिचालितसम्प्रदायोपबृंहिता व्याकरणा- ध्ययनाध्यापन रिपाटिः प्रचलति। तत्तच्छिष्यसन्ततिभिः निःशेषं पल्लविता पुष्पिता सफलीकृता च सा पन्नगगवीजुषमाणानां दुर्व्याख्यानचण्डतपसन्त्रासितानां सच्छायावृक्ष- राजायमानाऽभवत्। श्रीगुरुपादानां श्रीमद्दामोदरशास्त्रिणां गुरुकल्पानां श्रीशिवकुमार- शास्त्रि-श्रीतात्याशास्त्रिप्रभृतीनां काले सातिशयं तारुण्यमासादितेयम् इदानीं सर्वा- धारस्य महाकालस्य कुटिलकटाक्षवीक्षणेन वार्धक्यमनुभूयमाना दरीदृश्यते। अतः साम्प्रतं सुरभारतीप्रणयिनां पन्नगगवीलब्धाधिकाराणां वृद्धायास्तस्याः सेवैव परमा- वश्यकं कार्यं कर्तव्यतयाऽऽपतति। किञ्च स्वर्गतैर्गुरुपूज्यैर्निणीतस्य समुद्भावितस्य च विषयस्य तत्त्वतो विनिश्चय एव यदा न भवति, ग्रन्थतत्त्वार्थमनवबुध्य तत्कृतानां मनःकल्पितोऽनर्थश्च क्रियते, तादृशे समये कथन्नाम नूतनकृतेः कृतकारिता स्यात्। अतोऽस्माभिरद्यावधि तत्त्वबुभुत्सूनन्तेवासिनः गुरुक्तितत्पर्यप्रकाशनमुखेन बोधयद्भिः शास्त्रचिन्तन एव निखिलोऽपि नीतः समयः। अत्रान्तरे कैलासवासिमहामहोपाध्याय- श्रीतात्याशास्त्रिपादानां पौत्रैः पण्डितश्रीवासुदेवशास्त्रिभिः 'भूतिं' परिष्कर्तु- महमनुरुद्धः। शास्त्रपरिनिष्ठितानामपि साम्प्रदायिक-भूतिग्रन्थस्य तात्पर्यविधारणं दुर्घटं भवति, तेन तत्तात्पर्यस्य अन्यथाभावोऽपि कदाचित् सुशकः, भूतिग्रन्थोऽपि कुत्र- कुत्रचित् आवश्यकसङ्ग्राह्यविषयैरसङ्कलितः, कुत्रचित् काठिन्यातिशयमादधानः, परिष्कारांशे विशेषतः क्लिष्टतमः गुरुक्तिमात्रैकगम्यश्च दरीदृश्यते। अतस्तत्परिष्कृतिः परमावश्यकीति विभाव्य मयाऽपि तेषामनुरोधमादृत्यात्र प्रयत्नितम्, 'तत्त्वप्रकाशिका'- रूपेण आत्मनाऽधिगतः प्रकाशश्च प्रकाशिता विदुषां पुरस्तात्। यद्यपि अस्मदीय वचः अवधूतमेव स्यात्; तथापि 'रथ्योदकं गङ्गाप्रपातपात इवे'ति वृद्धमिश्रवाचस्पति- स्मारितमुदाहरणमनुसृत्यास्य ग्रन्थने मया धार्ष्ट्यं कृतम्। अत्र तत्त्वप्रकाशिकायां भूति

"? No. Wait! Look at: च्छि वा ज्ञा तं ? Wait! Look at the last character of that word: Does it have an anusvara? Wait, look at: "श्रीशङ्करादागतं" right after it! "श्रीशङ्करादागतं" has an anusvara on तं. What about the word before it? Does it end in 'तः' or 'नेः' or 'तं'? Look at the two dots: Are they visarga? Wait, look at line 20: "...च्छिवाज्ञानेः श्रीशङ्करादागतं..." Wait, is there a visarga? Wait, there's a dot above and a dot below? Wait! Look at: "...च्छिवाज्ञानेः श्री..." Wait, could it be: "...च्छिवा..." Wait, let's look at the letter: Is it 'ज्ञा'? Wait, could it be 'म्ना'? "आम्नातं"?? Wait! "शिवादान्नातं"?? Wait! त् + आम्नातं -> शिवादास्नातं? No, त् + म् -> न्म्: "शिवान्म्नातं". Wait, what if it is: "शिवादाज्ञाय"? Wait, let's look at the characters:

  1. च्छि
  2. वा
  3. ज्ञ or द्ध or ड्ड or द्व? Wait, look at '

कौमुदीप्रभृतिभ्योऽनेकग्रन्थेभ्यः कौमुद्या विशिष्टादरत्वे कारणं तु 'काले' इत्युपनामकेन अनेकशास्त्रानकग्रन्थनिर्मात्रा विधात्रेवापरेण 'सती'-गर्भप्रादुर्भूतेन श्री'शिव'सुतेन श्रीनागोजिभट्टेन विरचिताः 'परिभाषेन्दुशेखर'-प्रभृतयोऽनेके ग्रन्था एव इति त्वकामे- नाप्यवश्यं वक्तव्यं भवति । अथवा पाणिनीय-व्याकरणं भगवता पतञ्जलिना विरचितेन भाष्येण यथा सुरक्षितं सुबद्धमूलं सर्वत्र लब्धप्रचारञ्च समजायत, तथैव श्रीनागेश- रचितग्रन्थैः कौमुदी सुबद्धमूला सुरक्षिता सर्वत्र लब्धप्रचारेति कथने नासत्यवाद- विभीषिका । परिभाषाविषये परिभाषेन्दुशेखरतः प्राक्कालिकेषु परमप्राचीनो 'व्याडि'कृतः परिभाषापाठः, तदनन्तरनिर्मितेषु श्री'सीरदेव'विरचितवृत्तिग्रन्थश्च विशेषरूपेण गणना- प्रसङ्गे प्राथम्येन गणनार्हौ । तत्र श्रीनागेशेन सीरदेवकृत-वृत्तिमाश्रित्यैव प्रकरणशोधन- पुरस्सरं परिभाषेन्दुशेखरो विरचितः स्यादिति वक्तुं शक्यम्, यत उभयग्रन्थावलोकनेनेदं स्फुटीभवति । परिभाषेन्दुशेखरस्य विविधास्वपि टीकासु मूललापनाय श्री'भैरवमिश्र'- विरचितया टीकया यथोपक्रियते, तथैव काश्यादिस्थानेषु पठन-पाठनरीतिमवलम्ब्य विर- चितटीकासु श्रीमद्दामहोपाध्याय-पण्डितेन्द्र-'रामकृष्णा'परनामभिः श्री'तात्या'शास्त्रिभिः प्रणीतया भूत्या प्रतिवादिसंशयपिशाचिकानिवृत्तिपूर्वकं विजयविभूतिप्राप्त्युपकारः सम्पाद्यते । साऽपि भूतिः साम्प्रतं संशयपिशाचिकाक्रान्तेव सञ्जातेति वीक्ष्य अस्मद्- गुरुवरैः काशिकराजकीयपाठशाला-भूतपूर्वप्रधानाध्यापकैः शाब्दिकशिरोमणिभिः श्री गणपतिशास्त्रि मोकाटे' महोदयैः 'तत्त्वप्रकाशिका'-संज्ञकव्याख्यया संभूष्य तन्त्रत्यान् गूढार्थान् सम्प्रकाश्र्य पुनरपि तां तथैव संशयपिशाचिकानिवृत्ति-समर्था अक्रिय- तेति ग्रन्थावलोकनत एव स्फुटीभविष्यतीत्यलं तद्विषयेऽधिकविलेखनेन । अत्र तु वयं प्रसङ्गात् विशेषतः शेखरकर्तुः समासस्तश्च भूति-तत्त्वप्रकाशिकाकृतोश्चरितं निवेद्य विरंस्यामः । शेखरकारा. श्रीनागेशभट्टाः ! परमप्रामाणिकस्य सर्वशास्त्रग्रन्थनिर्मातुः सर्वत्र प्रथितयशसः श्रीनागेशस्य जीवनवृत्तविषये प्रकाशयित्र्याः मनस्तोषकसामग्र्याः परिदृश्यमानो नितरामभावः कस्य सहृदयस्य चेतो न दूनीकरिष्यति । अद्यावत् यैर्यैः संस्कृतव्याकरणग्रन्थनिर्मातुरस्य ज्ञातवृत्तविषये यत्र-तत्र यद्यद्विवेचितमस्ति, तत्सर्वं दन्तकथामूलकम्, आनुमानिकं वा । अतोऽत्र अनन्यसहायैरस्माभिस्तदेव साधनमाश्रित्य अस्य महाविदुषश्चरितविषये किञ्चिन्निवेद्यते । अयं महात्मा परमपावने प्राणिमात्रं प्रति मुक्तिप्रदायिनि काशीक्षेत्रे विद्वत्तया सम्पादिते उपाध्याय'पदवीके विद्वत्कुलसङ्कुले 'काले' नामककुले श्रीशिवसदृश-'शिव'- भट्टात् साक्षात् सतीतुल्यायां 'सती'देव्यां ईशवीय संवत् १६७४ तमवर्षस्य अर्वाक् पश्चाद्वा जन्म लभे । अयं 'महाराष्ट्र-देशस्था'-ऽवान्तरजातीयः ऋग्वेदशाखी चाऽऽसीत् । काश्यामयं 'सिद्धेश्वरी'-मण्डलान्तर्गते 'काश्मीरीमल्ला'ख्यस्य पुंसो महाहर्म्यान्तिके

  • ६ -

गृहे जीवनं निनाय। अस्य पुत्रो नाऽऽसीत्, एका पुत्री एवाऽऽसीत्। सा च काशीस्थे ‘देव’- नामककुले विवाहिता, अन्ते तस्यै एवायं स्वगृहं दानरूपेण ददौ। ‘देव’कुलस्थाः गृह- मिदं विक्रीय राजस्थानप्रदेशान्तर्गते ‘उदयपुरा’ख्ये भूतपूर्वराज्ये निवसन्ति। देव- कुलमिदं ‘मीमांसान्यायप्रकाश’कर्तुः श्रीमदापदेवस्य जन्मनाऽऽत्मनः सौभाग्यातिशय- मावहति। किंवदन्त्यनुसारमाषोडशवर्षं मल्लकीडादावेव अकर्मण्यभावेन निखिलोऽपि नीतः काल इति ज्ञायते। ततः परमेकस्यां पण्डितसभायामग्रस्थाने गत्वा उपविष्टस्तत्रस्थैः पण्डितैर्भृशं वाग्बाणैर्विद्धश्चायं तेषां पुरतः पण्डिताग्रत्व-प्राप्त्यर्थं प्रतिज्ञाय वाग्देवीं समुपास्य च श्रीभट्टोजीदीक्षितपौत्र-श्री हरिदीक्षित’-चरणौ संसेव्य शब्दादिशास्त्रे पारा- वारतामियात् । श्री रामरामभट्टाचार्य

भूतिकाराः म० म० श्रीतात्याशास्त्रिणः ! भूतिकारास्तु श्रीमन्तो महामहोपाध्यायाः तात्याशास्त्र्यपरनामधेयाः श्रीराम- कृष्णशास्त्रिणः चित्तपावन-'पटवर्धन'संज्ञके कुले जन्म लेभिरे । तेषां पूर्वे जाताः श्रीकृष्णभट्टसंज्ञकाः श्रीरेणुकाहृदयनन्दनेन रामेण जामदग्न्येन निर्मितं कोंकणप्रदेशे जनिं लब्ध्वा स्थित्वा च तत्र बहुकालं कुतश्चित् कारणात् तत्र विरज्य ततः प्रोष्य च नागपुरप्रान्त आगत्य तत्रत्यं नृपं 'भोसले'कुलदीपकं श्री'रघोजी'राजं सन्तोष्य तद्भाण्डागाराध्यक्षपदं परमप्रामाणिकतया भूषयाञ्चक्रुः । ततस्तत्पुत्रस्नुषया पति- वैधव्यदुःखदुःखितया अवार्या श्रो'बहिणाबाई'संज्ञकया विरज्य संसारात् काश्यामागत्य दुर्गाघट्टे प्रभूतद्रव्यव्ययेन निर्माय च शिवमन्दिरं तत्र वासोऽक्रियत । ततः प्रभृति पटवर्धनकुलं काशीस्थितं समजायत । अथ बहिणाबाई-देवरपौत्रो बालकृष्णभट्टो 'नारायण'संज्ञकं पुत्रमजीजनत् । स एव अस्मच्चरित्रनायकस्य पितामहः । श्रीनारायणभट्टतो बालम्भट्टस्य नागेश्वरभट्टस्य च जनिः समजनि । तत्र बालम्भट्टापरनाम्नो महादेवतो 'तात्याशास्त्रिणो' जन्म लेभिरे । बाल्य एव जानुचलनकाले दुर्दैववशतौ माता-पितृवियुक्तस्य अस्मच्चरित्रनायकस्य पितृव्येन श्रीनागेश्वरभट्टेन स्वसुतनिर्विशेषं पालनं विधाय तमष्टवर्षवयसि व्रतेन बन्धयित्वा सकल- शास्त्र शरण्यौ विद्वद्वरेण्यसरस्वत्यवतारभूत-श्रीबालशास्त्रिचरणौ संसेवयाञ्चक्राते । ततः सम्पादितविशिष्टवैदुष्यैः शास्त्रिवरैः द्वारभङ्गपाठशालायां ( दरभङ्गा-पाठशालायाम् ) कानिचिद्वर्षाणि अध्यापकपदमलङ्कारि । ततः राजकीय-पाठशालाध्यक्षैस्तदानीन्तनैः 'थिबो'महाशयैः सबहुमानमध्यापकपदमेतेभ्यः प्रादायि । तत्र दिगन्तविश्रान्तकीर्तीन् शताधिकान् विद्यार्थिनः पाठयित्वा अस्मच्चरित- नायकैः १९५४ मिते वैक्रमीये वर्षे 'भूति'रपूर्वा परिभाषेन्दुशेखर्टीका निरमीयत । शास्त्रिवराणां विशिष्टं वैदुष्यं दृष्ट्वा तदानीन्तनसम्राट्प्रतिनिधिना ईशवीये १९०९ वर्षे 'महामहोपाध्याय'पदवी एतेभ्यः समर्पिता । एवं ब्रह्मकर्मानुष्ठानचणैः शास्त्रिवरैः श्रीकाशीविश्वेशचरणौ संसेव्य वैक्रमे १९७६ वर्षे श्रीविश्वेशतनौ सायुज्यमलम्भि । शास्त्रिचरणानां निखिलशास्त्रेषु सर्वाधिकार इव व्यवहारविधावपि सर्वा- धिकार आसीत् । तत्रस्था अधिकारिणोऽप्येतेषां वैदुष्यं व्यवहारपाटवञ्च मुहुर्मुहुरनु- भवन्तः परं विस्मयं जग्मुः । शास्त्रिवराः मन्त्रशास्त्रेऽपि असाधारणमाधिपत्यं बिभ्रति स्म । सर्वेऽपि काशिका मन्त्रशास्त्रज्ञा अत्र विषये तेभ्यः सुपरिचिताः । एतेषां चत्वारः पुत्राः, तेषु ज्येष्ठपुत्रैः श्री पं० नारायणशास्त्रिभिः राजकीयविद्यालयीयांग्लविभागे अध्यापयद्भि रनेके 'संस्कृत-सोपान'प्रभृतयः प्राथमिक्रा ग्रन्थाः ग्रथिताः । एतेषां पुत्राः पुत्राः स्वर्गीयाः पण्डितश्रीविनायकरावसंज्ञकाः विशिष्टाम् ( M. Sc., Ph. D. ) परीक्षां समुत्तीर्यं मद्रप्रान्तीये केन्द्रीय-'न्यूट्रेशन रीसर्च लेबोरेटरी'-संस्थायां चिरं 'डाइरेक्टर'-पदमलङ्कुर्वन्तो देशे विदेशे च विविधशोधग्रन्थनिर्माणे सुख्याता अभवन् । तेषां त्रयः पुत्राः श्री माधव-वसन्ता-ऽविनाशाख्या अपि देश-विदेशेषु विशिष्टपदानि भूष- यन्तो विराजन्ते । द्वितीयपुत्राः स्वर्गीय-श्रीबालकृष्णशास्त्रिणः व्याकरणतीर्था अपि पितु- रनुरूपा एवाऽऽसन् । एतेषामेव पुत्राः मन्त्रशास्त्रे ज्योतिषशास्त्रे च पारम्परीणं प्रायोगिकं वैदुष्यं बिभ्राणाः श्रीवासुदेवशास्त्रिणः ग्रन्थस्यास्य प्रकाशकपदीमलङ्कुर्वन्तः पितृ-

  • ८ -

पितामहसरणिं रेखामात्रमपि अक्षुण्णां विदधतः संस्कृताध्येतॄणां हितायाविरतं प्रयतन्ते। तृतीयाः पुत्राः स्वर्गीयपण्डितश्रीधुण्डिराजशास्त्रिणः (भैयाशास्त्रिणः) आसन्। एतेषां त्रिषु पुत्रेषु श्रीविष्णु-राम-लक्ष्मणाख्येषु साम्प्रतं श्रीलक्ष्मणशास्त्रिणः सेवानिवृत्ताः विराजन्ते। तुरीया कनीयांसश्च पुत्राः श्री पं० वीरेश्वरशास्त्रिण आसन्। श्रीवीरेश्वर- शास्त्रिणां पुत्रौ श्रीपशुपतिशास्त्री (आबकारी अधीक्षक) श्रीनारायणशास्त्री (आई० ए० एस०) च राजकीयाधिकारिणौ कुलगौरवं वधयतः। तत्त्वप्रकाशिकाकाराः श्रीमोकाटेशास्त्रिणः ! अस्ति रक्त-द्विष्ट-क्रुद्ध-लुब्धादिमनुज-नक्रविषमात् संसारसागरात्मुक्तिकाङ्क्षिणां सतां जनानां शरणं देवानामपि वरेण्यं गङ्गातरङ्गभङ्गरञ्जितं सदा सदाशिवायुकतं मुक्तिप्रद क्षेत्रश्रेष्ठं वाराणसी नाम क्षेत्रम्। तत्र दक्षिणदेशीय-‘हैदराबाद’संस्थानान्तर्गत- ‘नान्देड’विभागीय-‘

परिभाषेन्दु-पीयूषम् वैनापुरकरोपाह्नो गोविन्दो नृहरेः सुतः । न्याय-वेदान्त-साहित्याचार्यो राष्ट्रपुरस्कृतः ॥ १ ॥ 'भट्टभट्टा'न्वयोद्भूतं नत्वा गोपालसद्गुरुम् । मध्नाति परिभाषौघं पीयूषप्राप्ति-हेतवे ॥ २ ॥ परिभाषेन्दुशेखरमारभता आचार्यश्रीनागोजीभट्टेन 'प्राचीनवैयाकरणतन्त्रे०' इत्यादिना ग्रन्थसन्दर्भेण एतद्ग्रन्थप्रतिपादयिष्यमाणस्य विषयस्य निर्देशः कृतः । तदनुसारं वाचनिक्यः, न्यायसिद्धाः ज्ञापकसिद्धाश्च परिभाषाः व्याख्येयत्वेन परिगृहीताः दरीदृश्यन्ते । वस्तुतो विचार्यमाणे ग्रन्थकर्त्रा ज्ञापक-न्यायासिद्धा काऽपि परिभाषा व्याख्येयत्वेन न परिगृहीता, तत्र तत्र 'वाचनिक्यैषा' इत्याद्युल्लेखस्तु ज्ञापक-न्याय- सिद्धानामनुपन्यासपर एवेति अपरिभ्रान्ताष्टीकाकृतः ; तथापि वाचनिकीत्वादिना तत्तत्परिभाषाणां विभाजनं नात्यन्तमनुचितम्, बहुभिर्वैयाकरणैस्तथा विभागस्य परिग्रहात् । अत्र वाचनिक्यपि ज्ञापकसिद्धा न्यायसिद्धा च चेदुभयोः सामानाधिकरण्येन विभागासम्भवस्तु कथमपि न शङ्क्यः, उपधेयसङ्करेऽपि उपाधेरसङ्करात्, ज्ञापक- न्यायसिद्ध-'ताच्छीलिकेषु'-इत्यादिवत् । अतोऽस्माभिरपि परिभाषा एतास्तिस्रा विभ- ज्यन्ते-( १ ) वाचनिकी, ( २ ) न्यायसिद्धा, ( ३ ) ज्ञापकसिद्धा चेति भेदात् । एवम् आद्याः द्वितीयाश्च क्रमेण ( क ) सूत्रसिद्धवाचनिकी, ( ख ) स्वतन्त्रवाचनिकी च ; ( क ) लौकिकन्यायसिद्धा, (ख) शास्त्रीय-न्यायसिद्धा चेति भेदात् द्विधा द्विधा विभज्यन्ते । व्याख्येयपरिभाषात्वञ्च 'सङ्केतग्राहकभिन्नत्वे सति शब्दधर्मिक-साधुत्वप्रकारकशास्त्र- जन्याऽप्रामाण्यज्ञानानास्कन्दितबोधे सहकारित्वेन मुन्यभिप्रेतत्वे सति पाणिन्युच्चरित- भिन्नत्वम्' इत्यन्यदेतत् । ता इमा परिभाषाः कतन्नाम वाचनिक्यः, न्यायसिद्धाः ज्ञापकसिद्धाश्च ? नित्या अनित्या वा ? न्यायसिद्धत्वेऽपि ज्ञापकसिद्धत्वमस्ति न वा ? इत्यादिप्रश्नानां सम्यग् ग्रन्थावगाहनेन जायमानो बोधो झटिति बुभुत्सूनां परीक्षार्थिनाम्, अन्येषाञ्च सुकुमारमतीनां कृते कृच्छ्राय भवेदित्यवधार्य यथासंभवं मानचित्ररूपेण तद्विवरणं विधाय व्याकरण-मन्दाकिनीसमवगाहमानानां चेतांसि अनेन 'परिभाषेन्दुपीयूषेण' शोधपत्रेण परिपोष्यते । यद्यनेन व्यापारेण तेषां स्तोकमप्युपकृतं भवेत्तदा जनोऽयं श्रमस्य साफल्यं मन्येत । शोधपत्रेऽस्मिन् परिभाषाशब्दराशीः अनुपन्यस्य केवलं ग्रन्थानुगृहीता तदीय- क्रमाङ्का एवोपन्यस्ताः । एवं 'विशेष'विभागे भूति-तत्त्वप्रकाशिकयोः, मूलग्रन्थे च

  • १० -

तस्यां तस्यां परिभाषायां यावान् विशेषो मत-मतान्तरं वा, नित्याऽनित्यत्वे बीजम्, ग्रन्थकर्तृमतसमीक्षा च उट्टङ्किता । इतः परमधिकं द्रष्टव्यं तत्र तत्र विभागे समु- ल्लिखिताः पृष्ठसंख्याः समाश्रित्य मूलग्रन्थतोऽवसेयम् । १. ( सूत्रसिद्ध ) - वाचनिको [ क ] परि० क्र० विवरणम् विशेष १२. 'षष्ठी स्थाने योगा' (पा० ७५ पृष्ठे भूतिव्याख्यायां 'केचित्तु' इत्यादिग्रन्थेन सू०१.१.४९ इति सूत्रसिद्धा । परिभाषेयं खण्डिता । 'तत्त्वप्रकाशिकायाम्' च, ✗ (७७ पृष्ठे) 'वस्तुतस्तु' इत्यादिना भाष्याभिमततया पुनर्मण्डितेयमिति ततोऽवसेयम् । १३. 'स्थानेऽन्तरतमः' (१.१.५०) इति सूत्रसिद्धा । ✗ ✗ १४. 'स्वं रूपं शब्दस्या०(१.१.६९) शास्त्रीयन्यायसिद्धाऽपीयम् ; विशिष्टरूपोपादाने इति सूत्रसिद्धा । उपस्थितार्थस्य शब्दं प्रति विशेष्यतयाऽन्वयसम्भवे त्यागे मानाभावः' इति युक्तेः । एतेन भाष्यकृता 'स्वं रूपमि'ति सूत्रस्य प्रत्याख्यानादस्याः स्वीकारे किं बीजमित्यपास्तम् । १८. 'स्वरितेनाधिकारः' ज्ञापकसिद्धाऽपीयम्, एचोऽयवायावः (६.१.७८) इति (१.३.११) इति सूत्रसिद्धा । सूत्रे 'इको यणचि' (६.१.७७) इत्यतः 'अचि' इत्येकदेशानुवर्तनस्य ज्ञापकत्वात् । २१. 'प्रत्ययलोपे०' (१.१ ६२) वार्तिककृत्तैव इयं परिभाषा स्वीक्रियते, न तु इति सूत्रार्थप्रपञ्चभूता । भाष्यकृता । तेन च प्रत्ययलक्षणसूत्रं नियमार्थमेव अङ्गीकृतमिति १०० पृष्ठे तत्त्वप्रकाशिका द्रष्टव्या । २३. 'यस्मात् प्रत्ययविधिः०' प्रथमसूत्रेण तदाद्यन्तांशः, द्वितीयेन च तदन्तांशः (१ ४.१३) 'येन विधिः०' सिद्ध इति विवेकः । (१ १.७२) इति सूत्राभ्यां सिद्धा । २९. 'येन विधिः' इति सूत्रार्थ- परिभाषायां पदाधिकारपदेन उत्तरपदाधिकारः प्रपञ्चभूता । केवलपदाधिकारश्च ग्राह्यः । तत्रापि उत्तरपदा- धिकारस्थे 'पादस्य पदाज्याति० (६ ३.५२) इति सूत्रे पादपदेन पादान्तस्य न ग्रहणम्, लक्ष्यानुरोधात् । ३१. 'समासप्रत्ययविधौ प्रतिषेध ज्ञापकसिद्धापीयम्, 'सपूर्वाच्च' (५.२.८७) इति- उगिद्ग्रहणवर्ज्यम्' इति सूत्रस्य ज्ञापकत्वात् ।

  • ११ -

परि० क्र० विवरणम् विशेषः वार्तिकस्थप्रत्ययांशानुवाद- कत्वात् सूत्र-(सूत्रोपष्टम्भक- वार्तिक)-सिद्धा । ३४. 'चार्थे द्वन्द्वः' (२.२.२९) ज्ञापकसिद्धापीयम् 'तिष्यपुनर्वस्वोः' (१.२.६३) इति सूत्रस्थ 'च'पदार्थस्य इति सूत्रस्थ-बहुवचनग्रहणस्य ज्ञापकत्वात् । (समाहारेतरेतररूपस्य) अनुवादकत्वात् सूत्रसिद्धा । ३५. 'व्यत्ययो बहुलम्' (३.१.८५) × इति सूत्रे बहुलमिति 'षष्ठी- युक्तश्छन्दसि वा' (१ ४ ९) इति सूत्रे च वाग्रहणञ्चेति योगविभागेनैषा सिद्धा । ३८. 'विप्रतिषेधे परं कार्यम्' अत्र पूर्वादिभागपञ्चकाणामुत्तरोत्तरं बलवत्त्वं (१.४.२) इति सूत्रानुवादि- बोध्यते । तत्र प्रथमभागस्य (पूर्वात् परं बलवत् केयम् । इत्यस्य) साधकत्वादियं तत्सूत्रानुवादिका बोध्या । ३९. 'विप्रतिषेधे०' इति सूत्रार्थ- सूत्रस्य विधिपरत्वमुपजीव्य सिद्धेयम् । स्य विवरणभूतत्वादियं तत्सूत्रसिद्धा । ४०. " " सूत्रस्य नियमपरत्वे सिद्धा । ( स्वतन्त्र ) वाचनिकी [ ख ] १. 'लण्' इति माहेश्वरसूत्रे (६) केचित्तु 'अइउण्' (माहे०सू० १), 'लण्'-सूत्रयो- भाष्यकृता स्फुटीकृतेयम् । र्णकारद्वयग्रहणस्य ज्ञापकत्वात् ज्ञापकसिद्धापीय- मित्याहुः । २. 'षष्ठी स्थाने योगा' इति अपेक्षाधीसहकृते तत्तद्वाक्यार्थबं धे सति दृढतर- सूत्रस्थभाष्ये 'अधिकारो संस्कारस्य जननात् वारंवारं तद्बोधस्यानपेक्षितत्वेन नाम त्रिःप्रकारः' इत्यादिना अपेक्षाबुद्धिरूप-(शास्त्रीय)-न्यायसिद्धापीयमिति सिद्धा । केचित् । ३. 'पूर्वत्रासिद्धम्' (८.२.१) इति तथैव उपेक्षाबुद्धिरूप-(शास्त्रीय)-न्यायसिद्धापीय- सूत्रस्थभाष्ये भाष्यकृता 'कार्य- मिति केचित् । कालं संज्ञापरिभाषम्' इति वस्तुतः २-३ परिभाषेऽस्वीकार्ये, निष्फलत्वात् । स्पष्टं वचनरूपेण पठिता । विस्तरस्तु १९ पृष्ठे भूतितिलके द्रष्टव्यः । १६. 'येन विधिः०' इति सूत्रस्थ- × भाष्ये वचनरूपेण पठिता । -१२-

परि० क्र० विवरणम् विशेषः २४. ‘येन विधिः०’ इति सूत्र- × भाष्ये एतद्घटकतदन्तांशस्य अपवादः पठ्यते, अत इयं वाचनिकी। २६ ‘व्यङः सम्प्रसारणम्०’ तत्र भाष्ये इयं वचनरूपेण पठिता, न तु ज्ञापक- (६.१ १३) इति सूत्रे भाष्ये मुपन्यस्तम्। अस्यां ज्ञापकन्तु ‘यस्मात् प्रत्यय- स्फुटत्वादियं वाचनिकी। विधिः०’ इति विभक्तयोगे ‘नेड्वड्वो०’ (१.४.४) इत्यतः ‘अस्त्री’ इत्यस्यानुवृत्त्या प्रसज्यप्रतिषेधात् ‘प्रधान’न्यायेन प्रधानेऽनुपसर्जने स्त्रीप्रत्यये तदादिनियमो नेति ‘अस्त्री’ इति निषेधवचनमेव। ३३. ‘येन विधिः०’ इति सूत्रभाष्ये न तु ज्ञापकमुपन्यस्तम्। तत्र ज्ञापकं तु ‘नल्यपि’ वचनरूपेण पठिता। (६.४.६९) इति सूत्रमेव। १०३. ‘सह युक्ते०’ (२.३ १९) केचित्तु ‘तमो वरिवः०’ (३ १.१९) इति सूत्रे इति सूत्रभाष्ये सूत्रवत् ‘सह युक्ते०’ इत्यनेन द्विधा समुपन्यस्तायामस्याम् वचनरूपेण पठिता। आदिमोंऽशो वाचनिकः, अपरांशश्च ‘प्रधाना- प्रधान’न्यायमूलक इत्याहुः। तन्न; ग्रन्थकर्त्राऽस्य मतस्य खण्डनात्। १०४. ‘व्यङः सम्प्रसारणम्’ इति, ‘व्यङः सम्प्रसारणम्०’ इति सूत्रभाष्ये इयं प्रत्या- ‘अदसोऽसेः०’ (८.२.८०) ख्यातेति तु न भ्रमितव्यम्, उपसंहारे अस्या इति च सूत्रे भाष्ये पठिता। अप्रत्याख्यानात्। तथा च भाष्यम्-‘ततो वक्तव्यम्, अन्त्यविकारेऽन्त्यसदेशस्य कार्यं भवत्युदात्तनिर्देश’ इति। १०८. ‘शाच्छोरन्यतरस्याम्’ × (७.४.४१) इति, ‘लटः शतृ०’ (३.२.१२४) इति च सूत्रभाष्ये स्पष्टा। १११. ‘अङ्गस्य’ (६ ४.१) इति एकदेश्युक्तित्वात्, इष्टसाधनाय कुत्रापि अनुपयुक्त- सूत्रभाष्ये वचनरूपेण त्वाच्च अस्वीकार्यैयमिति ग्रन्थकृतां मतम्। पठिता। १२८ ‘लिट्घभ्यासस्य०’ (६.१.१७) × इति सूत्रभाष्ये प्रत्याख्या- तत्वादियं वाचनिकी।

  • १३ -

उपलभ्यते, नैवमयम्' इति न्यायसिद्धा । ११. 'देवदत्तस्य अङ्गाधिक्ये तद्वि- अनित्या अनित्यत्वञ्च 'आने मुक्' (७.२.८२) शिष्टस्यैव देवदत्तग्रहणेन ग्रह- इत्यत्र मुग्विधानसामर्थ्याद् बोध्यम् । णम्' इति न्यायसिद्धा । १५. 'लौकिकस्यास्य न्यायस्य अत्र नित्या मुख्यार्थारोपाय तदर्थस्य समुपस्थिते- तन्त्रेऽपि समाश्रयणादियं न्याय- रावश्यकतया तदर्थमादाय कृतार्थस्य सिद्धा। शास्त्रस्य गौणेऽर्थे प्रवृत्तौ मानाभाव इति हि एतन्न्यायस्वरूपम् । १७. 'एककार्यनियुक्तानां बहूनां " ज्ञापकसिद्धाऽपीयम्, 'हनः सिच्' लोके सहैवानुवृत्तिर्निवृत्तिर्वा' (१.१ १४) इत्यत्र सिच्ग्रहणस्य इति न्यायसिद्धेयम् । 'अदसो मात्' (१.२ १२) इत्यत्र माद्- [

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ३७. 'छिन्नपुच्छे शुनि श्वत्वव्यव- अनित्या 'अभीयात्' इति इष्टरूपसिद्ध्यर्थ- हारः' इति न्यायसिद्धा । मस्या अप्रवृत्तिरित्येषा अनित्या । एतदन्तं शास्त्रोद्देशाख्यं प्रथमं प्रकरणम् । ४७. ⎧ 'वालि-सुग्रीवयोर्युद्धमानयोः अनित्ये विस्तरस्तु 'स्वमोर्नपुंसकात्' (७.१.२३) ⎪ भगवता वालिनि हतेऽपि सुग्रीव- इति सूत्रभाष्यस्थे कैयटे द्रष्टव्यः । ⎪ स्य वालितः प्राबल्यं न व्यव- ⎨ हरन्ति, भगवत्सहायेः पाण्डवै- ४८. ⎪ र्जये लब्धेऽपि पाण्डवानां ⎪ प्राबल्यं व्यवहरन्ति च' इति ⎩ न्यायसिद्धे इमे । ५०. मनुष्योऽयं प्रातरुत्थाय प्रथमं अनित्या 'सम्प्रसारणाच्च' (६.१.१०८) इति स्वशरीरकार्याणि करोति, ततः सूत्रभाष्ये अस्या अनित्यत्वव्यवस्थाप- सुहृदाम्, ततः सम्बन्धिनाम्' नात् । ज्ञापकसिद्धापीयम्, 'वाह ऊठ्'- इति न्यायसिद्धा । (६.४.१३२) इति सूत्रे ऊठ्-ग्रहणस्य ज्ञापकत्वात् । ५७. सर्वथा प्रतिबद्धावकाशस्य नित्या 'पूर्वंपर०' (३८) इति परिभाषया सर्वतो बलवत्त्वदर्शनान्न विप- पूर्वपूर्वपेक्षया उत्तरोत्तरस्य बलवत्त्व- रीतशङ्कावकाशः' इति न्याय- प्रदर्शनमुखेन अन्तरङ्गस्य सर्वतो सिद्धा । बलवत्त्वमुक्तम् । अनया च अपवादानां ततोऽपि बलवत्त्वमुच्यते ग्रन्थकृते- त्यवसेयम् । ५८. 'तक्रकौण्डिन्य'-न्यायमूलिकेयम् । ,, सर्वेभ्यो ब्राह्मणेभ्यो दधि दीयताम्, तक्रं कौण्डिन्याय' इति हि तन्न्याय- स्वरूपम् । ५९. 'माठरपरिवेषण'-न्यायमूलिकेयम् । ,, 'सर्वे ब्राह्मणा भोज्यन्ताम्, माठर- कौण्डिन्यौ परिवेविष्टाम्' इति तन्न्याय- स्वरूपम् । ७१. “नहि 'अब्राह्मणमानय' इत्युक्ते ,, केचित्तु- 'ओषदधेश्च विभक्तावप्रथ- लोष्टमानीय कृती भवति' इति मायाम्' (६.१.१३२) इत्यत्र 'विभक्तौ' न्यायसिद्धा । इति अनित्यत्वमस्या द्योतयतीति । तन्न ; तस्य सिद्धार्थनुवाद एव तात्प- र्यात्, भाष्यसम्मतफलाभावाच्च ।

  • १५ -

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ७७. 'तत्तद्वचनमामर्थ्य' न्यायसिद्धा, नित्या × 'काकवद् देवदत्तस्य गृहम्' इति लौकिकन्यायमूलकत्वादियं सिद्धेति यावत् । ७८. 'सिद्धं तु तद्गुणसंविज्ञानात् " × पाणिनेर्यथा लोके' इति भाष्य- प्रामाण्यात् इयं लौकिकन्याय- सिद्धा । ८६. 'येन स्वस्योपकृतं तस्य विरोधो- अनित्या 'कष्टाय०' (३.१.१४) इति 'न यास- ऽन्याय्यः' इति न्यायसिद्धा । (८ स्थलेषु) योः' (७.३.४५) इति च निर्देशादस्या अनित्यत्वं बोध्यम् । तानि चाष्टौ स्थलानि—१. दाक्षिः, २. क्रापयति, ३. अदीदपत्, ४. यासेति, ५. पपिवान्, ६. अग्निमान्, परमवाचा, ७. नदि कुमारी, ८. कष्टायेति । इतोऽन्यत्र प्रवृत्तिरेव । १०६. “लोके बहुषु गच्छत्सु 'राजा नित्या × गच्छति' इति प्रधानं राजा व्यपदिश्यते, राज्ञश्च प्राधान्यं तदधीनप्रवृत्ति-निवृत्तित्वादन्ये- षाम्" इति कैयटप्रदर्शित- लौकिकन्यायसिद्धेयम् । ११०. 'सामान्योपस्थितिकाले निय- अनित्या अनित्यत्वञ्च 'नल्पि' इति लिङ्गात् । मेन विशेषोपस्थापकसामग्र्य- विस्तरस्तु 'स्थानिवत्'-सूत्रभाष्ये भावः' इति न्यायोऽस्या बीजम् । (१.१.५६) द्रष्टव्यः । ११२. 'सहचरणं सहशयोरेव'-समान- " 'द्विस्त्रिचतुर्भ्यः' (५.४.१८) इति सूत्रे स्वभावयोरेव सामानाधिकरण्यं साहचर्येणैव कृत्वोऽर्थस्य ग्रहणे सिद्धे मैत्री च भवति' इति न्याय- कृत्वोऽर्थग्रहणात् एषा अनित्या सिद्धा । बोध्या । ११४. 'प्रतिपदोक्तस्य शीघ्रोपस्थिति- " अनित्यत्वञ्च 'भुवश्च महाव्याहृतेः' कत्वं लाक्षणिकत्वस्य च विलम्बो- (८.२.७१) इत्यत्र महाव्याहृतिग्रह- पस्थितिकत्वमिति लौकिकोप- णात् । स्थितिकृतलाघव'मूलकत्वा- दियं सिद्धा ।

  • १६ -

परि० क्र० विवरणम् नित्याऽनित्ये विशेषः ११६. ‘देवदत्तादयो भोज्यन्ताम्’ अनित्या साहित्यस्य उपलक्षणत्व-विशेषण- इत्यत्र भुजिक्रियाया उद्देश्यघट- त्वाभ्यामेतन्न्याययोर्व्यवस्थेति टीका- केषु देवदत्त-यज्ञदत्त-विष्णुमित्रा- कर्तुः प्रामाण्यात् एतयोरनित्यत्वं दिषु प्रत्येकमन्वयात् ‘देवदत्तो बोध्यम् । द्वितीयपरिभाषाया भोज्यताम्, यज्ञदत्तो भोज्य- मुद्देश्यघटकप्रत्येकपदार्थेन सह न ताम्, विष्णुमित्रश्च भोज्यताम्’ विधेयान्वयः, किन्तु समुदायेनेति इत्यर्थबोधः’ इति न्यायसिद्धा । विवेकः । ११७. ‘गर्गाः शतं दण्ड्यन्ताम्’, ,, ✕ अर्थिनश्च राजानो हिरण्येन भवन्ति’ इति न्यायसिद्धा । ✕ १२०. ( पर्जन्यो यावदूनं पूर्णं च सर्व- नित्या . मभिवर्षतीति ) ‘पर्जन्य’-न्याय- सिद्धा ।

( शास्त्रीय )-न्यायसिद्धाः [ख] परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ४२. 'अक्लृप्ताभावस्य अभावकल्पना- नित्या अक्लृप्ताभावस्य = अप्रसक्तबाधस्य, पेक्षया क्लृप्ताभावकस्यैव नित्यस्येति यावत् । तत्कल्पनमुचितम्' इति लाघव- मूलकयुक्तिसिद्धेयम् । ४३. {'यद्व्यक्तिसम्बन्धितया पूर्वं अनित्याः एतासां विरुद्धे ४६,४८ संख्याके ४४. {प्रवृत्तिस्तद्व्यक्तिसम्बन्धितयैव परिभाषे इति अनित्यत्वमासाम् । {पुनः प्रवृत्तौ कृताकृतप्रसङ्गि- अत्र न्याये व्यक्तिपदेन उद्देश्यव्यक्ति- ४५. {त्वम्' इति युक्तिसिद्धा इमाः । वन्निमित्तव्यक्तेरपि अविशेषेण ग्रहणा- दियं सिद्धा । व्यक्तिपदेन शास्त्र- रूपव्यक्तिग्रहणे च सिद्धेयम् । ४६. 'यदा तु शास्त्रव्यतिरेकेण अनित्या अनित्यत्वं तु लक्ष्यानुरोधात् । तद्विधेयकार्ययोरेव नित्यत्वादि- विचारो यदापि व्यक्तिविशेषा- श्रयणाभावः' इति युक्तिसिद्धा । ४९. 'स्वरोऽपि शब्दान्तरत्वसम्पा- नित्या × दकः' इति न्यायसत्त्वात् ४३-४६ परिभाषाः येन न्यायेन सिद्ध्- यन्ति, तेनैव अस्या अपि सिद्धत्वात् युक्तिसिद्धेयम् । ६०. 'अवश्यं परस्मिन् बाधनीये ,, वस्तुतस्तु अस्याः (६०) परिभाषायाः प्रथमोपस्थितस्य अनन्तर- 'विप्रतिषेधशास्त्रबाधे मानाभावः' इति बाधेन चारितार्थ्ये पश्चादुप- मूलकृदुक्तं बीजम् उत्तरपरिभाषायाः, स्थितस्य ततः परस्य बाधे उत्तरपरिभाषायास्तु बीजं 'पूर्वो- मानाभावः' इति युक्तिसिद्धा । पस्थितबाधे नैराकाङ्क्ष्यरूपम्' अवग- न्तव्यमिति । श्रीदामोदरशास्त्रि- ६१. 'पूर्वोस्थितबाधेन नैराका- ,, भारद्वाजपादाः । तथा मूलपाठस्तु ङ्क्ष्यस्य परस्य बाधे माना- प्रामादिक इति तत्त्वप्रकाशिकायां भावः' इति युक्तिसिद्धा । २४६ पृष्ठे द्रष्टव्यम् । ६२. 'प्रत्यासत्ति' (सान्निध्य-) मूलि- अनित्या अनित्यत्वन्तु 'क्वचित् स्वरितत्व- केयम् । प्रतिज्ञासामर्थ्येन वा बाध्यतेऽयं न्यायः' इति मूलग्रन्थप्रामाण्यात् ।

  • १८ -

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ६३. 'लक्षणैकचक्षुष्को हि अपवाद- नित्या 'अपवादो यद्यन्यत्र चरितार्थः' इति विषयं पर्यालोच्य तद्विषयत्वा- न्यायस्य तु नात्र प्राप्तिः, अन्तादेशा- भावनिश्चये उत्सर्गेण तत्तल्लक्ष्यं प्राप्तिविषये चारितार्थ्याभावात् । संस्करोति' इति युक्तिसिद्धा । ६४. 'लक्ष्यैकचक्षुष्कस्तु तत्तच्छास्त्र- ,, लक्षणैकचक्षुः = लक्षणेनैव यस्य पर्यालोचनं विनाऽपि अपवाद- साधुत्वज्ञानं स इत्यर्थः । लक्ष्यैक- विषयं परित्यज्य उत्सर्गेण लक्ष्यं चक्षुः = लक्षणज्ञानमन्तराऽपि यस्य संस्करोति' इति युक्तिसिद्धा । लक्ष्यसाधुत्वपरिज्ञानं स इत्यर्थः । ६५. 'उत्सर्गशास्त्रप्रवृत्तिसम्भावना, ,, 'न कदाचित्तावदुत्सर्गो भवत्यपवादं प्रयोज्या यत्रापवादशास्त्र- तावत्प्रतीक्षते' इति भाष्योक्तेरयं प्रवृत्तिसम्भावना, तत्र पूर्व- न्यायः प्रमाणम् । मुत्सर्गो न प्रवर्तते' इति युक्तिसिद्धा । ६६. 'इतरत्र सावकाशस्य (चरि- अनित्या अनित्यत्वं चास्याः पूर्वोपस्थितनिमित्त- तार्थस्य ) अपवादस्य उत्सर्ग- कत्वरूपान्तरङ्गविषये एव प्रवृत्ते- बाधकत्वम्' इति युक्तिसिद्धा । र्बोध्यम् । ६९. ⎧ 'वाऽसरूपोऽस्त्रियाम्' × 'वाऽसरूप'सूत्रस्य अनित्यत्वादेते ⎪ ( ३.१.९४) इति सूत्रस्या- अनावश्यक्यौ । ७०. ⎨ नित्यत्वेन सिद्धत्वात् युक्तिसिद्धे × ⎩ इमे । ७१. 'तस्मादित्युत्तरस्य' (१.१.६७) नित्या एतदन्तं बाधबीजाख्यं द्वितीयं प्रकरणम् । इति सूत्रस्य 'तस्मिन्निति' (पा० १.१.६६ ) सूत्रापेक्षया परत्वेन पञ्चमीनिर्देशस्य अनवकाशत्वेन च सिद्धत्वादियं युक्तिसिद्धा । ७३. घटघटीग्रहणेन 'लिङ्गविशिष्ट'- × अस्याः स्वातन्त्र्येण स्वीकारे प्रमाणा- (७२) परिभाषाया अनित्य- भाव इति केचित् । त्वात् तन्मूलेषा युक्तिसिद्धा । स्वतन्त्रवाचनिकी अपि इयम्, 'युवोर- नाकौ' ७.१.१ ) इति सूत्रे भाष्यकृता उक्तत्वात् । १०१. 'षाष्ठद्वित्वस्य द्विःप्रयोगत्व- × भाष्ये अदर्शनात्, एतादृशस्थले तैर्वि- सिद्धान्तेन प्रयोगद्वयरूपे समु- षयसाम्याश्रयेण दोषस्य परिहृतत्वेन दाये प्रकृतिरूपत्वबोधनम्' भाष्यकृदनभिप्रेतत्वाच्च इयमस्वीकार्या । इति युक्तिसिद्धा।

  • १९ -

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः १०२. ‘विध्यङ्गभूतानां परिभाषाणां × ‘अल्लोपोऽनः (६.४.१३४) इत्यत्र विधेयेनासिद्धतया सम्बन्धा- व्यभिचरितत्वात् भाष्यानुक्तत्वाच्च सम्भवेऽपि तद्विशेषणव्यवस्था- इयमस्वीकार्या । पकत्वेन चरितार्थानां तद्विशे- षणव्यवस्थापकत्वे मानाभावः’ इति तर्क-(युक्ति)-मूलेयम् । १०७. मीमांसाशास्त्रोक्त-‘रथकारा- नित्या तर्कमूलाऽपीयम् । विस्तरस्तु ३१५ धिकरण’न्यायसिद्धा । पृष्ठे भूतितिलके ‘परे तु’ इत्यादिना द्रष्टव्यः । १०९. नियमे हि अश्रुताया अन्यनि- ” अत्र शास्त्रे नियमविधिपदेन मीमांसा- वृत्तेः सामर्थ्यात् परिकल्पनम्, शास्त्रोक्तः ‘परिसंख्या’विधिर्गृह्यते । उक्तानुवाददोषश्चेति लाघवाद् विधिरेव’ इति मीमांसासिद्ध- न्यायमूलेयम् । ११३. ‘प्रकरणादितः श्रुतेर्बलवत्त्वम्’ ” ‘श्रुति-लिङ्ग-वाक्य-प्रकरण-स्थान- इति मीमांसासिद्धन्यायमूलेयम् । समाख्यानां पारदौर्बल्यमर्थविप्रकर्षात्’ इति हि तन्न्यायस्वरूपभूतं मीमांसा- दर्शनसूत्रम् । ११९. ‘येन नाप्राप्ते’ इति न्यायसिद्धा । ” ‘अबाधकान्यपि निपातानि’ इति परिभाषान्तरमपि कैश्चित् पठ्यते, परन्तु भाष्यविरुद्धत्वात् तदुपेक्ष्यमेव । १२२. ‘उपस्थितं परित्यज्य अनुप- ” × स्थितकल्पने मानाभावः’ इति सर्वतन्त्रन्यायसिद्धा । १२३. ‘तत्तत्समानविभक्तिकद्वितीय- ” × योगेन विभक्तस्यानित्यत्वज्ञाप- नम्’ इति युक्तिसिद्धा । १२५. ‘स्पष्टमेव पठितव्येऽनुमानाद् × अनयैव ज्ञापक-न्यायसिद्धानां परि- बोधनमसार्वत्रिकम्’ इति भाषाणां नित्यानित्यत्वम्, न तु वाच- न्यायसिद्धा । निकीवत् नित्यत्वमात्रमित्यवगन्तव्यम् । ३. ज्ञापकसिद्धा ६. ‘अनेकाल् शित्०’ (१.१.५५) नित्या मूले ‘शिद्ग्रहणमेव’ इत्यत्र एवकारो- इति सूत्रे ‘शिद्’-ग्रहणं ऽप्यर्थकः । ज्ञापकम् ।

  • २० -

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ७. ‘उदीच्यां माङो०’ (३.४.१९) नित्या नायं ‘माङ् माने’ इत्यस्य निर्देशः, इति सूत्रे ‘माङ्’निर्देशो ज्ञापकपरभाष्यप्रामाण्येन व्यतिहारे ज्ञापकः। माङोऽनभिधानात्। ८. ‘ददातिदधात्योर्विभाषा’ ” ✕ (३.१.१३९) इत्यत्र ‘विभाषा’ पदं ज्ञापकम्। ९. ‘संख्याया अतिशदन्ताया०’ ” अत्र कृत्रिमाया एव संख्याया ग्रहणे (५.१.२२) इति सूत्रे तिशतो- तदन्ते तिशतोर्नियमेन अभावात् र्निषेधो ज्ञापकः। निषेधवैयर्थ्याज्ज्ञाप्यते कृत्रिमाकृत्रिमे संख्ये ग्राह्ये इति भावः। १०. ‘स्थण्डिलाच्छयितरि’ ” न्यायसिद्धापीयम्, समवायिकारण- (४.२ १५) इति सूत्रे’ शयितरि’ निमित्तकारणयोर्भेदस्य सकललोक- निर्देशो ज्ञापकः। तन्त्रसिद्धत्वात्। उच्छृङ्खलास्तु-- परिभाषेयमस्वीकार्या, प्रदर्शित- फलस्य असम्भवात्, अन्येषाञ्च अभावादित्याहुः। विस्तरस्तु ४२ पृष्ठे भूतिलके द्रष्टव्यः। १९. ‘ज्यादादीयसः (६.४.१६०) ” वाचनिकी अपि इयम्, ‘अणुदित् इति सूत्रे ‘आदि’ति दीर्घो- (१.१.६९) सूत्रे ‘अप्रत्ययः’ इत्यंशस्या- च्चारणं ज्ञापकम्। नुवादकत्वात्। २०. ‘दिव उत्’ (६.१.१३१) ‘ऋत’ ” यद्यपि नेयं सूत्र-भाष्यविरुद्धा; तथापि उत्’ (६.१.१११) इति सूत्रयोः असाधारणफलाभावात् अस्वीकार्येति उकारस्य तपरकरणं ज्ञापकम्। ९८ पृष्ठे भूतिकृतः। २२. ‘अतः कृकमि०’ (८.३.४६) इति ” ✕ सूत्रे ‘कंस’ग्रहणं ज्ञापकम्। २५. ‘हृदयस्य हल्लेखः’ (६.३.५०) ” ✕ इति सूत्रे ‘लेख’-ग्रहणं ज्ञापकम् २७. ‘सुप्तिङन्तम्’ (१.४.१४) इति ” कैश्चिदेषा प्रत्याख्याताऽपीति १२० सूत्रे ‘अन्त’ग्रहणं ज्ञापकम्। पृष्ठे भूतिलके द्रष्टव्यम्। २८. ‘गतिरनन्तरः’ (६.२.४९) इति ” केचित्तु - ‘अहीने द्वितीया (६.२.४७) सूत्रे ‘अनन्तर’ग्रहणं ज्ञापकम्। इति सूत्रे ‘अनुपसर्गं इति वक्तव्यम्’ इति वार्तिकं ज्ञापकमाहुः (पृ०१२३)।

  • २१ -

परि० क्र० विवरणम् नित्याऽनित्यत्वे विशेषः ३२. 'पूर्वात्सपूर्वादिनिः' इत्येकं सूत्र- नित्या गणे पूर्वशब्दं प्रपठ्य 'इष्टाद्यन्तेभ्यः मकृत्वा 'पूर्वादिनिः' (५.२.८६) इनिः' इति वक्तव्ये, 'पूर्वादि निः', 'सपूर्वाच्च' (५.२.८७) इति 'सपूर्वाच्च' इति सूत्रकरणमस्यां सूत्रकरणमस्यां ज्ञापकम् । ज्ञापकमिति ग्रन्थतत्त्वमाहुर्भूतिकृतः (पृ० १३७) । ३६. 'क्षियो दीर्घात्' (८.२.४६) अनित्या अनित्यत्वञ्च प्रातिपदिकत्वनिबन्धन- इति सूत्रे 'क्षिय' इति इयङ्- विभक्तिप्रत्ययस्य धात्वनुकारि- निर्देशो ज्ञापकः । क्षिशब्दे करणाद् बोध्यम् । ४१. 'वृद्धभ्यः स्यसनोः (१.३.९२) नित्या अत्र 'अनुदात्तङित०' (१.३.१२) इत्यत्र विभाषया अतङ्-विधानं इत्यादिसूत्राणि विधायकान्येव, न (परस्मैपदविधानम्) ज्ञापकम् । तु नियामकानि । एवम् एकवाक्यता- पक्ष एव साधीयान्, न तु भिन्न- वाक्यतापक्ष इति ग्रन्थकृतां मतम् । विस्तरस्तु १६० पृष्ठे द्रष्टव्यः । ५१. 'षत्वतुकोरसिद्धः' (६.१.८६) × भाष्यकृताऽस्या अनावश्यकत्वेन इति सूत्रे 'तुक्'ग्रहणं ज्ञापकम् । प्रत्याख्यानादियमस्वीकार्या । टीका- कृता चास्याः १९९ पृष्ठे 'वस्तुतः' इति प्रतीकेन स्वीकारा‌र्हत्वं साधितं ततोऽवसेयम् । ५२. 'प्रत्ययोत्तरपदयोश्च' (७.२.८७) नित्या वार्तिकरीत्या तदर्थस्य स्वारसिकत्वेन इति सूत्रं तत्र 'मपर्यन्तस्य' ज्ञापकसिद्धा । भाष्यरीत्या तु वाच- इत्यनुवृत्तिर्वा ज्ञापिका । निकी एवेयम्, इत्यपि मतं २०९ पृष्ठे द्रष्टव्यम् । ५३. 'नेन्द्रस्य परस्य' (७.३.२२) " परिभाषायाम् 'एकदेशे'ति पदं इति वृद्धिनिषेधसूत्रमस्या सन्धिकार्यस्यापि उपलक्षणम्, तेन ज्ञापकम् । 'रात्रिमटः' इत्यादौ मुमः पूर्वं यणो न । ५४. 'अदो जग्धिः' (२.४.३६) इति " × सूत्रे 'ल्यप्'ग्रहणं ज्ञापकम् । ५५. अभ्यासस्यासवर्णे (६.४.७८) अनित्या अनित्यत्वञ्चास्याः 'च्छ्वोः शूठ्' इति समग्रं सूत्रं ज्ञापकम् । (३.४.१९) इति सूत्रे सतुक्निर्देशात् केचित्तु-अत्र सूत्रे 'असवर्ण'- ज्ञाप्यते । ग्रहणं ज्ञापकमाहुः ।

  • २२ -