भारतकोश
संग्रह पर लौटें

प्रबोधचन्द्रोदयम् (कृष्णमिश्र यति - वेदान्त रूपक नाटक सटीक)

Prabodhachandrodaya of Krishnamishra with Commentary

कृष्णमिश्र यति द्वारा

DevanagariHindipublished274 पृष्ठ

२०८ प्रबोधचन्द्रोदयम् ग्रथ्नाति स्वयमिच्छया शुचिपदैः शास्त्राणि काव्यानि वा लोकान्भ्राम्यति पश्यति स्फुटरुचो रत्नस्थलीर्मैरवीः ॥ ५ मधुमतीं च भूमिमापन्नः स्थानाभिमानिनीभिर्देवताभिरुपच्छन्द्य भो इहोपविश्यताम् । नात्र जन्ममृत्यू । अनुपाधिरमणीयो देशः । प त्वामुपस्थितो विविधविलासलावण्यपुण्यमयो मङ्गलार्थव्यग्रपाणिः प्रण पेशलो विद्याधरीजनः । तदेहि, यतोऽत्र— कनकसिकतिलस्थलाः स्रवन्तीः पृथुजघनाः कमलानना वरारूः । ऋक्सामार्थवलक्षणाः, पुराणानि तानि तानि प्रसिद्धान्येव, भारतकथा भारती मितिवृत्तम् , ताः, तथा तर्कादयः वाङ्मयाः शास्त्राणि आविर्भवन्ति प्रकाशन शुचिभिः व्याकरणसंस्कृतैः पदैः सुसिद्धान्तलक्षणैः शास्त्राणि काव्यानि वा यदृच्छ यथेच्छम् ग्रथ्नाति प्रबध्नाति, लोकान् भूर्भुवःस्वरादीन् भ्राम्यति गच्छति, मेरोरि मैरवीः स्फुटरुचः देदीप्यमानाः रत्नस्थलीः रत्नखचितान् भूभागान् पश्यति । त भूयस्यै सिद्धे हृद्यायै प्रभवन्त्या अस्या मधुमत्याः प्रेषणं कामादीनां महाखं वेदि व्यम् । सिद्धिवर्त्मनि कियद्दूरं गता लौकिकीभिः सिद्धिभिः प्रतिबध्यन्ते जनाः प्रदर्शयितुमयं ग्रन्थो बोध्यः ॥ ५ ॥ मधुमतीञ्च भूमिम्-मधुमत्या सिद्ध्या कल्पितां सिद्धस्थलीम् । आपन्नः-प्राप्तः स्थानाभिमानिनीभिः-तत्तत्स्थानाधिष्ठात्रीभिर्देवताभिः । उपच्छन्द्यते-सेव्यते तेन प्रकारेण वञ्च्यते च । वञ्चनाप्रकारमेव वदति—इहेत्यादि० । अनुपाधिरमणी- स्वाभाविकसौन्दर्ययुतः । विविधा नानाप्रकारका ये विलासाः नेत्रकरचरणादिसम्ब- संभवा विभ्रमाः, लावण्यं गात्रसौन्दर्यं च ताभ्यां पुण्यमयः स्फीतः, मङ्गलार्थैः दू- दर्शाद्युपकरणैर्व्यग्रपाणिः भृतकरः । प्रणयपेशलः-अनुरागनिपुणः । विद्याधर्यो यो- भेदस्त्रियः । कनकसिकतिलेति० कनकसिकतिलानि स्वर्णमयवालुकायुतानि स्थलानि पुि और तर्क विद्यायें प्रकट होती हैं, यह पवित्र पदों द्वारा शास्त्र या कविताका निर्माण क है, यह समस्त लोकमें भ्रमण करता तथा मेरुकी रत्नस्थलियाँ देखता है ॥ ५ ॥ मधुमती भूमिकाको प्राप्त व्यक्ति स्थानाभिमानिनी देवताओंसे आदर पाता है, बैठ जाइये, यहाँ जन्म मृत्युकी बात नहीं है । यह देश निरुपाधि सुन्दर है । यह वि घरीजन विविध विलास तथा लावण्य लिये मङ्गलार्थ प्रेमसे आपके आगे उपस्थित है । अतः आइये, इस जगहपर— स्वर्णवालुकामय नदियोंमें बृहन्नितम्बा वरारू ललनाओंके साथ, मरकतदलको

षष्ठोऽङ्कः २०६ मरकतदलकोमला वनालीर्भज निजपुण्योचितांश्च सर्वभोगान् ॥ ६ ॥ शान्तिः—ततस्ततः । श्रद्धा—पुत्रि, तदावदर्य मायया श्लाघ्यमेतदित्युक्तम् । मनसा चानु- मोदितम् । सङ्कल्पेन प्रोत्साहितम् । स्वामी संप्रति सम्मतिपर्थामवापन्नः । शान्तिः—( सखेदम् ) हा धिक् हा धिक् पुनरपि तामेव संसारवागु- रामभिपतितः स्वामी । श्रद्धा—न खलु न खलु । शान्तिः—ततस्ततः । श्रद्धा—ततः परिपार्श्ववर्तिना तर्केण तान्सर्वान्क्रोधावेशकषायितनय- भूमयो यासां ताः कनकसितलस्थलाः स्रवन्तीः नदीः, पृथुजघनाः स्थूलनितम्बाः कमलाननाः पद्ममुखीः वरोरूः सुन्दरीः स्त्रियः, मरकतदलकोमलाः माणिक्यकोमलाः, वनालीः काननमाला, ( एवंविधान् ) निजपुण्योचितान् स्वसुकृताहतान् सर्वभोगान् सर्वोण्यपि भोग्यवस्तूनि भज सेवश्य । स्वर्णमयपुलिनभूमिषु स्रवन्तीष्ववगाहस्व, पृथुनितम्बतया कमलाभमुखतया च हृद्याभिः सुन्दरीभिः सह विहर, मरकतकोम- लासु काननभूमिषु सञ्चरैवं स्वपुण्यपाकलब्धानि भोग्यवस्तूनि प्राप्यानन्दं भज, किमिति रूक्षे ज्ञानवर्त्मनि पदं निधाय स्वं कदर्थयितुमुद्यच्छसीत्यर्थः ॥ ६ ॥ श्लाघ्यम्-प्रशंसनीयम् । अनुमोदितम् = तदुक्तेस्समर्थं कृतम् । सम्मतिपथम्- अनुज्ञामार्गम् । मायाप्रस्तावस्य मनसासमर्थितस्य सङ्कल्पेन चाभ्यनुज्ञातस्य पुरु- षोऽङ्गीकारमिव कर्तुं प्रवृत्त इत्याशयः । संसारवागुराम्-भवजालम् । अभिपतितः-अनुप्रविष्टः । पार्श्ववर्त्तिना = समीपस्थेन । तर्केण-युक्त्या, न्यायाद्यागमपुरस्सरेण बुद्धिवादेन । वनमालामे स्वपुण्यलब्ध सर्वविध भोग प्राप्त कीजिये ॥ ६ ॥ शान्ति—इसके बाद ? श्रद्धा—पुत्रि, यह सुनकर मायाने इस प्रस्ताव की प्रशंसा की । सङ्कल्पने प्रोत्साहन दिया, स्वामीने भी सम्मति-सी दे दी । शान्ति—( खेदपूर्वक ) हाय धिक्कार है, धिक्कार है, फिर स्वामी उसी संसार जालमें फंसे । श्रद्धा—नहीं नहीं । शान्ति—तो फिर ? श्रद्धा—इसके बाद पार्श्वस्थ तर्कने उन सबको क्रोधसे लाल आँखोंसे देखकर स्वामीसे १४ प्र० च०

२१० प्रबोधचन्द्रोदयम् नया प्रोक्तथाभिहितः । स्वामिन् , किमेवमेभिर्विषयामिषग्रासगृध्रुभिरास्था- निकैः पुनरपि तेष्वेव तथैव विषमविषयाङ्गारेषु निपात्यमानमात्मानं नाव- बुध्यसे । ननु भोः, भवसागरतारणाय यासौ नचिराद्योगरिस्त्वयाश्रिता । अधुना परिमुच्य तां मदात्कथमङ्गारनदीं विगाहसे ॥ ७ ॥ शान्तिः—ततस्ततः । श्रद्धा—ततस्तद्वचनमाकर्ण्य स्वस्ति विषयेभ्य इत्यभिधायावधीरिता मधुमती । शान्तिः—साधु साधु । अथ क्व प्रस्थितास्ति भवती । क्रोधावेशकषायितनयनम्-क्रोधोदयवशाद्रक्तदृशा । अभिहितः-उक्तः पुरुष इति शेषः । विषयामिषग्रासगृध्नुभिः-सांसारिकसुखोपभोगरूपमांसग्राहलुब्धैः । आस्था- निकैः-सभाधूर्तेः । तथैव-पूर्ववत् । विषमविषयाङ्गारेषु-भयानकविषयसन्तापेषु । निपात्यमानम्-आकृष्य नीयमानम् । नावबुध्यसे-नावैषि । भवसागरेति० भवसागरस्य संसाररूपसमुद्रस्य तारणाय उद्धाराय याऽसौ योगतरिः ज्ञानरूपा नौका त्वया पुरुषेण नचिरात् अधुनैव आश्रिता अवलम्बिता, अधुना सम्प्रति तां परिमुच्य विहाय अङ्गारनदीं विषयज्वालापूर्णतया संसाररूपां वह्निधाराम् कथं केन प्रकारेण विगाहसे अवतरसि । संसारसागरात्परं पारं गन्तुं भवता सम्प्रत्येव ज्ञाननौकारूढ़ा, तां विहाय भोगप्रदसौख्यवर्त्मानुधावनं भवतो ज्ञानपरिपन्थतयाऽङ्गारनदीप्रवेशतुल्यं जायते तदिदं कथमपि मा कृथाः, आपात- सुरसस्वादेषां भोगानामिति भावः ॥ ७ ॥ स्वस्ति विषयेभ्यः-विसृज्यन्ते भोगाः । अवधीरिता-तिरस्कृता । प्रस्थिता- चलिता । कहा—स्वामिन् , क्यों फिर इन विषयामिषलोभी गृध्रोंसे पुनः अपनेको उन्हीं विषम विषय ज्वालायुक्त संसारमें पात्यमान नहीं देख रहे हो ? अजी, भवसागर पार करनेके लिये अभी अभी तुम जिस योग नौकापर आरूढ हुए हो अब उसे छोड़ किस प्रकार अङ्गार नदीमें डूबने जारहे हो ? ॥ ७ ॥ शान्ति—इसके बाद ? श्रद्धा—उसकी बातें सुनकर विषयोंको नमस्कार करके मधुमती विद्याको तिरस्कृ कर दिया । शान्ति—साधु साधु ! अब तुम कहाँ चली हो ।

षष्ठोऽङ्कः २११ श्रद्धा—आदिष्टाहं स्वामिना यथा विवेकं द्रष्टुमिच्छामि । शान्तिः—तत्त्वरतां भगवतीति । श्रद्धा—तदहं राजसन्निधिं प्रस्थिता । शान्तिः—अहमपि महाराजेनोपनिषदमानेतुमादिष्टा । तद्भवतु स्वनियोगं संपाद्यावः । ( इति निष्क्रान्ते ) प्रवेशकः । ( ततः प्रविशति पुरुषः ) पुरुषः—( विचिन्त्य । सहर्षम् ) अहो माहात्म्यं देव्या विष्णुभक्तेः । यत्प्रसादान्मया, तीर्णाः क्लेशमहॉर्मयः परिहृता भीमा ममत्वभ्रमाः शान्ता मित्रकलत्रबन्धुमकरग्राहग्रहग्रन्थयः । त्वरताम्-शीघ्रतां करोतु । राजसन्निधिम्-विवेकपार्श्वम् । स्वनियोगम्-आत्मनः कर्त्तव्यम् । त्वं विवेकस्य पार्श्वं याहि, अहं चोपनिष- दन्तिकं व्रजाम्येवमावां निजं निजं कृत्यं प्रति सयत्ने भवाव इत्याशयः । माहात्म्यम्-प्रभावातिशयः । यत्प्रसादात्-यदीयानुग्रहात् । मया-पुरुषेण । तीर्णा इति० क्लेशमहॉर्मयः अविद्यास्मितादिक्लेशतरङ्गाः तीर्णाः उत्तीर्णाः, भीमाः बन्धनसाधनतया भीषणा ममत्वभ्रमाः ममतारूपा आवर्त्ताः परिहृताः लङ्घिताः, श्रद्धा—स्वामीसे आज्ञा पाकर मैं विवेक से मिलना चाहती हूँ । शान्ति—तब तुम शीघ्रता करो। श्रद्धा—तो अब मैं राजा के पास चलती हूँ । शान्ति—मुझे भी महाराजने उपनिषद्‌को बुला लानेको आज्ञा दी है । तो हम दोनों ही अपना अपना कर्त्तव्य करें । ( दोनों जाती है ) प्रवेशक । ( पुरुषका प्रवेश ) पुरुष—( सोचकर, सहर्ष ) देवी विष्णुभक्तिका माहात्म्य धन्य है । जिसके प्रसादसे हमने— क्लेशतरङ्गोंको पार किया, भयानक ममत्वभ्रमको दूर छोड़ा, मित्र कलत्र बन्धुरूप

क्रोधौर्वाग्निरपाकृतो विघटितास्तृष्णालताविस्तराः पारेतीरमवाप्तकल्पमधुना संसारवारांनिधेः ॥ ८ ॥ ( ततः प्रविशत्युपनिषच्छान्तिश्च ) उपनिषत्—सखि, कथं तथा निरनुक्रोशस्य स्वामिनो मुखमालोक- यिष्यामि । येनाहंमितरजनयोपेव सुचिरमेकाकिनी परित्यक्ता । शान्तिः—देवि, कथं तथाविधविपत्पतितो देव उपालभ्यते । उपनिषत्—सखि, न दृष्टा त्वया मे तादृशी दशा । येनैवं ब्रवीषि । मित्रम् सखा, कलत्रम् नारी, बन्धवः सुहृदः, त एव मकराः मत्स्याः, ग्राहाः जलचरा कुलीरादयस्तैर्ग्रहः ग्रहणम् तद्रूपाः ग्रन्थयः बन्धनानि शान्ताः प्रशमिताः, क्रोधौर्वाग्नि कोपरूपो वडवानलः अपाकृतः दूरतः परिहृतः, तृष्णालताविस्तराः लोभरूपाः समुद्र वल्लर्यः विघटिताः छिन्नाः, अधुना सम्प्रति संसारवारां निधेः संसाररूपस्य सागरस्य पारेतीरम् परतटम् अवाप्तकल्पम् प्राप्तमिव । सागरे तरणीये तरङ्गा आवृत्ता मकर ग्राहा वडवानलः सामुद्रिकलताश्च प्रतिबन्धमाचरन्ति, तद्वदस्य संसारस्यापि परंप रावाप्तौ पञ्चाविद्यादयः क्लेशाः, ममतावानि, मित्रकलत्रादयः, क्रोधो लोभश्च प्रति बध्नन्ति, तानेतानपास्याहं ज्ञानपथमारूढोऽस्मि तन्मन्येऽस्य संसारसागरस्य प पारं प्राप्तवानिवानि सञ्जात इत्याशयः । साङ्गं परम्परितं रूपकमलङ्कारः । शार्दूल विक्रीडितमेव वृत्तम् ॥ ८ ॥ तथा निरनुक्रोशस्य-तेन रूपेण निर्दयस्य । स्वामिनः-विवेकस्य । इतरजनये षेव-परस्त्रीव । एकाकिनी-स्वसम्बन्धवर्जिता । तथाविधविपत्पतितः-तादृशसङ्कटग्रस्तः । देवेन भवत्यास्त्यागो न निजेच्छया कृतः किन्तु परिस्थितिपारवश्येनैव, तन्नार्हति भवती देवे दोषमारोप्य तमुपालब्धु मित्यर्थः । उपालभ्यते-आक्रुश्यते । येनैवं ब्रवीषि-मया क्रियमाणं देवोपालम्भं नोचितं मन्यसे, यदि त्वं मदी- मकरोंके फेर से पिण्ड छुड़ाया, क्रोधरूप वडवानलको अपाकृत किया, तृष्णालता विभ्रमः विघटित किया, इस तरह अब संसारसागरका तट आसन्न हो रहा है ॥ ८ ॥ ( उपनिषद् और शान्तिका प्रवेश ) उपनिषत्—सखि, उस निर्दय स्वामीका मुख किस प्रकार देखूंगी, जिसने मुझे औ की स्त्रीकी तरह एकाकिनी छोड़ दिया । शान्ति—देवि, जब वह स्वयं उस तरहकी आपत्तिमें थे, फिर उनसे क्या शिकायत उपनिषत्—सखि, तुमने हमारी वह दशा नहीं देखी, इसीसे इस प्रकार कह

शृणु— बाह्वोर्भग्ना दलितमणयः श्रेणयः कङ्कणानां चूडारत्नग्रहनिकृतिभिर्भूषितः केशपाशः । केः कैर्नाहं हतविधिबलादीहिता दुर्विदग्धै- र्दासीकर्तुं सपदि दुरितैर्दूरसंस्थे विवेके ॥ ६ ॥ शान्तिः—सर्वमेतन्महामोहस्य दुर्विलसितम् । नात्र देवस्यापराधः । तेन मोहेन मनः कामादिद्वारेण प्रबोधयता त्वत्तो दूरीकृतो विवेकः । दशामद्रक्ष्यस्तदा मयोक्तं समर्थयितुं त्वमपि प्रवृत्ताऽभविष्य इत्याशयः । बाह्वोरिति० दलितमणयः शकलीकृतेन्द्रनीलादिमणिभागाः बाह्वोः मम करयोः कङ्कणानां श्रेणयः बाहुपरिधेयभूषणभराः भग्नाः नाशिताः, चूडारत्नग्रहनिकृतिभिः मस्तकालङ्कारापहरणरूपतिरस्कारैः केशपाशः कचभरः दूषितः अशोभनीकृतः, सपदि तत्क्षणं हतविधिबलात् दुरदृष्टदोषात् विवेके तन्नामनि मम स्वामिनि दूरसंस्थे दूरवर्त्तिनि कैः कैः दुर्विदग्धैः नीचैर्धूर्त्तैः अहम् दासीकर्तुम् स्वदास्यं लम्भयितुम् न ईहिता इष्टा । अभाग्यदोषाद्विवेकरूपे स्वामिनि दूरंगते समानाथायाः कङ्कणवर्त्तिनो मणयश्चूर्णिताः, चूडारत्नापहारद्वारा कबरी शून्यतां गमिता, नैतावदेव, किन्तु सर्वैरपि दुर्विदग्धा मां दासीकर्तुमप्यचेष्टन्तेत्यर्थः । विवेकाभावे 'द्रष्टव्य' इति विधि- वाक्यदर्शनदुर्विदग्धा मीमांसका ब्रह्मज्ञानस्य विधिशेषतामतिष्ठन्ते, तच्चोपक्रमोप- संहारपूर्वकश्रुतितात्पर्यावधारणाभावमूलकमिति तैरुपनिषदुपप्लवः क्रियमाणोऽत्र वर्णितः । उपक्रमोपसंहारात्मकं तात्पर्यलिङ्गममुत्सृज्यान्यथा विचार उपनिषत्कङ्कण- भङ्गः, चूडारत्नमात्मस्वरूपं तस्य ग्रहोऽन्यथावर्णनं सैव निकृतिश्च । तदेवं प्रकारे- णोपनिषत्तात्पर्यान्यथाकार एव तद्दासीकरणप्रयासोऽन्यशास्त्रेण क्रियमाणोऽत्र निवे- दितो बोध्यः ॥ ९ ॥ दुर्विलसितम्-दुश्चेष्टितम् । देवस्य-विवेकस्य । नैसर्गिकम्-स्वभावसिद्धम् । हो । सुनो— हमारे बाहुकङ्कणकी मणियाँ टूट-फूट गई, चूडामणिके अपहरणसे केशपाश दूषित कर दिया गया, भाग्यदोषवश विवेकके दूरवर्त्ती हो जानेपर किस दुष्टने मुझे दासी बनाना नही चाहा ? ॥ ९ ॥ शान्ति—यह सब महामोहकी दुष्टता है । इसमे देवका कुछ भी अपराध नहीं है । उस मोहने कामादि द्वारा मनको बहकाकर विवेकको तुमसे अलग कर दिया । कुल

२१४ प्रबोधचन्द्रोदयम् एतदेव कुलस्त्रीणां नैसर्गिकं शीलं यद्विपन्मग्नस्य स्वामिनः समयप्रती- क्षणमिति । तदेहि दर्शनप्रियालापेन संभावय देवम् । संप्रत्यपहता विद्विषः । संपूर्णास्ते मनोरथाः । उपनिषत्—सखि, संप्रत्यागच्छन्ती वत्सया गीतयाऽहं रहस्युक्ता यथा भर्ता स्वामी च पुरुषस्त्वया यथाप्रश्नमुत्तरेण संभावयितव्यः । तथा प्रबोधोत्पत्तिर्भविष्यतीति तत्कथं गुरूणामध्यक्षं धार्ष्ट्यमवलम्बिष्ये । शान्तिः—देवि, अविचारणीयमेतद्वाक्यं भगवत्या गीतायाः, अयमेव चार्थो भगवत्या विष्णुभक्त्या विवेकस्वामिनो निरुक्तः । तदेहि । संभा- वय दर्शनेन भर्तारमादिपुरुषं च । शीलम्-चारित्रम् । विपन्मग्नस्य-आपत्तिपतितस्य । समयप्रतीक्षणम्-सुखसमयसमा- गमप्रतीक्षा । दर्शनप्रियालापेन-साक्षात्पूर्वकसरसकथाप्रस्तावेन । सम्भावय-आद्रि- यस्व । अपहताः नष्टाः । विद्विषः-कामादयोऽरयः । वत्सया, पुत्रिकया गीताया उप- निषत्पुत्रकाभावस्तस्याः सर्वोपनिषदुत्थतयोक्तः । उक्तोऽयमर्थः प्रकारान्तरेणान्यत्र यथा-‘सर्वोपनिषदो गावो ऽ दुग्धं गीतामृतं महत्' इति । रहसि-एकान्ते । भर्त्ता-वि- वेकः। स्वामी पुरुषः-आत्मा । यथाप्रश्नमुत्तरेण सम्भावयितव्यः-प्रश्नमनतिक्रम्योत्तरं दातव्यं, न तु प्रश्नविरुद्धमित्यर्थः । तथा-यथाप्रश्नोत्तरप्रदानेन । प्रबोधोत्पत्तिः-ज्ञान- जन्म । गुरूणामध्यक्षम्-श्वशुरस्थानीयपुरुषपुरतः । धार्ष्ट्यम्-निर्लज्जभावम् । अय- मस्याशयः—काचन स्नुषा सलज्जा गुरुजनपार्श्वे न किमपि प्रकटं मन्त्रयति किन्त्व- न्यं जनं द्वारीकृत्य मनोगतमभिदधाति, तद्वदुपनिषदपि शब्दत्वेनापरोक्षमेव ज्ञानं जनयितुं प्रभवति, जननीयं चात्र प्रत्यक्षात्मकं ज्ञानमिति प्रत्यक्षम्भिधाने तारतम्यं साहित्यिकभाषयोपनिबद्धम् । अविचारणीयम्-अनालोचनीयम् , तदुक्तमविचार्य चरितार्थनीयमित्यर्थः । निरुक्तः-निरवशेषमभिहितः । ललनाओंका यही तो स्वाभाविक चरित्र होता है कि वह विपत्तिमे फंसे स्वामीके सुखसमयकी प्रतीक्षा करती हैं । अतः चलो, दर्शन तथा प्रियसंभाषणसे देवको प्रसन्न करो । शत्रु निश्शेष हो गये, तुम्हारे मनोरथ पूर्ण हुए । उपनिषत्—आनेके समय वत्सा गीताने मुझे बताया कि स्वामी, पुरुषको तुम प्रश्नानुसार उत्तर देना, वैसा करनेसे प्रबोधकी उत्पत्ति होगी, तब बड़े बूढोंके सामने धृष्टता कैसे करूंगी ? शान्ति—गीताकी इस बातपर विचार नही करना चाहिये, यही बात भगवती विष्ण् भक्तिने भी विवेक स्वामीसे कही है । अतः आओ, स्वामी और आदिपुरुषके सामने आओ

षष्ठोऽङ्कः २१५ उपनिषत्—यथा वदति प्रियसखी । ( इति परिक्रामति ) ( ततः प्रविशति राजा श्रद्धा च ) राजा—अयि वत्से, द्रक्ष्यति शान्तिः प्रियामुपनिषदम् ? । श्रद्धा—देव, गृहीतोद्देशैव शान्तिर्गता कथं तां न द्रक्ष्यति । राजा—कथमिव । श्रद्धा—देव, प्रागेव कथितमेतद्देव्या विष्णुभक्त्याऽऽसीत्, यथा मन्दाराभिधाने शैले विष्णोरायतने देव्यां गीतायां तर्कविद्याभयादनु- प्रविष्टेति । राजा—कथं पुनस्तर्कविद्याया भयम् । श्रद्धा—देव, इममर्थं सैव प्रस्तोष्यति । तदागच्छतु देवः । एष स्वामी त्वदागमनमेव ध्यायन्विविक्ते वर्तते । द्रक्ष्यति=साक्षात् करिष्यति ? शान्तिरूपनिषदं किं द्रष्टुं शक्ष्यतीति प्रश्नाशयः । गृहीतोद्देशा-ज्ञाततद्वासस्थाना । कथमिव-कथं तया तद्वासस्थानं ज्ञातमिति प्रश्नार्थः । मन्दराभिधाने-मन्दारनामके, विहारप्रान्ते प्रसिद्धो मन्दारः, यत्र मधुसूदन- मन्दिरम् । विष्णोरायतने-विष्णुमन्दिरे । तर्कविद्याभयात्-तर्कशास्त्रतो भीतेः, तर्कादुपनि- षदो भयं विरुद्धमतस्थापनप्रवृत्तत्वात्तर्कस्य, तर्को हि कारणसाजात्यं कार्यस्यास्थाय ब्रह्मण उपादानभावं खण्डयति, इदमेवोपनिषदस्तर्काद्भयम् । इममर्थम्-कथं तस्यास्तर्काद्भयमिति । सा-उपनिषत् । प्रस्तोष्यति-वक्ष्यति, उपनिषत्—प्रियसखीका जो आदेश हो । ( चलती है ) ( राजा और श्रद्धाका प्रवेश ) राजा—अयि वत्से, क्या शान्ति अपनी प्यारी उपनिषद्‌को पायेगी ? श्रद्धा—देव, जब शान्ति ठीक पता पाकर गई है तब उसे क्यों नहीं पायेगी ? राजा—कैसे ? श्रद्धा—देव, देवी विष्णुभक्तिने यह बात पहले ही कह दी थी, कि मन्दार पर्वतपर विष्णुमन्दिरमें तर्कविद्याके भयसे उपनिषद् गीतामें प्रवेश कर गई है । राजा—तर्कविद्यासे भय कैसा ? श्रद्धा—देव, इस बातका प्रस्ताव वही करेगी । अतः देव आवें । स्वामी एकान्तमें आपके आनेका ही ध्यान कर रहे हैं ।

२१६ प्रबोधचन्द्रोदयम् राजा—( उपसृत्य ) स्वामिन्, अभिवादये । पुरुषः—वत्स, प्रक्रमविरुद्धोऽयं समुदाचारः । यतो ज्ञानवृद्धतया भवानेवास्माकमुपदेशदानेन पितृभावमापन्नः । कुतः— पुरा हि धर्माध्वनि नष्टसंज्ञा देवास्तमर्थं तनयानपृच्छन् । ज्ञानेन सम्यक्परिगृह्य चैतान् हे पुत्रका संशृणुतेत्यवोचन् ॥ १० ॥ तद्भवान्पितृत्वेनास्मासु वर्ततामित्येष एव धर्मः । परसमवेतभयविषये परकर्तृकाभिधानापेक्षया । भयाश्रयजनवचनमेक प्रमाणवत्तर- मिति तयैवेह वक्तव्यमित्याशयः । विविक्ते-रहसि । प्रक्रमविरुद्धः-न्यायविपरीत:, भवता मदीयमभिवादनं क्रियते, नेदं न्यायसिद्ध- मित्यर्थः । ज्ञानवृद्धतया-समधिकज्ञानवत्तया । भवान्-विवेकः । उपदेशदानेन- स्वरूपज्ञानसम्पादकोपदेशप्रदानेन । पितृभावमापन्नः-पितृत्वं गतः । पुरेति० पुरा पूर्वकाले, धर्माध्वनि धर्ममार्गे नष्टसज्ञाः लुप्तचेतनाः देवाः तम् अर्थम् धर्मरूपम् तनयान् स्वान्पुत्रान् अपृच्छन् जिज्ञासितवन्तः । ते च पुत्राः एतान् प्रश्नकर्तॄन् । देवान् ज्ञानेन हेतुना परिगृह्य साधु पृष्टमिति स्वीकृत्य हे पुत्रकाः संशृणुत अवधानेनाकर्णयत इत्यवोचन् उक्तवन्तः । 'पुरा प्रजापतिः देवान् दृष्ट्वा केनचित्कारणेनाज्ञानिनो भूयांसुरिति शशाप, तदनन्तरं ताननुगृह्णन् अन्योन्यं पितृत्वं पुत्रत्वं च ददौ' इति कथात्रानुसन्धेया । उक्तञ्चैतत्प्रतिमं वृत्तान्तरं मनुना— 'अध्यापयामास पितॄन् शिशुराङ्गिरसः कविः पुत्रका इति होवाच ज्ञानेन परिगृह्य तान् ॥ ते तमर्थमपृच्छन्त देवानागतमन्यवः । देवाश्चैतान् समेत्योचुर्न्याय्यं वः शिशु- रुक्तवान् ॥ अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम्' इति ॥ इति ॥ तत्-उपदेशप्रदत्वात् । भवान्-विवेकः । पितृत्वेन-पितृचितेनाचारेण । वर्त्तताम्- राजा—( समीप आकर ) स्वामिन्, प्रणाम करता हूँ । पुरुष—वत्स, यह आचार प्रक्रम विरुद्ध है क्योंकि ज्ञानवृद्धतया उपदेश प्रदान करनेसे आप ही हमारे पिता तुल्य हैं—क्योंकि— पुराने जमानेमें धर्ममार्गमें भटकने हुए देवोंने पुत्रोंसे उसके विषयमें प्रश्न किये, उन पुत्रोंने उन्हें ज्ञानसे ग्रहण करके पुत्र शब्दसे व्यवहार कर उपदेश सुननेको कहा ॥१०॥ अतः आप पितृरूपसे हमपर बरतें, यही धर्म है ।

षष्ठोऽङ्कः २१७ शान्तिः—एष देवि, देवेन सह स्वामी विविक्ते वर्तते। तदुपसर्पतु देवी। उपनिषत्—(उपसर्पति) शान्तिः—स्वामिन्, एषोपनिषद्देवी पादवन्दनायागता। पुरुषः—न खलु न खलु। यतो मातेयमस्माकं तत्त्वावबोधोदयेन। तदेषैवास्माकं नमस्या। अथवा अनुग्रहविधौ देव्या मातुश्च महदन्तरम्। माता गाढं निबध्नाति बन्धं देवी निकृन्तति॥ ११॥ उपनिषत्—(विवेकमालोक्य नमस्कृत्य दूरे समुपविशति) पुरुषः—अम्ब, कथ्यताम्। क्व भवत्या नीता एते दिवसाः। व्यवहरतु। विविक्ते-रहसि। पादवन्दनाय=चरणयोः प्रणतये। तत्त्वावबोधोदयेन-तत्त्वावबोधोदयकारणेन। एषा-उपनिषत्। नमस्या-प्रणम्या। अनुग्रहविधाविति० अनुग्रहविधौ अनुग्रहे कर्त्तव्ये देव्याः उपनिषदः मातुश्च महत् अन्तरम् महान् भेदः। माता जननी गाढम् अत्यर्थं निबध्नाति संसारे क्षिपति, देवी उपनिषत् बन्धं संसारपाशम् निकृन्तति छिनत्ति। मातोपनिषच्चेति द्वयमपि सत्कारार्हम्, तत्रापि कृपातारतम्यालोचने तु मात्रपेक्षयोपनिषदधिकादरयोग्या, मातुः संसारे क्षेपकत्वादस्याश्च तत उद्धारे सयत्नादतो देव्युपनिषदेवाधिकादरभाजन- मिति तात्पर्यम्॥ ११॥ नीताः-गमिताः। शान्ति—देवि, यही स्वामी देवके साथ एकान्तमें कुछ बातें कर रहे हैं, देवी समीप जायं। उपनिषद्—(समीप जाती है) शान्ति—स्वामिन्, यह देवी उपनिषद् चरणोंमें प्रणाम करने आई है। पुरुष—नहीं नहीं, प्रबोधको जन्म देनेके कारण यह हमारी माता है, अतः यही मेरे लिये प्रणम्य है, अथवा— अनुग्रहके संबन्धमे माता तथा देवीमें महान् अन्तर है, माता जोरसे (स्नेह बन्धनमें) बांधती है और देवी बन्धन काटती है॥ ११॥ उपनिषद्—(विवेकको देखकर नमस्कार करके अलग बैठती है) पुरुष—मां, कहो, तुमने इतने दिन कहाँ बिताये।

२१८ प्रबोधचन्द्रोदयम् उपनिषत्—स्वामिन्, नीतान्यमूनि मठचत्वरशून्यदेवा- गारेषु मूर्खमुखरैः सह वासराणि । पुरुषः—अथ ते जानन्ति किमपि भवत्यास्तत्त्वम् । उपनिषत्—न खलु । किन्तु ते स्वेच्छया मम गिरां द्रविडाङ्गनोक्त- वाचामिवार्थमविचार्य विकल्पयन्ति ॥ १२ ॥ तेन केवलं तेषां परार्थग्रहणप्रयोजनमेव मद्विचारणम् । पुरुषः—ततस्ततः । नीतानीति० अमूनि प्रवासकालिकानि वासराणि दिनानि मठचत्वरशून्यदेवा- गारेषु मन्दिरजनसामान्यवासस्थलरिक्तदेवायतनेषु मूर्खमुखरैः निरक्षरवाचालैः सह नीतानि गमितानि । तत्त्वम्-रहस्यम् । ते स्वेच्छयेति० ते मूर्खमुखराः स्वेच्छया यदृच्छया मम गिराम् मदुक्तीनाम् । द्रविडाङ्गनोक्तवाचाम् इव द्रविडदेशवासिललनाजनवचनानाम् इव अर्थम् अविचार्य विना विचारं विकल्पयन्ति, इदमत्र तात्पर्यमिदं वेति सन्दिहते । यथा कश्चिदुत्तरा- खण्डवासी दाक्षिणात्यललनावचांसि श्रुत्वा तदर्थानभिज्ञतया इयमिदमभिप्रैति, इदं वाऽभिप्रैति' इति विकल्पयति तद्वदिमेऽपि मूर्खमुखराः पामरा ममोक्तिषु नाना- विकल्पनारचयन्तीत्याशयः । द्रविडस्त्रियः पुरुषापेक्षयाऽस्पष्टवाचो भवन्तीति ता एव दृष्टान्तिताः ॥ १२ ॥ तेषाम्-मूर्खमुखराणाम् । परार्थग्रहणप्रयोजनम्-परकीयधनापहरणार्थम् । मद्वि- चारणम्-मदर्थभावनम् । ते हि बहिर्मुखाः केवलं पाण्डित्यख्यापनेन परकीयधनाहर- उपनिषत्—स्वामिन्, ये दिन हमने मठ, चत्वर तथा शून्य देवालयोंमें मुखर मूर्खों के साथ बिताये । पुरुष—क्या वह आपके तत्त्वकी कुछ जानकारी रखते हैं । उपनिषत्—नहीं, किन्तु—वे स्वेच्छासे मेरी उक्तियोंका अर्थ करते हैं जैसे लोग द्रविडाङ्गनाओंकी उक्तिका अर्थ नहीं समझकर कुछ कल्पना कर लेते हैं ॥ १२ ॥ वे केवल परकीय अर्थ जाननेके लिये ही मेरे सम्बन्धमे विचार करते हैं । पुरुष—तब ?

षष्ठोऽङ्कः २१६ उपनिषत्—ततः कदाचित् कृष्णाजिनाग्निसमिदाज्यजुहूस्स्रुवादि- पात्रैस्तथेष्टिपशुसोममुखैर्मखैश्च । दृष्टा मया परिवृताखिलकर्मकाण्ड- व्यादिष्टपद्धतिरथाध्वनि यज्ञविद्या ॥ १३ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततो मया चिन्तितम् । अपि नामैषा पुस्तकभारवाहिनी मे ज्ञास्यति तत्त्वम् । अत एवास्याः सन्निधौ कानिचिद्वासराणि नयामि । पुरुषः—ततस्ततः । णमेवोपनिषदर्थविभावनफलमभिप्रयन्ति न वस्तुतत्त्वावधारणमिति भावः । कृष्णाजिनेति० अथ अनन्तरम् मया उपनिषदा अध्वनि मार्गे-कृष्णाजिनम् कृष्ण- मृगचर्म, अग्नयः गार्हपत्याद्यग्नित्रयी, समिधः होमकाष्ठानि, आज्यं होतव्यं घृतम् ,- जुहूः पात्रभेदः, स्रुवः, आदिपदात् ध्रुवादिपात्रपरामर्शः, तैः-पात्रैः यज्ञोपकरणैः, इष्टिः दर्शपूर्णमासेष्टिः, पशुः निरुढपशुः, सोममुखा अग्निष्टोमप्रभृतयो मखाः यागास्तैः- परिवृता वेष्टिता कर्मकाण्डव्यादिष्टपद्धतिः कर्मकाण्डप्रतिपादितेति कर्त्तव्यताक्रमा यज्ञविद्या अध्वरमीमांसा दृष्टा अवेक्षिता । मध्येमार्गमागच्छन्त्यहं कर्मकाण्डनिरूपिते- तिकर्त्तव्यताक्रमां तत्तद्यज्ञसाधनोपबृंहितां मीमांसां साक्षाददृक्षीति तात्पर्यम् । स्पष्ट- मितरत् । वसन्ततिलकं वृत्तम् ॥ १३ ॥ ततः—यज्ञविद्याऽवलोकनानन्तरम् । पुस्तकभारवाहिनी—नानाविधपुस्तकधरा । तत्त्वम्-सारम् । अत एव-अस्या मदीयतत्त्वाभिज्ञत्वादेव । सन्निधौ-पार्श्वे । कानि- चित्-कतिपयानि । वासराणि-दिनानि । उपनिषद्—अनन्तर कभी— कृष्णमृगचर्म, समित्, अग्नि, घी, जुहू, स्रुव आदि पात्र तथा इष्टि पशुसोम आदि यागके साथ कर्मकाण्डोक्त पद्धत्यनुसारिणी मीमांसा मुझे रास्तेमें मिली ॥ १३ ॥ पुरुष—तब ? उपनिषद्—अनन्तर मैने सोचा कि क्या यह पुस्तकभारवाहिनी मेरा तत्त्व समझती है ? इसलिये कुछ दिन इसीके पास व्यतीत किये जांय । पुरुष—तब ?

२२० प्रबोधचन्द्रोदयम् उपनिषत्—ततस्तामहमुपस्थिता। तया चाहमुक्तास्मि। भद्रे, किं ते समीहितमिति। ततो मयोक्तम्। आर्ये, अनाथास्मि त्वयि निवस्तु- मिच्छामीति। पुरुष—ततस्ततः। उपनिषत्—ततो मयोक्तम्। यस्माद्विश्वमुदेति यत्र रमते यस्मिन्पुनर्लीयते भासा यस्य जगद्विभाति सहजानन्दोज्ज्वलं यन्महः। शान्तं शाश्वतमक्रियं यमपुनर्भावाय भूतेश्वरं द्वैतध्वान्तमपास्य यान्ति कृतिनः प्रस्तौमि तं पूरुषम् ॥१४॥ ताम्-यज्ञविद्याम्। तया-यज्ञविद्यया। त्वयि-तव पार्श्वे। निवस्तुम्-वासं कर्तुम्। यस्मादिति० यस्माद् विश्वं जगदुदेति उत्पद्यते, यत्र रमते प्रतिष्ठां लभते, पुनः यस्मिन् लीयते विलयं गच्छति, यस्य भासा दीप्त्या जगत् विश्वम् विभाति, यन्महः यदीयं तेजः सहजानन्दोज्ज्वलम् स्वाभाविकसुखप्रकाशाभिन्नम्, कृतिनः कृतमतयः द्वैतध्वान्तम् द्वितेव द्वैतं ध्वान्तं तमः भेदरूपमन्धकारम् अपास्य उच्छिद्य यम् शान्तम् उदासीनम् शाश्वतम् नित्यम् भूतेश्वरम् जगन्नियन्तारम् अपुनर्भावाय मुक्तये यान्ति आश्रयन्ति तम् पूरुषम् परमात्मानं प्रस्तौमि निरूपयामि। उपनिषदहं तं परमात्मानं निरूपयामि यस्माज्जगदुत्पद्यते यत्र तिष्ठति यस्मिंश्चान्ते लीयते, एत- च्च जगज्जन्मस्थितिलयकारणत्वरूपं ब्रह्मगस्तटस्थं लक्षणमाह। यस्य दीप्त्या जगदिदं भातीत्युक्त्या 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाती'ति श्रुत्यर्थः क्रोडीकृतः। 'सहजानन्दोज्ज्वलं महः' इत्यस्य स्वाभाविकानन्दप्रकाशरूपम् इत्यर्थः, स्वाभाविकत्वाऽनुद्भूतता, सा नित्यत्वपर्यवसायिनो, तेन सच्चिदानन्दं ब्रह्मेति उपनिषद्—अनन्तर मैं उसके पास गई, उसने मुझसे पूछा कि तुम क्या चाहती हो ? मैंने कहा—आर्य, निराश्रय हूँ, तुम्हारे पास रहना चाहती हूँ। पुरुष—तब ? उपनिषत्—तब मैंने कहा— जिससे संसार उत्पन्न होता है और फिर जिसमें लीन हो जाता है, जिसके प्रकाशसे संसार प्रकाशित होता है और जिसका प्रकाश स्वाभाविक तथा उज्ज्वल आनन्दरूप है, शान्त, अविकारी, नित्य, भूतेश्वर जिसकी शरणमें विद्वान् लोग द्वैतविनाश करके जाते हैं, मैं उस पुरुषका प्रस्ताव करती हूँ ॥ १४॥

षष्ठोऽङ्कः १२१ ततस्तयोक्तम् । पुमानकर्ता कथमीश्वरो भवेत् क्रिया भवोच्छेदकरी न वस्तुधीः । कुर्वन्क्रिया एव नरो भवच्छिदः शतं समाः शान्तमना जिजीविषेत् ॥ १५ ॥ तन्मे नातिप्रयोजनं भवत्याः परिग्रहेण तथापि यदि कर्तारं भोक्तारं पुरुषं स्तुवन्ती भवती कियन्तं कालमत्र वस्तुमिच्छति । को दोषः । ब्रह्मणः स्वरूपलक्षणं प्रकटितम् । द्वैतध्वान्तमपास्येत्यनेन ब्रह्मप्राप्त्युपायं प्रतीङ्गितं कृतम्, अपुनर्भावायेत्यनेन ब्रह्मज्ञानफल मोक्ष इत्यभिहितम्, मोक्षस्यानित्यतां वारयितुं च शाश्वतमुदासीनमिति चोक्तमिति सर्वोऽपि वेदान्तप्रतिपाद्योऽर्थोऽत्र संक्षिप्य समावेशितो बोध्यः । शार्दूलविक्रीडितं वृत्तम् ॥ १४ ॥ पुमानिति० अकर्त्ता कर्त्तृत्वासंसृष्टः पुमान् पुरुषः कथम् ईश्वरः भवेत् ? तव मते ईश्वरत्वं कर्तृत्वनियमितमिति कर्तृत्वाभावे सतीश्वरत्वाभावोऽपि सिद्ध एवेत्यर्थः। नन्वे- वमीश्वराराधनं मुक्तये क्रियमाणमसङ्गतं स्यान्मुक्तिश्च नोपद्येतेत्यत्राह—क्रिया ज्यो- तिष्टोमादिरूपा भावना एव भवच्छेदकरी संसारनिवर्त्तिका, वस्तुधीः परमार्थसद्ब्रह्म- ज्ञानं न भवच्छेदकरी । 'अपामसोमममृता अभूम' इत्यादिना यागस्यैवामृतत्वप्रति- पादकतोक्तेः । (अतः) नरः जीवः भवच्छिदः संसारनिवर्त्तिकाः क्रियाः ज्योतिष्टो- मादिकाः कुर्वन् अनुतिष्ठन् एव शान्तमनाः समाहितचित्तः सन् शतं समाः शतं वर्षाणि जिजीविषेत् जीवितुमिच्छेत् । उक्तञ्च—'कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः' इति ॥ १५ ॥ नातिप्रयोजनम्-नाधिकोऽर्थः । परिग्रहेण-स्वीकारेण, आश्रयदानेनेत्यर्थः । कर्त्ता- रम्-यज्ञादिकर्त्तारम् । भोक्तारम्-यज्ञफलभूतस्वर्गादिभोक्तारम् । स्तुवन्ती-प्रशं- इसपर उसने कहा— अकर्त्ता पुरुष ईश्वर कैसे होगा और वस्तुज्ञानसे ससारकी निवृत्ति किस प्रकार होगी ? अतः संसार निवर्त्तक कर्म करते हुए ही शान्त मनसे सौ वर्षों तक जीते रहनेकी कामना करनी चाहिये ॥ १५ ॥ अतः मुझे आपके परिग्रहकी आवश्यकता नही है, फिर भी यदि आप कर्त्ता और भोक्ता पुरुषकी स्तुति करती हुई किञ्चित्काल पर्यन्त यहाँ वास करना चाहे तो कोई दोष नही है ।

२२२ प्रबोधचन्द्रोदयम् राजा—( सोपहासम् ) अहो धूमान्धकारश्यामलितदृशो दुष्प्रज्ञत्वं यज्ञ- विद्यायाः येनैवं कुतर्कोपहता । अयः स्वभावादचलं बलाच्चल- त्यचेतनं चुम्बकसंनिधाविव । तनोति विश्वेशितुरीक्षितेरिता जगन्ति मायेश्वरतेयमीशितुः ॥ १६ ॥ तस्मात्तमोन्धाना मियमनीश्वरदृष्टिः । अबोधप्रभवं संसारं कर्मभिः शमयन्ती यज्ञविद्या नूनमन्धतमसमन्धकारेणापि निनीषति । सन्ती । धूमान्धकारश्यामलितदृशः-यज्ञधूमकलुषाक्ष्याः । दुष्प्रज्ञत्वम्-कुबुद्धित्वम् । कुतर्कोपहता-दुस्तर्कगृहीता, सा यज्ञविद्येति शेषः। कुतर्कश्च-यदि कर्त्तृत्वं न स्यात्तदा ईश्वरत्वमपि न स्यादेवंरूपः, तस्य कुतर्कतामुपपादयिष्यति-अय इत्यादिनाग्रे । अय इति० स्वभावात् निसर्गतः अचेतनम् चेतनाशून्यम् अत एव अचलम् जडम् अयः लोहम् चुम्बकसंनिधौ चुम्बकसंनिकर्षे यथा बलात् चलति स्पन्दते एवम् तथैव माया विश्वेशितुः परमात्मनः ईक्षितेरिता दर्शनेन प्रेरिता जगन्ति विश्वानि । तनोति, इयम् ईशितुः परमात्मन ईश्वरता । भगवदीक्षणप्रेरिताया मायाया एव सृष्टिक- र्तृत्वं न तु सिसृक्षाद्युपाधिविशिष्टस्येश्वरस्य कर्त्तृत्वमित्याशयस्तेन च परिणममान- मायाधिष्ठातृत्वमेवेश्वरत्वमिति बोध्यते ॥ १६ ॥ तमोन्धानाम्-यज्ञधूमतमसाऽऽवृतदृशाम् । अज्ञानिनामित्युपहासोऽयम् । अ- नीश्वरदृष्टिः-ईश्वरराहित्यज्ञानम् । अबोधप्रभवम्-अज्ञानाज्जातम् । कर्मभिः-यागा- दिभिः । शमयन्ती-नाशयन्ती । यागादेव मुक्तिरिति वदन्तीत्यत्र तात्पर्यम् । अन्ध- तमसम्-अन्धकारम् । अन्धकारेण निनीषति-तमसा नाशयितुमिच्छति । क्रिया- भवच्छेदकरीति यद्यागविद्ययोक्तं तदयुक्तम् , तमस्तमो नाशयितुं यथाऽक्षमं तथैव राजा—( उपहासपूर्वक ) यज्ञधूमसे मीमांसाकी आंखे अन्धी हो गई है, इसीसे वह इस तरह कुतर्कोपहत है । लोहा स्वभावतः अचल होता है, वह अचेतन होकर भी चुम्बक सन्निधानमें चल हो जाता है उसीतरह ब्रह्मके ईक्षणसे प्रेरिता माया विश्वसृष्टि करती है, यही ईश्वरकी ईश्वरता है ॥ १६ ॥ तस्मात् अज्ञानियोंकी यह ईश्वरभावना है, अज्ञानसे उत्पन्न इस संसारको मीमांसा कर्मद्वारा निवृत्त करना चाहती है मानो अन्धकारको अन्धकारसे ही दूर भगाना चाहती

षष्ठोऽङ्कः २२३ स्वभावलीनानि तमोमयानि प्रकाशयेद्यो भुवनानि सप्त । तमेव विद्वानतिमृत्युमेति नान्योऽस्ति पन्था भवमुक्तिहेतुः ॥ १७ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततो यज्ञविद्यया विमृश्योक्तम् । सखि, त्वत्संनिकर्षात् दुर्वासनोपहतैरस्मदन्तेवासिभिः कर्मसु श्लथादरैर्भवितव्यम् । तत्प्रसीदतु भवती स्वाभिलषितदेशगमनाय । पुरुषः—ततस्ततः । क्रियाया अपि अज्ञानप्रभवजगन्नाशकत्वानुपपत्तेः । तस्मादुपनिषदुक्तं ज्ञाननाश्य- त्वमेव जगतो नान्यनाश्यत्वं ज्ञानस्यैवाज्ञाननिवर्त्तकत्वौचित्यादिति भावः । स्वभावलीनानीति० स्वभावेन लीनानि नश्वराणि जडस्वभावानि वा तमोमयानि अज्ञानस्वरूपाणि सप्तभुवनानि भूर्भुवरादिलोकान् यः प्रकाशयेत् स्वरूपप्रकाशेन चैतन्यभाजनानि कुर्यात् 'तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति' इति श्रुत्यर्थानुवादोऽयम् । तमेव स्वप्रकाशं परात्मानं विद्वान् जानन् अतिमृत्युम् मृत्योः परं परं ब्रह्म एति, भुवि संसारे अन्यः पन्थाः मुक्तिहेतुर्नास्ति ब्रह्मात्मताज्ञाना- दन्यो मोक्षस्य मार्गो नास्तीत्यर्थः । तथा च श्रूयते-तमेव विद्वानतिमृत्युमेति नान्यः 'पन्था विद्यतेऽयनाय' इति ॥ १७ ॥ विमृश्य-विचार्य । त्वत्सन्निकर्षात्-तवोपनिषदोऽत्र स्थितौ तव संसर्गात् । दुर्वा- सनोपहतैः-कुमतिग्रस्तैः । अन्तेवासिभिः-शिष्यैः । श्लथादरैः-मन्दप्रवृत्तिभिः । प्रसी- दतु-दयताम् । स्वाभिलषितदेशगमनाय-स्वेष्टं स्थानान्तरमुपसर्त्तुम् । है, तमोमय स्वभावपिहित सप्तभुवनको जो प्रकाशित करे उसी ब्रह्मको जानकर विद्वान् मृत्युसे छुटकारा पाते हैं, संसारसे मुक्तिका दूसरा कोई उपाय नही है ॥ १७ ॥ पुरुष—तब ? उपनिषत्—इसके बाद यज्ञविद्यासे विचारकर कहा—सखि ! तुम्हारे सम्पर्कसे कर्मोंमें कुमतिग्रस्त मेरे शिष्योंकी मन्द प्रवृत्ति हो जायगी, इसलिये आप अपने अभिलषित देश जानेकी अनुकम्पा करें । पुरुष—इसके बाद ।

२२४ प्रबोधचन्द्रोदयम् उपनिषत्—ततोऽहं तामतिक्रम्य प्रस्थिता । पुरुषः—ततस्ततः । उपनिषत्—ततः कर्मकाण्डसहचरी मीमांसा मया दृष्टा;— विभिद्य कर्माण्यधिकारभाञ्जि श्रुत्यादिभिश्चानुगता प्रमाणैः । अङ्गैर्विचित्रैरभियोजयन्ती प्राप्तोपदेशैरतिदेशकैश्च ॥ १८ ॥ पुरुषः—ततस्ततः । उपनिषत्—ततोऽहं तामपि तथैवाश्रयमभ्यर्थितवती । अथ तयाप्यु- क्तास्मि भद्रे, किं कर्मासीति । ततो मया तदेवोक्तम् । ताम्-यज्ञविद्याम् । अतिक्रम्य-परित्यज्य । प्रस्थिता-अग्रे चलिता । कर्मकाण्डसहचरी-कर्मकाण्डानुगता । विभिद्येति० कर्माणि ज्योतिष्टोमादीनि विभिद्य भेदेन ज्ञापयित्वा अधिकारभाञ्जि अधिकारः कर्मफलभागित्वरूपः तं भजन्ते तानि तथाविधानि च (प्रतिपाद्य) श्रुत्यादिभिः-श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्याभिः संज्ञाभिः प्रथितैः प्रमाणैः अन- धिगतार्थबोधकैरनुगता उपेता विचित्रैः नानाभेदभिन्नैः सन्निपत्योपकारकारादुप- कारकादिप्रभेदैः अङ्गैः प्राप्तोपदेशैः साक्षादुपदिश्यमानैः अतिदैशिकैः अन्यत्र श्रुतस्य अन्यत्र प्रापणमतिदेशस्तेनापि प्रकारेण प्राप्तैः अभियोजयन्ती उपकुर्वाणा मीमांसा मया दृष्टेति पूर्वेणैकान्वयः। मीमांसाशास्त्रस्य नित्यनैमित्तिककाम्यकर्मबोधकत्वाऽधि- कारबोधनपरता च प्रतीतेव । श्रुत्यादिषड्विधप्रमाणावबोधकत्वमपि प्रसिद्धम् । साक्षादभिधानमुपदेशः, अन्यत्र श्रुतस्यान्यत्र प्राप्तमतिदेशस्तस्योत्तरषट्के विचारः। एतदधिकमन्यत्रात्रैव परिशिष्टे द्रष्टव्यम् ॥ १८ ॥ तथैव-यथा यज्ञविद्यां तथा । आश्रयमभ्यर्थितवती-स्वनिवासाय प्रार्थनां कृत उपनिषत्—तब मैं उसे छोड़कर आगे बढी । पुरुष—तब ? उपनिषत्—इसके बाद कर्मकाण्डसहचरी मीमांसा मिली । जो अधिकारानुकूल कर्म विभाग करके श्रुत्यादि प्रमाणोंसे अनुगत हो उपदेश तथ अतिदेशके द्वारा विचित्र अङ्गोंसे युक्त थी ॥ १८ ॥ पुरुष—तब ? उपनिषत्—इसके बाद मैने उससे भी उसीतरह प्रार्थना की । उसने भी कहा- भद्रे, तुम्हारा क्या कर्त्तव्य है ? मैने कहा—'यस्माद्विश्वम्' इत्यादि ।

षष्ठोऽङ्कः २२५ यस्माद्विश्वमित्यादि पठितम् । पुरुषः—ततस्ततः । उपनिषत्—ततो मीमांसया पार्श्ववर्तिनां मुखमालोक्याभिहितम् । अस्त्येवास्माकमस्याः लोकान्तरफलोपभोगयोग्यपुरुषोपनयनेनोपयोगः । तत्क्रियतामेषा कर्मोपयुक्ता । तत्र तेषामन्तेवासिनां मध्ये केनाप्यन्तेवासि- नैतदनुमोदितमेव । अपरेण तु प्रसिद्धप्रतिष्ठेन मीमांसाहृदयाधिदैवतेन कुमारिलस्वामिनैवं प्रोक्तम् देवि, नेयं कर्मोपयुक्तं पुरुषमुपनयति, किंतु अकर्त्तारमभोक्तारमीश्वरम् । न चासावीश्वरः कर्मसूपयुज्यते । ततोऽपरे- णोक्तम् । अथ किं लौकिकात्पुरुषादन्य ईश्वरो नामास्ति । ततस्तेन विहस्य पुनरुक्तम् । अस्ति । तथाहि— चती । किं कर्मासि-किन्तव कर्म, त्वया किमाचरणीयमिति जिज्ञासा । तदेव-प्रागु- क्ताभिन्नाम् पार्श्ववर्त्तिनाम् समीपस्थानामनुचराणां शिष्याणां वा । अभिहित- मुक्तम् । अस्याः-लोकान्तरफलं-स्वर्गसुखादिरूपम् , तदुपभोगे योग्यस्य चेतनस्य स्थिरस्य च पुरुषस्य, उपनयनेन प्रतिपादनेन, उपयोगः कार्यम् । एषोपनिषत्स्थायि- चेतनपुरुषं सुपपादयन्ती । स्वर्गफलभोगयोग्यं पुमांसमुपनयतीत्युपयोगिनीत्यस्माकं भवतीत्यर्थः । तत्-तस्मात् । एषा-उपनिषत् । कर्मोपयुक्ता-कर्मणि नियुक्ता । पुरुष- स्तावकतयोपनिषद्द्विशेषतां नीयतामित्यर्थः । तथा च जैमिनीयं सूत्रम्-आम्ना- यस्य क्रियार्थत्वादानर्थक्यमतदर्थानाम्' इति । केनाप्यन्तेवासिना-प्रभाकरेणेत्यर्थः । ज्ञानकर्मसमुच्चयवादितया प्रभाकरस्योपनिषदनुमोदकत्वं बोध्यम् । अपरेण-अन्येने । प्रसिद्धप्रतिष्ठेन-ख्यातयशसा । मीमांसाहृदयाधिदैवतेन-मीमांसातत्त्ववेदिना । देवि- मीमांसे । इयम्-उपनिषत् । अकर्त्तारमभोक्तारम्-'साक्षी चेता केवलो निर्गुणश्च- त्यादिश्रुतिपर्यालोचनया यः पुमानवसीयते नासौ कर्त्ता न वा भोक्तेति तादृशम् । पुरुष—तब ? उपनिषत्—इसके बाद मीमांसाने पार्श्ववर्त्तियोंका मुख देखकर कहा—लोकान्तरमें फलभोग करनेवाले पुरुषका प्रतिपादन करनेवाली यह हमारे उपयोगकी वस्तु है, अतः इसे कर्ममें लगा दो। वहाँ कुछ मीमांसाके विद्यार्थियोंने इसका अनुमोदन भी किया। दूसरे प्रसिद्ध प्रतिष्ठित मीमांसाके दुलारे शिष्य कुमारिलने इस प्रकार कहा—देवि, यह कर्मोपयोगी पुरुषका प्रतिपादन कहाँ करती है ? यह तो अकर्त्ता अभोक्ता पुरुषका प्रतिपादन करती है। वैसे पुरुषको कर्मसे क्या संबन्ध ? इसपर दूसरेने कहा—लौकिक पुरुषसे पर ईश्वर है कौन ? फिर कुमारिलने हंसकर कहा है। जैसेः— १५ प्र० च०

६. षष्ठ अङ्क: उपनिषद् समागम, प्रबोधचन्द्रोदय एवं जीवन्मुक्ति

२२६ प्रबोधचन्द्रोदयम् एकः पश्यति चेष्टितानि जगतामन्यस्तु मोहान्धधी- रेकः कर्मफलानि वाञ्छति ददात्यन्यस्तु तान्यर्थिने । एकः कर्मसु शिष्यते तनुभृतां शास्तैव देवोऽपरो निःसङ्गः पुरुषः क्रियासु स कथं कर्तेति संभाव्यते ॥ १६ ॥ राजा—(सहर्षम्) साधु कुमारिलस्वामिन्, साधुप्रज्ञोऽस्यायुष्मन्, द्वौ तौ सुपर्णौ सयुजौ सखायौ समानवृक्षं परिषस्वजाते । असौ-अकर्त्ताऽभोक्ता च । कर्मसु-यागादिषु । उपयुज्यते-अधिक्रियते । अपरेण- प्रभाकरैकदेशिना शालिकनाथेन । लौकिकात्-लोकान्तरफलोपभोक्तुः । स्वर्गार्हो जीव एवेश्वरो न तदन्य इति तदाशयः । तेन-कुमारिलस्वामिना । विहस्य-स्मितं कृत्वा, जीवातिरिक्तेश्वराभावं श्रुत्वा कुमारिलः शालिकनाथस्योक्तौ हसितवानिति तात्पर्यम् अस्तिजीवादन्य ईश्वर इति शेषः । एक इति० एक ईश्वरः जगतां चेष्टितानि कर्माणि पश्यति विश्वसाक्षितायाऽव- लोकते, तु पुनरन्यो जीवो मोहान्धधीः मोहावृतज्ञानः । एको जीवः कर्मफलानि पुत्रपश्वादीनि वाञ्छति कामयते तु पुनरन्यः तानि कर्मफलानि अर्थिने कर्मफल- विषयकाभिलाषवते ददाति अर्पयति, अत एवोक्तं महिम्नःस्तोत्रे-'क्रतौ सुप्ते जाग्रत्त्वमसि फलयोगे क्रतुमतां क्व कर्मप्रध्वस्तं फलति पुरुपाराधनमृते' इति । एको जीवः कर्मसु ज्योतिष्टोमादिक्रियासु शिष्यतेऽधिक्रियते, अपरो देव ईश्वरः तनुभृतां प्राणिनां शास्ता नियन्ता एव । (तदेव जीवातिविलक्षणत्वादीश्वरस्य जीवातिरिक्ता सत्ता प्रमीयत इत्याशयः) निःसङ्ग सङ्गरहितः पुरुषः परमात्मा क्रियासु कर्मसु कर्त्ता इति कथं सम्भाव्यते ज्ञायते, 'असङ्गोह्ययं पुरुषः' इति श्रुत्या पुरुषस्यासङ्गताप्रति- पत्त्या कर्त्तृतापि निरस्यत इति बोध्यम् ॥ १९ ॥ साधुप्रज्ञः-उत्कृष्टबुद्धिः । आयुष्मान्-चिरजीवी । द्वानाविति० तौ प्रसिद्धौ द्वौ जीवात्मपरमात्मानौ सुपर्णौ सुष्ठुपर्ण गतिर्ययोस्तादृशौ एक संसारकी चेष्टायें देखता रहता है, दूसरा मोहान्धबुद्धि है, एक कर्मफलकी इच्छा रखता है, दूसरा उन कर्मफलोंको याचकाधीन कर देता है, एकको कर्मोपदेश किया जाता है और दूसरा प्राणियोंको उपदेश देता है, एक असङ्ग पुरुष है उसे कर्मका कर्त्ता किस प्रकार कहा जा सकता है ॥ १९ ॥ राजा—(सहर्ष) धन्य हो कुमारिल स्वामी, धन्य है तुम्हारी बुद्धि, जीते रहो । दो एक स्थान वासी सुन्दर पक्षी हैं, वे एक ही वृक्ष (संसार) पर बैठे हैं, उनमेंसे

षष्ठोऽङ्कः २२७ एकस्तयोः पिप्पलमत्ति पक्व- मन्यस्त्वनश्नन्नभिचाकशीति ॥ २० ॥ पुरुषः—ततस्ततः। उपनिषत्—ततोऽहं मीमांसामभिमन्त्र्य प्रस्थिता। पुरुषः—ततस्ततः। उपनिषत्—ततो मया बहुभिः शिष्यैरुपास्यमानास्तर्कविद्या अव- लोकिताः। काचिद्वित्वविशेषकल्पनपरा न्यायैः परा तन्वती वादं सच्छलजातिनिग्रहमयैर्जल्पं वितण्डामपि। अव्याहतज्ञानावित्यर्थः। सयुजौ सहयोगवन्तौ सखायौ परस्पराऽनुकूलौ द्वौ जीवात्म- परमात्मानौ समानम् एकम् वृक्षम् संसाररूपम् परिषस्वजाते आश्रितवन्तौ। तयोः जीवात्मपरमात्मनोः एकः जीवः पक्वम् स्वादृष्टद्वारोपनतं पिप्पलं कर्मफलम् अत्ति भुङ्क्ते अन्यः ईश्वरः अनश्नन् अभुञ्जानः अभिचाकशीति वर्त्तते, साक्षित्वेन पश्यति। यथा क्वचन वृक्षे द्वौ पक्षिणौ सर्वांशतस्तुल्यौ वसतस्तयोश्चैकस्तद्वृक्षफलमभ्यवह- रति। परस्तु कुतोऽपि हेतोर्नात्ति तथैवात्रापि संसारतरौ जीवपरमात्मनोः स्थिति- रिति भावः। शेषं सुगमम् ॥ २० ॥ अभिमन्त्र्य-अन्यत्र गच्छामीत्यापृच्छ्य। तर्कविद्याः-योगसाङ्ख्यन्यायवैशेषिकविद्याः। अस्य सर्वस्य शास्त्रसमुदायस्य तर्काश्रितत्वात्तर्कविद्यापदग्राह्यता। साङ्ख्ययोगयोस्तर्काश्रितत्वं 'कामाच्च नानुमानम्' 'आनुमानिकमप्येकेषाम्' इत्यादिब्रह्मसूत्रेष्वप्युक्तम्। न्यायवैशेषिकयोस्तर्कविद्यात्वं तु पामरेष्वपि प्रथितम्। काचिदिति० काचित् वैशेषिकी विद्या द्वित्वविशेषस्य अपेक्षाबुद्धिजन्यद्वित्वस्य एक (जीव) पिप्पल (कर्मफल) स्वाद ले लेकर खाता है और दूसरा (ईश्वर) बिना खाये देखता रहता है ॥ २० ॥ पुरुष—तब ? उपनिषत्—अनन्तर मै मीमांसाको नमस्कार कर वहाँसे चली। पुरुष—तब ? उपनिषत्—इसके बाद मै बहुशिष्यपरिवृत तर्कविद्याओं के पास गई। उनमे कुछ द्वित्व तथा विशेषकी कल्पनामें लगी थी, कुछ छल-जाति-निग्रहस्थान द्वारा