प्रियदर्शिका नाटिका (सम्राट हर्षवर्धन - चतुरङ्क शास्त्रीय नाटिका सान्वय सटीक)
Priyadarshika Natika of Emperor Harsha with Commentary
सम्राट हर्षवर्धन द्वारा
प्रथमोऽङ्कः । ३ नाटिका कृतेत्यस्माभिः श्रोत्रपरंपरया श्रुतम्¹ । न तु प्रयोगतो दृष्टा² । तत्तस्यैव राज्ञः सर्वजनहृदयाह्लादिनो बहुमानादस्मासु चानुग्रहबुद्ध्या³ यथावत्प्रयोगेण त्वया नाटयितव्येति । तद्यावन्नेपथ्यरचनां कृत्वा यथा- भिलषितं संपादयामि । ( परितोऽवलोक्य । ) आवर्जितानि सामाजिकमनां-⁴ सीति मे निश्चयः⁵ । कुतः । श्रीहर्षो निपुणः कविः परिषद्प्येषा गुणग्राहिणी लोके हारि च वत्सराजचरितं नाट्ये च दक्षा वयम् । वस्त्वेकैकमपीह वाञ्छितफलप्राप्तेः पदं किं पुन- र्मद्भाग्योपचयादयं समुदितः सर्वो गुणानां गणः ॥ ३ ॥ ( नेपथ्याभिमुखमवलोक्य । ) अये । कथं प्रस्तावनामभ्युद्यते मयि विदितास्मद्- भित्रायोऽङ्गाधिपतेर्दृढव
४ प्रियदर्शिकायां प्रथमोऽङ्कः।
( ततः प्रविशति कञ्चुकी। ) कञ्चुकी—( सशोकाश्रमं नाटयन्। निश्वस्य। ) कष्टं भोः कष्टम्। राज्ञो विपद्बन्धुवियोगदुःखं देशच्युतिर्दुर्गममार्गखेदः। आस्वाद्यतेऽस्याः कटुनिष्फलायाः फलं मयैतच्चिरजीवितायाः॥४॥ ( सशोकं सविस्मयं च। ) तादृशस्यापि नामाप्रतिहतशक्तित्रयस्य रघुदिलीप- नलैतुल्यस्य देवस्य दृढवर्मणो मत्प्रार्थ्यमानाप्यनेन स्वदुहिता वत्सराजायै दत्तेति बद्धानुशयेन वत्सराजे बन्धनान्निस्र्त इति च लब्धरन्ध्रेण सहसागत्य कलिङ्गहतकेन विपत्तिरीदृशी क्रियत इति यत्सत्यमुपपन्नमपि न श्रद्दधे। कथमेकान्तनिष्ठुरमीदृशं च दैवमस्मासु। येन सापि राजपुत्री यथाकथंचिदेना वत्सराज
किं तत्रैव गच्छामि । (निःश्वास्यात्मनोऽवस्थां पश्यन् ।) किमिदं हि राजपुत्र्या विना तत्र गत्वा कथयिष्यामि । अये । कथितं चाद्य मम विन्ध्यकेतुना— “मा भैषीः । जीवति सत्रभवान्महाराजो दृढवर्मा गाढैःप्रहारैर्जर्जरीकृतो बद्धस्तिष्ठति ।” इति । तदधुना स्वामिनमेव गत्वा पादपरिचर्यया जीवित- शेषमात्मनः सफलयिष्यामि । (परिक्रम्योर्ध्वमवलोक्य।) अहो अतिदारुणता शरदातपस्य । यदेवमनेकदुःखसंतापितेनापि मया तीक्ष्णोऽवगम्यते । घनबन्धनमुक्तोऽयं कन्याग्रहणात्परं तुलां प्राप्य । रविरधिगतस्वधामा प्रतपति खलु वत्सराज इव ॥ ५ ॥ (इति निष्क्रान्तः ।) इति विष्कम्भकः । (ततः प्रविशति राजा विदूषकश्च ।) राजा— भृत्यानामविकारिता परिगता दृष्टा मतिर्मन्त्रिणां मित्राण्यप्युपलक्षितानि विदितः पौरानुरागोऽधिकम् । निर्व्यूढा रणसाहसव्यसनिता स्त्रीरत्नमासादितं निर्व्याजादिव धर्मतः किमिव न प्राप्तं मया बन्धनात् ॥ ६ ॥ नगरीम् । कुशाम्बेन राज्ञा निर्मिता कौशाम्बी । जर्जरीकृतं विह्वलतामापादितम् । घन- बन्धनेति । घनानां मेघानां बन्धनमुपरोधस्तस्मान्मुक्तः पक्षे घनं दृढं यत्प्रद्योतकृतं बन्धनं तस्मान्मुक्तः कन्यायास्तदाख्याराशेः ग्रहणान्प्रवेशात्परमनन्तरं तुलां तुलाराशिं प्राप्य । पक्षे कन्यायाः प्रद्योतनयाया वासवदत्ताया ग्रहणात्परपूर्व तुलामुत्कर्षं प्राप्य । अयं रविः । अधिगतं स्वधाम स्वदेशं कौशाम्बीति यावत् । स वत्सराज इव प्रतपति नितरां दहति । पक्षे प्रतापवान्भवति । श्लिष्टोपमा । पथ्यार्यावृत्तम् ॥ ५ ॥ विष्कम्भकः । वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तुविष्कम्भो मध्यपात्रप्रयोजितः । एकानेककृतः शुद्धः संकीर्णो नीचमध्यमैः ॥ इति लक्षणं दश- रूपके । शुद्धः केवलमध्यमैः । पात्रैः प्रयोगो भावेत्स्यात्संकीर्णो नीचमध्यमै ॥ आदौ विष्कम्भकं कुर्यान्नाटकेषु महाकविः । अपेक्षितं परित्यज्य नीरसं वस्तुविस्तरम् । इत्यान्यत्र च । भृत्यानामिति । भृत्यानामविकारिता विकृत्यभावः । स्वामि- भक्तिरिति यावत् । परिगता ज्ञाता । मन्त्रिणां मतिः प्रज्ञा दृष्टा । मित्राणि उपलक्षितानि यथार्थतया ज्ञातानि । पौराणां मयि अनुरागोऽपि अधिकं यथा तथा विदितः । रणे साहसं तत्र व्यसनितासोत्कण्ठेव्यूढा अनुष्ठिता । स्त्रीरत्नं वासवदत्तारूपमासादितम् । निर्व्या- जात्रिष्कपटत्वेन फलाभिसन्धिरहितेन वा अनुष्ठितात् धर्मत इव बन्धनान्मया किमिव न प्राप्तम् । सर्वमपि प्राप्तमित्यर्थः । शार्दूलविक्रीडितं वृत्तम् ॥ लक्षणमुक्तम् ॥ ६ ॥ १ अहह राज०; किं कृप०. २ परंतु गाढ०. ३-व्यंग्या. ४ इतजैकश्चन्द. ५ परा.
६ प्रियदर्शिकायां विदूषकः—(सरोषम्।) भो वयस्य॑। कथं तमेव दास्याः पुत्रं बन्धनहतकं प्रशंससि। तदिदानीं विस्मृतम्। यत्तथा नवग्रह इव गजेपतिः खळखळायमानलोहशृङ्खलाबन्धप्रतिस्खलचरण, शून्यंमुखपुष्करपिशुनित- हृदयसंतापो रोषवशोलम्भितदीर्घगुर्हक्करस्फोटितधरणमार्गो रजनीष्वप्य- निद्रासुखमनुभूतोसि। (भो वयस्स। कहं तं एव्व दासीए उत्तं बन्धणहदभं पसंससि। तं दाणिं विसुमरिदं। जं तह णवग्गहो विअ गअवई खळखळायमाणलोह- सिङ्खलाबन्धपडिस्खलन्तचरणो शुण्णमुखपुण्डरीकपिसुणिदहिअअसंतावो रोसवसुम्भिददीह- गुरुउक्करप्फोडिअभरणिमग्गो रअणीसु वि अहिगअबहु असुहुदोसि।) राजा—वसन्तक दुर्जनः खल्वसि। पश्य। दृष्टं चारैकमन्धकारगहनं नो तन्मुखेन्दुद्युतिः। पीडा ते निगलस्वनेन मधुरास्तस्या गिरो न श्रुताः। क्रूरा बन्धनरक्षिणोऽस्य मनसि स्निग्धाः कटाक्षा न ते दोषान्पश्यसि बन्धनस्य न पुन प्रद्योतपुत्र्या गुणान्॥७॥ विदूषकः—(सगर्वम्।) भो। यदि तावद्बन्धनं सुखनिबन्धनं भवति विदूषक -नायकसहायान्यतम। तल्लक्षणम्-कुसुमवसन्ताद्यभिध कर्मवपुर्वेशभाषाद्यै। हास्यकर कलहरतिर्विदूषक स्यात्स्वकर्मश॥ इति। विस्मृतं विमिति शत्रु.। नैतद्विस्मर्तुं शक्यमिति भाव। खळललायमान तथाशब्दं कुर्वन् य लोहशृङ्खलाबन्धस्तेन परिस्खलन्तो चरणौ यस्य स। उभयत्र समानम्। शून्य वन्यमुखपुष्कर मुखकमल तेन पिशुनित सूचितो हृदयसन्तापो येन। पक्षे मुखपुष्कर शुण्डाग्रम्। रोषवशेन कोपाधीनतयोल्लोभावेनेति यावत्। उत्तम्भित्या दर्शितैव वा। गुरुन् स्थूलं करो हस्त शुण्डा च तेन स्फोटितो धरणीमार्गो येन। दृष्टमिति। अन्धकारेण गहन निविडं चारकं कारागृहं त्वया दृष्टम्। मनावष्टितमित्यर्थ। 'चारकं बन्धनालय' इति वैजयन्ती। तस्या वासवदत्ताया मुखेन्दुद्युति वदनचन्द्रकान्ति नो न दृष्टा। निगलस्वनेन शृङ्खलाशब्देन ते पीडा। मधुरास्तस्या गिर भाषितानि न श्रुता। अथ क्रूरा बन्धन रक्षिण कारागृहक्षका तव मनसि स्थिता। न ते तादृशा स्निग्धा स्नेहपूर्णा कटाक्षा नयनप्रान्तविलोकितानि मनसि स्थिता गोचरीभूता। एव बन्धनस्य दोषान् पश्यसि न पुन प्रद्योतपुत्र्या वासवदत्ताया गुणान् पश्यसि। अवधारयसीत्यर्थ। बहुगुण समुदाये अल्पदोषा मज्जन्तीति भाव। शार्दूलविक्रीडितं वृत्तम्। लक्षणमुक्तपूर्वम्॥७॥ १ वृत्त (एव) २ (गजेन्द्रानी) विस्वर (विद्यमेवहि). ३ पुष्यन्ति (तह्रपड) ४ अ०प०- डुस्करपिशुनरुहु० (शुण्णमुखपुक्खरपिटणिज्जन्तहि०) ५ डिरविगतपयनिष्ठूह (अहिगव्वरणि० डिशो) ६ अनुवाचषसि (अणुवाघेओ), निद्रासुखम न अभोसी (णिद्दासह ण पत्तेसि) ७ चारुकं, ८ निगल०धन सुखबन्धन (निअल० सुह०)
; प्रथमोऽङ्कः । ७ तत्कस्मात्त्वं दृढवर्मा बद्ध इति कलिङ्गराजस्योपरि रोषं बध्नासि । ( भो । जइ दाण धम्मव्वणं सुहणिवन्धणं होइ ता कीस तुमं दिढवम्मा बद्वोत्ति कलिङ्गरणो उवरि रोसं बन्धेसि । ) राजा—( विहस्य । ) धिङ्मूर्ख । न खलु सर्वो वत्सराजो य एवं वासवदत्तामवाप्य बन्धनान्निर्यास्यति । तदास्तां तावदियं कथा । विन्ध्य- केतोरुपरि बहून्यहानि विनयसेनस्य प्रेषितस्य । न चाद्यापि तत्सकाशा- त्कश्चिदागतः । तदाहूयतां तावदमात्यो रुमण्वान् । तेन सह किंचि- दाल्पितुमिच्छामि । ( प्रविश्य । ) प्रतीहारी—जयतु जयतु देवः । एष खलु विनयसेनोऽमात्यो रुम- ण्वानपि प्रतीहारभूमिमुपस्थितौ । ( जेदु जेदु देव्वो । एसो क्खु विजयसेणो अमच्चो रुमण्वो वि पडिहारभूमिं उवट्ठिदो । ) राजा—त्वरितं प्रवेशय तौ । प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि ।) (इतिनिष्क्रान्ता ।) ( ततः प्रविशति रुमण्वान्विजयसेनश्च ) रुमण्वान्—( विचिन्त्य । ) तत्क्षणमपि निष्क्रान्ताः कृतदोषा इव विनापि दोषेण । प्रविशन्ति शङ्कमाना राजकुलं प्रायशो भृत्याः ॥ ८ ॥ ( उपसृत्य । ) जयतु देवः । राजा—( आसनं निर्दिश्य । ) रुमण्वन् । इत आस्यताम् । रुमण्वान्—( सस्मितमुपविश्य । ) एष खलु जितविन्ध्यकेतुर्विजयसेनः प्रणमति । ( विजयसेनस्तथा करोति । ) राजा—( सादरं परिष्वज्य । ) अपि कुशली भवान् । विजयसेनः—अद्य स्वामिनः प्रसादात् । राजा—विनयसेन उपविश्यताम् । सुखनिवन्धनं सुप्रहृष्टं । तत्क्षणमिति । भृत्या राजसेवकाः तत्क्षणं तस्मिन्नेव क्षणे नृपतिसकाशान्निष्क्रान्ता निर्गता अपि दोषेण विनापि कृतदोषाः कृतापराधा इव शङ्कमाना सभयाः राजकुलं प्रविशन्ति । स्वगतोक्तिः । आर्या छन्दः ॥ ८ ॥ १ उद्वहसि (उच्छहसि). २ दिवसानि ३ आहूयताम०. ४ विन्ध्यकेतोर्विजेता. ५ स्थीयताम्
९ प्रियदर्शिकायां ( विजयसेन उपविशति । ) राजा—विजयसेन कथय विन्ध्यकेतोर्वृत्तान्तम् । विजयसेनः—देव किमपरं कथयामि । यादृशः स्वामिनि कुपिते । राजा—तथापि विस्तरतः श्रोतुमिच्छामि । विजयसेनः—देव श्रूयताम् । इतो वयं देवपादादेशाद्यथादिष्टेन करितुरगपदातिसैन्येन महान्तमप्यध्वानं दिवसत्रयेणोल्लङ्घ्य प्रभातवेला- यामतर्किता एव विन्ध्यकेतोरुपरि निपतिताः स्मः । राजा—ततस्ततः । विजयसेनः—ततः सोऽप्यस्मद्बलतुमुलकलकलावकर्णनेन प्रतिबुद्धः केसरीव विन्ध्यकन्दरान्निर्गत्य विन्ध्यकेतुरनपेक्षितबलवाहनो यथासंनि- हितकतिपयसहायः सहसा स्वनामोद्घोषयन्नस्मानभियोद्धुं प्रवृत्तः । राजा—(हर्षमन्तर्गतमवलोक्य सस्मितम् ।) शोभितं विन्
Here is the complete, line-by-line transcription of the Sanskrit drama page in Unicode Devanagari:
प्रथमोऽङ्कः । ९ सर्वत्रोत्सृष्टसर्वप्रहरणनिवहस्तूर्णमुत्खाय खङ्गं पश्चात्कर्तुं प्रवृत्तः करिकरकदलीकाननच्छेदलीलाम् ॥ ९ ॥ एवं बलं त्रितयमाकुलमेक एव कुर्वन्कृपाणकिरणच्छुरितांसकूटः । शस्त्रप्रहारशतजर्जरितोरुवक्षाः श्रान्तोऽचिराद्विनिहतो युधि विन्ध्यकेतुः ॥ १० ॥ राजा—रुमण्वन् ! सत्पुरुषोचितं मार्गमनुगच्छतो यत्सत्यं व्रीडिता इव वयं विन्ध्यकेतोर्मरणेन । रुमण्वान्—देव त्वद्विधानामेवं गुणैकपक्षपातिनां रिपोरपि गुणाः प्रीतिं जनयन्ति । राजा—विजयसेन अप्यस्ति विन्ध्यकेतोरपत्यं यत्रास्य परितोषस्य फलं दर्शयामि । विजयसेनः—देव इदमपि विज्ञापयामि । एवं सबन्ध
राजा—यशोधरे गच्छ । त्वमेव वासवदत्तायाः समर्पय । वक्तव्या च देवी । भगिनीबुद्ध्या त्वयैव सर्वदा द्रष्टव्या । गीतनृत्तवाद्यादिषु विशिष्टकन्यकोचितं सर्वं शिक्षयितव्या । यदा वरयोग्या भविष्यति तदा मां स्मारयेति । प्रतीहारी—यद्देव आज्ञापयति । (जं देवो आणवेदि ।) (इति निष्क्रान्ता ।) ( नेपथ्ये वैतालिकः । ) लीलामज्जनमङ्गलोपकरणस्नानीयसम्पादिनः सर्वान्तःपुरवारविभ्रमवतीलोकस्य ते संप्रति । आयासस्खलदंशुकव्यवहितच्छायावदातैः स्तनै- रुत्क्षिप्तापरशातकुम्भकलशैवालङ्कृता स्नानभूः ॥ ११ ॥ राजा—( ऊर्ध्वमवलोक्य । ) अये कथं नभोमध्यमध्यास्ते भगवा- न्सहस्रदीधितिः । संप्रति हि । आभात्यर्कांशुतापकथदिव शफरोद्वर्तनैर्दीर्घिकाम्भ- श्
द्वितीयोऽङ्कः । ११ छायाचक्रं तरूणां हरिणशिशुरुपैत्यालवालाम्बुलुब्धः सद्यस्त्यक्त्वा कपोलं विशति मधुकरः कर्णपालीं गजस्य ॥१२॥ रुमण्वन् । उत्तिष्ठोत्तिष्ठ । प्रविश्याभ्यन्तरमेव वृत्तयथोचितक्रियाः सत्कृत्य विनयसेनेन कलिङ्गोच्छित्तये प्रेषयामः । ( इति निष्क्रान्ताः सर्वे । ) इति प्रथमोऽङ्कः ॥ ॥ द्वितीयोऽङ्कः ॥ ( ततः प्रविशति विदूषकः । ) विदूषकः—ननु भणितोऽस्मीन्दीवरिकया यथा-आर्य उपवासनियम- स्थिता देवी वासवदत्ता स्वस्तिवाचननिमित्तं शब्दयैतेति । तद्यावद्धारा- गृहोद्यानदीर्घिकायां स्नात्वा देवीपार्श्वं गत्वा कुक्कुटवादं करिष्यामि । अन्यथा कथमस्माभिः सदृशा ब्राह्मणा राजकुले प्रतिग्रहं कुर्वन्ति । ( नेपथ्याभिमुखमवलोक्य ) कथमेष प्रियवयस्योऽद्य देव्या विरहोत्कण्ठाविनो- दननिमित्तं धारागृहोद्यानमेव प्रस्थितः । तद्यावद्वयस्येन सहैव गत्वा यथो- दितमनुष्ठास्यामि । ( णं भणिदोम्हि इन्दीवरिआए जह अज्ज उववासाणियमट्ठिदा देवी वासवदत्ता सोत्थिवाअणणिमित्तं सद्दावेदिति । ता जाव धाराघरउज्जाणदीर्धिआए ण्हाइअ देवीपासं गदुअ कुक्कुटवादं करिस्सं । अण्णहा कहं अह्राणं सरिसा बह्मणा राअकुले पडिग्गहं करेन्ति । कहं एसो पिववयस्सो अज्ज देवीए विरहुक्कण्ठाविणोअणा- णिमित्तं धाराघरउज्जाणं एव्व पट्टिदो । ता जाव वअस्सेण सह एव्व गदुअ जहोद्दिदं अणुचिट्ठिस्सं । ) छत्राभावातपनकरं तनोति विस्तारयति । हरिणशिशुः आ समन्तात् लमान् जलस्रवान् आलतीत्यालवालम् । तस्मिन् यदम्बु तत्र लुब्धः सन् तरूणां छायाचक्रमुपैति । मधुकरश्च गजस्य कपोलं सद्यः त्यक्त्वा कर्णपालीं श्रोत्रपुटं विशति । छायार्थ- मित्यर्थः । स्वभावोक्तिः । स्रग्धरा वृत्तम् ॥ १२ ॥ ततः प्रविशतीति । स्वस्तिवाचनं स्वस्तिवाचनार्थं मन्त्रेणायनम् । शब्दायेत आह्वयेदित्यर्थः । कुक्कुटवादं दम्भार्थं वेदमन्त्रानपि उच्चैः पठनम् । कुक्कुटोन्नतवादः स्यात् इति मेदिनी । उत्कण्ठा अभिलाषपूर्वा स्मृतिः । सर्वेन्द्रियसुखास्वादे यत्रास्तीत्या- भिसम्बते । तत्प्राप्तीच्छां ससङ्कल्पा मुद्कण्ठां कवयो विदुः ॥ इति तल्लक्षणम् । तस्या विनोद- नमरण्यनम् । धारागृहं धारायन्त्रोपेतं गृहं धारागृहं धारागृहयुक्तमुद्यानं धारागृहोद्यानम् । १ वृत्ततयोचित ०, २ शब्दापयेत्, ३ यथोदितं ( जहोद्दिदं.)
१२ प्रियदर्शिकायां ( ततः प्रविशति सोत्कण्ठो राजा । ) राजा— क्षामां मङ्गलमात्रमण्डनभृतं मन्दोद्येमालापिनी- मापण्डुच्छविना मुखेन विजितप्रातस्तनेन्दुद्युतिम् । सोत्कण्ठां नियमोपवासविधिना चेतो ममोत्कण्ठते तां द्रष्टुं प्रथमानुरागजनितावस्थामिवाद्य प्रियाम् ॥१॥ विदूषकः—( उपसृत्य । ) स्वस्ति भवते । वर्धतां भगवान् । ( सोत्थि होदे । वड्ढउ भवं । ) राजा—( विलोक्य । ) वसन्तक ! कस्मात्प्रहृष्ट इव लक्ष्यसे । विदूषकः—अर्चति खलु देवी ब्राह्मणम् । ( अच्चदिक्खु देवी बह्मणं । ) राजा—यद्येवं ततः किम् । विदूषकः—( सगर्वम् । ) भोः । ईदृशः खलु ब्राह्मणः । यश्च- तुर्वेदपञ्चवेदषड्वेदब्राह्मणसहस्रपर्याकुले राजकुले प्रथममेहमेव देवीसकाशा- त्स्वस्तिवाचनं लभे । ( भो । ईदिसो क्खु बह्मणो । जो चउव्वेदपञ्चवेदछव्वेद- बम्हणसहस्सपय्याउले राअउले पुढमं अहं एव्व देवीसआसादो सोत्थिवाअणं लहेमि । ) राजा—( विहस्य । ) वेदसंख्ययैवावेदितं ब्राह्मण्यम् । तदागच्छ महाब्राह्मण । धारोगृहोद्यानमेव गच्छावः । विदूषकः—यद्देव आज्ञापयति । ( जं देवो आणवेदि । ) राजा—गच्छाग्रतः । क्षामामिति । नियमार्थं व्रतार्थमुपवासः तस्य विधिस्तदनं तेन हेतुना क्षामां कृशाम् । मङ्गलानि कण्ठसूत्रनासामणिताटङ्कादीन्येव मङ्गलमात्राणि मण्डनानि बिभर्तीति ताम् । मन्दं यथा तथा उद्यमेन प्रयत्नेनालापतीति तथा ताम् । आपाण्डुः छविः कान्तिर्यस्य तेनापाण्डुना मुखेन विजिता प्रातस्तनस्येन्दोर्द्युतिर्यया ताम् । सोत्कण्ठां च । अत एव प्रथमानुरागेण जनिता अवस्था कृशत्वादिलक्षणा यस्यास्तामिव तां तथानुरा- गिणीं प्रियामद्य द्रष्टुं मम चेतः उत्कण्ठते उत्सुकं भवति । उपमास्वभावोक्त्योः संसृष्टि- रलंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ १ ॥ चत्वारो वेदा येषां ते चतुर्वेदाः । एव- मग्रेऽत्र । पञ्चवेदेत्यादि परिहासार्थमुक्तिः । महाब्राह्मणेति उपहासार्थम् । अत्र महच्छब्दो निन्दापरः । तदुक्तं—शैले शैले तथा मद्ये पेये ज्योतिषिके द्विजे । यात्रायां पथि निद्रायां महच्छब्दो न दीयते ॥ इति । १. मन्दोद्यता०. २ प्रथमा०. ३ प्रथममेव लभंते. ४ भाषनं. ५ धाराधरी.
द्वितीयोऽङ्कः । १३ विदूषकः-भो एहि गच्छावः । ( परिक्रम्यावलोक्य च । ) भो वयस्य पश्य पश्य । अविरतपतद्विविधकुसुमसुकुमारशिलातलोत्सङ्गस्य परिमल- निलीनमधुकरभरभग्नबकुलमालतीलतामालकस्य कमलगन्धग्रहणेोद्दाममारुत- पर्यस्तबुद्धबन्धूकबन्धनस्याविरलतमालतरुपिहितातपप्रकाशस्यास्य धारागृ- होद्यानस्य सश्रीकताम् । (भो एहि गच्छह्म। भो वयस्स पेक्ख पेक्ख। अविरदपडन्त- विविधकुसुमसुउमारसिलाअलुच्छङ्गस्स परिमलणिलीणमहुअरभरभग्गबउलमालइल- जालअस्स कमलसन्धगहणोद्दाममारुदपुञ्जन्तेणेरण अविरलतमालतरुपि- हिदादवप्पआसस्स अस्स धाराघरउज्जाणस्स सस्सरीअत्तं ।) राजा - वयस्य साध्वभिहितम् । अत्र हि । वृन्तैः क्षुद्रप्रवालस्थगितमिव तलं भाति शेफालिकानां गन्धः सप्तच्छदानां सपदि गजमदामोदमोहं करोति । एते चोन्निद्रपद्माच्युतबहुलरजःपुञ्जपिङ्गाङ्गरागा गायन्त्यव्यक्तवाचः किमपि मधुलिहो वारुणीपानमत्ताः ॥२॥ विदूषकः-भो वयस्य एतदपि तावत्पश्य पश्य । य एषोऽवि- रलपतत्कुसुमनिकरोऽद्यापि पत्रान्तरगलद्वर्षावसानसलिलबिन्दुरिव लक्ष्यते अविरतं यथा तथा पतन्ति यानि विविधानि कुसुमानि तैः सुकुमारः सुखस्पर्शः मनोहोरो वा शिलातलस्य उत्सङ्गो मध्यप्रदेशो यत्र तत् ०त्सङ्ग तस्य । परिमलेन निलीनाथ ते मधुकराश्च तेषां भरेण भग्नानि बकुलानां मालतीलतानां जातिलतानां जालकानि पुष्पगुच्छा यस्मिंस्तस्य । कमलानां गन्धस्य ग्रहणेन उद्दामो उत्कटो यो मारुतस्तेन पर्यवबुद्धानि विकसितानि बन्धूकानां बन्धूकपुष्पाणां बन्धनानि वृन्तानि यस्मिन् तस्य । अविरलाश्च ते तमालतरवश्च तैः पिहितो निवारित आतपप्रकाशः सूर्य्यालोको यस्मिन् तस्य । वयस्य- वयसा तुल्य वयस्यः । 'नोवयोधर्म' इति यत् । वृन्तैरिति । शेफालिकानां निर्गुण्डीकुसुमानां वृन्तैः बन्धनैः तलं भूमितलं क्षुद्रैः प्रवालैः अभिनवैर्विद्रुमखण्डैः स्थगितमावृतमिव भाति । सप्तच्छदानां गन्धः सपदि तत्क्षणं गजमदस्य य आमोदः परिमलस्तस्य मोहं भ्रान्तिं तनोति जनयति । उन्निद्रेभ्यो विकसितेभ्यः पद्मेभ्यः च्युतः बहुलः रजःपुञ्जः तेन पिङ्गः पीतवर्णः अङ्गरागः अङ्गवर्णो येषां ते । बहलरजःपुञ्ज एव पीतोऽङ्गरागो येषामिति वा । वारुणीपानेन पुष्परसमद्यपानेन मत्ता अत एव अव्यक्तवाचः एते मधुलिहो मधुकराश्च किमपि गायन्ति । उत्प्रेक्षाभ्रान्तिमत्स्वभावोक्तीनां संसृष्टिः । स्रग्धरा वृत्तम् ॥ २ ॥ अविरलेति । अविरलं निरन्तरं यथा तथा पतन्कुसुमनिकरो यस्य सः । अद्यापि पत्रान्तरेभ्यो गलन्तः वर्षावसानसमयसलिलबिन्दवो यस्य स इव लक्ष्यते । तं पश्येति सम्बन्धः । १ बहवो ( पहणुद्दा० ) । २ प्रतिबुद्ध ( पडिबु० ) । ३ पट्टल ४ काण्डविहुरा, ० गन्धवश्च ( णिअरो भग्गव). ६ वसानसमयसादि० ( वसाणसवअ० ) । २
१४ प्रियदर्शिकायां सप्तपर्णपादपः । ( भो वयस्स । एदं पि दाव पेक्ख पेक्ख । जो एसो अविरलपडन्त- कुसुमणिअरो घन वि पतन्तरगलन्तवरिसावसाणसलिलबिन्दू विअ लक्खीअदि सत्तवण्णपाअवो । ) राजा —वयस्य सम्यगुत्प्रेक्षितम् । नह्येव सदृशं जलदसमयस्य । तथाहि । बिभ्राणा मृदुतां शिरीषकुसुमश्रीहारिभिः शाद्वलैः -------- कल्पितकृत्रिमा मरकतक्षोदैरिच क्षालितैः । एषा संप्रति बन्धनाद्विगलितैर्बन्धूकपुष्पोत्करै- रद्यापि क्षितिरिन्द्रगोपकशतैश्छन्नेव संलक्ष्यते ॥ २ ॥ ( ततः प्रविशति चेटी । ) चेटी — आज्ञाप्तास्मि देव्या वासवदत्तया । हञ्जे इन्दीवरिके अद्य मयागस्त्यमहर्षयेऽर्घ्यो दातव्यः । तद्गच्छ त्वम् । शेफालिकाकुसुममालां लघु गृहीत्वागच्छेति । एषाप्यारण्यिका धारागृहोद्यानदीर्घिकायां यावदेव विकसितानि कमलानि नास्ताभिलाषिणा सूर्येण मुकुलाय्यन्ते तावदेव शीघ्रमवचित्यागच्छत्विति । एषा तपस्विनी तां दीर्घिकां न जानाति । तद्गृ- हीत्वा तां गमिष्यामि । ( नेपथ्याभिमुखमवलोक्य । ) ईत इत आरण्यिके एहि । ( आणत्ताह्मि देवीए वासविदत्ताए । हंजे इन्दीवरिए । अज्ज मए भगवतिमहेसिणो अग्घो दादव्वो । ता गच्छ तुमं । सेहालिआकुसुममालं लहु गेण्हिअ आअच्छेति । एसावि आरण्णिआ धाराघरउज्जाणदीहिआए जाव एव्व विआसिआई कमलाई ण अत्थाहिला-
बिभ्राणेति । शिरीषकुसुमानां श्रियं शोभां हरन्तीति तैः शाद्वलैः शाद्वलहरितप्रदेशै मृदुतां कोमलतां बिभ्राणा । क्षालितैः निर्धौतैः मरकतक्षोदै मरकतखण्डैः सदृशत्वादङ्गे शमित- कुट्टिमा इव स्थिता । एषा भूमिः संप्रति बन्धनाद्विगलितैः बन्धूकपुष्पाणामुत्करैः पुञ्जै- रद्यापि इन्द्रगोपकशतैः छन्ना इव लक्ष्यते । शार्दूलविक्रीडितं वृत्तम् ॥ २ ॥ हञ्जे दूति चेटीं प्रति सम्बोधनम् । 'हण्डे हञ्जे हलाह्वाने नीचा चेटीं सखीं प्रति' । इत्यमरः । अगस्त्य महर्षये । अत्र—अभासे भास्वरे कन्यां शेषभूतैस्तिथिर्दिनै । अर्घ्यं दद्यादगस्त्याय गौडदेश- निवासिन ॥ इति ब्रह्मवैवर्ते । भीमपराक्रमोप-यस्तु भाद्रपदस्यान्त उदिते कलशोद्भवे । अर्घ्यं दद्यादगस्त्याय सर्वान्कामांल्लभेत स ॥ इति । पद्मद्वयमुद्धृतं श्रीविष्णुसूरिभिः । अरण्ये भवा आरण्यिका । 'शरण्यान्मनुष्ये' इत्यनेनारण्यशब्दाद्वुन् । 'प्रत्ययस्थात्कात्०' इति इत्त्वम् । मुकुलाय्यन्ते मुकुलवदाचरन्ति मुकुलायन्ते तथा क्रियन्ते । सङ्कोच्यन्ते इत्यर्थः ।
१ सम्यगुत्प्रेक्षितं वयस्येन । अत्र हि बद्धेव २ अर्घ्यं दातव्यम् ३ पुन्ना ने त०, ४ याव- देव सरता० सूर्येण न मुकुलाय्यन्ते कमलानि ( जाव एव्व अरथा० ण मुउडलाविज्जन्ति कमलाई) तावदेवावचित्य, ५ मय, आरण्यि ६ इत एहि आ
यहाँ प्रस्तुत पृष्ठ का पंक्तिबद्ध देवनागरी लिप्यन्तरण है:
द्वितीयोऽङ्कः । १९ सिणा सुहेण मडलाविमन्ति ताव एत्थ लहुअं अवचिणुअ आगच्छिसि । एसा तव- स्सिणी तं दीहिअं ण जाणादि । ता गेण्हिअ णं गमिस्सं । इदो इदो आरणिए एहि ।) ( ततः प्रविशत्यारण्यिका । ) आरण्यिका—( सबाष्पोद्वेगमात्मगतम् । १) तथा नाम तादृशे वंशे उत्पन्न- यान्यजनमाज्ञाप्य स्थितया सांप्रतं परस्य मयाज्ञप्तिः कर्त्तव्येति नास्ति खलु दुष्करं दैवस्य । अथवा ममैवैष दोषो येन जानत्यापि न व्यापादित आत्मा । तत्किं सांप्रतं करिष्यामि । अथवा दुष्करमिदानीं मया चिन्तितम् । वरमेवैतदपि । न पुनरात्मनो महार्घं वंशं प्रकाशयन्त्या मया लघूकृत आत्मा । तत्का गतिः । यथाभणितमनुष्ठास्यामि । ( तह णाम तारिसे बंसे २उ
१६ प्रियदर्शिकायां राजा—ननु मूर्ख पारंगता एव वयं दीर्घिकायाः । एवमने- केन्द्रियसुखातिशयमनुभवन्नपि नोपलक्षयसि । पश्य । श्रोत्रं हंसस्वनोऽयं सुखयति दयितानूपुरैह्लादकारी दृष्टिंप्रीतिं विधत्ते तटतरुविवरालक्षिता सौधपाली । गन्धेनाम्भोरुहाणां परिमलपटुना जायते घ्राणसौख्यं गात्राणां ह्लादमेते विदधति मरुतो वारिसंपर्कशीताः ॥ ४ ॥ तदेहि दीर्घिकातटमुपसर्पावः । ( परिक्रम्यावलोक्य च । ) वयस्य पश्य पश्य । उद्यानदेवताया स्फुटपङ्कजकान्तिहारिणी स्वच्छा । दृष्टिरिव दीर्घिकेयं रमयति मां दर्शनेनैव ॥ ५ ॥ विदूषकः—( सकौतुकम् । ) भो वयस्य पश्य पश्य । कैषा कुसुम- परिमलसुगन्धवेणिमधुकरसविर्विद्रुमलताचरणहस्तपल्लवा उज्ज्वलत्तनुकोमल- [L13
पातालाद्भुवनावलोकनपरा किं नागकन्योत्थिता मिथ्या तत्खलु दृष्टमेव हि मया तस्मिन्कुतोऽस्तीदृशी । मूर्ता स्यादिह कौमुदी न घटते तस्या दिवा दर्शनं केयं हस्ततलस्थितेन कमलेनालोक्यते श्रीरिव ॥ ६ ॥ विदूषकः—(निरूप्य ।) एषा खलु देव्याः परिचारिकेन्दीवरिका । तद्गुल्मान्तरितौ भूत्वा पश्यावः । (एसा क्खु देवीए परिआरिआ इन्दीवरिआ । ता गुम्मन्तरिआ भविअ पेक्खह्म ।) (उभौ तथा कुरुतः ।) चेटी—(कमलिनीपत्रग्रहणं नाटयन्ती ।) आरण्यके अवचिनु त्वं पद्मानि । अहमप्येतस्मिन्नलिनीपद्मे शेफालिकाकुसुमान्यवचित्य देवीस- काशं गमिष्यामि । (आरणिए अवचुणु तुमं पदुमाईं । अहं वि एदस्सिं णलि- णीपत्तम्मि सेहालिआकुसुमाई अवचुणिअ देवीसआसं गमिस्सं ।) राजा—वयस्य संलाप इव वर्तते । तदवहिताः शृणुमः । कदा- चिदित एव व्यक्तीभविष्यति । (चेटी गमनं नाटयति ।) आर०—हला इन्दीवरिके । न शक्नोमि त्वया विना मुहूर्तम्प्यत्रा- सितुम् । (हला इन्दीवरिए ण सक्कुणोमि तुए विणा मुहुत्तंवि एत्थ आसिदुं ।) चेटी—(विहस्य ।) यादशमद्य मया देव्या मन्त्रितं श्रुतं तादृशेन चिरमेव मया विना त्वयासितव्यम् । (जादिसं अज्ज मए देवीए मन्तिदं सुदं तारिसेण चिरं एव्व मए विणा तुए आसिदव्वं ।) तयोक्ता । पातालेति । भुवनस्य महीलोकस्यावलोकनपरा नागकन्यका पातालादुत्थिता किं स्यादिति वितर्क्य । नैतस्यादित्याशङ्क्येति । तन्मिथ्या खलु । मया दृष्टमेव हि । तस्मिन्पाताले ईदृशी लावण्यसम्पन्ना कन्यका कुतः । इह मूर्ता मूर्तिमती कौमुदी स्यात् । एतदपि न । तस्याः कौमुद्या दिवादर्शनं न घटते संभवति । केयं तर्हि सा हस्ततलस्थितेन कमलेन श्रीः इव आलोक्यते । सन्देहालंकारः । शार्दूलविक्रीडितं वृत्तम् ॥ ६ ॥ यादृशं यत्प्रकारकम् । तद्विवाहसम्बन्धीति गूढम् । मन्त्रितं भाषितम् । तादृशेन तद्गु- १ दिवा. २ कुतस्त्यी०. ३ रिका आगच्छति (आअच्छइ). ४ एतद्वाक्यं बहुषु पुस्तकेषु. ५ तादृशं (तारिसं).
१८ प्रियदर्शिकाया आर०—( सविषादम् । ) किं देव्या मन्त्रितम् । ( देवाए मन्त्रिदं । ) चेटी—एतत् । तदैषाहं महाराजेन भणिता यथा—यदैषा विन्ध्य- केतुदुहिता वरयोग्या भविष्यति तदाहं स्मारयितव्य इति । तत्साम्प्रतं महाराजं स्मारयामि येनास्या वरचिन्तोपर्याकुलो भविष्यति । ( एदं । तदा एसा अ० महाराएण भणिदा जह जदा एसा विज्झकेदुदुहिदा वरजोग्गा भवि- स्सदि तदा अहँ सुमराइदव्वोत्ति । ता संपदं महाराअं सुमरावेमि जेण से वरचिन्ता- पवाउरो भविस्सदि । ) राजा—( सदर्पम् । ) इयं सा विन्ध्यकेतोर्दुहिता । ( सानुतापम् । ) चिरं मुषिता स्मो वयम् । वयस्य निर्दोषदर्शना कन्यका खल्वियम् । विश्रब्धमिदानीं पश्याम । आर०—( सरोषं कर्णौ विधाय । ) तद्गच्छ त्वम् । न मम त्वयासंब- द्धप्रलापिन्या प्रयोजनम् । ( ता गच्छ तुमं । ण मे तुए असंबद्धपलाविणीए पओअणं । ) ( नेपथ्यस्था च पुष्पावचयं नाटयति । ) राजा—अहो सुतरां प्रकटीकृतमाभिजात्यं भीरतया । वयस्य धन्यः खल्वसौ य एतदङ्गस्पर्शसुखभाजनं भविष्यति । ( आरण्यिका कमलावचयं नाटयति । ) विदूषकः—भो वयस्य पश्य पश्य । आश्चर्यमाश्चर्यम् । एषा सलिलचलत्करपल्लवप्रभावितृतेनोपहसितशोभं करोति कमलवनमवचि- न्वती । ( भो वयस्स पेक्ख पेक्ख । अच्चरिअं अच्चरिअं । एसा सलिलचलन्तकर- पल्लवप्पहावित्थिदेण ओहासिअसोहं करेदि कमलवणं अवचिणन्ती । ) राजा—वयस्य सत्यमेवैतत् । पश्य । रोषादित्यर्थः । सानुतापमनुतापेन पश्चात्तापेन सहितं यथा तथा । विश्रब्धं यथा तथा । असम्बद्धं संदर्भरहितमनर्थकमिति यावत् । यदा वरयोग्या भविष्यतीत्यादि प्रलपतीति तथा तथा । एषा नर्मोक्तिः । एवं शाकुन्तलेऽपि 'इमामसम्बद्धप्रलापिनीं प्रियंवदामाय्यायै गौतम्यै निवेदयिष्यामी'ति शकुन्तलावचनम् । एषा कमलानि अवचिन्वन्ती सलिले जलं चलन्ती । करपल्लवस्य प्रभा तस्या विस्तृतेन विस्तारेण प्रसरणेनेत्यर्थः । १ तदाह म० । यथा—यैषा अ० द० । २ तदा ब० ( ना० ए० ) ३ चिरमु० ४ एत- न्नास्ति क्वचित् ५ दिग्रुटितेन ( निग्रुटितेन ) ६ ०मज्जन्त ७ स्वल्प
द्वितीयोऽङ्कः । १९ अच्छिन्नामृतबिन्दुवृष्टिसदृशीं प्रीतिं ददत्या दृशां याताया विगलत्पयोधरपटाद्द्रष्टव्यतां कामपि अङ्गाच्चन्द्रमसस्तनोरिव करस्पर्शात्पदत्वं गता नैते यन्मुकुलीभवन्ति सहसा पद्मास्तदेवाद्भुतम् ॥ ७ ॥ आर०—( भ्रमरबाधां नाटयन्ती । ) हा धिक् हा धिक् । एते खल्वपरे परित्यज्य कमलिनीं नीलोत्पलवनानि समापतन्तो निपुणतरं बाधमाना आयासयन्ति मां दुष्टमधुकराः । (उत्तरीयेण मुखं पिधाय सभयम् ।) हला इन्दीवरिके परित्रायस्व मां परित्रायस्व माम् । एते खलु दुष्टमधु- कराः परिभविष्यन्ति । ( हद्धि हद्धि । एदे क्खु अवरे परिच्चइअ कमलिणीं णीलुप्पलवण्णाई समापडन्ता णिउणदरं बाधन्ता आआसअन्ति मं दुट्ठमहुअरा । हला इन्दीवरिए परित्ताएहि मं परित्ताएहि मं । एदे क्खु दुट्ठमहुअरा परिभविस्सन्ति ।) विदूषकः—भो वयस्य पूर्णास्ते मनोरथाः । यावदेव गर्भदास्याः सुता नागच्छति तावदेव त्वमपि तूष्णीको भूत्वोपसर्प । एषापि सलिल- शब्दसंनितेन पदसंचारेणेन्दीवरिकागच्छतीति ज्ञात्वा त्वमेवावलम्बिष्यते । ( भो वयस्स पुण्णा दे मणोरहा । जाव एव्व गब्भदासीए सुदा ण आगच्छदि दाव एव्व तुमं वि तुष्णीको भविअ उवसप्प । एसा वि सलिलसद्दसंणिदेण पअसंच
२० प्रियदर्शिकायां आर०—( पदशब्दाकर्णनं नाटयन्ती । ) इन्दीवरिके लघूपसर्प लघू- पसर्प । आकुलीकृतास्मि दुष्टमधुकरैः । ( इन्दीवरिए । लहु उवसप्प लहु उवसप्प । आउलीकिदम्हि दुम्महुअरेहिं । १ राजानमवलम्बते । ) ( राजा कण्ठे गृह्णाति । आरण्यकोत्तरीयं मुखादपनीय राजानमपश्यन्ती भ्रमरच्छलेन नाटयति । ) राजा—( स्वोत्तरीयेण भ्रमरान्निवारयन् । ) अयि विसृज विषादं भीरु भृङ्गास्तवैते परिमलरसलुब्धा वक्त्रपद्मे पतन्ति । विकिरसि यदि भूयस्त्रासलोलायताक्षी कुवलयवनलक्ष्मीं तत्कुतस्त्यां त्यजन्ति ॥ ८ ॥ आर०—( राजानं दृष्ट्वा साध्वसं नाटयन्ती । ) कथं नैषेन्दीवरिका । ( सभयं राजान मवलम्ब्यापसरन्ती । ) इन्दीवरिके । लध्वोगच्छ लध्वागच्छ । परित्रायस्व माम् । ( कहं ण एसा इन्दीवरिआ । इन्दीवरिए । लहु आगच्छ लहु आगच्छ । परित्ताएहि मं । ) विदूषकः—भवति सकलपृथिवीपरित्राणसमर्थेन वत्सराजेन परित्रा- यमाणा चेटीमिन्दीवरिकामाक्रन्दसि । ( होदि सअलपुढवीपरित्ताणसमत्थेण वच्छराएण परित्ताअ
द्वितीयोऽङ्कः । २१ चेटी—आयासिता खल्वारण्यिका दुष्टमधुकरैः । तद्यावदुपसृत्य समाश्वासयामि । आरण्यके मो बिभिहि । एषोपगतास्मि । ( साआ- सिदा क्खु आरणिआ दुट्ठमहुअरेहि । ता जाव उवसप्पिअ समस्सासेमि । आरणिए मा भआहि । एसा उवअदम्हि । ) विदूषकः—भोः अपसरापसर । एषा खल्विन्दीवरिकागता । ऐतं वृत्तान्तं प्रेक्ष्य देव्यै निवेदयिष्यति । ( अङ्गुल्या निर्दिश्य ।) तदिदमेव कदलीगृहं प्रविश्य मुहूर्त्तं तिष्ठावः । ( भो ओसर ओसर । एसा क्खु इन्दी- वरिआ आगदा । एदं उत्तन्तं पेक्खिअ देवीए णिवेदिस्सदि । ता इमं एव्व कदलीघरं पविसिअ मुहुत्तं चिट्ठम्ह । ) ( उभौ तथा कुरुतः । ) चेटी—( उपसृत्य कपोलौ स्पृशन्ती ।) हञ्जे आरण्यिके । कमलसदृ- शस्य तव वदनस्यायं दोषो यन्मधुकरा एवमपराध्यन्ति । (हस्ते गृहीत्वा ।) तदेहि गच्छावः । परिणतो दिवसः । ( हञ्जे आरणिए कमलसरिसस्स तुह वअ- णस्स अअं दोसो जं महुअरा एवं अवराहन्ति । ता एहि गच्छम्ह । परिणदो दिअहो । ) ( गमने नाटयतः । ) आर०—( कदलीगृहाभिमुखमवलोक्य ।) हञ्जे इन्दीवरिके अति- शिशिरतया सल्लिटस्योरुस्तैम्भ इव समुत्पन्नः । तच्छनैः शनैर्गच्छावः । ( हञ्जे इन्दीवरिए अदिसिसिरदाए सल्लिस्स ऊरुत्थम्भो विअ समुप्पण्णो । ता सणिअं सणिअं गच्छम्ह । ) चेटी—तथा । ( तह । ) ( इति निष्क्रान्ते । ) विदूषक—भोः एहि निष्कामावः । तां गृहीत्वैषा दास्याः सुतेन्दीव- रिका गताँ । ( भो एहि णिक्कमाम्ह । तं गेण्हिअ एसा दासीए सुदा इन्दीवरिआ गदा । ) राजा—( निःश्वस्य ।) कथं गता । सखे वसन्तक । न खल्वविघ्न- मभिरुषितमन्वर्थैः प्राप्यन्ते । ( विलोक्य ।) सखे पश्य पश्य । कथं गता उत्कण्ठयिष्य । शकुन्तलासु प्रियंवदास्वैतद्द्यम् । अभिगम्याभिनन्दितमि०—एवं शकुन्तलायां—अहो विस्मयः प्रार्थितार्थसिद्धयः । इति । १ मा भेषीः मा भेषीः । समाश्वासयिष्ये (मा अह्नि एसा अभाइद्वि)- २ नेदंने (ता एई). ३ कण्ठः. ४ अभ्यन्तरं—तदा कुरुतः । इत्यधिकं कूटपुस्तकयोः.
२२ प्रियदर्शिकायां आबद्धमुखमपार्थं कण्टकितं कमलकाननं तस्याः । सुकुमारपाणिपल्लवसंस्पर्शसुखं कथयतीव ॥ ९ ॥ ( निःश्वस्य । ) सखे ! क इदानीमुपायः पुनस्तां द्रष्टुम् । विदूषकः—भोः त्वमेव पुत्तलियां भङ्क्तेदानीं रोदिषि । न मम खलु ब्राह्मणस्य वचनं करोषि । ( भो तुमे एव्व पुत्तलिअं भञ्जिअ दाणिं रोदिसि । ण मह क्खु बह्मणस्स वअणं करेसि । ) राजा—किं मया न कृतम् । विदूषकः—तदिदानीं विस्मृतम् । यथा तूष्णीको भूत्वोपसर्पेति मया भणितम् । अतिसंकटे यद्भवान्प्रविश्यालीकपाण्डित्यदुविदग्धतया “ अयि विसृज विषादम् ” इत्येतैरन्यैश्च कटुवचनैर्निर्भर्त्स्य सांप्रतं किं रोदिषि । पुनरप्युपायं पृच्छसि । ( तं दाणिं विसुमरिदं । जह तुण्हीओ भविअ उवसप्पेत्ति मए भणिदं । आदिसंकडे ज भवं पविसिअ अलिअपंडिच्चदुव्विदग्गदाए अह विसिज्ज विसादेत्ति एदेहिं अन्नेहिं अ कडुअवअणेहिं णिब्भच्छिअ संपदं किं रोदिसि । पुणो वि उवाअं पुच्छसि । ) राजा— कथं समाश्वासनमपि निर्भर्त्सनमिति भणितं मूर्खेन । विदूषकः—ज्ञातमेव कोऽत्र मूर्ख इति । तत्किमेतेन । अस्तमया- भिलाषी भगवान्सहस्ररश्मिः । तदेह्मभ्यन्तरमेव प्रविशावः । ( जाणिदं एव्व को एत्थ मुक्खोत्ति । ता किं एदेण । अत्थमणाहिलासी भअवं सहस्सररसी । ता एहि अब्भन्तरं एव्व पविसह्म । ) राजा—( विलोक्य । ) अये परिणतप्रायो दिवसः । अहह । संप्रति हि— हृत्वा पद्मवनद्युतिं प्रियतमेवेयं दिनश्रीर्गता रागोऽस्मिन्मम चेतसीय सवितुर्बिम्बेऽधिकं लक्ष्यते । आबद्धेति । इदं कमलकाननं पद्मवनं व्यापन्नं मुकुलितं मुखं यस्य तत्तथाबद्ध- मुखमपि । कण्टकितं सञ्जातकण्टकं सरोमाञ्चं च सत् । तस्या आरण्यिकायाः यः सुकुमारः पाणिपल्लवः तस्य संस्पर्शन जातं सुखं कथयतीव । उत्प्रेक्षालंकारः । पथ्यार्यावृत्तम् ॥ ९ ॥ पुत्तलियां पाञ्चालिकाम् । अतिसंकटे इति सोच्छ्वासम् । अलीकपाण्डित्यं मिथ्यावैदग्ध्यं तेन दुर्विदग्धः साभिमानः पण्डितंमन्य इत्यर्थः । तस्य भावस्तत्ता तया । अस्तमयमभिलषतीत्यस्तमयाभिलाषी आसन्नस्तमय इत्यर्थः । हृत्वेति । इयं दिनश्रीः पद्मवनस्य कान्तिं शोभां हृत्वा प्रिया आरण्यिका इव गता । अस्मिन्पुरोदृश्यमाने सवितुर्बिम्बे मम चेतसि इव रागो रक्तिमा अनुरागश्च अधिकं १ अभ्युपायः २ मे दुर्वाक्यं ( मे मुखरत्वम् ) . ३ तदा भणितं.. विहस्य 'अयि... कटुवचनैः भर्त्स्य सम्प्रतं. ४ एहीतः. ५ दिवसकरः ( दिवसहरो ).