भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - ८. सू - ११. ] दीपिकासहितम्. १०८५

न प्रियाप्रिये स्पृशतो याभ्यां ह्येष उन्मथ्यते' इत्येवं कौण्डरव्यश्रुतावाह हि ॥ १० ॥ (२) सू— ॐ ॥ भावं जैमिनिर्विकल्पाम्नानात् ॥ ॐ ॥ ११ ॥ 'स वा एष एवं वित्परमभिपश्यत्यभिशृणोति ज्यो- तिषैव रूपेण चिता वाऽचिता वा नित्येन वाऽनित्येन वाऽथानन्दी ह्येवैष भवति नानानन्दं कंचिदुपस्पृश- न्नित्यन्वयः। 'एवं' मुक्तानां प्राकृतदेहाभावं, श्रुताविति सप्तमी प्रथमा- र्थे। 'हि' यस्मात् । अनेन आहेति सौत्रपदस्यावृत्तिस्सूचिता। श्रुत्य- र्थस्तु— 'तदा' मुक्तिकाले 'एषः' मुक्तः 'अशरीरो वाव' प्राकृतदेह- शून्य एव भवति यतोऽत एनं न 'प्रियाप्रिये' सुखदुःखे स्पृशतः। अशरीरं सन्तमित्यनुवादः । प्रियाप्रियस्पृष्ट्या भवदनिष्टमाह— याभ्यां प्रियाप्रियाभ्यामिति । अनेनात्र प्रियशब्देन 'परेयं प्रियनामकम्' इत्यु- क्तेः पराधीनसुखसामान्यवाचकेन प्राकृतं सुखं ग्राह्यमिति सूचितम् । तस्यैवानित्यत्वविकारित्वादिरूपोन्मादापादकत्वादिति तत्त्वप्रदीपो- क्तेः। यद्यपि 'न हवै शरीरस्य' (छा.८-१२-१.) इति छान्दोगेऽपि श्रुतिर- स्ति । तथाऽपि सा परमात्मपरेति नात्रोदाहृता ॥ (२) मुक्तानां देहसद्भावमभ्युपगच्छत्सूत्रमुपन्यस्यति— भावमि- ति ॥ पूर्ववद्विपरिणामानुवृत्त्यध्याहाराः कर्तव्याः । तथा च जैमिनिर्मु- क्तानां चितिमात्रेणविना तदन्यस्य प्राकृतदेहस्यापि 'भावं' सद्भावं मन्यते । कुतः ? 'विकल्पाम्नानात्' चिन्मात्रदेहेनैवावतिष्ठते इत्यनु- क्त्वा श्रुतौ 'चिता वाऽचिता वा' इति विकल्पोक्तेरिति सूत्रार्थमभिप्रे- त्य श्रुत्युदाहरणपूर्वकं तद्व्याचष्टे— स इति । 'परं' परमात्मानं 'एवं' उक्तप्रकारेण 'वित्' अपरोक्षज्ञानी 'स एषः' मुक्तः 'चिता' अप्राकृ- तचैतन्यात्मकेन वा 'अचिता' शुद्धसत्त्वात्मकप्राकृतकर्मानारब्धजडा- त्मकेन वा 'ज्योतिषा' प्रकाशमानेन 'रूपेण' शरीरेणैव 'अभिपश्य- त्यभिशृणोति' दर्शनश्रवणोपलक्षितसर्वविषयानुभववान्भवतीत्यर्थः। तेन च 'आनन्द्येव' व्यक्तसुखवानेवैष भवति न दुःखी। हीति प्रसि- द्धम् । कुतो ? 'हि' यतो 'नानानन्दं' आनन्दविरुद्धं दुःखं 'कञ्चि- त्' कमपि मुक्तं नोपस्पृशत्यत इत्यर्थः। अत्र नित्येनेत्येतत् चितेत्यस्य अनित्येनेत्येतत् अचितेत्यस्य विशेषणम्, न तु विकल्पद्वयमत्रोच्यते । उभयत्रवाशब्दोऽवधारणार्थः। तत्राचितोऽनित्यत्वं नाम स्वस्य स-

१०८६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४, पा - ४. ] ति’ इत्यौद्दालकभ्रुतौ विकल्पाज्ञानादन्यदेहस्यापि भावं जैमिनिर्मन्यते ॥ ११ ॥ ( ३) सू— ॐ ॥ द्वादशाहवदुभयविधं बादरायणोऽतः ॥ ॐ ॥ १२॥ यथा द्वादशाहः ऋत्वात्मकः सत्रात्मकश्च भवति । दाऽविद्यमानत्वमेव न तु सर्वथाऽनित्यत्वम् । मौकसकलपदार्थानां मनादिनित्यत्वेन तद्योगादिति केचित् । अन्ये तु अनित्येन वेति । अने न मुक्तानां बाह्यदेहोऽनादिनित्य एव कंचुकवृत्त्या स्वीकारादित्येतत् निरस्तं भवति । प्राकृतशरीरादीनां मौक्तानां प्रलयात्पूर्वमुत्पत्तेः प्रल ये विनाशाच्चेत्याहुः । विकल्पाज्ञानादिति । प्रकारद्वयाभिधानादित्य र्थः । अन्यदेहस्येति । चिन्मात्रं विनैवेत्यनुषज्यते । तथा च चिन्मात्रं विना तदन्यदेहस्यापीत्यर्थः । न केवलं चिन्मात्रस्येत्यपेरर्थः । ‘भा वं’ सत्त्वम् ॥ ( ३) नन्वेसन्मतद्वयस्य परस्परविरुद्धत्वात्किं तत्स्वमतमित्याश ङ्कां परिहरत्सूत्रं पठति—द्वादशेति ॥ अत्र मुक्तानां देहभावाभावा ख्यमुभयविधमपि मतं स्वमतमेव । कुतः ? अतः उभयविधस्यापि म तद्वयोक्तप्रमाणवत्त्वात् इति सूत्रखण्डार्थमभिप्रेत्य कथमुभयं विरुद्धं स्वमतं भवेदित्याशङ्कापरिहाराय प्रवृत्तं द्वादशाहवदित्यंशं व्याचष्टे- यथेति । क्रतुरहीनः । यथोक्तं तत्त्वप्रदीपे—ऋतुरित्यहीनो विवक्ष्यते। अ हीनैकाहेष्वस्य श्रेष्ठत्वात्क्रतुशब्दः प्रयुक्तः । तथा च श्रुतिः—‘श्रेष्ठोयज्ञो वा एष यद्द्वादशाहः’( ) इति । अत्र द्विविधो द्वादशाहः सत्र महीनश्चेति । तत्रैकादशाहपर्यन्तमहर्गणा अहीना एव । त्रयोदशाहादि कं सत्रमेव । मध्यमं तु यजमानेच्छया एकयजमानकत्वेऽहीनसंज्ञकं, अ नेकयजमानत्वे सत्रसंज्ञकम् । सतित्तचैवं अहीनात्मकः सत्रात्मक इति व क्तव्ये ऋतुविशेषेऽहीने क्रतुपदप्रयोगः कुरुपाण्डवन्यायेनेति प्राचीनग्र न्थोक्तो विशेषो ज्ञातव्यः । द्वादशाहवदिति दृष्टान्तवाक्येन लब्धमर्थं दर्शयति—एवमिति । ‘भोगः’ इच्छया भोगः ‘बाह्यशरीरकृतः’ प्रा कृतदेहनिमित्तः ‘चिन्मात्रकृतः’ स्वरूपदेहकृतः । चस्समुच्चये । भव तीत्यनन्तरमतो मुक्तस्येच्छया भोगार्थं देहभावाभावयोरविरोधेनोपप त्तिरिति बादरायणो मन्यत इति वाक्यशेषः । एतत्सूत्राभिप्रायस्तु मु क्तानां स्वतः इच्छां विना प्राकृतदेहाभावमवरेषामिच्छयाऽप्यभावं बादरिराचार्यो मन्यते । न च द्वितीये मुक्तानां सत्यकामत्वविरोधः ।

[ अधि - ८. सू - १४. ] दीपिकासहितम्. १०८७ एवं मुक्तभोगो बाह्यशरीरकृतश्चिन्मात्रकृतश्च भवती ति बादरायणो मन्यते ॥ १२ ॥ (४) उपपत्तिश्च - सू- ॐ ॥ तन्वभावे सन्ध्यवदुपपत्तेः ॥ ॐ ॥ १३ ॥ सन्ध्यं स्वप्नः 'सन्ध्यं तृतीयं स्वप्नस्थानम्' (बृ. ६- ३-९.) इति श्रुतेः ॥ १३ ॥ (५) सू- ॐ ॥ भावे जाग्रद्वत् ॥ ॐ ॥ १४ ॥ यतस्तेषामिच्छाऽपि नास्ति तद्भोगस्याल्पीयस्त्वेन तदर्थं शरीरान्त राक्षेपाभावात् । जैमिन्याचार्यस्तु कदाचिन्मुक्तस्यापि कस्य चिदुत्त मस्य भोगार्थमिच्छया प्राकृतदेहस्यापि भावं मन्यते । सर्वेषामपि चि दात्मकदेहेनैव भोगः, केषां चिदिच्छयैव बाह्यदेहेनापि । तत्रापि वि शेषः - चिन्मात्रदेहेन भोगे बाह्यदेहापेक्षा नास्ति, बाह्यदेहेन भोगे तु चिदात्मकदेहोऽधिष्ठानत्वेन अपेक्षित इति । यद्यपि चिद्देहेनैव समस्त भोगो युज्यते, चिद्देहानां बहुरूपत्वात् । तथाऽपि वश्यप्रकृतीनां वैचि त्र्यकौतुकवतां शरीरयोगेन च सुशक इति गुण एव । अतो मुनिमत द्वयं साध्विति मुनिद्वयगुरवो मन्यन्त इति तत्त्वप्रदीपेऽभिहितः ॥ (४) ननु भवतु देहभावाभावयोरविरोधः । तथाऽपि कथं भोगो पपत्तिः । देहसत्त्वे सदुःखादिः स्यात्, न चेद्भोगायोग इत्यनुपपत्तेरु क्तत्वादित्यत आह - उपपत्तिश्चेति ॥ चोऽवधारणे । तथा च पक्षद्व येऽपि भोगस्य युक्ततैवेत्यर्थः । कथमुपपत्तिरित्याशङ्कां परिहर्तुं देहा भावे भोगोपपत्तिप्रतिपादनाय सूत्रं पठित्वा दुर्गमांशं सप्रमाणकं व्या चष्टे - तन्विति । जाग्रत्सुषुप्तद्यपेक्षया तृतीयं स्वप्नावस्थाख्यं स्थानं 'सन्ध्यं' जाग्रत्सुषुप्तिसन्धौ भवमिति वाजसनेयश्रुत्यर्थः । अनेन सप्त म्यर्थे वतिः । तन्वभाव इत्यावर्तते । भोगेत्युपस्कार्यम् । अत एवेत्यत श्चोऽनुवर्तते, स च विपक्षव्यावृत्त्यर्थोऽप्यर्थश्च । तथा च न देहाभावे भोगानुपपत्तिः । कुतः ? 'सन्ध्यवत्' यथा स्वप्नावस्थायां 'तन्वभा वे' शरीराभावेऽपि तदभिमानाभावेऽपि भोगो दृष्टस्तथा 'तन्वभावे' तद्दशायां मुक्तौ 'तन्वभावे' देहाभावेऽपि भोगोपपत्तिरिति सूत्रार्थ उ क्तो भवति ॥ (५) देहसद्भावे तत्र तत्त्वप्रदीपरीत्या मिथ्याभिनिवेशरूपाभिमाना भावेऽपि लक्ष्म्यादिसाधारणस्य स्वकीयत्वज्ञानमात्ररूपाऽभिमानस्या

१०८८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] (६) ब्रह्मवैवर्ते च--- स्वप्नस्थानां यथा भोगो विना देहेन युज्यते । एवं मुक्तावपि भवेद्विना देहेन भोजनम् ॥ स्वेच्छया वा शरीराणि तेजोरूपाणि कानिचित् । स्वीकृत्य जागरितवद्भुक्त्वा त्यागः कदा चन ॥ इति ॥ १४ ॥ पि भावात्सुतरां भोगोपपत्तिरिति भावेन सूत्रमुपन्यस्यति—भाव इति ॥ अत्र भाव इत्यतः पूर्वं तन्वा इति विपरिणत्यान्वेति । सप्तम्यन्ता द्वृतिः । तन्वभावेऽपि भोगोपपत्तेरिति हेतुरत्रापि सम्बध्यते । तथा च ‘जाग्रद्वत्’ यथा जाग्रद्दशायां तनोर्भावे देहसत्त्वेऽपि भोगोपपत्तिस्त था ‘तन्वभावे’ मुक्तावपि तनोर्भावेऽपि भोगोपपत्तेः न तदनुपपत्ति रिति सूत्रार्थस्य स्मृत्यैवोक्तत्वान्न पृथगुक्तः। ननु देह सद्भावे भोगानु पपत्तेरनापादितत्वान्न परिहारायेदं सूत्रं व्यर्थमिति चेन्न, अस्य सूत्र स्य प्रदीपवदावेश इत्यत्र वक्ष्यमाणं यदुःखादिप्राप्तिरूपदूषणस्य निरा करणं तत्प्रस्तावाय तत्प्रतियोगिप्रसञ्जकप्रतिपादनाय प्रवृत्तत्वेन सा र्थकत्वात् ॥ (६) ननु सन्ध्यवत् जाग्रद्वद्भोग इव सुषुप्तथादिवद्भोगाभावोऽपि किं न स्यादिति प्रतिदृष्टान्तस्यापि वक्तुं शक्यत्वात् । देहाभावे स्वप्न वद्देहसद्भावे जाग्रद्वद्भोग इत्येतत्कुत इत्यतः पूर्वसूत्रसहितैतत्सूत्रार्थे स्मृतिं चाह ब्रह्मवैवर्त चेति ॥ उक्तमिति शेषः । न केवलं सूत्रकृता इदमुक्तमिति चशब्दार्थः । ‘स्वप्नस्थानां’ स्वप्नावस्थापन्नानां ‘देहे न विना’ तदभिमानेन विनाऽपि । अनभिमानस्याऽपि भोगाभावापादक त्वेनाभावसाम्यादेवमुक्तिः । ‘देहेन’ प्राकृतेन ‘भोजनं’ भोगः । युज्य त इत्यनुषज्यते । ‘शरीराणि’ प्राकृतानि ‘कदा चन’ भोगानन्तर काले । इतिशब्दस्य ब्रह्मवैवर्त इत्यनेनान्वयः । बृहद्भाष्यरीत्या तु सू क्ष्मस्यैव स्वरूपदेहस्य मुक्तौ वृद्धयङ्गीकारेण भोगः । तदुक्तं बृहद्भाष्ये षष्ठाध्याये— अल्पं तेजस्तथैवाल्पं जीवरूपं हि संसृतौ । तथा च सुमहत्तेजः करोति भगवान् महत् ॥ अतो नवतरं चैतत् ब्रह्मादीनां करोत्यजः ॥ इति ॥ व्यासतीर्थैः अल्पं परिमाणवत भगवान् मुक्तौ रूपं सुमहत् तेजो मह

[ अधि - ८. सू - १५. ] दीपिकासहितम्. १०८९ (७) सू - ॐ ॥ प्रदीपवदावेशस्तथा हि दर्शयति ॥ ॐ ॥ १५ ॥ शरीरमनुविश्यापि तत्प्रकाशयन्तः पुण्यानेव भोगान नुभवन्ति न तु दुःखादीन् । यथा प्रदीपो दीपिकादि षु प्रविष्टः तत्स्थं तैलाद्येव भुङ्क्ते न तु काष्र्ण्यादि । ' तीर्णो हि तदा सर्वान् शोकान् हृदयस्य भवति ' त्करोतीत्यर्थ इति । अत्र स्वरूपदेहस्य महत्त्वं च स्वस्वचरमशरीरसम त्वेन तूलपिण्डवत् प्रचय एव । न च प्रचयशब्दितविकाराङ्गीकारे ऽनित्यत्वापत्तिः । ईश्वरशक्त्या तद्भावोपपत्तेः । उक्तं हि गीताभा ष्ये 'शरीरं जायते तेषाम्' इति द्वितीयाध्यायव्याख्यानावसरे । प्रमे यदीपे तु विकारित्वाद्धिनाशः स्यादित्यत उक्तं-ईश्वरशक्त्येतीति ॥ (७) ननु देहसद्भावे भोगोपपत्तावपि दुःखमप्यापद्यते एवेत्युक्त मेवेत्याशङ्कां परिहरत्सूत्रं पठति—प्रदीपवदिति ॥ अत्र मुक्तानामिति प्रकरणाल्लभ्यते । प्रदीपवदिति षष्ठ्यन्ताद्वतिः । आवेशः प्रवेशः । स्व कीयत्वज्ञानरूपाभिमानः । तथा च 'अपि' यद्यपि मुक्तानां 'आवेशः' शुद्धप्रकृतिमयज्योतिरूपसुखैकायतनबाह्यदेहप्रवेशः तदभिमानोऽस्ति तथापि न ते दुःखादीननुभवन्ति किंतु साधूनेव प्रदीपवदिति सद्द ष्टान्तं प्रतिज्ञावाक्यस्य अर्थमभिप्रेत्याह—शरीरमिति । शुद्धप्रकृतिम यज्योतिरूपशरीरमित्यर्थः । समुदायेकवचनमेतत् । 'अनुप्रविश्य' इच्छानुसारेण प्रविश्य तदभिमानिनो भूत्वा । तत्कार्यमाह-तदिति । 'पुण्यान्' तत्साध्यान् साधून् 'भोगान्' भाग्यान् । पुण्यानित्यनेनाग्नि होत्रादित्यत्र ज्ञानोत्तरपुण्यभाजो यद्भोगबाहुल्यमुक्तं तत्सूचयतीत्यु क्तं तत्त्वप्रदीपे । मुक्ताः न तु दुःखादीननुभवन्ति, किन्तु पुण्यानेवेति यो जना । न पापसाध्यानसाधून् दुःखादीनित्येवार्थः । आदिशब्देनासह्मा विषया गृह्यन्ते । 'तत्स्थं' दीपिकास्यितं 'भुङ्क्ते' गृह्णाति । द्वितीया न्तप्रथमादिशब्देन घृताद्युच्यते द्वितीयेन धूल्यादिकम् । तुरप्यर्थः । 'काष्र्ण्यादीन्' मालिन्यादीनपीति । भुङ्क्ते इत्यनुषज्यते । तथेति शे षः । तथेत्यन्तं भाष्यं शरीरमित्यादेः प्राक् संयोज्यम् । 'तत्' शरीरं प्रकाशयन्तः चित्स्वरूपादिविवेचयन्तः आत्मज्योतिषा प्रकाशयन्तो वा इत्यनेन प्रदीपवदिति प्रदीपदृष्टान्ते वक्तुः सूत्रकारस्य यथा प्रदीपो दीपिकां प्रकाशयन् तत्स्थं तैलाद्येव भुङ्क्ते, न प्रकाशविरोधीन् का १३७

१०९० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] ( बृ. ६-३-२२. ) इति हि दर्शयति ॥ १५ ॥ (८) न च ' स्वर्गे लोके न भयं किञ्चनास्ति' ( कठ. १-१२. ) इत्यादिना स्वर्गादिस्थस्यैतदिति वाच्यम् । यतः— ख्यादीन् । तथा मुक्ताः जडशरीरं प्रकाशयन्तो देहविवेकज्ञानवत्त्वाद्गु- णानेव भोग्याननुभवन्ति, न तन्निमित्तकं दुःखादीति विवक्षोक्ता भवति। न च ' न ह वै सशरीरस्य' (छा. ८-१२-१.) इति श्रुतिविरोधः । तस्याः कर्मारब्धदेहविषयत्वादिति भावः । ननु देहसद्भावे कुतो मुक्तस्य दुः- खाभावः, कुतश्च श्रुतेरर्थान्तरपरत्वं दृष्टान्तमात्रस्यासाधकत्वादित्यतः प्रवृत्तं तथा हि दर्शयतीति हेत्वंशं व्याचष्टे—तीर्णो हीति । श्रुतिरिति शेषः । ' हि' यस्मात् तं

[ अधि - ८. सू - १६. ] दीपिकाসহিতम्. १०९१ सू - ॐ ॥ स्वाप्ययसम्पत्त्योरन्यतरापेक्षमाविष्कृतं हि ॥ ॐ ॥ १६ ॥ सुप्तौ मोक्षे वा तदुच्यते । 'अत्र पिताऽपिता भवति .. ज्यम् । हेत्वर्थे चायं, अतो न वाच्यमित्यन्वयः । यद्वा-सुप्तौ मोक्ष इति विषयसप्तमी । 'तत्' तीर्णो हीति वाक्यं 'उच्यते' पठ्यत इत्य र्थः । यद्यपि सूत्रनिर्देशानुसारेण मोक्षे सुप्तौ चेति वक्तव्यम् । तथा पि 'तीर्णो हि' इति वाक्यस्योभयपरत्वेऽपि मुख्यत्वमेव, न त्वेकत्र मुख्यताऽन्यत्रामुख्येतेति ज्ञापनायैवं व्यत्यासेनोक्तिः । कुतोऽस्य वाक्य स्य सुप्त्यादिविषयतेत्यतः प्रवृत्तमाविष्कृतं हीत्यंशं व्याचष्टे-अत्रेति । इत्यादीति । आदिशब्दस्योभयत्र सम्बन्धः । 'अत्र पिताऽपिता भव ति' इत्यादिना वाजसनेयवाक्येनेति । अत्रत्यादिशब्देन 'माताऽमाता भवति' (बृ. ६-३-२२.) इत्यादिशिष्टवाक्यं गृह्यते । 'अनन्वागतं पुण्ये नानन्वागतं पापेन' (बृ. ६-३-२२. ) इत्यादिशब्देन लिङ्गान्तरबोधकं वाक्यान्तरं गृह्यते । आविष्कृतत्वादिति । व्यक्तीकृतत्वादित्यर्थः । ए तद्वाक्यस्य सुप्त्यादिविषयत्वस्येति शेषः । अनेन हिशब्दो हेत्वर्थतया व्याख्यातः । भगवत्सम्परिष्वक्तो जीवः पूर्वं स्वपुत्राणां पिता 'अत्र' सुप्तौ मुक्तौ चापिता भवति । दायादानात् तेषां दुःखाददुःखाच्चेति भावः । पूर्वं माता अमाता भवति । एवमनिष्टपुण्येन पापेन च 'अन न्वागतं' अन्वागमनं न भवतीति श्रुत्यर्थः । नन्वपितृत्वादिलिङ्गं पुण्य पापाद्यसङ्गत्वादिलिङ्गं च कथं सुप्ते सङ्गतमिति चेदुच्यते । सुप्तिसम ये स्वपुत्राणां दायादानेन पुत्रेष्वभिमानाभावेन च सुप्तस्यापितृत्व ममातृत्वं च युक्तम् । यथोक्तं बृहद्भाष्ये- तेनाश्लिष्टः स्वपुत्राणां दायादानात् न वै पिता । तेषां दुःखाददुःखित्वान्न माता लोकमान्यपि ॥ इति ॥ एवं सुप्ते वृत्तिसुखदुःखयोरभावेन तत्साधनपुण्यपापयोरसम्बन्धो भा विदुःखशङ्काभावेन शोकतरणं च युक्तमिति द्रष्टव्यम् । सूत्रार्थस्तु- 'तीर्णो हि' इति वाक्यं 'स्वाप्ययसम्पत्त्योः' मुक्तिसुप्त्योर्मध्ये 'अन्य तरापेक्षं' उभयापेक्षमुभयविषयमेव, न स्वर्गविषयम् । कुतो ? 'हि' यस्मात् अस्योभयविषयत्वं 'अत्र पिता' इत्यादिना 'आविष्कृतं' प्र कटितं तस्मादिति । सूत्राक्षरस्वारस्यं तु कर्मनिर्णयटीकायां बृहद्भा ष्ये चोक्तम् । तथा हि-यदि स्वाप्ययसम्पत्त्यपेक्षमित्युच्यते, तदा

भङ्गलक्षणपरमुक्तियुक्तस्यैव तस्य पुत्रकृतश्राद्धादिभोक्तुरपितृLine 23:त्वायसम्भवात्, पुण्याद्यनन्वागमनाद्योगाच्च ॥Line 24:(९) अधिकरणार्थं स्मृत्तिमुदाहरति — ब्रह्मवैवर्ते चेति ॥ 'विश्वLine 25:मोक्षिणः' सर्वे मुक्ताः 'गुणमात्रस्वरूपिणः' ज्ञानानन्दादिगुणैकस्वरूLine 26:पिणः सर्वशोकान् तीर्णाश्च भवन्ति 'हि' यस्मात्ते गुणमात्रस्वरूपिLine 27:णः तस्मात्स्वेच्छागृहीतेषु 'ज्योतिर्मयेषु' शुद्धसत्त्वात्मकेषु देहेषु 'सुLine 28:सुखान्येव' दुःखासम्भिन्नसुखादीन्येव भुञ्जते यस्मात् ते सर्वशोकान्Line 29:तीर्णाः तस्मात् कदाचन दुःखादीन् नैव भुञ्जते इत्यन्वयः । ते मुक्ताःLine 30:अनिष्टकाम्यपुण्यपापादिवर्जिताः सर्वदोषनिवृत्ता इत्यनुवादः । गुणLine 31:मात्रस्वरूपिणः सर्वशोकान् तीर्णा इत्यनेन भुञ्ज

[ अधि - ९. सू - १७. ] दीपिकासहितम्. १०९३ तीर्णा हि सर्वशोकांस्ते पुण्यपापादिवर्जिताः । निवृत्तसर्वदोषास्ते गुणमात्रस्वरूपिणः ॥ इति ॥ १६ ॥ ९. अधिकरणम् ॥ ( १ ) सू— ॐ ॥ जगद्व्यापारवर्जम् ॥ ॐ ॥ १७ ॥ ‘सर्वान् कामानाप्त्वाऽमृतः समभवत्’ ( ऐ. आ. २- ५-४. ) इत्युच्यते। तत्र सृष्ट्यादिभ्योऽन्यान् व्यापा रानाप्नोति ॥ १७ ॥ ( २ ) कुतः ? खादीनित्यनेन वा, अस्यार्थस्य प्राप्तत्वात् । ननु सर्वेषां ज्योतिर्मयदेहाभा वात्कथं विश्वमोक्षिण इत्युक्तिरिति चेत्, अत्र केचित्—विश्वपदस्य सङ्कोच इति । अन्ये तु—एतद्वाक्यबलादस्तु विश्वेषां ज्योतिर्मयदेह इत्याहुः । एके तु—विश्वमोक्षिण इत्यस्य कर्मक्षयोत्क्रान्तिमार्गभोगाख्य चतुर्विधमोक्षवन्त इत्यर्थः । तेन नोत्क्रामन्तीति वक्ष्यमाणमुक्तव्यावृ त्तिरित्याहुः । इति ब्रह्मवैवर्ते इत्यन्वयः ॥ ८ ॥ ॥ इति अभावाधिकरणम् ॥ ९. अधिकरणम् ॥ ( १ ) अत्राधिकरणे ब्रह्मप्राप्तस्य मुक्तस्य भोगेयत्ता समर्थ्यते । त त्र ‘सर्वान् कामान्’ इति श्रुतेर्मुक्ता जगत्सृष्ट्यादिसर्वकाम्यान्प्राप्नुव न्तीति पूर्वपक्षे सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—जगदिति ॥ आप्नो तीत्यनन्तरमेवशब्दशिरस्कमुच्यत इत्येतदनुषज्यते। अपीति शेषः। त था च अपि यद्यपि ‘सर्वान् कामानाप्त्वाऽमृतः समभवत्’ इत्यैतरेये ‘अ मृतो’ मुक्तः सर्वान् काम्यभोगानाप्नोतीत्युच्यते। तथाऽपि ‘तत्र’ स र्वपदोदितेषु मध्ये सृष्ट्यादिभ्योऽन्यानेव सर्वानाप्नोति । न च श्रुतिवि रोधः । यतस्तत्र श्रुतौ सृष्ट्यादिभ्योऽन्यान् कामानाप्नोतीत्येवोच्यते, न तु सृष्ट्याद्याप्नोतीति योजना । अनेन सूत्रे मुक्त इत्यनुवर्तते । सर्वा न् कामानाप्नोतीति श्रुत्यर्थ इति शेषः । जगद्व्यापारवर्जमिति सावधा रणम् । मुक्तो जगद्व्यापारवर्जं सर्वान् कामानाप्नोति । न च श्रुतिवि रोधः । यतो मुक्तो जगद्व्यापारवर्जमेव सर्वान् कामानाप्नोतीति श्रुत्य र्थो युज्यत इति सूत्रार्थ उक्तो भवति ॥

१०९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] सू—ॐ ॥ प्रकरणादसन्निहितत्वाच्च ॥ ॐ ॥ १८ ॥ जीवप्रकरणत्वाज्जीवानां तादृक्सामर्थ्यविदूरत्वाच्च । (३) वाराहे च— स्वाधिकानन्दसम्प्राप्तौ सृष्ट्यादिव्यापृतिष्वपि । मुक्तानां नैव कामस्स्यादन्यान् कामांस्तु भुञ्जते ॥ तद्योग्यता नैव तेषां कदाचित्क्वापि विद्यते । न चायोग्यं विमुक्तोऽपि प्राप्नुयान्न च कामयेत् ॥ इ ति ॥ १८ ॥ (२) कुतः सर्वश्रुतेस्सङ्कोच इत्याक्षिपति—कुत इति ॥ तत्परि- हाराय सूत्रं पठित्वा प्रतिज्ञायाः पूर्वसूत्रेणैव प्राप्तत्वात्तामनुक्त्वा सौ- त्रहेतुं व्याचष्टे—प्रकरणादिति ॥ अस्य जीवप्रकरणत्वादित्यनेन सूत्रे जीवेत्यादौ ग्राह्यं भावप्रधानो निर्देश इत्युक्तं भवति । अयं हेतुसाध- को हेतुः । साक्षाद्धेतुस्तु अत्रोच्यमानस्य जीवत्वादिति जीवपदसूचि- तः । तादृगिति । जगद्व्यापारशक्तिरहितत्वादित्यर्थः । अयं च हेतुः । साक्षाद्धेतोरप्रयोजकत्वशङ्कापरिहारकः । अत्रापि जीवत्वादित्येव हेतु- स्सोऽपि द्वितीयजीवपदेन सूचितः, अत एव सूत्रे हेतूनां समुच्चये च- शब्दः प्रायोजि ॥ (३) ननु संसारिजीवानां तादृक्सामर्थ्यविदूरत्वेऽपि सत्यकामा- नां मुक्तजीवानां तत्सम्भवत्यतो जीवत्वहेतुरसत्यकामत्वोपाधियुक्तोऽ- प्रयोजक इयतश्चशब्दसूचितां स्मृतिमुदाहरति—वाराहे चेति ॥ न केवलं सूत्र इति चार्थः । अयमर्थ उक्त इति शेषः । स्वेति । स्वयोग्या- दधिकेत्यर्थः । अपिस्समुच्चये । तुश्चार्थे । प्राप्तिश्च न स्यादिति उक्ता- दन्यांस्तु कामयन्ते कामितांश्च भुञ्जत इत्यन्वयः । स्वाधिकेति उत्तरा- धिकरणोपयोगितयोक्तम् । कुतोऽकाम इत्यत आह—तदिति । ‘कदा- चित्क्वापि’ स्थाने अधिकानन्दे सृष्ट्यादिव्यापारे च ‘तेषां’ मुक्तानां ‘योग्यता’ सामर्थ्यं न विद्यत एव, यतोऽतो नैव कामः स्यादित्यन्वयः। नन्वयोग्यस्याप्यप्राप्त्यकामौ कुतो, व्याप्त्यभावादित्यत आह—न चे- ति । विशेषणान्तरसमुच्चयेऽपिः । तथा च सत्यकामोऽपीत्यर्थ इति के- चित् । न केवलं संसारीत्यपरे । वस्तुतस्तु यः कोऽपीत्यर्थेऽपिशब्दः । अनेन व्याप्तिरुक्ता भवति । आद्यश्चोऽवधारणे । द्वितीयस्समुच्चये । इ

[ अधि - ९. - सू - १९. ] दीपिका सहितम्. १०९५ ( ४ ) सू—ॐ ॥ प्रत्यक्षोपदेशादिति चेन्नाधिकारिकमण्ड लस्थोक्तेः ॥ ॐ ॥ १९ ॥ 'ता यो वेद, स वेद ब्रह्म, सर्वेऽस्मै देवा बलिमावह न्ति' (तै.उ.१-५.) इति प्रत्यक्षोपदेशाज्जगदैश्वर्यमप्य ति वाराह इत्यन्वयः । असत्यकामत्वं तु 'नैव योग्यता' इति स्मृत्या निश्चितसाध्यवति पक्षे अभावेन साध्याव्यापकत्वान्नोपाधिरिति भावः॥ ( ४ ) मुक्तस्य जगदैश्वर्याभावमाक्षिप्य समादधत्सूत्रमुपन्यस्य पू र्वपक्षांशं व्याचष्टे—प्रत्यक्षेति ॥ इति वाक्ये प्रत्यक्षं स्फुटमेव मुक्तस्या खिलदेवतापूज्यत्वप्रथमोत्पन्नत्वाय्युपदेशाच्छ्रवणादित्यर्थः । सूत्रेऽध्या हार्यां पूर्वपक्षप्रतिज्ञां दर्शयति-जगदैश्वर्यमस्तीति । अशेषमुक्तानामि त्युपस्कार्यम् । 'ता वा एताश्चतस्रश्चतुर्धा, चतस्रश्चतस्रो व्याहृतयः, ता यो वेद' ( तै.उ.१-५० ) इत्यादि तैत्तिरीयश्रुतेरयमर्थः । भूर्भुवस्सु वर्मह इति चतस्रो व्याहृतयः तच्छब्दवाच्याः लोकज्योतिःप्राणवेदेषु स्थिता अनिरुद्धादिभगवद्रूपविशेषाः प्रत्येकमनिरुद्धादिभेदेन चतुर्धा भवन्ति । ते तु अनिरुद्धानिरुद्धः अनिरुद्धप्रद्युम्नोऽनिरुद्धसङ्कर्षणोऽनि रुद्धवासुदेव इत्यादिरूपाः । ता एव चतस्रः चतस्रः षोडशमूर्तयः । यथोक्तं तैत्तिरीयभाष्ये— लोकज्योतिः प्राणवेदेष्वेकः स पुरुषोत्तमः । प्रत्येकशश्चातुरात्म्यात् षोडशात्मा प्रकीर्तितः ॥ इति ॥ व्याहरणनिमित्ताद्व्याहृतिशब्दिताः । 'ताः' मूर्तीर्यो वेद स एव परं ब्रह्म वेद । 'अस्मै' षोडशात्मविदे सर्वे देवाः 'बलिं' करं 'आवह न्ति' प्रयच्छन्ति । सर्वदेवपूज्यो भवतीति यावदिति । परिहारांशं व्याचष्टे—नेति । नैतच्छ्रुतिबलेनाशेषमुक्तानां जगदैश्वर्यसिद्धिरित्य र्थः । कुतो नेत्यतः श्रुतावशेषमुक्तानुक्तेरित्याशयेन आधिकारिकेति हे त्वंशं सावधारणं भावप्रधानत्वं आवृत्तिं चाभिप्रेत्य व्याचष्टे—आधि कारिकेति । आधिकारिकमण्डलाधिपत्ये इत्यर्थः । प्रकारसमर्पकमि दं ब्रह्मेत्यनन्तरं योज्यम् । 'हि' यस्मात् । अत्राधिकारिकशब्दो यौ गिको न तु आधिकारिका इति पुरुषविशेषसंज्ञा 'प्रजापाश्च तथा देवाः' इति वचनादिति प्रमेयदीपिकोक्तरीत्या रूढः । तथा च तत्रो दाहृतवाक्ये ये आधिकारिकाः स्वावरप्रेरणाधिकारे विष्णुना नियु

१०९६ ब्रह्मसूत्रभाष्यम्. [अध्या - ४. पा - ४.] स्तीति चेन्न, आधिकारिकमण्डलाधिपतिर्ब्रह्मा हि तत्रोच्यते । ( ५ ) गारुडे च— आत्मैत्येव परं देवमुपास्य हरिमव्ययम् । केचिदत्रैव मुच्यन्ते नोत्क्रामन्ति कदाचन ॥ काश्चतुर्मुखेतरमुक्तदेवाः तेषां मण्डलं समूहः तत्र स्वामित्वेन तिष्ठ तीति तत्स्थः तदधिपतिः तस्यैव मुक्तविरिञ्चस्यैव आधिकारिकमण्ड लस्थत्वस्यैव मुक्ताधिकारिकदेवतापूज्यत्वस्यैव उक्तेरिति हेत्वर्थ उ क्तो भवति । 'ता यो वेद' इति श्रुतेः विरिञ्चपरत्वं 'माहाचमस्यः' ( तै. उ. १-५० ) इत्युपक्रमात्सिद्धम् । माहाचमस्यशब्दश्च महाचमसनामाऽसौ यस्मादतिचमत्कृतिः । माहाचमस्यस्तज्ज्ञानी ब्रह्मा संपरिकीर्तितः ॥ इति तैत्तिरीयभाष्योदाहृतवचनाच्चतुर्मुखपरः । सूत्रे मुक्तदेवमण्डले ति वाच्ये अत्राधिकारिकेत्युक्तिर्मुक्तब्रह्माऽन्यदेवानापि मुक्तस्वाव रनियमनाधिकारिक

[ अधि - ९. सू - १९. ] दीपिका सहितम्. १०९७ अत्रैव च स्थितिस्तेषामन्तरिक्षे तु केचन । केचित्स्वर्गे महर्लोके जने तपसि चापरे ॥ इति बृहद्भाष्यान्नैकगुणोपासकातिरिक्तविषयमिति न तद्विरोधः । स्मृ तौ केचिदत्यल्पा मानुषा अपरोक्षज्ञानिनो देहपाते प्रत्यासन्ने स्वी यारब्धकर्मजान् ' मरणोच्छूनतादीन् ' मरणदेहोपचयादीन् देहस्य दो षान् ' सर्वशः ' सर्वतो भुक्त्वैव स्थिताः, अथ देहे जीर्णे देहतो ब्रह्म नाड्या नाड्यन्तरेण वाऽनुत्क्रम्यैव देहनाशपर्यन्तं तत्रैव स्थिताः अथ प्रलये मुक्तिं लिङ्गभङ्गरूपां ' गच्छन्ति ' प्राप्नुवन्ति । तदनन्तरं सकृ च्छ्वेतद्वीपं गच्छन्ति । तत्र विष्णुं दृष्ट्वा तदनुज्ञया ' पुनरत्रैव ' भूलोक एव नित्यानन्दैकभोगिनः ' सन्ति ' तिष्ठन्तीति योजना । तत्त्वप्रदीपे तु नोत्क्रामन्तीत्यस्य सृष्टौ सकृच्छ्वेतद्वीपगमनात्परमस्माद्देहदेशान्नोत्क्रा मन्तीत्यर्थः । अन्यथा ' बहुनात्र ' इति वचनविरोधात् । 'तदोकोऽग्रज्व लनम् ' इत्यादिना ज्ञानिनो देहदेशान्निर्गमनस्योक्तत्वाच्चेत्युक्तम् । त स्य— ' परं ' अनन्तरमस्मान्नोर्ध्वं गच्छन्ति । ' अन्यथा ' कदापि श्वे तद्वीपगमनात्पूर्वमपि नोत्क्रामन्तीत्यर्थाभ्युपगमे । नोत्क्रामन्तीत्यस्य ब्र ह्मनाड्युत्क्रमणाभावार्थत्वं किं न स्यादित्यत आह-तदोक इत्यादीत्यर्थः। अस्मिन् पक्षे ' तदोकः ' इति सूत्रमेकानेकगुणोपासकज्ञानिसामान्य परम् । बृहद्भाष्यं तु श्वेतद्वीपगमनात्परमस्माद्देहदेशादनुत्क्रम्यैवेत्यर्थ कमिति ध्येयम् । केचित्तु — ' नोत्क्रामन्ति कदाचन ' इत्यस्य इतरमु क्तवदेकवारं ब्रह्मनाड्योत्क्रमणेन मुक्तौ सत्यां पुनः स्वयोग्यस्थाने स्थि त्यनन्तरं ' नोत्क्रामन्ति ' नोर्ध्वं गच्छन्तीत्यर्थमाश्रित्य अत एव ' अत्रै व च स्थितिस्तेषां अन्तरिक्षे च केचन ' इत्युक्तम् । अन्यथा लिङ्गश रीरभङ्गाभावान्मुक्तिरेव तेषां न स्यादिति तत्त्वप्रदीपरीत्यैवार्थमा हुः । ' आत्मेत्येवोपास्व ' इति वचनस्य ' आनन्दाद्यः प्रधानस्य ' इ त्युक्तिविरोधपरिहारस्तु तस्याश्चतुर्विधमोक्षार्थचतुर्गुणोपासकविषय त्वात् अस्याश्च कतिपयमोक्षयोग्यैकगुणोपासकविषयत्वाद्विन्नविषय त्वेन विरोधाभावादिति तत्रैव कृतः । केचित्तु — आत्मेत्युपलक्षणम् । आनन्दादयोऽपि ग्राह्याः । एकगुणोपासकविषयकल्पनया समाधान टीका तु ' अस्तु वा ज्ञातता ' इत्यादिप्रौढवादेनैव प्रवृत्ता नाभ्युपग मवादेनेत्याहुः । तन्न, आनन्दमालायां—अथ चतुर्गुणोपास्तेरशक्य १३८

१०९८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् । त्वे आनन्दादीनां आत्मत्वगुणैकीकारेणापि कथं चिदुपास्तिरस्ति, त था च सच्चिदानन्दो विष्णुरात्मेत्युपास्य इत्यन्वय इत्युक्तिविरोधात् । ‘तेषु मोक्षोऽपि भवेन्मानुषाणां विशेषिणाम्’ इति छान्दोग्यभाष्यो क्तेरेकगुणोपासनाख्यावशेषवतां मनुष्याणां भूर्भुवस्स्वराख्यलोक प्राप्तिस्सिद्धा । तत्र भूलोकस्था उक्ताः । भुवस्स्वर्गस्थमुक्तानाह— अन्तरिक्षे त्वित्यादिना । तुशब्दोऽप्यर्थः । ‘केचन’ पूर्वोक्ता उत्तमा मनुष्याः । मुच्यन्त इत्यन्तं उभयत्राप्यनुषज्यते । नोत्क्रामन्तीत्येतत्तु पू र्वेणैव योज्यम् । एवं किमुशब्दैरुक्तानां मनुष्याणां स्थितिमुक्त्वा ते भ्योऽधिकानां स्थितिमाह—महरिति । ‘जने’ जनलोके ‘तपसि’ त पोलोके । चस्समुच्चये । ‘सत्ये’ सत्यलोके । सर्वत्र मुच्यन्त इत्यनुष ज्यते । ‘महाज्ञानाः’ बहुकालं ब्रह्मदर्शिनः अप्रतीकालम्बनाख्याः बहु गुणोपासकास्तु ‘क्षीरसागरं’ तत्रत्यश्वेतद्वीपं गच्छन्तीत्यर्थः । उपल क्षणमेतत् । तिष्ठन्तीत्यपि द्रष्टव्यम् । न च अत्रैव मुच्यन्ते, अत्रैव च स्थितिस्तेषाम्, महाज्ञाना गच्छन्ति क्षीरसागरम्’ इत्युक्त्या महाज्ञा नातिरिक्तानां एकगुणोपासकादीनां श्वेतद्वीपागमनप्राप्तेः बहुनाऽत्र किमुक्तेन यावच्छ्वेतं न गच्छति । योगी तावन्न मुक्तस्स्यात्....॥ इत्यत्र च सर्वेषां श्वेतद्वीपगमनोक्तेर्विरोध इति वाच्यम् । सर्वेषामपि सकृच्छ्वेतद्वीपगमनाभ्युपगमात् । तथाचाण्डलयकाले स्वोत्तमप्रवेशे नोर्ध्वं गताः भग्नलिङ्गाः सकृच्छ्वेतद्वीपं गत्वा पुनर्धरादिकमागत्यानन्त रमत्रैव तिष्ठन्तीत्याशयेन ‘अत्रैव च स्थितिः’ इत्याद्युक्तिरित्युक्तं भ वति । उक्तं हि छान्दोग्यभाष्ये— श्वेतद्वीपं ततो गत्वा दृष्ट्वा विष्णुं च तेन ते । अनुज्ञाताः प्रमोदन्ते निर्दुःखास्तु धरादिषु ॥ इति ॥ ननु गीताभाष्ये—ये त्वत्रैव भगवन्तं प्रविशन्ति तेऽपि पश्चात्तत्र या न्ति योग्यत्वं चात्र विवक्षितमित्युक्तेः सर्वेषां श्वेतद्वीपगमने तद्विरोध स्स्यादिति चेन्न, तस्य क्षीराब्धाववस्थानाय योग्यत्वं विवक्षितमित्ये तदर्थकत्वात् । अत एव प्रमेयदीपिकायां अत्रेत्यनन्तरं निवास इति शेषः कृतः । तथा च महाज्ञानित्वलक्षणयोग्यत्वं चात्र क्षीराब्धिगत

[ अधि - ९. सू - १९. ] दीपिकासहितम्. १०९९ ( ६ ) तत्रापि क्रमयोगेन ज्ञानाधिक्यात्समीपगाः । सालोक्यं च सरूपत्वं सामीप्यं योग एव च ॥ इमामारभ्य सर्वत्र यावत्सुक्षीरसागरे । पुरुषोऽनन्तशयनः श्रीमन्नारायणाभिधः ॥ श्वेतद्वीपे निवासे तदर्थं विवक्षितम्, न तु गतिमात्र इति तद्वाक्यार्था- भ्युपगमान्न विरोध इति ध्येयम् ॥ ( ६ ) श्वेतद्वीपेऽपि मुहूर्ताधिकज्ञानित्वरूपमहाज्ञानित्ववतां न सा- म्यमित्याह — तत्रापीति ॥ श्वेतद्वीपेऽपि महाज्ञानिष्वपीत्यर्थः । क्रमेति। क्रमस्तारतम्यं स एव योग उपायस्तेनेत्यर्थः । इदं चोभयत्रान्वेयते । तथा च क्रमयोगेन ज्ञानाधिक्यात् ज्ञाने आधिक्ये तारतम्याख्योपायात् तदनुसारेण महाज्ञानाः क्रमयोगेन ‘आदघ्नासः’ (ऋ.१०-७१-७.) इत्या- द्युक्तरीत्या ‘समीपगाः’ भगवत्समीपवर्तिन इत्यर्थः । ननु भूम्यादिषु मुक्तानां स्थितौ न मोक्षोऽयं स्यात् सालोक्यादिचातुर्विध्यानन्तर्भावादि- त्यत आह-सालोक्यं चेति। समानलोकस्थत्वं सालोक्यं समीपस्थत्वं सामीप्यं चतुर्भुजत्वादिरूपसाम्यं सारूप्यं भगवदङ्गप्रवेशः सायुज्यं योग एव चेत्येवशब्दास्यास्तीत्यध्याहृतेनान्वयः । चस्समुच्चये । इ- मामिति वाक्ये उक्तक्रमेण तावत्स्विति पदं अध्याहार्यं तथा च ‘इ- मां’ पृथिवीमारभ्य केचनात्रैव मुच्यन्ते, केचनान्तरिक्षे, केचित्स्वर्गे महर्लोके जने तपसि चापरे । केचित्सत्ये महाज्ञाना गच्छन्ति क्षीरसागरम् ॥ इत्याद्युक्तक्रमेण यावत्सु स्थानेषु श्रीमन्नारायणाभिधोऽनन्तशयनः पु- रुषोऽस्ति ‘तावत्सु’ सर्वत्र स्थानेष्वपि सालोक्यं समीपत्वं च सारू- प्यं योगश्चास्त्येवेति योजना । केचित्तु यावत् सुक्षीरसागर इति पद- विभागं कृत्वा शोभने क्षीरसागरे यावन्नारायणाभिधः तावदिमामार- भ्य सर्वत्र सालोक्याद्यस्तीत्यर्थमाहुः । तथा चेश्वरस्य सर्वदा सर्वत्रा- वस्थानात् भूम्यादिषु मुक्तानामपि भगवत्सामीप्यादिरूपो मोक्षो यु- क्त इति भावः । न चैतावताऽत्रैव मुक्तानां सायुज्याद्यप्यस्तीति मन्त- व्यम् । यदि चतुर्मुखाद्याः पृथिव्यादिषु मुक्तस्थानं प्रति आगच्छन्ति, तदा तेषां तत्रस्थभगवत्सायुज्याद्यप्यस्तीत्यर्थोपपत्तेः ॥

११०० ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] (७) मानुषा वर्णभेदेन तथैवाश्रमभेदतः । क्षितिपा मनुष्यगन्धर्वा देवाश्च पितरश्चिराः ॥ आजानजाः कर्मजाश्च तात्त्विकाश्च शचीपतिः । रुद्रो ब्रह्मेति क्रमशस्तेषु चैवोत्तारोत्तराः ॥ नित्यानन्दे च भोगे च ज्ञानैश्वर्यगुणेषु च । सर्वे शतगुणोद्रिक्ताः पूर्वस्मादुत्तरोत्तरम् ॥ पूज्यन्ते चावरैस्ते तु सर्वपूज्यश्चतुर्मुखः । स्वजगद्व्यावृतिस्तेषां पूर्ववत्समुदीरिता ॥ (७) ननु मानुषाः सर्वेऽप्येकविधाः, तथा च कथं तत्र केचन भू- मौ, केचनान्तरिक्षे, केचित्स्वर्गे, इत्येवंरूपावान्तरभेदः संभवतीत्य- तो वर्णाश्रमभेदेन तेषां बाहुविध्यं प्रदर्शयन् क्रमयोगेनेत्युक्तं मुक्तानां तारतम्यं च दर्शयति-मानुषा इत्यादिना ॥ 'वर्णाः' ब्रह्मक्षत्रादयः 'आ- श्रमाः' ब्रह्मचर्यादयः मुक्तौ सन्तीति शेषः । 'क्षितिपाः' चक्रवर्तिनः 'देवाः' देवगन्धर्वाः 'चिराः पितरः' इति सामानाधिकरण्यम् । 'आ- जानजाः' अनाख्यातदेवाः 'कर्मजाः' कर्मणा देवत्वं प्राप्ताः बल्याद्याः कार्त्तवीर्याद्याश्च 'तात्त्विकाः' तत्त्वाभिमानिनो बृहस्पत्यादयः देवा इ- त्यनुषज्यते । 'शचीपतिः' इन्द्रः 'रुद्रः' शेषः 'ब्रह्मा' हिरण्यगर्भ इ- त्येते क्रमशः क्रमेण 'पूर्वस्मात्' पूर्वपूर्वनिर्दिष्टात् 'उत्तरोत्तराः' उ- त्त्तमोत्तमा इति सम्बन्धः । एवं स्वरूपे तारतम्यमुक्त्वा गुणेषु तदाह- 'तेषु' उक्तेषु मध्य इति । नित्यानन्दे भोगे ज्ञानैश्वर्यरूपगुणेषु सर्वेऽ पि 'पूर्वस्मात्' पूर्वपूर्वतः 'उत्तरोत्तरं' पश्चात्पश्चान्निर्दिष्टाः शतगु- णोत्कृष्टा इत्यर्थः । शतशब्दो बहुवाची । द्वितीयगुणशब्दो गणनापरः। यदर्थं तारतम्यमुक्तं तन्मुक्तानां स्वावरपूज्यत्वम्, चतुर्मुखस्य सर्वपू- ज्यत्वमिदानीमाह-पूज्यन्ते इति । 'ते' मुक्ताः । सर्वपूज्य इति । ईश- लक्ष्मीव्यतिरिक्तसर्वपूज्य इत्यर्थः । न केवलं स्वावरपूज्यत्वमात्रं तेषां, किन्तु स्वजगद्व्यावृतिश्चास्तीत्याह-स्वेति । 'तेषां' मुक्तानां स्वप्रति- बिम्बभूतमुक्तजीवेषु व्यापारश्चास्तीति तत्त्वप्रदीपदिशाऽस्यार्थो ज्ञात- व्यः । अत्राधममुक्तेषु उत्तमानां व्यापारो नाम सतीपतिन्यायेन बहि- स्थित्वा नियामकत्वं, अन्तस्स्थित्वा नियामकस्तु मुख्यप्राण एव। यथो- क्तं छान्दोग्यभाष्ये-तुरीयायामवस्थायां प्राणादेव निबोधनम् । इ- ति ॥ मोक्षावस्थायामित्यर्थः । 'पूर्ववत्' संसार इव यथा संसारे स्व

(८) सयुजः परमात्मानं प्रविश्य च बहिर्गताः । चिद्रूपान् प्राकृतांश्चापि विना भोगांस्तु कांश्चन ॥ भुञ्जते मुक्तिरेवं ते विस्पष्टं समुदाहृता ॥ इति ॥ १९ ॥ (९) सू—ॐ ॥ विकारावर्ति च तथा हि दर्शयति ॥ ॐ ॥ २० ॥ विकारावर्तिव्यापारो मुक्तानां न विद्यते ‘ इमं मानव जगद्व्यापृतिस्तथेत्यर्थः ॥ (८) मानुषादिभ्यो देवाः श्रेष्ठाः योगशब्दोक्तसायुज्यभाक्त्वात्, तेषु चतुर्मुखश्रेष्ठ इत्युक्तम्, तद्विपरीतं तेषां ऐक्यशङ्कां च वारयितुं सयुजां महिमानमाह—सयुज इति ॥ सयुजः परमात्मानं प्रविश्य क- दाचिद्बहिर्गताश्च भवन्ति । तत्र चिद्रूपान् प्राकृतान् अबन्धकशुद्धस- त्वात्मकान् कांश्चन भोगान् स्वोत्तमैकभोग्यान् विना अन्यान् चिद्रू- पान् प्राकृतांश्च भोगान् भुञ्जते इत्यर्थः । यद्वा—कांश्चन लक्ष्म्यात्मका- न् स्वोत्तेमरूपांश्च चिद्रूपान् प्राकृतानपि भगवदसाधारणभोग्यग- न्धादींश्च विना स्वयोग्यभोगान् भुञ्जते इत्यर्थः । निगमयति—एवमि- ति । एवं क्रमेण ‘विस्पष्टं’ अतिस्पष्टं मुक्तिस्ते ‘समुदाहृता’ अभि- हितेत्यर्थः । मयेति शेषः । नारदं प्रति ब्रह्मवाक्यमेतत् । इति गारुडे इ- त्यन्वयः ॥ (९) ननु ब्रह्मादिमुक्तानां मुक्तजगद्व्यापार एव कुतः, अमुक्त- जगद्विषयोऽपि किं न स्यादित्याशङ्कां परिहरत्सूत्रं पठति—विकारे- ति ॥ अत्र चशब्दो नञनुषङ्गार्थः । विकारावर्तीति नपुंसकं पदम् । मु- क्तानामिति शेषः । तथा च विविधाकारत्वान्मनोविकारदुःखमूलत्वा- द्द्वा विकारशब्दितं संसारमावर्तयति प्रवर्तयतीति ‘विकारावर्ति’ सं- सारविषयकव्यापरणं मुक्तानां न विद्यते । यद्वा—विकारपदं प्रकृति- विकारशरीराभिमानिसंसारिपरम्, तमावर्तयतीति विकारावर्ति मुक्ता- नां न विद्यते । कुतो ? ‘हि’ यस्मात्तथा श्रुतिः ‘दर्शयति’ प्रतिपाद्- यतीति योजनामभिप्रेत्य सूत्रं व्याचष्टे—विकारेति । व्यापारेति लब्धा- र्थकथनम् ‘हि’ यस्माच्छ्रुतिर्दर्शयतीति शेषः । मानवाः मनुष्याः य- त्रावर्तन्ते जन्ममृत्यदि प्राप्नुवन्ति स मानवावर्तः संसारः । अधिकर- णे घञ्, तत्पुरुषोऽयम्, मुगागमश्छान्दस इति केचित् । छान्दोग्य

११०२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] मावर्तं नावर्तन्ते' (छा. ४-१५-६.) इति श्रुतिः । (१०) वाराहे च— स्वाधिकारेण वर्तन्ते देवा मुक्तावपि स्फुटम् । बलिं हरन्ति मुक्ताय विरिञ्चाय तु पूर्ववत् ॥ सब्रह्मकास्तु ते देवा विष्णवे च विशेषतः । न विकाराधिकारस्तु मुक्तानामन्य एव तु ॥ विकाराधिकृता ज्ञेया ये नियुक्तास्तु विष्णुना ॥ २० ॥ * व्यासतीर्थीये तु मानवमावर्तमिति अलुक्समास इत्युक्तम् । एतत्पक्षे द्वितीयायाः षष्ठ्यर्थत्वमभिप्रेतम् । तं प्रति 'नावर्तन्ते' न प्रवर्तयन्ती त्यर्थः । तत्त्वप्रदीपे तु मानवं मनुष्यसम्बन्धिनं 'आवर्तं' संसारमिति भिन्नपदत्वाभिप्रायेण श्रुतिर्व्याख्याता । तथा प्रकृतिविकारशरीराद्य भिमानिषु जन्ममृत्यादिविकारवत्सु संसारिषु मुक्तानां व्यापरणं आ वृत्तिस्तेषां तद्व्यापारो न विद्यत इति यावदिति सूत्रार्थ उक्तः । एतत्प क्षे चस्त्वर्थ एवार्थः स्मृतिसूचको वाऽवगन्तव्यः ॥ (१०) ननु मुक्तदेवानामुक्तविषयव्यापाराभावे संसारावस्थान मेव न स्यात् प्रवर्तकाभावादित्याशङ्कां परिहर्तुमुक्तार्थे चशब्दसूचि तां स्मृतिमुदाहरति—वाराहे चेति ॥ न केवलं श्रुतिर्दर्शयति, किन्तु वाराहेऽप्येवं श्रुतिरस्तीति चार्थः । 'स्वाधिकारेण' स्वस्वयोग्यतानु सारेण यद्वा—स्वस्वाधिपत्येन युक्ता वा वर्तन्त इत्यर्थः । अपिस्समु च्चये । 'स्फुटं' प्रत्यक्षम् । न तु रहस्यतयेति भावः । 'बलिं' करं 'ह रन्ति' प्रयच्छन्ति 'पूर्ववत्' संसारे यथा । 'सब्रह्मकाः' सविरि ञ्चा देवास्त्वित्यन्वयः । 'विशेषतः' आधिक्येन बलिं हरन्तीति च व र्तते । अत एव वाक्यभेदकस्तुशब्दः । चस्समुच्चये । नेति । मुक्तानां 'विकाराधिकारः' संसारप्रवर्तकत्वं तु न विद्यत इत्यर्थः । तर्हि क स्मात्संसारप्रवृत्तिर्न स्यादित्यत आह—अन्य इति । तुरेव । तथा च ये मुक्तेभ्योऽन्ये विष्णुना नियुक्तास्त एव संसाराख्यविकाराधिकृता स्तत्प्रवर्तकाः विज्ञेया इत्यर्थः । इति वाराह इत्यन्वयः ॥ ९ ॥ इति जगद्व्यापाराधिकरणम् ॥ ——————

[ अधि - १०. सू - २१. ] दीपिकासहितम्. ११०३ १०. अधिकरणम् ॥ (१) सू- ॐ ॥ स्थितिमाह दर्शयतश्चैवं प्रत्यक्षानुमा ने ॥ ॐ ॥ २१ ॥ ‘एतत्साम गायन्नास्ते’ (तै.उ.३-१०.) इत्युच्यते तत्रा नन्दादीनां वृद्धिह्रासौ न विद्येते । किन्त्वेकप्रकारेणै व सर्वदा स्थितिः । ‘स एष एतस्मिन् ब्रह्मणि सम्प न्नो न जायते न म्रियते न हीयते न वर्धते स्थित ए व सर्वदा भवति दर्शयेश्च ब्रह्म दर्शयेच्चात्मानं तस्यैवं दर्शयतो नार्पत्तिर्न विपत्तिः’ इत्याह जाबालश्रुतौ । यत्र गत्वा न म्रियते यत्र गत्वा न जायते । १०. अधिकरणम् ॥ (१) अत्राधिकरणे ब्रह्मप्राप्तानां मुक्तानां भोगादिना वृद्धिह्रासो निराक्रियते । अस्त्वेवमुक्तस्यानन्दवृद्ध्यादीति पूर्वपक्षे सिद्धान्तयत्सू त्रमुपन्यस्यति – स्थितिमिति । अत्रैवं चेति चशब्दोऽप्यर्थोऽवधारणार्थ श्च तत्रानुषङ्गार्थो वा । तत्रेति शेषः । स्थितिमित्यावर्तते । तत्रैकस्य वि परिणामः । तथा च ‘एतत्’ इति श्रुतिर्यद्यपि तत्र मुक्तावुपासनं ‘आ ह’ एवमपि तथापि यतस्स एष इतिश्रुतिः मुक्तस्य स्थितिमेकप्रकारेणै वावस्थानमाह वक्ति न केवलं श्रुतिरेवमाह, किन्तु ‘प्रत्यक्षानुमाने’ महतां प्रत्यक्षं मुक्तो न वृद्ध्यादिमान् तत्कारणशून्यत्वादित्यनुमानं चै वमेकप्रकारेण स्थितिं दर्शयतो ज्ञापयतोऽतो मुक्तस्यैवमेव वृद्धिह्रास शून्यतयैव स्थितिर्मुक्ता न तु वृद्धिह्रासवत्त्वमिति योजनामभिप्रेत्य सू त्रं व्याचष्टे - एतदिति । ‘इति’ इत्यादिना । यद्यपीत्यादावुपस्कार्यम् । तथा च यद्यपि ‘एतत्सामगायन्’ इत्यादिना तत्र मुक्तौ तस्य मुक्तस्य तद्भगवदुपासनं सामगायनाख्यमुच्यते । तथाऽपि न तस्यानन्दबल ज्ञानादीनां वृद्धिह्रासौ विद्येते किन्त्वेकप्रकारेणैव सर्वदा स्थितिः । कु तो? यतः ‘स एषः’ इति जाबालश्रुतौ ‘नापत्तिर्न विपत्तिः’ इत्याह वे दपुरुषः । प्रथमार्थे सप्तमी वा । एवं श्रुतिसमाख्यारूपे ‘यत्र गत्वा’ इ त्यादिमोक्षधर्मेऽपि न हीयते न वर्धत इत्याह व्यासः । यतश्च ‘विद्वत्प्र त्यक्षात्’ विदुषां महतां प्रत्यक्षात्, कारणशून्यत्वलिङ्गाच्चैतत् सङ्गत इ ति योजना । श्रुत्यर्थस्तु-यः ‘एतस्मिन्’ मोक्षे ‘ब्रह्मणि’ विष्णौ ‘सम्पन्नः’ तं प्राप्तः ‘स एषः’ मुक्तः देहतोऽपि न जायते न म्रियते । न केवलं संसार

११०४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ४. पा - ४. ] न हीयते यत्र गत्वा यत्र गत्वा न वर्धते । इति मोक्षध र्मे । विद्वत्प्रत्यक्षात्कारणाभावलिङ्गाच्च । ( २ ) ब्रह्मवैवर्ते च— न ह्रासो न च वृद्धिश्च मुक्तानां विद्यते क्वचित् । विद्वत्प्रत्यक्षसिद्धत्वात्कारणाभावतोऽनुमा ॥ हरेरुपासना चात्र सदैव सुखरूपिणी । इव स्वरूपत इत्यध्याहृतवाक्यगताऽपिशब्दार्थः । न केवलमेतावत, किन्तु आनन्दादिगुणतोऽपि ' न हीयते ' न ह्रसते न वर्धते, किन्तु स दा एकप्रकारेण स्थित एव भवति स मुक्तः । यद्यपि ब्रह्म दर्शन्नुकृ ष्टमिति पश्यन्नुपासीन एवमात्मानं स्वामीति च दर्शन्नुपासीन आस्ते, तथा चोपासनरूपकारणाद्वृद्ध्यादिप्रसक्तिरस्ति । तथाऽपि एवं 'दर्श यतः' पश्यतः उपासीनस्य तस्य मुक्तस्य 'नापत्तिः' न वृद्धिः 'न विप त्तिः' न ह्रासश्चास्तीति । यथोक्तं तत्त्वप्रदीपे-आपत्तिरविद्यमानस्याग मः। विपत्तिर्विद्यमानस्यापगमः। इति श्रुतौ तस्यैवं दर्शयत इत्यनुवादे न दर्शयतश्चोपासनस्यापि स्थितिमाह श्रुतिरिति । दर्शयत इत्यस्यावृ त्त्या सूत्रयोजना दर्शिता । स्मृतौ न जायते न म्रियते देहत इति शेषः। न हीयते न वर्धते गुणत इति चाध्याहारः । [ यच्छब्दस्य स मोक्ष इति तत्रत्यतच्छब्देनान्वयः । श्रुतिस्मृत्योर्जननमरणयोर्व्यस्तयोक्तिः तयो रनियतक्रमत्वज्ञापनार्था ॥ ( २ ) परप्रत्यक्षस्याप्रत्यक्षत्वात्कथं तेनास्माकमर्थसिद्धिरित्यतो वि द्वत्प्रत्यक्षानुमाने दर्शयत इत्युक्तार्थे स्मृतिं चाह—ब्रह्मवैवर्ते चेति ॥ चस्समुच्चये । 'मुक्तानां' मुक्तगुणानां क्वचित्काले विद्वत्प्रत्यक्षसिद्ध त्वात् वृद्ध्याद्यभावस्येति शेषः । कारणाभावत इति सार्वविभक्तिक स्तसिः । 'यतो यतो धावति' इत्यादिवत् । तथा च वृद्ध्यादिकारणा भावरूपानुमानं चास्मिन् विषयेऽस्तीत्यर्थः । यत इति शेषः । यद्वा— कारणाभावतो लिंगादनुमाऽनुमिति रत्रविषये साधकतया प्रवर्तते य त इत्यर्थः । ननूपासनाख्यकारणसद्भावात्कथं तदभाव इत्यत आह— हरेरिति । कर्मणि षष्ठीयम् । 'अत्र' मुक्तौ स्थिताः मुक्तैः क्रियमाणेति यावत् । चस्त्वर्थः । सदैव हरेरेव सुखरूपिण्येव यतोऽतो न साधनभू तेत्यन्वयः । ननु कुतः सुखरूपत्वं, तत्साधनत्वमपि किं न स्यादित्यत