भारतकोश
संग्रह पर लौटें

पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)

Purnaprajna Bhashya of Sriman Madhvacharya with Commentary

श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा

DevanagariHindipublished1,267 पृष्ठ

[ अधि - १. सू - ३. ] दीपिकासाहितम्. ३५१ ( १२ ) सू—ॐ ॥ तदधीनत्वादर्थवत् ॥ ॐ ॥ ३ ॥ विष्णौ मुख्यप्रवृत्तिनिमित्तवति विद्यमानेऽव्यक्तादिशब्दवाच्यतया स- म्भवति सति तत्परित्यागेन 'अमुख्यं' अमुख्यप्रवृत्तिनिमित्तवत्प्रधा- नाद्येव वाच्यतया गृहीतुं न युक्तमित्यर्थः ॥ ( १२ ) नन्वस्त्वेवं विष्णावेवाव्यक्तादिप्रातिपदिकानां मुख्यता । तथाऽपि 'अव्यक्तात्पुरुषः परः' इत्यादावव्यक्तादिशब्दैर्न तस्य वा- च्यत्वेन गृहीतिर्युक्ता । तथा सति 'महतः परमव्यक्तम्' (कठ.३-११.) इति महत्परत्वश्रुतेः तथा 'अव्यक्तात्' इत्यवरत्वाक्षेपकावधित्ववाचि- पञ्चमीश्रुतेः, तथा 'सोऽवरः' इति साक्षादवरत्वश्रुतेः, तथा 'जीवा एव तु दुःखिनः' 'कार्यकारणबद्धौ' (मां. २ - ११.) इति दुः- खित्वबद्धत्वादिश्रुतीनां च 'निरनिष्टो निरवद्यः' इत्यादिप्रमाणविरोधेन प- रमात्मन्यसम्भवादर्थकत्वात् तासां नैरर्थ्यापातात् । अतो बाधकाद्व्य- क्तादिशब्दैरमुख्यमपि प्रधानाद्येवावश्यं वाच्यतया ग्राह्यमित्याशङ्कां प- रिहरत्सूत्रं पठति-तदधीनत्वादिति ॥ 'दर्शयति च' इत्यतश्चशब्दानुवृ- त्ति तच्छब्दस्य विपरिणतस्यानुवृत्तिं तदित्यस्यावृत्तिं तस्मिन्नधीनं त- दधीनं तत्स्वामिकं तस्याधीनमिति वा तस्य भावस्तत्त्वं तस्मादिति वि- ग्रहं च अभिप्रेत्य व्याचष्टे-तदधीनत्वादिति ॥ चो निमित्तसमुच्चये । आ- दिशब्देन परत्वपुरुषत्वावरत्वादीनां ग्रहणम् । सप्तम्यर्थे षष्ठी । एवका- रोऽर्थवदित्यनेनापि सम्बध्यते । अव्यक्तत्वादिकं परावरत्वादिकमिति द्वितीयादिशब्दस्य प्रत्येकमन्वयः । अत्र प्रथमादिशब्देन गुणवाचिसर्व- शब्दो गृह्यते । द्वितीयादिशब्देन दोषवाच्यशेषशब्दः । यद्यपि दोषवाच- कशब्देन एकस्यैव ग्रहणात् गुणवाचकशब्देनाप्यव्यक्तशब्द एव ग्रा- ह्यो, न परशब्दोऽपि गुणान्तरस्य दोषान्तरवदादिशब्देनैव ग्रहणसम्भ- वात् । तथाऽपि निरूपकत्वेनैव परशब्दग्रहणादविरोधः । अव्यक्त- त्वादिकमित्यावर्त्तते । तत्र चैकं वाचकशब्दोपलक्षकम् । नान्यस्येत्येव शब्दार्थः । तथा च न केवलं तेषामव्यक्तत्वपरत्वपुरुषत्वजीवत्वादि- नां प्रकृतिजीवादिनिष्ठगुणापेक्षया निरवधिकानां तस्मिन्नतिसूक्ष्मत्वस- र्वोत्तमत्वपुरुषत्वादिगुणोपेते परमात्मनि सत्त्वादेव 'तदव्यक्तत्वादि- कं' अव्यक्तत्वादिगुणवाचिशब्दजातं 'अर्थवत्' गुणिनि किञ्चिद्गु- णाभिधायकत्वेन अभिधेययुक्तम्, किं नामाव्यक्तस्थं तद्रूपम् । अ-

३५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] तदधीनत्वाच्चाव्यक्तत्वादीनां तस्यैव भव्यक्तत्वं व्यक्तस्याव्यक्तत्वं महतः परत्वं चापादयतीति ' महतः परमव्य क्तम् ' इत्युच्यते । तदेव तस्याव्यक्तस्य पुरुषादवरत्वमापादयतीत्य वरशब्दार्थः । न तु स्वयमवरत्वादिति । तत्त्वप्रदीपरीत्या तेषां प्रधा नादिगतधर्माणां तदधीनत्वा दीशाधीनत्वाच्च न केवलं गुणवाचिशब्द जातमर्थवत्, किन्तु तत्प्रातिपदिकादिरूपं वा पञ्चमीविभक्त्यादिरूपं वा अवरदुःखिबद्धत्वादिवोषवाच्येऽपि तस्मिन्नीश्वरे वाच्यतया गृ हीते सत्येवार्थवदेव न निरर्थकम् । न च प्रवृत्तिनिमित्ताभावः । तद् धीनत्वात्तेषां अन्यगतावरत्वादिधर्माणाम् परमात्माधीनत्वात् । स्वामि तासम्वन्धेन तेषां तस्मिन् सत्त्वादस्यैव मुख्यनिमित्तत्वादेकेनापि श ब्दप्रवृत्तिनिमित्तेन शब्दस्यार्थ

[ अधि - १०. सू - १० ] दीपिकासहितम्. ३५३ परावरत्वादिकमर्थवत् । (१३) यदधीनो गुणो यस्य तद्गुणी सोऽभिधीयते । र्तिसूक्ष्मत्वाभावेऽपि नाव्यक्तादिशब्दामुख्यार्थत्वं, अल्पपङ्कजेऽपि प द्ये पङ्कजशब्दस्यामुख्यत्वादर्शनादिति शङ्का च निरस्ता भवति । अव्य क्तादिगुणशब्दस्य परमात्मनि द्वेधाप्रवृत्तिनिमित्तप्रदर्शनेन प्रधानादी नाममुख्यतायां अन्याधीनप्रवृत्तिनिमित्तवत्त्वस्य हेतुत्वाभ्युपगमेनाल्प प्रवृत्तिनिमित्तवत्त्वमात्रस्य तत्र हेतुत्वानभ्युपगमात् । एतेन प्रवृत्ति निमित्ताधिक्यस्य मुख्यताहेतुत्वेऽतिसहनवति पुंसि सिंहशब्दस्य स हनार्थात् सिचेः सहैर्वा कनि निष्पन्नस्य मुख्यता स्यादित्येतदपि चो द्यं निरस्तम् । प्रवृत्तिनिमित्तस्य अनन्याधीनत्वस्यापि मुख्यताहेतुत्वे न तदतिशयमात्रस्य तत्र हेतुत्वात् । वस्तुतस्तु—पद्मत्वजातेः प ङ्कजशब्दनिमित्तत्वेन विवक्षितत्वात्तस्याश्चाल्पपङ्कजादधिकपङ्कजेऽ तिशयाभावात् । एवं सिंहत्वजातेः सिंहशब्दप्रवृत्तिनिमित्तभूताया अ तिशयस्य पुंस्यभावाच्च नोक्तातिप्रसङ्ग इति परिहारान्तरं चन्द्रिको क्तं द्रष्टव्यम् । ‘मथनान्मथितो जातः सहनात्सिंह उच्यते' इति बृहदैतरेयभाष्यवचनं तु अमुख्यार्थाभिधायकम् ॥ (१३) ननु भवेदेतत्प्रधानादिगतशब्दप्रवृत्तिनिमित्तप्रेरकत्वेन ईश्व रस्यावरादिशब्दवाच्यत्वम्, यद्यन्यगतशब्दप्रवृत्तिनिमित्तप्रेरकेऽसाव वरादिशब्दो वर्तेत इति सिद्ध्येत् । तदेव कुतः सिद्धमित्यतस्तत्र व्याप्ति वचनमुखेन अनुमानमाह— यदधीन इति । ‘यस्य' धर्मिणो वाचक स्य शब्दस्य प्रवृत्तिनिमित्ताख्यो ‘गुणो’ ‘यदधीनः’ पूर्ववद्विग्रहः । ‘सः तद्गुणी' तद्गुणवानित्युच्यते । तन्निमित्तकशब्देनाभिधीयते इति व्याप्तिवचनस्यार्थः । तत्र वैदिकलौकिकोभयविधं दृष्टान्तमाह— यथे ति । ‘यथा परमात्मा' विष्णुः ‘अनेन जीवेन' इत्यादौ जीवगतप्राण धारणाख्यजीवशब्दप्रवृत्तिनिमित्तस्वातन्त्र्याज्जीवशब्देनोच्यते । य था च भृत्यगतजयस्य जयशब्दप्रयोगनिमित्तस्य राजाधीनत्वाद्वाजा जयीत्युच्यते इत्यर्थः । अभिधीयत इत्यनेन अभिधाख्यमुख्यवृत्त्यैवार्थे प्रयोगः, न त्वमुख्यवृत्त्येत्युक्तं भवति । दृष्टान्तद्वयसमुच्चयेऽपिशब्दः । ‘तमेव मृत्युममृतं तात दैवतं सर्वात्मनाऽवेहि परं परायणम्' इति न्यायविवरणोदाहृतभागवतवचने ‘यथाऽमृतत्वापादकत्वाद्ब्रह्मामृतं ४५

न्मुख्यार्थः परमात्मैव 'अव्यक्तात्पुरुषः ' इत्यादावव्यक्तादि-16.शब्दैरुच्यते, न प्रधानादीत्युक्तम् । तदेव युक्त्यन्तरेणोपपादयत्सूत्रमु-17.पन्यस्य चशब्दस्यानेकहेतुसमुच्चयार्थत्वमभिप्रेत्य तच्छेषं प्रतिज्ञारूपं18.पूरयति-ज्ञेयत्वेति ॥ 'अन्यस्य' प्रधानादेरव्यक्तादिशब्दवाच्यत्वं न यु-19.ज्यते, किन्तु विष्णोरेवेति योजना । सूत्रार्थस्तु-विष्णोरेव मुमुक्षुज्ञेयत्वे20. ' तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ ।21. अमृतस्यैष सेतुः ' ॥ ( मुं.२-२-५० )22.इति वचनात्प्रधानादेस्तदभावान्मोक्षफलकवेदानां तद्धेतुज्ञानविष-23.यब्रह्मज्ञापन एव प्रवृत्तत्वात्प्रतिवाक्यं तत्परत्वस्य च ' आदाव-24.न्ते च मध्ये च विष्णुस्सर्वत्र गीयते ' इत्यादिवचनसिद्धत्वात् स्वतः25.प्राप्तमुख्यवृत्तित्यागे कारणाभावाच्च वि

[ अधि - १. सू - ५. ] दीपिकासहितम्. ३५५ ( १५ ) सू—ॐ ॥ वदतीति चेन्न प्राज्ञो हि ॥ ॐ ॥ ५ ॥ 'महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते' ( कठ. ३-१५.) इति ज्ञेयत्वं वदतीति चेत्— ( १६ ) न, प्राज्ञः परमात्मा हि तत्रोच्यते । 'अणोरणीयान्म- ( १५ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्याक्षेपांशं तावद्व्याचष्टे- वदतीति ॥ नान्यस्येत्यनुवर्तते । तथा च 'अन्यस्य' प्रधानस्य 'न ज्ञेय त्वावचनं' मोक्षार्थं ज्ञेयत्ववचनाभावः । कुतः? यतः 'अनाद्यनन्तं मह- तः परं ध्रुवम्' (कठ. ३-१५.) इति वचनं लिङ्गव्यत्ययेन 'तं' 'महतः प- रमव्यक्तम्' इति पूर्ववाक्ये महत्तत्वात्परत्वेनोक्तं अव्यक्तमिति योज- नायां अन्यस्य मोक्षार्थं ज्ञेयत्वं वदत्यत इति वाक्ययोजना। ननु वदतेः शाब्दप्रतीतिवाचित्वात्तत्र चशब्दस्य करणत्वात्कथं वदतीति व्यपदे- शः? इत्थम्—अवान्तरव्यापारवतो हि करणस्य कारकत्वं, अन्यथा- तिप्रसङ्गात् । तत्र स्वस्वक्रियां प्रति सर्वस्य प्राधान्येन कर्तृत्वात् कर- णेऽपिशब्दे तद्विवक्षया वदतीति व्यपदेशो युज्यते ॥ ( १६ ) परिहारांशं व्याचष्टे—नेति ॥ नैतद्वाक्यबलेन अन्यस्य मो- क्षार्थं ज्ञेयत्वं मन्तव्यमित्यर्थः । कुत इत्यत आह—प्राज्ञ इति । प्रज्ञ ए- व प्राज्ञः तस्य व्याख्या परमात्मेति । 'हि' यतः 'तत्र' वाक्ये परमा- त्मैवोच्यते, न प्रधानं अतो नेति योजना । ननु महतः परत्वलिङ्गात्प्र- धानमत्रोच्यते इत्यत आह—अणोरिति । 'हि' यतः 'अणोः' इति क- ठश्रुतौ 'तस्यैव' प्रकृतपरमात्मन एव 'महतो' महत्तत्त्वात् 'महत्त्वं' परत्वमुच्यते, न त्वन्यस्य । अतो न लिङ्गादन्यदत्रोच्यत इत्यध्याहारे- ण योजना । लिङ्गस्यान्यथासिद्धत्वादिति भावः । नन्वस्यां श्रुतौ भग- वानणोः सूक्ष्मादपि सूक्ष्मः, महतोऽणुप्रतियोगिस्थूलात्स्थूल इति प्रति- पादनेन भगवतः सर्वस्थूलात्परत्वोक्तावपि न महत्तत्त्वपरत्वमुच्यते, अतो न महत्परत्वलिङ्गं विष्णौ सावकाशमित्यत आह—सर्वस्मादि- ति । इदं च हेतुगर्भं विशेषणम् । तस्येत्यनुषज्यते । अपिर्भिन्नक्रमो य- द्यपीत्याद्यर्थेऽपि भवति कैमुत्ये च । 'सिद्धयति यतः' इति शेषः । त- था चात्र तस्य विष्णोः सर्वस्मात्परत्वोक्तावपि 'महतो' महत्तत्त्वात्प- रत्वमपि सिद्धयति । न केवलं सर्वस्थूलत्वमित्यपेरर्थः । कस्मात्? यत- स्सर्वस्मात्स्थूलात्परस्य महतः परत्वं कैमुत्येन युज्यते अत इति योज- ना । तथा चायं सिद्धान्ते कठवाक्यार्थस्सम्पद्यते—अनाद्यनन्तमिति

३५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] हतो महीयान्' ( कठ. २-२०. ) इति तस्यैव हि म हतो महत्त्वम् । सर्वस्मात्परस्य महतोऽपि परत्वं यु ज्यते ॥ ५ ॥ ( १७ ) सू—ॐ ॥ प्रकरणात् ॥ ॐ ॥ ६ ॥ 'सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम्' (क ठ. ३-९. ) इति तस्य ह्येतत्प्रकरणम् ॥ ६ ॥ ( १८ ) सू—ॐ ॥ त्रयाणामेव चैवमुपन्यासः प्रश्नश्च ॥ ॐ ॥ ७ ॥ समस्तम् । अनादिरुत्पत्तिशून्यश्चासावनन्तो गुणदेशतोऽपरिच्छिन्न श्चेति विग्रहः । तं 'महतः परं' सर्वस्मात्स्थूलात्परम् । अत एव मह त्त्वात्तदपि परं 'ध्रुवं' नित्यं निर्विकारं वा । 'तं' अव्यक्ततत्त्वात्परत्वे न पूर्वप्रकृतं पुरुषाख्यं विष्णुं 'निचाय्य' सम्पूज्य निशाम्य वा संसा राख्यरमृत्युमुखात्प्रमुच्यतेऽधिकारीति ॥ ( १७ ) ननु विशेषतो महत्परत्वस्य प्रधानलिङ्गस्य सर्वस्थूलपरत्व रूपामुख्यार्थतां स्वीकृत्यानाद्यनन्तादिवाक्यस्य विष्णुपरत्वग्रहणे का रणाभावात्प्रधानमेवात्रोच्यते इत्याशङ्कां परिहरत्सूत्रमुपन्यस्य नञनु वृत्त्यभिप्रायेण व्याचष्टे—प्रकरणादिति ॥ इतीत्यनन्तरं श्रुतेरिति शे षः । हिशब्दो हेतौ । एतत् 'अनाद्यनन्तम्' इत्यादिवाक्यं 'तस्य' वि ष्णोः 'प्रकरणं' प्रकरणरूपमित्यवगतमिति शेषः । तथा च नात्र वि ष्णुग्रहणे कारणाभावः । कुतः? हि यस्मात्तस्य प्रकरणमस्ति । न चै तत्प्रकरणस्य वैष्णवत्वासिद्धिः । 'हि' यस्मादेतत् 'सोऽध्वनः' इ ति कठश्रुतेस्तस्य प्रकरणमित्यवगतं तस्मादिति योजना । सूत्रयोज ना तु—अस्य प्राज्ञप्रकरणत्वात्प्रकरणात्प्राज्ञ एवात्रोच्यते, नान्यदिति। सकलमिदमहं चेशायतनमिति यो विजानाति स संसाराख्यस्य वर्त्म नो विश्रान्त्यवधिभूतं पारमाप्नोति, तत्पारं विष्णोः परमं पदं स्थानं क्षीराब्ध्यादौ मुक्तप्राप्यमिति श्रुत्यर्थः सत्तर्कदीपावल्यामुक्तः ॥ ( १८ ) हेत्वन्तरेणानाद्यनन्तादिवाक्येऽन्यस्यापि प्रतिपाद्यतां परा कुर्वत्सूत्रमुपन्यस्य व्याचष्टे—त्रयाणामेवेति ॥ त्रयाणामेवेत्यनुवादः सौत्रैवंशब्दार्थप्रकारधर्मिप्रदर्शनार्थः । त्रयाणां मध्ये प्रधानमेकमस्त्वि ति शङ्कां निरासितुं सूत्रे प्रयुक्तेन एवंशब्देन ज्ञापितं श्रुत्युक्तप्रकारत्रयं दर्शयति—पितृसौमनस्येति । पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां त्र याणामेवेत्यन्वयः, नान्यस्येत्येवशब्दार्थः । प्रश्न इति प्रथमान्तं निमित्त

[ अधि - १. सू - ७. ] दीपिकासहितम्. ३५७ त्रयाणामेव पितृसौमनस्यस्वर्ग्याग्निपरमात्मनां प्र श्न उपन्यासश्च । ( १९ ) 'अविज्ञातप्रार्थनं च प्रश्न इत्यभिधीयते' इति घञ् सप्तम्यन्तं च । तेन प्रश्ननिमित्तकतोपन्यासश्च सिद्धयति । चः प्रश्नोक्त समुच्चये, हेतुसमुच्चये वा । अनेन सौत्रं चशब्दद्वयं तन्त्रेणानूदितं भवति । यत इति शेषः । अस्यातोऽप्यत्र प्राज्ञ एवोच्यते, नान्यदिति प्रकृतसाध्येनान्वयः । केचित्तु—सौत्राद्यचशब्दस्य यत इति हेत्वर्थ त्वं द्वितीयस्य प्रकरणरूपहेतुसमुच्चयार्थत्वमाश्रित्य यत इति शेषो न कार्य इत्याहुः । अनेन—न केवलमेतत्प्रकरणस्य वैष्णवत्वेनात्र प्रधान स्याप्रतिपाद्यता सिद्धा, किन्त्वेतत्प्रकरणघटितानेकप्रकरणात्मकस्था नरूपायामस्यामुपनिषद्यपि 'च' यतः 'एवं त्रयाणां' पितृसौमन स्यस्वर्ग्याग्निपरमात्मरूपाणां धर्मिणामेव 'उपन्यासः' प्रतिवचनम स्ति, न त्वन्यस्य । 'अतश्च' अतोऽपि । कुतः त्रयाणामेवोपन्यासः ? यतस्त्रयाणामेव प्रश्नोऽत इति सूत्रार्थ उक्तो भवति ॥ ( १९ ) नन्वेवं हि काठकोक्ता आख्यायिका—गौतमगोत्रोत्पन्नस्यौ द्दालिकेः नचिकेता नाम पुत्र आसीत् । तत्र पितरि निरर्थकगोदानपरे सति तन्निराचिकीर्षुर्नचिकेता नाम मम पिता मां द्या दत्वाप्येवंविधाः गा न प्रयच्छत्विति भावेन मां कस्मै दास्यसीति पितरमप्राक्षीत् । त च्छ्रुत्वा क्रुद्धः पिता त्वां यमाय दास्यामि त्वं यमगृहं गच्छेत्यशपत् । एवं शप्तो नचिकेताः मृतो यमप्रवासकाले यमगृहं प्राप, तत्र त्रिरात्रं तत्पत्न्या पूजित उपवासन्नेवावसत् । अथ यम आगतस्तं नमस्कृत्या तिथित्वं यस्मान्मे गृहे तिस्रो रात्रीरनश्नन्नवात्सीः । तस्मादस्य प्र तीकाराय मत्तः त्रीन् वरान् वृणीष्वेत्यब्रवीत् । एवमुक्तः ऋषिपुत्रः आह—इदानीं मम पिता मयि क्रुद्ध आस्ते, तत्सौमनस्यं सौहार्दमपे क्षितं तद्देहीति भावेन 'शान्तसंवित्सुमनाः यथा स्यात्' इति पितृ सौमनस्यं वरं प्रथमं प्रार्थयित्वा अथाहं 'स्वर्ग्यं' स्वर्गादनपेतं स्वर्ग साधनभूतं 'अग्निं' अग्निष्टोमादिकर्माङ्गभूताग्निशब्दितेष्टकचितिस्थं तत्स्थितं विष्णुं वाऽध्येमि तत्त्वं कथयेति भावेन 'स त्वमग्निं स्वर्ग्यम ध्येषि मृत्यो प्रब्रूहि' (कठ. १ - १३. ) इति स्वर्ग्याग्निविषये द्वितीयं वरमवृणोत् । तथा मोक्षसाधनज्ञानविषयीभूतमृतमुक्तजीवनियामक परमात्मस्वरूपं मया ऽवश्यं ज्ञेयं, तत्कथयेति भावेन 'येयं प्रेते विचि

३५८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] नात्र विरोधः ॥ ७ ॥ (२०) सू- ॐ ॥ महद्वच्च ॥ ॐ ॥ ८ ॥ यथा महच्छब्दो महत्तत्त्वे प्रसिद्धोऽपि परममहत्त्वा- त्परमात्मन एव मुख्यः एवमितरेऽपि ॥ ८ ॥ कित्सा मनुष्ये' (कठ. १-२०.) इति परमात्मविषये तृतीयं वरमवृ- णोत् । एवं नचिकेतसा प्रार्थितो यमो वरत्रयं ददानीति भावेन 'वी- तमन्युस्त्वां ददृशिवान्' इति पितृसौमनस्यविषये प्रथमं प्रत्यवोचत् । 'स्वर्ग्यमग्निं नचिकेतः प्रजानन्' (कठ. १-१४.) इति स्वर्ग्याग्निविषये द्वितीयं प्रत्यवोचत् । 'देवैरत्रापि विचिकित्सितं किल' (कठ. १- २२.) इति परमात्मविषये तृतीयं प्रत्यवोचदिति । एवं चेत्पितृसौमन- स्यं वरत्वेन प्रार्थ्यत एव न पृच्छ्यते । अतः प्रार्थनं कथं प्रश्न इत्य

[अधि - १०. सू - ९.] दीपिकासहितम्. ३५९ (२१) सू- ॐ ॥ चमसवदविशेषात् ॥ ॐ ॥ ९ ॥ यथा चमसशब्दोऽन्यत्र प्रसिद्धोऽपि 'इदं तच्छिर एष ह्यर्वाग्बिलश्चमस ऊर्ध्वबुध्नः' (बृ. ४-२-३.) इ ति श्रुतेः शिरोवाचकः, एवमव्यक्तादिशब्दाः सर्वेऽ न्यत्र प्रसिद्धा अपि 'नामानि सर्वाणि यमाविश (२१) ननु भवेदियमव्यक्तादिशब्दानां परमात्मनि परममुख्यत्वचि- न्ता । यदि तेषां तत्र मुख्यत्वमेव सिद्धं भवेत् । न च तद्युक्तं, तेषाम- न्यत्रैव प्रसिद्धत्वात् । न च 'अव्यक्तमचलम्' इत्यादिश्रौतस्मार्तप्र- योगबलात्तेषां तत्र शक्त्यवगमः । वृत्त्यन्तरेणापि प्रयोगोपपत्तेरित्याश- ङ्कां परिहरत्सूत्रमुपन्यस्यति—चमसवदिति ॥ अत्रापि पूर्ववच्छब्दप- रत्वं प्रथमान्तात्सप्तम्यन्ताच्च वर्ति चशब्दानुवृत्तिं तस्य पूर्ववदर्थद्वयं श्रुतेरित्यध्याहारं चाभिप्रेत्य सूत्रं व्याचष्टे—यथेति । 'अन्यत्र' चतुष्को- ण्यज्ञपात्रे पुनः 'अन्यत्र' प्रधानादौ अव्यक्तादिशब्दा इत्यनेन प्राचीनं 'इतरे' इति स्वपदं व्याख्यातम् । दृष्टान्तीभूतमहच्छब्दस्यापि सङ्ग्रहा- य सर्व इत्युक्तिः । आदिशब्देन पुरुषादिशब्दानां ग्रहणम् । 'यो देवाना- म्' इत्यादि द्वितीयादिपदार्थः । तथा च यथा चमसशब्दो यद्यपि अन्य- त्र प्रसिद्धः, तथाऽपि 'इदं तच्छिरः' इत्यनुशासनरूपश्रुतेः शिरोवाच- कोऽवगत एव । तथा सर्वेऽव्यक्तपुरुषादिशब्दा यद्यप्यन्यत्र प्रसिद्धाः, तथापि 'नामानि' इत्यादिश्रुतेः 'परमात्माभिधायकाः' वाचका एव, न लाक्षणिकाः इत्यवगम्यत इति योजना । नन्विदमित्यस्याभिधानरूपत्वे- ऽपि न 'नामानि' (भालुवेय.) इत्यस्याभिधानरूपता । वृत्त्यन्तरेणा- पि एतद्वचनसम्भवादित्याशङ्कोत्तरत्वेन प्रवृत्तमविशेषादिति सूत्रखण्डं व्याचष्टे—अविशेषादिति । श्रुतेरित्यावर्तते । तथा च 'नामानि' इति श्रुतेः 'इदम्' इति श्रुतेः सकाशाद्विशेषाभावादित्यर्थः । अतस्तद्वदस्या अप्य- नुशासनरूपत्वादनया परमात्मवाचित्वनिश्चयो भवत्येवेति भावः । बृ- हदारण्यके हि 'तदेष श्लोको भवति' इति प्रतिज्ञाय 'अर्वाग्बिलश्चम- स ऊर्ध्वबुध्नस्तस्मिन् यशो निहितं विश्वरूपम्' इति मन्त्रमुदाहृत्य 'अ- र्वाग्बिलश्चमस ऊर्ध्वबुध्न इति' इतिवाक्येन मन्त्रगतैकपादं प्रतीकं गृ- हीत्वा 'इदं तच्छिरः' इति वाक्येन स मन्त्रो व्याख्यातः । तत्प्रकार- स्तु— 'अर्वाग्बिलश्चमस ऊर्ध्वबुध्नः' इति व्याख्येयमन्त्रे यद्वस्तूक्तम्, तदिदं प्रतीयमानं शिरः । कथं ? 'हि' यस्मात् 'एषः' 'शिरश्चमसस्त-

३६० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] न्ति तं वै विष्णुं परममुदाहरन्ति' इत्यादि श्रुतेः प रमात्माभिधायका एव । अविशेषाच्छ्रुतेः ॥ ९ ॥

२. अधिकरणम् ॥ ( १ ) 'वसन्ते वसन्ते ज्योतिषा यजेत' इत्यादिकर्माभिधा द्रूपः । ननु कथं शिरश्चमसं इत्यतस्तल्लक्षणयोगादित्याह — अर्वाग्बिल इति । 'बिलं' मुखादि । तथा चाधोभागस्थितमुखादिमानित्यर्थः । 'ऊर्ध्वबुध्नः' बुध्नो वर्तुलकठिनाकारः, तथाचोपरिभागस्थितबुध्नाका रवानित्यर्थः । 'दक्षिणाऽङ्गं वनुते यो न आत्मा' (ऋ.१०-१०७-७.) इत्य त्र यथा आत्मशब्दापेक्षयाऽङ्गे पुल्लिङ्गयच्छब्दनिर्देशः, तद्वत् शिरस्य पि चमसशब्दविवक्षया एष इति पुल्लिङ्गनिर्देशो युक्त इति। 'दक्षिणा' लक्ष्मीः 'वनु ते' भजति । किमङ्गमियत आह — य इति । 'नः' अस्माकं 'आत्मा' अन्तर्यामीत्यर्थः । सूत्रार्थस्तु स्पष्टः ॥ १ ॥ ॥ इति आनुमानिकाधिकरणम् ॥

२. अधिकरणम् ॥ ( १॥) अत्राधिकरणे कर्मतदङ्गेष्वेव प्रसिद्धानां ज्योतिष्टोमादिश ब्दानां भगवति समन्वयः प्रतिपाद्यते । श्रुत्यादिसङ्गतिं विषयादिकं च सूचयति—वसन्त इति ॥ 'तत्तु समन्वयात्' इत्युक्तः सर्वशब्दा नां परमेश्वरे समन्वय इति पूर्वाधिकरणवाक्यमत्रापि सम्बध्यते । आदिशब्दः उभयान्वयी । कर्मेत्यादौ ग्राह्यम् । कर्माभिधायकस्येति हे तुगर्भम् । तथा च 'तत्तु समन्वयात्' इत्युक्तः परमेश्वरे सर्वशब्दानां समन्वयो न युज्यते । यतः 'वसन्ते वसन्ते' ( ) इत्या द्याधायकवाक्यंगतशब्दजातस्य समन्वयो न युज्यते । सोऽपि कु तः ? तस्य कर्माद्यभिधायकत्वेन प्रसिद्धत्वात् । तदतिक्रमेण समन्वये च कर्मतत्क्रमादेरभावाख्यविरोधप्रसङ्गात् । सोऽपि कुतः ? कर्मा द्यभिधायकाभावाख्यविरोधात् । तथा च विहितानुष्ठानलोपाख्यवि रोधापातादिति योजना । प्रथमादिशब्देन 'ज्योतिष्टोमेन' इत्यादिफ लवाक्यम्, 'वाजपेयेनेष्ट्वा बृहस्पतिसवने यजेत' ( ) 'वेदं कृत्वा वेदिं कुर्यात्' ( ) इत्यादिक्रमवाक्यं च

[अधि - २. सू - १०. ] दीपिकासहितम्. ३६१

थकस्य कर्मक्रमादिविरोधान्न युज्यत इति । (२) अत आह— सू—ॐ ॥ ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ॥ ॐ ॥ १० ॥ र्मेषां तारतम्यबोधकम्, यद्वा—कर्मक्रमवाक्यं दीक्षणीयोपसदाद्य ङ्गवाक्यं च गृह्यते । द्वितीयादिशब्देन कालाधिकारिफलादि प्राधान्यादादौ कर्मग्रहः । तत्र च वसन्तशब्दः कालविशेषवाची । सु धारीत्या तत्रैव विधेस्तात्पर्यम् । ज्योतिश्शब्दो ज्योतिष्टोमशब्दश्च क र्मवाची । तत्राद्यः समस्तशब्दोपलक्षकः । तद्द्वारा ज्योतिर्नामकस्तो त्रसमूहवतो यागस्य लक्षितलक्षणया बोधकः । स्वयं तु शक्यार्थः । वसन्तवाक्यस्य ज्योतिष्टोमानुवादेन गुणविधायकत्वं तु गीताभाष्य प्रमेयदीपकृद्ग्रंथे नाङ्गीकृतम् । कर्मान्तरविधित्वमिति तयोराशयः । अत एव प्रथमं तदेवोदाहृतम् । सूत्रे ज्योतिरित्येकदेशकीर्तनात् भा ष्येऽपि तादृशस्यैवोदाहरणम् । स्वर्गकामशब्दोऽधिकारिवाचि, स्वर्ग शब्दः फलवाची । अनेन समन्वयसूत्रोक्तसर्वशब्दसमन्वयाक्षेपात्तेना स्याक्षेपिकी सङ्गतिरुक्ता । ज्योतिष्टोमादिशब्दाख्यो विषयः, अन्यवा चीति पूर्वः पक्षः, अन्यत्र प्रसिद्धेर्विष्णुवाचित्वे कालकर्मादिविरोधा च्छेति युक्तिश्च सूचिता भवति ॥ (२) सिद्धान्तयत्सूत्रमवतार्य व्याचष्टे—अत इति ॥ वसन्तादि रादिपदार्थः । यद्यप्युदाहृतवाक्ये वसन्तशब्दस्य प्रथमं श्रुतत्वाद्वस न्त इति वक्तव्यम् । तथाऽपि ज्योतिश्शब्दस्य कर्मान्तरप्रकृतित्वफल करणत्वादिना प्रधानभूतज्योतिष्टोमाख्यकर्मवाचित्वाज्ज्योतिरित्युक्तं सू- त्रे, तदनुसारात् अत्रापि । एतच्चान्येषामप्युपलक्षकमिति भावेन ज्योति रादीत्याह । ज्योतिरादीत्युभयान्वयी । ज्योतिरिति शब्दार्थयोर्ग्रहणम् । तथा च ज्योतिष्टोमादिकर्मादिवाचित्वेन प्रसिद्धज्योतिरादिशब्दाभिधे योऽपि 'स एव' हरिरेवेति प्रतिज्ञार्थः । प्रसिद्धेत्यनेन पूर्वपक्षयुक्तिस्सूचि ता । न केवलं सिद्धरूपदेवतातत्क्रमवाचकैः 'इन्द्रियेभ्यः पराः' (कठ. ३-१०.) इत्यादिशब्दैः वाच्यो हरिः, किन्तु साध्यभूतकर्मतत्क्रमा दिशब्दवाच्यश्चेत्यपिशब्दार्थः । अनेन ज्योतिस्त्वित्यन्वितसौत्रतुशब्दो ऽप्यर्थतया व्याख्यातः । समन्वयसूत्रादनुवृत्तं विधेयसमर्पकं तदिति पदं 'एषः' इति श्रुत्यनुसाराल्लिङ्गविपरिणामेन स इति पठितं, ततए वानुवृत्तस्य तुशब्दस्यार्थ एवेति । इति शब्दात्परं तथाशब्दो योज्यः । ४६

३६२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] ज्योतिरादिकर्मवाचकत्वेन प्रसिद्धाभिधेयोऽपि स ए व । 'एष इमं लोकमभ्यार्चत्' इत्युपक्रम्य 'ता वा ए ताः सर्वा ऋचः सर्वे वेदास्सर्वे घोषाः एकैव व्याहृ- तिः प्राण एव प्राण ऋच इत्येव विद्यात्' (ऐ. आ. २-२-२.) इति ह्यधीयत एके ॥ १० ॥ ( ३ ) सू—ॐ ॥ कल्पनोपदेशाच्च मध्वादिवदविरोधः ॥ॐ॥११॥ हिर्हेतौ। तथा च 'हि' यस्मात् 'एके' शाखिनः श्रीमन्महैतरेयिनः 'ता वा एताः' (ऐ.आ.२-२-२-११.) इति 'तथा' सर्वशब्दाभिधेयत्वेन 'तत्तु' हरि मेवाधीयते तस्मादिति हेत्वर्थः। ननु शब्दानां विष्णुपরত্বे तत्र वृत्त्यभा व इत्यतः प्रवृत्तमुपक्रमादित्येतत् ल्यब्लोपनिमित्तपञ्चमीं मत्वा व्याच ष्टे-एष इति। उपक्रम्येति सावधारणम्। तेन सौत्रतुशब्द एवार्थतया ऽपि व्याख्यातः। अत एवाह टीकाकृत 'तुशब्द एवार्थः' इति। तत्त्वप्रदी पकृच्चाह-प्रघट्टकोपक्रमादेवेति आरभ्येति च। एतच्च परमेश्वरे शब्दा नामङ्करूढिमात्रापहारकविद्वद्रूढिसहितमहायोगं दर्शयितुमभिहितम्। अतएव उपक्रम्येत्युपलक्षणम्—'तं यच्छतम्' (ऐ.आ.२-२-१०.) इत्या दिना नामानि निरुच्य इत्यपि द्रष्टव्यम्। अस्य ह्यधीयत इत्यनेनान्व यः। तस्मान्न परमेश्वरे वृत्त्यभावदोष इति भावः। 'एषः' नारायणो देवः 'इमं लोकं' ब्रह्मादिशरीरं पुरुषरूपेणान्तर्यामितया 'अभ्यार्चत्' प्राविशदिति श्रुत्यर्थः। अन्यत्सर्वं पादान्त्यप्राणनये व्याकृतम्। सूत्रा र्थस्तु—न केवलमव्यक्तादिशब्दवाच्यं, किन्तु 'ज्योतिस्तु' ज्योतिरा दिशब्दवाच्यं तत्तु ब्रह्मैव, न त्वन्यज्ज्योतिष्टोमादि। कुतः? 'हि' य स्मात् 'एके' शाखिनः 'ता वा एताः' इति 'तथा' सर्वशब्दवाच्यत्वे न 'तत्तु' ब्रह्मैव 'अधीयते' वदन्ति, तस्मात् । न च ब्रह्मणि वृत्त्य भाव इति वाच्यम्। 'हि' यस्मात् 'उपक्रमात्' 'एष इमम्' इत्यु पक्रम्याधीतेन 'तं यच्छतम्' इत्यादिना नामानि निरुच्य पुनः सर्ववे दप्रभृतयः समुद्रघोषान्ताः शब्दा नारायण एव विद्यादिति सतात्पर्य मैतरेयिनोऽधीयते, तस्मात्। तथा च परब्रह्मणि सर्वशब्दानां च वि द्वद्रूढिसहितमहायोगस्य उक्तत्वात्नोक्तदोष इति भाव इति ॥ (३) ननु कथं ज्योतिरादिशब्दवाच्यत्वं परमात्मनः सम्भवति । तथासति कर्मक्रमादिविरोधापातात् । ज्योतिष्टोमादिशब्दानां अन्यप रत्वानभ्युपगमे परमात्मनि तेषां व्युत्पत्त्यसम्भवाच्चेत्याशङ्कामपनुदत्सू

[ अधि - २. सू - ११. ] दीपिकासहितम्. ३६३ मधुविद्यादिवत्सर्वशब्दार्थत्वेन परस्य कल्पनोपदेशा त्रमुपन्यस्य व्याचष्टे कल्पनेति॥ मधुविद्यादिवदिति । मधुविद्यायां मध्वा दिशब्दवदित्यर्थः । मधुविद्या तु-‘असौ वा आदित्यो देवमधु’ (छां.३-१- १.) इत्याद्या । अस्यां हि ब्रह्मोर्ध्वरमातिरोवंशाश्रितान्तरिक्षाख्यवायुम ध्वपूपस्थादित्यमण्डलान्तर्गतस्य भगवतो वासुदेवादिपञ्चमूर्तेरग्न्या दिप्रधानवस्वादिमुरमधुकरमुखसंस्पर्शेन पञ्चधाविभिन्नऋगादिसर्व वेदाख्यपुष्पोत्थयशस्तेजइन्द्रियवीर्यान्नाद्यात्मकमधुरसत्वमुच्यते। आ दिशब्देन ‘इदं तच्छिर एष ह्यर्वाग्विलश्चमसः’ (बृ.४-२-३.) इति शिरस श्चमसशब्दार्थत्वानुशासकश्रुतिर्गृह्यते । सर्वशब्दार्थत्वेनेत्यनेन सूत्रे पूर्वस्मात्तथाशब्दः संयोज्य इति सूचितम् । परस्य

३६४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] च न कर्मक्रमादिविरोधः ॥ ११ ॥ ३. अधिकरणम् ॥ (१)सू—ॐ॥ न सङ्ख्योपसङ्ग्रहादपि नानाभावादतिरेकाच्च॥ॐ॥१२॥ ब्दानां सङ्केतमात्रे न युज्यते, अतो महायोगवृत्तिसिद्धिः । ननु अन्य थाह्येतत्कथं कल्प्यते इत्यत उक्तं—मध्वादिवदिति । यथा खलु म धुविद्यायां ‘असौ वा आदित्यो देवमधु’ इत्याद्यायां तु मधुयशस्ते जआदिपदार्थतया परमात्मन उपासनोपदेशेऽपि तदर्थे मध्वादिशब्दा नां परमात्मवाचित्वेऽपि न लौकिकक्षौद्रादेर्वाचकशब्दाभावेन अभा वाख्यो विरोधः, यथा च ‘इदं तच्छिरः’ इति श्रुतौ चमसशब्दवा च्यत्वेन शिरस उपदेशेऽपि न यज्ञपात्राभावाख्यो विरोधः तथात्रापि विरोधाभावः । कुतः ? अन्यत्र क्षौद्रादौ रूढिमनिवार्यैव मध्वादिश ब्दानां परमात्मतद्गुणवाचिताऽभ्युपगमात् । एवं सर्वशब्दवाच्यत्वे पर मात्मनोऽभ्युपगतेऽपि न कर्मक्रमादिविरोधः । कुतः ? ज्योतिरादिश ब्दानामन्यत्र केवलरूढ्यादिवृत्तिमभ्युपेत्य महायोगवृत्त्या ईश्वरवाचि त्वाभ्युपगमादिति सूत्रार्थ उक्तो भवति ॥ २ ॥ इति ज्योतिरुपक्रमाधिकरणम् ॥ —:* ॐ *:— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रातिपदिकेन प्रत्ययमुखेन बहुत्वसङ्ख्यावि शिष्टवस्तुवाचिनामाधाराधेयवाचिनां च शब्दानां समन्वयः क्रियते । अत्र ‘तत्तु समन्वयात्’ इत्युक्तः सर्वशब्दसमन्वयो न युज्यते । कु तः ? विरोधात्—बहुत्वाधारत्वादिवाचिशब्दवाच्यत्वाभावात् । सोऽ पि कुतः ? विरोधात्—बहुत्वसङ्ख्योपसङ्ग्रहविरोधात् । एकस्यैवाधा राधेयत्वविरोधाच्चेति पूर्वाधिकरणीयवाक्यसंयोजनेन शिष्याः सङ्ग तिंविषयादिकं ज्ञास्यन्तीति भावेन सिद्धान्तयत्सूत्रमुपन्यस्य व्याच ष्टे—नेति ॥ ‘इत्यादिषु’ वाक्येषु ‘बहुसङ्ख्योपसङ्ग्रहेऽपि’ बहुसङ्ख्या कानां वस्तूनां ‘पञ्च’ इति प्रातिपदिकेन वा ‘पञ्चजनाः’ इति बहु वचनान्तेन वा एकेन पदेनोपसङ्ग्रहेऽपि संक्षिप्य वचनेऽपीत्यर्थः । निमि त्तसप्तमीयम् । अनेन सङ्ख्योपसङ्ग्रहादिति विरोधनिमित्तसमर्पकं पदं

[ अधि - ३. सू - १२. ] दीपिकासाहितम्. ३६५ 'यस्मिन् पञ्चपञ्चजना आकाशश्च प्रतिष्ठितः' (बृ. ६-४-१७.) इत्यादिषु बहुसङ्ख्योपसङ्ग्रहेऽपि न विरोधः। (२) तस्यैवाकाशादिषु नानाभावात्तदतिरिक्तस्वरूप व्याख्यातं भवति। न केवलं सङ्ख्योपसङ्ग्रहात्, किन्तु एकस्मिन्ननुपप द्यमानस्य 'यस्मिन्' इत्याद्याधाराधेयभावस्य वचनादपीति समुच्चया र्थोऽपिशब्दः पूर्वसूत्राद्बुद्ध्या विवेकेन विरोधपदाकर्षकोऽपि भवती त्याशयेन—विरोध इत्याह। अनेन तस्येत्याकृष्यते। नेति शेषः। तथा च 'यस्मिन्' इत्यादौ बहुत्वआधारत्वादेः श्रवणात् यः तेन तस्य भग वतः पञ्चजनाकाशशब्दवाच्यत्वस्य 'विरोधः' अनुपपत्तिः स नेति योजना। अनेनापि पूर्वपक्षे युक्तिद्वयानुवादात्पञ्चजनादिशब्दवा च्या अन्ये षष्ठीनिर्दिष्टा एव, न द्वितीयानिर्दिष्टो विष्णुरिति सयुक्ति कपूर्वपक्षो दर्शितः। तस्य पञ्चजनादिशब्दवाच्यस्य 'न विरोधो' ना नुपपत्तिरित्यनेन सिद्धान्तप्रतिज्ञा च सूचिता॥ (२) कुतो न विरोध इत्यतः प्रवृत्तं सौत्रं नानाभावादिति हेतुं व्याचष्टे—तस्यैवेति॥ एकस्यैवेत्यर्थः। परस्येति वर्तते। एवकारोऽप्य र्थकः। अनेन अपिः यद्यपीत्याद्यर्थतयाऽपि व्याख्येय इति सूचितम्। त था च तस्यैकस्य स्वगतभेदशून्यस्यापि परस्य भगवतो 'नानाभावा त्' प्रतिशरीरं नानारूपत्वादित्यर्थः। तथा च रूपबाहुल्याद्बहुवचनोप पत्तिरिति भावः। न च प्रतिशरीरं परमात्मनो बहुरूपत्वमप्रामाणिक मित्याह—आकाशादिष्विति। नियामकत्वेनेति शेषः। नानाभावादि त्यत्रापि सम्बध्यते। तथा च तत्तच्छरीरान्तर्गतेषु आकाशप्राणादिप ञ्चजनेषु नियम्येषु नियामकत्वेन स्थितस्य भगवतो नानाभावस्य न्या यप्राप्तत्वादित्यर्थः। अनेनैकस्मिन् बहुत्वसङ्ख्यानुपपत्तिः परिहृता। अथ 'यस्मिन्' इत्याधारस्य विष्णुत्वात्पञ्चजनानां आधेयानामवि ष्णुत्वमित्याशङ्कां परिहर्तुं प्रवृत्तं अतिरेकाच्चेत्यंशं व्याख्याति—तदि ति। 'तस्य' आधारभूतस्य शरीरनियामकभगवद्रूपस्य 'तेभ्यः' आ धेयभूताकाशादिगतपञ्चरूपेभ्यः 'अतिरिक्तत्वात्' अधिकत्वात् पृथक्त्वा च्चेत्यर्थः। तच्छब्दासाहित्येन अतिरिक्तस्वरूपत्वाच्चेति पाठे तस्येत्यनुष ङ्गेन तस्य तादृशस्वरूपत्वादित्यर्थः। तथाच विष्णोरेकत्वेऽप्याधेयसङ्ख्या धिकशरीरनियामकेश्वररूपाश्रिताकाशप्राणादौ भगवतोऽवस्थिति

३१६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] त्वाच्च ॥ १२ ॥ मात्रेण तस्याधाराधेयभावो युज्यते इति न तदनुपपत्तिरिति भावः। स- त्तर्कदीपावल्यां तु स्वाधेयत्वं लीलयेति भाव इत्युक्तम् । हेतोस्समुच्चये चशब्दः । वाजसनेयक उदाहृतोऽयं मन्त्रः— यस्मिन् पञ्च पञ्चजना आकाशश्च प्रतिष्ठितः । तमेवं मन्य आत्मानं विद्वान् ब्रह्मामृतोऽमृतम् ॥ इति । अत्र पञ्चपञ्चेति वीप्सा पञ्चानां जनानां सर्वशरीरेष्वनुवृत्ति- ज्ञापनार्था । तथा च ‘यस्मिन्’ सर्वशरीरगते परमात्मनि ‘पञ्चजनाः’ प्रतिपुरुषं स्थितानां पञ्चानां प्राणादिजनानां जनयितृत्वाद्भिन्नत्वात्तत्त- च्छब्दवाच्याः तदाधाराः पञ्च भगवद्रूपविशेषाः ‘प्रतिष्ठिताः’ तदा- श्रिताः, तथा—आकाशाख्यो भगवांस्तदाख्या प्रकृतिश्च यस्मिन्नाश्रि- ता , ‘तं’ परमात्मानमहं ‘मन्ये’ जानीयामित्यर्थः । मन्त्रद्रष्टृवाक्यमे- तत् । किं तज्ज्ञानेनेत्यत उक्तं—विद्वानिति । ‘एवं’ उक्तप्रकारेण स- र्वशब्दवाच्यं ‘तं अमृतं’ परं ब्रह्म ‘विद्वान्’ तत्त्वेनोपासीनः स्वयं चा- न्यैः ‘अमृतो भवति’ मुक्तो भवतीत्यर्थः । तमेवेति सावधारणपाठ- स्तु सत्तर्कदीपावलीविरुद्धः । यद्यपि बृहदारण्यकभाष्ये— प्राणश्चक्षुस्तथैवान्नं मनश्रोत्रं च पञ्चमम् । मूलप्रकृतिसंयुक्तं तद्रूपं प्रतिपूरुषम् ॥ इत्यनेन षष्ठ्यन्तनिर्दिष्टानां नियम्यप्राणादीनामेव पञ्चजनशब्दवा- च्यत्वम्, तथा तेषामाकाशाख्यमूलप्रकृतेश्च भगवदाश्रितत्वमुक्तम्, न तु भगवद्रूपाणां पञ्चजनशब्दवाच्यत्वम्, न वा स्वाश्रितत्वं भगवतः। तथाऽपि तत्र सर्वशब्दसमन्वयोक्तौ तात्पर्याभावात् यथाकथं चिद्वा- क्ययोजने तात्पर्यादमुख्यवाच्याभिप्रायेण तत्र तथोक्तावपि अत्र बहु- सङ्ख्यावाचिनां आधारादिवाचिनां च सर्वेषां शब्दानां समन्वये तात्प- र्यात्तस्य च तच्छब्दमुख्यवाच्यतामन्तरेणायोगात्तदर्थं तेषामपि परम- मुख्यवृत्त्या भगवत्परत्वोक्तिरिति न विरोध इति ज्ञातव्यम् । अनेन— ‘सङ्ख्योपसङ्ग्रहात्’ ‘यस्मिन्’ इत्यादौ बहुत्वसङ्ख्यानां उपसङ्ग्रहा- त् संक्षेपेण बहुत्वसङ्ख्याविशिष्टवस्तुवचनात्, तथा ‘यस्मिन्’ इत्या- द्याधाराधेयभावश्रवणादपि प्राप्तो यो ‘विरोधो’ भगवतस्तच्छब्दवा- च्यत्वायोगाख्यः सः न । कुतः ? ‘अपि’ एकस्यापि स्वगतभेदशू-

[ अधि - ३. सू - १३. ] दीपिकासहितम्. ३६७ ( ३ ) पञ्च जनानाह— सू— ॐ ॥ प्राणादयो वाक्यशेषात् ॥ ॐ ॥ १३ ॥ 'प्राणस्य प्राणमुत चक्षुषश्चक्षुः श्रोत्रस्य श्रोत्रमन्न स्यान्नं मनसो मनः' इति वाक्यशेषात् ॥ १३ ॥ न्यस्यापि परमात्मनः 'नानाभावात्' अनेकरूपत्वात्, तथा 'अतिरे कात्' आधाररूपस्याधेयरूपेभ्यः षड्भ्यः सङ्ख्येयेभ्योऽतिरिक्तत्वाच्चे ति सूत्रार्थ उक्तो भवति ॥ ( ३ ) ननु भवेदियं विष्णौ बहुत्ववादिसम्भवविषयचिन्ता, यदि पञ्चज नादिशब्दवाच्यानां विष्णुत्वे भवेद्विशेषहेतुः। न चासावस्ति । 'सर्वे वे दाः' (कठ.२-१५.) इत्यादिश्रुत्यन्तराणां च साधारणत्वादतो बहुत्ववादि सम्भवेऽपि न पञ्चजनादिशब्दवाच्यो हरिरित्याशङ्कां परिहरत्सूत्रमवता रयति—पञ्चेति ॥ के ते पञ्चत्वाश्रयभगवद्रूपविशेषा इत्याशङ्कां मुख तो द्वितीयान्तनिर्दिष्टप्राणादिपञ्चजनोक्त्या परिहर्तुं, वाक्यशेषग्रहणेन पञ्चजनलिङ्गोक्त्याऽर्थात्पञ्चजनशब्दवाच्यानां द्वितीयानिर्दिष्टविष्ण्वन्य त्वशङ्कां च परिहर्तुं पञ्चजनस्वरूपमाह सूत्रकार इत्यर्थः । श्रुत्यनुसारा त्पञ्च पञ्चेति द्विरुक्तिः । अथ सूत्रं पठित्वा तत्र प्राणादय इति विरोध पदान्वययोग्योद्देश्यपदस्य सम्बन्धभाष्येण प्रदर्शितत्वात्, तत एव प्र तिज्ञासिद्धेः, तत्र हेतुतयोक्तं वाक्यशेषमेव दर्शयति—प्राणस्येति । माध्यन्दिनानामयं वाक्यशेषः । व्याख्यातेयं कम्पनाधिकरणे । अनेन- सूत्रे पञ्चजना इति श्रौतपदद्वयस्य तत्त्वित्यस्य वाऽनुषङ्गेण प्राणादय इत्यस्यावृत्त्या विपरिणामेन च एते पञ्चजनास्तावत्प्राणादीनां 'प्राणा दयः' प्राणादिषु स्थित्वा प्राणादीनां प्राणत्वादिप्रदाः तत्प्रेरकास्तद्भा सकाश्च । कुतः ? 'प्राणस्य' इति वाक्यशेषात् । 'ते च' प्राणादीनां प्राणादयः 'त एव' भगवद्रूपविशेषा एव, न त्वन्ये । न च विशेषहेत्वभा वः । 'वाक्यशेषात्' 'स उ प्राणस्य प्राणः' (केन.२.) इति तलवकारं वाक्यशेषात् । अतोऽत्र विष्णुलिङ्गत्वेन श्रुत्यन्तरसिद्धनिरवकाशप्राणा दिप्राणत्वादिप्रदत्वरूपलिङ्गस्य श्रवणात्स एव पञ्चजनशब्दवाच्यः, न षष्ठीनिर्दिष्टप्राणादय इति नोक्तसर्वशब्दसमन्वयविरोध इति सूत्रार्थ उक्तो भवति । मुखतः प्रतीत: सूत्रार्थस्तु—एते पञ्चजनशब्दवाच्या भगवद्रूपविशेषास्तु प्राणादीनां प्राणादयः । द्वितीयान्तनिर्दिष्टप्राणा दिप्राणत्वादिप्रदाः प्राणचक्षुश्श्रोत्रान्नमनोभिधा ज्ञेया इति ॥

३६८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] (४) सू—ॐ ॥ ज्योतिषैकेषामसत्यन्ने ॥ ॐ ॥ १४ ॥ 'तद्देवा ज्योतिषां ज्योतिः' (बृ. ६-४-१६.) इत्यनेन काण्वानां पञ्चकम् ॥ १४ ॥ —————— ❖ —————— (४) ननु माध्यन्दिनवाक्यशेषोक्तानां प्राणादिप्राणत्वादिप्रदानां विष्णुत्वेऽपि न पञ्चजनानां विष्णुत्वम् । कुतः ? काण्वानां वाक्यशेषे चतुर्णामेवोक्तत्वेन तस्य तद्गत 'यस्मिन्' इति पूर्ववाक्यतो भिन्नार्थ- त्वात् । अत्रापि वाक्यशेषस्य 'यस्मिन्' इत्यतो भिन्नार्थत्वावश्यंभा- वादित्याशङ्कां परिहरत्सूत्रं पठित्वा श्रुत्युदाहरणपूर्वकमपेक्षितपदाध्या- हारेण व्याचष्टे—ज्योतिषेति ॥ इत्यनेनेति । इति वाक्येनेत्यर्थः । एके- षामित्यस्य व्याख्यानं काण्वानामिति । शाखायामित्युक्तमिति शेषः । तथा च काण्वानां शाखायामपि तदित्यनेनोक्तेन ज्योतिषा सह पञ्च- कमुक्तमिति योजना । अस्यातो न विरोध इति प्रथमसूत्रोक्तसाध्ये- नान्त्रयः । यस्मादर्वाक्संवत्सरोऽहोभिः परिवर्तते । तद्देवा ज्योतिषां ज्योतिरायुर्होपासतेऽमृतम् ॥ (बृ.६-४-१६.) इति काण्ववाक्यस्यायमर्थः — अहोभिः संवत्सरो यस्मादर्वाक्प- रिवर्तते । यस्मिन् स्वव्यापारमायुर्ह्रासादिकं कर्तुं न समर्थ इति याव- त् । 'तज्ज्योतिषां' आदित्यादीनां ज्योतिष्प्रदं 'आयुः' आयुःप्रदं अ- चलं 'अमृतं' नित्यमुक्तं ब्रह्मस्वरूपं देवा उपासते । 'ह' प्रसिद्धमि- ति । सूत्रार्थस्तु—नैकेषां वाक्यशेषे चतुर्णामेवोक्त्या तस्य पूर्वतो भि- न्नार्थत्वात् 'विरोधः' एकवाक्यत्वाभावः । कुतः ? एकेषां माध्यन्दिनानां शाखायां पञ्चानामप्युक्तेः । न च काण्वशाखायां अनुक्तेस्तत्र वाक्य- भेदोऽवश्यंभावीति वाच्यम् । यतः 'एकेषां' काण्वानां शाखायां 'अन्ने' अन्नस्यान्नत्वप्रदातृरूपे तत्रैव 'असति' अकथिते सत्यपि 'त- द्वेवाः' इति किञ्चिद्दूरोक्तेन वाक्येन ज्योतिषां आदित्यादीनां ज्योति- ष्प्रदेन ज्योतिराख्येन रूपेण सह पञ्चकमुक्तमिति । अत्र शाखाद्वयेऽ- प्येकविधपञ्चकपरत्वाय ज्योतिरन्नशब्दयोरेकार्थत्वम्, तयोर्भिन्नार्थ- त्वाय शाखाभेदेन पञ्चकद्वयं वेत्युक्तमुपपन्नमिति टीकोक्तप्रमेयमनु- सन्धेयम् ॥ ३ ॥ इति नसंख्योपसंग्रहाधिकरणम् ॥

[ अधि - ४. सू - १५. ] दीपिका सहितम्. ३६९ ४. अधिकरणम् ॥ ( १ ) अवान्तरकारणत्वेनापि स एवोच्यत इति वक्ति— सू—ॐ ॥ कारणत्वेन चाकाशादिषु यथाव्यपदिष्टोक्तेः ॥ ॐ ॥ १५ ॥ ( २ ) आकाशादिष्ववान्तरकारणत्वेन स एव स्थितः । ४. अधिकरणम् ॥ ( १ ) अत्राधिकरणेऽवान्तरकारणवाच्याकाशादिशब्दसमन्वयः क्रियत इति शास्त्रादिसङ्गतिः । अत्रापि ' तत्तु समन्वयात् ' इत्युक्तः सर्वशब्दसमन्वयो न युज्यते । यतोऽवान्तरकारणवाच्याकाशादिश ब्दैरन्यदेवोच्यते, न विष्णुः , तस्मिन् कार्यत्वस्य विरोधात् स्वकार्य त्वस्य सुतरां विरुद्धत्वादिति पूर्वाधिकरणवाक्यसंयोजनेन श्रुत्यादि सङ्गतिं विषयपूर्वपक्षादीन् शिष्या एव ज्ञास्यन्तीत्याशयेन सिद्धान्त्य त्सूत्रमवतारयति-अवान्तरेति ॥ कार्यत्वे सति कारणत्वं अवान्तरका रणत्वं, अपिस्समुच्चये । तच्छब्दैरिति शेषः । 'सः' विष्णुः । न भूतादी नित्येवशब्दार्थः । ' उच्यते ' मुख्यतः । तथा च न केवलं स एव मूल कारणवाचकात्मशब्देनोच्यते, किन्त्ववान्तरकारणत्वेन 'तच्छब्दैः' अ वान्तरकारणवाचकाकाशादिशब्दैरपि स एवोच्यते इति सूत्रकारो वक्तीति योजना । अवान्तरकारणत्वेनेत्यनेन सौत्रश्चशब्दः कार्यत्व समुच्चयार्थतया अपीत्यनेन मूलकारणत्वसमुच्चयार्थतया च व्याख्या तः। न चाकाशादिशब्दैः कारणत्वादिप्रकारकबोधाभावादनुपपन्नमे तदिति वाच्यम् । सम्भूतशब्दसमानाधिकृताकाशादिशब्दैस्तथाऽवग मात्, तत्र पञ्चम्या कारणत्वस्य सम्भूतप्रातिपदिकेन च कार्यत्वस्य चोपस्थितेः । यद्वा—'अवान्तरकारणत्वेन' तन्नियामकत्वेन स्वयं अ वान्तरकारणीभूत एव तच्छब्दैरुच्यते इत्यर्थः ॥ ( २ ) सूत्रं व्याचष्टे—आकाशादिष्विति ॥ सूत्रे न केवलं कारण त्वेन, किन्तु कार्यत्वेन चेति चशब्दव्याख्यानमभिप्रेत्य तल्लब्धार्थमा ह—अवान्तरकारणत्वेनेति । ' सः ' विष्णुरिति । समन्वयसूत्रादनुवृ त्ततच्छब्दस्य श्रुत्यनुसारालिङ्गविपरिणामः कृतः । न त्वन्यदित्येवका रार्थः । टीकायां सम्बन्धभाष्ये 'तच्छब्दैरुच्यते' इति अत्र च 'स्थितः' इति शेषोक्त्या सूत्रे स्थितः, तच्छब्दैः, उच्यते, इति पदत्रयमध्याहा र्यमिति सूचितम् । यद्यपि प्रतिज्ञासूचके सम्बन्धभाष्ये ' अवान्तरका रणत्वेन सः ' इति पदद्वयस्य प्रयुक्तत्वात्तयोरेव ' आकाशादिषु स्थि ४७

३७० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - ४. ] यथा व्यपदिष्टस्यैव परस्य 'य आकाशे तिष्ठन्' (बृ. तः' इति हेतुवाक्येऽन्वेतुं शक्यत्वादाकाशादिषु स्थित इत्येव वक्त- व्यम् । अतएव टीकायां सम्बन्धभाष्योक्तां प्रतिज्ञां 'न केवलम्' इ- त्यादिना विवृत्य न च कार्यकारणभावविरोध इत्यध्याहृतसाध्ये आ- काशादिषु स्थितत्वादित्येव हेतुवाक्यं प्रदर्शितम् । तथाऽपि अवान्तर- कारणत्वेनेत्यस्य हेतुसाध्ययोरुभयत्राप्यन्वयसूचनार्थं, स्थित इत्यस्या- न्यविशेषणत्वशङ्कापरिहारार्थं च तत्पदयोः पुनरनुवादः कृतः। तथा च न केवलं मूलकारणवाचिनाऽऽत्मपदेनैव विष्णुरुच्यते, किन्तु अवान्तर- कारणत्वेन रूपेण तच्छब्दैरवान्तरकारणवाच्याकाशादिशब्दैरपि स ए- वोच्यते । न च तस्यावान्तरकारणत्वेन रूपेणोक्तौ कार्यत्वकारणत्व- योरापत्तिः, ते च विरुद्धे इति वाच्यम् । यत आकाशादिष्ववान्तरका- रणत्वेन रूपेण स एव स्थितः । आकाशाद्युत्पत्तावाकाशाद्यन्तर्गतस्य भ- गवतोऽभिव्यक्त्या वाय्वादिस্বরূপाभिव्यक्तिहेतुत्वेन च तस्य कार्यत्व- कारणत्वयोरुपपत्तेर्न विरोध इति भावः। येन रूपेण आकाशादिषु स्थि- तो विष्णुः स्थितः, तेन रूपेण तस्य तच्छब्दवाच्यतेति ज्ञापनायोभय- त्रावान्तरकारणत्वेनेत्युक्तिः । अत्रापिपदपाठः प्रामादिकः । नन्वाका- शादिषु विष्णोः स्थितत्वमसिद्धमित्यतस्तत्राकाशादिष्वित्यस्य बुद्ध्या विविक्तेनोक्तेरित्यनेनाप्यन्वयेन लब्धहेतुमाह-परस्येति । 'इत्यादिना' वाजसनेयवाक्येन आकाशादिषु 'परस्य' परमात्मन 'उक्तेः' सत्त्वोक्ते- रित्यर्थः । परस्येत्यनेन अनुवृत्ततच्छब्दस्य विभक्तिपरिणामावृत्ती सूचिते । आदिशब्देन 'यो वायौ तिष्ठन्' ( बृ.५-७-७. ) इत्यादि, 'यमा- काशो न वेद' (बृ.५-७-१२.) इत्यादि च गृह्यते । ननु श्रुतावप्याकाश- स्थो विष्णुरिति कुत इत्यतस्तत्र 'यथाव्यपदिष्ट' इत्यंशस्य 'आका- शादिषूक्तेः' इत्याभ्यां संयोजनेन लब्धं हेतुमाह—यथाव्यपदिष्टस्ये- ति । व्यपदिष्टप्रकारमनतिक्रान्तो यथाव्यपदिष्ट इति विग्रहः । ततष्ष- ष्ठीतत्पुरुष इत्याशयेन षष्ठीप्रयोगः । यद्वा—श्रुत्यन्तरव्यपदिष्टानुरूपं यथाव्यपदिष्टमिति निपातनात्सादृश्येऽव्ययीभावः । तथा चैतरेये 'स योऽतोऽश्रुतः' इत्यादौ परमात्मा 'यथा' येन प्रकारेण 'व्यपदिष्टः' श्रुतः तादृशस्यैव तस्य परस्य 'यमाकाशो न वेद' इत्यादिना वाक्ये- नाकाशादिषूक्तत्वादित्यर्थः। अनेन आकाशादिष्विति सौत्रो हेतुराकां- क्षाक्रमेण यथायोग्यमपेक्षितपदावृत्त्या योजनीय इत्युक्तं भवति । सू-