पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
[अधि - १०. सू - १०.] दीपिकासहितम्. ३७ (८२) यमन्तस्समुद्रे कवयो वयन्ति तदक्षरे परमे प्रजाः । सूत्रकृतेति, ब्रह्मशब्दस्य बह्वर्थत्वेन सूत्रकारविवक्षाविशेषस्य दुर्ज्ञेय- त्वादित्यत आह—'ब्रह्म' इति । मुख्य इति शेषः । चः 'अनेकार्थोऽ- पि ब्रह्मशब्दः' इति अप्यर्थे, यतइत्यर्थे च । तथा च ब्रह्मशब्दस्याने- कार्थत्वेऽपि यतः सः विष्णावेव मुख्यः अतो मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् स एव सूत्रकारविवक्षितो ज्ञायत इति योजना । अत्र श- ब्दान्तरं विहाय विष्णुशब्दप्रयोगेन तच्छब्दगतानां वर्गपञ्चमषष्ठचतु- र्थानां षण्णां सङ्ख्या रेखालखनेन सूत्राणां चतुष्षष्ट्युत्तरपञ्चशत- सङ्ख्योक्ता भवति । यद्वा— देशतः कालतश्चैव गुणतश्चापि पूर्तितः । विष्णौ ब्रह्मेति नामैतन्मुख्यतोऽन्यत्र न क्वचित् ॥ इत्यैतरेयभाष्योक्तेः देशकालगुणापरिच्छेदरूपत्रिविधपूर्तिवाचकब्रह्म- शब्दव्याख्यानाय तादृशविष्णुशब्दप्रयोगः । टीकायां तु—अत्र विष्णु- ग्रहणेन “सविष्णुराह हि । तं ब्रह्मेत्याचक्षते” इत्यन्योन्याव्यवहित- सूत्रद्वयकरणानन्तरमेव ब्रह्ममीमांसायाः व्यासेनारब्धत्वादेतद्व्यवहि- तदेवमीमांसान्त्यसूत्रद्वये ब्रह्मत्वेन नारायणस्यैव प्रकृतत्वं सूचयती- ति प्रयोजनान्तरमुक्तम् । तत्त्वप्रदीपेऽप्येतदेव यो देवतामीमांसान्ते “विष्णुरेव हि तच्छ्रुतेस्तं ब्रह्मेत्याचक्षते” इति सर्वदेवोत्तमत्वेन प्र- तिज्ञातो ब्रह्मत्वेन चोक्तः स एवोत्तरमीमांसायां विचार्यत्वेनोच्यत इ- ति पाठभेदेनोक्तम् ॥ (८२) ब्रह्मशब्दस्यान्यत्रापि रूढत्वाद्रूढेरेव मुख्यवृत्तित्वात्कुतोऽ- सौ विष्णावेव मुख्य इत्यत आह—'यं' इति । 'ब्रह्मशब्दश्च' इत्यादि अ- त्रापि सम्बध्यते । चो यद्यपीत्याद्यर्थे । हिशब्दो यत इत्यर्थे । श्रुतिराहे- ति शेषः । तथा च यद्यपि ब्रह्मशब्दोऽन्यत्र रूढः, तथापि 'श्रुतिः' “यमन्त” इत्यादिका यतः कवीनां मते 'तदेव परमं ब्रह्म' इत्याहुरि- ति प्रयोगबाहुल्यरूपाम् रूढिमाह, अतो ब्रह्मशब्दो विष्णावेव परममु- ख्य इत्यर्थः । अन्यत्राज्ञरूढेः विद्वद्रूढेरतिमुख्यत्वादिति भावः । यमन्त- स्समुद्रे इति वाक्यम् यदोष्धीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि ।
३८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ८३ ) यतः प्रसूता जगतः प्रसूती तोयेन जीवान्व्यससर्ज [ भूम्याम् ॥ ( ८४ - ८५ ) इत्याद्युक्त्वा “ तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम् ” ( महाना. १. ) अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् ॥ यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् ॥ इति वाक्येन सह व्याख्यातं विष्णुतत्त्वनिर्णयटीकायाम् । तथा हि-‘यमन्तस्समुद्रे’ विभक्त्यर्थेऽव्ययीभावः समुद्रस्यान्तस्स्थितं ‘क वयो’ज्ञानिनः ‘अवयन्ति’ ईषदेव जानन्ति, यस्मिन् ‘तदक्षरे’ अवि ज्ञेयत्वरूपपूर्वविशेषणविशिष्टे प्रसिद्धे वा अविनाशिनि ‘परमे’ प्र जा अधीनाः सन्ति ( ८३ ) ‘जगतः प्रसूती’ प्रसूतिर्जनयित्री मूलप्रकृतिर्लक्ष्मीः ‘यतो’ यस्मात् प्रसूता उत्पन्ना, सृष्टौ अभिमुखीबभूवेति वा, यश्च यद्वस्तु ‘तोयेन’ तत्तज्जीवकर्मणा स्ववीर्येण वा, तोयशब्दोक्ताम्बूपलक्षितैर्भू तैर्वा ‘भूम्यां’ पृथिव्यादिषु लोकेषु ‘जीवान् व्यससर्ज’ विविधं स सर्ज । ( ८४-८५ ) यश्च ‘ओषधीभिः’ सहितान् ‘पुरुषान् पशूंश्च चरा चराणि भूतानि’ प्रेरणाय ‘विवेश’ । ‘चराचराणि भूतानि’ इत्यनेनैव सिद्धे यज्ञाङ्गत्वादिना विशिष्टानां व्रीह्योषधीनां ग्रहणाय पुनर्वचनम् । ‘अतः’ यस्मात् ‘परं’ अतिशयेन ‘अन्यत्’ वस्तु ‘अणीयसं’ अणी यो नास्ति, यच्च ‘परात्परं’ उत्कृष्टादुत्कृष्टं ‘महतो’ महत्परिमाणादपि ‘महान्तं’ महत्, ‘यदेकं’ केवलं ‘अव्यक्तं’ स्वप्रसादं विना अती न्द्रियं ‘विश्वं पूर्णं तमसः’ प्रकृतेरज्ञानाद्वा ‘परस्तात्’ अतिक्रम्य स्थितं ‘तदेवर्तं’ यथार्थज्ञानरूपं ‘तदु’ तदेव ‘सत्यं’ ज्ञानपूर्वकक्रियावत् ‘तदेव कवीनां’ मते ‘परमं’ मुख्यं ‘ब्रह्म’ इत्याहुरिति । अत्र ‘तदक्षरे’ इति श्रुतिपाठः । ‘यदक्षरे’ इति क्वचित्पाठे यस्मिन्नित्यध्याहारो न का र्यः । ‘व्यससर्ज’ इति प्रायिकः श्रुतिपाठः । ‘व्यचसर्ज’ इत्यपि क्वचि त्पठन्ति । अत्र सकारस्य चकारादेशः छान्दसः । आद्यपक्षेऽपि वि आ ससर्जेत्यवयवविभागः । तत्राङो ह्रस्वत्वं छान्दसं बहुलग्रहणात् । “इन्द्रा वरुण वामहम्” इति श्रुतौ णकारात्परस्याकारस्य यथा ह्रस्व
[ अधि - १. सू - १० ] दीपिकासहितम्. ३९ ( ८६ ) इति हि श्रुतिः । “ तन्नो विष्णुः ” ( महाना. १० ) इति वचनाद् विष्णुरेव हि तत्रोच्यते । ( ८७ ) न चेतरशब्दात्तत्प्राप्तिः । त्वं तद्वदिति नारायणपण्डिताचार्योक्तिः । “ व्यससर्ज विससर्ज बहु- लग्रहणात् ” इति प्रमेयदीपोक्तिरपि ह्रस्वाभिप्रायिकैव । केचित्तु लि- ट्यडागमश्छान्दसो बहुलग्रहणादिति प्रमेयदीपार्थमाहुः । तदार्यो- क्तत्पक्षान्तरम् । पद्मनाभतीर्थकृततत्त्वनिर्णयटीकायां न्यायरत्नावल्यां तु ' वयन्ति ' इति विच्छिद्य ' तदक्षरे ' इत्येव च पठित्वा, “ यं पुरुषं समुद्रेऽन्तः कवयो वयन्ति वाञ्छन्ति तदक्षरे यस्मिन् तस्मिन् अक्षरे नाशवर्जिते परमे प्रजास्तदाधाराः तिष्ठन्ति, जगतः प्रसूती जगज्जन- यित्री प्रकृतिः यतः प्रसूता प्रादुर्भूता सती तोयेन इतरमिश्रितेन जीवा- न् देहवत्त्वेन व्यससर्ज विसृष्टवती ” इत्येकान्वयेन “ तदेव तात्पर्यविष- यीभूतत्वादृतं तदेवाबाधितरूपत्वात्सत्यं तदेव कवीनामभिमतं परं ब्रह्म” इत्यर्थ उक्तः । नारायणपण्डिताचार्यकृतौ तत्त्वमञ्जर्यामपि ‘तद्- क्षरे ' इति पठित्वा “ यमवयन्ति अवगच्छन्ति यस्मिंस्तस्मिन् अक्षरे प्रजाः सन्ति यतः प्रसूता पराधीनविशेषं प्राप्ता श्रीः तोयेन कर्मणा जीवान् भूम्यां प्रकृत्यां व्यससर्ज ” इत्यन्वयेन “ तदेवर्तं शश्वदेकप्र- कारं सत्यं साधु ब्रह्म गुणपूर्णं ” इत्यर्थ उक्तः ॥ ( ८६ ) ननु ‘तदेव’ इति वाक्ये तच्छब्देन कुतो विष्णुनिश्चयः? समुद्रस्थत्वलिङ्गादिति चेत्—न, तस्य रुद्रादावपि कथं चित्सम्भ- वादित्यतो निरवकाशविष्णुश्रुतेरेवेत्याह—' तन्नः ' इति । ‘इति वच- नाद्विष्णुरेव ’ ‘ तत्र ’ ‘ तदेव ’ इति श्रुतौ तच्छब्देन ‘ उच्यते ’ इति निश्चीयत इत्यर्थः । हिशब्दः प्रसिद्धौ । अत्र ‘ तन्नः ' इत्येकदेशग्रहणे- न “ नारायणाय विद्महे वासुदेवाय धीमहि, तन्नो विष्णुः प्रचोद- यात् ” इति समग्रवाक्यं गृह्यते । द्वितीयार्थे चतुर्थ्यौ । तथा च य- स्मात् वयं नारायणं ‘ विद्महे ' जानीमहे यतश्च तं वासुदेवं ‘धीम- हि ' ध्यायेमहि ‘तत् ' तस्मात् नः ’ अस्मान् ‘तत् ' शुभं प्रति ‘वि- ष्णुः प्रचोदयात् ’ प्रेरयत्विति श्रुत्यर्थः ॥ ( ८७ ) यद्युत्तरवाक्ये विष्णुशब्दश्रवणाद्विष्णुरेवात्रोक्तं ब्रह्म, तर्हि ‘ तन्नो रुद्रः ’ इत्यादीतरशब्दश्रवणात् रुद्रादेरपि मुख्यब्रह्मता प्राप्तेत्य-
४० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( ८८ ) नामानि विश्वाऽभि न सन्ति लोके यदाविरासी [ दनृतस्य सर्वम् । ( ८९ ) नामानि सर्वाणि यमाविशन्ति तं वै विष्णुं परममु [ दाहरन्ति ॥ ( ९० ) इति भाल्लवेयश्रुतिः । “यो देवानां नामधा एक ए व तं सम्प्रश्नं भुवना यन्त्यन्या” (ऋ. सं. १०-८२-३.) त आह—'न च' इति । च शब्दः समुच्चये । तथा च 'इतरशब्दा त्' रुद्रादिवाचकशब्दबलात्तस्य रुद्रादेरपि तस्य मुख्यब्रह्मत्वस्य 'प्राप्तिर्न' इत्यर्थः । ( ८८ ) कुत इत्यतस्तत्प्रापकशब्दानां विष्णवेव मुख्यत्वादिति हेतूप स्कारमभिप्रेत्य तस्यासिद्धिपरिहाराय विष्णोर्मुख्यतः सर्वनामवाच्य त्वे श्रुतिमाह—'नामानि' इति । 'श्रुतेः' इति क्वचित्पञ्चम्यन्तपा ठः
[ अधि - १०. सू - १०. ] दीपिकासहितम्. ४१ इत्येवशब्दान्नान्येषां सर्वनामता । ( ९१ ) “ अजस्य नाभावध्येकमर्पितं यस्मिन् विश्वानि भुवनानि तस्थुः ॥ ( ऋ. सं. १०-८२-६. ) इति हि विष्णोर्लिङ्गम् । ( ९२ ) न च प्रसिद्धार्थे विनाऽन्योऽर्थो युज्यते । ब्रह्मत्वं किं न स्यादित्यत आह—‘यः’ इति । ‘इत्येवशब्दात्’ इति इतिवाक्यस्थैवशब्दात् ‘अन्येषां’ रुद्रादीनां ‘सर्वनामता’ विष्णुवा- दिसर्वशब्दवाच्यत्वं नेत्यर्थः । सर्वनामतेत्यनन्तरं-यत एवमतः ‘तन्मे विष्णुः’ ( महाना.३-१६. ) इत्यादौ नान्येषां प्राप्तिः अत एव न ब्रह्मत्वं तेषामिति वाक्यशेषः । ‘यो’ भगवान् ‘एक एव देवानां’ ब्रह्मादीनां ‘नामधाः’—विश्वपाशब्दवदयं शब्दः—नामधारकः न त्वन्येऽपि ‘तं प्रश्ने’ पृष्टारं ‘अन्या’ अन्यानि ‘भुवना’ भुवनानि लोकाः ‘संयन्ति’ संयान्ति मोक्षे प्रलये चेति श्रुत्यर्थः ॥ ( ९१ ) नन्वत्रापि यच्छब्देन विष्णुरिति कुतः ? विश्वकर्मेति श्रुति- बलादस्य सूक्ताख्यप्रकरणस्य विश्वकर्माद्यन्यपरतया तद्गतयच्छब्द- स्यापि तत्परत्वौचित्यादित्यत आह—‘अजस्य’ इति । ‘हि’ यस्मात् इति वाक्ये ‘विष्णोः लिङ्गं’ पद्मनाभत्वाख्यमसाधारणो धर्मः श्रुतः तस्माद्यच्छब्दोदितो विष्णुरेवेत्यन्वयः । उत्सर्गतो लिङ्गात् श्रुतेः प्राब- ल्येऽपि सावकाशाया विश्वकर्मश्रुतेः निरवकाशलिङ्गेन बाधोपपत्तेरि- ति भावः । श्रुत्यर्थस्तु—‘अजस्य’ अजन्यस्य पुरुषस्य ‘नाभौ एकं’ वस्तु ‘अर्पितं’ उद्भूतम् । ‘यस्मिन् विश्वानि भुवनानि’ सर्वे चतुर्दश लोकाः ‘अधितस्थुः’ अधिष्ठिताः इति ॥ ( ९२ ) नाभ्यर्पितं पद्मादन्यत्किं न स्यादित्यत आह— ‘न च’ इति । चः समुच्चये । प्रसिद्धं विष्णुनाभिस्थत्वेन प्रसिद्धं पद्मा- ख्यार्थं ‘विनाऽन्योऽर्थो’ न युज्यते, प्रसिद्धिबाधादित्यर्थः । विश्वकर्म- श्रुतिवत्पद्मनाभत्वलिङ्गमप्यन्यस्य किं न स्यादित्यतो वाऽऽह—‘न च’ इति । पद्मनाभत्वेन प्रसिद्धपदार्थं भगवन्तं विना ‘अन्यः’ पद्म- नाभो न युज्यते प्रसिद्धिबाधादित्यर्थः ॥ ६
?
Wait, look at line 25: तथा च यः विश्वकर्मसूक्ते or तथा च यत्?
तथा च यः - wait, look at यः: it is य followed by a visarga ः or is it यद्?
Let's zoom in on line 25:
तथा च य then ः or space with a dot?
Wait, यः विश्वकर्मसूक्ते? No, look at line 26:
वा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति” इति या आख्या उक्तिः
The sentence is: तथा च या विश्वकर्मसूक्ते ... इति या आख्या उक्तिः?
Wait, does line 25 say या?
Look at the letter after च: it is य with something... wait, look closely:
It has a top bar, य, and an anusvara? Or यः? Or या?
Wait, it has a vertical stroke to the right with a blot: could it be या? No, look at यः: there are two dots vertically aligned, but the top dot is faint. Wait, or is it यः?
Wait, in विश्वकर्मसूक्ते: "यः विश्वकर्मसूक्ते ..."? No, Vishvakarma is यः (he who is...)?
Wait,
[ अधि - १. सू - १. ] दीपिकासहितम्. ४३ ( ९६) “यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ” (ऋ. १०-१२५-५.) इत्युक्त्वा ( ९७) “मम योनिरप्स्वन्तः समुद्रे ” (ऋ. १०-१२५-७.) इत्याह । ( ९६) ननु समाख्याश्रुतावपि विष्णुः कुतो वाच्य इत्यत आह— ‘यं’ इति । इतीत्यनन्तरं वाक्येनेत्युभयत्र शेषः । ‘परो दिवा’ इत्येत त्समस्तमनेनापि योज्यम् । अत्र समाख्याश्रुतावित्येकं पदम् । तथा च- यस्मात् ‘परो दिवा’ इति समाख्याश्रुतौ मेत्याख्या माख्या तया सहिता समाख्या “प्रकृतिर्वाव समासमा” (माध्यंदिनश्रुतिः) इति श्रुतौ समासमत्वोक्तेः ‘नामैकदेशे’ इति न्यायेन समाभिधा वा, अहमिति प्रकृता लक्ष्मीः “यं” इत्यादिवाक्येन ब्रह्मादीनां स्वाधीनत्वमुक्त्वा “मम योनिरप्स्वन्तः समुद्रे” इति वाक्येन “प रो दिवा” इत्युक्तं विष्णुं स्वकारणत्वेन समुद्रस्थत्वेन चाह, तस्मा द्विष्णुरेव समाख्याश्रुतिप्रतिपाद्य इत्यर्थः । उक्तेत्यनेन लक्ष्मीकारणं ब्रह्माद्यन्यतमं किं न स्यादिति शङ्का वारिता । श्रुतौ ‘दिवा’ इत्यादि तृतीया पञ्चम्यर्थे । तथा च—‘दिवः’ श्रियः ‘परः’ ‘एना’ एत स्याः भूम्याश्च ‘परः’ उत्तमः । ‘देवेभिः’ देवेभ्यः ‘असुरैः’ असुरे भ्यश्च ‘परः’ उत्तमः । किं बहुना—‘यदस्ति’ तस्मात्सर्वस्मादपि परः। स विष्णुः द्यावापृथिवीभ्यां परः। अहं तु ‘महिना’ महिम्ना ‘एतावती’ परिमिता बभूव । अहमेतावती यथोक्तप्रकारा महिम्ना नातोऽधिकेति वा श्रुत्यर्थः । अहमिति लब्धपदेन लक्ष्मीरूच्यते, एत त्सूक्तप्रवर्तिकायाः आम्भृण्याः लक्ष्मीरूपत्वात् । तथा च—अहं ‘यं यं’ रुद्रपदयोग्यं जीवं ‘उग्रं’ रुद्रं कर्तुं ‘कामये’ इच्छेयं ‘तं तं’ उ ग्रं कृणोमि करोमि । एवं तत्तत्पदयोग्यं यंयं ‘ब्रह्माणं’ ‘ऋषिं’ ‘सु मेधां’ सुमेधसं वा कर्तुं कामये तं तं तथा करोमीत्यर्थः । शिष्टवाक्या र्थः “पत्युरसामञ्जस्यात्” (ब्र.सू.२-२-३७) इत्याधिकरणे वक्ष्यते ॥ ( ९७) तथाऽपि मम न स्वातन्त्र्यमित्याह—‘मम’ इति । ‘मम’ योनिः’ कारणं ‘समुद्रे अप्सु’ अपां ‘अन्तः’ तिष्ठति । १ स्याधिक्यं कम्पस्वरार्थः । पतिनाम न ग्राह्यमिति भावेन नारायण इत्यनुक्त्वा तदर्थबोधनायैवमुक्तिः ॥
४४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (९८) उग्रो रुद्रः, समुद्रेऽन्तर्नारायणः । प्रसिद्धत्वात् सू [ चितत्वाच्चास्यार्थस्य । (९९) न चाविरोधे प्रसिद्धः परित्यज्यते । उक्तन्यायेन [ च श्रुतय एतमेव वदन्ति । (९८) नन्वत्र समुद्रस्थो रुद्रः किं न स्यात् 'तप्यमानाय सलिले' इति भारतेोक्तेः । न च रमाधीनतोक्तिविरोधः, उ ग्रशब्देन कस्य चित्क्रूरस्य ग्रहणसम्भवादित्यत आह—'उग्र' इति । भवेदित्युभयत्र शेषः । तथा च—अत्रोग्र इत्युक्तो रुद्र एव भवेत्, तथा समुद्रेऽन्तस्स्थितो नारायण एव भवेत्, इति प्रतिज्ञावाक्यद्वया र्थः । तत्र हेतुमाह—'प्रसिद्धत्वात्' इति । 'अस्यार्थस्य' रुद्रे उग्रशब्दवाच्यत्वरूपार्थस्य 'प्रसिद्धत्वात्', “उग्रः कपर्दी” इत्या दिकोशप्रसिद्धत्वात्, उग्रशब्देन रुद्रशब्दार्थस्य क्रौर्यस्य ज्ञापितत्वा च्चेत्यर्थः । रुद्रो रौद्र उग्र इत्येतेषामेकार्थत्वादिति भावः । एवं समुद्र शायित्वरूपार्थस्य “महोदधिशयोऽन्तः” इत्यादिविष्णुसहस्रनामप्र सिद्धत्वात् समुद्रेऽन्तःस्थत्वकथनेन “आपो नाराः” इति स्मृतिसि द्धनारशब्दोदितोदकाश्रयत्वरूपनारायणशब्दार्थस्य 'सूचितत्वाच्च' इत्यर्थः ॥ (९९) ननु प्रसिद्धादिसद्भावेऽपि तत्परित्यागेनान्यस्वीकारे किं बाधकमित्यत आह—'न च' इति । अर्थस्येत्येतद्विपरिणामेनात्र स म्बध्यते । तथा च चो यतोऽयमर्थः 'प्रसिद्धः' अतो 'अविरोधे' प्रमाण विरोधाभावे 'न परित्यज्यते' न त्यज्यत इत्यर्थः, प्रसिद्धार्थस्य विरो धैकापोद्यत्वात्, अन्यथा प्रसिद्धिबाधादिति भावः । “आकाशादेव समुत्पद्यन्ते” (छां.उ.१-९-१.) “जनितोत विष्णोः” (ऋ.सं.९-९६-५.) “नकिरिन्द्र त्वदुत्तरः” (ऋ.४-३०-१.) इत्यादौ व्यभिचारवारणाया विरोध इति । ननु विरोधाभावोऽसिद्धः, यतोऽत्र यदि रुद्रो लक्ष्म्यधी नतयोग्रपदेनोच्यते तर्हि “विश्वाधिको रुद्रः” इत्यादिश्रुतिविरोधः स्यात् अतोऽत्र तत्परित्यागो युक्त इत्यत आह—'उक्त' इति । करणव्यु त्पत्त्या न्यायः प्रमाणम् । तथा च-यतो “नामानि विश्वा” (भालुवेयश्रु तिः) इत्याद्युक्तागमेन, तदुक्तोत्पत्तिमत्प्रवृत्तिनिमित्तमत्त्वाद्यनुमानेन, चशब्दसमुचितैः “वेदे रामायणे चैव” इति वक्ष्यमाणप्रमाणैश्च सा
[ अधि - १. सू - १. ] दीपिकासहितम्. ४५ ( १०० ) वेदे रामायणे चैव पुराणे भारते तथा । ( १०१ ) आदावन्ते च मध्ये च विष्णुस्सर्वत्र गीयते ॥ ( १०२ ) इति हरिवंशेषु । न चेतरग्रन्थविरोधः, ( १०३ ) एष मोहं सृजाम्याशु यो जनान्मोहयिष्यति । धकैः 'श्रुतयो' “विश्वाधिको रुद्रः” (महाना. १०-३.) इत्याद्यागमाः रुद्रादिपदानां विष्णुवाचित्वमाश्रित्य वा, विश्वो वायुः अधिको यस्मा द्विश्वाधिक इत्यर्थाश्रयणेन वा 'एतमेव' विष्णुमेव 'वदन्ति' तात्पर्यतः प्राधान्येन बोधयन्ति इत्यवगम्यते । अतो न “विश्वाधिकः” इत्या दिश्रुतिविरोध इति योजना ॥ ( १०० ) श्रुतीनां विष्ण्वेकवाचित्वे स्मृतिं चाह—'वेदे' इति । विष्णुरेव 'वेदे रामायणे च पुराणे तथा भारते' ॥ ( १०१ ) किं बहुना 'सर्वत्र' सर्वग्रन्थेषु 'गीयते' प्रतिपाद्यते । ते ष्वपि न भागे, किन्त्वादौ मध्ये अन्ते च, कर्मादिकाण्डत्रयेऽपि, उपक्रमोपसंहारयोरवान्तरप्रकरणेषु च, सर्वत्र प्रतिवाक्यं प्रतिपदं प्रत्यक्षरं च मुख्यतः प्रतिपाद्यत इत्यर्थः ॥ ( १०२ ) 'वेद' इति वचनस्य खिलाखिलपारिजाताख्यहरिवंश भागत्रयगतत्वसूचनाय 'हरिवंशेषु' इति बहुवचनम् । हरिवंशेष्वि त्यनन्तरं 'यदुक्तं' इति शेषः, तस्यातो न विरोध इति, हरिवंशेषू क्तन्यायेन उक्तरीत्या इति वाऽन्वयः । ननु प्रमाणविरोधाभावोऽसि द्धः, यतः श्रुतिविरोधाभावेऽप्यस्ति पाशुपतादिशास्त्रविरोधः, तत्र रुद्रादीनां सर्वोत्तमत्वस्य सर्वकारणत्वस्य चोक्तेः इत्यत आह— 'न च' इति । चोऽप्यर्थः । न केवलं श्रुतिविरोधाभावः, अपितर्हीतर विरोधोऽपि नेति । 'अस्यार्थस्य' इति वर्तते ॥ ( १०३ ) कुत इत्यतः तेषां मोहार्थं कृतत्वादिति हेत्वध्याहारमभि प्रेत्य तस्यासिद्धिं प्रमाणोदाहरणेन निराह—'एष' इति । रुद्रं प्रति विष्णुवाक्यमेतत् । मुह्यतेऽनेन जन इति 'मोहो' नटनं वञ्चनं वा । 'मोहो' मोहकारणमनादिकर्मवासनारूपमिति तत्त्वप्रदीपोक्तेरप्यय मेवार्थः, मोहकशास्त्रमिति व्यासतीर्थीयोक्तेः । न च अस्य 'न मोह शास्त्रस्य वक्ता विष्णुराशङ्क्यः, “अजस्यावक्रचेतसः” (क.उ.५-१०.) इति हि श्रुतिः' इति तत्त्वप्रदीपविरोधः शङ्क्यः, असत्तामित्यभिप्राया
४६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( १०४ ) त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ ( १०५ ) अतथ्यानि वितथ्यानि दर्शयस्व महाभुज । ( १०६ ) प्रकाशं कुरु चात्मानमप्रकाशं च मां कुरु ॥ ( १०७ ) इति वाराहवचनात् । शैवे च स्कान्दे— त् । विद्यमानाकाराच्छादनेनाविद्यमानाकारप्रदर्शनं नटनम् । अविद्य- मानकथनं वञ्चनम् । सृजामीत्युत्तमपुरुषप्रयोगादहमिति कर्ता लभ्य- ते । चशब्दः क्रियाकर्तृसमुच्चये । 'पूर्वश्रुतस्यैतच्छब्दस्य पश्चात् श्रुतो यच्छब्दो विशेषणं' इति न्यायदीपोक्तेः य एष इति योजना । तथा च अहं 'मोहं सृजामि' करोमि । 'य एष' मोहः 'जनान् मोहयिष्य- ति' अज्ञानमिथ्याज्ञानादिकं प्रापयिष्यति ॥ ( १०४ ) परबाधकत्वात् बाहुः प्राण्यङ्गं, महान् बाहुर्यस्य सः, तस्य सम्बुद्धिः हे 'महाबाहो' शत्रुबाधकाङ्गयुक्त 'रुद्र' 'त्वं च' मोहं सृज 'मोहशास्त्राणि' च 'कारय' कुरु, दधीच्यादिभिश्च कारय । हे 'महाभुज' महाभक्षक महाकुटिलेति वा हे रुद्र ॥ ( १०५ ) तेष्विति शेषः तथा च—'तेषु' मोहशास्त्रेषु 'अतथ्यानि' क्वाप्यविद्यमानानि लिङ्गमूलान्वेषणादीनि 'वितथ्यानि' व्यधिकरण- त्वेन विद्यमानानि विष्णुनिष्ठानि वायुनिष्ठानि वा रुद्रादिनिष्ठतयो- च्यमानानि सर्वोत्तमत्वसर्वस्वातन्त्र्यविषभक्षणादीनि 'दर्शयस्व' प्रतिपादयेति यावत् ॥ ( १०६ ) 'मां आत्मानं' इत्युद्देश्यद्वितीयान्तं । परस्परसमुच्चये च शब्दौ । तथा च—लोकेषु 'आत्मानं' स्वात्मानमुद्दिश्य 'प्रकाशं' प्र- सिद्धिं 'कुरु' । न केवलमेतावत, किन्तु 'मां' उद्दिश्य 'अप्रकाशं' अप्रसिद्धिं च कुर्वित्यर्थः । केचित्तु-प्रकाशोऽस्यास्तीति प्रकाशमिति अर्शाआद्यजन्तत्वमाश्रित्य उद्देश्यद्वितीयानाश्रयणेन प्रकाशं प्रसिद्ध- मिति व्याचक्षते ॥ ( १०७ ) 'वाराहवचनात्' इत्यस्येतरेषां मोहार्थं कृतत्वावगमादि- ति हेतुमुखेन 'न चेतर' इति प्रतिज्ञावाक्येनान्वयः । लिङ्गमूलान्वेष- णकथा तु—पूर्वं जगत्कर्तृत्वविषये विष्णुविरिञ्चयोर्विवादोऽभूत् अह- मेव जगतः कर्ता न मत्तोऽन्यः इति । एतस्मिन्नन्तरे तयोर्गर्वविनाशाय तन्मध्ये किञ्चन लिङ्गमुद्भूत । तौ तत् दृष्ट्वा सर्वदेवसन्निधौ परस्प- रं समयं चक्रतुः । तत्र ब्रह्मा विष्णुमाह—आवयोर्मध्येऽस्य लिङ्गस्य
[ अधि - १०. सू - १० ] दीपिकासहितम्. ४७ ( १०८ ) श्वपचादपि कष्टत्वं ब्रह्मेशानादयस्सुराः । ( १०९ ) तदैवाच्युत यान्त्येव यदैव त्वं पराङ्मुखः ॥ इति ॥ ( ११० ) ब्राह्मे च ब्रह्मवैवर्ते— ( १११ ) नाहं न च शिवोऽन्ये च तच्छक्त्येकांशभागिनः ॥ ( ११२ ) बालः क्रीडनकैर्यद्वत् क्रीडतेऽस्माभिरच्युतः ॥ इति । योऽन्तमादिं च गच्छति स भवेदधिको लोके, लोककर्ता च स प्र- भुः । तस्माद्धे विष्णो त्वं लिङ्गस्य मूलगवेषणायध्रस्ताद्व्रज, अहम् न्तगवेषणाय ऊर्ध्वं गमिष्यामि इति । एवं तौ समयं कृत्वा मार्गमा- णौ निर्गतौ । तत्र विष्णुर्वराहरूपेणाधस्ताद्गवेषितुं ययौ । वाणीजानि- स्तु हंसरूपेणोर्ध्वं ययौ । अथ पुनर्विष्णुः स्वस्थानं समागत्य सर्वदेव- सन्निधौ अहं लिङ्गस्यादिमद्राक्षमिति सत्यं आह । ब्रह्माऽपि समागत्य अहमन्तमद्राक्षमिति छद्मना मृषा आह । अथ लिङ्गरूपी महेश्वरः त- योर्वचः श्रुत्वा हे विष्णो यतस्त्वं सत्यमेवावोचः अतः तव लोके म- त्समा पूजा भविष्यति । ब्रह्मणस्तु नेत्युवाच । ततो ब्रह्मा हे रुद्र म- मानृतोक्तिकृतापराधस्त्वया क्षन्तव्य इत्याह । ततो रुद्रो न मम व- चो मिथ्या भविष्यति । तथाऽपि त्वं मिध्योक्तिकृतदोषपरिहारार्थं गन्धमादनगिरिं व्रज । तत्र ऋतून् कुरुष्व । ततस्तव श्रौतस्मार्तकर्म- स्वेव पूजा भविष्यति । न तु देवालयादिष्वित्युक्त्वाऽन्तरधीयतेत्या- दिरूपा स्कान्दपुराणस्था । ननु तथाऽप्यस्यार्थस्य स्कान्दब्रह्मवैवर्तादि- पुराणविरोधस्स्यात्, तेषां शिवब्रह्मादिपारम्यविषयत्वादित्यत आह —‘शैवे च’ इति । चशब्दोऽप्यर्थस्समुच्चये, यद्यपीत्याद्यर्थे च— ‘शैवे’ शिवोत्कर्षपरेऽपीति, ‘स्कान्दे’ वचनादित्यनुषङ्गोद्योतकश्च । एवमुत्तरत्रापि ॥ ( १०८-१०९ ) हे ‘अच्युत’ ‘यदैव’ यदि च त्वमेव सर्वथा ‘प- राङ्मुखो’ भवसि अनुग्रहं न करोषि ‘तदा’ तर्हि ‘ब्रह्मेशानादयः सुराः’ श्वपचादपि श्वानं पचतीति श्वपचो नीचः तस्मादपि ‘कष्ट- त्वं’ क्लेशयुक्तत्वं कष्टं वा ‘यान्त्येव’ इत्यर्थः । अस्य तर्कत्वात्तस्य विपर्ययपर्यवसाने ब्रह्मादीनां विष्ण्वधीनत्वं अत्यन्ततदनुग्रहपात्रत्वं च सिद्ध्यतीति न प्रमाणविरोधः । इतिशब्दस्य ‘इति स्कान्दे’ इत्यन्वयः॥ ( ११०-११२ ) ‘ब्राह्मे’ ब्रह्मविषये । अत्र ‘अहं’ इति चतुर्मुख उच्य
४८ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (११३) न च वैष्णवेषु तथा। तच्च “एष मोहं” इत्युक्तम् ॥ ते। 'यद्वत्' इति श्रवणात् 'तद्वत्' इति लक्ष्यते। चशब्दौ समुच्चयार्थी। 'अस्माभिः' इत्यत्र शिवश्चान्ये च अहं च वयं तैरित्येकशेषः। तथा च यद्यपि वयं 'तच्छक्त्येकांशभागिनः' तस्याच्युतस्य या शक्तिः साम- र्ध्यं तस्यैकांशभागिनो न भवामः तथाऽपि 'यद्वत्' यथा 'बालः क्रीडन- कैः' क्रीडासाधनपदार्थैः 'क्रीडते' 'तद्वत्' तथा 'अच्युतो' हरिरपि 'अ- स्माभिः' करणैः 'क्रीडते' सृष्ट्यादिक्रीडां करोतीत्यर्थः। पुनर्न चेत्युक्तिः तात्पर्यार्था, 'ना' पुरुष इति वा। इतिशब्दस्य इति ब्रह्मवैवर्ते इत्यन्व- यः। 'स्कान्दे' 'ब्रह्मवैवर्ते' इत्यनयोः 'वचनात्' इतिपदद्वारा 'न चेतर- ग्रन्थविरोधः' इत्यनेनान्वयः। तथा च तेषां शैवादित्वेऽपि न विरो- धित्वम्, तत्राऽपि विष्णूत्तमत्वादेरप्युक्त्या स्वविरोधेन शिवाद्युत्क- र्षेऽप्रामाण्यात्। न च विपरीतं किं न स्यादिति वाच्यम्, शिवाद्युत्क- र्षादेः शैवादिपुराणेष्वेवासाधारण्येन प्राप्तत्वात्, तत्रैव विष्णूत्कर्षो- क्तौ तत्र प्रामाण्यस्य शिवाद्युत्कर्षादावप्रामाण्यस्य च निश्चयेन वैप- रीत्यायोगात्। तस्मात्पाशुपतादिपरिकल्पितशिवाद्युत्तमत्वपरिपाटी- दर्शनभाषया तेषूपन्यस्यत इति न तद्विरोध इति भावः ॥ (११३) तथाऽपि विष्णूत्तमत्वरुद्राधमत्वयोर्वैष्णवग्रन्थविरोधोऽ स्तीत्यत आह—'न च' इति। समुच्चये चशब्दः। तथा च—'वै- ष्णवेषु' विष्णुविषयपुराणादिष्वपि 'तथा' विष्णोरन्यस्योत्तमत्वमु- क्तं न, अत एव 'तथा' शैववत् सर्वोत्तमत्वाधमत्वविषये विरोधो ने- त्यर्थः, येन स्वविरोधेन स्वविषयेऽप्रामाण्यं स्यादिति भावः। तर्हि वैष्णवेषु रामकृष्णादिविष्णुकर्तृकशिवस्तुत्यादि कथमुच्यत इत्यत आह—'तच्च' इति। चस्त्वर्थः। वचनादित्यनुवर्तते। तदित्यस्यावृ- त्तिः। तथा च–चो यतो वैष्णवेषु यच्छिवस्तुत्याद्युच्यते तत्तु 'एष मोहं' इति वचनाज्ज्ञातेन तेन मोहार्थत्वेन 'उक्तं' प्रत्युक्तं समाहि- तं इत्युक्तमित्यर्थः। अस्य 'अतो न तद्विरोधः' इत्यध्याहृतेनान्वयः॥ ॥ इति जिज्ञासाधिकरणम् ॥ ───※───
[ अधि - २. सू - २. ] दीपिका सहितम्. ४९ २. अधिकरणम् ॥ —§*§— ( १ ) ब्रह्मणो लक्षणमाह— सू—ॐ ॥ जन्माद्यस्य यतः ॥ ॐ ॥ २ ॥ सृष्टिस्थितिसंहारनियमनज्ञानाज्ञानबन्धमोक्षा यतः । २. अधिकरणम् ॥ —:§:— ( १ ) एतदधिकरणप्रतिपाद्यं दर्शयति—‘ब्रह्मणः’ इति । निर्बाध रूढिबलात् जीव एवेदं ब्रह्म, तस्य चासन्दिग्धत्वान्न जिज्ञास्यत्वमि ति प्राप्ते तन्निराकर्तुं ब्रह्मशब्देन जीवग्रहणे बाधकरूपं श्रुत्युक्तं जि ज्ञास्यब्रह्मणो लक्षणमाह सूत्रकार इत्यर्थः । “श्रुत्युक्तं लक्षणमाह” इति टीकया “सा विष्णोर्ब्रह्मत्वविधात्री तैत्तिरीयश्रुतिर्यानि तस्य लक्ष णान्याह तान्यनेन सूत्रेण भगवानाह” इति तत्त्वप्रदीपोक्तेः तच्छब्दा ध्याहारेण भाष्यार्थ उक्तः । अत एव लक्षणमिति समुदायैकवचनमि ति ज्ञातव्यम् । अनेन पूर्वत्र विवक्षितब्रह्मजिज्ञासाक्षेपेणेह पूर्वपक्षो त्थानात् पूर्वाधिकरणेनास्याक्षेपिकी सङ्गतिरुक्ता भवति । ब्रह्मविषय त्वाच्छास्त्रसङ्गतिः सिद्धैव । यद्यपि ‘ब्रह्मशब्दश्च विष्णावेव’ इत्यने न ब्रह्मशब्दो विष्णावेव मुख्य इत्युक्तम् । तथापि भाष्यकारैरुक्तत्वेऽ पि सूत्रकृतानुक्तत्वात् ब्रह्म किं जीव उत विष्णुरिति भवत्येव सन्दे हः । सूत्रं पठति—‘जन्म’ इति । यत इत्युक्तेस्तद्ब्रह्मेति प्रकृतं भवती ति शेषः । यद्वा—“जन्माद्यस्य यत इति सूत्रे श्रुतमिति वाक्यशेषः” इति सुधोक्तेः श्रुतमिति वाक्यशेषः । जन्म आदिर्यस्य सृष्ट्यादिसमु दायस्य तज्जन्मादीति तद्गुणसंविज्ञानबहुव्रीहिः, तस्य समासार्थैकदे शस्य जन्मनो गुणत्वेन विशेषणत्वेन संविज्ञानात् । तथा च—‘अ स्य’ प्रमितस्य जगतो ‘जन्मादि यतो’ भवति श्रुतमिति वा तद्ब्रह्मे ति सूत्रार्थ इत्यभिप्रेत्य अस्य जगतो जन्म आदिपदोक्ते स्थितिसंहृती यतस्तद्ब्रह्मेत्याद्यन्यथाप्रतीतिवारणाय सूत्रं यथावद्व्याचष्टे—‘सृष्टि’इ ति । अत्र प्रयोजकव्यापारवाचिसृष्टिसंहारनियमनशब्दैर्लक्षणया प्रप ७
५० ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) उत्पत्तिस्थितिसंहारा नियतिर्ज्ञानमावृतिः । बन्धमोक्षौ च पुरुषाद्यस्मात्स हरिरेकराट् ॥ इति । स्कान्दे । ( ३ ) "यतो वा इमानि भूतानि जायन्ते । येन जातानि जीवन्ति । यत्प्रयन्त्यभिसंविशन्ति । तद्विजिज्ञास स्व । तद्ब्रह्मेति" ॥ ( तै. उ. ३-१. ) उच्चनिष्टजन्मनाशनियम्यत्वरूपप्रयोज्यव्यापाराः प्रतिपाद्यन्ते । लक्ष णाप्रयोजनं ब्रह्मण उपादानत्वाभावप्रदर्शनमिति चन्द्रिकोक्तिः । सृ ष्ट्यादीनामष्टानां च प्रत्येकं लक्षणत्वं, न तु समुदितवेषेण, अतिव्या प्त्यद्यभावात् । एतच्च लक्षणमनन्तगुणपूर्णत्वस्याप्युपलक्षकम् । एके नोपलक्षणसम्भवेऽपि मुमुक्षुज्ञेयत्वात्सार्थकमष्टानां वचनम् । यथोक्तं श्रीमन्महाभारत
[ अधि - २. सू - २. ] दीपिका सहितम्. ५१ ( ४ ) य उ त्रिधातु पृथिवीमुत द्यां एको दाधार भुवनानि विश्वा ॥ ( ऋ. सं. १-१५४-४. ) चतुर्भिस्साकं नवतिं च नामभिः चक्रं न वृत्तं व्यतीँरवीविपत् ॥ ( ऋ. सं. १-१५५-६. ) च—‘इमानि भूतानि यतो जायन्ते येन जातानि’ उत्पन्नानि ‘जीव न्ति’ प्राणं दधति ‘यत्’ च प्रलये ‘प्रयन्ति’ प्रविशन्ति यच्च ‘अ भि’ स्वेच्छया सम्यक् ‘विशन्ति’ मुक्तौ ‘तत्’ तदेव ‘ब्रह्म’ ना न्यत् । मुख्यतः तज्ज्ञानाय वेदार्थभूतं ‘तद्विजिज्ञासस्व’ तद्विषयक विचारं कुर्वित्यर्थः । इतिशब्दः श्रुतिस्थ एव । तस्य ‘इति वरुणो भृ गुमुवाच’ इति क्रियापदेनान्वयः ॥ ( ४ ) लक्षणस्यातिव्याप्तिशङ्कां उक्तानुमानस्य व्यभिचारशङ्कां वा परिहर्तुं स्पष्टार्थत्वात्प्रथमं स्मृतिमुपन्यस्य इदानीं सृष्ट्यादिकर्तृत्वं प्रत्येकमपि विष्णवेकनिष्ठं किमु सर्वमिति भावेन स्थितिकर्तृत्वस्य विष्णवेकनिष्ठत्वे श्रुतिमाह—‘यः’ इति । उशब्द एवार्थः, त्रिधात्वित्ये कं पदं, उतशब्दस्समुच्चये । तथा च—‘यो’ विष्णुः ‘एकः’ एव ‘त्रि धातु’ प्रकृतिपुरुषकालधारकः ‘पृथिवीं’ भूमिं ‘द्यां’ श्रियं च ‘वि श्वा’ विश्वानि सर्वाणि च ‘भुवनानि’ ‘दाधार’ दधारेत्यर्थः । नियम नस्यापि विष्णवेककर्तृत्वे श्रुतिमाह—‘चतुर्भिः’ इति । स इति शेषः, नशब्द इवार्थः, चशब्दो मात्रार्थः । तथा च—स बृहच्छरीरो मूलरूपी विष्णुः ‘नामभिश्च’ नाममात्रैः स्वरूपभेदशून्यैः ‘चतुर्भिः’ वासुदेव सङ्कर्षणप्रद्युम्नानिरुद्धैः ‘साकं नवतिं’ नवतिसङ्ख्याकान् ‘व्यतीन्’— देवेषु यौगिकोयं शब्दः—विशेषेणाधिकान् देवान् किमुतान्यान् ‘वृत्तं चक्रं न’ वर्तुलं रथाङ्गमिव युगपत् ‘अवीविपत्’, विपपरिवर्तन इति धातुः, पर्यवर्तयदित्यर्थः । अष्टौ वसवः एकादश रुद्राः विष्णुव्यतिरि क्तैकादशादित्याः हिरण्यगर्भेण सह दश प्रजेश्वराः प्रधानेन पञ्चाश न्मरुत इति नवतिः । तत्त्वप्रदीपे तु—प्रथमं टीकोक्तार्थमभिधाय— आदित्या वसवो रुद्रा मरुतश्चाश्विनावपि । बृहस्पतिश्च कामश्च मनुर्दक्षो विनायकः । भृगुश्चैवानिरुद्धश्च धर्मो निर्ऋतिरेव च । कुबेरसहिता देवाः नवतिस्सम्प्रकीर्तिताः ।
५२ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (५) परो मात्रया तन्वा वृधान न ते महित्वमन्वश्नुवन्ति । न ते विष्णो जायमानो न जातो देवमहिम्नः परमन्तमाप ॥ ( ऋ. सं. ७-९९-१२. ) अनन्तो गरुडो वायुः चत्वारो ब्रह्मणा सह ॥ इति प्रमाणानुसारेण प्रकारान्तरेण चतुरुत्तरनवतिरुक्ता । तत्रैव ना मवद्भिः कीर्तिमाद्भिरिति च व्याख्यातम् । (५) एतेषां लक्षणानामतिव्याप्तिं विष्णवेकनिष्ठत्वोक्त्या स्मृत्या चार्थात् परिहृतामपि साक्षादन्यत्र लक्षणाभावं प्रतिपादयन्त्या श्रुत्या निराह—‘परः’ इति । विष्णावित्याकृष्यते । तत्वोद्योतटीकोक्तरीत्या मुक्ता अमुक्ताश्चेति शेषः । अत एव टीकायां क इत्युक्तम् । तथा च- ‘तन्वा’ स्वमूर्त्यैव न तु कीर्तिमात्रेण ‘वृधान’ अपरिच्छिन्न हे वि- ष्णो त्वं यतो ‘मात्रया’ मितेः ‘परः’ विलक्षणोऽसि अपरिमितोऽसी- ति यावत् । अत एवंभूतस्य ‘ते महित्वं’ जगत्सृष्ट्यादिरूपं महिमा- नं’ ‘अनु’ अपि केऽपि मुक्ता अमुक्ताश्च ‘नाश्नुवन्ति’ न प्राप्नुव- न्तीत्यर्थः । यद्वा—‘नाश्नुवन्ति’ नानुभवन्तीत्यर्थः । नाश्नुवन्तीति वर्तमाननिषेधात् स्यादुत्तरत्रेत्यत आह—‘न’ इति । प्राप्नोतीति शे- षः । तथा च—हे ‘विष्णो’ ‘देवमहिम्नः’ रमादिमहिम्नः ‘परं अन्तं’ सीमानं महिमतारतम्यपरावधिभूतं ‘ते महित्वं’ महिमानं ‘जायमा- नो’ न प्राप्नोति, जातो ‘नाप’ इत्यर्थः । उपलक्षणं चैतत् जनिष्यमा- णो न प्राप्स्यतीत्यपि द्रष्टव्यम् । अत एव तत्त्वप्रदीपे—“परो मात्रया तन्वा वृधान । न ते महित्वमन्वश्नुवन्ति । उभे ते विद्म रजसी पृथि- व्या विष्णो देवत्वं परमस्य वित्से । न ते विष्णो जायमानो न जा- तो देवमहिम्नः परमन्तमाप । उदस्तम्भा नाकमृष्वं बृहन्तं दाधर्थ प्रा- चीं ककुभं पृथिव्याः” इति ऋग्द्वयमेवमेव व्याख्यातम् । तथा हि—मा- त्रायाः परः परिमाणातीतः तन्वा वृधानः तन्वा वर्धमानः देहेन पू- र्णः—इत्थं भावे तृतीया—देहरूपेण पूर्ण इत्यर्थः । यतश्चिदानन्दाद्या- त्मको विष्णोरभिन्नश्च देहः । ते महित्वं महिमानं नानुभवन्ति न प्रा- प्नुवन्ति च । ते त्वदीयायाः पृथिव्याः प्रकृतेः रजसी रजोगुणकार्ये उभे पुण्यपापे वयं विद्मः । प्रकृतेः रजसा हि पुण्यपापे सृज्येते । पर
[ अधि - ३. सू - ३. ] दीपिकासहितम्. ५३ ( ६ ) यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ॥ ( ऋ. सं. १०-८२-३. ) इत्यादि च ॥ २ ॥ —: ❖ :— ३. अधिकरणम् ॥ ( १ ) अनुमानतोऽन्ये न कल्पनीयाः । सू—ॐ ॥ शास्त्रयोनित्वात् ॥ ॐ ॥ ३ ॥ मस्य ते महिमानं त्वमेव वित्से । त्वमेव महिम्नः महिमसमुदायस्या न्तं ब्रह्मणः श्रियो वा महिमानमतिशयितो हि विष्णुमहिमा अन्यम हिम्नां परं अन्तं ते महिमानं न कश्चिदाप । यन्नाकं नास्ति तन्नाकम् । ऋष्वं प्रकाशरूपम् । बृहन्तं पूर्णं लोकं उदस्तभाः उदस्तम्भः उच्चैर स्तम्भयः । पृथिव्याः पृथिव्यात्मकस्य ब्रह्माण्डस्य प्राचीं ककुभं दि शं इन्द्रस्थापनेन दाधर्थ धृतवानसि । सर्वधारणोपलक्षणमेतदिति । ( ६ ) जगत्कारणत्वं च ब्रह्मणो न विकारित्वेन, किन्तु पितृत्वन्निमि त्त्वेनैवेति श्रुत्या दर्शयति,— 'यः' इति । 'यः' एक एव 'नः' अस्म दादिसर्वेषां 'जनिता' जनयितैव 'पिता' न दत्तपुत्रपितृत्वत् पालकपि तृमात्रम् । यद्वा—" स एव पितृसंस्थस्तुपातृत्वात्पितृनामकः " इत्यै तरेयभाष्यादिशा " पिता पाता " इति तत्त्वप्रदीपोक्तेः ' जनिता ' जन कः 'पिता' पाता चेत्यर्थः । 'यो विधाता' विशेषेण धारकः पोषकः, “मुक्तानां पोषणं च ज्ञानमोक्षदानेन ” इति तत्त्वप्रदीपोक्तेः । "विधा ता कर्ता" इति प्रमेयदीपोक्तिः । तस्या धारणपोषणयोरिति भावः । यो 'विश्वा' विश्वानि सर्वाणि भुवनानि तद्गत 'धामानि' गृहाणि जीवादिस्वरूपाणि च 'वेद' जानातीत्यर्थः । 'इत्यादि' इति वाक्यं 'उक्तार्थे प्रमाणं' इति शेषः । आदिशब्देन एतज्जातीयकश्रुत्यन्तरं "द्यावाभूमी जनयन्" इति च गृह्यते ॥ २ ॥ ॥ इति जन्माधिकरणम् ॥ —: ❖ :— ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे पूर्वोक्तजगज्जन्मादिकारणत्वरूपब्रह्मलक्षणस्य रुद्रादिष्वतिव्याप्तिपरिहाराय जगत्कारणे प्रमाणमुच्यते । सिद्धान्तप्र तिज्ञामुपस्कृत्य दर्शयति—'अनुमानतः' इति । कारणत्वेनेति शेषः
५४ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] ( २ ) “नावेदविन्मनुते तं बृहन्तं । सर्वानुभुमात्मानꣲ साम्पराये” ( तै. ब्रा. ३-१२-९. ) “औपनिषदः पुरुषः” ( ) इत्यादि श्रुतिभ्यश्च । तथा च—शिवो जगज्जन्मादिकर्ता सर्वज्ञत्वात् व्यतिरेकेण यज्ञदत्तव त् इत्याद्यनुमानात् विष्णोः 'अन्ये' रुद्रादयोऽपि जगत्कारणत्वेन 'न कल्पनीयाः' न शङ्कया इत्यर्थः । कुत इत्यतस्तत्र हेत्वाकाङ्क्षायां सूत्रमु पन्यस्यति—'शास्त्रयोनित्वात्' इति । जगत्कारणस्येति शेषः । “त न्निर्धारितयुक्तिर्वा” इत्यनुव्याख्यापदे “तन्निर्धारितेत्यतः परं व्याप्ति शब्दोऽध्याहार्यः” इति सुधोक्तेर्यथा तत्र मध्येऽध्याहारः, यथा वा “सर्वेन्द्रियविवर्जितत्वाद्यर्थ उक्तः” इति गीताभाष्यप्रमेयदीपे आ दीत्यतः परं शब्दशब्दोऽध्याहार्य इत्युक्तेस्तत्र यथामध्येऽध्याहारः, य था वा “पुरुषाङ्गश्वविकारसमूहेतेनकृतेषु” इति महाभाष्यवाक्ये समासमध्ये तेनेति पदाध्याहारः, तथाऽत्रापि शास्त्रशब्दात्परमेकश ब्दोऽध्याहार्यः योनिशब्दात्प्राक् ज्ञप्तिशब्दश्च । तथा च—ऋगादिरूपं शास्त्रं च तदेकमसहायं च ज्ञप्तियोनिर्ज्ञप्तिकारणं यस्य वस्तुनः तत्त थोक्तं तस्य भावस्तत्त्वं तस्मादितिसूत्रार्थः । अनेन न जगत्कारणमानु मानिकं तस्य शास्त्रैकसमधिगम्यत्वात् धर्मादिवत् इत्यनुमानमुक्तं भव ति । न च दृष्टान्ते साध्यवैकल्यम् । न हि धर्मादिनिश्चयोऽनुमानेन भ वति । तथा च—अनुमानादन्येषां जगत्कारणतासाधनमयुक्तमिति न तेषु लक्षणस्यातिव्याप्तिरिति भावः ॥ ( २ ) कारणस्य शास्त्रैकवेद्यत्वं कुत इत्यत आह—'न' इति । तै त्तिरीयवाक्यमिदम् । अत्र ह्रस्वोकारपाठः । 'औपनिषदः' इति श्रुत्य न्तरम् । अत्राङः प्रश्लेषः कार्यः । आदिशब्देन “सर्वेवेदा यत्पदं” ( कठ. उ. २-१५ ) “वेदाह्येनं” ( भाल्लवेयं ) “तं त्वौपनिषदं पुरुषं पृच्छामि” ( बृ. उ. ३-९-२६ ) इति वाक्यं च गृह्यते । ‘तं’ पूर्वप्रकृतं ‘बृहन्तं’ पूर्णं ‘सर्वानुभुं’ सर्वमनुभवतीति सर्वा नुभूः तं सर्वज्ञम् । यद्वा—सर्वमनुभावयतीति सर्वानुभुस्तं आत्मानं सर्वजगत्कर्तारं सर्वस्वामिनं वा । 'साम्पराये' सम्यक्परस्याव्यः प्रा प्तिः सम्परायः स एव साम्परायः, तदर्थ्ये सप्तमी, तथा च मोक्षाय। ‘अवेदवित्’—विष्णुतत्त्वनिर्णयटीकोक्तरीत्या अत्र वेदशब्देन सदा
[ अधि - ३. सू - ३. ] दीपिका सहितम्. ५५ ( ३ ) न चानुमानस्य नियतप्रामाण्यम् । श्रुतिसाहाय्यरहितमनुमानं न कुत्राचित् । निश्चयात्साधयेदर्थं प्रमाणान्तरमेव च ॥ गमा गृह्यन्ते । तथाच सदागमतदर्थाज्ञानी वेदविरुद्धज्ञानी वा न मनुते' न जानाति, वेदादन्यत् जगत्कर्तारं न प्रमापयतीति यावत् । किन्तु वेदविदेव जानाति वेद एव प्रमापयतीति प्रथमश्रुत्यर्थः । पुरु षो जगत्कर्ता स औपनिषदः उपनिषदेकसमधिगम्य इत्यन्यश्रुत्यर्थः । गम्यत्वं ग्राह्यत्वं तद्धितार्थः । आदिशब्दोपात्तश्रुत्यपेक्षया 'श्रुतिभ्य श्च' इति बहुवचनम् । चशब्दोऽध्याहृतसाध्यसमुच्चये, स्वोक्तिसमु च्चये वा । अस्य शास्त्रयोनित्वादित्यनेनान्वयः । कारणस्येति शेषः । तथाचैवमादिश्रुतिभ्यः कारणस्य शास्त्रैकयोनित्वावगमात् नासिद्धि रिति भावः । नञ्द्वयाऽघटितश्रुत्युदाहरणेन सूत्र एकशब्दोऽध्याहा र्य इति सूचितम् ॥ ( ३ ) औपनिषदस्यापि कारणस्यानुमानेन सिद्धिः । किं न स्या दित्यत आह—'न च' इति । चोऽवधारणे । तथा च—'अनुमानस्य' अनुमानमात्रस्य 'प्रामाण्यं' अतीन्द्रियार्थप्रमापकत्वं नेत्यर्थः । तथा च—न तेनान्यस्य जगत्कर्तृतासाधनं युक्तमिति भावः । ननु कथमेत त् 'सर्वधर्मोपपत्तेश्च' (सू. २-१-३८.) इत्याधिकरणे स्वातन्त्र्यादिहे तुना विष्णोः पूर्णत्वादिसिद्ध्यङ्गीकारादित्यत उक्तम्—'नियत' इति। इदं च स्वातन्त्र्यार्थकं प्रमाणरूपप्रकृत्यर्थविशेषणम् । अनुमानस्येति हेतुगर्भम् । तथा च—अनुमानत्वादेव न तस्य स्वातन्त्र्येणादृष्टार्थनि श्चायकत्वं, प्रतिपक्षादिसम्भवात्, किन्त्वस्वातन्त्र्येण । स्वातन्त्र्यं च सहायराहित्यम् । तच्च न स्वातन्त्र्यादिहेतावस्ति श्रुतिसहितत्वात् । पू र्वपक्ष्याशङ्कितसर्वज्ञत्वकार्यत्वाद्यनुमानस्य तु श्रुतिसाहाय्यरहितत्वेन स्वतन्त्रत्वान्न प्रमाणत्वमिति भावः । कुतो नानुमानस्य नियतप्रामा ण्यमित्यत आह—'श्रुति' इति । स्मृतेरप्युपलक्षकमेतत् । अत्र सहाय शब्दो मूलवाची । तस्मात्स्वार्थे ष्यञ् । श्रुतिश्च तत्साहाय्यं चेति कर्म धारयः, ततस्तेन रहितमिति तत्पुरुषः । श्रुत्यनुग्राह्यत्वरहितमिति या वत् । चः समुच्चये । एवशब्दो भिन्नक्रमः । तथा च—'कुत्राचित्' अ
५६ ब्रह्मसूत्रभाष्यम्. [ अध्या - १. पा - १. ] (४) श्रुतिस्मृतिसहायं यत् प्रमाणान्तरमुत्तमम् । प्रमाणपदवीं गच्छेन्नात्र कार्या विचारणा ॥ (५) पूर्वोत्तराविरोधेन कोऽत्रार्थोऽभिमतो भवेत् । इत्याद्यमूहनं तर्कः शुष्कतर्कं तु वर्जयेत् ॥ इत्यादि महाकौर्मे । स्मदाद्यदृष्टे श्रौतेऽर्थे 'श्रुतिसाहाय्यरहितमनुमानं' ईश्वरो न स्वतन्त्रः चेतनत्वादित्यादि लिङ्गम्, तथा यज्ञहिंसाऽधर्मत्वानुमानं च तथा 'प्र माणान्तरं' अनुमानादन्यत् रामकृष्णांशे दोषग्राहि मानुषत्वग्राहि च प्रत्यक्षं 'निश्चयात्' स्फुटमऽतीन्द्रियार्थं 'न साधयेत्' इति योजना । यद्वा—अर्थ निश्चयान्न साधयेन्न साधयेदेवेत्यर्थः । उक्तं हि गीताभा ष्ये—“स निश्चयेन योक्तव्यः योक्तव्य एव बुभूषुणेत्यर्थः” इति । उ क्तं हि प्रमेयदीपिकायाम् “अयोगव्यवच्छेदे निश्चयशब्दः” इति ॥ (४) तर्हि कीदृशस्य प्रत्यक्षादेरदृष्टार्थनिश्चायकत्वमित्यत आह— 'श्रुति' इति । बहुव्रीहिरयम् । तथा च—श्रुतिस्मृतिरूपसहकारियु क्तं 'यत्प्रमाणान्तरं' यशोदादिप्रत्यक्षं तत् 'उत्तमम्' । अतः तत् 'प्रमाणपदवीं' अनुप्रमाणस्य प्रमाकरणत्वरूपां पद्धतिं 'गच्छेत्' प्रा यादित्यन्वयः । तदिति पाठेऽप्येवमेव योजना । एवं श्रुतिस्मृतिसहा यो यस्तर्कः विष्णुः स्वतन्त्रः पूर्णत्वादिति समव्याप्तिकानुमानं सोऽपि प्रमाणपदवीं गच्छेदित्यन्वयः । 'अत्र' अस्मिन् विषये 'विचारणा' संशयो 'न' कार्यइत्यर्थः । नात्रेत्यनेन स्वोक्तार्थेऽप्रामाण्यशङ्का निराकृता ॥ (५) तर्कपदस्य व्याप्यारोपणेत्याद्यन्यथाप्रतीतिनिरासाय तर्क स्वरूपमाह—'पूर्व' इति । 'अत्र' विप्रतिपन्ने वाक्ये 'कोऽर्थोऽभिम तः' तात्पर्य विषयो 'भवेदित्याद्यं' एवंभूतविमर्शपूर्वकं 'पूर्वोत्तरा विरोधेन' उपक्रमोपसंहाराविरोधेन तदेकरूप्येण-लिङ्गान्तरस्याप्यु पलक्षणमेतत्—तथा च—उपक्रमादितात्पर्यलिङ्गैः अत्र तात्पर्यविष यार्थोऽयमेव भवेदित्याद्यं यत् 'ऊहनं' यत्प्रमाज्ञानं तत्साधनं लिङ्गं स एव 'तर्कः' अत्राभिमतः । 'शुष्कतर्कं' श्रुतिस्मृतिसहायरहितं तन्निरपेक्षं चेतनत्वादि तर्कं तु वर्जयेत्, तेनातीन्द्रियार्थनिश्चयो न