पूर्णप्रज्ञ भाष्य (श्रीमन् मध्वाचार्य - द्वैत वेदान्त ब्रह्मसूत्र महाभाष्य जगन्नाथदीपिका सटीक)
Purnaprajna Bhashya of Sriman Madhvacharya with Commentary
श्रीमन् मध्वाचार्य (टीकाकार: जगन्नाथ यति / गोपालकृष्णाचार्य) द्वारा
-
सू - ४२. ]
or[ अधि - २०. - सू - ४२. ]. Let's just transcribe:[ अधि - २०. - सू - ४२. ] दीपिकासहितम् । ८११or with dots:[ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११`.Let's trace all lines from top to bottom: [ अधि - २०. - सू - ४२. ] दीपिकासहितम्. ८११ कर्म कारयति' (कौ० ३-८.) इति श्रुतेरिति जैमिनिः ॥ ४१ ॥ ( ५ ) सू - ॐ ॥ पूर्वं तु बादरायणो हेतुव्यपदेशात् ॥ ॐ ॥ ४२ ॥ परस्य कर्मणश्चोभयोः फलकारणत्वेऽपि न कर्म पर प्रवर्तकम् । पर एव कर्मणः प्रवर्तकः । 'पुण्येन पुण्यं लोकं नयति पापेन पापम्' (प्र. ३-२.) इति हेतुव्यप ष 'रातिः' इति श्रुतिवचने एतेन फलदातृत्वेन रूपेणोपचर्यत इति । न केवलं कर्मणः फलप्रदत्वमन्वयव्यतिरेकरूपन्यायप्राप्त
९१२ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - २. ] देशात् । ‘द्रव्यं कर्म च कालश्च’ इति च ॥ ४२ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रभाष्ये तृतीयस्याध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥ र्वोक्तचेतनत्वादिति हेतुः ‘द्रव्यम्’ इति स्मृतिश्च समुच्चीयत इत्युक्तं भ वति । ‘पुण्येन’ इति श्रुतिः वैषम्यनये ‘द्रव्यम्’ इति स्मृतिश्च रचना धिकरणे व्याख्याता । अत्र श्रुतेः पुण्येन च ज्ञानमुत्पाद्य पापं विनाशय तस्य पुण्यपापरहितस्य ज्ञानिनः प्रसन्नः स्वयमेव फलमनन्तं हि ददा तीत्यहो भगवतो नारायणस्याश्चर्यरूपोऽयं महिमेति तत्त्वप्रदीपोक्तार्थ विशेषोऽपि ग्राह्यः । कर्मब्रह्मणोः स्वातन्त्र्यास्वातन्त्र्यव्युत्पादनप्रका रश्च तत्रैवोक्तः ॥ २० ॥ ॥ इति फलाधिकरणम् ॥ इति श्रीमत्परमहंसपरिव्राजकाचार्याणां सर्वतन्त्रस्वतन्त्राणां श्रीमद्रघुनाथतीर्थपूज्यपादानां शिष्येण श्रीमज्जगन्ना थयतिना कृतायां श्रीमद्ब्रह्मसूत्रभाष्यदीपिका यां तृतीयाध्यायस्य द्वितीयः पादः. * ॥ ॐ ॥
[ अधि - १०. सू - १. ] दीपिकासहितम्. ८१३ १०. अधिकरणम् ॥ ( १ ) उपासनाऽस्मिन् पादे उच्यते । सर्वपरिज्ञानं प्रथमत उच्यते— सू—ॐ ॥ सर्ववेदान्तप्रत्ययं चोदनाद्यविशेषात् ॥ ॐ ॥ १ ॥ १०. अधिकरणम् ॥ ( १ ) एतत्पादार्थं दर्शयति—उपासनेति ॥ जिज्ञासापरपर्यायोपास ना 'अस्मिन्' तृतीयस्य तृतीये पादे 'उच्यते' कर्तव्यत्वेन प्रतिपाद्यत इत्यर्थः । आद्याधिकरणतात्पर्यमाह-सर्वेति । उपासना द्विविधा । श्रव णमननापरपर्यायशास्त्राभ्यासरूपा ध्यानरूपा चेति । तत्राद्यायाः य थाशक्तिसर्ववेदतदर्थज्ञानरूपाया अज्ञानसंशयविपर्ययनिर्वर्तिकायाः ध्यानाङ्गत्वात् सैव 'प्रथमतः' आद्याधिकरणे 'उच्यते' अधिकारि भिः सम्पाद्यत्वेन प्रतिपाद्यत इत्यर्थः । अत्र भाष्यसुधाटीकासु सर्ववे देति सर्वशाखेति च विशिष्योक्त्या मीमांसकमत इव ऋग्यजुस्साम रूपवेदत्रयस्याध्येतव्यत्वनियमवत्तैत्तिरीयकाण्वादिरूपशाखाद्वयस्य ध्येतव्यत्वनियमो नास्तीति न भ्रमितव्यमिति सूचितम् । अस्मन्मते सर्ववेदसर्वशाखोक्तब्रह्मगुणज्ञानार्थं शक्तैस्सर्ववेदवत्सर्वशाखानां अ ध्येतव्यत्वात् । तदर्थानामपि शक्तैर्ज्ञेयत्वात् । अशक्तैस्तु यथाशक्ति अध्येतव्यत्वात् ज्ञेयत्वाच्च । अत्र किमेकैकेनैव सर्ववेदशाखोक्तं ब्रह्म श्रवणमननाभ्यां ज्ञातव्यं उत स्वस्ववेदशाखोक्तमिति संशये स्वस्ववे दशाखोक्तमेव ज्ञातव्यमिति पूर्वपक्षे च सति सिद्धान्तयत्सूत्रं पठति- सर्वेति । अत्र वेदान्तपदस्योपनिषत्परत्वभ्रान्तिनिवारणाय अन्तपदं व्या चष्टे-अन्त इति । अत्र प्रमाणमाह-उभयोरिति । 'नासतो विद्यते भावो नाभावो विद्यते सतः' ( गी. २-१६. ) इति पूर्वार्धेन असच्छब्दितस्य कारणस्य प्रकृतेः सच्छब्दितस्य ब्रह्मणश्चाभावः प्रागभावः प्रध्वंसश्च न विद्यत इति वेदनित्यत्वसाधकानादिनित्यत्वव्याप्तावनेकदृष्टान्तप्रद र्शनाय तत्रादरपूर्वकं प्रकृतिपरब्रह्मणोरनादिनित्यत्वमभिधाय अत्रार्थे सम्प्रदायरूपप्रमाणमुच्यते—उभयोरिति । 'अनयोरुभयोः' सदस तोरन्तो निर्णयोऽनादिनित्यत्वावधारणं 'तत्त्वदर्शिभिः' वेदार्थत तत्त्वज्ञानिभिः 'अपिदृष्टः' कृतश्चेत्यर्थः । अपिसिञ्चेतिवत् अपिदृष्ट इति निर्देशः । यद्वा—तत्त्वदर्शिभिरपीति भिन्नक्रमेणापिशब्दान्वयः । न केवलं 'प्रकृतिः पुरुषश्चैव नित्यौ कालश्च सत्तम' इत्यागमसिद्धमेत
<९४ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] अन्तो निर्णयः 'उभयोरपि दृष्टोऽन्तः' (गी. २-१६.) इति वचनात् सर्ववेदान्तविनिर्णयोत्पाद्यज्ञानं ब्रह्म। (२) 'आत्मेत्येवोपासीत' (बृ.३-४-७.) इत्यादिविधीनां त दित्यपिशब्दार्थः । यद्वा—'अन्तः' निर्णयः तद्विषयीभूतार्थो दृष्ट इत्य र्थः। अनेन दर्शनमूलकः सम्प्रदायः उपदेशपरम्परारूपो लक्षणयो क्तो भवति । वचनादिति । गीतायामिति शेषः । सूत्रे पूर्वसूत्रात् ब्र ह्मवाचकं पूर्वपद्मनुवर्त्य सर्वेति साध्यभागं व्याचष्टे—सर्वेति । सूत्र भाष्ययोर्वेदशब्दः तदर्थपरः । शब्दविषयकनिर्णयस्य ब्रह्मविषयकत्वा भावात् । तथा च सर्ववेदानां तदर्थानां अन्तः सर्ववेदान्तः तद्रूपः प्रत्य यो ज्ञानं यस्य तत्तथोक्तम् । अनेन ब्रह्मण एव सर्ववेदार्थत्वं ज्ञापितम् । अन्यथा सर्ववेदाधिगमो व्यर्थस्स्यात् । तथा च तत्त्वप्रदीपटीकारीत्या पूर्वपदोदितं ब्रह्म सर्ववेदाधिगमानन्तरोत्पन्नविचारसाध्यवेदार्थनिर्ण यरुपज्ञानविषय इति साध्यार्थः । टीकायां ध्यानार्थिना सर्ववेदान्निर्णी य श्रवणमननाभ्यां ज्ञातव्यं ब्रह्मेत्यन्वयः । केचित्तु-सर्ववेदानां योऽन्तः निर्णयः तेनोत्पाद्यं यदर्थज्ञानं तद्विषयो ब्रह्मेत्यर्थ इत्याहुः। अस्मिन् पक्षे व्यधिकरणबहुव्रीहिमात्रं दोषः । उदाहृततत्त्वप्रदीपटीके अनुगुणे । सर्ववेदनिर्णयेनोत्पाद्यज्ञान
[ अधि - १. सू - २. ] दीपिकासहितम्. ८१५ युक्तयुक्तीनां च अविशिष्टत्वात् ॥ १ ॥ ( ३ ) सू-ॐ भेदान्नेति चेदेकस्यामपि ॥ ॐ ॥ २ ॥ तत्र उपासीतेत्यादिज्ञानविधिसमीपगतेषु 'अत्र ह्येते सर्व एकंभवन्ति' (बृ.३-४-७.) 'स य आत्मानमेव लोकमुपास्ते' (बृ.३-४-१५.) 'न हास्य कर्म क्षीयते' (बृ.३-४-१५.) 'अमृतस्यैष सेतुः' (मुं.२-२-५०) 'वाचो विग्लापनं हि तत्' (बृ.६-४-२१.) इत्यादिवाक्येषूक्तानां युक्तीनां 'अविशिष्टत्वात्' सर्वाधिकारिसाधारणत्वादित्यर्थः । इतरांगस्तु भे यादिप्रतिपादकत्वात् नाधिकारिविशेषकल्पक इति भावः । बृहदार ण्यके 'आत्मेत्येवोपासीत' इति विधिसमीपे 'अत्र ह्येते' इत्यात्मत्व प्रशंसार्थमर्थवादइद्भूतः । अत्र आत्मत्वगुणे 'एते' 'प्राणन्नेव प्राणो नाम भवति वदन् वाक् पश्यन् चक्षुः शृण्वन् श्रोत्रं मन्वानो मनः' (बृ. ३-४-७.) इति पूर्ववाक्योक्ताः प्राणत्ववक्तृत्वद्रष्टृत्वश्रोतृत्व मन्तृत्वादयः सर्वेगुणाः 'एकं भवन्ति' अन्तर्भवन्तीत्युक्तेः अत्रा त्मत्वस्य विवक्षितसर्वगुणसंग्राहकत्वयुक्तिरुच्यते । यद्यपि 'अत्र' आत्मत्वे सर्वेऽप्यान्दादयो गुणाः अन्तर्भवन्तीत्यर्थः टीकायां 'आत्म गृहीतिः' इत्यधिकरणे अभिहितः । तथा व्यासतीर्थीये 'अत्र' आत्म शब्दे 'एते' आनन्दादयः सर्वे धर्माः वाच्यत्वेन 'एकं भवन्ति' पुञ्जी भवन्तीत्यर्थ उक्तः । ते च पूर्वे नोक्ताः, किन्तु तत्त्वप्रदीपोदाहृतवाक्यो क्ता एव । तथाऽपि 'प्राणन्' इत्यनेनानन्दस्वामित्वनिर्दोषत्वानां ग्रह णादविरोधः । एवं 'आत्मानमेव लोकम्' इति विधिसमीपवर्तिनि 'न हास्य' इति वाक्ये अक्षयकर्मफलहेतुत्वयुक्तिरुच्यते । तथाऽऽथर्व णे 'तमेवैकम्' इति विधिसमीपवर्तिनि 'अमृतस्य' इत्यर्थवादे मु क्तोपसृप्यत्वयुक्तिरुच्यते । तथा बृहदारण्यके 'विज्ञाय' इति वाक्य समीपवर्तिनि 'वाचो विग्लापनम्' इति वाक्येऽन्यार्थवेदाध्ययनादे र्वाक्श्रमकरत्वयुक्तिरुच्यत इति ध्येयम् । अनेन चोदनानां विधीनाम विशेषात्सर्वसाधारणत्वादत एव चोदनायुक्तकाण्वादिशाखानामवि शेषात्, एवं काण्वैरध्येतव्यं एवं माध्यन्दिनैः इत्यधिकारिविशेषनिर्देश शून्यत्वात् तदुक्तयुक्तीनामप्यविशिष्टत्वेनाधिकारिविशेषकल्पक त्वादिति हेतुवाक्यस्यानेकधार्थ उक्तो भवति ॥ ( ३ ) उक्तमाक्षिप्य समादधत्सूत्रं पठित्वाऽऽक्षेपपाशं तावद्व्याचष्टे-भे दादिति ॥ 'विज्ञानम्' इति वाजसनेयके 'सत्यम्' इति तैत्तिरीयके । आ
'विज्ञानमानन्दं ब्रह्म' (बृ. ५-९-२८.) 'सत्यं ज्ञानमन- न्तं ब्रह्म' (तै. २-१.) इत्यादिप्रतिशाखमुक्तिभेदान्नै- काधिकारिविषयाः सर्वशाखा इति चेत्—न, एक- स्यामपि शाखायां 'आत्मेत्येवोपासीत' (बृ.३-४-७.) दिपदेन 'श्रोता मन्ता' (ऐ.आ.३-२-४-१९.) इत्यैतरेयवाक्यम्, 'य आत्मा ऽपहतपाप्मा' (छा.८-७-१.) इति छन्दोगवाक्यं च गृह्यते । प्रतिशाखम- त्याद्युक्तिभेदादित्यन्वयः । इत्यादिरूपा च सा उक्तिश्च इत्यादिरूपा उ- क्तिः वाचिका येषामर्थानामिति च द्वेधा विग्रहः । एवमाक्षेपांशे साध- नांशं व्याख्याय साध्यांशं व्याख्याति—नेति । सर्वशाखाः नैकार्थविषयाः तत्प्रतिपादिकाः, किन्तु भिन्नविषयाः, अत एव नैकविषया नैकाधिका- रिका इत्यावृत्त्याऽन्वयः। एकेनैकस्यैवार्थस्य ज्ञेयत्वादिति भावः । नञावृ- त्त्यभिप्रायेण सौत्रं परिहारांशं व्याचष्टे—नेति । तत्तच्छाखोक्तार्थानां पृ- थक्त्वात्सर्वशाखोक्तं नैकेन ज्ञातव्यम्, किन्त्वनेकैरिति नेत्यर्थः । कुतो नेत्यतः प्रवृत्तं परिहारांशे साधनभागं व्याचष्टे—एकस्यामिति । न केवलमनेकशाखास्वित्यपिशब्दार्थः । चोदनापदस्य विपरिणतस्य वि- शेष्यत्वमभिप्रेत्याह—शाखायामिति । वाजसनेयशाखायामित्यर्थः । इत्यादीति । इत्याद्युक्तीनां तदर्थानामानन्दज्ञानरूपत्वादिकधर्माणां च भे- ददर्शनादित्यर्थः । आवृत्त्यान्वितस्य भेदादित्यस्यासिद्धिपरिहाराय —दर्शनादित्युक्तम् । आवृत्तिसूचनाय चशब्दः। श्रुतौ कखशब्दावानन्द- ज्ञानवाचिनौ । आदिशब्देन गुणान्तरोक्तयो गृह्यन्ते । सूत्रे भेदादपी- त्यपिशब्दान्वयः । न भेदादित्यपि । भेदशब्देन प्रसङ्गभेदोऽपि ग्राह्यः । साम्यादिति शेषः । तथा चायं सूत्रार्थः—'भेदात्' प्रतिशाखं 'वि- ज्ञानमानन्दं ब्रह्म' 'सत्यं ज्ञानमनन्तं ब्रह्म' इत्याद्युक्तिभेदात् अत एव सर्वशाखोक्तार्थानामपि 'भेदात्' एकेनैकस्यैव ज्ञेयत्वात् न पूर्वपदोक्तं ब्रह्म सर्ववेदान्तप्रत्ययं, किन्तु स्वस्वशाखान्तप्रत्ययमिति चेन्न । तथा सति 'एकस्यामपि' चोदनायां शाखायां 'भेदात्' 'आत्मेत्येवोपासीत' 'कं ब्रह्म खं ब्रह्म' (छा.४-१०-५.) इत्याद्युक्तिभेददर्शनात् अत एव तत्रो- क्तार्थानामपि भेदावगमादेकस्यामपि 'भेदात्' अधिकारिभेदप्रसङ्गात्। नन्वेकस्यामपि शाखायां विधेयधर्मस्यैव भेदाद्धर्मिणो 'नभेदात्' अभेदान्न प्रतिपाद्यभेद इति चेन्न । 'अपि' सर्वशाखास्वपि विधेयध- र्मस्यैव भेदाद्धर्मिणां न पृथक्त्वमिति समाधिसाम्यात् । ननु न सर्व
[ अधि - १०. सू - ३. ] दीपिकासहितम्. ८१७ 'कं ब्रह्म खं ब्रह्म' (छा. ४-१०-५.) इत्यादिभेददर्शनात् ॥२॥ (४) सू-ॐ ॥ स्वाध्यायस्य तथात्वेन हि समाचारेऽधि काराच्च ॥ ॐ ॥ ३ ॥ 'स्वाध्यायोऽध्येतव्यः' (तै. आ. २-१५.) इति सामा न्यविधेः । हिशब्दात् वेदः कृत्स्नोऽधिगन्तव्यः सरहस्यो द्विजन्मना । इति स्मृतेः ॥ शाखोक्तं ब्रह्म, तथासति न भेदात् सर्वशाखानामेकविषयत्वात्पौनरु क्त्यप्रसंगादिति चेन्न । एकस्यामपि साम्यात् । नन्वेकस्यां शाखायां प्रसंगभेदात् प्रागुक्तस्यानुवादाद्वा न पौनरुक्त्यम् । काण्वश्रुतौ 'अ यं पुरुषः' (बृ. ६-३-९.) इति द्विरुक्तवाक्यस्य जीवस्य परमात्म ज्योतिष्ट्वपरस्य स्वप्नसुषुप्तिप्रकरणयोः श्रुतस्य प्रसङ्गभेदेनानुवादवि धानाभ्रयणात्पौनरुक्त्यवत् छन्दोगश्रुतौ 'सैषा षड्विधा चतुष्पदा गा यत्री' (छा. ३-१२-५.) इति वाक्ये प्रसङ्गभेदात्प्रागुक्तषाड्विध्यानुवा देन चतुष्पात्त्वविधानात्तदंशेऽपौनरुक्त्यवच्चेति चेन्न । 'अपि' सर्वशा खास्वपि प्रसङ्गभेदात् अनुवादादिपरिहारस्य साम्यादिति ॥ (४) पूर्वं सर्ववेदान्तप्रत्ययमित्यत्रैव हेत्वन्तराभिधानाय सूत्रं-स्वा ध्यायस्येति ॥ अत्र स्वाध्यायस्य तथात्वेनेत्यावृत्तेन हेतुवाक्येनोक्तं हेतुं साधकं हेतुमाह-स्वाध्याय इति । इति विधेः सामान्यादित्यन्वयः । 'स्वा ध्यायोऽध्येतव्यः' इति यजुर्वेदगतविधेः 'सामान्यात्' अयं स्वाध्यायो ऽनेनाध्येतव्यः अयं अनेन इति विशेषं विना सर्ववेदसर्वाधिकारिसा धारणत्वादित्यर्थः । सामान्यपदेन सौत्रं तथात्वपदं अविशेषादिति प्र कृतसाधारणार्थकमित्युक्तं भवति । पञ्चमीप्रयोगेन तृतीया पञ्चम्यर्थे त्युक्तम् । विधेरित्यनन्तरं स्वाध्यायस्य तथात्वेनेति संयोज्यं, तस्य स्वा ध्यायस्य सर्वशाखाध्ययनस्य तथात्वेन सर्वसाधारणत्वेन एकैकाधि कारिकत्वेनेत्यर्थः । सूत्रे भाष्ये च हेत्वन्तरद्योतकः चशब्दोऽत्रापि योज्यः । ननु लोके शाखाभेदस्य प्रसिद्धत्वाद्विधेरपि विशेषनिष्ठता ऽऽवश्यकीति सामान्यादित्यसिद्धमित्यतः प्रवृत्तस्य हिशब्दस्यार्थमा ह-हिशब्दादिति । सूचिताया इति शेषः । स्मृतेरित्यस्य विधेः सा मान्यादित्यनेनान्वयः । ज्ञानोपलक्षकमेतत् । 'द्विजन्मना' त्रैवर्णिकेन 'सरहस्यः' उपनिषत्सहितो रहस्यार्थसहितो वा 'कृत्स्नः' सर्वो वे १०३
८१८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - . ३. ] ( ५) सर्ववेदोक्तमार्गेण कर्म कुर्वीत नित्यशः । आनन्दो हि फलं यस्मात् शाखाभेदो ह्यशक्तिजः ॥ सर्वकर्मकृतौ यस्मात् अशक्तास्सर्वजन्तवः । शाखाभेदं कर्मभेदं व्यासस्तस्मादचीक्लृपत् ॥ इति समाचारे सर्वेषामधिकाराच्च ॥ ३ ॥ दः 'अधिगन्तव्यः ' अर्थज्ञानार्थमध्येतव्य इत्यर्थः । एवं सर्वशाखत्यपि द्रष्टव्यम् ॥ ( ५ ) किं च अनुष्ठानापेक्षया ज्ञानमात्रस्य सुलभत्वात् यदा सर्ववे- दोक्तशक्यकर्मानुष्ठाने सर्वेषामधिकारसद्भावः तदा तदुक्तब्रह्मज्ञानं सु- तरामिति भावेन हेत्वन्तरप्रतिपादनाय प्रवृत्तं समाचारेऽधिकाराच्चेत्यं- शं सप्रमाणकं व्याचष्टे—सर्वेति ॥ सर्वान् वेदान् सर्वशाखाश्च अधिग- म्य ' सर्ववेदोक्तमार्गेण' तदुक्तप्रकारेणानुष्ठानपूर्वकं यज्ञादि कर्म 'नि- त्यशः ' नित्यं कुर्यात् सर्वोऽपि जन्तुरिति विपरिणामेनान्वयः । न च प्र- योजनाभावः। 'हि' यतः यस्माद्वेदोदितसर्वकर्मज्ञानतदनुष्ठानात् 'आन- न्दः ' मौक्त
[ अधि - १०. सू - ५० ] दीपिकासहितम्. ८१९ ( ६ ) सू—ॐ ॥ सलिलवच्च तन्नियमः ॥ ॐ ॥ ४ ॥ यथा सर्वं सलिलं समुद्रं गच्छति । एवं सर्वाणि वच नानि ब्रह्मज्ञानार्थानीति नियमः । ( ७ ) आग्नेये च— यथा नदीनां सलिलं शक्ये सागरगं भवेत् । एवं वाक्यानि सर्वाणि पुंशक्त्या ब्रह्मवित्तये ॥ इति ॥४ ॥ ( ८ ) सू—ॐ ॥ दर्शयति च ॥ ॐ ॥ ५ ॥ सर्वैश्च वेदैः परमो हि देवो जिज्ञास्योऽसौ नाल्पवेदैः प्रसिध्येत् । र्यवसायित्वं, न त्वक्षरग्रहणमात्रे चरितार्थत्वम् । न केवलं स्वाध्याय स्य तथात्वात्, किन्तु सर्ववेदोक्तकर्मसमाचारे सर्वेषामधिकारात् , अत एव सुतरां तत्साध्ये ब्रह्मज्ञानेऽधिकाराच्च , पूर्वं ब्रह्म एकैकेनैव सर्ववेदान्तप्रत्ययमिति सूत्रार्थ उक्तो भवति । तत्त्वप्रदीपे तु कैमुत्यं न प्रदर्शितम् ॥ ( ६ ) ननु यदि सर्वशाखोक्तप्रकारेण जानतो ध्यानाधिकारः, त र्ह्यधमाधिकारिणां ध्यानाभावः प्राप्त इत्याशङ्कां परिहरत्सूत्रं पठित्वा व्याचष्टे—सलिलवदिति ॥ ‘सर्वं सलिलं’ नद्यादिजलं ‘गच्छति’ प्राप्नोति ‘वचनानि’ वेदवचनानि ‘ब्रह्मज्ञानार्थानि’ पुंशक्त्यनुसारेण स्वज्ञानद्वारा ब्रह्मज्ञानप्रयोजनानीत्यर्थः । इति नियम इति । इत्येवंरू पन्नियम इत्यर्थः । अनेन सूत्रे स चासौ नियमश्च तन्नियमः ध्यानेच्छु ना सर्ववेदान्तप्रत्ययं ब्रह्म सर्ववेदोक्तप्रकारेण ज्ञातव्यमित्येवंरूपः, त स्य तत्त्वं च प्रतिबन्धाभावमपेक्ष्य प्रवृत्तत्वं, चशब्दश्च प्रतिबन्धाभाव मपेक्ष्यैव नियमो, न त्वतिदृढ इत्यवधारणार्थ इत्युक्तं भवति ॥ ( ७ ) चशब्दः स्मृतिसमुच्चायकोऽपीत्यभिप्रेत्यात्रैवार्थे स्मृतिमा ह—आग्नेये चेति ॥ न केवलं सूत्रे, किन्तु स्मृतावप्ययमर्थ उक्त इत्य र्थः । शक्य इति । समुद्रं गन्तुं शक्ये सतीत्यर्थः । असति प्रतिबन्धक इति यावत् । ‘वाक्यानि’ वेदवचनानि ‘पुंशक्त्या’ पुरुषशक्त्यनु सारेण ‘ब्रह्मवित्तये’ अध्ययनद्वारा परब्रह्मज्ञानाय भवन्तीत्यर्थः । त था च यथाशक्त्यधीतसर्ववेदेभ्यः श्रवणमननाभ्यां ब्रह्म जानतां मन्दा नामपि ध्यानोपपत्तिरिति भावः । इत्याग्नेये इतीतिशब्दान्वयः ॥ ( ८ ) चोदनाद्यविशेषादित्यक्तिसमर्थितार्थे श्रुतिस्मृतिभ्यां च सां
) सर्वैर्वेदैर्ज्ञेयो नोपास्योऽशक्यत्वात् इति । Line 11: अत आह— And then the Bhashya cuts off or continues on the next page!
NOW LOOK AT THE COMMENTARY SECTION (below the horizontal rule): Line 12 starts with: "...ध्यत्सूत्रं पठित्वा तद्वचनद्वयमुदाहरति—दर्शयति चेति ॥" Wait! What was at the bottom of the previous page (page 819) in the commentary section? Probably something ending in: "मध्य..." or "...त्य"! Wait, could it be "तृतीयं सूत्रं पठित्वा..."? No, "ध्यत्सूत्रं" -> "...ध्य तत्सूत्रं"? Yes! Page 819 ended with something like "...समा", and page 820 continues: "ध्य तत्सूत्रं पठित्वा तद्वचनद्वयमुदाहरति—दर्शयति चेति ॥" Or "बोध्य तत्सूत्रं"? "विचार्य तत्सूत्रं"? "ध्य तत्सूत्रं" -> because of space/hyphenation or sandhi: "ध्य तत्सूत्रं" or "ध्यत्सूत्रं"! Look at the characters: "ध्यत्सूत्रं" (dhya-tsū-traṃ)! It's definitely continuing from page 819!
Then in the commentary section: Lines 12–23 explain: "दर्शयति चेति ॥ तमेतमर्थं यतः श्रुति
[ अधि - २. सू - ६. ] दीपिकासहितम्. ८२१ सू—ॐ ॥ उपसंहारोऽर्थाभेदाद्विधिशेषवत्समाने च ॥ ॐ ॥ ६ ॥ सर्ववेदोक्तान् गुणान् दोषाभावांश्चोपसंहृत्यैव परमा- त्मोपास्यः । ( २ ) उपास्य एकः परतः परो यो वेदैश्च सर्वैस्सह चेतिहासैः । सपञ्चरात्रैस्सपुराणैश्च देवः सर्वैर्गुणैस्तत्र तत्र प्रतीतैः । इति भाल्लवेयश्रुतिः । पोपसंहारस्याशक्यत्वेन तत्पूर्वकोपासनस्याप्यशक्यत्वादित्यर्थः । स- र्वपरिज्ञानं तु विततप्रज्ञानां केषां चित् कथं चित् क्रमेण शक्यमिति भावः । सूत्रे सर्ववेदान्तेत्यतः सर्ववेदेत्यनुवर्तते । अर्थशब्दो गुणदोषा- भावपरः । सर्ववेदार्थाभेदात् उपसंहार इत्यन्वयः । अर्थपदं चोभयान्व- यीत्यभिप्रेत्य उपसंहारोऽर्थाभेदादिति प्रति
८२२ ब्रह्मसूत्रभाष्यम्. [अध्या - ३. पा - ३.] ( ३ ) आग्नेये च-- विधिशेषाणि कर्माणि सर्ववेदोदितान्यपि । यथा कार्याणि सर्वैश्च सर्वाण्येवाविशेषतः ॥ एवं सर्वगुणान् सर्वदोषाभावांश्च यत्नतः । योजयित्वैव भगवानुपास्यो नान्यथा क्वचित् ॥ इति ॥ ( ४ ) समानविषये चोपसंहारः । न तु ' सोऽरोदीत् ' ( तै.सं. १-५-१० ) इत्यादीनाम् । श्रुतिः। एक इति पदेनार्थभेदादिति सूत्रावयवं व्याचष्टे । एको हि पर मात्मा सर्ववेदादिभिरुपास्योऽर्थ इति तत्त्वप्रदीपोक्तेः । अस्मिन् पक्षे ' एकः ' अभिन्न इत्यर्थः । ' सूत्रावयवं ' अभेदादिति सूत्रावयवावय वम् । भावबोधे तु बहुवचनेन त्रिमात्रप्रतीतिवारणाय सर्वैरितिपदेन विवृतमित्युक्तम् । ' तत्र तत्र ' वेदपुराणादिषु ' प्रतीतैः ' प्रतिपादितै रित्यर्थः । श्रुतिरित्यनन्तरं यत इति शेषः ॥ ( ३ ) उपसंहृत्योपास्य इत्यत्रैवार्थे स्मृतिमाह-आग्नेये चेति ॥ श्रुति समुच्चये चः। ' विधिशेषाणि ' शिष्यन्त इति शेषाणि विधिभिः शिष्टानि 'सोमेन यजेत' (आप.श्रौ.१०-२-१.) इत्यादिविधिविहितानि कर्माणि ज्यो तिष्टोमादीनि । यद्वा-प्रधानविधिशेषाणि कर्माणि प्रयाजादीनि । न के वलं स्वस्वशाखाविधिविहितानि, किन्तु सर्ववेदोदितान्यपि 'अविशेष तः ' अधिकारिविशेषाविभागेन ' सर्वैः ' शाखिभिः यथा कार्याणि, ए वं भगवान् सर्ववेदोक्तान् गुणान् दोषाभावांश्च ' यत्नतः ' श्रवणादिप्र यत्नतः ' योजयित्वा ' यथाशक्त्युपसंहृत्यैव सर्वैरुपास्यो, न तु ' क्वचि त् ' कालदेशपुरुषेषु उक्तस्यान्यथाभावोऽस्तीत्यर्थः । इतिशब्दस्य इत्या ग्नेये वचनाच्च उपास्य इत्यन्वयः ॥ ( ४ ) सर्ववेदोक्तगुणोपसंहारमुक्त्वा तदपवादमाह - समाने चेति ॥ तद्व्याचष्टे - समानविषये चेति ॥ योग्यगुणविषय एवेत्यर्थः । अनेन विषयसप्तमीयम्, चोऽवधारण इति सूचितम् । उपसंहार इत्यस्यावृ त्त्याऽत्राप्यन्वय इत्याह - उपसंहार इति । चशब्दार्थवधारणव्यावर्त्य माह - न त्विति । ' इत्यादीनां ' इत्यादिवाक्यबोध्यानामर्थानाम् । अस मानानामिति शेषः । इत्यादीनामुपसंहार इत्यन्वयः । अयोग्योपासनेना नर्थप्राप्तेरिति भावः । आदिशब्देन 'यदरोदीत्तद्रुद्रस्य रुद्रत्वम् ' ( तै. सं.१-५-१.) 'रुद्रस्य त्वेव धनुरार्त्निः शिर उत्पिपेष' (तै.आ.१-५०) इत्या
[ अधि - २. सू - ७. ] दीपिकासहितम्. ८२३ ( ५ ) गुणैरेव स तूपास्यो नैव दोषैः कथञ्चन । गुणैरपि न तूपास्यो ये पूर्णत्वविरोधिनः ॥ इति बृहत्तन्त्रे ॥ ६ ॥ ( ६ ) सू—ॐ ॥ अन्यथात्वं च शब्दादिति चेन्नाविशेषात् ॥ॐ॥७॥ ‘ आत्मेत्येवोपासीत ’ (बृ. ३-४-७.) इति शब्दादुपसं- दिश्रुतिर्गृह्यते । ‘ सः ’ प्रकृतो महादेवः ‘ अरोदीत् ’ रोदनमकार्षीत् । अरोदीदिति पदबोध्यं यद्रोदनं तद्रुद्रस्य प्रसिद्धस्य ‘ रुद्रत्वं ’ रुद्रश- ब्दप्रवृत्तिनिमित्तम् । विष्णुविवक्षायां तु रोदनस्वातन्त्र्यं रुद्रशब्दप्रवृ- त्तिनिमित्तमिति विवेकः। आरोपितं धनुः क्षिताववष्टभ्य स्थितस्य रुद्र- स्य शिरो ज्यायां वम्रिरूपेण इन्द्रेण छिन्नायां उत्क्षिप्तवा ‘धनुरात्निः’ धनुष्कोटिः ‘ उत्पिपेष ’ चिच्छेदेति श्रुत्यर्थः ॥ ( ५ ) अत्र स्मृतिमाह—गुणैरिति ॥ ‘ सः ’ विष्णुः ज्ञानानन्दादि- गुणैरेवोपास्यः, न तु दुःखादिदोषैः । ननु रोदनादीनामपि विधिमुख- वेद्यत्वेन गुणत्वादुपास्यत्वापत्तिः । तथा च ‘ नैव दोषैः ’ इति व्याहत- मित्यतः उक्तस्यापवादमाह—गुणैरिति । भगवान् ये पूर्णत्वविरोधि- नो मितभुक्तवादयस्तादृशगुणैरपि नोपास्य एव मितभुक्तवादीनां लो- के गुणत्वेऽपीश्वरे दोषत्वात् । तत्र बहुभुक्तस्यैव गुणत्वात् । तदुक्त- म् —‘बहुभुक्त्वं यथा दोषो नृषु नैव हरौ क्वचित् ’ इति बृहत्तन्त्रे उ- क्तमिति शेषः । सूत्रार्थस्तु—अर्थानां सर्ववेदार्थभूतानां धर्माणां भावा- भावरूपाणां अभेदात् अविभागेन एते उपसंहर्तव्या एते तु नेति वि- भागमन्तरेण उपसंहारो युगपद्बुद्ध्यावारोपः कार्यः । उपसंहृत्य च पर- मात्मा तद्गुणात्मकत्वेन ध्यातव्य इति यावत् । कुतः? यतो ‘विधिशेष- वदयं ’ विशिष्टसन्ध्यावन्दनादिवदस्यापि विहितत्वात् । गुणदोषाभा- ववत् दोषाणामप्युपसंहर्तव्यत्वं किं न स्यादिति न वाच्यम् । यतः स चोपसंहारः ‘ समाने च ’ योग्ये एव पूर्णत्वाविरोधिगुणविषये ए- व युक्तः, न तु तद्विरोधिरोदनमितभुक्तत्वादिष्विति ॥ ( ६ ) उक्तमाक्षिप्य समादधत्सूत्रमुपन्यस्य व्याचष्टे—अन्यथात्व- मिति ॥ अत्र पूर्वसूत्राद्विधिशेषवदिति पदस्यानुवृत्तिं उपसंहारस्येति विपरिणतपदानुवृत्तिं अन्यथात्वमित्यस्यावृत्तिं चाभिप्रेत्य शब्दपदगृ- हीतश्रुत्युदाहरणपूर्वकं आक्षेपांशं व्याचष्टे—आत्मेति । योजना तु ‘वि-
हारस्यान्यथात्वमिति चेन्न, एते गुणा नोपास्या इति विशेषवचनाभावात् 'सर्वैर्गुणैरेक एवेशिताऽसावुपा सितव्यो न तु दोषैः कदाचित्' ( ) इति विशे षवचनाच्च । आत्मेत्येवेत्यवधारणमनात्मत्वनिवृत्त्यर्थम् ॥७॥ (७) सू--ॐ ॥ न वा प्रकरणभेदात्परोवरीयस्त्वादि वत् ॥ ॐ ॥ ८ ॥ 'विशेषवत्' विधिविहितोपसंहारवत् यतः 'आत्मा' इति शब्दादुप संहारस्यान्यथात्वं च अनुपसंहारः अल्पगुणज्ञानरूपोऽप्यर्थाद्विहितः ततश्च 'अन्यथात्वे' अन्यथोपसंहारे विधिशेषस्य विधिविहितकर्म णः 'अन्यथात्वं' लोपः प्रसज्यते तदुपसंहारस्य 'अन्यथात्वं' अकर्त व्यत्वं सिद्धमिति । परिहारांशं व्याचष्टे—नेति । सर्वगुणोपसंहारस्य 'अन्यथात्वं' अभावः नेत्यर्थः । कुतो नेत्यतः किमसो प्रामाणिकत्वा दङ्गीक्रियते, उत तद्विरोधिगुणोपसंहारे प्रमाणाभावाद्वेति विकल्प्य आद्यपक्षनिषेधहेतुत्वेन अविशेषादिति पदं व्याचष्टे—एत इति । विशेषे ति । विशेषप्रमाणाभावादित्यर्थः । नाविशेषादित्यस्यैकपद्याश्रयेण विशेषवचनादित्यर्थाभिप्रायेण द्वितीयपक्षनिषेधहेतुत्वेनाप्येतद्वयाच ष्टे—सर्वैरिति । सर्ववेदोक्तैरित्यर्थः । 'गुणैः' पूर्णत्वाविरोधिधर्मैः । तथा चासावीश्वरः 'एक एव' अभिन्न एव सर्वगुणैरेव 'उपासितव्यः' उपसंहृत्य ध्यातव्यो न तु दुःखादिदोषैरपीति योजना । चः समुच्चये । नन्वात्मत्वमेवोपासीत न त्वन्यदिति आत्मत्वावधारणादेव तदन्यगु णा नोपास्या इति सिद्ध्यतीत्यतः तदुत्तरत्वेनाप्यविशेषादिति हेतुं व्याचष्टे—आत्मेति । इत्यवधारणमिति । इतिवाक्यगतैवैकार इत्यर्थः । अनात्मत्वेति । अनात्मत्वमात्मन्ययोगः तस्य निवृत्तिर्व्यवच्छेदः स ए वार्थो यस्य तत्तथोक्तम् । यतोऽतो न तद्विरोध इति वाक्यशेषः । तथा च भगवन्तं आत्मैवायमित्युपासीत न त्वनात्मेतीति उत्तमाधिकारिणः प्रति अयोगव्यवच्छेदक एव एवकारो नान्ययोगव्यवच्छेदकः । निर वकाशोदाहृतश्रुतिविरोधादिति भावः । अनेनावधारणस्यायोगव्यव च्छेदेऽप्यविशेषादिति सौत्रहेतोरर्थान्तरमुक्तं भवति ॥ (७) ननु नायं सर्वगुणोपसंहारो युक्तोऽशक्यत्वादित्याशङ्कामभ्यु पगंमवादेन परिहरन् न वेति सूत्रं उपसंहारः कार्य इत्येतयोरनुवृत्त्य ध्याहाराभ्यां व्याचष्टे—प्रकरणभेदादिति ॥ परोवरीयस्त्वादिवदित्या
[ अधि - २. सू - ९. ] दीपिकासहितम्. ८२५ प्रकरणभेदान्न वोपसंहारः कार्यः । परोवरीयस्त्वा- द्विषु तावदेव ह्युक्तम् ॥ ८ ॥ ( ८ ) सू-ॐ ॥ संज्ञातश्चेत्तदुक्तमस्ति तु तदपि ॥ ॐ ॥ ९ ॥ दावुपस्कार्यम् । वेति व्यवस्थितविकल्पः । तथा च एवमुपसंहारः कार्यतयोक्तः नासौ कार्यों वा । कुतः ? परोवरीयस्त्वादिवत् प्रकरण- भेदात् । परोवरीयोवैश्वानरादिप्रकरणानां विद्यानां भेदादित्यर्थः । य- द्येकैकस्य सर्वगुणोपासनं स्यान्न तर्हि प्रकरणानि भिद्येरन् कारणा- भावादिति भावः । नन्वेकस्मिन्नेव प्रकरणे सर्वगुणोक्तिसम्भवात्प्र- करणभेदेऽपि सर्वगुणोपासनोपपत्तिरित्यत आह—परोवरीयस्त्वादि- ष्विति । परोवरीयस्त्वादिगुणप्रतिपादकेष्वित्यर्थः । प्रकरणेष्विति। यथे- ति च शेषः । परोवरीयस्त्वं नाम 'परस्मात्' इत्यनेन निरुक्तं निरवधि- कसर्वोत्तमत्वम् । आदिपदेनोद्गीथत्वानन्तत्वे प्रकरणान्तरोक्तं च गृह्य- ते । स्पष्टं गुणप्रतिपत्त्यर्थं त्वप्रत्ययः । सूत्रे तु सप्तम्यन्तं प्रथमान्तं चे- तत् । अनेनैवं सर्वगुणोपसंहारः कर्तव्यतयोक्तः सः न कर्तव्यो वा । कु- तः ? 'प्रकरणभेदात्' परोवरीयोवैश्वानरादिविद्याभेदात् । अन्यथा स न स्यात् । न चैकस्मिन् प्रकरणे सर्वगुणोक्तिसम्भवात्प्रकरणभेदे- ऽपि सर्वगुणोपसंहारोपपत्तिरिति वाच्यम् । यतः 'परोवरीयस्त्वादिव- त्'निरवधिकसर्वोत्कृष्टत्वरूपपरोवरीयस्त्वादिगुणप्रतिपादकेषु 'स एष परो वरीयानुद्गीथः स एषोऽनन्तः' (छा.१-९-२.) इत्यादिषु प्रकरणेषु तावदेवोपास्यगुणेषु । कियदेव ? परोवरीयस्त्वादि उक्तं न सर्वमत इति सूत्रार्थ उक्तो भवति ॥ ( ८ ) उक्तमाक्षिप्य समादधत्सूत्रं—संज्ञात इति ॥ अत्रापि पूर्वव- दुपसंहारः कार्य इत्येतयोरावृत्त्यध्याहाराभ्यामाक्षेपांशं व्याचष्टे— सर्वेति । सर्वस्येत्यावर्तते । गुणाभिधायकत्वात् गुणाभिधानस्य चो- पसंहारार्थत्वादिति शेषः । कार्य इति सावधारणम् । तथा च 'सर्व- स्य' सर्वविद्योक्तगुणस्योपसंहारः कार्य एव । कुतः ? 'सर्वस्य' वि- द्यराशेः ब्रह्मगुणाभिधायकत्वात् गुणाभिधानस्य चोपसंहारार्थत्वात्। न चासिद्धिः । 'सर्वस्य' शब्दराशेः ब्रह्मनामत्वात् । नामोदितगुणा- नुपसंहारे तन्नाम्नो ब्रह्मणोऽनुपासितप्रसङ्गादिति योजना । अनेन सूत्रे सर्वस्येति शेषः कार्यः,संज्ञात इति भावप्रधानमित्युक्तं भवति । ननु स- र्वस्य ब्रह्मनामत्वमसिद्धमित्यत आह—'सोऽहं नामविदेवास्मि नात्म- १०४
८२६ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] सर्वविद्या उक्त्वा 'सोऽहं नामविदेवास्मि नात्मवित्' (छा.७-१-३.) इति वचनात्सर्वस्य ब्रह्मनामत्वात्तदु- पसंहारः कार्यः । ( ९ ) नामत्वात्सर्वविद्यानां गुणानामुपसंहृतिः । कार्यैव ब्रह्मणि परे नात्रकार्या विचारणा ॥ वित्' इति वचनादिति । सनत्कुमारं प्रति नारदोक्तेरित्यर्थः । इति व- चनादवगतात् ब्रह्मनामत्वादित्यन्वयः । 'सः ' एवं सर्वविद्यावेत्ताऽप्य- हं परमात्मनामविदेवास्मि न परमात्मवित् । कुतः ? सर्वविद्यानिर्णेत- व्याज्ञानादिति श्रुत्यर्थः । यद्यपि ' मन्त्रविदेव ' इति छन्दोगानां पाठः । तथाऽपि शाखान्तरवाक्यमेतदित्यदोषः । ' यद्वै किं चिदध्यगीष्ट नामै- वैतत् ' ( छा. ७-१-३.) इति उत्तरवाक्यबलान्मन्त्रशब्दो नामपरो वा । केचित्तु — ' मन्त्रवित् ' इत्येव श्रुतिपाठः । भाष्यं तूपनिषदर्थानुवादप- रमित्याहुः । ननु 'सोऽहम् ' इति वाक्ये स्वस्य नामवित्त्वमात्रोक्तावपि कथं सर्वस्य ब्रह्मनामत्वसिद्धिरित्यत आह — सर्वेति । ऋग्वेदमित्यादि- नेति प्रागध्याहार्यम् । वेदयन्तीति विद्या वेदादयः । तथा च ' ऋ- ग्वेदं भगवोऽध्येमि यजुर्वेदं सामवेदं अथर्वणं चतुर्थमितिहासपुरा- णं पञ्चमं वेदानां वेदम् ' ( छा. ७ - १ - २. ) इत्यादिनाऽऽत्मनः सर्वविद्यावेदित्वमुक्त्वेत्यर्थः । यद्वा — ऋगादिसर्वविद्या आत्मना अ- धीता इत्युक्त्वेत्यर्थः । तथा च सर्वविद्यावेत्ताऽहं नामविदेवेत्युक्ति- बलात् सर्वस्य ब्रह्मनामत्वमवगम्यत इति भावः । श्रुत्यर्थस्तु — ' भग- वो ' भगवन् सनत्कुमार अहं ऋग्वेदादिकमध्येमि । इतिहासपुराणमि- ति द्वन्द्वैकवद्भावः । विशेष्यनिघ्नोऽयं शब्दः । वेदशब्द आवर्तते । तथा च इतिहासपुराणात्मकं ग्रन्थं वेदं सन्तं वेदानां पञ्चमं पञ्चत्वसङ्ख्या- पूरणं वेदमध्येमीति ॥ ( ९ ) अत्रैव स्मृतिमाह — नामत्वादिति ॥ सर्वविद्यानां ब्रह्मनाम- त्वात् । अत एव सर्वगुणाभिधायकत्वाद्गुणाभिधानस्य चोपसंहारार्थ- त्वात्परे ब्रह्मणि गुणानामुपसंहृतिः कार्यैवेति योजना । इति चेति । इ- ति ब्रह्मतर्कवचनाच्चोपसंहारः कार्य इत्यन्वयः । न केवलं सूत्रकृदुक्त- हेतोरिति चार्थः । अभ्युपगमरूपं तदुक्तमित्यादिसमाधानांशं व्याच- ष्टे — सत्यमिति । सोपपत्तिकं यद्गुणोपसंहारकर्तव्यत्वमुक्तं तत् ' स-
[ अधि - ३. सू - १०. ] दीपिकासहितम्. ८२७ इति च ब्रह्मतर्के । इति चेत् सत्यं, उक्तो ह्युपसंहारः । तत्प्रमाणमप्यस्त्येव । ' नाम वा एतां ब्रह्मणः सर्ववि द्यास्तस्मादेकः सर्वगुणैर्विचिन्त्यः' इति कौण्डिन्य श्रुतौ ॥ ९ ॥ ३. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ प्राप्तेश्च समञ्जसम् ॥ ॐ ॥ १० ॥ त्यं' युक्तमेवेत्यर्थः । अनेन सूत्रे सत्यमिति शेषः । तस्य तदित्यनेनान्व य इत्युक्तं भवति । कथं युक्तमित्यतस्तद्धेतुत्वेनापि तदुक्तमित्येतद्योज यति—उक्तो हीति । ' हि' यतः कर्तव्यतयेति शेषः । अनेन तदुपसंहा रकर्तव्यत्वं यतोऽस्माभिः ' उक्तं ' साधितमिति सूत्रखण्डार्थ उक्तो भ वति । श्रुत्याऽप्युक्तार्थसाधनाय—अस्ति तु तदपीति सूत्रांशः प्रवृत्तः । तं व्याचष्टे—तदिति । तदित्यनूद्य प्रमाणमित्यर्थकथनम् । यद्वा—त स्मिन् सर्वविद्यानां ब्रह्मनामत्वेन तद्गुणाभिधायकत्वादुपसंहारः कार्य इत्युक्तार्थे इत्यर्थः । ' प्रमाणं ' श्रुतिवचनम् । न केवलं गुणाभिधान स्योपसंहारार्थत्वादिति युक्तिमात्रमित्यपिशब्दार्थः । सौत्रतुशब्दार्थमा ह—एवेति । अस्य सत्यमित्यनेनान्वयः । एतास्सर्वविद्याः परब्रह्मनामै व, तस्माद्विष्णुरेक एव सर्वगुणैरुपसंहृत्योपास्य इत्यर्थः । यावच्छ क्तिप्रयत्नेनोपसंहारे फलाधिक्यबोधनार्थं बहुप्रमाणग्रहणार्थं च पुनः पुनः उपसंहारोपन्यास इति न पौनरुक्त्यमिति तत्त्वप्रदीपोक्तिः । कौ ण्डिन्यश्रुतावित्यस्य उक्तो ह्युपसंहार इत्यनुषङ्गः । अतः तत्प्रमाणम स्त्येवेत्यन्वयः ॥ २ ॥ ॥ इति उपसंहाराधिकरणम् ॥ ३. अधिकरणम् ॥ ( १ ) अत्राधिकरणे प्रागुक्तोपसंहारानुपसंहारयोः पुरुषभेदेन क र्तव्यत्वं समर्थ्यते । सूत्रे समञ्जसमित्यनेन असमञ्जसमिति पूर्वपक्षस्य सूचनात्तमुपन्यस्य सिद्धान्तयत्सूत्रमुपन्यस्य व्याचष्टे—प्राप्तेश्चे ति ॥ समञ्जसमित्यस्यार्थो—युज्यत इति । चशब्दोऽवधारणे । अनेन सौत्रश्चशब्दः भिन्नक्रम इति सूचितम् । उपसंहारोऽनुपसंहार इति सूत्रेऽनुषक्तपदस्यार्थकथनम् । चः समुच्चये । युज्यत इत्यस्य प्रत्येकं
८२८ ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ]
युज्यते चोपसंहारोऽनुपसंहारश्च योग्यताविशेषात् । ( २ ) गुणैस्सर्वैरूपास्योऽसौ ब्रह्मणा परमेश्वरः । अन्यैर्यथाक्रमं चैव मानुषैः कैश्चिदेव तु ॥ इति भविष्यत्पर्वणि ॥ १० ॥ :—*—: ४. अधिकरणम् ॥ ( १ ) सू—ॐ ॥ सर्वाभेदादन्यत्रेमे ॥ ॐ ॥ ११ ॥
सम्बन्धः । पुरुषभेदेनेति शेषः । नन्वनेनोपसंहारः कर्तव्यः अनेनानुप- संहार इति निर्णयाभावात् तौ पुरुषभेदेनापि न युक्तावित्यतस्तदुत्तर- त्वेन प्राप्तेरित्येतद्व्याचष्टे—योग्यतेति । प्राप्यते फलमनयेति प्राप्तिर्यो- ग्यता । तथा च स्वभुजवत् ध्यानकाले युगपद्बहुणप्रतीत्यादियोग्यता- विशेषादित्यर्थः । विशेषात् प्राप्तेरित्यनेन प्राप्तेरित्यस्य पुरुषविशेषात् निर्णयसंभवादित्यप्यर्थ उक्तो भवति । तत्र युगपद्वेदोक्तसर्वगुणप्रती- तियोग्यता ब्रह्मणः । देवपित्रादीनां क्रमेण न्यूनगुणप्रतीतिः । मानुषा- णामल्पगुणप्रतीतिरित्येवं युगपत्प्रतीत्यादियोग्यता ज्ञातव्या ॥ ( २ ) युगपत्सर्वगुणप्रतीतिः ब्रह्मणः, अन्येषां क्रमेणेति तदेव शृङ्गग्राहिकया स्मृत्या दर्शयति—गुणैरिति ॥ 'अन्यैः' चतुर्मुखेतर- देवपित्रादिभिः । चोऽप्यर्थः । मानुषैस्त्वित्यन्वयः । 'कैश्चित्' अल्पै- रानन्दादिगुणैः । यद्यपि स्मृतावूपासनाविशेष एवोच्यते न तु प्रती- तिनियमः । तथापि ध्यानरूपोपासनस्य गुणप्रतीतिसाध्यत्वादर्थात्त- ल्लाभ इति भावः । तथा च सर्वैर्गुणैरित्यस्य युगपत् प्रतीतेरित्यभ्युप- गमान्नासंगतिरिति भावः ॥ ३ ॥ ॥ इति प्राप्त्यधिकरणम् ॥
४. अधिकरणम् ॥
( १ ) अत्राधिकरणे बहुगुणोपसंहारस्य फलातिशयोक्त्या कर्तव्यता
समर्थ्यते । प्रमाणाभावेन फलविशेषानिर्णयादयुक्तो बहुगुणोपसंहार
इति प्राप्ते सिद्धान्तयत्सूत्रं पठित्वा व्याचष्टे—सर्वेति ॥ अत्र पूर्वसूत्राद-
वधारणार्थकचशब्दशिरस्कस्य विपरिणतसमञ्जसपदस्योपसंहारस्तू-
त्रादुपसंहारपदस्य चानुवृत्त्या युक्त एव ब्रह्मादीनां यथायोगं बहुगुणो-
पसंहार इति साध्यलाभमभिप्रेत्य तत्र हेतुसमर्पकतया सूत्रं व्याचष्टे—
[ अधि - ५. सू - १२. ] दीपिकासहितम्. ८२९ सर्वगुणयुक्तत्वेनोपासनादन्यत्रैव फले ब्रह्मादयो भवन्ति। ( २ ) सम्पूर्णोपासनाद्ब्रह्मा सम्पूर्णानन्दभाग्भवेत् । इतरे तु यथायोगं सम्यङ्मुक्तौ भवन्ति हि ॥ इति पाद्मे ॥ ११ ॥ —-::-— ५. अधिकरणम् ॥ ( १ ) सर्वेषां मुमुक्षूणां कियन्नियमेनोपास्यमित्यत आह— सर्वैति । सर्वगुणयुक्तत्वेनोपासनादित्यनेन सर्वाभेदादित्यस्य एते गु- णा उपसंहर्तव्या एते तु नेति विभागं विना सर्वेषां गुणानामभेदादवि- भागेनेत्यर्थ उक्तो भवति । 'उपासनात् ' उपसंहृत्योपासनान्निमित्ता- दिति शेषः । अन्यत्रेत्यस्य विशेष्यमाह—फल इति । एवकारेणाल्पफ- लव्यावृत्तिः । अनेनान्यत्रेत्यस्यानुपसंहाराल्पाधिकारिभ्योऽन्यत्र तत्फ- लविलक्षणे फले इत्यर्थ उक्तो भवति। इमे इत्यस्यार्थो—ब्रह्मादय इति। इमे इति विशेषतः प्रस्तुतत्वात् सर्वोपसंहारा उच्यन्त इति तत्त्वप्रदी- पोक्तेः । यद्यपि ब्रह्मैव सर्वोपासक इति आदिपदानुपपत्तिः । तथाऽपि तदनतिन्यूनब्रह्माण्यादिविषयमादिपदमित्युक्तं तत्त्वप्रदीपे । भवन्ती- ति सूत्रे शेषोक्तिः । यत इति शेषः । अस्य लब्धसाध्येनान्वयः ॥ ( २ ) न केवलमुपासनानां महदल्पत्वाभ्यां तत्फलानामपि महद- ल्पत्वे निश्चीयेते, किन्तु तथा स्मृत्युक्तत्वाच्चेत्याह— सम्पूर्णेति ॥ 'आ- नन्दभाक् ' आनन्दयुक्तः । तुशब्दोऽप्यर्थः । सम्यगिति क्रियाविशेषण- म् । तथा च 'इतरे तु' ब्रह्म ब्रह्माणीतरदेवादयोऽपि 'यथायोगं' यथायो- ग्यं उपासनात् मुक्तौ यथायोगं 'सम्यग्भवन्ति' अतिशयवन्तो भव- न्तीत्यर्थः । तत्त्वप्रदीपे तु सम्यङ्मुक्तावित्येकपदाभिप्रायेण इतरे तु यथायोगं यथाशक्त्युपास्तिं कुर्वाणाः 'सम्यङ्मुक्तौ भवन्ति' यथा- योगं फलभाजो भवन्ति । सम्यङ्मुक्ताविति वचनादत्यल्पगुणोपास- कानामपि सम्यङ्मुक्तिरेव नासम्यङ्मुक्तिरिति सिध्यति । दुःखलेशा- भावादिति विशेषार्थ उक्तः । पाद्मे वचनादिति शेषः ॥ ४ ॥ ॥ इति सर्वाभेदाधिकरणम् ॥ :: ५. अधिकरणम् ॥ ( १ ) अत्राधिकरणे सर्वमुमुक्षुसाधारणोपास्यगुणा निर्णाय्यन्ते ।
८३० ब्रह्मसूत्रभाष्यम्. [ अध्या - ३. पा - ३. ] सू—ॐ ॥ आनन्दादयः प्रधानस्य ॥ १२ ॥ प्रधानफलस्य मोक्षस्यार्थे आनन्दो ज्ञानं सदात्मेत्यु पास्य एव । पूर्वपक्षं सूचयति — सर्वेषामिति ॥ कियदित्याक्षेपे । उपास्यगुणजातं 'कियत्' न कियदित्यर्थः । अनेन संख्याक्लप्त्याक्षेपः कृतो भवति । किमुपास्यमिति निर्देशक्लप्त्याक्षेपस्याप्युपलक्षकमेतत् । क्वचित् किं मिति पाठः । तदा व्यत्यासः । एवं कियत्किमित्यनयोः नियमशब्देना न्वय यदितीत्थंशब्दाध्याहारेण यदि उपास्यगुणाः चत्वारः पञ्च वा इति चोद्यते तर्हि अन्येषामपि समुच्चयसम्भवात् नैते, अन्ये एवेत्यपि वक्तुं शक्यत्वात् कियत् नियमेन किं नियमेनेति नियमाक्षेपपरत्वेनापीदं व्याख्येयम् । इत्यत इति । सर्वमुमुक्षूपास्यगुणानिर्णयान्न कस्याप्युपा सनं युक्तमित्यर्थः । आहेति । सिद्धान्तं सूत्रकार इति शेषः । सूत्रे प्र धानस्येति हेत्वंशं व्याचष्टे—प्रधानफलस्येति । शेषित्वेन प्रधानस्य फलस्येत्यर्थः । यद्वा—फलेषु प्रधानस्येत्यर्थः । फलं निर्दिशति—मो क्षस्येति । अर्थ इति शेषोक्तिः । मोक्षप्रयोजनायेत्यर्थः । आनन्दादय इ ति साध्यभागं व्याचष्टे—आनन्द इत्यादिना । सर्वेषां मुमुक्षूणामित्य त्रापि सम्बध्यते । सर्वमुमुक्षुभिरित्यर्थः । सदात्मेति भावप्रधानो निर्दे शः । इतिशब्दो वस्तुनिर्देशार्थः । गुणा इति शेषः । एवशब्दस्य एते एवेत्यध्याहृतपदेन सम्बन्धः । न च चतुर्गुणोपासनस्य सर्वमुमुक्षुसा धारण्यानुपपत्तिरेकगुणोपासकानां तदभावात् । अन्यथा 'आत्मेत्येव परं देवमुपास्य' इति वचनविरोधापत्तेरिति वाच्यम् । अस्य चतुर्वि धमोक्षयोग्याधिकारिविषयत्वात् । अत एव तत्र टीका—न चानन्दा दयः प्रधानस्येत्युक्तिविरोधः । तदुपासनस्य सम्पूर्णमोक्षार्थत्वात् । अत्र च 'नोत्क्रामन्ति' इति पूर्णमोक्षाभावोक्तेरिति । न चास्य देव साधारण्यानुपपत्तिः । देवानामुत्क्रान्तिमार्गयोरभावादिति वाच्यम् । तेषामप्यंशेनोत्क्रान्तिसम्भवात्, तत्प्राप्तेः पूर्वं तत्सम्भवाच्च । न च 'सच्चिदानन्द आत्मेति मानुषैः' इत्यणुभाष्ये, ये सम्यङ्मुक्तिमात्रमि च्छन्ति तत्र विशेषान् तेषां ये गुणा उपास्याः ते कियन्त इत्यधुना नि रूप्यत इति तत्त्वप्रदीपे च अस्योपासनस्य मनुष्यमात्राधिकारत्वोक्ते र्विरोध इति वाच्यम् । प्राधान्येन चतुर्गुणोपासनं मनुष्याणामेवेत्यभि प्रायेण ग्रन्थद्वयप्रवृत्तेः । देवैस्तु साधारण्येनैव तदुपास्तेः करणात् ।