भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

४१२ रघुवंशमहाकाव्ये

अन्वयः—हृदयन्यस्तमणिस्पर्शन्निमीलितः स अपयोधरसन्सर्गां प्रियालिङ्गन-निर्वृतिं प्राप ।

स तति । हृदये वक्षसि न्यस्तस्य धृतस्य मणेरभिज्ञानरत्नस्य स्पर्शेन निमीलितो मोहितः स रामोऽविद्यमानः पयोधरसंसर्गः स्तनस्पर्शो यस्यास्तां तथाभूताम् । प्रियाया आलिङ्गनेन या निर्वृतिरानन्दस्तां प्राप ।

भाषार्थ—उस चूड़ामणि को हृदय से लगाकर राम आनन्दमग्न होकर आँखें बन्द कर लिए । उस समय उन्हें ऐसा मालूम होता था मानों स्तनस्पर्श से रहित सीताजी ही हृदय से आ लगी हों ॥ ६५ ॥

श्रुत्वा रामः प्रियोदन्तं मेने तत्सङ्गोत्सुकः ।
महार्णवपरिक्षेपं लङ्कायाः परिखालघुम् ॥ ६६ ॥

अन्वयः—प्रियोदन्तं श्रुत्वा तत्संसर्गोत्सुकः रामः लङ्कायाः महार्णवं परिक्षेपं परिखालघुम् मेने ।

श्रुत्वेति । प्रियाया उदन्तं वार्ताम् । ‘उदन्तः साधुवार्तयोः’ इति विश्वः । श्रुत्वा तस्याः सीतायाः सङ्गम उत्सुकः रामो लङ्कायाः सम्बन्धी यो महार्णव एव परिक्षेपः परिवेष्टस्तं परिखालघुं दुर्गवेष्टनवत्सुतरां मेने ।

भाषार्थ—सीताजी का समाचार सुनकर उनसे मिलने के लिए राम अत्यन्त उत्सुक हो गये उस उत्सुकता में उन्हें लंका के चारों ओर का चौड़ा और गहरा समुद्र खाई से भी छोटा लगने लगा ॥ ६६ ॥

स प्रतस्थेऽरिनाशाय हरिसैन्यैरनुद्रुतः ।
न केवलं भुवः पृष्ठे व्योम्नि संबाधवर्तिभिः ॥ ६७ ॥

अन्वयः—केवलं भुवः पृष्ठे न किन्तु व्योम्नि (च) संबाधवर्तिभिः हरिसैन्यैः अनुद्रुतः स अरिनाशाय प्रतस्थे ।

स इति । केवलमेकं भुवः पृष्ठे भूतले न किन्तु व्योम्नि च सम्बाधवर्तिभिः सङ्कठगामिभिर्हरिसैन्यैः कपिबलैरनुद्रुतोरन्वितः सन् रामोऽरिनाशाय प्रतस्थे चचाल ।

भाषार्थ—वे वानरों की अपार सेना लेकर शत्रु का संहार करने के लिए चल पड़े । वह सेना इतनी अधिक थी कि पृथ्वी की कौन कहे, आकाश में भी बड़ी कठिनाई से चल पाती थी ॥ ६७ ॥

निविष्टमुदधेः कूले तं प्रपेदे विभीषणः ।
स्नेहाद्राक्षसलक्ष्म्येव बुद्धिमाविश्य चोदितः ॥ ६८ ॥

द्वादशः सर्गः ४१३

अन्वयः—उदधेः कूले निविष्टं तं विभीषणः राक्षसक्ष्म्या स्नेहात् बुद्धिम् आविश्य इव प्रपेदे ।

निविष्टमिति । उदधेः कूले निविष्टं तं रामं । विशेषेण भीषयते शत्रूनिति विभीषणो रावणानुजः । राक्षसक्ष्म्या स्नेहाद्बुद्धिं कर्तव्यताज्ञानमाविश्य चोदितः प्रणोदित इव प्रपेदे प्राप्तः ।

भाषार्थ—जब राम समुद्र तट पर पहुँचे, तब रावण के छोटे भाई विभीषण उनसे मिलने के लिए आये, मानों राक्षसों की राजलक्ष्मी ने उनकी बुद्धि में बैठकर वह समझा दिया हो कि अब राम की शरण में जाने पर ही तुम्हारा कल्याण है ॥ ६८ ॥

तस्मै निशाचरैश्वर्यं प्रतिशुश्राव राघवः ।
काले खलु समारब्धाः फलं बध्नन्ति नीतयः ॥ ६९ ॥

अन्वयः—राघवः तस्मै निशाचरैश्वयं प्रतिशुश्राव काले समारब्धा नीतयः फलं बध्नन्ति खलु ।

तस्मा इति । राघवस्तस्मै विभीषणाय । "प्रत्याङ्भ्यां श्रुवः पूर्वस्य कर्ता" सम्प्रदानत्वाच्चतुर्थी । निशाचरैश्वर्यं राक्षसाधिपत्यं प्रतिशुश्राव प्रतिज्ञातवान् । तथाहि कालेऽवसरे समारब्धाः प्रक्रान्ता नीतयः फलं बध्नन्ति गृह्णन्ति खलु जनयन्तीत्यर्थः ।

भाषार्थ—राम ने भी उनसे यह प्रतिज्ञा कर ली कि मैं आपको राक्षसों का राजा बना दूंगा । ठीक है, समय पर काम में लाई हुई नीति आगे चलकर अवश्य ही सफल होती है ॥ ६९ ॥

स सेतुं बबन्धयामास प्लवगैर्लवणाम्भसि ।
रसातलादिवोन्मग्नं शेषं स्वप्नाय शार्ङ्गिणः ॥ ७० ॥

अन्वयः—स लवणाम्भसि प्लवगैः शार्ङ्गिणः स्वप्नाय रसातलात् उन्मग्नं शेषं इव सेतुं बन्धयामास ।

स इति । स रामो लवणं क्षारमम्भो यस्यासौ लवणाम्भस्तस्मिंल्लवणाम्बधौ प्लवगैः प्रयोज्यैः शार्ङ्गिणो विष्णोः स्वप्नाय शयनाय रसातलात्पातालादुन्मग्नमुत्थितं शेषमिव स्थितं सेतुं बन्धयामास ।

भाषार्थ—राम ने वानरों के द्वारा क्षार समुद्र पर जो पत्थरों का पुल बँधवाया, वह ऐसा जान पड़ता था कि मानों विष्णु को अपने ऊपर सुलाने के लिए स्वयं शेषनाग ही पाताल से ऊपर आये हों ॥ ७० ॥

द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥

४१४रघुवंशमहाकाव्ये

तेनोत्तीर्य पथालङ्कां रोधयामास पिङ्गलैः ।
द्वितीयं हेमप्राकारं कुर्वद्भिरिव वानरैः ॥ ७१ ॥

अन्वयः— ( रामः ) तेन पथा ( सागरं ) उत्तीर्य पिङ्गलैः द्वितीयं हेमप्राकारं कुर्वद्भिः इव वानरैः लङ्का रोधयामास ।

तेनेति । रामस्तेन पथा सेतुमार्गेणोत्तीर्य सागरमिति शेषः । पिङ्गलै सुवर्णवर्णै रत एव द्वितीयं हेमप्राकारं कुर्वद्भिरिव स्थितैर्वानरैर्लङ्कां रोधयामास ।

भाषार्थ— उस पुल से समुद्र पार करके पीले-पीले वानरों ने लंका को चारों ओर से घेर लिया। उनसे घिरी हुई लंका ऐसी जान पड़ती थी मानो लंका के चारों ओर सोने का दूसरा परकोटा बन गया है ॥ ७१ ॥

रणः प्रववृते तत्र भीमः प्लवगरक्षसाम् ।
दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषणः ॥ ७२ ॥

अन्वयः— तत्र प्लवगरक्षसां भीमः दिग्विज़ृम्भितकाकुत्स्थपौलस्त्यजयघोषण रणः प्रववृते ।

रण इति । तत्र लङ्कायां प्लवगानां रक्षसां च भीमो भयङ्करो दिग्विज़ृम्भितं काकुत्स्थपौलस्त्ययो रामरावणयोर्जयघोषणं जयशब्दो यस्मिन्स तथोक्तो रणः प्रववृते प्रवृत्तः । 'अस्त्रियां समरानीकरणाः कलविग्रहौ' इत्यमरः ।

भाषार्थ— लंका में वानरों और राक्षसों का ऐसा भयंकर युद्ध होने लगा कि राम और रावण की जयकारों से दिशायें गूंज उठीं ॥ ७२ ॥

पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः ।
अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ॥ ७३ ॥

अन्वयः— पादपाविद्धपरिघः शिलानिष्पिष्टमुद्गरः अतिशस्त्रनखन्यासः शैलरुग्णमतङ्गजः ( रण प्रववृते ) ।

पादपेति । किविधो रणः पादपैर्वृक्षैराविद्धा भग्नाः परिघा लोहबद्धकाष्ठानि यस्मिन्स तथोक्तः । 'परिघः परिघातनः' इत्यमरः । शिलाभिर्निष्पिष्टाश्चूर्णिता मुद्गरा अयोधना यस्मिन्स तथोक्तः 'द्रुघणो मुद्गरघनो' इत्यमरः । अतिशस्त्राः शस्त्राण्यतिक्रान्ता नखन्यासा यस्मिन्स तथोक्तः । शैलै रुग्णा भग्ना मतङ्गजा यस्मिन्स तथोक्तः ।

भाषार्थ— उस युद्ध में वानर वृक्षों से मार-मारकर परिघों को तोड़ देते थे, पत्थर बरसा कर राक्षसों के मुद्गरों को चूर-चूर कर देते थे, अपने नखों से ऐसे

द्वादशः सर्गः ४१५

द्वादशः सर्गः ४१५

भयंकर घाव करते थे कि शस्त्रों से भी वैसे घाव नहीं हो सकते थे और लड़ाकू हाथियों के शिरों पर बड़ी-बड़ी चट्टानें फेंककर उनका कचूमर निकाल देते थे ॥ ७३ ॥

अथ रामशिरश्छेददर्शनोद्भ्रान्तचेतनाम् ।
सीतां मायेति शंसन्ती त्रिजटा समजीवयत् ॥ ७४ ॥

अन्वयः—अथ शिरच्छेददर्शनोद्भ्रान्तचेतनां सीतां त्रिजटा माया इति शंसन्ती समजीवयत् ।

अथेति । अथानन्तरं छिद्यत इति छेदः खण्डः शिर एव छेद इति विग्रहः । रामशिरच्छेदस्य विद्युज्जिह्वाख्यराक्षसमायानिर्मितस्य दर्शनेनोद्भ्रान्तचेतनां गतसंज्ञां सीतां त्रिजटा नाम काचित्सीतापक्षपातिनी राक्षसी मायाकल्पितं नत्वेतत्सत्यमिति शंसन्ती ब्रुवाणा । "इयप्स्यनोर्नित्यम्" इति नित्यं नुमागमः। समजीवयत् ।

भाषार्थ—इसी बीच विद्युज्जिह्व नामक एक राक्षस ने माया से कटा हुआ राम का शिर बनाकर सीताजी के सामने ला पटका, उसे देखते ही सीताजी व्याकुल हो गई, पर त्रिजटा ने उन्हें समझाया कि यह राक्षसी माया है, तब सीता जी को जान में जान आ गई ॥ ७४ ॥

कामं जीवति मे नाथ इति सा विजहौ शुचम् ।
प्राङ्मत्वा सत्यमस्यान्तं जीविताऽस्मीति लज्जिता ॥ ७५ ॥

अन्वयः—सा मे नाथः जीवति इति शुचं कामं विजहौ, ( किन्तु ) प्राक् अस्य अन्त सत्यं मत्वा जीविता अस्मि इति लज्जिता ।

काममिति । सा सीता मे नाथो जीवतीति हेतोः शुचं शोको कामं विजहौ तत्याज । किन्तु प्राक्पूर्वमस्य नाथस्यान्तं नाशं सत्यं यथार्थं मत्वा जीविता - जीवतवत्यस्मीति हेतोर्लज्जिता लज्जावती । कर्तरि क्तः । दुःखादपि दुःसहो लज्जाभार इति भावः ।

भाषार्थ—यह जानकर सीताजी ने शोक करना तो छोड़ दिया कि मेरे पतिदेव राम अभी जीवित हैं, पर उन्हें इस बात की बड़ी लज्जा हुई कि पहले पति के मारे जाने का समाचार सुनकर भी मैं जीती रह गई, उसी क्षण मर नहीं गई ॥ ७५ ॥

गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः ।
दाशरथ्योः क्षणक्लेशः स्वप्नवृत्त इवाभवत् ॥ ७६ ॥

अन्वयः—गरुडापातविश्लिष्टमेघनादास्त्रबन्धनः क्षणक्लेशः दाशरथ्योः स्वप्नवृत्त इव अभवत् ।

गरुडेति । गरुडस्तार्क्ष्यः तस्यापातेनागमनेन विश्लिष्टं मेघनादस्येन्द्रजितोऽस्त्रेण

४१६रघुवंशमहाकाव्ये

नागपाशेन बन्धनं यस्मिन्स तथोक्तः । क्षणक्लेशो दाशरथ्योः रामलक्ष्मणयोः स्वप्नवृत्तः स्वप्नावस्थायां भूत इवाभवत् ।

**भाषार्थ—**उसी समय मेघनाद ने राम और लक्ष्मण को नागपाश में बाँध लिया, पर गरुण ने आकर उस फन्दे को तत्काल काट दिया । पाश में बँधने का यह क्षण भर का क्लेश भी उन दोनों भाइयों को ऐसा मालूम पड़ा, मानों स्वप्न में हुआ हो ७६ ॥

ततो बिभेद पौलस्त्यः शक्त्या वक्षसि लक्ष्मणम् ।
रामस्त्वनाहतोऽप्यासीद्विदीर्णहृदयः शुचा ॥ ७७ ॥

**अन्वयः—**ततः पौलस्त्यः शक्त्या लक्ष्मणं वक्षसि बिभेद, रामः तु अनाहतः अपि शुचा विदीर्णहृदयः आसीत् ।

तत इति । ततः पौलस्त्यो रावणः शक्त्या कासूनामकेनायुधेन । 'कासूसा-मर्थ्ययोः शक्तिः' इत्यमरः । लक्ष्मणं वक्षसि बिभेद विदारयामास । रामस्त्वना-हतोऽप्यहतोऽपि शुचा शोकेन विदीर्णहृदय आसीत् ।

**भाषार्थ—**तब पुलस्त्य के कुल में उत्पन्न रावण के पुत्र मेघनाद ने खींचकर लक्ष्मण की छाती पर ऐसा शक्तिबाण मारा, कि लक्ष्मण तत्काल गिर गये और उन्हें देखकर यद्यपि राम को किसी प्रकार की चोट नहीं लगी थी फिर भी उनका हृदय शोक से फटने लगा ॥ ७७ ॥

स मारुतिसमानीतमहौषधिहतव्यथः ।
लङ्कास्त्रीणां पुनश्चक्रे विलापाचार्यकं शरैः ॥ ७८ ॥

**अन्वयः—**स मारुतिसमानीतमहौषधिहतव्यथः (सन् ) पुनः शरैः लङ्कास्त्रीणां विलापाचार्यकं चक्रे ।

स इति । स लक्ष्मणो मारुतिना मरुत्सुतेन हनुमता समानीतया महौषध्या संजीवन्या हतव्यथः सन्पुनः शरैर्लङ्कास्त्रीणां विलापे परिदेवने । 'विलापः परि-देवनम्' इत्यमरः । आचार्यकमाचार्यकर्म "योपधाद्गुरूपोत्तमाद्वुञ्" इति वुञ् । चक्रे । पुनरपि राक्षसाञ्घानेति व्यज्यते ।

**भाषार्थ—**हनुमान् जी तत्काल जाकर धवलागिरि पर्वत से संजीवनी बूटी लाये, जिसके पिलाते ही लक्ष्मण की मूर्च्छा छूट गई और सारी पीड़ा दूर हो गई । फिर उठकर उन्होंने अपने बाणों से अगणित राक्षसों को मारकर लंका की स्त्रियों के रोने में आचार्य का कार्य किया । अर्थात् उनके बाणों से राक्षसों के मारे जाने पर उनकी स्त्रियाँ विलाप करने लगीं ॥ ७८ ॥

द्वादशः सर्गः
४१७

स नादं मेघनादस्य धनुश्चेन्द्रायुधप्रभम् ।
मेघस्येव शरत्कालो न किञ्चित्पर्यशेषयत् ॥ ७९ ॥

अन्वयः— सः शरत्कालः मेघस्य इव मेघनादस्य नादं इन्द्रायुधप्रभं धनुः च किञ्चित् अपि न पर्यशेषयत् ।

स इति । स लक्ष्मणः शरत्कालो मेघस्येव मेघनादस्येन्द्रजितो नादं सिंहनादम् । अन्यत्र गर्जितं च । इन्द्रायुधप्रभं शक्रधनुःप्रभं धनुश्च किञ्चिदल्पमपि न पर्यशेषयन्नावशेषितवान् । तमवधीदित्यर्थः ।

भाषार्थ— जिस प्रकार शरद् ऋतु वर्षा कालीन मेघ के गर्जन और इन्द्रधनुष को नष्ट कर देता है उसी प्रकार लक्ष्मण ने मेघनाद के गर्जन और इन्द्रधनुष के समान प्रभाववाले धनुष को नष्ट कर डाला । अर्थात् लक्ष्मण ने मेघनाद को मार डाला ॥ ७९ ॥

कुम्भकर्णः कपीन्द्रेण तुल्यावस्थः स्वसुः कृतः ।
रुरोध रामं शृङ्गीव टङ्कच्छिन्नमनःशिलः ॥ ८० ॥

अन्वयः— कपीन्द्रेण स्वसुः तुल्यावस्थः कृतः कुम्भकर्णः टङ्कच्छिन्नमनःशिलः शृङ्गी इव रामं रुरोध ।

कुम्भकर्णं इति । कपीन्द्रेण सुग्रीवेण स्वसुः सूर्पणखायास्तुल्यावस्थो नासाकर्णच्छेदेन सदृशः कृतः । कुम्भकर्णष्टङ्केन शिलाभेदकशस्त्रेण छिन्न मनःशिला रक्तवर्णं धातुविशेषो यस्य स तथोक्तः । 'टङ्कः पाषाणदारणः' इति 'धातुर्मनःशिलाद्यद्रेः' इति शृङ्गी शिखरीव रामं रुरोध ।

भाषार्थ— उधर वानरराज सुग्रीव ने कुम्भकर्ण की नाक काटकर शूर्पणखा के समान बना दिया था वह राम का मार्ग रोककर वैसे ही सामने खड़ा हो गया जैसे टांगी से कटी मैनसिल की चट्टान आ गिरी हो ॥ ८० ॥

अकाले बोधितो भ्रात्रा प्रियस्वप्नो वृथा भवान् ।
रामेषुभिरितीवासौ दीर्घनिद्रां प्रवेशितः ॥ ८१ ॥

अन्वयः— प्रियस्वप्नः भवान् वृथा भ्रात्रा अकाले बोधितः इति इव असौ रामेषुभिः दीर्घनिद्रां प्रवेशितः ।

अकाल इति । प्रियस्वप्न इष्टनिद्रोऽनुजो भवान्वृथा भ्रात्रा रावणेनाकाले बोधित इतीवासौ कुम्भकर्णो रामेषुभी रामबाणैर्दीर्घनिद्रां मरणं प्रवेशितो गमितः । यथा लोकेष्विष्टवस्तुविनाशदुःखितस्य ततोऽपि भूयिष्ठमुपपाद्यते तद्वदिति भावः ।

भावार्थ— राम के बाणों से घायल होकर कुम्भकर्ण गिरकर मर गया, मानो
२७ र० सम्पू०

४१८ रघुवंशमहाकाव्ये

राम के बाणों ने उसे यह कहकर गहरी नींद में सुला दिया कि तुमको नींद बड़ी प्यारी है, तुम्हारे भाई रावण ने व्यर्थ ही तुम्हें असमय में जगा दिया है ॥ ८१ ॥

इतराण्यपि रक्षांसि पेतुर्वानरकोटिषु ।
रजांसि समरोत्थानि तच्छोणितनदीष्विव ॥ ८२ ॥

**अन्वयः—**इतराणि रक्षांसि अपि वानरकोटिषु समरोत्थानि रजांसि तच्छोणितनदीषु इव पेतुः ।

इतराणीति । इतराणि रक्षांस्यपि वानरकोटिषु समरोत्थानि रजांसि तेषां रक्षसां शोणितनदीषु रक्तप्रवाहेष्विव पेतुः निपत्य मृतानीत्यर्थः ।

**भाषार्थ—**और भी बहुत से राक्षस करोड़ों वानरों की सेना के बीच में इस प्रकार गिर रहे थे, मानो राक्षसों के रक्त की नदी में रणक्षेत्र से उठी हुई धूली पड़ रही हो ॥ ८२ ॥

निर्ययावथ पौलस्त्यः पुनर्युद्धाय मन्दिरात् ।
अरावणमरामं वा जगदद्येति निश्चितः ॥ ८३ ॥

**अन्वयः—**अथ पौलस्त्यः अद्य जगत् अरामं अरावणं वा ( भवेत् ) इति निश्चितः पुनः युद्धाय मन्दिरात् निर्ययौ ।

निर्ययाविति । अथ पौलस्त्यो रावणः अद्य जगदरावणं रावणशून्यं रामशून्यं वा भवेदिति निश्चितो निश्चितवान् । कर्तरि क्तः । विजयमरणयोरन्तरनिश्चयवान्पुनर्युद्धाय मन्दिरात्निर्ययौ निर्जगाम ।

**भाषार्थ—**इसके बाद रावण युद्ध के लिए अपने राजभवन से निकल पड़ा, उसने अपने मन में ठान लिया था कि आज संसार में या तो रावण ही नहीं रहेगा या राम ही नहीं रहेंगे । अर्थात् मैं मर जाऊँगा या राम को ही मार डालूँगा ॥ ८३ ॥

रामं पदातिमालोक्य लङ्केशं च वरूथिनम् ।
हरियुग्यं रथं तस्मै प्रजिघाय पुरन्दरः ॥ ८४ ॥

**अन्वयः—**पदातिं रामं वरूथिनम् लंकेशं च आलोक्य पुरन्दरः हरियुग्यं रथं तस्मै प्रजिघाय ।

राममिति । पादाभ्यामततीति पदातिः पादचारिणं रामम् । वरूथो रथगुप्तिः । ‘रथगुप्तिर्वरूथो ना' इत्यमरः । अत्र वरूथेन रथो लक्ष्यते । वरूथिनं रथिनं लंकेशं चालोक्य पुरन्दर इन्द्रः । युगं वहन्तीति युग्या रथाश्वाः “तद्वहति रथयुगप्रासङ्गम्”

द्वादशः सर्गः ४१६

इति यत्प्रत्ययः । हरियुग्यं कपिलवर्णाश्वम् । 'शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु' इत्यमरः । रथं तस्मै रामाय प्रजिघाय प्रहितवान् ।

भाषार्थ—रावण को रथ पर सवार और राम को पैदल देख कर इन्द्र ने अपना वह रथ भेजा, जिसमें पीले रंग के घोड़े जुते हुए थे ॥ ८४ ॥

तमाधूतध्वजपटं व्योमगङ्गोर्मिवायुभिः ।
देवसूतभुजालम्बी जैत्रमध्यास्त राघवः ॥ ८५ ॥

अन्वयः—राघवः व्योम गङ्गोर्मिवायुभिः आधूतध्वजपटं जैत्रं त देवसूतभुजालम्बी ( सन् ) अध्यास्त ।

तमिति । राघवो व्योमगङ्गोर्मिवायुभिराधूतध्वजपटम् । मार्गवशादिति भावः । जैतेव जैत्रो जयनशीलः तम् जैत्रं । जैतृशब्दात्तन्नन्तात् ‘प्रज्ञादिभ्यश्च' इति स्वार्थेऽणप्रत्ययः । तं रथं देवसूतभुजालम्बी मातलिहस्तावलम्बी सन्नध्यास्ताधिष्ठितवान् । आसेर्लङ् ।

भाषार्थ—उस रथ की ध्वजा आकाश गंगा की लहरों की हवा से फड़फड़ाती चल रही थी । इन्द्र के सारथी मातलि का हाथ पकड़कर रामजी उस विजयशील रथ पर चढ़ गये ॥ ८५ ॥

मातलिस्रतस्य माहेन्द्रमामुमोच तनुच्छदम् ।
यत्रोत्पलदलक्लैव्यमस्त्राण्यापुः सुरद्विषाम् ॥ ८६ ॥

अन्वयः—मातलिः माहेन्द्रं तनुच्छदं तस्य मुमोच यत्र सुरद्विषां अस्त्राणि उत्पलदलक्लैव्यं आपुः ।

मातलिरिति । मातलिरेन्द्रसारथिर्माहेन्द्रम् । तनुश्छाद्यतेऽनेनेति तनुच्छदो वर्म । “पुंसि संज्ञायां घः प्रायेण” इति घः। तं तस्य रामस्यास्यामुमोवासञ्जयामास । यत्र तनुच्छदे सुरद्विषामस्त्राण्युत्पलदलानां यत्क्लैव्यं नपुंसकत्वं निरर्थकत्वं तदापुः ।

भावार्थ—मातलि ने राम को इन्द्र का वह कवच भी पहना दिया जिस पर राक्षसों के अस्त्र ऐसे लगते थे मानों वे अस्त्र नहीं है। किन्तु कमल के पुष्प हों ॥ ८६ ॥

अन्योन्यदर्शनप्राप्तविक्रमावसरं चिरात् ।
रामरावणयोर्युद्धं चरितार्थमिवाभवत् ॥ ८७ ॥

अन्वयः—चिरात् अन्योऽन्यदर्शनावाप्तविक्रमावसरं रामरावणयोः युद्धं चरितार्थम् इव अभवत् ।

अन्योन्येति । चिरादन्योन्यदर्शनेन प्राप्तविक्रमावसरं रामरावणयोर्युद्धमायोधनं चरितार्थं सफलमभवदिव । प्राक्पराक्रमावसरदौर्बल्याद्विफलस्याद्य तल्लाभात्साफल्यमुत्प्रेक्ष्यते ।

४२०रघुवंशमहाकाव्ये

भाषार्थ—बहुत दिनों के बाद राम और रावण ने एक दूसरे को देखा । इसलिए उन दोनों को अपनी-अपनी वीरता दिखाने का अवसर मिल गया, राम-रावण का युद्ध आज सफल सा हो गया ॥ ८७ ॥

भुजमूर्धोरुबाहुल्यादेकोऽपि धनदानुजः ।
ददृशे ह्ययथापूर्वो मातृवंश इव स्थितः ॥ ८८ ॥

अन्वयः—अयथापूर्वः एकः अपि धनदानुजः भुजमूर्धोरुबाहुल्यात् मातृवंशे स्थित इव ददृशे ।

भुजेति। यथाभूतः पूर्वं यथापूर्वः। सुप्सुपेति समासः । यथापूर्वो न भवतीत्य-यथापूर्वः । निहतबन्धुत्वाद्रक्षः परिचारशून्य इत्यर्थः । अत एवैकोऽपि सन्धन-दानुजो रावणः भुजांश्च मूर्धानंश्चोरवः पादाश्च भुजमूर्धोरुप्राण्यङ्गत्वाद्द्वन्द्वैकवद्भावः । तस्य बाहुल्याद्बहुत्वाद्धेतोः । तद्वहुत्वे यादवः—‘दशास्यो विशतिभुज-श्चतुष्पान्मातृमन्दिरे’ इति । मातृवंशे मातृसम्बन्धिनि वर्गे स्थित इव ददृशे दृष्टो हि । 'वंशो वेणौ कुले वर्गे' इति विश्वः । अत्र रावणात् रक्षो जातित्वात्तद्वर्गो रक्षोवर्ग इति लभ्यते । अतश्चैकोऽप्यनेकरक्षःपरिवृत इवालक्ष्यतेत्यर्थः ।

भाषार्थ—अन्य राक्षसों के मारे जाने के कारण रावण अकेला ही रह गया था, फिर भी अनेक उरु शिर और भुजाओं के कारण वह ऐसा जान पड़ता था मानों उसके साथ बहुत से राक्षस हों । अर्थात् अकेला होता हुआ भी रावण बहुत राक्षसों से घिरा मालूम पड़ता था ॥ ८८ ॥

जेतारं लोकपालानां स्वमुखैरचितेश्वरम् ।
रामस्तुलितकैलासमरातिं बहुमन्वत ॥ ८६ ॥

अन्वयः—लोकपालानां जेतारं स्वमुखैः अर्चितेश्वरं तुलितकैलासं आरातिं रामः बहु अमन्यत ।

जेतारमिति । लोकपालानामिन्द्रादीनां जेतारम् "कर्तृकर्मणोः कृति" इति कर्मणि षष्ठी । स्वमुखैः स्वशिरोभिरर्चितेश्वरं तुलितकैलासमुत्क्षिप्तरुद्राद्रिं तमेवं शौर्यवीर्यसत्त्वसंपन्नं महावीर्यमरातिं शत्रुं रामो गुणग्रहित्वाज्जेतव्योत्कर्षस्य जेतुः स्वोत्कर्षहेतुत्वाच्च बहुमन्वत । साधु मद्विक्रमस्यायं पर्याप्तो विषय इति बहु-मानमकरोदित्यर्थः । बह्विति क्रियाविशेषणम् ।

भाषार्थ—जिस रावण ने इन्द्र आदि दिक्पालों को जीत लिया था, जिसने अपने शिरों को काटकर शिवजी को चढ़ा दिया था और जिसने कैलास पर्वत

द्वादशः सर्गः ४२१

द्वादशः सर्गः ४२१

को अंगुलियों पर उठा लिया था उसे देखकर राम ने समझा कि यह कम पराक्रमी नहीं है ॥ ८९ ॥

तस्य स्फुरति पौलस्त्यः सीतासङ्गमशंसिनि ।
निचखानाधिकक्रोधः शरं सव्येतरे भुजे ॥ ९० ॥

अन्वयः—अधिकक्रोधः पौलस्त्यः स्फुरति सीतासंगमशंसिनि सव्येतरे भुजे शरं निचखान ।

तस्येति । अधिकक्रोधः पौलस्त्यः स्फुरति स्पन्दमानेऽत एव सीतासंगमशंसिनि सीताया सङ्गमं शंसतीति तस्मिन् । तस्य रामस्य सव्य इतरो यस्मात्सव्येतरे दक्षिणे । “न बहुव्रीहौ” इतीतरशब्दस्य सर्वनामसंज्ञाप्रतिषेधः । भुजे शरं निचखान निखातवान् ।

भाषार्थ—अत्यन्त क्रुद्ध होकर रावण ने राम की उस दाहिनी भुजा में बाण मारा जो फड़कती हुई शुभ सूचना दे रही थी कि अब सीता के प्राप्त होने में देर नहीं है ॥ ९० ॥

रावणस्यापि रामास्तो भित्त्वा हृदयमाशुगः ।
विवेश भुवमाख्यातुमुरगेभ्य इव प्रियम् ॥ ९१ ॥

अन्वयः—रामास्तः आशुगः रावणस्य अपि हृदयं भित्वा उरगेभ्यः प्रियं आख्यातुम् इव भुवं विवेश ।

रावणस्येति । रामेणास्तः क्षिप्त आशुगो बाणः विश्रवसोऽपत्यं पुमान्रावणः विश्रवःशब्दादपत्येऽर्थेऽण्प्रत्यये सति । ‘विश्रवसो विश्रवणरवणौ’ इति रवणादेशः । तस्य रावणस्यापि हृदयं वक्षो भित्त्वा विदार्य । उरगेभ्यः पातालवासिभ्यः प्रियमाख्यातुमिव भुवं विवेश ।

भाषार्थ—राम ने जो बाण छोड़ा, वह रावण की छाती को छेदकर पाताल में चला गया । वह ऐसा लगा मानो पातालवासी नागों से रावण के मरने की प्रिय सूचना देने लिए गया हो ॥ ९१ ॥

वचसैव तयोर्वाक्यमस्त्रमस्त्रेण निघ्नतोः ।
अन्योन्यजयसंरम्भो ववृधे वादिनोरिव ॥ ९२ ॥

अन्वयः—वाक्यं वचसा अस्त्रं अस्त्रेण निघ्नतोः तयोः वादिनोः इव अन्योऽन्यजयसंरम्भः ववृधे ।

वचसेति । वाक्यं वचसैवास्त्रमस्त्रेण निघ्नतोः प्रतिकुर्वतोस्तयो रामरावणयोः वादिनोः कथकयोरिव अन्योन्यविषये जयसंरम्भो ववृधे ।

४२२ रघुवंशमहाकाव्ये

**भावार्थ—**जिस प्रकार वादी और प्रतिवादी एक दूसरे की बात को अपनी बात से काटते हुए जीतने के लिए क्रुद्ध हो जाते हैं उसी प्रकार एक दूसरे के अस्त्र को अपने अस्त्र से काटते हुए अपनी-अपनी विजय प्राप्त करने के लिए अत्यन्त क्रुद्ध हो गये ॥ ९२ ॥

विक्रमव्यतिहारेण सामान्याऽभूद्द्वयोरपि ।
जयश्रीरन्तरा वेदिर्मत्तवारणयोरिव ॥ ९३ ॥

**अन्वयः—**जयश्रीः विक्रमव्यतिहारेण द्वयोः अपि अन्तरा वेदी मत्तवारणयोः इव सामान्या अभूत् ।

विक्रमेति । जयश्रीर्विक्रमस्य व्यतिहारेण पर्यायक्रमेणतयोर्द्वयोरपि अन्तरा-मध्ये। अव्ययमेतत्। वेदिर्वेद्याकारा भित्तिर्मत्तवारणयोरिव सामान्या साधारणाऽभूत् नत्वन्यतरनियतेत्यर्थः । अत्र मत्तवारणयोरित्यत्र द्वयोरित्यत्र च “अन्तरान्तरेण युक्ते’ इति द्वितीया न भवति । अन्तराशब्दस्योक्तरीत्यान्यत्रान्वयात् । मध्ये कामपि भित्तिं कृत्वा गजौ योधयन्तीति प्रसिद्धिः ।

**भावार्थ—**कभी राम अपना पराक्रम दिखलाते थे कभी रावण, इसलिए विजयश्री कभी राम के पास जाती थी कभी रावण के पास, उसकी दशा वैसी ही हो गयी थी जैसे लड़ते हुए मतवाले हाथियों के बीच की दिवार की होती है ॥ ९३ ॥

कृतप्रतिकृतप्रीतैस्तयोर्मुक्तां सुरासुरैः ।
परस्परशरव्राताः पुष्पवृष्टिं न सेहिरे ॥ ९४ ॥

**अन्वयः—**कृतप्रतिकृतप्रीतैः सुरासुरैः तयोः मुक्तां पुष्पवृष्टिं परस्परशरव्राताः न सेहिरे ।

कृतेति । स्वयमस्त्रप्रयोगः कृतं प्रतिकृतं परकृतप्रतीकारस्ताभ्यां प्रीतैः सुरासुरैर्यथासंख्यं तयो रामरावणयोर्मुक्तां पुष्पवृष्टिं द्वयीमिति शेषः । परस्परं शरव्रात न सेहिरे । अहमेवालं किं त्वयेति चान्तराल एवेतरबाणवृष्टिरितरेतरपुष्पवृष्टिमवारयदित्यर्थः ।

**भावार्थ—**जब राम बाण चलाते थे या रावण का वार रोकते थे तब देवता उनके ऊपर फूल बरसाने लगते थे और जब राम पर रावण प्रहार करता था या उनका वार रोकता था तब असुर उस पर फूल बरसाते थे, पर ये दोनों इतना अधिक बाण छोड़ते थे कि पुष्प भूमि पर न गिर कर आकाश में ही तितर-बितर हो जाते थे ॥ ९४ ॥

द्वादशः सर्गः ४२३

द्वादशः सर्गः ४२३

अयःशङ्कुचितां रक्षः शतघ्नीमय शत्रवे।
हृतां वैवस्वतस्येव कूटशाल्मलिमक्षिपत् ॥ ९५ ॥

अन्वयः—अथ रक्षः अयःशंकुचितां शतघ्नीं हृतां वैवस्वतस्य कूटशाल्मलिम् इव शत्रवे अक्षिपत् ।

अय इति । अथ रक्षो रावणोऽयसः लोहस्य शङ्कुभिः कीलैश्चितां कीर्णां शतघ्नीं लोहकण्टककीलितयष्टिविशेषताम् । 'शतघ्नी तु चतुस्ताला लोहकण्टक-संचिता । यष्टिः' इति केशवः । हृतां विजयलब्धां वैवस्वतस्यान्तकस्य कूटशाल्म-लिरिति शत्रवे राघवायाक्षिप्तवान् । कूटशाल्मलिरिव कूटशाल्मलिरिति व्युत्पत्त्या वैवस्वतगदाया गौणी संज्ञा कूटशाल्मलिर्नामैकमूलप्रकृतिः कण्टकीवृक्ष-विशेषः । 'रोचनः कूटशाल्मलिः' इत्यमरः । तत्सादृश्यं च गदया अयःशंकुचित-त्वादनुसंधेयम् ।

भाषार्थ—इसके बाद रावण ने लोहे की कीलों से बनी हुई वह शतघ्नी राम को मारने के लिए चलाई जो यमराज की गदा शाल्मलि के समान भयंकर थी ॥ ९५ ॥

राघवो रथमप्राप्तां तामाशां च सुरद्विषाम् ।
अर्धचन्द्रमुखैर्वाणैश्चिच्छेद कदलीमुखम् ॥ ९६ ॥

अन्वयः—राघवः रथम् अप्राप्तां तां सुरद्विषां आशां च अर्द्धचन्द्रमुखैः वाणैः कदलीमुखं चिच्छेद ।

राघव इति । राघवो रथमप्राप्तां तां शतघ्नीं सुरद्विषां रक्षसामाशां विजय-तृष्णां च । 'आशा तृष्णादिशोः प्रोक्ता' इति विश्वः अर्धचन्द्र इव मुखं येषां तैर्बाणैः । कदली वन्मुखं यथा तथा विच्छेद । अथवा कदल्यामिव सुखमक्लेशो यस्मिन्कर्मणि तदिति विग्रहः ।

भाषार्थ—राक्षसों को पूरी आशा हो गई थी उससे राम अवश्य मर जायेंगे । पर राम ने उस शतघ्नी को अपने रथ के पास पहुँचने के पहले ही अर्द्धचन्द्राकार फलों वाले बाणों से केले के समान सुखपूर्वक काट दिया यह देखकर राक्षसों की आशा पर पानी फिर गया ॥ ९६ ॥

अमोघं संदधे चास्मै धनुष्येकधनुर्धरः ।
ब्राह्ममस्त्रं प्रियाशोकशल्यनिष्कर्षणौषधम् ॥ ९७ ॥

अन्वयः—एकधनुर्धरः प्रियाशोकशल्यनिष्कर्षणौषधं अमोघं ब्राह्मं अस्त्रं अस्मै च धनुषि सन्दधे ।

४२४ | रघुवंशमहाकाव्ये

अमोघमिति । एकोऽद्वितीयो धनुर्धरो रामः प्रियायाः शोक एव शल्यं तस्य निष्कर्ष णमुद्धारकं यदौषधं तदमोघं सफलं ब्रह्मं ब्रह्मदेवताकमस्त्रमभिमन्त्रितं बाणमस्मै रावणाय च तद्वधार्थमित्यर्थः । धनुषि संदधे ।

भाषार्थ—अद्वितीय धनुर्धारी राम ने रावण को मारने के लिए धनुष पर वह ब्रह्मास्त्र चढ़ाया जो कभी व्यर्थ नहीं जाता । वह ऐसा था मानों सीता के शोकरूपी काँटे को निकालने के लिए अचूक ओषधि हो ॥ ९७ ॥

तद्व्योम्नि शतधा भिन्नं ददृशे दीप्तिमन्मुखम् । वपुर्महोरगस्येव करालफणमण्डलम् ॥ ९८ ॥

अन्वयः—व्योम्नि शतधा भिन्नं दीप्तिमन्मुखं तत् करालफणमण्डलं महोरगस्य वपुः इव ददृशे ।

तदिति । व्योम्नि शतधा भिन्नं प्रसृतं दीप्तिमन्ति मुखानि यस्य तद्ब्रह्मास्त्रं करालं भीषणं तुङ्गं वा फणमण्डलं यस्य तत्तथोक्तम् । 'करालो दन्तुरे तुङ्गे करा लो भीषणेऽपि च' इति विश्वः । महोरगस्य शेषस्य वपुरिव ददृशे ।

भाषार्थ—वह ब्रह्मास्त्र आकाश में सैकड़ों रूपों में फैल गया और उसके अग्रभाग चमकने लगे, वह ऐसा मालूम पड़ता था मानों फणों का भयंकर चमकीला मण्डल लिए शेषनाग हों ॥ ९८ ॥

तेन मन्त्रप्रयुक्तेन निमेषार्धादपातयत् । स रावणशिरःपंक्तिमज्ञातव्रणवेदनाम् ॥ ९९ ॥

अन्वयः--स मन्त्रप्रयुक्तेन तेन अज्ञातव्रणवेदनां रावणशिरःपङ्क्तिम् निमेषार्धात् अपातयत् ।

तेनेति । स रामो मन्त्रप्रयुक्तेन तेनास्त्रेणाज्ञातव्रणवेदनामतिशैघ्र्यादनुभूत-व्रणदुःखां रावणशिरःपंक्ति निमेषार्धादपातयत्पातयामास ।

भाषार्थ—मन्त्रपूर्वक चलाये हुए उस ब्रह्मास्त्र से राम ने रावण के दशों शिरों को आधे पल में काटकर पृथ्वी पर गिरा दिया, जिससे रावण को थोड़ा सा भी वेदना का अनुभव नहीं हुआ ॥ ९९ ॥

बालार्कप्रतिमेबाप्सु वीचिभिन्ना पतिष्यतः । रराज रक्षःकायस्य कण्ठच्छेदपरम्परा ॥ १०० ॥

अन्वयः—पतिष्यतः रक्षःकायस्य कण्ठच्छेदपरम्परा वीचिभिन्ना अप्सु बालार्कप्रतिमा इव रराज ।

द्वादशः सर्गः | ४२५

द्वादशः सर्गः४२५

बालेति। पतिष्यतः आसन्नपातस्य रक्षःकायस्य रावणकलेवरस्य छिद्यन्त इति छेदाः खण्डाः। कण्ठानां ये छेदास्तेषां परम्परा पङ्क्तिः। वीचिभिर्भिन्ना नानाकृताऽप्सु बालार्कस्य प्रतिमा प्रतिबिम्बमिव रराज। अर्कस्य बालविशेषणमारुण्यसिद्धयर्थमिति भावः।

**भाषार्थ—**रावण के शिर कटकर गिरते हुए ऐसे अच्छे लगते थे जैसे चञ्चल लहरों में प्रातःकाल के सूर्य का प्रतिबिम्ब शोभा देता है॥ १०० ॥

मरुतां पश्यतां तस्य शिरांसि पतितान्यपि।
मनो नातिविशश्वास पुनः संधानशङ्किनाम्॥ १०१ ॥

**अन्वयः—**पतितानि तस्य शिरांसि पश्यताम् अपि पुनः सन्धानशङ्किनां मरुतां मनः नातिविशश्वास।

मरुतामिति। पतितानि तस्य रावणस्य शिरांसि पश्यतामपि पुनः संधानशङ्किनाम्। पूर्वं तथादर्शनादिति भावः। मरुताममराणाम्। ‘मरुतो पवनामरौ’ इत्यमरः। मनो चित्तं नातिविशश्वासाऽतिविश्वासं न प्राप।

**भाषार्थ—**रावण के कटे हुए सिरों को देखकर भी देवताओं को विश्वास नहीं हुआ, क्योंकि उन्हें यह डर था कि कहीं ये पुनः जुड़ न जाँय॥ १०१ ॥

अथ मदगुरुपक्षैर्लोकपालद्विपाना-
मनुगतमलिबृन्दैर्गण्डभित्तीर्विहाय।
उपनतमणिबन्धे मूर्ध्नि पौलस्त्यशत्रोः
सुरभि सुरविमुक्तं पुष्पवर्षं पपात॥ १०२ ॥

**अन्वयः—**अथ मदगुरुपक्षैः अलिवृन्दैः लोकपालद्विपानां गण्डभित्तीः विहाय अनुगतं सुरभि सुरविमुक्तं पुष्पवर्षं उपनतमणिबन्धे पोलस्त्यशत्रोः मूर्ध्नि पपात।

अथेति। अथ मदेन गजगण्डसंचारसंक्रान्तेन गुरुपक्षैर्भारायमाणपक्षैरलिबृन्दैर्लोकपालद्विपानामैरावतादीनां गगनदन्तिनां गण्डभित्तीर्विहायानुगतमनुद्रुतं सुरभि सुगन्धि। ‘सुरभिश्चम्पके स्वर्णे जातीफलवसन्तयोः गन्धोपले सौरभेय्यां सल्लकीमातृभेदयोः॥ सुगन्धौ च मनोज्ञे च वाच्यवत्सुरभि स्मृतम्॥’ इति विश्वः। सुरविमुक्तं पुष्पवर्षमुपनत आसन्नो मणिबन्धो राज्याभिषेकसमये भावी यस्य तस्मिन्पौलस्त्यशत्रौ रामस्य मूर्ध्नि शिरसि पपात। इदमेव राज्याभिषेकसूचकमिति भावः। मालिनीवृत्तमेतत्।

**भाषार्थ—**जिस राम पर भावी राज्याभिषेक का जल छिड़का जाने वाला था उन्हीं के सिर पर देवताओं ने वे फूल बरसाये जिनकी सुगन्ध पाकर हाथियों का मदजल पान करने से भीगे पांखवाले भ्रमरसमूह दिक्पालों के हाथियों के

४२६ रघुवंशमहाकाव्ये

मदस्रावी कपोलों को छोड़कर रस लेने के लिए उनके पीछे-पीछे दौड़ पड़े॥१०२॥

यन्ता हरेः सपदि संहृतकार्मुकज्य- मापृच्छय राघवमनुष्ठितदेवकार्यम्। नामाङ्करावरणशराङ्कितकेतुयष्टि- मूर्ध्वं रथं हरितसहस्रयुजं निनाय ।। १०३ ।।

अन्वयः—हरेः यन्ता सपदि संहृतकार्मुकज्यं अनुष्ठितदेवकार्यं राघवं आपृच्छय नामाङ्करावणशराङ्कितकेतुयष्टि हरितसहस्रयुजं रथं ऊर्ध्वं निनाय ।

यन्तेति । हरेरिन्द्रस्य यन्ता मातलिः सपदि संहृतकार्मुकज्यमनुष्ठितं देवकार्यं रावणवधरूपं येन तं राघवमापृच्छद्य साधु यामीत्यामन्त्र्य नामाङ्कैर्नामाक्षर-चिह्न रावणशरैरङ्किता चिह्निता केतुयष्टिर्ध्वजदण्डो यस्य तं । हरीणां वजिनां सहस्रेण युज्यत इति हरिसहस्रयुक् तम् । ‘यमानिलेन्द्रचन्द्राकँविष्णुसिंहशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु’ इत्युभयत्राप्यमरः । रथमूध्वं निनाय नीतवान् ।

भाषार्थ—राम ने धनुष की डोरी उतार दी क्योंकि उन्होंने देवताओं का कार्य पूरा कर दिया। इन्द्र का सारथी मातली उनसे आज्ञा लेकर अपना सहस्र घोड़ों से युक्त रथ लेकर स्वर्ग में चला गया, उस रथ की ध्वजा के दण्ड पर अभी तक रावण के नाम खुदे हुए वाणों के चिह्न बने हुए थे ॥ १०३ ॥

रघुपतिरपि जातवेदोविशुद्धां प्रगृह्य प्रियां प्रियसूहृदि विभीषणे सङ्गमय्य श्रियं वैरिणः। रविसुतसहितेन तेनानुयातः ससौमित्रिणा भुजविजितविमानरत्नाधिरूढः प्रतस्थे पुरीम् ।। १०४ ।।

अन्वयः—रघुपतिः अपि जातवेदोविशुद्धां प्रियां प्रगृह्य प्रियसूहृदि विभीषणे वैरिणः श्रियं संगमय्य रविसुतसहितेन ससौमित्रिणा तेन अनुयातः भुज: विजित विमान रत्नाधिरूढः पुरीं प्रतस्थे ।

रघुपतिरिति । रघुपतिरपि जातवेदस्याग्नी विशुद्धां जातशुद्धि प्रियां सीतां प्रगृह्य स्वीकृत्य प्रियसूहृदि विभीषणे वैरिणो रावणस्य श्रियं राजलक्ष्मीं सङ्गमय्य सङ्गतां कृत्वा । गमेर्ण्यन्ताल्लचप्रत्ययः । “मितां ह्रस्वः” । “ल्यपि लघुपूर्वात्” इति णेरया-देशः । रविसुनसहितेन सुग्रीवयुक्तेन ससौमित्रिणा सलक्ष्मणेन तेन विभीषणेनानु-यातोऽनुगतः सन् विमानं रत्नमिव विमानरत्नमित्युपमितसमासः । भुजविजितं यद्विमानरत्नं पुष्पकं तदारूढः सन् । पुरीमयोध्यां प्रतस्थे । “समवप्रविभ्यः स्थः” इत्यात्मनेपदम् । अत्र प्रस्थानक्रियाया अकर्मकत्वेऽपि तदङ्गभूतोद्देशकियापेक्षया

त्रयोदशः सर्गः ४२७

त्रयोदशः सर्गः ४२७

सकर्मकत्वम्। अस्ति च धातूनां क्रियान्तरोपसर्जन कस्वार्थाभिधायकत्वम्। यथा 'कुसूलान्पचति' इत्यादावादानक्रियागर्भः पाको विधीयत इति।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीविनीसमाख्यया
व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये
रावणवधो नाम द्वादशः सर्गः॥ १२॥

भाषार्थ—राम ने रावण की राजश्री उसके भाई प्रियमित्र विभीषण को सौंप दी और अग्नि परीक्षा में विशुद्ध सीता को ग्रहण करके सुग्रीव विभीषण और लक्ष्मण के साथ अपने बाहुबल से जीते हुये पुष्पक विमान पर चढ़कर अयोध्या पुरी की ओर प्रस्थान किया॥ १०४॥

यह त्रिपाठ्युपाह्व पं० श्रीकृष्णमणिशास्त्री द्वारा लिखित
अन्वय ओर चन्द्रकला नाम की हिन्दी टीका में
रघुवंश महाकाव्य का रावणवधनामक
द्वादश सर्ग समाप्त हुआ॥ १२॥


त्रयोदशः सर्गः

त्रैलोक्यशल्योद्धरणाय सिन्धोश्चकार बन्धं मरणं रिपूणाम्।
पुण्यप्रणामं भुवनाभिरामं रामं विरामं विपदामुपासे॥
अथात्मनः शब्दगुणं गुणज्ञः पदं विमानेन विगाहमानः।
रत्नाकरं वीक्ष्य मिथः स जायां रामाभिधानो हरिरित्युवाच॥ १॥

अन्वयः—गुणज्ञः सः रामाभिधानः हरिः शब्दगुणं आत्मनः पदं विमानेन गाहमानः (सन्) रत्नाकरं वीक्ष्य मिथः जायां इति उवाच।

अथेति। अथ प्रस्थानानन्तरम्। जानातीति ज्ञः। "इगुपधज्ञाप्रीकिरः क" इत्यनेन कप्रत्ययः। गुणानां ज्ञो गुणज्ञः। रत्नाकरादिवर्ण्यैश्वर्यगुणाभिज्ञ इत्यर्थः। स रामाभिधानो हरिर्विष्णुः शब्दो गुणो यस्य तच्छब्दगुणमात्मनः स्वस्य पदं विष्णुपदम्। आकाशमित्यर्थः। 'वियद्विष्णुपदम्' इत्यमरः। (शब्दगुणकमाकाशम्) इति तार्किकाः। विमानेन पुष्करेण विगाहमानः सन् रत्नाकरं समुद्रं वीक्ष्य मिथो रहसि। 'मिथोऽन्योन्यं रहस्यपि' इत्यमरः। जायां पत्नीं सीतामिति वक्ष्यमाणप्रकारेणोवाच। रामस्य हरिरित्यभिधानं निरङ्कुशमहिमद्योतनार्थम्। मिथोग्रहणं गोष्ठीविश्रम्भसूचनार्थम्।

४२८ रघुवंशमहाकाव्ये

भाषार्थ—इसके बाद विमान में चढ़कर उस आकाश में चलते हुए जिसका गुण शब्द है गुणी एवं राम कहलाने वाले भगवान् विष्णु समुद्र को देखकर अपनी प्रिया सीता से यह कहने लगे ॥ १ ॥

वैदेहि पश्यमलयाद्विभक्तं मत्सेतुना फेनिलमम्बुराशिम् ।
छायापथेनेव शरत्प्रसन्नमाकाशमाविष्कृतचारुतारम् ॥ २ ॥

अन्वयः—हे वैदेहि ! आमलयात् मत्सेतुना विभक्तं फेनिलं अम्बुराशि छायापथेन विभक्तं शरत्प्रसन्नं आविष्कृतचारुतारकं आकाशम् इव पश्य ।

वैदेहीति । हे वैदेहि सीते ! आमलयान्मलयपर्यन्तम् । “पञ्चम्यपाङ्परिभिः” इति पञ्चमी । पदद्वयं चैतत् । मत्सेतुना विभक्तं द्विधाकृतम् अत्यायतसेतुनेत्यर्थः । हर्षाधिक्याच्च मद्ग्रहणम् । फेनिलं फेनवन्तम् । “फेनादिलच्च” इतीलच्प्रत्ययः । क्षिप्रकारी चायमिति भावः । अम्बुराशि छायापथेन विभक्तं शरत्प्रसन्नमाविष्कृत-चारुतारमाकाशमिव पश्य । मम महानयं प्रयासस्त्वदर्थ इति हृदयम् । छायापथो नाम ज्योतिश्चक्रमध्यवर्ती कश्चित्तिरश्चीनोऽवकाशः ।

भाषार्थ—हे जनकनन्दिनी ! फेन से भरे हुए इस समुद्र को तो देखो, जिसे मेरे बताये हुए पुल ने मलय पर्वत तक इस प्रकार दो भागों में बांट दिया है जिस प्रकार सुन्दर ताराओं से भरे हुए शरद ऋतु के खुले आकाश को आकाश गंगा दो भागों में बाँट देती है ॥ २ ॥

गुरोर्ययक्षोः कपिलेन मेध्ये रसातलं संक्रमिते तुरङ्गे ।
तदर्थमुर्वीमवदारयद्भिः पूर्वैः किलायं परिवर्धितो नः ॥ ३ ॥

अन्वयः—यियक्षोः गुरोः मेध्ये तुरङ्गे कपिलेन रसातलं संक्रमिते ( सति ) तदर्थम् उर्वीम् अवदारयद्भिः न पूर्वैः अयं परिवर्धितः किल ।

गुरोरिति । यियक्षोर्यष्टुमिच्छोः । यजेः सन्नन्तादुप्रत्ययः । गुरो सगरस्य मेध्येऽश्वमेधार्हे तुरंगे हये कपिलेन मुनिना रसातलं संक्रमिते सति तदर्थमुर्वीमव-दारयद्भिः खनद्भिर्नोऽस्माकं पूर्वैर्वृद्धैः सगरसुतैरयं समुद्रः परिवर्धितः किल । किलेत्यैतिह्ये । अतो नः पूज्य इति भावः । यद्यपि तुरङ्गहारी शतक्रतुस्तथापि तस्य कपिलसमीपे दर्शनात्स एवेति तेषां भ्रान्तिः । तन्मत्वैव कविना कपिलेनेति निर्दिष्टम् ।

भाषार्थ—सीते ! जानती हो, यह समुद्र कैसे बना है? सुनो, जब हमारे पूर्वज महाराज सगर अश्वमेध यज्ञ कर रहे थे तब इन्द्र ने उस यज्ञ सम्बन्धी घोड़े को चुराकर पाताल में कपिल मुनि के पास बाँध दिया। महाराज सगर के साठ हजार

त्रयोदशः सर्गः ४२६

त्रयोदशः सर्गः ४२६

पुत्रों ने उस घोड़े की खोज करने के लिए सारी पृथ्वी को खोद डाला। उसी से यह समुद्र इतना बड़ा लम्बा चौड़ा बन गया। इसलिए यह हम लोगों का पूज्य है॥ ३ ॥

गर्भं दधत्यर्कमरीचयोऽस्माद्वृद्धिमत्राश्नुवते वसूनि ।
अविन्धनं वह्निमसो बिभर्ति प्रह्लादनं ज्योतिरजन्यनेन ॥ ४ ॥

अन्वयः—अर्कमरीचयः अस्मात् गर्भं दधति अत्र वसूनि वृद्धिं अश्नुवते, असौ अविन्धनं वह्निं बिभर्ति, अनेन प्रह्लादनं ज्योतिः अजनि ।

गर्भमिति । अर्कमरीचयोऽस्मादब्धेः अपादानात् गर्भमम्मयं दधति वृष्ट्यर्थमित्यर्थः । अयमर्थो दशमसर्गे 'ताभिर्गर्भः०' इत्यत्र स्पष्टीकृतः । अयं लोकोपकारीति भावः । अत्राब्धौ वसूनि धनानि । 'धने रत्ने वसुस्मृतम्' इति विश्वः । विवृद्धिमश्नुवते प्राप्नुवन्ति संपन्नानित्यर्थः । असावाप इन्धनं दाह्यं यस्य तद्दाहकं वह्निं बिभर्ति । अपकारेऽप्याश्रितं न त्यजतीति भावः । अनेन प्रह्लादनमाह्लादकं ज्योतिश्चन्द्रोऽजनि जनितम् । जनेर्ण्यन्तात्कर्मणि लुङ् । सौम्य इति भावः ।

भाषार्थ—यह समुद्र बड़े काम का है, देखो इसी में से सूर्य की किरणें जल खींचती हैं और पृथ्वी पर बरसती हैं। इसी में रत्न बढ़ते हैं, यह अपनी गोद में अपने शत्रु बड़वानल को भी पालता है और इसी ने संसार के प्रकाशक चन्द्रमा को उत्पन्न किया है ॥ ४ ॥

तां तामवस्थां प्रतिपद्यमानं स्थितं दश व्याप्य दिशो महिम्ना ।
विष्णोरिवास्यानवधारणीयमीदृक्तया रूपमियत्तया वा ॥ ५ ॥

अन्वयः—तां तां अवस्थां प्रतिपद्यमानं महिम्ना दश दिशः व्याप्य स्थितम् विष्णो इव अस्य रूपं ईदृक्तया इयत्तया वा अनवधारणीयम् । ( अस्ति ) ।

तां तामिति । तां तामनेकाम् "नित्यवीप्सयोः" इति वीप्सायां द्विरुक्तिः । अवस्थामक्षोभाद्यवस्थां विष्णुपक्षे सत्त्वाद्यवस्थां प्रतिपद्यमानं भजमानं महिम्ना दश दिशो व्याप्य स्थितं विष्णोरिवास्य रत्नाकरस्य रूपं स्वरूपमुक्तरीत्या बहुप्रकारत्वाद्व्यापकत्वाच्चेदृक्तयेयत्तया वा प्रकारतः परिमाणतश्चानवधारणीयं दुर्निरूपम् ।

भाषार्थ—यह समुद्र सदा अपना रूप भी बदलता रहता है और यह इतना बड़ा है कि दशों दिशाओं में दूर तक फैला हुआ है, इसलिए जिस प्रकार भगवान विष्णु के विषय में यह नहीं कहा जा सकता है कि वे ऐसे और इतने बड़े हैं उसी प्रकार इसके विषय में भी यह नहीं कहा जा सकता है कि ऐसा और इतना बड़ा है ॥ ५ ॥

४३०रघुवंशमहाकाव्ये

नाभिप्ररूढाम्बुरुहासनेन संस्तूयमानः प्रथमेन धात्रा ।
अमुं युगान्तोचितयोगनिद्रः संहृत्य लोकान्पुरुषोऽधिशेते ॥ ६ ॥

अन्वयः—युगान्तोचितयोगनिद्रः पुरुषः लोकान् संहृत्य नाभिप्ररूढाम्बुरुहासनेन प्रथमेन धात्रा संस्तूयमानः (सन्) अमुम् अधिशेते ।

नाभीति । युगान्ते कल्पान्त उचिताः परिचिता योगाः स्वात्मनिष्ठैव निद्रेव निद्रा यस्य । पुरुषः सो विष्णुर्लोकान् भूर्भुवादीन्संहृत्य नाभ्यां प्ररूढं यदम्बुरुहं पद्म तदासनेन तन्नाभिकमलाश्रयेण प्रथमेन धात्रा दक्षादीनामपि स्रष्ट्रा पितामहेन संस्तूयमानः सन् अमुमधिशेते । अमुष्मिञ्छेते इत्यर्थः । कल्पान्तेऽप्यस्तीति भावः ।

भाषार्थ—प्रलयकाल में जब आदि पुरुष भगवान् विष्णु संसार का संहार कर चुकते हैं तब यहीं आकर योगनिद्रा में सोते हैं और उनके नाभि कमल से निकले हुए ब्रह्मा सदा स्तुति किया करते हैं। अर्थात् यह प्रलयकाल में भी नष्ट नहीं होता ॥ ६ ॥

पक्षच्छिदा गोत्रभिदात्तगन्धः शरण्यमेनं शतशो महीध्राः ।
नृपा इवोपप्लविनः परेभ्यो धर्मोत्तरं मध्यममाश्रयन्ते ॥ ७॥

अन्वयः—पक्षच्छिदा गोत्रभिदा आत्तगन्धा महीध्राः शतशः शरण्यं एनं परेभ्यः उपप्लविनः धर्मोत्तरं मध्यमं इव आश्रयन्ते ।

पक्षेति । पक्षच्छिदा गोत्रभिदेन्द्रेण । उभयत्र “सत्सूद्विषु” इत्यादिना क्विप् । आत्तगन्धा हतगर्वाः । अभिभूता इत्यर्थः । 'गन्धो गन्धक आमोद लेशे संबन्धगर्वयोः' इति विश्वः । 'आत्तगन्धोऽभिभूतः स्यात्' इत्यमरः । महीं धारयन्तीति महीध्राः पर्वताः । मूलविभुजादित्वात्कप्रत्ययः । शतं शतं शतशः शरण्यं रक्षणासमर्थमेनं समुद्रं परेभ्यः शत्रुभ्य उपप्लविनो भयवन्तो नृपा धर्मोत्तरं धर्मप्रधानं मध्यम मध्यभूपालमिव आश्रयन्ते । 'अरेरेश्च विजिगीषोश्च मध्यमो भूम्यनन्तरः' इति कामन्दकः । आर्तबन्धुरिति भावः ।

भाषार्थ—जिस प्रकार शत्रुओं से आक्रान्त हो कर राजा लोग किसी धर्मात्मा और शरणागतरक्षक राजा का आश्रय लेते हैं उसी प्रकार उन सैकड़ों पहाड़ों ने इसकी शरण ली थी जिनके पंखों को काटकर उनका अभिमान चूर कर दिया था ॥ ७ ॥

रसातलादादिभवेन पुंसा भुवः प्रयुक्तोद्वहनक्रियायाः ।
अस्याच्छमम्भः प्रलयप्रवृद्धं मुहूर्तवक्त्राभरणं बभूव ॥ ८ ॥

त्रयोदशः सर्गः ४३१

त्रयोदशः सर्गः ४३१

अन्वयः—आदिभवेन पुंसा रसातलात् प्रयुक्तोद्वहनक्रियायाः भुवः प्रलय-प्रवृद्धं अस्य अच्छं अम्भः मुहूर्तं वक्त्राभरणं बभूव।

रसातलादिति। आदिभवेन पुंसाऽऽदिवराहेण रसातलात्प्रयुक्तोद्वहनक्रियायाः कृतोद्धरणक्रियायाः। विवाहक्रिया च व्यज्यते। भुवो भूदेवतायाः प्रलये प्रवृद्धमस्याब्धेरच्छमम्भो मुहूर्तं वक्त्राभरणं लज्जारक्षणार्थं मुखावगुण्ठनं बभूव। तदुक्तम्—"उद्धृतासि वराहेण कृष्णेन शतबाहुना" इति।

भाषार्थ—सृष्टि के आरम्भ में जब आदिपुरुष भगवान् वराह पाताल से पृथ्वी का उद्धार कर ले जा रहे थे उस समय प्रलय से बढ़ा हुआ इसका स्वच्छ जल क्षण भर के लिए पृथ्वी की घूंघट सा बन गया था ॥ ८ ॥

मुखार्पणेषु प्रकृतिप्रगल्भाः स्वयं तरङ्गाधरदानदक्षः।
अनन्यसामान्यकलत्रवृत्तिः पिबत्यसौ पाययते च सिन्धूः ॥ ९ ॥

अन्वयः—अनन्यसामान्यकलत्रवृत्तिः तरङ्गाधरदानदक्षः असौ मुखार्पणेषु प्रकृतिप्रगल्भाः सिन्धूः स्वयं पिबति तरङ्गाधरं पाययते च।

मुखेति। अन्येषां पुंसां सामान्या साधारणा न भवतीत्यनन्यसामान्यो कलत्रेषु वृत्तिर्भोगरूपा यस्य स तथोक्तः। इममेवार्थं प्रतिपादयति—तरङ्ग एवाधरस्तस्य दाने समर्पणे दक्षश्चतुरोऽसौ समुद्रो मुखार्पणेषु प्रकृत्या सख्यादिप्रेरणं विना प्रगल्भा धृष्टाः सिन्धूर्नदीः। 'सिन्धुः समुद्रे नद्यां च' इति विश्वः। स्वयं पिबति पाययते च। तरङ्गाधरमिति शेषः। "न पादम्याङ्य०" इत्यादिना पिबेर्ण्यन्तान्नित्यं परस्मैपदनिषेधः। "गतिबुद्धिप्रत्यवसनार्थ०" इत्यादिना सिन्धूनां कर्मत्वम्। दम्पत्योर्युगपत्परस्पराधरपानमनन्यसाधारणमिति भावः।

भाषार्थ—प्रिये ! देखो, दूसरे लोग केवल स्त्रियों का अधर पान करते हैं; किन्तु अपना अधर उन्हें नहीं पिलाते; पर यह समुद्र उस विषय में भी औरों से बढ़कर है, क्योंकि जब ढींठ होकर नदियाँ चुम्बन के लिए अपना मुख इसके आगे बढ़ातीं हैं तब यह बड़ी चतुरता से अपना तरंग रूप अधर उन्हें पिला देता है और उनका अधर स्वयं पीता है ॥ ९ ॥

ससत्त्वमादाय नदीमुखाम्भः संमीलयन्तो विवृताननत्वात्।
अमी शिरोभिस्तिमयः सरन्ध्रै रूर्ध्वं वितन्वन्ति जलप्रवाहान् ॥ १० ॥

अन्वयः—अमी तिमयः विवृताननत्वात् ससत्त्वं नदीमुखाम्भः आदाय सरन्ध्रैः शिरोभिः जलप्रवाहान् वितन्वन्ति।