भारतकोश
संग्रह पर लौटें

रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)

Raghuvamsham of Kalidasa Hindi

महाकवि कालिदास द्वारा

स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)

DevanagariHindipublished735 पृष्ठ

पञ्चदशः सर्गः ५११

व्यवहार हो रहा है उसका पता लगाकर दूर कीजिए ! तभी आपका उद्देश्य सफल होगा ॥ ४७ ॥

इत्याप्तवचनाद्रामो विनेष्यन् वर्णविक्रियाम् ।
दिशः पपात पत्रेण वेगनिष्कम्पकेतुना ॥ ४८ ॥

**अन्वयः—**इति आप्तवचनात् वर्णविक्रियां विनेष्यन् वेगनिष्कम्पकेतुना पत्रेण दिशः पपात ।

इतीति । इत्याप्तवचनाद्रामो वर्णविक्रियां वर्णापचारं विनेष्यन्नपनेष्यन्वेगेन निष्कम्पहेतुना पत्रेण वाहनेन पुष्पकेण । 'पत्र वाहनपक्षयोः' इत्यमरः । दिशः पपात धावति स्म ।

**भाषार्थ—**इस विश्वास योग्य वचन को सुनकर वेग से चलने के कारण कम्पन रहित पताका वाले पुष्पक विमान पर चढ़कर राम यह देखने के लिए दिशाओं में घूमने लगे कि कहाँ वर्णाश्रमधर्म के प्रतिकूल व्यवहार हो रहा है ॥४८॥

अथ धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् ।
ददर्श कञ्चिदैक्ष्वाकस्तपस्यन्तमधोमुखम् ॥ ४९ ॥

**अन्वयः—**अथ ऐक्ष्वाकः धूमाभिताम्राक्षं वृक्षशाखावलम्बिनम् अधोमुखं तपस्यन्तं कञ्चित् ददर्श ।

अथेति । अथैक्ष्वाकुवंशप्रभव ऐक्ष्वाको रामः “कोपधादण्” इत्यणि कृते “दाण्डिनायन” इत्यादिनाकारलोपनिपातः । धूमेन पीयमानेनाभिताम्राक्षं वृक्षशाखावलम्बिनमधोमुखं तपस्यन्तं तपश्चरन्तं कञ्चित्पुरुषं ददर्श ।

**भाषार्थ—**घूमते-घूमते राम ने क्या देखा कि एक वृक्ष की शाखा पर उलटा लटका हुआ एक मनुष्य नीचे जलती हुई अग्नि के धूआँ को पी-पीकर तप कर रहा है और धूआँ लगने से उसकी आँखें लाल हो गई हैं ॥ ४९ ॥

पृष्टनामान्वयो राज्ञा स किलाचष्ट धूमपः ।
आत्मानं शम्बुक नाम शूद्रं सुरपदार्थिनम् ॥ ५० ॥

**अन्वयः—**राज्ञा पृष्टनामान्वयः धूमपः सः आत्मानं सुरपदार्थिनं शम्बूकं नाम शूद्रं आचष्ट किल ।

पृष्टेति । राज्ञा नाम चान्वयश्च तौ पृष्टौ नामान्वयौ यस्य स तथोक्तः धूमं पिबतीति धूमपः । “सुपि” इति योगविभागात्कप्रत्ययः । स पुरुष आत्मानं सुरपदार्थिनं स्वर्गार्थिनम् । अनेन प्रयोजनमपि पृष्टमिति ज्ञेयम् शम्बुकं नाम शूद्रमाचष्ट बभाषे किल ।

५१२ रघुवंशमहाकाव्ये

भाषार्थ— राम ने उससे पूछा—आप किस वंश में उत्पन्न हुए हैं और आपका क्या नाम है ? तब वह तपस्वी बोला—मैं स्वर्ग पाने के लिए तप कर रहा हूँ मेरा नाम शम्बूक है और मैं शूद्र हूँ ॥ ५० ॥

तपस्यनधिकारित्वात्प्रजानां तमघावहम् । शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रमाददे ॥ ५१ ॥

अन्वयः— तपसि अनधिकारित्वात् प्रजानां अघावहं तं शूद्रं शीर्षच्छेद्यं परिच्छिद्य नियन्ता शस्त्रं आददे ।

तपसीति । तपस्यनधिकारित्वात्प्रजानामघावहं दुःखावहं तं शूद्रं शीर्षच्छेद्यम् । "शीर्षच्छेदाद्यच्च" इति यत्प्रत्ययः । परिच्छिद्य निश्चित्य नियन्ता रक्षको रामः शस्त्रमाददे जग्राह ।

भाषार्थ— शूद्रों को तपस्या करने का अधिकार नहीं है। इसी अनधिकृत कार्य से प्रजा में पाप फैलता है। इसलिए राम ने निश्चय कर लिया कि इसका वध करना ही होगा उन्होंने हाथ में अस्त्र उठा लिया ॥ ५१ ॥

स तद्वक्त्रं हिमक्लिष्टकिञ्जल्कमिव पङ्कजम् । ज्योतिष्कणाहतश्मश्रु कण्ठनालादपातयत् ॥ ५२ ॥

अन्वयः— स ज्योतिष्कणाहतश्मश्रु तद्वक्त्रं हिमक्लिष्टकिञ्जल्कं पङ्कजम् इव कण्ठनालात् अपातयत् ।

स इति । स रामो ज्योतिष्कणैः स्फुलिङ्गैः रहितानि दग्धानि श्मश्रूणि यस्य तत्तस्य वक्त्रं हिमक्लिष्टकिञ्जल्कं पङ्कजमिव कण्ठ एव नालं तस्मादपातयत् ।

भाषार्थ— और रामने शम्बूक का शिर उसी प्रकार काट कर गले से अलग कर दिया, जिस प्रकार कमल डण्ठल से उतार कर पृथक् कर दिया गया हो, आग की चिनगारियों से झुलसी हुई दाढ़ी वाला उसका शिर ऐसा लगा था जैसे पाला से जला केशर वाला कमलनाल हो ॥ ५२ ॥

कृतदण्डः स्वयं राज्ञा लेभे शूद्रः सतां गतिम् । तपसा दुश्चरेणापि न स्वमार्गविलङ्घिना ॥ ५३ ॥

अन्वयः— शूद्रः राज्ञा स्वयं कृतदण्डः ( सन् ) सतां गतिं लेभे । दुश्चरेण अपि स्वमार्गविलङ्घिना तपसा न ( लेभे ) ।

कृतेति । शूद्रः शम्बुको राज्ञा स्वयं कृतदण्डः कृतशिक्षः सन् सतां गतिं लेभे । दुश्चरेणापि स्वमार्गविलङ्घिना अनधिकारदुष्टेनेत्यर्थः । तपसा न लेभे । अत्र मनुः

पञ्चदशः सर्गः ५१३

राजभिः कृतदण्डास्तु कृत्वा पापानि मानवाः । निर्मलाः स्वर्गमायान्ति सन्तः सुकृतिनो यथा इति ।

**भाषार्थ—**राजा से दण्ड पाने के कारण शूद्र को वह सद्गति मिल गई, जो वह अपने कठोर तपस्या से कभी न पा सकता था और जिसे वह वर्ण धर्म का उल्लङ्घन करके चाह रहा था ।। ५३ ।।

रघुनाथोऽप्यगस्त्येन मार्गसन्दशितात्मना ।
महौजसा संयुयुजे शरत्काल इवेन्दुना ॥ ५४ ॥

**अन्वयः—**रघुनाथः अपि मार्गसन्दशितात्मना महोजसा अगस्त्येन इन्दुना शरत्काल इव संयुयुजे ।

रघुनाथ इति । रघुनाथोऽपि मार्गसन्दशितात्मना महौजसाऽगस्त्येन इन्दुना शरत्काल इव संयुयुजे सङ्गतः । इन्दावपि विशेषणं योज्यम् । रघुनाथेत्यत्र क्षुम्नादित्वाण्णत्वाभावः ।

**भाषार्थ—**जिस प्रकार शरद्ऋतु से चन्द्रमा मिलता है उसी प्रकार राम मार्ग में महातपस्वी अगस्त्य ऋषि से भी मिले ।। ५४ ।।

कुम्भयोनिरलङ्कारं तस्मै दिव्यपरिग्रहम् ।
ददौ दत्तं समुद्रेण पीतेनेवात्मनिष्क्रयम् ॥ ५५ ॥

**अन्वयः—**कुम्भयोनिः पीतेन समुद्रेण आत्मनिष्क्रयम् इव दत्तं ( अत एव ) दिव्यपरिग्रहम् अलङ्कारं तस्मै ददौ ।

कुम्भेति । कुम्भयोनिरगस्त्यः पीतेन समुद्रेणात्मनिष्क्रयमिवात्मनो मोचनमूल्यमिव दत्तम् । अत एव परिगृह्यत इति व्युत्पत्त्या दिव्यपरिग्रहः दिव्यानां परिग्राह्य इत्यर्थः । तमलङ्कारं तस्मै रामाय ददौ ।

**भाषार्थ—**अगस्त्य जी ने राम को वे सुन्दर दिव्य आभूषण दिये जो उन्हें समुद्र ने उस समय दण्ड के रूप में दिये थे, जब उन्होंने उसे पी लिया था ।। ५५ ।।

तं दधन्मैथिलीकण्ठनिर्व्यापारेण बाहुना ।
पश्चािन्निववृते रामः प्राक्परासुर्द्विजात्मजः ॥ ५६ ॥

**अन्वयः—**मैथिलीकण्ठनिर्व्यापारेण बाहुना तं दधन् पश्चात् निववृते परासुः द्विजात्मजः प्राक् (निववृते) ।

तमिति । मैथिलीकण्ठनिर्व्यापारेण आलिङ्गननरहितेन बाहुना तमलङ्कारं दधद्रामः पश्चात्निववृते निवृत्तः । परासुर्मृतो द्विजात्मजः प्रागरामात्पूर्वं निववृते ।

३३ र० स०

५१४ रघुवंशमहाकाव्ये

**भाषार्थ—**राम ने उन आभूषणों को लेकर अपनी उन भुजाओं में बाँध लिया जो सीता के बन चले जाने के कारण उनके कण्ठ में पड़ने से वञ्चित हो गये थे। राम के अयोध्या आने के पहले ही वह ब्राह्मण का वह पुत्र जी उठा ॥ ५६ ॥

तस्य पूर्वोदितां निन्दां द्विजः पुत्रसमागतः ।
स्तुत्या निवर्तयामास त्रातुर्वैवस्वतादपि ॥ ५७ ॥

**अन्वयः—**पुत्रसमागतः द्विजः वैवश्वतात् अपि त्रातुः तस्य पूर्वोदितां निन्दां स्तुत्या निवर्तयामास ।

तस्येति । पुत्रसमागतः पुत्रेण संगतो द्विजो वैवस्वतादन्तकादपि त्रातू रक्ष कस्य । 'भीत्रार्थानां भयहेतुः' इत्यपादानात्पञ्चमी । तस्य रामस्य पूर्वोदितां पूर्वोक्तां निन्दां स्तुत्या निवर्तयामास ।

**भाषार्थ—**पुत्र के जी उठने पर उस ब्राह्मण ने राम की बड़ी स्तुति की और पहले जो निन्दा की थी उसे अपनी स्तुति से उसने धो डाला, क्योंकि राम ने उसके पुत्र को यमराज के हाथों से छुड़ाया था ॥ ५७ ॥

तमध्वराय मुक्ताश्वं रक्षःकपिनरेश्वराः ।
मेघाः सस्यमिवाम्भोभिरभ्यवर्षन्नुपायनैः ॥ ५८ ॥

**अन्वयः—**अध्वराय मुक्ताश्वं तं रक्षःकपिनरेश्वराः मेघाः अम्भोभिः सस्यं इव उपायनैः अभ्यवर्षन् ।

तमिति । अध्वरायाश्वमेघाय मुक्ताश्वं तं रामं रक्षःकपिनरेश्वराः सुग्रीव-विभीषणादयो राजानश्च मेघा अम्भोभिः सस्यमिव उपायनैरभ्यवर्षन् ।

**भाषार्थ—**कुछ दिनों के बाद राम ने अश्वमेध यज्ञ के लिए घोड़ा छोड़ा, जिस प्रकार बादल धान के खेत पर पानी बरसाते हैं उसी प्रकार सुग्रीव-विभीषण आदि ने आकर राम के आगे भेंट के धन की वर्षा कर दी ॥ ५८ ॥

दिग्भ्यो निमन्त्रिताश्चैनमभिजग्मुर्महर्षयः ।
न भौमान्येव धिष्ण्यानि हित्वा ज्योतिर्मयान्यपि ॥ ५९ ॥

**अन्वयः—**निमन्त्रिता महर्षयः च भौमानि धिष्ण्यानि एव न ज्योतिर्मयानि अपि हित्वा दिग्भ्यः एनम् अभिजग्मुः ।

दिग्भ्य इति । निमन्त्रिता आहूता महर्षयश्च भूम्याः सम्बन्धीनि भौमानि धिष्ण्यानि स्थानान्येव न । 'धिष्ण्यं स्थाने गृहे भेऽग्नौ' इत्यमरः । किन्तु ज्योतिर्मयानि नक्षत्ररूपाणि धिष्ण्यान्यपि हित्वा दिग्भ्य एनं राममभिजग्मुः ।

**भाषार्थ—**राम ने यज्ञ के लिए तीनों लोकों के ऋषियों को निमन्त्रित

पञ्चदशः सर्गः ५१५

किया था, वे ऋषि केवल पृथ्वी से ही नहीं किन्तु दिव्य स्थानों से भी उन्हें छोड़कर राम के पास आये ॥ ५९ ॥

उपशल्यनिविष्टैस्तैश्चतुर्द्वारमुखी बभौ ।
अयोध्या सृष्टलोकेव सद्यः पैतामही तनुः ॥ ६० ॥

अन्वयः—चतुर्द्वारमुखी अयोध्या उपशल्यनिविष्टैः तैः सद्यः सृष्टिलोका पैतामही तनुः इव बभौ ।

उपेति । चत्वारि द्वाराण्येव मुखानि यस्याः सा चतुर्द्वारमुख्योध्या उपशल्येषु ग्रामान्तेषु निविष्टैः । 'ग्रामान्त उपशल्यं स्यात्' इत्यमरः । तैर्महर्षिभिः सद्यः सृष्टलोका पितामहस्येयं पैतामही तनुर्मूत्तिरिव बभौ ।

भाषार्थ—वे लोग आकर नगर के आस-पास के ग्रामों में ठहर गये । जब वे अयोध्या के चारों द्वारों से नगर में प्रवेश करने लगे तब वह चार मुख वाली अयोध्यापुरी ऐसी मालूम पड़ने लगी मानों तत्काल सृष्टि करनेवाले ब्रह्मा की चतुर्मुखी मूर्ति है ॥ ६० ॥

श्लाघ्यस्त्यागोऽपि वैदेह्याः पत्युः प्राग्वंशवासिनः ।
अनन्यजानेः सैवासीद्यस्माज्जाया हिरण्मयी ॥ ६१ ॥

अन्वयः—वैदेह्याः त्यागः अपि श्लाघ्यः ( कुतः ) प्राग्वंशवासिनः पत्युः अनन्यजानेः हिरण्मयी सा एव जाया आसीत् ।

श्लाघ्य इति । वैदेह्यास्त्यागोऽपि श्लाघ्यो वर्ण्य एव । कुतः यस्मात् प्राग्वंशः प्राचीनस्थूणो यज्ञशालाविशेषः तद्वासिनः । नास्त्यन्या जाया यस्य तस्यानन्यजानेः । “जायाया निङ्” इति समासान्तो निङादेशः । पत्यू रामस्य हिरण्मयी सौवर्णी । “दण्डिनायन” इत्यादिसूत्रेण निपातः । सा निजैव जाया पत्न्यासीत् । कविवाक्यमेतत् ।

भाषार्थ—सीता के परित्याग से राम की एक यह प्रशंसा हुई कि राम ने किसी दूसरी स्त्री से अपना विवाह नहीं किया इसलिए यज्ञ में सोने की सीता बनाकर राम ने अपनी पत्नी के स्थान पर उसे बैठा दिया ॥ ६१ ॥

विधेरधिकसम्भारस्ततः प्रववृते मखः ।
आसन्यत्र क्रियाविघ्ना राक्षसा एव रक्षिणः ॥ ६२ ॥

अन्वयः—ततः विधेः अधिकसम्भारः मखः प्रववृते । यत्र क्रियाविघ्ना राक्षसा एव रक्षका आसन् ।

विधेरिति । ततो विधेः शास्त्रादधिकसम्भारोऽतिरिच्यमानपरिकरो मखः प्रव-

५१६ | रघुवंशमहाकाव्ये

वृते प्रवृत्तः । यत्र मखे विहन्यन्त एभिरिति विघ्नाः प्रत्यूहाः । "घञर्थे कविधानम्" इति कः । क्रियाविघ्ना अनुष्ठानविघातका राक्षसा एव रक्षिणो रक्षका आसन् । भाषार्थ— इस प्रकार वह यज्ञ आरम्भ हुआ जिसमें आवश्यकता से अधिक तो सामग्री इकट्ठी हुई थी और विशेषता यह थी कि यज्ञ क्रिया में विघ्न करने वाले राक्षस ही उसकी रखवाली कर रहे थे ॥ ६२ ॥

अथ प्राचेतसोपज्ञं रामायणमितस्ततः । मैथिलेयौ कुशलवौ जगतुर्गुरुचोदितौ ॥ ६३ ॥

अन्वयः— अथ मैथिलेयौ कुशलवौ गुरुचोदितौ प्राचेतसोपज्ञं रामायणं इत- स्ततः जगतुः ।

अथेति । अथ मैथिलेयौ मैथिलीतनयौ । "स्त्रीभ्यो ढक्" । कुशलवौ गुरुणा वाल्मीकिना चोदितौ प्रेरितौ सन्तौ । प्राचेतसो वाल्मीकिः । उपज्ञायत इत्युपज्ञा । "आतश्चोपसर्गे" इति कर्मण्यङ्प्रत्ययः । प्राचेतसस्योपज्ञा प्राचेतसोपज्ञम् । प्राचेत- सनादौ ज्ञातमित्यर्थः । 'उपज्ञा ज्ञानमाद्यं स्यात्' इत्यमरः । "उपज्ञोपक्रमं तदा- द्याचिख्यासायाम्" इति नपुंसकतवम् । अय्यते ज्ञायतेऽनेनेत्ययनं रामस्यायनं चरितं रामायणं रामायणाख्यं काव्यम् । "पूर्वपदात्संज्ञायामगः" इति णत्वम् । उत्तरा- यणमितिवत् । इतस्ततो जगतुः । गायतेर्लिट् ।

भाषार्थ— इसके बाद वाल्मीकि मुनि की आज्ञा से मिथिलेश कुमारी सीता के पुत्र लव और कुश वाल्मीकि की प्रथम रचना रामायण को गाते हुए इधर- उधर घूमने लगे ॥ ६३ ॥

वृत्तं रामस्य वाल्मीकेः कृतिस्तौ किन्नरस्वनौ । किं तद्येन मनो हर्तुमलं स्यातां न शृण्वताम् ॥ ६४ ॥

अन्वयः— रामस्य वृत्तं वाल्मीकेः कृतिः तौ किन्नरस्वनौ तत् किं येन ( तौ ) शृण्वतां मनः हर्तुम् अलं न स्याताम् ।

वृत्तमिति । रामस्य वृत्तं वर्ण्यं वस्त्विति शेषः । वाल्मीकेः कृतिः काव्यं गेयमिति शेषः । तौ कुशलवौ किन्नरस्वनौ किन्नरकण्ठौ गायकौ पुनरिति शेषः । अत एव तत्कि येन निमित्तेन तौ शृण्वतां मनो हर्तु'मलं शक्तौ न स्याताम् । सर्वं सरसमित्यर्थः ।

भाषार्थ— एक तो राम का पवित्र चरित्र, उस पर वाल्मीकि जी उसके रच- यिता और फिर किन्नरों के समान मधुर कण्ठ वाले बालक लव एवं कुश उसके

पञ्चदशः सर्गः ५१७

पञ्चदशः सर्गः ५१७

गायक तब उसमें रह ही क्या जाता था ? जिसे सुनकर लोग लट्टू न हो जायें । अर्थात् उसके मधुर गान को सुनकर लोग मुग्ध हो गये ॥ ६४ ॥

रूपे गीते च माधुर्यं तयोस्तज्ज्ञैर्निवेदितम् ।
ददर्श सानुजो रामः शुश्राव च कुतूहली ॥ ६५ ॥

अन्वयः—तज्ज्ञैः निवेदितं तयोः रूपे गीते च माधुर्यं सानुजः रामः कुतूहली (सन्) ददर्श शुश्राव च ।

रूप इति । ते जानन्तीति तज्ज्ञाः तैस्तज्ज्ञैरभिज्ञैर्निवेदितं तयोः कुशलवयो रूपे आकारे गीते च माधुर्यं रामणीयकं सानुजो रामः कुतूहली सानन्द सन् यथासंख्यं ददर्श शुश्राव च ।

भाषार्थ—यह बात राम के कानों तक पहुँची, उन्होंने बालकों को अपने पास बुला भेजा और अपने भाइयों के साथ उन दोनों बालकों के रूप और गीत की मधुरता को आश्चर्य के साथ देखा और सुना ॥ ६५ ॥

तद्गीतश्रवणैकाग्रा संसद्श्रुमुखी बभौ ।
हिमनिष्यन्दिनी प्रातर्निवातेव वनस्थली ॥ ६६ ॥

अन्वयः—तद्गीतश्रवणैकाग्रा अश्रुमुखी संसद् प्रातः हिमनिष्यन्दिनी निर्वाता वनस्थली इव बभौ ।

तदिति । तयोर्गीतश्रवण एकाग्रसक्ताऽश्रुमुखी आनन्दादिति भावः । संसद्सभा प्रातर्हिमनिष्यन्दिनी निर्वाता वातरहिता वनस्थलीव बभौ शुशुभे । आनन्दपारवश्यान्निष्पन्दमास्त इत्यर्थः ।

भाषार्थ—सारी सभा मौन होकर उनका गीत सुनती जा रही थी और सीता के स्मरण से आंखों से आंसू बहाती जा रही थी । उस समय वह सभा प्रातःकाल की उस वनस्थली के समान दिखाई देने लगी, जिसमें वृक्षों से टप-टप ओस की बूंदें गिर रही हों ॥ ६६ ॥

वयोवेषविसम्वादि रामस्य च तयोस्तदा ।
जनता प्रेक्ष्य सादृश्यं नाक्षिकम्पं व्यतिष्ठत ॥ ६७ ॥

अन्वयः—जनता वयोवेषविसंवादि तदा तयोः रामस्य च सादृश्यं प्रेक्ष्य नाक्षिकम्पं व्यतिष्ठत ।

वय इति । जनता जनानां समूहः । “ग्रामजनबन्धुसहायेभ्यस्तल्” इति । तल्प्रत्ययः । वयोवेषाभ्यामेव विसम्वादि विलक्षणं तदा तयोः कुशलवयो रामस्य च सादृश्यं प्रेक्ष्य नास्त्यक्षिकम्पो यस्मिन्कर्मणि तद्यथा तथा । नञर्थस्य नशब्दस्य

५१८ | रघुवंशमहाकाव्ये

बहुव्रीहिः। व्यतिष्ठतातिष्ठत्। “समवप्रविभ्यः स्थ” इत्यात्मनेपदम् । विस्मयाद- निमिषमद्राक्षीदित्यर्थः ।

भाषार्थ—जनता उस समय राम और उन दोनों बालकों का एकदम मिलता हुआ रूप एकटक होकर देखती रह गई जिनमें अन्तर इतना ही था कि वे दोनों अभी कुमार थे तथा वनवासियों के वस्त्र पहने हुए थे और राम प्रौढ़ थे तथा राजसी कपड़े पहने हुए थे ॥ ६७ ॥

उभयोर्न तथा लोकः प्रावीण्येन विसिष्मिये ।
नृपतेः प्रीतिदानेषु वीतस्पृहतया यथा ॥ ६८ ॥

अन्वयः—लोकः उभयोः प्रावीण्येन तथा न विसिष्मिये, यथा नृपतेः प्रतिदानेषु वीतस्पृहतया ( विसिष्म्ये ) ।

उभयोरिति । लोको जन उभयोः कुमारयोः प्रावीण्येन नैपुण्येन तथा न विसिष्मिये न विस्मितवान्यथा नृपतेः प्रीतिदानेषु वीतस्पृहतया निःस्पृहेण विसिष्मिये ।

भाषार्थ—जनता को इनके गाने का कौशल देखकर उतना आश्चर्य नहीं हुआ जितना इस बात पर हुआ कि राम ने प्रेम से उन्हें जो दान दिया वह उन्होंने लौटा दिया ॥ ६८ ॥

गेये को नु विनेता वां कस्य चेयं कृतिः कवेः ।
इति राज्ञा स्वयं पृष्टौ तौ वाल्मीकिमशंसताम् ॥ ६९ ॥

अन्वयः—गेये कः नु वां विनेता इयं च कस्य कवेः कृतिः इति राज्ञा स्वयं पृष्ठौ तौ वाल्मीकिम् अशंसताम् ।

गेय इति । गेये गीते को नु वां युवयोर्विनेता शिक्षकः । नुशब्दः प्रश्ने । ‘नु पृच्छायां वितर्के च’ इत्यमरः । इयं च कस्य कवेः कृतिरिति राज्ञा स्वयं पृष्टौ तौ कुशलवौ वाल्मीकिमशंसतामुक्तवन्तौ । विनेतारं कविं चेत्यर्थः 'गेये केन विनीतौ वाम्' इति पाठे वामिति युष्मदर्थप्रतिपादकमव्ययं द्रष्टव्यम् । तथा चायमर्थः—केन पुंसा वां युवां गेये गीतविषये विनीतौ शिक्षितौ । कर्मणि निष्ठाप्रत्ययः ।

भाषार्थ—जब राम ने उनसे पूछा कि आप लोगों को किसने संगीत सिखाया है ? और यह किस कवि की रचना है ? तब उन्होंने वाल्मीकि मुनि को बता दिया ॥ ६९ ॥

अथ सावरजो रामः प्राचेतसमुपेयिवान् ।
उरीकृत्यात्मनो देहं राज्यमस्मै न्यवेदयत् ॥ ७० ॥

पञ्चदशः सर्गः ५१९

अन्वयः—सावरजः रामः प्राचेतसम् उपेयिवान् देहम् ऊरीकृत्य आत्मनः राज्यम् अस्मै न्यवेदयत् ।

अथेति । अथ सावरजो रामः प्राचेतसं वाल्मीकिमुपेयिवान्प्राप्तः सन् देहमा-त्मानम् ऊरीकृत्य आत्मानं स्थापयित्वेत्यर्थः । राज्यमस्मै प्राचेतसाय न्यवेदय-त्समर्पितवान् ।

भाषार्थ—इसके बाद अपने छोटे भाइयों के साथ राम ने वाल्मीकि मुनि के पास जाकर अपने को छोड़कर शेष सम्पूर्ण राज्य उनको समर्पित कर दिया ॥ ७० ॥


स तावाख्याय रामाय मैथिलेयौ तदात्मजौ ।
कविः कारुणिको वव्रे सीतायाः सम्परिग्रहम् ॥ ७१ ॥

अन्वयः—कारुणिकः स कविः रामाय तौ मैथिलेयौ तदात्मजौ आख्याय सीतायाः सम्परिग्रहम् वव्रे ।

स इति । करुणा ऽप्रयोजनमस्य कारुणिको दयालुः । “प्रयोजनम्” इति ठञ् । ‘स्याद्दयालुः कारुणिकः’ इत्यमरः । स कवी रामाय तौ मैथिलेयौ तदात्मजौ रामसुतावाख्याय सीतायाः सम्परिग्रहं स्वीकारं वव्रे ययाचे ।

भाषार्थ—दयालु आदिकवि वाल्मीकि मुनि ने रामचन्द्रजी से कहा कि ये दोनों कुमार सीताजी के गर्भ से उत्पन्न हुए हैं और आपके पुत्र हैं अब आपको चाहिए कि सीताको स्वीकार कर लें ॥ ७१ ॥


तात ! शुद्धा समक्षं नः स्नुषा ते जातवेदसि ।
दौरात्म्याद्रक्षसस्तां तु नात्रत्याः श्रद्दधुः प्रजाः ॥ ७२ ॥

अन्वयः—हे तात ! ते स्नुषा नः समक्षं जातवेदसि शुद्धा (किन्तु) राक्षसः दौरात्म्यात् अत्रत्यः प्रजाः तां न श्रद्दधुः ।

तातेति । हे तात ! ते स्नुषा सीता नोऽस्माकमक्ष्णोः समीपं समक्षम् । “अव्य-यीभावे शरत्प्रभृतिभ्यः” इति समासान्तष्टच् । जातवेदसि वह्नौ शुद्धा, नास्माक-मविश्वास इत्यर्थः । किन्तु रक्षसो रावणस्य दौरात्म्यादत्रत्याः प्रजास्तां न श्रद्दधुर्न विशश्वसुः ।

भाषार्थ—रामजी ने कहा कि हे तात ! आपकी पुत्रवधू हमारे सामने अग्नि में शुद्ध हो चुकी है इसलिए हमें इस पर अविश्वास नहीं है; परन्तु रावण की दुष्टता का विचार करके यहाँ की प्रजा को विश्वास नहीं होता ॥ ७२ ॥


ताः स्वचारित्रमुद्दिश्य प्रत्याययतु मैथिली ।
ततः पुत्रवतीमेनां प्रतिपत्स्ये त्वदाज्ञया ॥ ७३ ॥

५२० | रघुवंशमहाकाव्ये

अन्वयः—मैथिली स्वचारित्रमुद्दिश्य ताः प्रत्याययतु ततः पुत्रवतीम् एनां त्वदाज्ञया प्रतिपत्स्ये ।

ता इति । मैथिली स्वचारित्रमुद्दिश्य ताः प्रजाः प्रत्याययतु विश्वासयतु । विश्वासस्य बुद्धिरूपत्वात् । "णौ गमिरबोधने" इति णिणौ गम्यादेशो नास्ति । ततोऽनन्तरं पुत्रवतीमेनां सीतां त्वदाज्ञया प्रतिपत्स्ये स्वीकरिष्ये ।

भाषार्थ—इसलिए सीता यदि अपने चरित्र की शुद्धता का प्रमाण देकर प्रजा को विश्वास दिलावें, तब मैं आपकी आज्ञा से पुत्रों के सहित उन्हें स्वीकार कर लूंगा ॥ ७३ ॥

इति प्रतिश्रुते राज्ञा जानकीमाश्रमान्मुनिः ।
शिष्यैरानाययामास स्वसिद्धिं नियमैरिव ॥ ७४ ॥

अन्वयः—राज्ञा इति प्रतिश्रुते मुनिः आश्रमात् जानकीं शिष्यैः स्वसिद्धिं नियमैः इव आनाययामास ।

इतीति । राज्ञेति प्रतिश्रुते प्रतिज्ञाते सति मुनिराश्रमाज्जानकीं शिष्यैः प्रयो ज्यैः स्वसिद्धिं स्वार्थसिद्धिं नियमैस्तपोभिरिव आनाययामास ।

भाषार्थ—राम की ऐसी प्रतिज्ञा सुनकर वाल्मीकि मुनि ने शिष्यों को भेजकर आश्रम से सीता जी को इस प्रकार बुलवाया, मानो वे नियमों के द्वारा अपनी सिद्धि बुला रहे हों ॥ ७४ ॥

अन्येद्युरथ काकुत्स्थः सन्निपात्य पुरौकसः ।
कविमाह्वाययामास प्रस्तुतप्रतिपत्तये ॥ ७५ ॥

अन्वयः—अथ काकुत्स्थः अन्येद्युः प्रस्तुतप्रतिपत्तये पुरौकसः सन्निपात्य कविम् आह्वययामास ।

अन्येद्युरिति । अथ काकुत्स्थो रामः अन्येद्युरन्यस्मिन्नहनि प्रस्तुतप्रतिपत्तये प्रकृतकार्यानुसन्धानाय पुरौकसः पौरान् संनिपात्य मेलयित्वा कविं वाल्मीकिमाह्वाययामासाकारयामास ।

भाषार्थ—इसके बाद राम ने दूसरे दिन इस उपस्थित कार्य के लिए पुरवासी प्रजाओं को इकट्ठा करके वाल्मीकि मुनि को बुलवाया ॥ ७५ ॥

स्वरसंस्कारवत्यासौ पुत्राभ्यामथ सीतया ।
ऋचेवोदर्चिषं सूर्यं रामं मुनिरुपस्थितः ॥ ७६ ॥

अन्वयः—अथ स्वरसंस्कारवत्या ऋचा उदर्चिषं सूर्यम् इव सीतया (उदर्चिषं) रामम् असौ मुनिः उपस्थितः ।

पञ्चदशः सर्गः ५२१

पञ्चदशः सर्गः ५२१

स्वरेति । अथ स्वर उदात्तादिः संस्कारः शब्दशुद्धिः । तद्वत्या ऋचा सावित्र्योद- र्चिषं सूर्यमिव । पुत्राभ्यामुपलक्षितया सीतया करणेनोदर्चिषं राममसौ मुनिरुपस्थितः उपतस्थे ।

**भाषार्थ—**वाल्मीकि मुनि लव-कुश और सीता को साथ लेकर राम के आगे उपस्थित हुए । पुत्रों के साथ राम के पास जाती हुई सीता जी ऐसी लग रही थी मानो स्वर और संस्कारों के साथ गायत्री तेजस्वी सूर्य के पास जा रही हो ॥ ७६ ॥

काषायपरिवीतेन स्वपदार्र्पितचक्षुषा ।
अन्वमीयत शुद्धेति शान्तेन वपुषैव सा ॥ ७७ ॥

**अन्वयः—**काषायपरिवीतेन स्वपदार्र्पितचक्षुषा शान्तेन वपुषा एव सा शुद्धा इति ( जनैः ) अन्वमीयत ।

काषायेति । काषायेन रक्तं काषायम् । “तेन रक्तं रागात्” इत्यण् । तेन परिवीतेन संवृतेन स्वपदार्र्पितचक्षुषा शान्तेन प्रसन्नेन वपुषैव सा सीता शुद्धा साध्वीत्यन्वमीयतानुमिता ।

**भाषार्थ—**गेरुवा वस्त्र पहने हुए और अपनी आँखें पैर पर डाले हुए सीता जी अपने शान्त शरीर से शुद्ध दिखाई देती थीं ॥ ७७ ॥

जनास्तदालोकपथात्प्रतिसंहृतचक्षुषः ।
तस्थुस्तेऽवाङ्मुखाः सर्वे फलिता इव शालयः ॥ ७८ ॥

**अन्वयः—**तस्याः आलोकपथात् प्रतिसंहृतचक्षुषः सर्वे जनाः फलिता शालय इव अवाङ्मुखाः तस्थुः ।

जना इति । तस्याः सीतायाः कर्मण आलोकपथाद्दर्शनमार्गात्प्रतिसंसृतचक्षुषो निवर्तितदृष्टयः सर्वे जनाः फलिताः शालय इव अवाङ्मुखा अवनतमुखास्तस्थुः ।

**भाषार्थ—**सीता को देखते ही सभी लोगों ने उसी प्रकार अपना मुख नीचे कर लिया, जिस प्रकार फले हुए धान झुक जाते हैं; क्योंकि उन्हें लज्जा लगी कि हम लोगों ने व्यर्थ ही इस साध्वी सती पर कलंक लगाया ॥ ७८ ॥

तां दृष्टिविषये भर्तुर्मुनिरास्थितविष्टरः ।
कुरु निःसंशयं वत्से ! स्ववृत्ते लोकमित्यशात् ॥ ७९ ॥

**अन्वयः—**आस्थितविष्टरः मुनिः हे वत्से ! भर्तुः दृष्टिविषये स्ववृत्ते लोकं निःसंशयं कुरु इति ताम् अशात् ।

५२२ रघुवंशमहाकाव्ये

तामिति। आस्थितविष्टरोऽधिष्ठितासनो मुनिः हे वत्से ! भर्तुर्दृष्टिविषये समक्षं स्ववृत्ते स्वचरिते विषये लोकं निःसंशयं कुरु इति तां सीतामशाच्छास्ति स्म । भाषार्थ—आसन पर बैठे हुए वाल्मीकि मुनि ने सीता जी से कहा कि बेटी ! जनता के मन में तुम्हारे चरित्र के विषय में जो सन्देह है, वह तुम अपने पति के आगे मिटा दो ॥ ७९ ॥

अथ वाल्मीकिशिष्येण पुण्यमावर्जितं पयः । आचम्योदीरयामास सीता सत्यां सरस्वतीम् ॥ ८० ॥ अन्वयः—वाल्मीकिशिष्येण आवर्जितं पुण्यं पयः आचम्य सीता सत्यां सरस्वतीम् उदीरयामास । अथेति । अथ वाल्मीकिशिष्येणावर्जितं दत्तं पुण्यं पूतं पयो जलमाचम्य सीता सत्यां सरस्वतीं वाचमुदीरयामासोच्चारयामास । भाषार्थ—इसके बाद वाल्मीकि मुनि के शिष्य के द्वारा दिये गये पवित्र जल से आचमन करके सीता जी ने यह सत्य वचन कहा ॥ ८० ॥

वाङ्मनःकर्मभिः पत्यौ व्यभिचारो यथा न मे । तथा विश्वम्भरे देवि मामन्तर्धातुमर्हसि ॥ ८१ ॥ अन्वयः—वाङ्मनःकर्मभिः पत्यौ मे व्यभिचारः न यथा हे विश्वम्भर देवि ! माम् अन्तर्धातुम् अर्हसि । वाङ्मन इति । वाङ्मनःकर्मभि. पत्यौ विषये मे व्यभिचारः स्खालित्यं न यथा नास्ति यदि तथा तर्हि विश्वं बिभर्तीति विश्वम्भरा भूमिः । “संज्ञायां भृतृः०” इत्यादिना खच्प्रत्ययः । “अरुर्द्विषद०” इत्यादिना मुमागमः । हे विश्वम्भरे देवि ! मामन्तर्धातुं गर्भे वासयितुमर्हसि । भाषार्थ—यदि मैंने मन, वचन और कर्म किसी प्रकार से भी अपना पातिव्रत्य भंग नहीं किया हो तो, हे मातां विश्वम्भरे ! तुम मुझे अपनी गोद में ले लो ॥८१॥

एवमुक्ते तया साध्व्या रन्ध्रात्सद्योभवादुभुवः । शातह्रदमिव ज्योतिः प्रभामण्डलमुद्ययौ ॥ ८२ ॥ अन्वयः—साध्व्या तया एवम् उक्ते (सति) सद्यो भवात् भुवः रन्ध्रात् शात- ह्रदं ज्योतिः इव प्रभामण्डलं उद्ययौ । एवमिति । साध्व्या पतिव्रतया तया सीतयैवमुक्ते सति सद्योभवाद् भुवो रन्ध्राच्छातह्रदं वैद्युतं ज्योतिरिव प्रभामण्डलमुद्ययौ ।

पञ्चदशः सर्गः ५२३

**भाषार्थ—**पतिव्रता सीता के ऐसा कहते ही पृथ्वी फट गई और उसमें से बिजली के समान चमकीली एक ज्योति ऊपर निकली ॥ ८२ ॥

तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी।
समुद्ररशना साक्षात्प्रादुरासीद्वसुन्धरा ॥ ८३ ॥

**अन्वयः—**तत्र नागफणोत्क्षिप्तसिंहासननिषेदुषी समुद्ररशना साक्षात् वसुन्धरा प्रादुरासीत् ।

तत्रेति । तत्र प्रभामण्डले नागफणोत्क्षिप्ते सिहासने निषेदुष्यासीना समुद्ररशना समुद्रमेखला साक्षात् । वसूनि धारयतीति वसुन्धरा भूमिः । “खचि ह्रस्वः” इति ह्रस्वः । प्रादुरासीत् ।
**भाषार्थ—**उसमें से नाग के फनों के ऊपर रखे हुए सिंहासन पर बैठी हुई समुद्र की करधनी पहने साक्षात् पृथ्वी माता प्रकट हो गयी ॥ ८३ ॥

सा सीतामङ्कमारोप्य भर्तृप्रणिहितेक्षणाम्।
मा मेति व्याहरत्येव तस्मिन्पातालमभ्यगात् ॥ ८४ ॥

**अन्वयः—**सा भर्तरि प्रणिहितेक्षणां सीताम् अङ्कम् आरोप्य तस्मिन् मा मा इति व्याहरति एव पातालम् अभ्यगात् ।

सेति । सा वसुन्धरा भर्तरि प्रणिहितेक्षणां दत्तदृष्टि सीतामङ्कमारोप्य तस्मिन्भर्तरि रामे मा हरेति व्याहरति वदत्येव व्याहरन्तमनादृत्येत्यर्थः । “षष्ठी चानादरे” इति सप्तमी । पातालमभ्यगात् ।
**भाषार्थ—**वह पृथ्वी माता उस सीताजी को अपनी गोद में लेकर पाताल में समा गई रामको एक टक से देख रही थीं और राम कहते ही रह गये कि हैं हैं यह क्या कर रही हो, यह क्या कर रही हो ॥ ८४ ॥

धरायां तस्य संरम्भं सीताप्रत्यर्पणैषिणः ।
गुरुर्विधिबलापेक्षी शमयामास धन्विनः ॥ ८५ ॥

**अन्वयः—**सीताप्रत्यर्पणैषिणः धन्विनः तस्य धरायां संरम्भं विधिबलापेक्षी गुरुः शमयामास ।

धरायामिति । सीताप्रत्यर्पणमिच्छतीति तथोक्तस्य धन्विन आत्तधनुस्तस्य रामस्य धरायां विषये संरम्भं विधिबलापेक्षी दैवशक्तिदर्शी गुरुर्ब्रह्मा शमयामास । अवश्यम्भावी विधिरिति भावः ।
**भाषार्थ—**राम को पृथ्वी पर बड़ा क्रोध आया और पृथ्वी से सीता को लौटा लेने के लिए उन्होंने अपना धनुष उठाया किन्तु वसिष्ठ और वाल्मीकि ने

५२५ रघुवंशमहाकाव्ये

यह कह कर धनुर्धारी रामको शान्त किया कि विधि के विधान को कोई टाल नहीं सकता ॥ ८५ ॥

ऋषीन्विसृज्य यज्ञान्ते सुहृदश्च पुरस्कृतान् । रामः सीतागतं स्नेहं निदधे तदपत्ययोः ॥ ८६ ॥

अन्वयः—रामः यज्ञान्ते पुरस्कृतान् ऋषीन् सुहृदः च विसृज्य सीतागतं स्नेहं तदपत्ययोः निदधे ।

ऋषीनिति । रामो यज्ञान्ते पुरस्कृतान्पूजितान्ऋषीन्वाल्मीक्यादीन्सुहृदश्च विभीषणादीन् विसृज्य सीतागतं स्नेहं तदपत्ययोः कुशलवयोर्र्निदधे ।

भाषार्थ—किसी प्रकार यज्ञ समाप्त हुआ, अन्त में राम ने ऋषि और मित्रों को सत्कार करके विदा किया, अब वे पुत्रों से उतना ही प्रेम करने लगे जितना सीता से करते थे ॥ ८६ ॥

युधाजितश्च संदेशात् देशं सिन्धुनामकम् । ददौ दत्तप्रभावाय भरताय भृतप्रजः ॥ ८७ ॥

अन्वयः—भृतप्रजः सः युधाजितः सन्देशात् सिन्धुनामकं देशं दत्तप्रभावाय भरताय ददौ ।

युधाजित इति । किं च भृतप्रजः सः रामो युधाजितो भरतमातुलस्य संदेशात्सिन्धुनामकं देशं दत्तप्रभावाय दत्तैश्वर्याय । रामेणेति शेषः । भरताय ददौ ।

भाषार्थ—प्रजापालक राम ने भरत के मामा युधाजित् के कहने पर सिन्धु का राज्य प्रभावशाली भरत को दे दिया ॥ ८७ ॥

भरतस्तत्र गन्धर्वान्युधि निर्जित्य केवलम् । आतोद्यं ग्राहयामास समत्याजयदायुधम् ॥ ८८ ॥

अन्वयः—तत्र भरतः युधि गन्धर्वान् निर्जित्य केवलम् आतोद्यं ग्राहयामास, आयुधं समत्याजयत् ।

भरत इति । तत्र सिन्धुदेशे भरतोऽपि युधि गन्धर्वान्निर्जित्य केवलमेकमातोद्यं वीणाम् । 'ततं वीणादिकं वाद्यनद्धं मुरजादिकम् । वंशादिकं तु सुषिरं कांस्यतालादिकं घनम् ।। चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम् ।।' इत्यमरः । ग्राहयामास । आयुधं समत्याजयत्त्याजितवान् । ग्राहिस्त्यज्योर्ण्यन्तयोर्द्विकर्मकत्वं नित्यमित्यनुसन्धेयम् ।

भाषार्थ—भरत ने गन्धर्वों को जीत कर उनके हाथ में केवल वीणा तो रहने दी किन्तु धनुष छुड़वा दिया ॥ ८८ ॥

पञ्चदशः सर्गः ५२५

स तक्षपुष्कलौ पुत्रौ राजधान्योस्तदाख्ययोः ।
अभिषिच्याभिषेकार्हौ रामान्तिकमगात्पुनः ॥ ८९ ॥

अन्वयः—स अभिषेकार्हौ तक्षपुष्कलौ पुत्रौ तदाख्ययोः राजधान्योः अभिषिच्य पुनः रामान्तिकम् अगात् ।

स इति । स भरतः अभिषेकार्हौ तक्षपुष्कलौ नाम पुत्रौ तदाख्ययोः तक्षपुष्कलाख्ययोरित्यर्थः । पुष्कलं पुष्कलावत्यां तक्षं तक्षशिलायामिति राजधान्योर्नगर्योरभिषिच्य पुना रामान्तिकमगात् ।

भाषार्थ—भरत ने तक्षक और पुष्कल नामक अपने पुत्रों को उनके नाम से प्रसिद्ध तक्षशिला और पुष्कलावती नाम की दो राजधानियों को बनाया उनमें क्रमसे अभिषिक्त करके पुनः राम के पास लौट आये ॥ ८९ ॥


अङ्गदं चन्द्रकेतुं च लक्ष्मणोऽप्यात्मसम्भवौ ।
शासनाद्रघुनाथस्य चक्रे कारापथेश्वरौ ॥ ९० ॥

अन्वयः—लक्ष्मणः अपि रघुनाथस्य शासनात् अङ्गदं चित्रकेतुं च आत्मसम्भवौ कारापथेश्वरौ चक्रे ।

अङ्गदमिति । लक्ष्मणोऽपि रघुनाथस्य रामस्य शासनादङ्गदं चन्द्रकेतुं च तदाख्यावात्मसम्भवौ पुत्रौ कारापथो नाम देशः तस्येश्वरौ चक्रे ।

भाषार्थ—रामकी आज्ञा से लक्ष्मण ने अंगद और चित्रकेतु नाम के अपने पुत्रों को कारापथ का राजा बना दिया ॥ ९० ॥


इत्यारोपितपुत्रास्ते जननीनां जनेश्वराः ।
भर्तृलोकप्रपन्नानां निवापान्विदधुः क्रमात् ॥ ९१ ॥

अन्वयः—इति आरोपितपुत्राः ते जनेश्वरा भर्तृलोकप्रपन्नानां जननीनां क्रमात् निवापान् विदधुः ।

इतीति । इत्यारोपितपुत्रास्ते जनेश्वरा रामादयो भर्तृलोकप्रपन्नानां स्वर्गतानां जननीनां क्रमान्निवापाञ्श्राद्धादीन्विदधुश्चक्रुः । 'पितृदानं निवापः स्यात्' इत्यमरः ।

भाषार्थ—इस प्रकार पुत्रों को राज्य देकर उन चारों ने अपनी स्वर्गीया माताओं के श्राद्ध आदि संस्कार किए ॥ ९१ ॥


उपेत्य मुनिवेषोऽथ कालः प्रोवाच राघवम् ।
रहः संवादिनौ पश्येदावां यस्तं त्यजेरिति ॥ ९२ ॥

५२६ रघुवंशमहाकाव्ये

अन्वयः—अथ कालः मुनिवेषः (सन्) उपेत्य राघवं प्रोवाच रहःसंवादिनौ आवां यः पश्येत् तं (त्वं) त्यजेः इति।

उपेत्येति। अथ कालोऽन्तको मुनिवेषः सन्नुपेत्य राघवं प्रोवाच। किमित्याह—रहस्येकान्ते संवादिनौ संभाषिणावावां यः पश्येत्। रहस्यभङ्गं कुर्यादित्यर्थः। तं त्यजेरिति।

भाषार्थ—यह सब हो जाने पर एक दिन राम के पास मुनि का वेश बना-कर काल आया और बोला—मैं आपसे एकान्त में कुछ बातें करना चाहता हूँ हम लोगोंकी बातके बीच में जो भी कोई आ जाय उसे आप त्याग दीजिएगा ॥९२॥

तथेति प्रतिपन्नाय विवृतात्मा नृपाय सः।
आचख्यौ दिवमध्यास्व शासनात्परमेष्ठिनः ॥ ९३ ॥

अन्वयः—सः तथा इति प्रतिपन्नाय नृपाय विवृतात्मा (सन्) परमेष्ठिनः शासनात् दिवम् अध्यास्व (इति) आचख्यौ।

तथेति। स कालस्तथेति प्रतिपन्नाय नृपाय रामाय विवृतात्मा प्रकाशितनिजस्वरूपः सन् परमेष्ठिनो ब्रह्मणः शासनाद्दिवमध्यास्वेत्याचख्यौ।

भाषार्थ—राम ने कहा 'अच्छी बात है' तब उसने अपना सच्चा रूप दिखाया और कहा कि ब्रह्मा जी की आज्ञा है कि अब आप चलकर वैकुण्ठ में रहें ॥९३॥

विद्वानपि तयोर्द्वाःस्थः समयं लक्ष्मणोऽभिनत्।
भीतो दुर्वाससः शापाद्रामसंदर्शनार्थिनः ॥ ९४ ॥

अन्वयः—द्वाःस्थः लक्ष्मणः विद्वान् अपि रामसन्दर्शनार्थिनः दुर्वाससः शापात् भीतः (सन्) तयोः समयं अभिनत्।

विद्वानिति। द्वाःस्थो द्वारि नियुक्तो लक्ष्मणो विद्वानपि पूर्वश्लोकोक्तं जानन्नपि रामसन्दर्शनार्थिनो दुर्वाससो मुनेः शापाद्भीतः सन् तयोः कालरामयोः समयं संवादमभिनत् बिभेद।

भाषार्थ—यह बात हो ही रही थी कि दुर्वासा ऋषि आ धमके उन्होंने द्वार-पर बैठे हुए लक्ष्मण से कहा कि अभी जाकर राम से कहो 'मैं आया हूँ' नहीं तो तुम्हारे कुल को अभी शाप दे भस्म कर दूँगा। लक्ष्मण ने जानते हुए भी ऋषि के शाप से डरकर जाकर सूचना दे दी ॥९४॥

स गत्वा सरयूतीरं देहत्यागेन योगवित्।
चकारावितथां भ्रातुः प्रतिज्ञां पूर्वजन्मनः ॥ ९५ ॥

पञ्चदशः सर्गः ५२७

पञ्चदशः सर्गः ५२७

**अन्वयः—**योगवित् स सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनः भ्रातुः प्रतिज्ञां वितथां चकार ।

स इति । योगविद्योगमार्गवेदी स लक्ष्मणः सरयूतीरं गत्वा देहत्यागेन पूर्वजन्मनो भ्रातुः प्रतिज्ञामवितथां सत्यां चकार ।

**भाषार्थ—**वहाँ से लौटकर योगमार्ग के जानने वाले लक्ष्मण ने सरयू के किनारे जाकर योग बल से अपने शरीर को छोड़कर अपने बड़े भाई राम की प्रतिज्ञा की रक्षा कर ली ॥ ९५ ॥

तस्मिन्नात्मचतुर्भागे प्राङ्नाकमधितस्थुषि । राघवः शिथिलं तस्थौ भुवि धर्मस्त्रिपादिव ॥ ९६ ॥

**अन्वयः—**आत्मचतुर्भागे तस्मिन् प्राङ्नाकमधितस्थुषि राघवः भुवि त्रिपाद् धर्म इव शिथिलं तस्थौ ।

तस्मिन्निति । चतुर्थो भागश्चतुर्भागः । संख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं शतांशवत् । आत्मचतुर्भागे तस्मिल्लक्ष्मणे प्राङ्नाकमधितस्थुषि पूर्वं स्वर्गं जग्मुषि सति राघवो रामः भुवि त्रिपाद्धर्म इव शिथिलं तस्थौ । पादविकलो हि शिथिलं तिष्ठतीति भावः । त्रेतायां धर्मस्त्रिपादित्याहुः । पादश्चतुर्थांशः अंघ्रिश्च ध्वन्यते । ‘पादा रश्म्यङ्घ्रितुर्यांशाः’ इत्यमरः । त्रयः पादा यस्यासौ त्रिपात् । “संख्यासुपूर्वस्य” इत्यकारलोपः । समासान्तः ।

**भाषार्थ—**अपने चतुर्थांश लक्ष्मण के स्वर्ग चले जाने पर राम उसी प्रकार शिथिल पड़ गये जिस प्रकार पृथ्वी पर त्रेतायुग में तीन पैर वाला धर्म शिथिल पड़ जाता है ॥ ९६ ॥

स निवेश्य कुशावत्यां रिपुनागाङ्कुशं कुशम् । शरावत्यां सतां सूक्तैर्जनिताश्रुलवं लवम् ॥ ९७ ॥ उदक्प्रतस्थे स्थिरधीः सानुजोऽग्निपुरःसरः । अन्वितः पतिवात्सल्याद् गृहवर्जमयोध्यया ॥ ९८ ॥

अन्वयः—( स्थिरधीः ) सः रिपुनागाङ्कुशं कुशं कुशावत्यां निवेश्य सूक्तैः सतां जनिताश्रुलवं लवं शरावत्यां निवेश्य ।

**अन्वयः—**स्थिरधीः सानुजः अग्निपुरःसरः ( सन् ) पतिवात्सल्यात् गृहवर्जम् अयोध्शया अन्वित उदक् प्रतस्थे ।

स इति । उदगिति च । युग्मम् । स्थिरधीः स रामः रिपव एव नागा गजास्तेषामङ्कुशं निवारकं कुशं कुशावत्यां पुर्यां निवेश्य स्थापयित्वा सूक्तैः

५२८ रघु वंशमहाकाव्ये

समीचीनवचनैः सतां जनिता अश्रुलवाः अश्रुलेशा । येन तं लवं लवाख्यं पुत्रम् । ‘लवो लेशे विलासे च छेदने रामनन्दने’ इति विश्वः । शरावत्यां पुर्याम् । “शरादीनां च” इति शरकुशशब्दयोदीर्घः । निवेश्य सानुजोऽग्निपुरःसरः सन् पत्यौ भर्तरि वात्सल्यादनुरागात् गृहान्वर्जयित्वा गृहवर्जम् । “द्वितीयायां च” इति णमुल् । अयं क्वचिदपरीप्सायामपीष्यते । “अनुदात्तं पदमेकवर्जम्” इत्येकाचः शेषतया व्याख्यातत्वात् । परीप्सा त्वरा । अयोध्यायाऽन्वितोनुगत उदक्प्रतस्थे ।

भाषार्थ— स्थिर बुद्धि वाले राम ने शत्रुरूपी हाथियों के लिए अंकुश के समान भय कारक कुश को कुशावती का राज्य दे दिया और अपने मधुर वचनों से सज्जनों के नेत्रों में आंसू बहाने वाले लव को शरावती का राजा बनाया ॥९७॥

भाषार्थ— फिर अग्निहोत्र की आग को आगे करके भाइयों के साथ राम उत्तरायण की ओर चले, जब अयोध्यावासियों ने सुना तब वे भी सब राम के प्रेम के वश अपने-अपने घरों को छोड़कर उनके साथ हो लिए ॥ ९८ ॥

जगृहुस्तस्य चित्तज्ञाः पदवीं हरिराक्षसाः ।
कदम्बमुकुलस्थूलैरभिवृष्टां प्रजाश्रुभिः ॥ ९९ ॥

अन्वयः— चित्तज्ञाः हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिः अभिवृष्टां तस्य पदवीं जगृहुः ।

व्याख्या— जगृहुरिति । चित्तज्ञा हरिराक्षसाः कदम्बमुकुलस्थूलैः प्रजाश्रुभिरभिष्टां तस्य रामस्य पदवीं मार्गं जगृहुः । तेऽप्यनुजग्मुरित्यर्थः ।

भाषार्थ— राम के मनकी बात जानने वाले बानर और राक्षस भी उनके पीछे चले । जिस मार्ग से राम चले जा रहे थे वह मार्ग राम के पीछे चलने वाली प्रजाओं के आंसुओं से गीला हो गया था ॥ ९९ ॥

उपस्थितविमानेन तेन भक्तानुकम्पिना ।
चक्रे त्रिदिवनिश्श्रेणिः सरयूरनुयायिनाम् ॥ १०० ॥

अन्वयः— उपस्थितविमानेन भक्तानुकम्पिना तेन अनुयायिनां सरयूः त्रिदिवनिश्श्रेणिः चक्रे ।

व्याख्या— उपस्थितेति । उपस्थितं प्राप्तं विमानं यस्य तेन । भक्ताननुकम्पत इति भक्तानुकम्पिना तेन रामेणानुयायिनां सरयूस्त्रिदिवनिश्श्रेणिः स्वर्गाधिरोहिणी चक्रे । ‘निश्श्रेणिस्त्वधिरोहिणी’ इत्यमरः ।

भाषार्थ— भक्तवत्सल राम विमान पर चढ़कर स्वर्ग चले गये और सरयू को

पञ्चदशः सर्गः ५२९

उन्होंने अपने पीछे चलने वाले के लिए स्वर्ग की सीढ़ी बना दिया । अर्थात् जो सरयू में स्नान करता था वह तत्काल स्वर्ग चला जाता था ॥ १०० ॥

यद्गोप्रतरकल्पोऽभूत्सम्मर्दस्तत्र मज्जताम् ।
अतस्तदाख्यया तीर्थं पावनं भुवि पप्रथे ॥ १०१ ॥

अन्वयः—यत् तत्र मज्जतां सम्मर्दः गोप्रतरकल्पः अभूत् अतः तदाख्यया पावनं तीर्थं भुवि पप्रथे ।

यदिति । यद्यस्मात्तत्र सरय्वां मज्जतां सम्मर्दः गोप्रतरो गोप्रतरणं तत्कल्पोऽभूत् । अतस्तदाख्यया गोप्रतराख्यया पावनं शोधकं तीर्थं भुवि पप्रथे ।

भाषार्थ—वहाँ स्नान कराने वालों की वैसी ही भीड़ हुई जैसी गौवों को पार कराते समय होती है । इसलिए उस पवित्र तीर्थ का नाम ही संसार में गोप्रतर प्रसिद्ध हो गया ॥ १०१ ॥

स विभुर्विबुधांशेषु प्रतिपन्नात्ममूर्तिषु ।
त्रिदशीभूतपौराणां स्वर्गान्तरमकल्पयत् ॥ १०२ ॥

अन्वयः—विभुः स विबुधांशेषु प्रतिपन्नात्ममूर्तिषु त्रिदशीभूतपौराणां स्वर्गान्तरम् अकल्पयत् ।

स इति । विभुः प्रभुः स रामो विबुधानामंशेषु सुग्रीवादिषु प्रतिपन्नात्ममूर्तिषु सत्सु त्रिदशीभूता देवभुवनं गता ये पौरास्तेषां नूतनसुराणां स्वर्गान्तरमकल्पयत् ।

भाषार्थ—देवताओं के अंशधारी भालू और वानरों ने भी अपना देवरूप धारण कर लिया । इसलिए उतने लोग स्वर्ग में पहुँच गये कि सामर्थ्यशाली राम को देवपद प्राप्त करनेवाले अयोध्यावासियों के रहने के लिए एक दूसरा स्वर्ग बनाना पड़ा ॥ १०२ ॥

निर्वर्त्यैवं दशमुखशिरश्छेदकार्यं सुराणां
विष्वक्सेनः स्वतनुमविशत्सर्वलोकप्रतिष्ठाम् ।
लङ्कानाथं पवनतनयं चोभयं स्थापयित्वा
कीर्तिस्तम्भद्वयमिव गिरौ दक्षिणे चोत्तरे च ॥ १०३ ॥

अन्वयः—विष्वक्सेनः एवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य लङ्कानाथं पवनतनयं च उभयं कीर्तिस्तम्भद्वयम् इव दक्षिणे उत्तरे च गिरौ स्थापयित्वा सर्वलोकप्रतिष्ठां स्वतनूम् अविशत् ।

निर्वर्त्येति । विष्वदसेनो विष्णुरेवं सुराणां दशमुखशिरश्छेदकार्यं निर्वर्त्य

३४ र० सम्पूं०

५३० रघुवंशमहाकाव्ये

निष्पाद्य लङ्कानाथं विभीषणं पवनतनयं हनूमन्तं चोभयं कीर्तिस्तम्भद्वयमिव दक्षिणे गिरौ चित्रकूटे चोत्तरे गिरौ हिमवति च स्थापयित्वा सर्वलोकप्रतिष्ठां सर्वलोकाश्रयभूतां स्वतनुं स्वमूर्तिमविशत् ।

भाषार्थ— इस प्रकार भगवान् विष्णु ने रावण का वध करके देवताओं का कार्य पूरा किया और उत्तर गिरि हिमालय पर हनुमान् जी को और दक्षिण पर्वत त्रिकूट पर्वत पर विभीषण को अपने दो कीर्ति स्तम्भों के रूप में स्थापित करके समस्त संसार के आश्रयभूत अपने विराट् शरीर में लीन हो गये ॥१०३॥

इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविकालिदासकृतौ रघुवंशे महाकाव्ये श्रीरामस्वर्गारोहणो नाम पञ्चदशः सर्गः ॥ १५ ॥


षोडशः सर्गः

वृन्दारका यस्य भवन्ति भृङ्गा मन्दाकिनी यन्मकरन्दविन्दुः ।
तवारविन्दाक्ष ! पदारविन्दं वन्दे चतुर्वर्गचतुष्पदं तत् ॥

अथेतेरे सप्त रघुप्रवीरा ज्येष्ठं पुरोजन्मतया गुणैश्च ।
चक्रुः कुशं रत्नविशेषभाजं सौभ्रात्रमेषां हि कुलानुसारि ॥ १ ॥

अन्वयः— अथ इतरे सप्त रघुप्रवीराः पुरोजन्मतया गुणैः च ज्येष्ठं कुशं रत्नविशेषभाजं चक्रुः, हि सौभ्रात्रम् एषां कुलानुसारि ( आसीत् ) ।

अथेति । अथ रामनिर्वाणानन्तरमितरे लवादयः सप्त रघुप्रवीराः पुरः पूर्वं जन्म यस्य तस्य भावस्तत्ता तया गुणैश्च ज्येष्ठं कुशं रत्नविशेषभाजं तत्तच्छ्रेष्ठवस्तुभागिनं चक्रुः । तदुक्तम्—'जातौ जातौ यदुत्कृष्टं तद्रत्नमभिधीयते' इति । तथा हि सुभ्रातॄणां भावः सौभ्रात्रम् । "हायनान्तयुवादिभ्योऽण्" इत्यनेन युवादि-त्वाद्णप्रत्ययः । एषां कुशलवादीनां कुलानुसारि वंशानुगतं हि ।

भाषार्थ— इसके बाद रघुवंशियों में श्रेष्ठ दूसरे लव, तक्ष, पुष्कल, सुवाहु, सुकृत, अङ्गद और चित्रकेतु इन सात वीरों ने अपने सर्वश्रेष्ठ भाई कुश को अपना प्रधान मानकर उत्तमोत्तम रत्न दिये, क्योंकि भ्रातृप्रेम तो उनके कुल का क्रमागत धर्म ही था ॥ १ ॥