रघुवंशम् (मल्लिनाथ संजीवनी व श्रीकृष्णमणि त्रिपाठी हिन्दी व्याख्या)
Raghuvamsham of Kalidasa Hindi
महाकवि कालिदास द्वारा
स्रोत: Raghuvamsham with Mallinatha Sanjivani & Hindi Commentary by Dr. Shrikrishnamani Tripathi (उद्गम)
अष्टादशः सर्गः ६०५
पितेति । पितृणामनृणः निवृत्तपितॄऋण इत्यर्थः । ( प्रजया पितृभ्यः ) इति श्रुतेः । अतएव कृतो कृतकृत्य इत्यर्थः । 'पिता विश्वसहोऽन्ते वयसि वार्द्धकेऽनन्तान्य-विनाशानि सुखानि लिप्सुः मुमुक्षुरित्यर्थः । आजानुविलम्बिबाहुं दीर्घबाहुम् । भाग्य-संपन्नमिति भावः । तं हिरण्यनाभं राजानं कृत्वा वल्कलवान्बभूव । वनं गत इत्यर्थः।
**भाषार्थ—**अब वे पिता के ऋण से उऋण हो गये और बहुत सा सुख भोगकर वृद्धावस्था में पुत्र को राज्य देकर स्वयं वल्कल वस्त्र पहनकर विश्वसह नामक वन में चले गये ॥ २६ ॥
कौसल्य इत्युत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य ।
तस्यौरसः सोमसुतः सुतोऽभून्नेत्रोत्सवः सोम इव द्वितीयः ॥ २७ ॥
**अन्वयः—**उत्तरकोशलानां पत्युः पतङ्गान्वयभूषणस्य सोमसुतः तस्य द्वितीयः सोम इव नेत्रोत्सवः कौशल्य इति औरसः सुतः अभूत् ।
कौसल्य इति । उत्तरकोसलानां पत्युः पतङ्गान्वयभूषणस्य सूर्यवंशाभरणस्य द्वितीयः सोमश्चन्द्रः इव नेत्रोत्सवो नयनानन्दकरः कौशल्य इति प्रसिद्ध औरसो धर्मपत्नीजः सूतोऽभूत् ।
**भाषार्थ—**उत्तर कोशल के स्वामी और सूर्य कुल के भूषण उन हिरण्य नाम को कोशला नामक पुत्र हुआ, जो सबकी आंखों को उसी प्रकार आनन्द देने वाला हुआ मानो दूसरा चन्द्रमा ही हो ॥ २७ ॥
यशोभिराब्रह्मसमं प्रकाशः स ब्रह्मभूयं गतिमाजगाम ।
ब्रह्मिष्ठमाधाय निजेऽधिकारे ब्रह्मिष्ठमेव स्वतनुप्रसूतम् ॥ २८ ॥
**अन्वयः—**आब्रह्मसभं यशोभिः प्रकाशः स ब्रह्मिष्ठं ब्रह्मिष्ठं स्वतनुप्रसूतं एव निजे अधिकारे निघाय ब्रह्मभूयं गतिं आजगाम ।
यशोभिरिति । आ ब्रह्मसभाया आब्रह्मसभं ब्रह्मसदनपर्यन्तम् । अभिविधाव-व्ययीभावः । यशोभिः प्रकाशः प्रसिद्धः सकौसल्योऽतिशयेन ब्रह्मवन्तं ब्रह्मिष्ठम् । ब्रह्मविदमित्यर्थः । ब्रह्मशब्दान्मत्तुबन्तादिष्ठन्प्रत्यये । "विन्मतोर्लुक्" इति मतुपो लुक् । "नस्तद्धिते" इति टिलोपः । ब्रह्मिष्ठं ब्रह्मिष्ठाख्यं स्वतनु-प्रसूतं स्वात्मजमेव निजे स्वकीयेऽधिकारे प्रजापालनकृत्ये आधाय ब्रह्मणो भावो ब्रह्मभूयं ब्रह्मत्वं तदेव गतिस्तामाजगाम । मुक्तोऽभूदित्यर्थः । 'स्याद् ब्रह्मभूयं ब्रह्मत्वम्' इत्यमरः । भुवो भावे क्यप् ।
**भाषार्थ—**कौशल्य का यश ब्रह्मा की सभातक पहुंच गया, वृद्धावस्था में
| ६०६ | रघुवंशमहाकाव्ये |
|---|
उन्होने ब्रह्मिष्ठ नाम के अपने ब्रह्मज्ञानी पुत्र को राज्य दे दिया और स्वयं ब्रह्म प्राप्ति के लिए वन में तप करने चले गये ॥ २८ ॥
तस्मिन्कुलापीडानिभे विपीडं सम्यङ्म्हीं शासति शासनाङ्काम् ।
प्रजाश्चिरं सुप्रजसि प्रजेशे ननन्दुरानन्दजलाविलाक्ष्यः ॥ २९ ॥
अन्वयः—कुलापीडनिभे सुप्रजसि तस्मिन् प्रजेशे शासनाङ्कां महीं विपीडं विधाय सम्यक् शासति आनन्दजलाविलाक्ष्यः प्रजाः चिरं ननन्दुः ।
तस्मिन्निति । कुलपीडनिभे कुलशेखरतुल्ये । 'वैकक्षकं तु तत् । यत्तिर्यक्क्षिप्तमुरसि शिखास्वापीडशेखरो' इत्यमरः । सुप्रजसि सत्संतानवति । "नित्यमसिच्प्रजामेधयोः" इत्यसिच्प्रत्ययः । तस्मिन्प्रजेशे प्रजेश्वरे ब्रह्मिष्ठे शासनाङ्कां शासनचिह्नां महीं विपीडं निर्बाधं यथा तथा सम्यक्शासति सति आनन्दजलाविलाक्ष्य आनन्दबाष्पाकुलनेत्राः प्रजाश्चिरं ननन्दुः ।
भाषार्थ—श्रेष्ठ प्रजावाले ब्रह्मिष्ठ अपने कुलके शिरोमणि थे, उन्होंने बड़ी योग्यता से प्रजा का शासन किया, उनके सुन्दर शासन को देखकर प्रजाओं को आनन्द के आँसू आ जाते थे, उनके शासन में प्रजा बहुत दिनों तक सुख भोगती रही ॥ २९ ॥
पात्रीकृतात्मा गुरुसेवनेन स्पष्टाकृतिः पत्ररथेन्द्रकेतोः ।
तं पुत्रिणां पुष्करपत्रनेत्रः पुत्रः समारोपयदग्रसंख्याम् ॥ ३० ॥
अन्वयः—गुरुसेवनेन पात्रीकृतात्मा पत्ररथेन्द्रकेतोः स्पष्टाकृतिः पुष्करपत्रनेत्रः पुत्रः तं पुत्रिणां अग्रसंख्यां समारोपयेत् ।
पात्रीकृतेति । गुरुसेवनेन पित्रादिशुश्रूषया पात्रीकृतात्मा योग्यीकृतात्मा । 'योग्यभाजनयोः पात्रम्' इत्यमरः । पत्ररथेन्द्रकेतोर्गरुडध्वजस्य स्पष्टाकृतिः स्पष्टवपुः तत्सरूप इत्यर्थः । आकृतिः कथिता रूपे सामान्यवपुषोरपि' इति विश्वः । पुष्करपत्रनेत्रः पद्मदलाक्षः पुत्राख्यो राजा यद्वा पुत्रशब्द आवर्तनीयः पुत्रः सुतः तं ब्रह्मिष्ठं पुत्रिणामग्रसंख्यां समारोपयत् । अग्रगण्यं चकारेत्यर्थः ।
भाषार्थ—उनके पुत्र ने उन्हें पुत्रवानों का शिरोमणि बना दिया, वे पिता की सेवा-सुश्रूषा करने से बड़े योग्य थे, वे गरुडध्वज विष्णु के समान सुन्दर थे और उन कमललोचन का नाम भी पुत्र ही था ॥ ३० ॥
वंशस्थितिं वंशकरेण तेन संभाव्य भावी स सखा मघोनः ।
उपस्पृशन्स्पर्शानिवृत्तकौल्यस्त्रिपुष्करेषु त्रिदशत्वमाप ॥ ३१ ॥
अष्टादशः सर्गः ६०७
अष्टादशः सर्गः ६०७
अन्वयः—स्पर्शानिवृत्तलौल्यः (अत एव) सखा भावी स वंशकरेण तेन वंशस्थितिं सम्भाव्य त्रिपुष्करेषु उपस्पृशन् त्रिदशत्वं आप ।
वंशेति । स्पृश्यन्त इति स्पर्शा विषयाः तेभ्यो निवृत्तलौल्यो निवृत्ततृष्णः अतएव मघोन इन्द्रस्य सखा मित्रं भावी भविष्यन् । स्वर्गं जिगमिषुरित्यर्थः । ब्रह्मिष्ठो वंशकरणे वंशप्रवर्तकेन तेन पुत्रेण वंशस्थितिं कुलप्रतिष्ठां संभाव्य संपाद्य त्रिषु पुष्करेषु तीर्थविशेषेषु । “दिक्संख्ये संज्ञायाम्” इति समासः । उपस्पृशन्स्नानं कुर्वंस्त्रिदशत्वं देवभूयमाप ।
भाषार्थ - विषय-वासनाओं से दूर रहकर इन्द्र के भाविमित्र ब्रह्मिष्ठ ने अपनी कुल-प्रतिष्ठा अपने पुत्र नामक पुत्र को सौंपी और त्रिपुष्कर क्षेत्र में स्नान करके स्वर्ग चले गये ॥ ३१ ॥
तस्य प्रभा निर्जितपुष्परागं पौष्यां तिथौ पुष्यमसूत पत्नी ।
तस्मिन्नपुष्यन्नुदिते समग्रां पुष्टिं जनाः पुष्य इव द्वितीये ॥ ३२ ॥
अन्वयः—तस्य पत्नी पौष्यां तिथौ प्रभाविनिर्जितपुष्परागं पुष्यं द्वितीये पुष्ये इव तस्मिन् उदिते ( सति ) जनाः समग्रां पुष्टिं अपुष्यन् ।
तस्येति । तस्य पुत्राख्यस्य पत्नी पौष्यां पुष्यनक्षत्रयुक्तायां पौर्णमास्यां तिथौ । ‘पुष्ययुक्ता पौर्णमासी पौषी’ इत्यमरः । “नक्षत्रेण युक्तः कालः” इत्यण्प्रत्ययः । ‘टिड्ढाणञ्” इत्यादिना ङीप् । प्रभया निर्जितः पुष्परागो मणिविशेषो येन तं पुष्यं पुष्याख्यमसूत । द्वितीये पुष्ये पुष्यनक्षत्र इव तस्मिन्नुदिते सति नः समग्रां पुष्टिं वृद्धिमपुष्यन् ।
भाषार्थ—राजा पुत्र की पत्नी से पोषमास की पूर्णिमा के दिन पद्मराग मणि से भी अधिक कान्तिमान् पुष्य नामक पुत्र हुआ, उसके जन्म होने से प्रजा उसी प्रकार धनधान्य से भरपूर हो गई मानो दूसरा पुष्य नक्षत्र ही निकल आया हो ॥ ३२ ॥
महीं महेच्छः परिकीर्य सूनौ मनीषिणे जैमिनयेऽर्पितात्मा ।
तस्मात्सयोगादधिगम्य यागमजन्मनेऽकल्पत जन्मभीरुः ॥ ३३ ॥
अन्वयः—महेच्छः जन्मभीरुः सूनौ महीं परिकीर्य मनीषिणे जैमिनये अर्पितात्मा सयोगात् तस्मात् योगं अधिगम्य अजन्मने अकल्पत ।
महीमिति । महेच्छो महाशयः ‘महेच्छस्तु महाशयः’ इत्यमरः । जन्मभीरुः स पुत्रः सूनौ महीं परिकीर्य विसृज्य मनीषिणे ब्रह्मविद्याविदुषे जैमिनये मुनयेऽर्पितात्मा शिष्यभूतः सन्नित्यर्थः । सयोगद्योगिनस्तस्मान्जैमिनेर्योगं योग-
| ६०८ | रघुवंशमहाकाव्ये |
|---|
विद्यायामधिगम्यार्जन्मने जन्मनिवृत्तये मोक्षायाकल्पत समपद्यत । 'क्लृपेः संपद्य- माने चतुर्थी वक्तव्या' । मुक्त इत्यर्थः ।
भाषार्थ—राजा पुत्र बड़े उदार हृदय वाले थे, वे संसार में फिर जन्म लेना नहीं चाहते थे इसलिए उन्होंने पृथिवी का भार अपने पुत्र पुष्य को सौंप दिया और स्वयं महर्षि जैमिनि के शिष्य होकर उनसे योग सीखकर आवागमन से मुक्त हो गये ॥ ३३ ॥
ततः परं तत्प्रभवः प्रपेदे ध्रुवोपमेयो ध्रुवसंधिरुर्वीम् ।
यस्मिन्नभूज्ज्यायसि सत्यसंधे संधिर्ध्रुवः संनमतामरीणाम् ॥ ३४ ॥
अन्वयः—ततः (सः) तत्प्रभवः ध्रुवोपमेयः ध्रुवसन्धिः उर्वीं प्रपेदे ज्यायसि सत्यसन्धॆ यस्मिन् सन्नमतां अरीणां सन्धिः ध्रुव अभूत् ।
तत इति । ततः परं स पुष्यः प्रभवः कारणं तस्य स तत्प्रभवः । तदात्मज इत्यर्थः । ध्रुवेणौत्तानपादिनोपमेयः । 'ध्रुव औत्तानपादिः स्यात्' इत्यमरः । ध्रुवसंधिरुर्वी प्रपेदे । ज्यायसि श्रेष्ठे सत्यसंधे सत्यप्रतिज्ञे यस्मिन्ध्रुवसंधौ संनम- ताम् अनुद्धतानामित्यर्थः । अरीणां संधिर्ध्रुवः स्थिरोऽभूत् । ततः सार्थकनामेत्यर्थः।
भाषार्थ—पुष्य के बाद उनके ध्रुव के समान निश्चल पुत्र ध्रुवसन्धि राजा हुए, जिनसे डरकर शत्रुओं ने सन्धि कर ली । उनका लिखा हुआ सन्धि पत्र पक्का होता था क्योंकि वे अपनी बात के बड़े धनी थे ॥ ३४ ॥
सुते शिशावेव सुदर्शनाख्ये दर्शात्ययेन्दुप्रियदर्शने सः ।
मृगायताक्षो मृगयाविहारो सिंहादवापद्विपदं नृसिंहः ॥ ३५ ॥
अन्वयः—मृगायताक्षः नृसिंहः सः दर्शात्ययेन्दुप्रियदर्शने सुदर्शनाख्ये सुते शिशौ ( सति ) एव मृगयाविहारी सिंहात् विपदं अवापत् ।
सुत इति । मृगायताक्षो नृसिंह पुरुषश्रेष्ठः ध्रुवसन्धिर्दशात्ययेन्दुप्रियदर्शने प्रतिपच्चन्द्रनिभे सुदर्शनाख्ये सुते शिशौ सत्येव मृगयाविहारी सन् सिंहाद्विपदं मरणमवापत् । व्यसनासक्तिरनर्थावहेति भावः ।
भाषार्थ—ध्रुवसन्धि के नेत्र मृगों के समान बड़े-बड़े थे और वे पुरुषों में सिंह के समान थे, एक दिन वे वन में शिकार करते हुए सिंह से मारे गये, उस समय तक द्वितीया के चन्द्रमा के समान सुन्दर लगने वाला सुदर्शन नामक उनका पुत्र बालक ही था ॥ ३५ ॥
स्वर्गामिनस्तस्य तमेकमात्यादमात्यवर्गः कुलतन्तुमेकम् ।
अनाथदीनाः प्रकृतीरवेक्ष्य साकेतनाथं विधिबच्चकार ॥ ३६ ॥
अष्टादशः सर्गः ६०९
अष्टादशः सर्गः ६०९
अन्वयः—स्वर्गमिनः तस्य अमात्यवर्गः अनाथदीनाः प्रकृतीः अवेक्ष्य कुलतन्तुं एकं तं ऐकमत्यत् विधिवत् साकेतनाथं चकार ।
स्वरिति । स्वर्गमिनः स्वर्गतिस्य ध्रुवसंधेरमात्यवर्गः । अनाथां नाथहीनां अतएव दीनां शोच्याः प्रकृतीः प्रजा अवेक्ष्य कुलतन्तुं कुलावलम्बनमेकमद्वितीयं तं सुदर्शनमैक मत्याद्विधिवत्साकेतनाथमयोध्याधीश्वरं चकार ।
भाषार्थ—उन स्वर्गगामी राजा के मन्त्रियों ने राजा के न होने से प्रजा की दीन दशा देख कर सर्वसम्मति से उसके एकलौते पुत्र सुदर्शन को विधिपूर्वक साकेत का स्वामी बना दिया ॥ ३६ ॥
नवेन्दुना तन्नमसोपमेयं शावकंसिंहेन च काननेन ।
रघोः कुलं कुङ्मलपुष्करेण तोयेन चाप्रौढनरेन्द्रमासीत् ॥ ३७ ॥
अन्वयः--अप्रौढनरेन्द्रं तत् रघोः कुलं नवेन्दुना नभसा शावैकसिंहेन कान-नेन च कुङ्मलपुष्करेण तोयेन च उपमेयं आसीत् ।
नवेति । अप्रौढनरेन्द्रं तद्रघोः कुलं नवेन्दुना बालचन्द्रेण नभसा व्योम्ना शावः शिशुरेकः सिंहो यस्मिन् । 'पृथुकः शावकः शिशुः' इत्यमरः । तेन काननेन च कुड्मलं कुड्मलावस्थं पुष्करं पङ्कजं यस्मिंस्तेन तोयेन चोपमेयमुपमातुमर्हमासीत् । नवेन्द्वाद्युपमानेन तस्य वर्धिष्णुताशौर्य श्रीमत्त्वानि सूचितानि ।
भाषार्थ—इस सुदर्शन से राजा रघु का कुल उसी प्रकार शोभा देने लगा जिस प्रकार द्वितीया के चन्द्रमा से आकाश, सिंह के बच्चे से वन और कमल की ताल की शोभा होती है ॥ ३७ ॥
लोकेन भावी पितुरेव तुल्यः संभावितो मौलिपरिग्रहात्सः ।
दृष्टो हि वृण्वन्कलभप्रमाणोऽप्याशाः पुरोवातमवाप्य मेघः ॥ ३८ ॥
अन्वयः—सः मौलिपरिग्रहात् पितु एव भावी लोकेन प्रभावितः हि कलभ-प्रमाणः अपि मेघः पुरोवातं अवाप्य आशाः वृण्वन् दृष्टः ( अस्ति ) ।
लोकेनेति । स बालो मौलिपरिग्रहात्किरीटस्वीकाराद्धेतोः । पितुस्तुल्यः पितृसरूपे एव भावी भविष्यति लोकेन जनेन संभावितस्तर्कितः । तथाहि कलभ-प्रमाणः कलभमात्रोऽपि मेघः पुरोवातमवाप्याशा दिशो वृण्वन्गच्छन्दृष्टो हि ।
भाषार्थ- उस सुदर्शन ने जब सिर पर मुकुट धारण किया तभी प्रजा ने अनु-मान कर लिया कि यह पिता के समान ही तेजस्वी होगा क्योंकि हाथी के बच्चे के समान छोटा बादल भी पूर्वी पवन का सहारा पाकर चारों ओर फैल जाता है ॥ ३८ ॥
३९ २० सम्पू०
३१० रघुवंशमहाकाव्ये
तं राजवीथ्यामभिहस्ति यान्तमाधोरणालम्बितमग्र्यवेशम् । षड्वर्षदेशीयमपि प्रभुत्वात्प्रैक्षन्त पौराः पितृगौरवेण ॥ ३९ ॥
अन्वयः—राजवीथ्यां अधिहस्ति यान्तं आधोरणालम्बितं अग्र्यवेशं षड्वर्षदेशीयं अपि तं पौराः प्रभुत्वात् पितृगौरवेण प्रेक्षन्त ।
तमिति । राजवीथ्यां राजमार्गेऽधिहस्ति हस्तिनि । विभक्त्यर्थेऽव्ययीभावः । यान्तं गच्छन्तम् । हस्तिनमारुह्य गच्छन्तमित्यर्थः । आधोरणालम्बितं शिशुत्वात्सादिना गृहीतमग्र्यवेशमुदारनेपथ्यं षड्वर्षाणि भूतः षड्वर्षः । "तद्धितार्थ०" इत्यादिना समासः । तमधीष्टो भृतो भूतो भावीत्यधिकारे चित्तवति नित्यमिति तद्धितस्य लुक् । ईषदसमाप्तः षड्वर्षः षड्वर्षदेशीयः '"ईषदसमाप्तौ०" इत्यादिना देशीयरप्रत्ययः । तं षड्वर्षदेशीयमपि बालमपि तं सुदर्शनं पौराः प्रभुत्वात्पितृगौरवेण प्रैक्षन्त । पितरि यादृग्गौरवं ददृशुरित्यर्थः ।
भाषार्थ—जब वे छः वर्ष के छोटे-से राजा हाथी पर चढ़कर राजमार्ग से निकलते थे तब हाथीवान् उनके राजसी वस्त्रों के कोने को पकड़े था कि कहीं वे गिर न पड़ें । उस समय भी उन्हें देखकर जनता उनके पिता के समान ही उनका आदर करती थी ॥ ३९ ॥
कामं न सोऽकल्पत पैतृकस्य सिंहासनस्य प्रतिपूरणाय । तेजोमहिम्ना पुनरावृतात्मा तद्व्याप चामीकरपिञ्जरेण ॥ ४० ॥
अन्वयः—सः पैतृकस्य सिंहासनस्य प्रतिपूरणाय न अकल्पत चामीकरपिञ्जरेण तेजोमहिम्ना आवृतात्मा ( सन् ) तत् व्याप ।
काममिति । स सुदर्शनः पैतृकस्य सिंहासनस्य कामं सम्यक् प्रतिपूरणाय नाकल्पत । बालत्वाद्ध्याप्तुं न पर्याप्त इत्यर्थः । चामीकरपिञ्जरेण कनकगौरेण तेजोमहिम्ना पुनस्तेजःसम्पदा त्वावृतात्मा विस्तारितदेहः संस्तत्सिंहासनं व्याप्तवान् ।
भाषार्थ—वे छोटे थे इसलिए जब वे अपने पिता के सिंहासन पर बैठते थे तो वह पूरा भरता नहीं था पर उनके शरीर से जो सुवर्ण के समान तेज निकलता था उससे वह भरा सा ही जान पड़ता था ॥ ४० ॥
तस्मादधः किंचिदिवावतीर्णावसंसपृशन्तौ तपनीयपीठम् । सालक्तकौ भूपतयः प्रसिद्धैर्ववन्दिरे मौलिभिरस्य पादौ ॥ ४१ ॥
अन्वयः—तस्मात् अधः किञ्चिदिवावतीर्णौ तपनीयपीठं अस्पृशन्तौ सालक्तकौ अस्य पादौ भूपतयः प्रसिद्धैः मौलिभिः ववन्दिरे ।
तस्मादिति । तस्मात्सिंहासनादपानादधोऽधोदेशं प्रति किञ्चिदिवावतीर्णावीषल्लम्बौ
अष्टादशः सर्गः ३११
अष्टादशः सर्गः ३११
तपनीयपीठं काञ्चनपीठमसंस्पृशन्तावल्पकत्वादव्याप्तौ सालक्तकौ लाक्षारसावसि- क्तावस्य सुदर्शनस्य पादौ भूपतयः प्रसिद्धैरुन्नतैर्मौलिभिर्मुङ्कुटैर्ववन्दिरे प्रणेमुः । भाषार्थ— उस सिंहासन से उनके पैर लटकते रहते थे क्योंकि छोटे होने के कारण पाद-पीठ तक नहीं पहुँच पाते थे । राजाओं ने अपने प्रसिद्ध मुकुटों से उन महावर लगे पैरों का वन्दन किया ॥ ४१ ॥
मणौ महानील इति प्रमावादल्पप्रमाणेऽपि यथा न मिथ्या ।
शब्दो महाराज इति प्रतीतस्तथैव तस्मिन्युयुजेऽर्भकेऽपि ॥ ४२ ॥
अन्वयः— अल्पप्रमाणे अपि मणौ प्रभावात् महानील इति शब्दः यथा मिथ्या न, तथा एव अर्भके अपि तस्मिन् प्रतीतः महाराज इतिशब्दः न मिथ्या युयुजे ।
मणाविति । अल्पप्रमाणेऽपि मणाविन्द्रनीले प्रभावात्तेजिष्ठत्वाद्धेतोर्महानील इति शब्दो यथा मिथ्या निरर्थको न, तथैवार्भके शिशावपि तस्मिन्सुदर्शने प्रतीतः प्रसिद्धो महाराज इति शब्दो न मिथ्या युयुजे ।
भाषार्थ— जिस प्रकार छोटे होने पर भी मणि का महानील नाम निरर्थक नहीं होता उसी प्रकार बालक सुदर्शन का महाराज नाम भी उचित ही लगता था ॥ ४२ ॥
पर्यन्तसञ्चारितचामरस्य कपोललोलोभयकाकपक्षात् ।
तस्याननादुच्चरितो विवादश्चस्खाल वेलास्वपि नार्णवानाम् ॥ ४३ ॥
अन्वयः— पर्यन्तसञ्चारितचामरस्य तस्य कपोललोलोभयकाकपक्षात् उच्चरितः विवादः अर्णवानां वेलासु अपि न चस्खाल ।
पर्यन्तेति । पर्यन्तयोः पार्श्वयोः सञ्चारिते चामरे यस्य तस्य बालस्य सम्बन्धिनः कपोलयोर्लोलावभौ काकपक्षौ यस्य तस्मादाननादुच्चरितो विवादो वचनमर्णवानां वेलास्वपि न चस्खाल । शिशोरपि तस्याज्ञाभङ्गो नासीदित्यर्थः । चपलसंसर्गेऽपि महान्तो न चलन्तीति ध्वनिः । उभयकाकपक्षादित्यत्र 'वृत्तिविषये उभयपुत्र इतिवदुभशब्दस्थाने उभयशब्दप्रयोगः' इत्युक्तं प्राक् ।
भाषार्थ— उसके आसपास चँवर डुलाये जाते थे और उनके गालों पर लटें लटकती रहती थीं। इस बाल्यावस्था में भी उन्होंने जो आज्ञायें दीं उन्हें समुद्र के तटवर्ती लोगों ने भी नहीं टाला तो पास रहनेवालों की क्या बात है ॥ ४३ ॥
निवृत्तजाम्बूनदपट्टशोभे न्यस्तं ललाटे तिलक दधानः ।
तेनैव शून्यान्यरिसुन्दरीणां मुखानि स स्मेरमुखश्चकार ॥ ४४ ॥
अन्वयः— निवृत्तजाम्बूनदपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः सः अरिसुन्दरीणां मुखानि तेन एव शून्यानि चकार ।
३१२ रघुवंशमहाकाव्ये
निर्वृत्तेति। निर्वृत्ता जाम्बूनदपट्टशोभा यस्य तस्मिन्कृतकनकपट्टशोभे ललाटे न्यस्तं तिलकं दधानः स्मेरमुखः स्मितमुखः स राजारिसुन्दरीणां मुखानि तेनैव तिलकेनैव शून्यानि चकार। अखिलमपि शत्रुवर्गमवधीदिति भावः।
भाषार्थ— सुवर्ण का पट्टा बँधे हुए अपने ललाट पर वे स्वयं तिलक लगाते थे और सदा हँसमुख रहते थे पर संग्राम में शत्रुओं को नष्ट करके उन्होंने शत्रुओं की स्त्रियों के मुख का तिलक और उनकी मुसकराहट छीन ली ॥ ४४ ॥
शिरीषपुष्पाधिकसौकुमार्यः खेदं स यायादपि भूषणेन।
नितान्तगुर्वीमपि सोऽनुभावाद्धुरं धरित्र्या बिभराम्बभूव ॥ ४५ ॥
अन्वयः— शिरीषपुष्पाधिकसौकुमार्यः ( अतएव ) स भूषणेन अपि खेदं यायात् स नितान्तगुर्वी अपि धरित्र्या धुरं अनुभावात् बिभरांबभूव।
शिरीषेति। शिरीषपुष्पाधिकसौकुमार्यः। कोमलाङ्ग इत्यर्थः, अत एव स राजा भूषणेनापि खेदं श्रमं यायाद् गच्छेत्। एवंभूतः स नितान्तगुर्वीमपि धरित्र्या धुरं भुवो भारमनुभावात्सामर्थ्याद् बिभराम्बभूव बभार। 'भीह्रीभृहुवां श्लुवच्च' इति विकल्पादाम्प्रत्ययः।
भाषार्थ— वे सिरस के फूल से भी अधिक सुकुमार थे इसलिए उन्हें गहने-पहनने में भी कष्ट होता था फिर भी उनमें आत्मशक्ति इतनी थी कि उन्होंने पृथ्वी के अत्यन्त भारी भार को संभाल लिया ॥ ४५ ॥
न्यस्ताक्षरामक्षरभूमिकायां कात्स्न्येन गृह्णाति लिपिं न यावत्।
सर्वाणि तावच्छ्रुतवृद्धयोगात्फलान्युपायुङ्क्त स दण्डनीतेः ॥ ४६ ॥
अन्वयः— अक्षरभूमिकायां न्यस्ताक्षरां लिपिं कात्स्न्येन यावत् न गृह्णाति स तावत् श्रुतवृद्धयोगात् सर्वाणि दण्डनीतेः फलानि उपायुङ्क्त।
न्यस्तेति। अक्षरभूमिकायामक्षरलेखनस्थले न्यस्ताक्षरां रचिताक्षरपंक्तिरेखान्यासां लिपिं पञ्चाशद्वर्णात्मिकां मातृकां कात्स्न्येन यावन्न गृह्णाति स सुदर्शनस्तावच्छ्रुतवृद्धयोगाद्विद्यावृद्धसंसर्गात्सर्वाणि दण्डनीतेर्दण्डशास्त्रस्य फलान्युपायुंक्तान्वभूत्। प्रागेव बद्धफलस्य तस्य पश्चादभ्यस्यमानं शास्त्रं संवादार्थमिवाभवदित्यर्थः।
भाषार्थ— अभी वे पटिया पर अच्छी तरह अक्षर भी लिखना नहीं सीख पाये थे कि विद्वानों के संसर्ग से वे दण्डनीति और राजनीति की सारी बातें जान गये ॥ ४६ ॥
उरस्यपर्याप्तनिवेशभागा प्रौढीमविष्यन्तमुदीक्षमाणा।
सञ्जातलज्जेव तमातपत्रच्छायाछलेनोपजुगूह लक्ष्मीः ॥ ४७ ॥
अष्टादशः सर्गः ११३
अष्टादशः सर्गः ११३
अन्वयः—उरसि अपर्याप्तनिवेशभागा ( अतएव ) प्रौढीभवन्तं उदीक्षमाणा लक्ष्मी संजातसज्जया इव त आतपत्रच्छायाच्छलेन उपजुगूह ।
उरसीति । उरस्यपर्याप्तो निवेशभागो निवासावकाशो यस्याः सा अतएव प्रौढीभविष्यन्तं वर्धिष्यमाणमुदीक्षमाणा प्रौढवपुष्मान्भविष्यतीति प्रतीक्षमाणा लक्ष्मीः संजातसज्जेव साक्षादालिङ्गितुं लज्जितेव तं सुदर्शनमातपत्रच्छाया-च्छलेनोपजुगूहालिलिङ्ग । छत्रच्छाया लक्ष्मीरूपेति प्रसिद्धिः । प्रौढाङ्गनायाः प्रौढपुरुषालाभे लज्जा भवतीति ध्वनिः ।
भाषार्थ—बालक राजा के हृदय को अभी छोटा समझकर राजलक्ष्मी उनके युवा होने की आशा लगाये बैठी थी । पर बीच-बीच में छत्र की छाया बनकर उनका आलिंगन कर लेती थी मानो छोटा पति होने के कारण उनसे खुलकर गले लगने में लजा रही ही ॥ ४७ ॥
अनश्नुवानेन युगोपमानमबद्धमौर्वीकिणलाञ्छनेन । अस्पृष्टखड्गत्सरुणापि चासीद्रक्षावती तस्य भुजेन भूमिः ॥ ४८ ॥
अन्वयः—युगोपमानं अनश्नुवानेन अबद्धं मौर्वीकिणलाञ्छनेन अस्पृष्टखड्ग-त्सरुणा अपि तस्य भुजेन भूमिः रक्षावती आसीत् ।
अनश्नुवानेनेति । युगोपमानं युगसादृश्यमनश्नुवानेनाप्राप्नुवता अबद्धं मौर्वी-किणं ज्याघातग्रन्थिरेव लाञ्छनं यस्य तेन अस्पृष्टः खड्गत्सरुः खड्गमुष्टिर्येन तेन । 'त्सरुः खड्गादिमुष्टौ स्यात्' इत्यमरः । एवंविधेनापि च तस्य सुदर्शनस्य भुजेन भूमी रक्षावत्यासीत् । शिशोरपि तस्य तेजस्तादृगित्यर्थः ।
भाषार्थ—यद्यपि उसकी भुजायें जुए के समान मोटी और लम्बी नहीं हुई थीं, धनुष की डोरी खींचने से भी कड़ी नहीं हो पायी थीं और तलवार की मूठ भी नहीं छू सकी थी फिर भी उसने पृथ्वी की रक्षा भलीभांति कर ली ॥ ४८॥
न केवलं गच्छति तस्य काले ययुः शरीरावयवा विवृद्धिम् । वंश्या गुणाः खल्वपि लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानमापुः ॥ ४९ ॥
अन्वयः—काले गच्छति तस्य केवलं शरीरावयवा एव विवृद्धिं न ययुः, (किन्तु) वंश्या लोककान्ताः प्रारम्भसूक्ष्माः प्रथिमानं आपुः खलु ।
नेति । काले गच्छति सति तस्य केवलं शरीरावयवा एव विवृद्धिं प्रसारं न ययुः । किन्तु वंशे भवा वंश्या कोककान्ता जनप्रियाः प्रारम्भे आदौ सूक्ष्मास्तस्य गुणाः शौर्यादार्यादयोऽपि प्रथिमानं पृथुत्वमापुः खलु ।
भाषार्थ—कुछ ही दिनों में केवल उनके शरीर के अङ्ग ही नहीं बढ़े किन्तु
६१४ रघुवंशमहाकाव्ये
उनके वे वंशपरम्परावाले गुण भी बढ़े जो पहले छोटे ही थे और जो प्रजा को बहुत प्यारे लगते थे ॥ ४९ ॥
स पूर्वजन्मान्तरदृष्टपाराः स्मरन्निवाक्लेशकरो गुरूणाम्।
तिस्रस्त्रिवर्गाधिगमस्य मूलं जग्राह विद्याः प्रकृतीश्च पित्र्याः ॥ ५० ॥
अन्वयः— स पूर्वजन्मान्तरदृष्टपाराः स्मरन् इव गुरूणामक्लेशकरः ( सन् ) त्रिवर्गाधिगमस्य मूलं तिस्रः विद्याः पित्र्याः प्रकृतीः च जग्राह ।
स इति । स सुदर्शनः पूर्वस्मिञ्जन्मान्तरे जन्मविशेषे दृष्टपाराः स्मरन्निव गुरूणामक्लेशकरः सन् त्रयाणां धर्मार्थकामानां वर्गस्त्रिवर्गः तस्याधिगमस्य प्राप्तेर्मूलं तिस्रो विद्यास्त्रयीवार्तादण्डनीतीः पित्र्याः पितृसम्बन्धिनीः प्रकृतीः प्रजाश्च जग्राह स्वायत्तीचकार । अत्र कौटिल्यः—‘धर्माधर्मौ त्रय्यामर्थानर्थौ वार्त्तायां नयानयौ दण्डनीत्यान्’ इति । अत्र दण्डनीतिर्नयद्वारा काममूलमिति द्रष्टव्यम् । आन्वीक्षिक्या अनुपादानं त्रय्यन्तर्भावपक्षमाश्रित्य । यथाह कामन्दकः—‘त्रयीवार्तादण्डनीतिस्तिस्रो विद्या मनोर्मताः । त्रय्या एव विभागोऽयं येन साऽन्वीक्षिकी मता’ ॥ इति ॥
भाषार्थ— उन्होंने धर्म, अर्थ और काम देने वाली त्रयी वार्ता और दण्डनीति तीन विद्याओं को इतनी शीघ्रता से सीख लिया मानो पूर्व जन्म में ही वे उन्हें पढ़ चुके हों, साथ ही अपने पिता की प्रजा को भी उन्होंने अपने वश में कर लिया ॥ ५० ॥
व्यूह्य स्थितः किञ्चिदिवोत्तरार्धमुन्नद्धचूडोऽञ्चितसव्यजानुः ।
आकर्णमाकृष्टसबाणधन्वा व्यरोचतास्त्रेषु विनीयमानः ॥ ५१ ॥
अन्वयः— अस्त्रेषु विनीयमानः ( अतएव ) उत्तरार्द्धं किञ्चिदिव व्यूह्य स्थितः उन्नद्धचूडः अञ्चितसव्यजानुः आकर्णं आकृष्टसबाणधन्वा व्यरोचत ।
व्यूह्येति । अस्त्रेषु धनुर्विद्यायां विनीयमानः शिक्ष्यमाणोऽतएवोत्तरार्धं पूर्वकायं किञ्चिदिव व्यूह्य विस्तीर्य स्थितिः । उन्नद्धचूडमूर्ध्वमुत्कृष्य बद्धकेशः अञ्चितं आकुञ्चितं सव्यं जानु यस्य स आकर्णमाकृष्टं सबाणं धनुर्धन्व वा येन स तथोक्तः, सन्व्यरोचताशोभत ।
भाषार्थ— जब वे धनुर्विद्या सीखते समय अपने शरीर का ऊपरी भाग कुछ आगे बढ़ा देते थे, बाल ऊपर बांध लेते थे, बाईं जांघ कुछ झुका लेते थे और बाण चढ़ा कर धनुष की डोरी कान तक खींचते थे, उस समय वे बड़े सुन्दर लगते थे ॥ ५१ ॥
अष्टादशः सर्गः
अष्टादशः सर्गः ६१५
अथ मधु वनितानां नेत्रनिर्वेशनीय- मनसिजतरुपुष्पं रागबन्धप्रवालम्। अकृतकविधि सर्वाङ्गीणमाकल्पजातं विलसितपदमाद्यं यौवनं स प्रपेदे ॥ ५२ ॥
अन्वयः—अथ स वनितानां नेत्रनिर्वेशनीयं मधु रागबन्धप्रवालं मनसिजतरुपुष्पं सर्वाङ्गीणम् आकल्पजातं आद्यं विलसितपदं यौवनं प्रपेदे ।
अथेति । अथ स सुदर्शनो वनितानां नेत्रैर्वेशनीयं भोग्यम् । नेत्रपेयमित्यर्थः । ‘निर्वेशो भृतिभोगयोः’ इत्यमरः । मधु क्षौद्रम् । रागबन्धोऽनुरागसन्तान एव प्रबालः पल्लवो यस्य तत् । मनसिज एव तरुस्तस्य पुष्पं पुष्पभूतम् अकृतकविध्यकृत्रिमसंपादनम् सर्वाङ्गं व्याप्नोतीति सर्वाङ्गीणम् । “तत्स्र्वादेः पथ्यङ्गकर्मपात्रं व्याप्नोति” इत्यनेन खप्रत्ययः । आकल्पजातमाभरणसमूहभूतम् आद्यं विलसितपदं विलासस्थानं यौवनं प्रपेदे । विशिष्टमधुपुष्पाकल्पजातविलासपदत्वेन यौवनस्य चतुर्धाकरणात्सविशेषणमालारूपकमेतत् ।
भावार्थ—इसके बाद राजा सुदर्शन के शरीर में वह जवानी आ गई जो स्त्रियों की आंखों में मदिरा के समान होती है । काम वृक्ष के पुष्प एवं अनुराग समूह के नवपल्लव के समान समस्त शरीर की स्वाभाविक शोभा होती है और विलास का पहला अड्डा है ॥ ५२ ॥
प्रतिकृतिरचनाभ्यो दूतिसंदर्शिताभ्यः समधिकतररूपाः शुद्धसन्तानकामैः । अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः ॥ ५३ ॥
अन्वयः—दूतिसंदर्शिताभ्यः प्रतिकृतिरचनाभ्यः समधिकतररूपाः शुद्धसन्तानकामैः अमात्यैः आहृता राजकन्याः यूनः तस्य प्रथमपरिगृहीते श्रीभुवौ अधिविविदुः ।
प्रतिकृतीति । दूतीभिः कन्यापरीक्षणार्थं प्रेषिताभिः सन्दर्शिताभ्यो दूतिसन्दर्शिताभ्यो दूतिसन्दर्शिताभ्यः प्रतिकृतीनां तूलिकादिलिखितकन्याप्रतिमानां रचनाभ्यः विन्यासेभ्यः । “पञ्चमी विभक्तेः” इति पञ्चमी । समधिकतररूपा चित्रनिर्माणादपि रमणीयनिर्माणा इत्यर्थः । शुद्धसंतानकामैरमात्यैराहृता आनीता राजकन्या यूनस्तस्य सुदर्शनस्य सम्बन्धिन्यो प्रथमपरिगृहीते श्रीभुवौ श्रीश्च भूश्च
३१६ रघुवंशमहाकाव्ये
ते अधिविविदुरधिविन्ने चक्रुः । आत्मना सपत्नीभावं चक्रुरित्यर्थः । 'कृत- सापत्निकाढ्यूढाधिविन्ना' इत्यमरः ।
इति महामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितया संजीवनीसमाख्यया व्याख्यया समेतो महाकविश्रीकालिदासकृतौ रघुवंशे महाकाव्ये वंशानुक्रमो नामाष्टादशः सर्गः ॥ १८ ॥
भाषार्थ—दूतियाँ भिन्न-भिन्न राजधानियों में जाकर सुन्दर-सुन्दर राज- कुमारियों का चित्र ले आईं और राजा को शुद्ध सन्तान होने की इच्छा से मन्त्रियों ने चित्र से भी बढ़कर सुन्दरी उन राजकुमारियों का राजा सुदर्शन से विवाह कर दिया । विवाह हो जाने पर वे सब राजकुमारियाँ राजा की पहली रानियों की पृथ्वी और राजलक्ष्मी की सौत के समान हो गईं ॥ ५३ ॥
एकोनविंशः सर्गः
मनसो मम संसारबन्धनमुच्छेत्तुमिच्छतः ।
रामचन्द्रपदाम्भोजयुगल निविडायताम् ॥
अग्निवर्णमभिषिच्य राघवः स्वे पदे तनयमग्नितेजसम् ।
शिश्रिये श्रुतवतामपश्चिमः पश्चिमे वयसि नैमिषं वशी ॥ १ ॥
अन्वयः—श्रुतवतां अपश्चिमः वशी राघवः पश्चिमे वयसि स्वे पदे अग्नितेजसं तनयं अभिषिच्य नैमिषं शिश्रिये ।
अग्निवर्णमिति । श्रुतवतां श्रुतसम्पन्नानामपश्चिमः प्रथमो वशी जितेन्द्रियो राघवः सुदर्शनः पश्चिमे वयसि वार्द्धके स्वे पदे स्थानेऽग्नितेजसं तनयमग्निवर्णमभिषिच्य नैमिषं नैमिषारण्यं शिश्रिये श्रितवान् ।
भाषार्थ—विद्वानों में प्रधान रघुकुलोत्पन्न एवं जितेन्द्रिय राजा सुदर्शन वृद्धावस्था में अग्नि के समान तेजस्वी अपने पुत्र अग्निवर्ण को अपने स्थान पर राजा बनाकर स्वयं नैमिषारण्य में चले गये ॥ १ ॥
तत्र तीर्थसलिलैन दीर्घिकास्तल्पमन्तरितभूमिभिः कुशैः ।
सौधवासमुटजेन विस्मृतः संचिकाय फलनिःस्पृहस्तपः ॥ २॥
एकोनविंशः सर्गः ६१७
एकोनविंशः सर्गः ६१७
अन्वयः—तत्र तीर्थसलिलेन दीर्घिका अन्तरितभूमिभिः कुशं तल्पं उटजेन सौधवासं विस्मृतः फलनिस्पृहः तपः सञ्चिकाय ।
अत्रेति । तत्र नैमिषे तीर्थसलिलेन दीर्घिका विहारवापीरन्तरितभूमिभिः कुशैस्तल्पं शय्यामुटजेन पर्णशालया सौधवासं जलमन्दिरं विस्मृतो विस्मृतवान्सः । कर्तरि क्तः । फले स्वर्गादिफले निःस्पृहस्तपः संचितवान् ।
भाषार्थ—वहाँ वे तीर्थ जल के आगे घर में विहार की वावलियों की भूमि पर बिछाये गये कुश के आगे राजसी पलंगों के और पर्णशाला के आगे बड़े-बड़े राजमहलों को भूल गये और फल प्राप्ति की इच्छा छोड़कर तप करने लगे ॥२॥
लब्धपालनविधौ न तत्सुतः खेदमाप गुरुणा हि मेदनी ।
भोक्तुमेव भुजनिर्जितद्विषा न प्रसाधयितुमस्य कल्पिता ॥ ३ ॥
अन्वयः—तत्सुतः लब्धपालनविधौ खेदं न आप हि भुजनिर्जितद्विषां गुरुणां मेदिनी अस्य भोक्तुमेवं कल्पिता प्रसाधयितुं न ।
लब्धेति । तत्सुतः सुदर्शनपुत्रोऽग्निवर्णो लब्धस्य राज्यस्य पालनकर्मणि खेदं नाप । अक्लेशेनापालयदित्यर्थः । कुतः ? हि यस्माद्भुजनिर्जितद्विषा गुरुणा पित्रा मेदिन्यस्याग्निवर्णस्य भोक्तुमेव कल्पिता प्रसाधयितुं न । प्रसाधनं कण्टकशोधनम् । अलंकृतिर्ध्वन्यते तथा च यथालंकृता युवतिः केवलमुपभुज्यते तद्वदिति भावः ।
भाषार्थ—पिता से पाई हुई पृथिवी का पालन करने में अग्निवर्ण को कोई कठिनाई नहीं हुई क्योंकि उनके राजा सुदर्शन ने पहले ही सब शत्रुओं को बाहुबल से जीतकर पृथिवी को निष्कण्टक बनाकर अग्निवर्ण को राजा बनाया था । इसलिए उन्हें तो केवल भोग करने के लिए ही राज्य मिला था, राज्य शत्रुओं को मिटाने के लिए नहीं ॥ ३ ॥
सोऽधिकारमभिकः कुलोचितं काश्चन स्वयमवर्तयत्समाः ।
संनिवेश्य सचिवेष्वतः परं स्त्रीविधेयनवयौवनोऽभवत् ॥ ४ ॥
अन्वयः—अभिकः सः “कुलोचितं अधिकारं काश्चन समाः स्वयं अवर्तयत् अतः परं सचिवेषु सन्निवेश्य स्त्रीविधेय नवयौवनः अभवत् ।
स इति । अभिकः कामुकः । अनुकाभिकाभीकः कमिता” इति निपातः । कम्रः कामयिताभीकः कामनः कामनोऽभिकः’ इत्यमरः । सोऽग्निवर्णः कुलोचितमधिकारं प्रजापालनं काश्चन समाः कतिचिद्वत्सरान्स्वयमवर्तयदकरोत् । अतः परं सचिवेषु संनिवेश्य निजाय स्त्रीविधेयं स्त्र्यधीनं नवं योवनं यस्य सोऽभवत् । स्त्र्यासक्तोऽभूदित्यर्थः।
भाषार्थ—इसका परिणाम यह हुआ कि अग्निवर्ण कामुक हो गये । कुछ
६१८ रघुवंशमहाकाव्ये
वर्षों तक तो उन्होंने स्वयं कुलोचित अधिकार ( प्रजा पालन कर्म ) को किया फिर मन्त्रियों पर राज्य का भार डालकर स्त्रियों में आसक्त होकर जवानी का रस लेने लगे ॥ ४ ॥
कामिनीसहचरस्य कामिनस्तस्य वेश्मसु मृदङ्गनादिषु ।
ऋद्धिमन्तमधिकर्द्धिरुत्तरः पूर्वमुत्सवमपोहदुत्सवः ॥ ५ ॥
अन्वयः—कामिनीहचरस्य कामिनः तस्य मृदङ्गनादिषु वेश्मसु अधिकर्द्धिः उत्तरः उत्सवः ऋद्धिमन्तं पूर्वं उत्सवं अपोहत् ।
कामिनीति । कामिनीसहचरस्य कामिनस्तस्य मृदङ्गनादिषु मृदङ्गनादवत्सु वेश्मस्वधिकर्द्धिः पूर्वस्मादधिकसम्भार उत्तर उत्सवः ऋद्धिमन्तं साधनसम्पन्नं पूर्वमुत्सवमपोहदपानुदत् । उत्तरमुत्तरमधिका तस्योत्सवपरम्परा वृत्तेत्यर्थः ।
भाषार्थ—वह कामी राजा अग्निवर्ण कामिनियों के साथ उन भवनों में दिनरात पड़ा रहने लगा जिनमें बराबर मृदङ्ग बजते रहते थे, प्रतिदिन एक से एक बढ़कर ऐसे उत्सव होते रहते थे कि अगले दिन के धूम-धड़ाके के आगे पहले दिन का उत्सव फीका पड़ जाता था ॥ ५ ॥
इन्द्रियार्थपरिशून्यमक्षमः सोढुमेकमपि स क्षणान्तरम् ।
अन्तरेव विहरन्दिवानिशं न व्यपैक्षत समुत्सुकाः प्रजाः ॥ ६ ॥
अन्वयः—इन्द्रियार्थपरिशून्यं एकं अपि क्षणान्तरं सोढुमक्षमः स दिवानिशं अन्तः एव विहरन् समुत्सुकाः प्रजाः न व्यपैक्षत ।
इन्द्रियेति । इन्द्रियार्थपरिशून्यं शब्दादिविषयरहितमेकमपि क्षणान्तरं क्षणदं सोढुमक्षमोऽशक्तः सोऽग्निवर्णो दिवा च दिशा च दिवानिशमन्तरेव विहरन्समुत्सुका दर्शनाकांक्षिणीः प्रजा न व्यनैक्षत नापेक्षितवान् ।
भाषार्थ—अग्निवर्ण को ऐसा चसका लग गया कि वह एक क्षण भी भोग-विलास के बिना नहीं रह सकते थे । इसलिए वे रात-दिन रनिवास में ही रह कर विहार करने लगे । उनके दर्शन के लिए जनता अधीर रहती थी । किन्तु वे कभी उनकी सुधि नहीं लेते थे, सदा प्रजाओं की उपेक्षा रखते थे ॥ ६ ॥
गौरवाद्यदपि जातु मन्त्रिणां दर्शनं प्रकृतिकाङ्क्षितं ददौ ।
तद्गवाक्षविवरावलम्बिना केवलेन चरणेन कल्पितम् ॥ ७ ॥
अन्वयः—जातु मन्त्रिणां गौरवात् प्रकृतिकांक्षितं यद्यपि दर्शनं ददौ तद् गवाक्षविवरावलम्बनं केवलेन चरणेन कल्पितम् ।
एकोनविंशः सर्गः ६१९
गौरवादिति । जातु कदाचिन्मन्त्रिणां गौरवाद् गुरुत्वाद्धेतोः मन्त्रिवचनानुरोधादित्यर्थः । प्रकृतिभिः प्रजाभिः कांक्षितं यदपि दर्शनं ददौ तदपि गवाक्षविवरावलम्बिना केवलेन कोमलेन मृदुलेनात्मनखानां रागेणारुण्येन रूषितं छुरितम् अत एव नवदिवाचरणेन चरणमात्रेण कल्पितं संपादितम् । न तु मुखविलोकनप्रदानेनेत्यर्थः ।
**भाषार्थ—**वे यदि कभी मन्त्रियों के कहने-सुनने से उनके गौरववश प्रजाओं को अभिलषित दर्शन देते थे तो केवल झरोखे से एक पैर बाहर लटका देते थे, उनके मुख का दर्शन तो प्रजाओं को कभी नहीं मिलता था ॥ ७ ॥
तं कृतप्रणतयोऽनुजीविनः कोमलात्मनखरागरूषितम् ।
भेजिरे नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् ॥ ८ ॥
**अन्वयः—**कोमलात्मनखरागरूषितम् नवदिवाकरातपस्पृष्टपङ्कजतुलाधिरोहणम् तं अनुजीविनः कृतप्रणतयः ( सन्तः ) भेजिरे ।
तमिति । कोमलेन मृदुलेनात्मनखानां रागेणारुणेन रुषितं छुरितम् अत एव नवदिवाकरातपेन स्पृष्टं व्याप्तं यत्पङ्कजं तस्य तुलां साम्यतामधिरोहति प्राप्नोतीति तुलाधिरोहणम् । तं चरणमनुजीविनः कृतप्रणतयाः कृतनमस्काराः सन्तो भेजिरे निषेविरे ।
**भाषार्थ—**राजकर्मचारी उनके नखों की कान्ति वाले उस चरण का नमस्कार करके आराधना करते थे । जो सुबह के नवोदित सूर्य के प्रकाशमय लाल किरणों से भरे कमल के समान था ॥ ८ ॥
यौवनोन्नतविलासिनीस्तनक्षोभलोलकमलाश्र दीर्घिकाः ।
गूढमोहनगृहास्तदम्बुभिः स व्यगाहत विगाढमन्मथः ॥ ९ ॥
**अन्वयः—**विगाढमन्मथः सः यौवनोन्नतविलासिनी स्तनक्षोभलोलकमलाः तदम्बुभिः गूढमोहनगृहाः दीर्घिका व्यगाहत ।
यौवनेति । विगाढमन्मथः प्रोढमदनः सोऽग्निवर्णो यौवनेन हेतुनोन्नतानां विलासिनीस्तनानां क्षोभेणाघातेन लोलानि चञ्चलानि कमलानि यासां ताः तदम्बुभिस्तासां दीर्घिकाणामम्बुभिर्गूढान्यन्तर्हितानि मोहनगृणानि सुरतभवनानि यासु ताश्च दीर्घिका व्यगाहत व्यलोडयत् । स्त्रीभिः सह दीर्घिकासु विजहारेत्यर्थः ।
**भाषार्थ—**अत्यन्त कामासक्त वह राजा उन बावलियों में सुन्दर स्त्रियों के साथ विहार करता था जिनमें विलास गृह भी बने हुए थे । युवती विलासिनी स्त्रियों से ऊँचे-ऊँचे स्तन जब बावली के कमलों से टकराते थे तब वे कमल हिलने लगते थे ॥ ९ ॥
६२० रघुवंशमहाकाव्ये
तत्र सेकहृतलोचनाञ्जनैर्धौतरागपरिपाटलाधरैः ।
अङ्गनास्तमधिकं व्यलोभयन्नर्पितप्रकृतकान्तिभिर्मुखैः ॥ १० ॥
अन्वयः—तत्र अंगनाः सेकहृतलोचनाञ्जनैः धौतरागपरिपाटलाधरैः । अर्पितप्रकृतिकान्तिभिः मुखैः तं अधिकं व्यलोभयन् ।
तत्रेति । तत्र दीर्घिकास्वङ्गनाः सेकेन हृतं लोचनाञ्जनं नेत्रकज्जलं येषां तैः । रज्यतेऽनेनेति रागो रागद्रव्यं लाक्षादिरागस्य परिपाटलोऽङ्गगुणः । 'गुणे शुक्लादयः पुंसि' इत्यमरः । धौतो रागपरिपाटलो अधरो येषां तं तथोक्ता अधरा येषां तैः । निवृत्तसांक्रमिकरागैरित्यर्थः । अत एवापितप्रकृतिकान्तिभिः अभिव्यञ्जितस्वाभाविकरागैरित्यर्थः । एवंभूतैर्मुखैस्तमग्निवर्णमधिकं व्यलोभयन् प्रलोभितवत्यः ।
भाषार्थ—जल में स्नान करने से जब उन स्त्रियों की आँखों का अञ्जन छूट जाता था और ओठों पर लगी हुई लाली धुल जाती थी तब उसकी स्वाभाविक सुन्दरतापर वह और भी मोहित हो जाता था ॥ १० ॥
घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः प्रियसखः ।
अभ्यपद्यत स वासितासखः पुष्पिताः कमलिनीरिव द्विपः ॥ ११ ॥
अन्वयः—प्रियासखः सः घ्राणकान्तमधुगन्धकर्षिणीः पानभूमिरचनाः वासिता द्विपः पुष्पिताः कमलिनीः इव अभ्यपद्यत ।
घ्राणेति । प्रियासखः सोऽग्निवर्णो घ्राणकान्तेन घ्राणतर्पणेन मधुगन्धेन कर्षिणीर्मनोहारिणीः रच्यन्त इति रचनाः पानभूमय एव रचनाः । रचिताः पानभूमय इत्यर्थः । वासितासखः करिणीसहचरः । 'वासिता स्त्रीकरिण्योश्च' इत्यमरः । द्विपः पुष्पिताः कमलिनीरिव अभ्यपद्यताभिगतः ।
भाषार्थ—जिस प्रकार हाथी खिली हुई कमलिनियों की गन्ध से परिपूर्ण तालाबों में हथिनियों के साथ प्रवेश कराता है, उसी प्रकार अग्निवर्ण भी सुन्दरी स्त्रियों के साथ मद्य के गन्ध से बसी हुई मद्यपानशाला में प्रवेश करते ॥ ११ ॥
सातिरेकमदकारणं रहस्तेन दत्तमभि लेषुरङ्गनाः ।
ताभिरप्युपहृतं मुखासवं सोऽपिबद्बकुलतुल्यदोहदः ॥ १२ ॥
अन्वयः—अंगनाः रहः सातिरेकस्य मदकारणं तेन दत्तं मुखासवं अभिलेषुः बकुलतुल्यदोहदः सः अपि ताभिः उपहृतं ( मुखासवं ) अपिबत् ।
सातिरेकेति । अङ्गना रहो रहसि सातिरेकस्य सातिशयस्य मदस्य कारणं तेनाग्निवर्णेन दत्तं मुखासवं मद्यमभिलेषुः । बकुले तुल्यदोहदस्तुल्याभिलाषः 'अथ दोह-
एकोनविंशः सर्गः ६२१
एकोनविंशः सर्गः ६२१
दम् । ‘इच्छा कांक्षा स्पृहेहा तृट्’ इत्यमरः । बकुलद्रुमस्याङ्गनामद्यायित्वात्तुल्या- भिलाषत्वम् । सोऽपि ताभिरङ्गनाभिरुपहृतं दत्तं मुखासवमपिबत् ।
भाषार्थ—उस एकान्त स्थान में वे स्त्रियाँ अग्निवर्ण का जूठा मदकारी आसव बड़े प्रेम से पीती थीं, जिस प्रकार मौलसिरी का वृक्ष स्त्रियों के मुख को पाने को तरसता है उसी प्रकार उन स्त्रियों के मुख से आसव पीने की इच्छा करनेवाला अग्निवर्ण भो उनके मुख का आसव पिया करता था ॥ १२ ॥
अङ्कमङ्कपरिवर्तनोचिते तस्य निन्यतुरशून्यतामुभे ।
वल्लकी च हृदयङ्गमस्वना वल्गुवागपि च वामलोचना ॥ १३ ॥
अन्वयः—अङ्कपरिवर्तनोचिते उभे तस्य अङ्कं अशून्यतां निन्यतुः हृदयङ्गमस्वना च वल्लकी वल्गुवाग् अपि वामलोचना च ।
अङ्कमिति । अङ्कपरिवर्तनोचिते तत्सङ्गविहारार्हे उभे तस्याग्निवर्णस्याङ्कमपूर्णतां निन्यतुः । के उभे ? हृदयङ्गमस्वना मनोहरध्वनिर्वल्लकी वीणा च वल्गुवाङ्मधुरभाषिणी वामलोचना कामिन्यपि च हृदयं गच्छतीति हृदयङ्गमः । खच्प्रकरणे गमेः सुप्युपसंख्यानात्खच्प्रत्ययः । अङ्काधिरोपितयोर्वीणावामाक्ष्योर्वाद्यगीताभ्यामरंस्तेत्यर्थः ।
भाषार्थ—गोद में बैठाने योग्य दो ही वस्तुयें हैं—एक तो हृदयङ्गम मधुरध्वनि वाली वीणा दूसरी मधुर भाषिणी सुलोचना स्त्री, इन दोनों ने अग्निवर्ण के गोद को सदा भरपूर रखा । अर्थात् उनके दोनों बगल में कामिनी स्त्री और वीणा रहती थी ॥ १३ ॥
स स्वयं प्रहतपुष्करः कृती लोलमाल्यवलयो हरन्मनः ।
नर्तकीरभिनयातिलङ्घिनीः पार्श्ववर्तिषु गुरुष्वलज्जयत् ॥ १४ ॥
अन्वयः—कृती स्वयं प्रहृतपुष्करः लोलमाल्यवलयः मनः हरन् सः अभिनयातिलङ्घिनीः नर्तकीः गुरुषु पार्श्ववर्तिषु अलज्जयत् ।
स इति । कृती कुशलः स्वयं प्रहृतपुष्करो वादितवाद्यमुखो लोलानि माल्यानि वलयानि अभिनयेषु स्खलन्तीत्यर्थः । नर्तकीर्विलासिनीः । “शिल्पिनि ष्वुन्” इति ष्वुन्प्रत्ययः । “षिद्गौरादिभ्यश्च” इति ङीप् । ‘नर्तकीलासिके समे’ इत्यमरः । गुरुषु नाट्याचार्येषु समीपस्थेषु सत्स्वेवालज्जयल्लज्जामगमयत् ।
भाषार्थ—जब नर्तकियों के नाचते समय वह अग्निवर्ण स्वयं मृदंग, तबला को बजाने लगता था तब उसके गले की माला हिल उठती थी । उस समय ऐसा सुन्दर लगता था कि नर्तकियाँ सुध-बुध खोकर नाचना भी भूल जाती थीं ।
६२२ रघुवंशमहाकाव्ये
इसका फल यह होता था कि उन्हें नाचना सिखाने वाले उनके जो गुरु वहाँ बैठे रहते थे उनके आगे वे अपनी इस बात पर लजा जाती थीं ॥ १४ ॥
चारु नृत्यविगमे च तन्मुखं स्वेदभिन्नतिलकं परिश्रमात् । प्रेमदत्तवदनानिलः पिबन्नत्यजीवदमरालकेश्वरौ ॥ १५ ॥
अन्वयः—च चारुनृत्यविगमे परिश्रमात् स्वेदभिन्नतिलकं तन्मुखं प्रेमदत्त- वदनानिलः पिबन् अमरालकेश्वरौ अत्यजीवयत् ।
'चार्विति । किच चारु सुन्दरं नृत्यविगमे लास्यावसाने परिश्रमान्नर्तनप्रयासात् स्वेदेन भिन्नतिलकं विशीर्णतिलकं तन्मुखं नर्तकीमुखं प्रेम्णा दत्तवदनानिलः प्रव- र्तितमुखमारुतः पिबन् अमराणामलकायाश्चेश्वराविन्द्रकुबेरावत्यजीवदतिक्रम्या- जीवत् । ततोऽप्युत्कृष्टजीवित आसीदित्यर्थः । इन्द्रादेरपि दुर्लभमीदृशं सौभाग्यमिति भावः ।
भाषार्थ—जब नृत्य समाप्त हो जाता था और नाचने के परिश्रम से नर्तकियों के मुख पर पसीने की बूंदे छा जाती थीं तब राजा अग्निवर्ण प्रेमपूर्वक मुख से फूंक लगाकर उनके मुख को चूमने लगता था, उस समय वह अपने को इन्द्र एवं कुबेर से भी बढ़कर सुखी तथा भाग्यवान् समझता था ॥ १५ ॥
तस्य सावरणदृष्टसन्धयः काम्यवस्तुषु नवेषु सङ्गिनः । वल्लभाभिरुपसृत्य चक्रिरे सामिभुक्तविषयाः समागमाः ॥ १६ ॥
अन्वयः—उपसृत्य नवेषु सङ्गिनः तस्य सावरणदृष्टसन्धयः संगमाः बल्ल- भाभिसामिभुक्तविषयाः चक्रिरे ।
तस्येति । उपसृत्यान्यत्र गत्वा नवेषु नूतनेषु काम्यवस्तुषु शब्दादिष्विन्द्रिया- र्थेषु संगिनः आसक्तिमतः सतस्तस्य सावरणाः प्रच्छन्ना दृष्टाः प्रकाशाश्च संधयः साधनानि येषु ते समागमाः संगमा वल्लभाभिः प्रेयसीभिः सामिभुक्तविषया अर्धोपभुक्तेन्द्रियार्थाश्चक्रिरे । यथेष्टं भुक्तश्चेत्तह्यंयं निष्पृहः सन्नस्मत्समीपं नाया- स्यतीति भावः । अत्र गोनर्दीयः—'सन्धिद्विविधः सावरणः प्रकाशश्च । सावरणो भिक्षुक्यादिना प्रकाशः स्वयमुपेत्य केनापि इति' । 'इतः स्वयमुपसृत्य विशेषार्थं तत्र स्थितोऽनुपजापं स्वयं सन्धेयः' इति वात्स्यायनः । अन्यत्र गतं कथंचित्सन्धाय पुनरुपगामायार्धोपभोगेननिवृत्ततृष्णं चक्रुरित्यर्थः ।
भाषार्थ—वह सदा नई-नई भोग की सामग्रियां चाहता था जिसके विषय से उसका मन भर जाता था, उसे वह छोड़ देता था । इसलिए स्त्रियां सम्भोग के समय राजा से आधी ही रति करके उठ जाती थीं क्योंकि उन्हें डर था कि यदि राजा पूर्णरूप से तृप्त हो जायेगा तो हमें छोड़ देगा ॥ १६ ॥
एकोनविंशः सर्गः
एकोनविंशः सर्गः ६२३
अङ्गुलीकिसलयाग्रतर्जनं भ्रूविभङ्गकुटिलं च वीक्षितम् ।
मेखलाभिरसकृच्च बन्धनं वञ्चयन्प्रणयिनीरवाप सः ॥ १७ ॥
अन्वयः—सः प्रणयिनीः वञ्चयन् अंगुलीकिसलयाग्रतर्जनं भ्रूविभंगकुटिलं वीक्षितं च असकृत् मेखलाबन्धनं च अवाप ।
अङ्गुलीति । सोऽग्निवर्णः प्रणयिनीः प्रेयसीर्वञ्चयन्नन्यत्र गच्छन्नङ्गुल्यः किसलयानि तेषामग्राणि तैस्तर्जनं भर्त्सनं भ्रूविभङ्गेन भ्रूभेदेन कुटिलं वक्रं वीक्षणं चासकृन्मेखलाभिर्बन्धनं चावाप । अपराधिनो दण्ड्या इति भावः ।
भाषार्थ—कभी-कभी जब वह राजा अग्निवर्ण इन प्रियाओं को चकमा दे जाता तब वे बिगड़ कर अपनी लाल अंगुलियों को चमका कर उसे धमकाकर भौंहें तरेरती थीं और अपनी करधनी से उसे अनेक बार बाँध देती थीं ॥ १७ ॥
तेन दूतिविदितं निषेदुषा पृष्ठतः सुरतवाररात्रिषु ।
शुश्रुवे प्रियजनस्य कातरं विप्रलम्भपरिशङ्किनो वचः ॥ १८ ॥
अन्वयः—सुरतवाररात्रिषु दूतिविदितं प्रियजनस्य पृष्ठतः तेन विप्रलम्भ-शङ्किनः प्रियजनस्य कातरं वचः शुश्रुवे ।
तेनेति । सुरतस्य वारो वासरः तस्य रात्रिषु दूतीनां विदितं तथा पृष्ठतः प्रियजनस्य पश्चाद्भागे निषेदुषा तेनाग्निवर्णेन विप्रलम्भपरिशङ्किनी विरहशङ्किनः प्रियश्चासौ जनश्च प्रियजनः तस्य कातरं वचः प्रियाजनेन मां पाहीत्येवमादि दीनवचनं शुश्रुवे ।
भाषार्थ—जिस रात को उसे किसी स्त्री से संभोग करने जाना होता था तो दूती से सब बातें बता कर वह पास ही छिप कर बैठ जाता था । वह स्त्री जब आती थी और विप्रलब्धा नायिका के समान दूती से सब बातें करने लगती थी तब वह उन बातों को छिपे-छिपे बड़े प्रेम से सुनता था ॥ १८ ॥
कौल्यमेत्य गृहिणीपरिग्रहात्नर्तकीष्वसुलभासु तद्वपुः ।
वर्तते स्म स कथंचिदालिखन्नङ्गुलाक्षरणसन्नवर्तिकः ॥ १९ ॥
अन्वयः—गृहिणीपरिग्रहात् नर्तकीषु असुलभासु लौल्यं एत्य अङ्गुलिक्षरण-सन्नवर्तिकः सः तद्वपुः अलिखन् कथंचित् वर्तते स्म ।
कौल्यमिति । गृहिणोपरिग्रहाद्राज्ञीभिः समागमाद्धेतोर्नर्तकीषु वेश्यास्वसुलभासु दुर्लभाषु सतीषु लौल्योत्सुक्यमेत्य प्राप्य अङ्गुल्याः क्षरणेन स्वेदनेन सन्नवर्तिको विग-लितशलाकः सोऽग्निवर्णस्तासां नर्तकीनां वपुस्तद्वपुरालिखन्कथंचिद्वर्तते स्मावर्तत ।
भाषार्थ—जब कभी रानियां उसे रोक लेती थीं तब नर्तकियों के न मिलने
६२४ रघुवंशमहाकाव्ये
से विरह कातर हो जाता था और हाथ में तूलिका लेकर किसी नर्तकी का चित्र बनाने लगता था, उस समय वह नर्तकी स्मरण हो जाती थी और सात्त्विक भाव के कारण उसकी अँगुलियो में पसीना आ जाता था और कूँची फिसल पड़ती थी इस प्रकार वह बड़ी कठिनाई से चित्र वना पाता था ॥ १९ ॥
प्रेमगर्वितविपक्षमत्सरादायताच्च मदनान्महीक्षितम् ।
निन्युरुत्सवविधिच्छलेन तं देव्य उज्झितरुषः कृतार्थताम् ॥ २० ॥
अन्वयः—प्रेमगर्वितविपक्षमत्सरात् आयतात् मदनात् देव्यः उज्झितरूपाः तं उत्सवविधिच्छलेन कृतार्थतां निन्युः ।
प्रेमेति । प्रेम्णा स्वविषयेण प्रियस्याुरागेण हेतुना गर्विते विपक्षे सपत्नजने मत्सराद्द्वैरादायतात्प्रवृद्धान्मदनाच्च हेतोर्देव्यो राज्ञ्य उज्झितरुषस्त्यक्तरुषाः सत्यस्तं महीक्षितमुत्सवविधिच्छलेन महोत्सवकर्मव्याजेन कृतोऽर्थः प्रयोजनं येन स कृतार्थः । तस्य भावस्तत्तां निन्युः । मदनमहोत्सवव्याजाच्च तेन स्वमनोरथं कारयामासुरित्यर्थः ।
भाषार्थ—यदि राजा किसी रानी से प्रेम करता तो वह गर्व से फूली नहीं समाती थी, यह देखकर उसकी सौतें जल उठती थीं और कामातुर हो जाती थीं । किसी उत्सव का बहाना करके राजा को अपने यहाँ बुलाकर उसके साथ अपनी कामना बुझाती थीं ॥ २० ॥
प्रातरेत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः ।
प्राञ्जलिः प्रणयिनीः प्रसादयन्सोऽदुनोत्प्रणयमन्थरः पुनः ॥ २१ ॥
अन्वयः—सः प्रातः एत्य परिभोगशोभिना दर्शनेन कृतखण्डनव्यथाः प्रणयिनीः कृताञ्जलिः प्रसादयन् (तथापि) प्रणयमन्थरः पुनः अदुनोत् ।
प्रातरिति । सोऽग्निवर्णः प्रातरेत्यागत्य परिभोगशोभिना दर्शनेन हेतुना । “दृशेर्ण्यन्ताल्ल्युट्” कृता खण्डनव्यथा यासां तास्तथोक्ताः खण्डिता इत्यर्थः । तदुक्तम्—‘ज्ञातेऽन्यासाङ्गविकृते खण्डितेर्ष्याकषायिता’ इति । प्रणयिनीः प्राञ्जलिः प्रसादयंस्तथापि प्रणयमन्थरः प्रणयेन नर्तकीगतेन मन्थरोऽलसः, अत्र शिथिलप्रयत्नः सन्नित्यर्थः । पुनरदुनोत्पर्यतापयत् ।
भाषार्थ — रात में बाहर किसी स्त्री से संभोग करके जब राजा सुबह अपने घर लौटता था तब रात के संभोग वाले सुंदर वेश में उसे देखकर उसकी प्रेमिकायें खण्डिता नायिका के समान आंसू बहाने लगती थीं, तब वह हाथ जोड़कर