रसार्णव (शैव रस-तन्त्र - प्राचीन भारतीय खनिज रसायन, धातुवाद एवं रस-चिकित्सा सटीक)
Rasarnava: Tantric Chemistry and Alchemy with Commentary
शिव-पार्वती संवाद (सम्पादक: प्रफुल्लचन्द्र राय एवं हरीशचन्द्र कविराज) द्वारा
१५२ रसार्णवे पारदं देवदेवेशि स्वेदयेद्दिवसत्रयम् ॥ ३८ ॥ ॥ इत्योषधस्वेदनम् ॥¹ गिरिकर्णी च मोनाक्षी सहदेवो पुनर्णवा । उरगा त्रिफला कान्ता² लवुपर्णी³ शतावरौ ॥ ३९ ॥ तुषवर्जे तु धान्याम्ले⁴ सर्व्वं संक्षुभ्य⁵ निक्षिपेत् । एकादशगुणे⁶ऽम्लेऽस्मिन् षोड़शांशैर्विमर्द्दितम् ॥ ४० ॥ आसुरोलवणव्योष चित्रकार्द्रकमूलकैः⁷ । दोलायां⁸ स्वेदयेद्देवि त्रिदिनं मृदुनाग्निना ॥ ४१ ॥ ॥ इति सन्धानाम्लस्वेदनम् ॥ अङ्कोलस्तु⁹ विषं हन्ति वङ्घ्रि¹⁰मारग्वधः प्रिये । (1) K has इत्योषधिखेदन तु कथितं तव सुव्रते । After this we find in K the following verses, which we have rejected, as these seemed to us incongruous, incorrect and
दशमः पटलः । १५३ चित्रकस्तु^1 मलं हन्यात् कुमारी सप्तकञ्चुकम् ॥ ४२ ॥^2 लक्षादेभिः समोपेतै^3र्मर्दयेत् पातयेद्बुधः^4 ॥ ४३ ॥ विद्याधरेण यन्त्रेण भावयेद्दोषवर्जितम्^5 । ततस्त्रिगुणवस्त्रस्थं^6 तं रसं देवि गालितम्^7 ॥ ४४ ॥ त्रिफलांबङ्घ्रिमूलत्वात्^8 गृहकन्या^9रसान्वितम् । निबद्वारे^10 तु पाषाणे मर्दयेत् पातयेत् पुनः ॥ ४५ ॥ धूमसारगुड़^11व्योष-रजनोसित^12सर्षपैः । इष्टिकाकाक्षिकोर्णाभिः^13 त्रिदिनं मर्दयेत्ततः^14 ॥ ४६ ॥ निर्मलो जायते सूतः^15 सप्तभावं प्रकाशयेत्^16 ॥ ४७ ॥ बासकेन^17 विभौतेन मर्दयेत् पातयेत् पुनः । नागवङ्गादिका दोषा यान्ति नाशमुपाधिजाः^18 ॥ ४८ ॥ (1) M reads चित्रकश्च. (2) But compare रसै.स. Chap. XI. v. 28, which differs from the above in certain points. (3) K reads समोत्पेतै, which is incorrect. M reads तक्षादितत्. (4) K reads पुनः. After this śloka we find नागशुद्धिः in the MS. M. (5) K has वर्जितः, which is gram. erroneous. (6) K has ततस्त्रीगुणचेतस्त्रं, which is partly inc. [शैव=वस्त्र.] (7) M reads भावितम्. (8) त्रि- फलामूषवङ्घ्रिक्लात्, a variant in K. (9) K reads erroneously गृहकन्या. (10) K reads निद्वारे, which has no clear sense. (11) K has गुड़ा. M has गुड़. (12) K reads श्वेत. (13) K reads इष्टका. M reads काक्षिकोषीभिः. (14) K has मर्दितं ततः. (15) K and M read सृतं. (16) M reads चात्मभामात् प्रकारयेत्. (17) M reads वासकेन. (18) K reads नाम्नमुपाधिजा. M reads नाम्नगुपाधिकाः. 20
१५४ रसार्णवे सप्तवारं काकमाच्या गतदोषं¹ विमर्दयेत् । पातयेत्² सप्तवारं च गिरिदोषं त्यजेद्रसः³ ॥ ४९ ॥ क्षेत्रदोषं त्यजेद्देवि गोकर्णरसमूर्च्छितः ॥ ५० ॥ कार्पास⁴पत्रनिर्यासे खिन्नस्त्रिकटुकान्विते⁵ । सप्तकञ्चुक⁶निर्मुक्तः सप्ताहाज्जायते रसः ॥ ५१ ॥ काकमाची⁷ जया ब्राह्मी⁸ गाङ्गेरो⁹ रक्तचित्रकः¹⁰ । मण्डूकी¹¹ मुद्गपर्णी च शृङ्गवेरं रसाङ्कुशः¹² ॥ ५२ ॥ देवदाली¹³ शङ्खपुष्पी काकजङ्घा शतावरी । कुमारो भृङ्गराजश्च निर्गुण्डी ग्रीष्मसुन्दरः¹⁴ ॥ ५३ ॥ शूलिनो शूर्पपर्णी च¹⁵ गोजिह्वा चोर¹⁶कञ्चुकः । तद्रसैर्मर्दितः¹⁷ पात्यः¹⁸ सप्तधा निर्मलो भवेत् ॥ ५४ ॥ ताम्रेण¹⁹ पिष्टिकां कृत्वा पातयेदूर्ध्वपातने²⁰ ।
(1) K has गप्तदोषं, which has no clear sense. (2) M reads पाचयेत्. (3) M reads व्यजेद्रसः. (4) K reads कर्पास. (5) K reads चिकटुकान्वितः. खिन्नं खिकरकान्विते, a variant in M. (6) M reads काञ्चुकि. (7) K reads काकमाचि. (8) M reads ब्रह्मी. (9) K reads मार्जारी. (10) M reads रक्तचित्रकम्. (11) K reads मण्डुका. M reads मण्डाको. (12) K has ससांकुशः. M has शृङ्गि वेर. (13) देवताली is the reading in M. (14) ग्रीष्मसुन्दरम् is the variant in M. (15) च is wanting in K. M reads शूर्पपाली च. (16) K reads चिर, which is inc. (17) K reads सर्वतः. M reads मर्दितं, which is gram. inc. (18) K reads पाल्यं. M reads पात्य. Both are gram. inc. (19) K reads रामेण. रस.स. reads शुल्वेन. (20) K reads उर्द्धपातने, which is an error of the scribe. But रस.स. reads ऊर्ध्वभाजने.
दशमः पटलः । १५५ वङ्गनागौ परित्यज्य शुद्धो भवति सूतकः ॥ ५५ ॥¹ मर्दितस्त्रिफलाशिग्रुराजिका³पटुचित्रकैः । ऊर्द्धभाण्डगतः पाच्यः प्रदीप्तैरुपलैरधः⁴ ॥ ५६ ॥ सृष्ट्याम्बुजनिरोधिन लब्धापायो भवेद्रसः । कर्कोटो⁵कञ्चुकाबिम्बो सर्पाख्यम्बुजसंयुतम् ॥ ५७ ॥ रसं नियामके दद्यात् तेजस्वी निर्मलो भवेत् । एवं विशोधितः सूतो भद्राष्टांशविशोषितः ॥ ५८ ॥⁶ क्षुद्राम्ललवणक्षार⁷-भूखगोषणशिग्रुभिः⁸ । राजिकाटङ्कणयुतैरारनाले⁹ दिनत्रयम् । स्वेदनाद्दीपतो देवि ग्रासार्थी¹⁰ जायते रसः ॥ ५९ ॥¹¹ व्योमसत्त्वादिवोजानि रसजारणशोधने¹² । तन्ममाचक्ष्व देवेशि¹³ किमन्यच्छ्रोतुमिच्छसि ॥ ६० ॥ (1) This hemistich closely agrees with रस.स. (vide Chap. XI. v. 31.) (2) M reads मर्दित, which is gram. inc. (3) M reads रासका. (4) प्रदीप्तवरुपलैरध, a variant in M, which appears to be inc. (5) M reads कर्कटो. [Vide रस.स. Chap. XI. vs. 41 and 42.] (6) The ślokas 57 and 58 are not found in K. (7) चौद्र- स्रलेवणक्षारः, a variant in M. (8) यूषगोषणशिग्रुभिः, a variant in K. (9) K reads भारनालैः. (10) K reads ग्रासार्थि, which is gram. inc. M reads ग्रासार्थी. (11) The 43rd śloka in रस.स. Chap. XI. mostly agrees with the 59th śloka of this text. (12) रसे जारण- शोधने, a variant in K. रसो जारय शोधिते, a variant in M. Both of these readings do not convey a clear sense. (13) This charana is not found in M.
१५६ रसार्णवे इति श्रीपार्वतीपरमेश्वरसंवादे¹ रसार्णवे रससंहिताया रसशोधनो नाम² दशमः पटलः ॥१०॥ — एकादशः पटलः ॥ ❖ श्रीदेव्युवाच¹ । लक्षणं शोधनं चैव पारदस्य श्रुतं मया । चारणं जारणं चैव श्रोतुमिच्छामि भैरव ॥ १ ॥ श्रीभैरव उवाच² । सर्व्वपापक्षये जाते³ प्राप्यते रसजारणा⁴ । तत्प्राप्तौ प्राप्तमेव स्याद्विज्ञानं⁵ मुक्तिकारकम् ॥ २ ॥ मोक्षाभिव्यञ्जकं⁶ देवि जारणं साधकस्य तु । यावन्न जार्य्यते⁷ सूतः तावत्तु न च निर्वृतिः⁸ ॥ ३ ॥ (1) This is wanting in M. (2) K and M read रसशोधनं नाम. — (1) M has only देवी. (2) M has only भैरवः. (3) K reads सर्व्वपापक्षयं तस्य. (4) K reads रसजारणात्. (5) M has. विज्ञानां. (6) M reads मोक्षाभिव्यञ्जनं. (7) यावत् सुजीर्य्यते, a variant in K. यावन्न जायते, a variant in M. (8) K has an in- complete charana—तावन्न च तिष्ठति,.
एकादशः पटलः । १५७ खल्लस्तु पीठिका देवी रसेन्द्रो लिङ्गमुच्यते । मर्दनं वन्दनं² तस्य ग्रासः पूजा विधीयते ॥ ४ ॥ यावद्दिनानि वह्निस्यो जाय्यते धार्यते रसः । तावद्युगसहस्राणि शिवलोके महीयते ॥ ५ ॥ दिनमेकं रसेन्द्रस्य यो ददाति हुताशनम् । द्रवान्ति तस्य पापानि कुर्व्वन्नपि न लिप्यते ॥ ६ ॥ जारणा द्विविधा बाल-जारणा बज्रजारणा' । तत्रादौ परमेशानि वक्ष्यते बालजारणा ॥ ७ ॥ गगनं जारयेदादौ सर्व्वसत्त्वमतः परम् । ततो माक्षिकशुद्धं च सुवर्णं तदनन्तरम् ॥ ८ ॥ गर्भस्थं द्रावयित्वा तु १० ततो वाह्यद्रुतिं द्रवेत् । (1) K reads खल्लं तु पिंठिका. M reads खल्लन्तु. (2) M has चन्दनं, which is incorrect. (3) K reads पूजी, which is incorrect. (4) M reads जारणा, which seems to be gram, inc. (5) M has सिताशनम्, which has no clear sense. (6) Kreads बाला, M reads विविधा बाल. (7) K reads जारणादभ्रगुपासना, which is unintelligible. बज्रजारणा will be explained in the 13th Patala. (8) This hemistich is not found in M. [Vide रस. स. Chap. VIII. vs. 65 and 66, which state जारणा first as विरुपा, and next as विविधा.] (9) K has माक्षिकाशुद्धे च. We do not find this charana and the next in M. (10) गर्भं संद्रावयित्वा तु, a variant in K, which is gram. inc. (11) M reads क्षययुतिं, which seems to be inc. [Vide रस.स. Chap. VIII. v. 72, wherein वाह्यद्रुति is explained.]
१५८ रसार्णवे सितं सितेन द्रव्येण रक्तं रक्तेन रञ्जयेत् ॥ ९ ॥ सारणं क्रामणं ज्ञात्वा ततो वेधं प्रयोजयेत् ॥ १० ॥¹ ॥ चारणाजारणामन्त्रः ॥ ॐ नमोऽमृतलोहाय परामृततसोद्भवाय हुं स्वाहा ॥ ११ ॥ सर्व्वसत्त्वोपकाराय भगवन् त्वदनुज्ञया । जारणं कर्तुमिच्छामि ग्रासं गृह्ण² मम प्रभो ॥ १२ ॥ कुरुष्वेति शिवेनोक्तं ग्राह्यमेव³ सुबुद्धिना ॥ १३ ॥ शृणु देवि प्रवक्ष्यामि व्योमजारणमुत्तमम् । पत्राभ्र⁴जारणं सत्त्वजारणञ्चेति तद्विधा⁵ ॥ १४ ॥ निर्मुखं समुखं⁶ चैव बासनामुखमेव च । एकैकं त्रिविधं तच्च तद्वक्ष्याम्यानुपूर्व्वशः⁷ ॥ १५ ॥ वैक्रान्त⁸वज्रसंस्पर्शात्⁹ दिव्यौषधिबलेन वा । निर्मुखो भक्षयेद्देवि¹⁰ क्षणेन गगनं रसः¹¹ ॥ १६ ॥
(1) This hemistich is wanting in M. (2) K reads ग्राह्य. M reads गृह्णां. Both the readings are gram. inc. [गृह्ण is generally used by Rishis, though the correct form is गृहाण.] (3) भावमेव सुबुद्धिमान्, a variant in K. वाह्यमेव, a variant in M. (4) M reads पत्राभ्रू, which appears to be incorrect. (5) K reads erroneously तद्दिधा. (6) K has निमुख. M has सम्मुखं. रस. स. reads—"समुखा निर्मुखा चेति जारणा द्विविधा पुनः ॥" "इयं हि सम्मुखा प्रोक्ता जारणा मृगचारिणा ॥" (Chap. VIII, vs. 66 and 69.) (7) K and M read तद्वक्ष्याम्यनुपूर्व्वशः. (8) M reads बैक्रान्तं, which is inc. (9) K and M read संस्पर्श (without any suffix), which seems to be inc. (10) लघयेद्देवि, a reading in K. (11) M reads रसम्, which is gram. erroneous.
एकादशः पटलः । १५६ हेमकर्मणि हेमैव तारे तारो मुखं¹ भवेत् ॥ १७ ॥ तप्तखल्लकृता पिष्टिः² सूक्ष्म³मल्पल्पमभ्रकम् । अम्लवेतस⁴जम्बीरवोजपूराम्लभूखगैः⁵ । मर्दितं⁶ चरते देवि सेयं संमुखजारणा⁷ ॥ १८ ॥ क्षारत्रयं⁸ पञ्चपटु⁹ काचो¹⁰-कासीसगन्धकम् । माक्षिकं चाम्लसंयुक्तं ताम्रपात्रे तु जारयेत्¹¹ ॥ १९ ॥ एतन्नाभिषवाद्¹²दिव्यं कारयित्वा विचक्षणः । जारणार्थञ्च बीजानां¹³ वज्राणाञ्च विशेषतः ॥ २० ॥ तन्मिश्रावर्त्तितं नागं वङ्गं¹⁴ वा सुरवन्दिते । निषेचयेच्छतं वारं न रसायनकर्मणि ॥ २१ ॥ अनेन सकलं देवि¹⁵ चारणावस्तु भावयेत्¹⁶ । क्षाराम्ले¹⁷ भावितं व्योम रजसा प्रथमेन च ॥ २२ ॥
(1) रस.स. defines मुख thus :—“मुखं स्वर्णं च रूप्यं च बीजमित्यभिधीयते ॥ ६० ॥ चतुःषष्टांशतो बीजप्रक्षेपो मुखमुच्यते । ५८ ।” (Chap. VIII.) (2) तत्र खल्ले कृतापिष्ट, a variant in K. M reads कृताविष्टि. (3) K reads सूक्ष्म. (4) M reads चाम्लवेतस. (5) K has बीजपूजास्मभूषगै, which is gram. inc. (6) M reads मृदित. (7) K has जारणात्. M has सम्मुखजारणा. (8) K reads क्षारद्वयं. (9) K reads पञ्चलवण. M reads पञ्चवटुः, which seems to be incorrect. (10) K has कांजि. M has काचि. (11) K reads सारयेत्. (12) एतन्नामिषय, a variant in K. (13) जारणार्थे तु बीजानि, a variant in K. (14) M reads वङ्गं. (15) अनेन स चारणां यस्तु, a variant in K. (16) भावये शङ्खिचूर्णतः, a variant in K. (17) K reads क्षाराम्ब.
१६० रसार्णवे सृष्टिमयोदककणा¹ तुम्बुरुद्रवमर्दितम्² । खरेज्जरेद्वा पुटितं³ यवचिञ्चारसेन च ॥ २३ ॥ शतावरी गदा रम्भा मेघनादा पुनर्नवा । शिग्रुको यवचिञ्चा च भावितं तद्रसैः क्रमात् ॥ २४ ॥ मूलं हिलमुचायास्तु⁴ कौवेरीमूलमेव च । कदलीमुसलीशिग्रु-ताम्बूलीबाणपोलुकम्⁵ ॥ २५ ॥ अलम्बुषा बला कोल मास्फोटः खरमञ्जरी ।⁶ तुम्बुरुस्तिलवाकं वाप्येषामेकरसेन तु । राजिकाव्योषयुक्तेन त्रिदिनं स्विन्नमभ्रकम् ॥ २६ ॥ काणौसतुवरौसिन्धु⁷-टङ्कणक्षारसंयुतः⁸ । पूर्वाभिषव⁹योगेन सूतकञ्चरति क्षणात् ॥ २७ ॥ मोलको¹⁰ भवति क्षिप्रं सर्व्वसिद्धिप्रदायकः¹¹ ॥ २८ ॥ गृहीत्वा देवि धान्याम्ल-मम्लवर्गेण¹² संयुक्तम् ।
(1) K reads सृष्टो. M reads सष्ट. Both the readings are incorrect. (2) M reads तुम्बुरुद्रसमर्दितम्. (3) याजयेद्दी पटौ चैक, a variant in K, which seems to be unconnected with the text. (4) K reads erroneously हितमुचायासु. (5) K has बाणपौलुका. (6) This hemistich and the next two are not found in K. (7) K reads कौम्रोसतुवरौसौंधू, which is inc. (8) K has संयुतं, which is gram. inc. M has टङ्कणं क्षारसंयुतः, which is partly inc. (9) K reads पूर्वाभिषया, which is inc. (10) K has गोलकं. (11) सर्व्वसिद्धिप्रदायकं, a variant in K. M reads प्रदायकम्, which is gram. inc. (12) अम्म्रवर्गेण is the reading in K, which is not correct.
ऐकादशः पटलः । १६१ क्वाथयित्वाभ्रकं तन्तु¹ स्नुहीक्षीरेण² मर्दयेत् ॥ २९ ॥ आरख्य³गोमयेनैव कपोताख्यं पुटं⁴ ततः ॥ ३० ॥ कदलीकन्दनिर्यासै⁵र्मूलकन्दरसेन च। काकमाची च मोनाक्षी अपामार्गो मुनिस्तथा⁶ ॥ ३१ ॥ एरण्डमार्द्रकञ्चैव⁷ मेघनादा⁸ पुनर्नवा । एकैकस्य द्रवैरेव⁹ पुटकैकं प्रदापयेत्¹⁰ ॥ ३२ ॥ वज्रीक्षीरेण संयुक्तं दोलायन्त्रेण¹¹ पाचयेत् । छायाशुष्कं ततः कृत्वा चणकाम्लेन संयुतम्¹² ॥ ३३ ॥ नवसारं च काशोसं वचा¹³ निम्बं तथैव च । अभ्रस्य¹⁴ षोडशांशेन एकैकं तत्र¹⁵ निक्षिपेत् ॥ ३४ ॥ निधाय¹⁶ ताम्रपात्रे तु घर्षयेत्तच्च¹⁷ सुव्रते । नववारं¹८ ततो देवि लोहपात्रे तु जारयेत् ॥ ३५ ॥ रसेन सह देवेशि चणकाम्लेन काञ्जिकम् । (1) K reads काययित्वा भृशं तं तु. (2) M reads सुहिछीरेण. (3) M reads अरण्य. (4) M reads कपोताखापुट. (5) M has निर्यास. (6) K reads अपामार्गमुनौ तथा. (7) K reads मार्दकथैव. (8) M reads मेघनाद. (9) एकैकरमद्रवेकेण, a variant in K (10) K has पुटकैक. M has सुदापयेत्. (11) M reads डीलायन्त्रेण. (12) K reads भैरवि (13) M reads वशा. (14) K reads अभ्रकात्. (15) M reads तत्तु. (16) M reads विडारो, which is unintelligible. (17) प्रर्षतं य च, a variant in K, which has no sense. M reads घर्षयतश्च. (18) K has निव्वारी, which is absurd. 21
१६२ रसार्णवे मृदग्निना तु निःक्वाथ्यं प्रहरार्द्धेन जायते ॥ ३६ ॥ सोमवल्लोरसेः पिष्ट्वा व्योम सौवर्चलान्वितम् । शनैः शनैर्हंसपाद्या$^1$ दापयेच्च पुटत्रयम् ॥ ३७ ॥ सोमवल्लोरसेनेव सप्तवारञ्च दापयेत्$^2$ । पातयेन्मृन्मये भाण्डे$^3$ रसेन सह संयुक्तम् ॥ ३८ ॥ मूलं वल्लोपुपुङ्खाया$^4$ गव्यक्षीरेण घर्षयेत्$^5$ । कल्केन लेपयेत् सूतं गगनञ्च तदूर्द्धगम्$^6$ ॥ ३६ ॥ तापयेद्द्वितापेन निर्मुखं ग्रसते क्षणात् । जायते पिष्टिका शीघ्रं नात्र कार्या विचारणा ॥ ४० ॥ तिलपर्णीरसेनेव गगनं भावयेत् प्रिये$^7$ । मर्दनाज्जायते पिष्टी$^8$ नात्र कार्या विचारणा ॥ ४१ ॥ मुण्डीनिर्यांसके नागं$^9$ बहुशस्तु निषेचयेत् ।$^{10}$ तेनाभ्रकं तु संप्लाव्य$^{11}$ भूयोभूयः पुटे दहेत् ॥ ४२ ॥
(1) The portion commencing from रसेन सह and ending in हंस पाद्या is not found in M. (2) K reads तापयेत्. (3) दापये- न्मृन्मये पात्रे, a variant in K. (4) K has शितेषुपुंखाया. (5) गो- क्षीरे सह पेषयेत्, a variant in K, which is gram. inc. (6) K reads गगनं तदधोर्द्धग. (7) गगनं तेन भावयेत्, a reading in K. (8) M reads पिष्टिः. (9) K reads नापि. (10) After this charana we find in K the following hemistich :—कल्केन लेपयेत् सूतं गगनं तदधोर्ध्वंगं which we have not adopted, seeing it to be the repetition of the latter half of the 39th śloka. (11) K reads संभाव्य.
एकादशः पटलः । १६३ चित्रकार्द्रकमूलाना¹मेकैकेन तु सप्तधा । प्लावितव्यं² प्रयत्नेन गन्धकाभ्रकचूर्णकम् ॥ ४३ ॥ मागमुण्डीरसस्तन्य³रजो⁴लुङ्गाम्लभावितम् । षोडशांशेन तद्दत्तं दोलायां⁵ तु चरेद्रसः ॥ ४४ ॥ चतुःषष्टि⁶गुणं देवि द्वात्रिंशद्गुणमेव वा⁷ । अथवा षोडशगुणं तथाष्टगुणमेव वा⁸ । चतुर्गुणं वा⁹ द्विगुणं समं वा चारयेत्¹⁰ प्रिये ॥ ४५ ॥ परमभ्रकसत्त्वस्य¹¹ जारणं शृणु पार्वति ॥ ४६ ॥ व्योमसत्त्वं समांशेन ताप्यसत्त्वेन संयुतम्¹² । स खल्वेवं¹³ चरेद्देवि गर्भद्रावो¹⁴ भवेद्रसः ॥ ४७ ॥ नागाभ्रं देवि वङ्गाभ्रं¹⁵ तीक्ष्णाभ्रं¹⁶ करकाभ्रकम्¹⁷ । ताराभ्रं देवि¹⁸ हेमाभ्रं¹⁹ रसगर्भेण²⁰ जारयेत् ॥ ४८ ॥
(1) K reads मूलानि. (2) All the texts have this reading, which is gram. erroneous, the correct form being प्लावयितव्यं. (3) K reads नागं मुण्डीरसस्तन्य. (4) K reads रसं लुङ्गाम्लभावितम्. (5) M reads डोलायां. (6) K reads चतुषष्टि, which is inc. (7) K reads च. (8) K and M read च, which is not accurate. (9) M reads च. (10) K has सम मारयते. (11) K reads पत्रस्य. (12) K reads erroneously पुंसक्तं. (13) K has संकल्वेन. (14) K reads गर्भद्रावि. M reads गर्भद्रावं. Both the readings are gram. incorrect. (15) M reads वङ्गाभं. (16) K reads तिक्ताभ्रं. (17) K reads भास्कराभ्रकम्. (18) K reads तु, which mars the metre. (19) M reads शुल्बाभ्रं. (20) K reads रसगर्भे, thus wanting one letter.
१६४ रसार्णवे
पूर्व्वाभिषेक¹योगेन गर्भे द्रवति मर्दनात् ॥ ४९ ॥ चतुःषष्ट्यंशकः पूर्व्वः² द्वात्रिंशांशो द्वितीयकः³ । तृतीयः षोड़शांशस्तु⁴ चतुर्थोऽष्टांश एव च⁵ ॥ ५० ॥ पञ्चमस्तु चतुर्थांशः⁶ षष्ठो ह्यंशः प्रकीर्त्तितः⁷ । ग्रासो रसस्य दातव्यः⁸ ससत्त्वस्याभ्रकस्य च⁹ ॥ ५१ ॥ चतुःषष्ट्यंशके¹⁰ ग्रासे दण्डधारी भवेद्रसः । जलौकावद्वितीये च¹¹ ग्रासयोगे सुरेश्वरि ॥ ५२ ॥ ग्रासेन तु तृतीयेन¹² काकविष्ठासमो भवेत्¹³ । ग्रासेन तु चतुर्थेन दधिमण्डसमो भवेत् ॥ ५३ ॥ पञ्चमे चारिते ग्रासे नवनीतसमो¹⁴ भवेत् । षष्ठे तु गोलकाकारः¹⁵ क्रमाज्जीर्णस्य लक्षणम् ॥ ५४ ॥ काञ्जिकेन निषिक्तेन रक्तव्योम शतप्लुतम्¹⁶ ।
(1) K reads पूर्व्वाभिर्शक, which is incorrect. (2) चतुषष्टांशक पूर्व्वा, an incorrect variant in K. (3) द्वात्रिंशांश द्वितीयक, a variant in K. (4) तृतीय षोडशांशेन, a variant in K. (5) चतुर्थाष्टांशमेव च, a variant in K, which is inc. (6) पञ्चमोपि चतुर्थांशो, a variant in K. (7) षष्ठो डिग्भागप्रकीर्त्तितः, a variant in M. (8) K reads ग्रासा रसस्य दातव्याः. M reads ग्रासो रसस्य दातव्य, wherein the last term is inc. (9) K has सत्वस्याभ्रकजस्य वा. (10) K reads चतुषष्टाशतो. M reads चतुष्षष्टाशता. Both are inc. (11) जलूकवद्वितीये तु, a variant in M. (12) M reads तृतीयस्य. (13) येन काकविष्ठा. भवेत्, a variant in M. (14) K reads नवनीतः समो, which is not correct. (15) K reads गोलकाकारं. (16) K reads रत्ने व्योमम, which is inc. तेन व्योम is the reading in M.
एकादशः पटलः। १५५ खल्लात्सञ्चारयेत्तञ्च^१ शुल्बवासनया^२ सह ॥ ५५ ॥ हेम तारञ्च संधृष्य^३ खल्ले तत्र रसं न्यसेत्^४ । काक्षोसहितकाग्रोस्रं^५ सिन्धुना चरते रसः ॥ ५६ ॥ हेम सोस्रन्तु संधृष्य^६ रसं तत्र प्रदापयेत् । बागहेमयुतं व्योम समजौर्णं द्रुतं^७ भवेत् । अभ्रकोपरसान्^८ क्षिप्रं सुखेनैव चरत्ययम् ॥ ५७ ॥ तारं वङ्गं च संधृष्य^९ रसं तत्र प्रदापयेत् । नागहेमयुतं व्योम समजीर्णं द्रुतं भवेत् ।^१० मुखेन चरते व्योम तारकञ्चापि शस्यते^११ ॥ ५८ ॥ समुखं निर्मुखं^१२ वापि यत्नत्स्रारयेन्नभः^१३ ॥ ५६ ॥ चारणां त्रिविधामेवं^१४ कृत्वा गर्भद्रुतिं रसे। क्षारयेत् स्वेदयेत् पिण्डं^१५ परिणामक्रमैस्त्रिभिः^१६ ॥ ६० ॥ कट्वम्ल^१७ क्षारगोमूत्र-सुहोक्षौरैः प्रलेपितम्^१८ ।
(1) खल्ले तु चालयेत्तच्च, a variant in K. (2) K reads शुल्ब वासनया. M reads वासनाया, which is inc. (3) K reads संस्थाप्य. (4) खल्ले तत्र च संन्यसेत्, a variant in K. (5) कांचीसहितकाश्रोस्र, a variant in M. (6) K reads संगृह्य. (7) M has समजीर्णद्रुत (8) M reads पध्रकांत्यवसान्. (9) K reads सङ्गृह्य. M reads संधृष्य. (10) This hemistich is not found in K. (11) K reads समुख. (12) निर्मुखं समुख is the reading in K. समुख निर्मुख is the reading in M. (13) K reads ततः, which is not accurate. (14) M reads जारणां त्रिविधामेव. (15) K reads incompletely—जारयेत् पिण्डे. (16) M reads in- completely—परिकर्मैस्त्रिभिः. (17) M reads पट्वम्ल. (18) सुहि- चौरे प्रलेपिते, a variant in M.
१६६ रसार्णवे वह्निष्ट बन्धं वस्त्रेण¹ भूयो ग्रासं निवेदितम्² । क्षारारनालतैलेषु स्वेदयेन्मृदुनाग्निना ॥ ६१ ॥ क्रमेणानेन देवेशि जायते दिवसैस्त्रिभिः³ । यन्त्रादुद्धृतमात्रं तु⁴ लोहपात्रे स्थितं रसम्⁵ ॥ ६२ ॥ साम्लेन⁶ काञ्जिकेनादौ क्षालितं वस्त्रगालितम् । पात्रे सुखोष्ण⁷हस्तेन यावत् शेषं विमर्दयेत् ॥ ६३ ॥ चतुर्गुणेन वस्त्रेण पीडितो निर्मलश्च सः⁸ ॥ ६४ ॥ गालनक्रियया ग्रासे सति निष्पेषनिर्गते⁹ । स¹⁰ भवेद्दण्डधारो च जीर्णग्रासस्तथा रसः¹¹ ॥ ६५ ॥ अजीर्णे पाचयेत् पिष्टीं¹² स्वेदयेन्मर्दयेत्तथा । वासवाम्ल¹³प्रयोगेण जीर्णे ग्रासं तु दापयेत्¹⁴ ॥ ६६ ॥ इष्टिकागुड़दुग्धोर्णी¹⁵-राजोसै
एकादशः पटलः । १५७ षोडशांशैः स धान्याम्लैः$^१$ मर्द्यः स्वेद्यश्च पारदः$^२$ ॥ ६७ ॥ निश्चिलीकरणार्थं तु$^३$ ग्रासे ग्रासे$^४$ पुनः पुनः । जीर्णाभ्रो जीर्णवीजोऽपि रागान् गृह्णाति$^५$ निर्मलः ॥ ६८ ॥ क्रमेणानेन दोलायां$^६$ चार्य्यं$^७$ ग्रासचतुष्टयम् । ततः कच्छपयन्त्रेण ज्वालनं बन्धनं$^८$ क्रमात् ॥ ६६ ॥ षड्भागं चाष्टमांशेन विडं दत्त्वापि जारयेत्$^९$ । समजीर्णाभ्रकः सूतः शतवेधी$^{१०}$ भवेत् प्रिये ॥ ७० ॥ सहस्रवेधी द्विगुणे त्रिगुणेऽयुतवेधकः । चतुर्गुणे लक्षवेधी स भवेद्भूमचरी रसः ॥ ७१ ॥ जीर्णे पञ्चगुणे$^{११}$ देवि बद्धायुर्जायते रसः$^{१२}$ । आयुस्तु$^{१३}$ षड्गुणे$^{१४}$
१६८ रसार्णवे जीर्णेन नाशमायान्ति¹ नात्र कार्या विचारणा ॥ ७३ ॥ रसराजे² यदा जीर्णे³ षड्गुणं गगनं⁴ प्रिये । तदा⁵ ग्रसति लोहानि त्यजेच्च मतिमात्मनः⁶ ॥ ७४ ॥ धूमश्चिटिचिटिश्चैव⁷ मण्डकम्पुतिरेव च⁸ । सकम्पश्च विकम्पश्च⁹ यच्चावस्था रसस्य तु ॥ ७५ ॥ कपिलोऽथ निरुद्गारि¹⁰-विप्लुषश्चैव मुञ्चति¹¹ । अग्नौ तिष्ठति¹² निष्कम्पो व्योमजीर्णस्य लक्षणम् ॥ ७६ ॥ समजीर्णो भवेद्बालो¹³ यौवनस्थ¹⁴श्चतुर्गुणम् । वृद्धस्तु षड्गुणं जीर्णः¹⁵ कुर्य्यात्¹⁶ कर्म पृथक् पृथक् ॥७७॥ (1) K has जीर्णे जीर्णे समायाति. M has जीर्णेन नाशका यान्ति. The sense of these readings is not clear. (2) B reads रसराजो. (3) K reads जीर्ण. M reads यथा जीर्ण. (4) M has गगन षडगुणं. (5) B has यदा, which is inc. (6) Both B and K read मतिमात्मनः, which has no clear sense. (7) ध्म विद्धि चिटिट्यैव, a variant in K. (8) मेण्डुक्युतिरेव च, a variant in B. K has मण्डुक्युतिमेव च. Both the readings seem to be inc. (9) K reads सकप च विकप च. (10) M reads कपिलोत्यनिरुद्गानि. (11) B reads विप्लुषैव In K, the whole hemistich seems to be incorrect, which is as follows---कपिलं.त्यनिरिपुप्ति- मेव चव र्धैव मुञ्चति (12) K reads तिष्ठात, which is gram. incorrect. (13) समोवर्णो वर्षदृब्बालो, an incorrect variant in K. (14) B reads यौवनर्थ, which has no sense. K reads यौवनस्य (without विसर्ग), which is gram. inc. (15) B has वृद्ध षड्गुणजीर्णस्तु. K has वृद्धः षड्गुण- जीर्णस्तु. M has वृद्धस्तु षड्गुणो जीर्णे. We have adopted the above reading after collating all the texts. (16) Both B and K read तदा.
एकादशः पटलः । १६८ बालस्तु पत्रलेपेन कल्कयोगेन यौवनः¹ । वृद्धो² विध्यति लोहानि जारितः सारितोऽथवा ॥ ७८ ॥ कुमारस्तु रसो देवि न समर्थो रसायने । यौवनस्थो रसो³ देवि क्षमो देहस्य रक्षणे ॥ ७९ ॥ जरावस्थो रसो यश्च देहे लोहेन संक्रमेत्⁴ । अभावेऽभ्रकसत्त्वस्य⁵ कान्तसत्त्वं प्रदापयेत् ॥ ८० ॥ कान्तस्य चाप्यभावे⁶ तु तीक्ष्णलोहन्तु दापयेत् । अनेन क्रमयोगेन सर्व्वसत्त्वानि जारयेत्⁷ ॥ ८१ ॥ एकोऽपि हेमसंयुक्तश्चामीकरकरः क्षणात् । गन्धकात् परतो नास्ति रसेषूपरसेषु वा⁸ ॥ ८२ ॥ पूर्व्वोक्तयन्त्रयोगेन⁹ द्विषड्गुणगन्धकम्¹⁰ । अथवा द्वादशगुणं षड्गुणं¹¹ वापि जारयेत्¹² ॥ ८३ ॥ माक्षिकं¹³ सत्त्वमादाय पादांशेन तु¹⁴ जारयेत् । ततोऽपि सर्व्वसत्त्वानि द्रावयेत् सूतगर्भतः ॥ ८४ ॥
(1) M reads यौवनः, which is incorrect. [Here अर्चादित्वात् अण्.] (2) K reads वृद्धौ, which is incorrect. (3) K reads यौवनस्थोरसो. (4) K reads संक्रमे, which is an error of the scribe. M reads देहलाहथ. (5) अभावे अभ्रसंसत्त्वस्य, a reading in M. (6) K reads वाप्यभावे. (7) M reads रञ्जयेत्. (8) K reads च. From this hemistich, some portion is wanting in B. (9) M has पूर्वोक्तयागयन्त्रे ण. (10) K reads द्विषड्गुं गन्धकं, which is incomplete. (11) K has षट्गुणं (12) M has वा विजारयेत्. (13) M reads माक्षिक। (14) तु is wanting in K. 22
१७० रसार्णवे हेमपावकयोः सख्यं तथा¹ काञ्चनसूतयोः । वह्निसूतकयोर्वैरं तयोर्मित्रेण मित्रता² ॥ ८५ ॥ अग्निको³ यवचिञ्चा च स्त्रष्टुम्भटश्च रागिणी⁴ । दोलास्वेदेन⁵ तत् पक्वं हेमजारणमुत्तमम् ॥ ८६ ॥ पलाशभस्मापामार्गो⁶ यवक्षारश्च काञ्चिकम्⁷ । सौवर्चलं च कासीसं⁸ सामुद्रं सैन्धवं तथा ॥ ८७ ॥ आसुरी टङ्कणञ्चैव⁹ नवसार¹⁰स्तथैव च । कर्पूरञ्चैव माक्षीकं¹¹ समभागानि कारयेत् ॥ ८८ ॥ सुह्यर्कदुग्धैर्देवेत्रि¹² मूषा¹³लेपन्तु कारयेत् । विड्चूर्णं ततो दत्त्वा कनकं जारयेत् प्रिये ॥ ८९ ॥ शृणु देवि प्रवक्ष्यामि भूचराख्यान्तु¹⁴ जारणम् ॥ ९० ॥ (1) M reads सूत, which creates a tautology. (2) तयोर्मिश्रेण मित्रता, a variant in M. (3) K reads चंकोलं. (4) K reads incompletely—सुमटेन नाकिनी. The meaning of स्त्रष्टुम्भट is unintelligible. (5) M reads डौलास्वेदेन. (6) K reads पमार्गे, which seems to be incorrect. (7) M reads काञ्चिकम्. (8) K reads कौशीसं, which is an error of the scribe. M reads काशीसं. (9) K has आ......री टङ्कणं चैव, which is incomplete. (10) M reads नागसार. (11) कर्पूर चैव माक्षिकं, a variant in K. (12) K reads सुह्यर्कदुग्ध- दैवेत्रि, which appears to be inc. M reads सुह्यर्कदुग्ध, which is not also accurate here. (13) K reads मूखा, which is inc. (14) K has भूचराख्यान्तु. M has भूजेराख्यान्तु. Both seem to be inc. ; since we see afterwards (in śloka 98) भूचरी जारणा and not भूचरो or भूजंरी जारणा.
एकादशः पटलः । १७१ कृष्णं पीतं¹ तथा रक्तं² शुल्बे तीक्ष्णे च मेलयेत् ॥ ८१ ॥ शुल्बे तीक्ष्णं यदा चूर्णं³ द्वाविंशतिगुणं प्रिये⁴ । गन्धनागं ततोऽर्द्धं तु⁵ क्रमेणैव तु मेलयेत् ॥ ८२ ॥ हेम्ना तु सह दातव्यं सूतकैकेन षोडश⁶ । गन्धनागं यदा जीर्णं⁷ तदा⁸ बद्धो⁹ भवेद्रसः । हेम्नि जीर्णे ततोऽर्द्धेन¹⁰ मृत¹¹लोहेन रञ्जयेत् ॥ ८३ ॥ गन्धकेन हतं शुल्बं¹² माक्षिकं दरदायसम् । पुटेन मारयेच्छुद्धं हेम दद्यात् तु षड्गुणम्¹³ ॥ ८४ ॥ सूतके हेमबीजं च यदा जीर्णं¹⁴ चतुर्गुणम् । वज्ररागं विजानीयात् हेमाभो जायते रसः ॥ ८५ ॥ सारणायन्त्रमध्यस्थं तेनैव सह सारयेत्¹⁵ । त्रिभाग¹⁶सारितं कृत्वा पुनस्तनैव¹⁷ जारयेत् ॥ ८६ ॥ (1) K reads कृष्णपीतं. (2) M reads रक्ताग्भं. (3) एवं यदा भवेज्जीर्णं, a variant in K ; after this, one charaṇa is wanting in it. (4) K reads द्वाविंशतिगुणं चैव न सारणयैव च, which is incomplete. (5) M reads ततोध्ये तु, which is unintelligible. (6) सूतके चैव षोडशं, a reading in K. (7) M reads यथा चूर्णं. (8) M reads तथा. (9) K reads भद्रो, which seems to be incorrect. (10) K has an incomplete charaṇa—हेमजीर्णे ता...न. (11) M has मृता, which is inc. (12) K reads सूल्वं. (13) हेम दद्यात् षड्गुणं, an incom- plete variant in K. (14) K reads यदार्धं, which is an error of the scribe. M reads यथा जीर्णं. (15) M reads कारयेत्. (16) M reads त्रिभागं. (17) K reads पुनस्तेनेव.