भारतकोश
संग्रह पर लौटें

रूपमण्डन एवं देवमूर्त्ति-प्रकरणम् (मण्डन सूत्रधार - प्राचीन मूर्तिकला एवं देव-प्रतिमा लक्षण सटीक)

Rupamandanam and Devatamurti Prakaranam of Sutradhara Mandana

मण्डन सूत्रधार द्वारा

DevanagariHindipublished335 पृष्ठ

.... Wait, why would it be त्तम? Because in manuscript transcription, an unclosed क्षis frequently misread by the pandit/scribe asत्त! (In Śāradā, Devanagari, Nandinagari, etc., क्षandत्तoften look similar or scribes confuse them). The editor printed what the manuscript had:पाशात्तमभयाङ्कुशखेटकम्! Wait, let's keep पाशात्तमभयाङ्कुशखेटकम्orपाशाक्षमभयाङ्कुशखेटकम्? Let's look very carefully at that letter. Wait, let's look at पाशात्तमभयाङ्कुशखेटकम्: Yes, it is spelled पाशात्तमभयाङ्कुशखेटकम्`.

Check L22: मातुलुङ्गः, अम्लरसः फलविशेषोऽयम् । Yes, अम्लरसः is clearly legible now.

Check L16: मातुलिङ्गञ्च बाणञ्च धनुर्र्नकुलमेव च ॥ ४० ॥ Wait, धनुर्र्नकुलमेव: ध न ु र्र्न क ु ल मे व. Yes!

Everything is solid and precise.१३८ देवतामूर्त्तिप्रकरणम् शीतले नाथे [स्याद्]

सप्तमोऽध्यायः १३६ धनुश्चक्रञ्च नकुलं दक्षिणाधःकरक्रमात् । [ इति षण्मुखः १३ ] पद्मस्था विदिता पीता बाणपाशाहिकामुर्कम् ॥ ४१ ॥ [ इति विदिता १३ ] पाताल ( त्रि ? स्त्र्रि ) मु ( खा ? खो ऽ ) नन्ते र(क्ता ? क्तो) मकरवाहनः । पद्मखड्गं तथा पाशमक्षं खेटञ्च नाकुलम् ॥ ४२ ॥ [ इति पातालः १४ ] अङ्कुशी गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । खड्ग ( स्त ? न्त ) था नागपाशमङ्कुशं खेटकं तथा ॥४३॥ [ इत्यङ्कुशी १४ ] किन्नरस्त्रिमुखो धर्मे लोहि( ते ? तः ) कूर्मवाहनः । बीजपूरं गदां चाभयाक्षमा [ ला ] ब्जनाकुलम् ॥ ४४ ॥ [ इति किन्नरः १५ ] कन्दर्पा गौरवर्णा स्यान्मत्स्यारूढा चतुर्भुजा । उत्पलं चाङ्कुशं हस्तेऽभयं पद्मं क्रमाद् भवेत् ॥ ४५ ॥ [ इति कन्दर्पा १५ ] गरुडः शान्तिनाथस्य श्यामः शूकरवाहनः । वाराहवदनो बीजपूरपद्माक्षनाकुलैः ॥ ४६ ॥ [ इति गरुडः १६ ] निर्वाणो गौरवर्णा स्यात् पद्मारूढा चतुर्भुजा । पुस्तकं चोत्पलं पद्मं कमण्डलुः क्रमाद् भवेत् ॥ ४७ ॥ [ इति निर्वाणी १६ ] ४१ । बहुबाहुरयं षण्मुख इति सम्भाव्यते आयुधबाहुल्यदर्शनात् । ४२ । त्रिमुखत्वात् पातालः षड्भुज इति षडेवाऽऽयुधानि । ४४ । किन्नरोऽपि त्रिमुख त्वात् षड्भुजः ।

१४० देवतामूर्त्तिप्रकरणम् कुन्थनाथस्य गन्ध(र्वो हिंस ? र्वः सिंह) स्थः श्यामवर्णभाक् वरदं नागपाशं चाङ्कुशं वै बीजपूरकम् ॥ ४८ ॥ [ इति गन्धर्वः १७ ] गौरवर्णा मयूरस्था बीजपूरत्रिशूलने । ( पद्ममुषंधिका ? ) चैव स्याद् बला नाम यक्षिणी ॥४६॥ [ इति बला १७ ] अरुनाथस्य यक्षेन्द्रस्त्रिनेत्रः शेषवाहनः । षण्मुखः श्यामवर्णा(स्या ? स्यो) मातुलिङ्गं शिरस्तथा ॥५०॥ खड्गं मुद्गरपाशौ चाभयाक्षाङ्कुशशूलकम् । खेटं धनुश्च नकुलं भुजा द्वादश कीर्त्तिताः ॥ ५१ ॥ [ इति यक्षेट् १८ ] धारिणी यक्षिणी नीलपद्मवर्णासनस्थिता । मातुलिङ्गोत्पलं चाक्षमालापद्मं करेषु च ॥ ५२ ॥ [ इति धारिणी १८ ] मल्लो (सुतः?सितः) (कुषोरोह?कुबेरोऽथ) रथारूढश्चतुर्मुखः। वरपर्शुंलमभया मुद्गरं शक्तिलुङ्गकम् ॥ ५३ ॥ [ इति कुबेरः १९ ] कृष्णवर्णा चतुर्हस्ता पद्मस्था धरणप्रिया । वरदं चाक्षसूत्रञ्च शक्तिर्वै मातुलिङ्गकम् ॥ ५४ ॥ [ इति धरणप्रिया १९ ] त्रिनेत्रो वरुणो यक्षो धवलो मुनिसुव्रते । वृषवाहश्चतुर्वक्त्रो जटामुकुटमण्डितः ॥ ५५ ॥ ५३ । पर्शुं लमिति वरदमित्यादिवद् बाहुविशेषणम् ; पर्शुः परशुपर्यायः ।

मातुलिङ्गं गदाबाणं शक्तिः पाशं धनुस्तथा । पद्मं च नकुलं चेति दक्षिणाधःकरक्रमात् ॥ ५६ ॥ [ इति वरुणः २० ] वरदन्ता गौरवर्णा सिंहारूढा सुशोभना । वरदं चाक्षसूत्रं त्रिशूलं च बीजपूरकम् ॥ ५७ ॥ [ इति वरदन्ता २० ] भृकुटि(नेंमि ? र्नमि)नाथस्य पीतस्त्र्यक्षश्चतुर्मुखः । वृषवाहो मातुलिङ्गं शक्तिश्च मुद्गराभयौ ॥ ५८ ॥ [ इति भृकुटिः २१ ] अक्षं वज्रं परशुलं नकुलं ( माथातस्तु? ) । गान्धारी वरखड्गं खेटं लुङ्गं हंसारूढा सिता ( प्रोक्तकायो ? ) ॥ ५६ ॥ [ इति गान्धारी २१ ] नेमिनाथस्य गोमेधो नर(स्थास्रिमूषर ? स्थस्त्रिमुखः) सितः । बीजपूरं पर्शु चक्रं शक्तिशूलं च नाकुलम् ॥ ६० ॥ [ इति गोमेधः २२ ] सिंहारूढाऽम्बिका(याश्च लुं वीर्नागयाकुलम् ? ) । अङ्कुशं च तथा (पु?पवं) त(था?स्या) हस्तेषु कारयेत् ॥६१॥ [ इति अम्बिका २२ ] ५९ । अक्षमिति । अर्धमिदं किं भृकुटेरायुधप्रतिपादनपरमाहो गान्धार्या इति न निश्चिनुमः । द्वाभ्यां द्वाभ्यामर्धाभ्यामेकैकस्य लक्षणसमाप्तिरित्यस्मिन् प्रकरणे दृश्यते, तत्क्रमादरे तु गान्धार्या आयुधप्रतिपादनपरमिदमर्धमिति भवति । अक्षवज्रपरशुनकुलं(मथातुस्तु ?) गान्धारी यक्षिणी । वरखड्गखेटलुङ्गं हंसारूढा(स्सिता कायो?) ॥ इति रूपावतारे एतन्मतप्रतिपादकम् अपरित्यक्तमूलदोषविषमं पद्यम् । ६१। 'सिंहारूढाम्बि(क?का)का(यं?यीं) उमनागपाशकम्' इति रूपावतारपाठपर्या- लोचनया 'सिंहारूढाम्बिका मातुलिङ्गञ्च नागपाशकम्' इति पूर्वार्धे पाठः सम्भाव्यते ।

१४२ देवतामूर्त्तिप्रकरणम् पार्श्वः श्रीपार्श्वनाथस्य कूर्मारूढो गजाननः । बीजपूरोरगं नागं नकुलं श्यामवर्णभृत् ॥ ६२ ॥ [ इति पार्श्वः २३ ] पद्मावती रक्तवर्णा (कुकुं?कुक्कु)टस्था चतुर्भुजा । पद्मं पाशाङ्कुशं बीजपूरं हस्तेषु कारयेत् ॥ ६३ ॥ [ इति पद्मावती २३ ] महावीरस्य मातङ्गः श्यामः स्याद् गजवाहनः । दक्षिणे नकुलं हस्ते वामे स्याद् बीजपूरकम् ॥ ६४ ॥ [ इति मातङ्गः २४ ] सिद्धायका नीलवर्णा सिंहारूढा चतुर्भुजा । पुस्तकं चाभयं चैव बाणं स्यान्मातुलिङ्गकम् ॥ ६५ ॥ [ इति सिद्धायका २४ ] [ इति जिनानां यक्षयक्षिणीमूर्त्तयः ] अथ द्वितीयभेदेन चक्रे ( श्वरी ) द्वादशभुजाष्टचक्रे वज्रयोर्द्वयमेव च । मातुलिङ्गाभयं चैव पद्मस्था ग(रलो ? रुडो)परि ॥ ६६ ॥ कैलासमोशरणाब्जसिद्धावर्त्तिसदाशिवम् । सिंहासनं धर्मचक्रमुपरीह छललयम् ॥ ६७ ॥ ६६ । एतेषां जिनानां शासनदेवतानाञ्च मध्ये चत्वारो मुख्या इति रूपमण्डनपर्या- लोचनया प्राप्यते । तथा च रूपमण्डने— जिनस्य मूर्त्तयोऽनन्ताः पूजिताः ( सौख्यसर्व ? सर्वसौख्य )दा । चतस्रोऽतिशयैर्युक्तास्तासां पूज्या विशेषतः ॥ श्रीआदिनाथो नेमिश्च ( पर्वे ? पार्श्वो ) वीर (चतु ? श्रुतु)र्थकः । चक्रे ( चर्या ? श्वर्य )म्बिका पद्मावती सिद्धायकेति च ॥ इति ( अ० ६, श्लो० २५-२६ ) । ६७ । कैलासं सोमशरणं ( सिधि ? सिद्धि ) वर्त्तसदाशिवम् । सिंहासनं धर्मचक्रमुपरोन्द्रातपत्रकम् ॥ इति रूपमण्डने (अ० ६, श्लो० २७) ।

सप्तमोऽध्यायः १४३

श्रीवत्सश्च तथाऽशोकं वृषा वृश्चिकदुन्दुभिः । [ प्रतीहाराः ] इन्द्र इन्द्रजयश्चैव माहेन्द्रो (वी ? वि) जयस्तथा ॥ ६८ ॥ धरणेन्द्रो पद्मकश्च सुनाभः सुरदुन्दुभिः । इत्यष्टौ च प्रतीहारा (वि ? वी) तरागे तु शान्तिदाः ॥६९॥ [ प्रतीहाराणां स्वरूपम् ] फलवज्राङ्कुशं दण्डमिन्द्रसव्ये (ध्वज?जय)स्तथा । द्वौ वज्रौ फलदण्डन्तु माहेन्द्रसव्ये विजयस्तथा ॥ ७० ॥ (यदायूथयोगोद्भवा विपञ्चफणतोऽर्द्धगाः ?) । धरणेन्द्र(ः) पद्मकश्च सर्वशान्तिकरौ स्मृतौ ॥ ७१ ॥ यक्षरूपाधिका(रं च? राश्च) निधिहस्ताः शुभो(दराः? दयाः) । सुना(भं ? भो) दुन्दुभिश्चैव सर्वे शान्तिप्रदायकाः ॥७२॥ इत्यष्टौ च प्रतीहारा जिनेन्द्रस्य च शान्ति(दः ? दाः ) । नगरादिपुरग्रामे सर्वविघ्नप्रणाशनाः ॥ ७३ ॥ मुक्त्यर्थे विश्वमेतद् भ्रमति च बहुधा देवदैत्याः पिशाचा रक्षो गन्धर्वयक्षो नरमृगपशवो नैव मुक्तिं विजग्मुः । एकः श्रीवीतरागः परमपदसुखे मुक्ति(र्ना?मार्गे)विलीनो

  • वन्द्यस्तेना(ग?द्य)जैनः सुरगण(म)नुजैः सर्वसौख्यस्य हेतुः ॥ ७४ ॥ इति श्रीक्षेत्रात्मज (सूत्र) भृन्मण्डनविरचिते वास्तुशास्त्रे रूपावतारे जिनमूर्त्तिचतुर्विंशतियक्षयक्षिण्यधिकारो नाम सप्तमोऽध्यायः ॥ ७ ॥

अष्टमोऽध्यायः ———•——— अथ गौरीं प्रवक्ष्यामि प्रमाणं मूर्त्तिलक्षणम् । चतुर्भुजा त्रिनेत्रा च सर्वाभरणभूषिता । गोधासनोपरिस्था च कर्त्तव्या सर्वकामदा ॥ १ ॥ [ इति गौरीमूर्त्तीनां सामान्यलक्षणम् ] ( उत्तमा?उमा च ) पार्वती गौरी ललिता च श्रिया तथा । कृष्णा च हिम( वन्ति ? वन्ती ) च रम्भा च सावित्री तथा । त्रिखण्डा तोतला चैव त्रिपुरा द्वादशोदिताः ॥ २ ॥ [ इति गौरीनामानि ] अक्षसू( त्रा?त्रं ) च कमलं दर्पणञ्च कमण्ड( लु ? लुं ) । उमाना( म्नि?नी ) भवेन्मूर्त्तिः पूजिता त्रिदशैरपि ॥ ३ ॥ [ इत्युमा ] अक्षसूत्रं शिवं देवं गणाध्यक्षं कमण्डलुम् । अग्निकुण्डोभये पक्षे पार्वती पर्वतोद्भवा ॥ ४ ॥ [ इति पार्वती ] ───────────────────────────────────────────────────────────── १ । पञ्चमाध्याये वैष्णवप्रकरणे शिलाचक्रलक्षणं विष्णोर्मूत्त्यन्तराणि च प्रतिपादितानि । षष्ठे शैवे शिवमूत्तिः शिवलिङ्गानि प्रसङ्गतो मण्डपविषये विशेषाश्च प्रतिपादिताः । अन्तरा सप्तमे जैनाधिकारे जिनतदुपासकतच्छासनदेवताः सलक्षणाः साभिधानाः प्रतिपाद्याष्टमे शाक्ताधिकारे शक्तीनां मूर्त्तीर्वक्तुमासां गौर्यशतया मूलीभूतां गौरीं लक्षयति—अथेति । 'चतु- र्भुजा त्रिनेत्रा च सर्वाभरणभूषिते'ति अविशेषेण सर्वासागेव गौरीमूर्त्तीनां लक्षणम् ; अत एव प्रत्येक- लक्षणे भुजनेत्रादीनामुल्लेखो न कृतः । 'गौर्याः प्रवक्ष्यामी'ति रूपमण्डने पाठः । (५।१) । २ । कास्तावद् गौर्या मूर्त्तय इत्यपेक्षायामाह—उमा चेति । अयमासाम् उद्देशः । रूप- मण्डने अयमुद्देशनिर्देशो नास्ति । तत्र 'अथ गौर्याः प्रवक्ष्यामी'त्युपक्रम्यैव क्रमेणाऽऽसां लक्षणानि लिखितानि । ४ । 'अग्निकुण्डोभये पक्षे' इत्यत्र 'पक्षद्वयेऽग्निकुण्डञ्च' इति रूपमण्डने (५।२) ऋज्वर्थः पाठः ।

अष्टमोऽध्यायः १४५ अक्षसू( तोभय?त्राभये) पद्मं तस्योर्द्ध्वे तु कमण्डलुम् । गौर्या( या?श्च ) मूर्त्तिरित्युक्ता कर्त्तव्या शिवशासिनी ॥ ५ ॥ [ इति गौरी ] अक्षसूत्रं च वीणे द्वे कमण्डलु ( : ) करेषु च । ललिता च तदा नाम सिद्ध( चामर ? चारण )सेविता ॥ ६ ॥ [ इति ललिता ] गोधासनाक्षसूत्रा च ( म ? अ )भयं वरदं करम् । श्रिया मूर्त्तिस्तदा नाम (ग्रहे?गृहे) पूज्या (श्रियोपमा?श्रिये सदा) ॥ [ इति श्रिया ] अक्षसूत्रं कमण्डलुं हृदये च पुटाञ्जलि ( : ? ) । पञ्चा (ग्रवश्च?ग्नयश्च ) कुण्डेषु कृष्णा नाम सुशोभना ॥ ८॥ [ इति कृष्णा ] हिमवन्ती शैलराजी ( शब्दवस्यात् परीसुता ? ) । (पद्मदर्पणोभवा ?) तु वीवाहे तु माहेश्वरी ॥ ६ ॥ [ इति हिमवन्ती ] कमण्डल्वक्षवज्राङ्कुशं गजासनसंस्थिता । (अ?सा)प्रतीतोद्भव(वा ? वद्)रूपा रम्भा च सर्वकामदा ॥१०॥ [ इति रम्भा ] ६। ललिता रूपमण्डने नास्ति । 'सिद्धचामरसेविते'त्यस्य 'सिद्धामरनिषेविते'त्यर्थे तात्पर्यं वा कृतशुद्धौ पाठे तात्पर्यं वेति चिन्तनीयम् । ८। पञ्चाग्नयश्च कुण्डेष्विति उभयतः पार्श्वयोरग्निकुण्डपञ्चकान्वितेत्यर्थः । अत्र 'पक्ष- द्वयेऽग्निकुण्डङ्गे'ति पार्वतीवदेव पाठो भवेन्न वेति चिन्तनीयम् । इयमपि रूपमण्डने नास्ति । ९। हिमवन्त्या लक्षणं पाठविकाराद् दुरुन्नेयम् । इयमपि रूपमण्डने नास्ति । १०। सा रम्भा प्रतीतोद्भववद्रूपा प्रतीतँ ख्यातम् उद्भववद् रूपं यस्याः तादृशी, यस्या रूपं प्रतिक्षणमेव नवनवीभूतं सत् प्रख्यायते इत्यर्थः । सोपसर्गेण भवतिना वर्त्तमानकाल- वाचिना शत्रा च रूपस्य प्रतिक्षणोत्पद्यमानत्वं लभ्यते । रूपमण्डने—

१४६ देवतामूर्त्तिप्रकरणम् अक्षसूत्रं पुस्तकञ्च धत्ते पद्मं कमण्डलुम् । चतुर्वक्त्रा तु सा(वि ? त्री) श्रोत्रियाणां गृहे हिता ॥ ११ ॥ [ इति सावित्री ] अक्षसूत्रं वज्र(शक्ति?शक्ती) तस्याधश्च कमण्डलुः । ( त्रिखण्ड?ण्डां ) पूजयेन्नित्यं सर्वकामफलप्र(दा?दाम् ) ॥१२॥ [ इति त्रिखण्डा ] शूलाक्षसूत्रं दण्डञ्च (श्वेतचामकरे?श्वेतचामरकं ) तथा । श्वेतदेहा भवे (देही?देवी ) तोतला पापनाशिनी ॥ १३ ॥ [ इति तोतला ] पाशाङ्कुशाभयवरं चतुर्हस्तेष्वनुक्रमात् । त्रिपुरा नाम संपूज्या वन्दिता त्रिदशैरपि ॥ १४ ॥ [ इति त्रिपुरा ] इति द्वादश गौर्यः वक्ष्यामि गौर्यायत (नं ? न) देवतानामनुक्रमम् । वामे (स्याद्धि?सिद्धिः) श्रिया सौम्ये सावित्री चैव पश्चिमे ॥१५॥ ( पृष्टिः?पृष्ठे ) कर्णे तथा द्वाभ्यां भगवती सरस्वती । ईशाने च गणेशः स्यात् कुमार(म? श्चा)ग्निकोणके ॥ १६ ॥ कमण्डल्वक्षसूत्रञ्च बिभ्राणा वज्रमङ्कुशम् । गजासनस्थिता रम्भा कर्त्तव्या सर्वकामदा ॥ (अ० ५, श्लो० ५) इति रम्भालक्षणमुपलभ्यते । १२। त्रिखण्डा रूपमण्डनं न मण्डयति । १३। शूलाक्षसूत्रं दण्डञ्च बिभ्राणा चैव चामरम् । तोतला कथिता चेयं सर्व( कोप ? पाप )प्रणाशिनी ॥ इति निःसन्दिग्धार्थः पाठो रूपमण्डने ( अ० ५, श्लो० ६ ) । १५-१७। गौर्यायतनं लक्षयति—वक्ष्यामीत्यादिना । वामे इति दक्षिणस्यां दिशि,

अष्टमोऽध्यायः १४७ कुण्डलाभ्यामलङ्कृता सर्वाभरणभूषिता । मध्ये देवी प्रतिष्ठा(प्य?प्या) चेश्वरस्य सदा प्रिया ॥ १७ ॥ [ इति गौर्यायतनम् ] अभयाङ्कुशपाशं दण्डं जया चैव तु पूर्वतः । सव्यापसव्ययोगेन (न ? वि) जया नाम सा भवेत् ॥ १८ ॥ अभयाङ्कुशपाशदण्डम् अजितासव्येऽपराजिता । अभयवज्राङ्कुशदण्डं विभक्ताङ्कुशापसव्ये मङ्गला । अभ(या?यं) शङ्खपद्मदण्डं मोहिन्य(पि सव्ये सभिनी?पसव्ये स्तम्भिनी) ॥ १६ ॥ जया च विजया चैव अजिता चापराजिता । विभक्ता मङ्गला चैव मोहिनी स्तम्भिनी तथा । गौर्यायतने शस्ता (च?श्व) अष्ट (स्याद्?स्युः)द्वारपालिकाः ॥२०॥ [ इति गौर्याः प्रतीहाराः ] सौम्य इत्युत्तरस्याम्, एतेन पश्चिमास्या प्रतिमेति ग्रन्थकर्तुरभिप्रायः प्रतिभाति। पृष्ठे कर्णे तथा द्वाभ्यामिति— 'पृष्ठकर्णद्वये कार्या भगवती सरस्वती' इति रूपमण्डने (अ० ५, श्लो० ९] संस्कारशुद्धः पाठः । अत्र ऐशानाग्नेययोर्वक्ष्यमाणत्वात् 'पृष्ठकर्णद्वय'पदेन वायुनैर्ऋतकोणद्वयं बोध्यम्। एवञ्च—मध्यवर्त्तिन्यां प्रतिमायां पूर्वाश्यायां सत्यामेव वायुनैर्ऋतकोणद्वयं पृष्ठतः स्यादिति पूर्वं पश्चिमास्यपरतामवलम्ब्य यद् व्याख्यातं तद् व्याहृतमित्यन्यथा व्याख्यायते—वामे वामभागे पूर्वास्थ्यत्वादुत्तरस्यां दिशीत्यर्थः, सौम्ये दक्षिणे भागे दक्षिणस्यां दिशीत्यर्थः । अत्र गौर्यायतने पूर्वस्यां दिशि मूर्त्तिविशेषाश्रवणात् 'लिङ्गस्याग्रे न कर्त्तव्या ह्यर्चारूपेण देवता' (अ० ३, श्लो०—) इतिवदत्रापि गौर्यग्रे मूर्त्तिर्न विधेयेत्यायाति, तत्र लिङ्गपदस्योपलक्षण- परत्वव्याख्यानाद्वा। १८-१९। इदानीं गौर्याश्रतस्रुषु द्वार्वषु चतस्रो द्वारपालिका आह—अभयेति । पूर्वाद्दितः प्रादक्षिण्वेन (पूर्व-दक्षिण-पश्चिमोत्तरक्रमेण) प्रतिद्वारं द्वे द्वे द्वारपालिके वामदक्षिणोदुम्बरयोः

१४८ देवतामूर्त्तिप्रकरणम् दण्डञ्च परशुं पद्मं मोदकञ्च गजाननम् । गणेशं मूषकारूढं सिद्धिदं सर्वकामदम् ॥ २१ ॥ [ इति गणेशः ] क्रमेण कार्ये इति वर्त्तुलार्थः । तत्र पूर्वे द्वारे वामोडुम्बरे जया दक्षिणोडुम्बरे विजया, एवं दक्षिणे अजितापराजिते, पश्चिमे विभक्ता-मङ्गले, उत्तरे मोहिनी-स्तम्भिन्यौ इति ज्ञेयम् । अत्र 'विजया नाम सा भवेत्' ( १८ ) इत्यत्र 'विजया तामसा भवेत्' इति रूपमण्डने ( अ० ५, श्लो० ११ ) प्रामादिकः पाठः, प्रतिद्वारं द्वारपालिकानां यथाश्रुतद्वित्वभङ्गप्रसङ्गात्, अनूद्देशश्लोके तामसाया अपाठाच्च । सुखबोधार्थं चित्रे गौर्या आयतनदेवताः प्रतीहाराश्च निवेश्यन्ते— [ गौर्यायतनम् ] मोहिनी स्तम्भिनी भगवती गणेशः श्रिया मङ्गला सावित्री गौरी जया सिद्धिः विभक्ता सरस्वती कार्त्तिकेयः विजया अपराजिता अजिता [ कोष्ठमध्ये यथोक्ता आयतनदेवताः । कोष्ठाद् बहिर्द्वयोर्द्वयोर्द्वारोडुम्बरयोः पूर्वादिक्रमेण यथोक्ता जयाविजयादिद्वारदेवताश्च ] २१ । अथ गणेशमूर्त्तिंराह—दण्डञ्चेति । अत्राऽऽदर्शे श्लोकत्रयानन्तरम् 'इति हेरम्बः'

अष्टमोऽध्यायः १४१ वरं तथाऽङ्कुशं दण्डं परशुं चाभयं क्रमात् । कपालञ्च शरञ्चाक्षमालापाशगदा करे ॥ २२ ॥ पञ्चवक्त्रं त्रिनेत्रञ्च हेरम्बञ्च गणेश्वरम् । मूषके च समारूढं सर्वकामार्थसाधकम् ॥ २३ ॥ इति हेरम्बः रक्ताङ्गो गजवक्त्रः स्याद् रत्नकुम्भं तथाऽङ्कुशम् । परशुञ्च तथा द(न्तो?न्तं) दक्षिणाधःकरक्रमात् ॥ २४ ॥ इति गजाननः इत्येवं पुष्पिका दृश्यते । परं प्रथमश्लोके चतुर्णाम्, द्वितीये च दशानामायुधानां दर्शनादिह गणेशस्य पृथक् लक्षणादर्शनात्, रूपमण्डने ( अ० ५, श्लो० १६-१७ ) उभयोरेव पृथक् लक्षण- दर्शनाच्च एतच्छ्लोकानन्तरम् [ इति गणेशः ] इत्येवं अन्यैरन्तः पुष्पिकैका निवेशिता । शिल्प- रत्ने आयुधानां भेदो दृश्यते यथा— विघ्नेशं सपरश्वधाक्षवटिकादण्डोल्लसल्लण्डुकै- र्दोर्भिः पाशसृणीस्वदन्तवरदाढ्यैर्वा चतुर्भियुतम् । शुण्डाग्राहितबीजपूरमुरुकुक्षिं त्रीक्षणं संस्मरेत् सिन्दूराभमिभास्यमिन्दुशकलाद्याकल्पमब्जासनम् ॥ ( शि० उ० अ० २५, श्लो० ५७ ) इति । परमिदं गणेशस्य वा वक्ष्यमाणवक्रतुण्डस्य वा लक्षणं नोभयोरपि वेति सुधीभि- र्भाव्यम् । तत्र तु 'अथ बीजगणपति'रित्युपक्रम्य लक्षणान्येतानि लिखितानि दृश्यन्ते । २२ । इदानीं हेरम्बं निर्दिशति—वरमिति । अत्र कण्ठतोऽनुक्तत्वेऽपि एतन्मते अयं दशभुज इत्यायाति, आयुधानां तावत्सङ्ख्याकत्वदर्शनात् । शिल्परत्नेऽपि 'अथ हेरम्बः' इत्युपक्रम्य सार्धश्लोकत्रयेण तल्लक्षणमुक्तम्, तत्रापि दशभुजत्वमेव दृश्यते ( उ० अ० २५, श्लो० ५८-६१ ) । रूपमण्डने तु— वरं तथाऽङ्कुशं दण्डं दक्षिणे पार्श्वभागयोः । वामे कपालं बाणाक्षं पाशं कौमोदकी तथा ॥ ( अ० ५, श्लो० १६ ) इति विषमः पाठो विषमा चोभयतः पार्श्वयोरायुधरचना दृश्यते । २३ । पञ्चवक्त्रं त्रिनेत्रमिति गणेशहेरम्बयोः साधारणं लक्षणम्, गणेशलक्षणे वक्त्रनेत्रयो- रनुल्लेखात्, अत एव 'हेरम्बञ्च गणेश्वर'मित्यत्रोभयोरेव विशेष्यपरताऽभ्युपेया न त्वेकस्य विशेषणपरताऽपि ।

१२० देवतामूर्त्तिप्रकरणम् लम्बोदरं विनयनं पाशाङ्कुशधरं परम् । वरदाभयहस्तञ्च चलत्कर्णं ( समाचरम् ? सचामरम् ) ॥ २५ ॥ इति वक्रतुण्डः उच्छिष्टं मूषकस्थञ्च त्र्यक्षं व्यालोपवीतिनम् । भग्नदन्ताक्षसूत्रञ्च परशुं मोदकक्रमात् ॥ २६ ॥ इत्युच्छिष्टगणपतिः सिन्दूराभं त्रिनेत्रञ्च ( म?अ )भयं मोदकं (वच?तथा) । टङ्कं शरोऽक्षमाला च मुद्गरं चाङ्कुशं तथा । त्रिशूलं चेति हस्तेषु दधानं कुन्दवत् सितम् ॥ २७ ॥ इति हेरम्बः पाशाङ्कुशौ कल्पलता ( भृङ्ग?शृङ्गं ) बिभ्रत् करेषु च । शशिमौलस्त्रिनेत्रश्च रक्तः क्षिप्रगणाधिपः २८ ॥ [ इति क्षिप्रगणपतिः ] २५ । वक्रतुण्डं लक्षयति—लम्बोदरमिति । प्रमाणान्तरानुपलम्भेऽपि ग्रन्थकृता कृतया पुष्पिकया वक्रतुण्ड एवायं न लम्बोदर इति जानीमः । २६ । उच्छिष्टगणपतिमाह—उच्छिष्टमिति । अयं रूपमण्डने नास्ति । शिल्परत्ने तु बीज- गणपतिप्रस्तावे— रक्ताक्षमालां परशुञ्च दण्डं भक्ष्यञ्च दोर्भिः परितो दधानम् । हेमावदातं त्रिदृशं गजास्यं लम्बोदरं तं शिरसा नमामि ॥ ( उ० अ० २५, श्लो० ५६ ) इति प्रकृतोच्छिष्टगणपतिलक्षणान्वितः कश्चिद् गणपतिर्लक्षितो दृश्यते । 'भक्ष्यं' मोदकम् । २७ । सिन्दूराभमिति । नायं रूपमण्डने न वा शिल्परत्ने उपलभ्यते । पूर्वं द्वाविंश- त्रयोविंशश्लोकाभ्यामेको हेरम्बो लक्षितः पुनरपरोऽपि लक्ष्यत इत्यहो हेरम्बग्रहिलता ग्रन्थकर्त्तुः । २८ । पाशाङ्कुशाविति । अयमपि रूपमण्डने नास्ति, अस्ति च शिल्परत्ने ; परं तत्र भृङ्गस्थाने 'स्वरदः' पदं करोति । तथाच— धृतपाशाङ्कुशकल्प (क) लतिकास्वरदश्च बीजपूरयुतः । शशिकलकलितमौलिस्त्रिलोचनोऽरुणतनुश्च गजाननः ॥ इति । एवञ्चात्र 'भृङ्गमि'त्यत्र 'दण्डमि'ति पाठः कल्पनीयो न वेति सुधीभिश्चिन्तनीयम् ।

अष्टमोऽध्यायः १५१ उत्तरे तु सदा गौरी याम्ये चैव सरस्वती । पश्चिमे यत्न (राज्यं?राजः) च बुद्धिः पूर्वे व्यवस्थि (तः?ता)॥२९ इति गणेशायतनम् सर्वे च वामनाकारा ( : ) पुरुषाननसौम्य (तः?भाः) । तर्जनी परशुं दण्डमविघ्नो दण्डहस्तकः ॥ ३० ॥ तर्जनीदण्डापसव्ये स भवेद् विघ्नराजकः । तर्जनीखड्गवरदं दण्डहस्तः सुवक्त्रकः ॥ ३१ ॥ २९ । इदानीं गणेशायतनदेवानाह—उत्तर इति । लेखकप्रमादादत्र कोणदेवताप्रतिपादकमेकं पद्यं त्रुटितमिति सम्भाव्यते । तच्च— वामाङ्गे गजकर्णन्तु सिद्धिं दध्याच्च दक्षिणे । पृष्ठकर्णे तथा द्वौ च धूम्रको बालचन्द्रमाः ॥ ( रूप० अ० ५, श्लो० १९ ) इति रूपमण्डनोक्तवदेव भवेद् इति सम्भावयामः । ३० । गणेशप्रतीहारानाह—सर्व इति । रूपमण्डने 'सौम्याश्च पुरुषाननाः' इति द्वितीय- पादे सुखसेव्यः पाठः । अष्टौ गणेशप्रतीहारा दक्षाद्द्वारतो युग्मशः स्थापनीया इति वक्तुर्लार्थः । क्रमस्तु गौर्यायतनदृष्ट्या समुन्नेयः । शिल्परत्ने एकैकं वृक्षमाश्रिताभ्यामप्रागादिदिशमलङ्कुर्वतीभ्यां द्वाभ्यां द्वाभ्यां द्वारदेवताभ्यां गणेशायतनमलङ्कृतमिति दृश्यते । तथाच— अग्रेऽथ विल्वमभितश्च रमारमेशौ तद्दक्षिणे वटजुपौ गिरिजावृषाङ्कौ । पृष्ठेऽथ पिप्पलजुपौ रतिपुष्पबाणौ सव्ये प्रियङ्गुमभितश्च महीवराहौ ॥ ( उ० अ०

? )-> let's look at(रकै ?कुरै): (thenरकैthen space then?thenकुरैthen)thenर्युक्तं! Yes: गण्डकैश्चि(रकै ?कुरै)र्युक्तं मयूरवरवाहनम् ।`

Line 14: स्थानी(यं ?ये) खेटनगरे भुजा द्वादश कल्पयेत् ॥ ३७ ॥

Footnotes: Line 15: ३५। द्वात्रिंशच्छ्लोकतुल्यमिदं पद्यं सम्पातायातमिति सम्भाव्यते ।

Line 16: ३६। कार्त्तिकेयमाह—कार्त्तिकेयमिति । स्थानभेदेन स्थाप्यमानोऽयं द्वि-चतु-द्वादश-

Line 17: भुजत्वेन त्रिधा भवति । तत्र स्थानीये खेटनगरे वा द्वादशभुजः, खर्वटे चतुर्भुजः, ग्रामे वने वा

Line 18: द्विभुज इति शिल्परत्नसम्मतं तत्त्वम् । तथाच—

Line 19: स्थानीये खेटके वाऽपि कुमारो लिख्यते यदा ॥ (indented block / quotation)

Line 20: `भुजा द्वादश कुर्वी

अष्टमोऽध्यायः १५३ चतुर्भुजः ( कर्पटे ? खर्बटे ) स्याद् वने ग्रामे द्विबाहुकः । शक्तिपाशं तथा खड्गं शरः शूलं तथैव च ॥ ३८ ॥ वरदश्चैकहस्तः स्यादथवाऽभ(व?य) दो भवेत् । एते दक्षिणतो ज्ञेया ( : ) केयूर( वणकोडू ? कटकोज्ज्वलाः) ॥ ३६ ॥ धनु ( : ) पताका मुष्टिश्च तर्जनी तु प्रसारि(का?ता) । खेटकं ताम्रचूडश्च वामहस्तेषु शस्यते ॥ ४० ॥ [ इति द्वादशभुजः ] द्विभुजस्य करे शक्तिर्वामे ( स्या?ऽन्यः ) कुक्कुटोपरि । [ इति द्विभुजः ] चतुर्भुजे शक्तिपा( शो? शौ ) वामतो दक्षिणे ( च सः ? त्वसिः ) ॥ ४१ ॥ वरदोऽभयदो वा(पी?पि) दक्षि(णे स्या?णः स्यात् ) तुरीयकः । [ इति चतुर्भुजः ] कार्त्तिकेय( मयं?मिमं ) शुभ्रं कर्त्तव्यं सर्वकामदम् ॥ ४२ ॥ इति कार्त्तिकेयः । स्थानीये इति स्थितियोग्ये खेटनगरे कर्षकग्रामे इत्यर्थः । ३८ । खर्बटे क्षुद्रनगरे । रूपमण्डने— चतुर्भुजः कर्पटे स्याद् वने ग्रामे द्विबाहुकः । दक्षिणे शक्तिपाशश्च खड्गं पाशं त्रिशूलकम् ॥ इति ( अ० ६, श्लो० २८ ) । ४१ । वामे करे शक्तिरन्यः करः कुक्कुटोपरीत्यन्वयः । ४२ । तुरीयक इत्यत्र तुरीकमिति रूपमण्डने प्रामादिकः पाठः । देवता—२०

. Wait, could it be त्त्वू? No, look at the shape: it is identical to र्++! Wait, let's look at (रू?र्वू): Yes! रूandर्वू! Wait, or is it (रू?तू)? No, there is clearly a repha or something above it. Wait, let's look at the loop: is it ? Yes, like inसर्वा. And underneath is the stroke. So it is(रू?र्वू)`!

  1. Let's check line 8-10 (Verse 46):
    • Line 8: मृणालयु(ग्मे ?ग्मैः) लीलया च लीला स्यात् पद्मपुस्तकैः । Wait, look at मृणालयु(ग्मे ?ग्मैः): Inside parenthesis: First: ग्मे Then: ? Second: ग्मैः Let's check footnote 46: `४६ । मृणालयुग्मैरिति हस्तयोर्युग्मं युग्मं मृणालमित्यर्थः, 'पद्म युग्मे' इति रूपमण्डने पाठः । 'पद्मपुस्तकैरि'ति बहुवचनमविवक्षितम्, एव

अष्टमोऽध्यायः १५५ (अदौ ? आदौ) तत्र(१) महालक्ष्मी(२) (न ? नं)न्दा (३)क्षेमकरी तथा। (४)सर्वती (५) महरण्डा च (६) श्रमणी (७)सर्वमङ्गला ॥ ४८ ॥ (८)रेवती (६)हरसिद्धिश्च नवदुर्गाभिधानकम् । [ इति नवदुर्गानामानि ] (पृथुमे ? पृथगे) कैकस्यानुक्रमं कथयिष्याम्यनुक्रमात् ॥४६॥ वरदं त्रिशूलं खेटं पानपात्रञ्च बिभ्रती । नागनीलकण्ठमध्ये महालक्ष्मी(:) प्रकीर्त्तिता ॥ ५० ॥ [ इति महालक्ष्मीः ] अक्षसूत्रं खड्गखेटं पानपात्रं तथोत्तमम् । नन्दा नाम (संख्या ? समाख्या)ता पूज्यते नन्दहेतवे ॥ ५१ ॥ [ इति नन्दा ] वर(दं ?) त्रिशूलं पद्मं च पानपात्रं विधृत् करै । क्षेमङ्करी तथा नाम क्षेमारोग्यप्रदायिनी ॥ ५२ ॥ [ इति क्षेमङ्करी ] कमण्डलुं चक्रखेटं पानपात्रं तथोत्तरे । सर्वती च तदा नाम ( सर्वकृष्ट ? ) प्रदायिनी ॥ ५३ ॥ [ इति सर्वती ] खड्गं तथा त्रिशूलं च घण्टापात्रं तथोन्नतम् । महरण्डा (तथोन्नाम ? तथा नाम) वन्दिता विदशैरपि ॥५४॥ [ इति महरण्डा ] ४८ । 'क्षेमकरी'त्यत्र 'क्षेमङ्करी'ति लक्षणनिरूपणवेलायाम् । ४९ । अनुक्रमं क्रमेण एकैकस्याः कथयिष्यामि लक्षणमिति शेषः । ५० । नागनीलकण्ठयोरुपादानप्रयोजनमनुसन्धेयम् ।

१५६ देवतामूर्त्तिप्रकरणम् खड्गं डमरुखेटपाशं बिभ्रती च करोत्तमैः । भ्रामणी च तदा नाम भ्रामयेद् दुष्टचेतसः ॥ ५५ ॥ [ इति भ्रामणी ] अब्जशूलं तथा वज्रं घण्टापालं तथोत्तमम् । सर्वमङ्ग(ल ? ला) मङ्गल्या सर्वविघ्नविनाशिनी ॥ ५६ ॥ [ इति सर्वमङ्गला ] दण्डत्रिशूलं खट्वाङ्गं पानपालं च बिभ्रती । रेवती च तदा नाम सर्वशान्तिप्रदायिनी ॥ ५७ ॥ [ इति रेवती ] कमण्डलुं खड्गडमरुं पानपालं तथा शुभम् । हरसिद्धिस्तदा नाम सर्वस्य सिद्धिहेतवे ॥ ५८ ॥ [ इति हरसिद्धिः ] इति नवदुर्गाः । क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः । कर्त्तिकां डमरुं बिभ्रद्दक्षिणे तु करद्वये ॥ ५६ ॥ वामे शूलं कपालं च मुण्डमालोपवीतकः । करोटि(नी ? नि)करोदारमालाग्रन्थिशेखरः ॥ ६० ॥ इति क्षेत्रपालः । ५५। उद्देशश्लोके 'भ्रमणी'ति वर्त्तते अत्र च भ्रामणीति दृश्यते, कतरदेतयोः परिवर्त्तन- मर्हतीत्यनिश्चिन्वद्भिरस्माभिः क्वापि न व्यापारितो हस्तः, परं प्रथमपरित्यागे मानाभावं मन्यमानैः पुष्पिकायां 'भ्रमणी'ति विहितम् । ५९-६०। क्षेत्रपालं लक्षयति—क्षेत्रपाल इति। शिल्परत्नेऽधमादौ सात्त्विकादिभेदेन त्रिधा भिद्यते सात्त्विकश्च द्विभुजचतुर्भुजत्वेन पुनर्द्विधेति साकल्येन चतुर्विधः । रूपमण्डने पुनरेक एव चतुर्भुजः । तथाच— क्षेत्रपालो विधातव्यो दिग्वासा घण्टभूषितः ॥ ( कार्त्तिकां ? कर्त्तिकां ) डमरुं बिभ्रद्दक्षिणे तु करद्वये । वामे शूलं कपालञ्च मुण्डमालोपवीतकम् । करोति(?)कटितोदारसर्पग्रन्थिशेखरः ॥ इति (अ० ५, श्लो० ७४-७५) ।

अष्टमोऽध्यायः १५७ अथातः संप्रवक्ष्यामि (मात ? मातृ)रूपाणि ते (जया ? जय) । तत्र ब्राह्मी चतुर्वक्त्रा (पाठ ? षड्)भुजा हंससंस्थिता ॥ ६१ ॥ पिङ्गलीभूषणोपेता मृगचर्मोत्तरीयका । वरं सूत्रं कजं धत्ते दक्षबाहुत्रये क्रमात् ॥ ६२ ॥ वामेषु पुस्तकं (कुण्डी ? कुण्डीं) बिभ्र(त्तीं ? ती) चाभयप्रदा । [ इति ब्राह्मी ] माहेश्वरी वृषारूढा पञ्चवक्त्रा त्रिलोचना ॥ ६३ ॥ बालेन्दुभृज्जटाजूटसुशोभा सर्वसौख्यदा । षड्भुजा ( दर ? वर )दा दक्षे सूत्रं डमरुकं तथा ॥ ६४ ॥ शूलं घण्टाभयं वामे सैव धत्ते महाभुजा । [ इति माहेश्वरी ] कौमारी रक्तवर्णा स्यात् षड्वक्त्रा सार्कलोचना ॥ ६५ ॥ रविबाहुर्मयूरस्था वरदा शक्तिधारिणी । पताका बिभ्रती दण्डं (पानं ? पाशं) बाणञ्च दक्षिणे ॥ ६६ ॥


करोतीति । करोटिनिकरेण ललाटास्थिसमूहेन ग्रथिता या उद्दारा महती माला तया ग्रन्थितः शेखरः शिरस्यकेशजूटो यस्य सः । अयमेव पाठः साधीयानिति प्रतिभाति, शिल्परत्ने (उ० अ० २५, श्लो० १०८) 'नानानागविभूषितत्व'स्योक्तत्वेऽपि रूपमण्डनीयपाठश्चिन्त्य एव । ६१ । इदानीं सप्त मातृर्लक्षयति—अथात इति । 'जय' इति विश्वकर्मणोऽन्यतममानस- पुत्रस्य नाम । शिल्पशास्त्रस्य प्रवक्ता विश्वकर्मा बोद्धव्यश्च तत्पुत्रेष्वन्यतमो जयो नामेति प्रसिद्धिरिति युज्यत एव तत्सम्बोधनम् । ६२ । पिङ्गली सुवर्णम् । कजं पद्मम् । दूरभिन्नमेवास्य लक्षणं शिल्परत्न- (उ० अ० २५, श्लो० ७६) रूपमण्डनयोः (अ० ९, श्लो० ६१-६३) । तयोरियं चतुर्भुजा । ६३ । इयमपि चतुर्भुजा शिल्परत्नरूपमण्डनयोः । ६५ । सार्कलोचनेति । सा अर्कलोचनेति च्छेदः, अर्कलोचना द्वादशनेत्रा । यद्वा, अर्कलोचनैः सह वर्त्तमानेति विग्रहः । रविबाहुर्द्वादशभुजा । इयमपि शिल्परत्न-रूपमण्डनयो- ऋतुर्भुजा ।