साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
द्वितीयः परिच्छेदः । ७१ बोधिका तात्पर्य नाम वृत्तिः । १ तदर्थश्च तात्पर्यार्थः । तद्बोधकं च वाक्यमित्यभिहितान्वयवादिनां मतम् ॥ इति साहित्यदर्पणे वाक्यस्वरूपनिरूपणो नाम द्वितीयः परिच्छेदः । अत्र मूलकारिका = २० । पूर्वानि. सह २३ । उदाहरणश्लोका = ९ । पूर्वैः सह १५ । अन्विताभिधानवादिनो मीमांसकगुरवस्तु—'क्रियाकारकयोः प्रथमत एवान्व- यबोधो जायते, ततः शक्तिग्रहः, पदविशेषसन्निहारात्तु विशेषस्मृतिरिति । किं तात्पर्याख्यवृत्तिस्वीकारेण' इत्याहुः ॥ इति श्रीरामचरणतर्कवागीशभट्टाचार्यविरचितायां साहित्यदर्पणविवृतौ द्वितीय प्रकाश । १. अभिहितेति । अभिहितानां स्वस्ववृत्त्या पदैरुपस्थितानामर्थानामान्वय इति ये वदन्ति तेऽभिहितान्वयवादिन इत्यन्वर्थमभिधानम् ॥ २ अन्वितेति । पदान्यन्वितानि भूत्वानन्तरं विशिष्टमर्थं बोधयन्तीति ये वदन्ति तेऽन्विताभिधानवादिन इत्यन्वर्थं नाम ॥ १. 'तदर्थं च तात्पर्यार्थ' घ
७८ साहित्यदर्पणे . 'रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते' । इत्युक्तप्रकारो बाह्य- मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विभावादिरत्यादिप्रकाशसुखचमत्कारात्मकः । अत्र हेतुं वक्ष्यामः स्वप्रकाशत्वाद्यपि वक्ष्यमाणरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः । तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीम- न्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे— 'रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥' इति । चमत्कारसारः । स्वाकारवदिति । यथा स्वस्माद्भिन्नोऽपि देहोऽहं स्थूल इत्यादि- भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञानभेदोल्लेखाभावेनास्वाद्यत इत्यर्थः । घटादिज्ञाने जाते वेद्मीति यथा ज्ञातृज्ञानभेदः प्रतीयते तथात्र नेति भावः । यद्वा स्वाकारवत्स्वविषयवत् । परिणामवादिभिर्ज्ञानज्ञेययोर्भेदानीकारादिति भावः । कामलोभादिबीजभूतौ मनोदोषौ रजस्तमसी, ताभ्यामस्पृष्टं स्वकार्यजननेऽसंसृष्टं मनो मनोधर्मः । विवृणोति—इत्युक्त इति । उक्तस्वरूप इत्यर्थः । बाह्यं बहि- र्भवम् । लौकिकमिति यावत् । मेयं वस्तु । विमुखता ज्ञानानुकूलव्यापाराभावः । तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापारश्चात्र दृङ्मनोयोगः । अभिभूय स्वका- र्याक्षमे कृत्वा । आविर्भावः प्रतिबन्धकाभावेन स्वकार्यक्षमत्वेनावस्थानम् । तस्य सत्त्वोद्रेके । अलौकिको यः काव्यार्थो विभावादिः तस्य परिशीलनमसन्नाभि- निवेशः । प्रकाशः संवित् । ननु मिलिता विभावादयो रसस्तत्कथमस्याखण्डत्वमत आह—अत्रेति । अखण्डतायामित्यर्थः । हेतुमिति । समुद्राल्लम्बनज्ञानादान्म्यमेव हेतुर्वक्ष्यते । स्वप्रकाशत्वाद्यपीत्यादिना सुखनादान्त्यपरिग्रहः । स्वरूपार्थ इति । न त्वन्नमयो यज्ञ इतिवत्प्राचुर्यार्थे । लोकातीतार्थाकलनेन किमेतदिति तन्मयतयार्जनेन चित्तस्य दीर्घप्रायत्वं विस्तारः । दृष्टहेतुभ्योऽप्रभवित्वज्ञानेन हेत्वन्वेषणे मनोव्यापारमेव चित्तविस्तार इत्यपरे । विस्मयो विस्मयशब्देन गृह्यमाणो वस्तुचमत्कार उच्यते सः । यद्वा अपरपर्यायोऽभिन्नः । तत्प्राणत्वं चमत्कारसारत्वम् । रस विभावः । सर्वत्र शृङ्गारादौ । चमत्कारसारत्वे १ 'इत्युक्तप्रकारत्वात्' ग. म. २ इदं पदं ख. पुस्तके नास्ति ३ 'अस्य' ग. ४ 'यद्वा' इति नास्ति ख. पुस्तके ५ 'अत्र इति नास्ति पुस्तकान्तरे ६ 'प्रकृष्ट'
७९ तृतीयः परिच्छेदः । कैश्चिदिति प्राक्तनपुण्यशालिभिः । यदुक्तम्- 'पुण्यवन्तः प्रमिण्वन्ति योगिवद्रमसन्ततिम् ।' इति । यद्यपि 'स्वादः काव्यार्थसभेदाद्वात्मानन्दसमुद्भवः ।' इत्युक्तदिशा रसास्वादनातिरिक्तत्वम्, तथापि 'रसः स्वाद्यते' इति काल्पनिकं भेदमुरीकृत्य कर्मकर्तरि वा प्रयोगः । तदुक्तम्- 'रस्यमानतामात्रा- त्स्वात्मकाशरीरादनन्य एव हि रस' इति । एवमन्यत्राप्येवंविध- स्थलेषूपचारेण प्रयोगो ज्ञेयः । नन्वेतावता रसस्याज्ञेयत्वमुक्तं भवति । व्यञ्जनाव्यापारविष- यत्वाद् द्वयोरेक्यमापतितम् । तत्तश्च-
वक्तव्यस्येत्याद्यन्वये । रस्यास्वादयोर्भेदमाशंक्याह- सूक्ष्मदृष्टेति यद्यद्यपि स्वादोऽस्तितन्मूलकश्च व्यङ्ग्यः स न रसः । इति प्राक्तनेति । ऐतिह्यमुच्चार्योत्तरे दृष्टान्तमाह-पुण्येति । श्लोकेन रसो दर्शितः । यद्यपीति । काव्यार्थभेदात्प्रतिपादितः । रसो ऽपि, आत्मानन्दं प्रति नो गृह्यते तथा काल्पनिकभेदविशिष्ट- म्भवेपि इति । प्रयोग इति कर्मकर्तरि वा । काल्पनिकभेदविशिष्ट- रस एव । रस्यास्वादयो भेदन नोपपद्यते भेदप्राप्त्यावेव प्रयोगो- ऽयं । तत्र प्रमाणमाह-रस्यमानेति-कर्मकर्तरि वेति । स्वात्म- कादिति प्रतीतेराद्यन्तशून्य एव रसः । तस्मात् स्वात्मका- रस्यमानतेति । सात्मकात् प्रतीतेराद्यन्तशून्य एव रसः प्रतीतिराद्यन्तशून्यात् । प्रभाशरीरात् व्यतिरिक्तो रसः । एव रसत्वे नास्ति तस्मादुच्यते कर्मकर्तरि वेति । द्विगुणादिके समानाधिकरणे प्रयोगः । न्यूनार्थाद्वा ज्ञेयः । नन्वेतावता रसस्यैवाज्ञेयत्वमुक्तम् । रसस्यैवेति भावः । रसास्वादयोर्भेदमाशङ्क्याह-व्यञ्जनाव्यापारेति । आक्षेपं वारयति-द्वयोरिति । प्रतिपाद्योऽपि । रसेनैवेत्यर्थेति ।
९८ साहित्यदर्पणे अथ धीरोद्धतः— मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥ यथा—भीमसेनादिः । अथ धीरललितः— निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः— सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥ यथा—मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह— एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा । तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड- शप्रकारो नायकः । एषु त्वनेकमहिलासमुरागो दक्षिणः कथितः ॥ ३५ ॥ द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा— स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु- र्द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च । अहंकारः अह महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र- चण्डचरित. ॥ सामान्यगुणैर्नायकसामान्यगुणै. । धीरोदात्तादित्रितयभिन्नो नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति । शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता ऋतुस्नाता । वार सुरतार्थ नियमितदिवस । जिता जयेनात्मसुरतार्थ प्राप्ता । देवी कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यनिश्चयेन मूढं व्याकुलम्
- एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धत, दक्षिणधीरललितः, दक्षिणधीर- प्रशान्तः, एव धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥ १ ग पुस्तके 'कला नृत्यादिका यथा' नास्ति, घ पुस्तके तु 'यथा रत्नावल्यां' इति पाठ. २ 'धीरप्रशान्त' ३ 'महत्सु' घ. ४ 'नायिकासु' इति घ पुस्तके नास्ति. ५ 'नायक' इति नास्ति ग पुस्तके
तृतीयः परिच्छेदः । इत्यन्तःपुरसुन्दरीः प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्तिमूढमनसा द्वित्राः स्थितं नाडिकाः ॥ कृतागा अपि निःशङ्कस्तर्जितोऽपि न लज्जितः । दृष्टदोषोऽपि मिथ्यावाक्कथितो धृष्टनायकः ॥ ३६ ॥ यथा मम— शोणं वीक्ष्य मुखं विचुम्बितुमहं यातः समीपं, ततः पादेन प्रहृतं तया, सपदि तं धृत्वा सहासे मयि । किञ्चित्तत्र विधातुमक्षमतया वाष्पं सृजन्त्याः सखे ध्यातश्चेतसि कौतुकं वितनुते कोपोऽपि वामभ्रुवः ॥ अनुकूल एकनिरतः— ऐकस्यामेव नायिकायामासक्तोऽनुकूलनायकः । यथा— अस्माकं सखि वाससी न रुचिरे, ग्रैवेयकं नोज्ज्वलं, नो वक्रा गति, रुद्धतं न हसितं, नैवास्ति कश्चिन्मदः । किंत्वन्येऽपि जना वदन्ति सुभगोऽप्यस्याः प्रियो नान्यतो दृष्टिं निक्षिपतीति विश्वमियता मन्यामहे दुःस्थितम् ॥ अप्राप्तिनिश्चयशून्यं वा मनो यस्य तेन ॥ कृतागाः कृतापराध । मिथ्यावाक् मयै- तन्न कृतमित्ययथार्थवचन ॥ तं पादम् । अत्र प्रथमपादेन कारिकाया प्रथमपा- दोक्तं द्वितीयपादेन द्वितीयपादोक्तं लक्षणं वेदितव्यम् ॥ अस्माकमिति । कस्या- श्चिन्नायिकाया उक्तिरियम् । ग्रैवेयकं कण्ठभूषणम् । वक्रा चित्रा । उद्धतमुत्कटम् । १. इतीति । इति अन्तःपुरसुन्दरीः प्रति विज्ञाय यन्मया यद् वक्तव्यं तदवगम्य मया विज्ञापिते विदित्य निवेदिते सति । एतदुक्तं भवति—ऋतुस्नातैव तावदनपेक्षणीया किमुत कुन्तलमहाराजतनया, साधारणोऽपि समयो दुर्लङ्घ्यः किमुताद्यनाथस्यसन्निहितन्या- यागतसमागमसमय., सामान्येऽपि जये परनवता किमुत कमलाललामकमलाप्रयुक्ते । एवमुत्तरोत्तराधिककार्यसंपानेऽपि महाराज्ञाः प्रसादनं तावत्सर्वोपरीति रहस्यम् ॥ २. नाडिका इति । अत्यन्तसंयोगे द्वितीया ॥ ३. 'वक्त्रं वीक्ष्य चुम्बितुमर्' इति साधीयान् पाठः ॥ १. ग-पुस्तके तु 'इत्थं सान्द्रविलेपनस्तनुभृतोऽप्युत्थातुमप्यक्षमः सान्द्रस्नेहमहानिधिर्व्यथयते नोन्माद्यते । रक्षन्ते न परिक्षतीर्यत इतो नान्तर्बहिर्व्यापिना संविष्टा रमणेन तन्मुखवलादाज्ञा च तद्दिद्यतम्' इति परमोदाहरणं दृश्यते २. 'एकस्या-' इति पठितं ग-पुस्तके ३ 'इत्यवे' इत्यधिकं ङ-पुस्तके.
१०२ साहित्यदर्पणे अर्थचिन्तने सहायमाह— मन्त्री स्यादर्थानां चिन्तायां— अर्थास्तन्त्रावापादयः। यत्त्वत्र सहायकथनप्रस्तावे— 'मन्त्री स्वं चोभयं वापि सखा तस्यार्थचिन्तने' इति केनचिल्लक्षणं कृतम्, तदपि राज्ञोऽर्थचिन्तनोपायलक्षणप्रकरणे लक्षयितव्यम्, न तु सहायकथनप्र- करणे । १ नायकस्यार्थचिन्तने मन्त्री सहायः, इत्युक्तेऽपि नायकस्यार्थत एव सिद्धत्वात् । यदप्युक्तम्— 'मन्त्रिणा ललितः शेषा मन्त्रिष्वायत्त- सिद्धयः' इति, तदपि स्वलक्षणकथनेनैव लक्षितस्य धीरललितस्य मन्त्रि- मात्रायत्तार्थचिन्तनॊपपत्तेर्गतार्थम् । न चार्थचिन्तने तस्य मन्त्री सहायः । किं तु स्वयमेव सम्पादकः । तस्यार्थचिन्तनाद्यभावात् । शरीरचेष्टाविशेष इत्यर्थः ॥ मन्त्रीति । अस्य इति सहायः इति चानुपज्यते । चिन्तायामुपायनिरूपणे । स्वमण्डले क्रियमाणं कर्म तन्त्रम् । परमण्डले क्रियमाणं कर्म आवाप । आदिना शत्रुनिग्रहादय । यत्त्विति । स्वं चेति चकारो वार्थ । उभयं मन्त्रिसद्वयम् । तस्य नायकस्य । सहायकथनपरत्वे दोषमाह—नायक- स्येति । एवं च स्वं चेत्यादि निरर्थकम् । तदनुपादानेऽपि तल्लाभात् । स्वयं चिन्तापक्षे स्वस्य सहकारिरूपसहायत्वानुपपत्तेरुभयचिन्ताया कारणान्तरप्रसङ्गा- च्चेति भाव । सरिशब्दस्योपायार्थत्वम्, न तु सहायपरत्वमित्यवगन्तव्यम् । मन्त्रिणेति । आयत्तसिद्धिरित्यन्वय । ललितो धीरललित । शेषा धीरोदात्तादयः । स्वलक्षणेति । चिन्तन इति । धीरललितलक्षणनिविष्टेन तस्यार्थचिन्तनाद्यभाव । तेन च मन्त्रिमात्रायत्तार्थसिद्धिकत्वं प्रतीयत इति भाव । तस्य धीरललि- १. तन्त्रेति । तन्त्रण तन्त्रम् । स्वाधीनत्वात्स्वराष्ट्रे क्रियमाण कर्मापि तन्त्रशब्देनो- च्यते । आ समन्ताद् वपन्ति इतिकर्तव्यताबीजमत्रेत्यावापः । 'डुपव् बीजतन्तुसन्ताने' 'हुलश्च' इति घञ् । 'पर प्रत्यावाप फलति कृतसेकस्तुरुरिव' इति ॥ २. केनचिदिति । दशरूपके धनञ्जयेनेत्यर्थः । तत्राय सुगमः सदंर्भः—अथ नेतुः कार्यान्तरसहायानाह—'मन्त्रौ स्व वोभय वापि सखा तस्यार्थचिन्तने । तस्य नेतुः अर्थचिन्ताया तन्त्रावापादिलक्षणाया मन्त्री वा आत्मा वा उभय वा सहायः। तत्र विभागमाह—'मन्त्रिणा ललित , शेषा मन्त्रिष्वायत्तसिद्धय. ।' उक्तलक्षणो ललितो नेता मन्त्रायत्तसिद्धि. । शेषा धीरोदात्तादय अनियमेन मन्त्रिणा स्वेन वा उभयेन वा अङ्गी- कृतसिद्धय इति ॥ १ क पुस्तके तथा मुद्रितपुस्तकेषु 'मन्त्री स्यादर्थाना चिन्ताया तद्भवदवरोधे ।' इत्यार्धं रथो ने 'मन्त्री स्यादर्थचिन्तायामर्थास्तन्त्रावापादय ।' इत्येवमउष्ट्रपुरूपतत्र प्राप्तितम् 'तथा नि खण्डे गद्ये योजितम् २ 'तस्योभयस्यापि' क.
तृतीयः परिच्छेदः । १०३ अथान्तःपुरसहायाः— तद्वदवरोधे । वामनषण्ढकिरातम्लेच्छाभीराः शकारकुब्जाद्याः ॥ ४३ ॥ मदमूर्खताभिमानी दुष्कुलतैश्वर्यसंयुक्तः । सोऽयमनूढाभ्राता राज्ञः श्यालः शकार इत्युक्तः ॥ ४४ ॥ आद्यशब्दान्मूकादयः । तत्र षण्ढवामनकिरातकुब्जादयो यथा रत्नावल्याम्— नष्टं वर्षवरैर्मनुष्यगणनाभावादपास्य त्रपा- मन्तःकञ्चुकिकञ्चुकस्य विशति त्रासादयं वामनः । पर्यन्ताश्रयिभिर्निजस्य सदृशं नाम्नः किरातैः कृतं कुब्जा नीचतयैव यान्ति शनकैरात्मेक्षणाशङ्किनः ॥ शकारो मृच्छकटिकादिषु प्रसिद्धः । अन्येऽपि यथादर्शनं ज्ञातव्याः । अथ दण्डसहायाः— दण्डे सुहृत्कुमाराटविकाः सामन्तसैनिकाद्याश्च । दुष्टनिग्रहो दण्डः । स्पष्टम् । ऋत्विक्पुरोधसः स्युर्ब्रह्मविदस्तपसस्तथा धर्मे ॥ ४५ ॥ ल्ल । सयमेव सहदेव निष्पादकः प्रधानकारणम् ॥ तद्वदिति । अवरोधेऽन्तः- पुरे । वामनादयो नायकस्य सहाया इत्यर्थः । शष्टारिष्टनोपस्य क्लीबो वा । शरा- र्त्थाह—मदेति । मदमूर्खताभ्यामभिमानी अहं महानिति ज्ञानवान् । मदा- दित्यर्थवान् वा ॥ नष्टमिति । वानरवेषेणान्तःपुरप्रविष्टं विदूषकमवलोक्य भये- नान्तःपुरस्थानां पलायनवर्णनमिदम् । नष्टमदर्शनतां प्राप्तम् । वर्षवरैः षण्ढैः । 'सौविदल्लाः कञ्चुकिन' इत्यमरः । किर पर्यन्तदेशमटतीति किरात इति नाम्नोऽन्वया- च्चस्थानस्य सदृशं योग्यं पर्यन्तदेशं प्राप्त इत्यर्थः ॥ मृच्छकटिका नाटिकाविशेषः । अन्ये म्लेच्छाभीरादयः । आटविका दण्डायिनः ॥ ऋत्विगिति । धर्मे धर्मसंबन्धि- १. दण्डेति । राज्ञो दण्डसंसाधको दण्डः । 'दण्डः समासे' । इति । मूर्- र्खविद् राजसंबन्धिः । तत्र राज्ञोऽनुचरस्य बहुत्वात्कृतं यतोऽपत्यं नाशं गच्छेत् । सार्थे संचरं स्थानान्तेऽस्तु । 'ये सामन्ताः, कुमाराः, सैनिकाः कौटिकादितः । स वा न दृष्टा कार्येषु ते हि संविदः स्मृताः ।' इति शास्त्रान्तरे दर्शितोऽप्यनादृतो २. मृच्छेति । शूद्रकविरचितं नाटकविशेष इत्युचितम् ॥
१०६ साहित्यदर्पणे अथ विलासः- धीरा दृष्टिर्गतिश्चित्रा विलासे सस्मितं वचः । यथा- दृष्टिस्तृणीकृतजगत्त्रयसत्त्वसारा धीरोद्धता नमयतीव गतिर्धरित्रीम् । कौमारकेऽपि गिरिवद्गुरुतां दधानो वीरो रसः किमयेत्युत दर्प एव ॥ संक्षोभेष्वप्यनुद्वेगो माधुर्यं परिकीर्तितम् ॥ ५२ ॥ ऊह्यमुदाहरणम् । भीशोकक्रोधहर्षाद्यैर्गाम्भीर्यं निर्विकारता । यथा- आहूतस्याभिषेकाय विसृष्टस्य वनाय च । न मया लक्षितस्तस्य स्वल्पोऽप्याकारविभ्रमः ॥ व्यवसायादचलनं धैर्यं विघ्ने महत्यपि ॥ ५३ ॥ यथा- श्रुताप्सरोगीतिरपि क्षणेऽस्मिन्हरः प्रसंख्यानपरो बभूव । आत्मेश्वराणां नहि जातु विघ्नाः समाधिभेदप्रभवो भवन्ति ॥ अधिक्षेपापमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ॥ ५४ ॥ तादि ॥ तृणीकृतौ तुच्छीकृतौ जगत्त्रयस्य सत्त्वमुत्साह सारो बलं च यया सा । धीरा मन्थरा । उद्धता उद्भटा च । एतेन गतेश्चित्रत्वं नैकरूपत्वं च । अत्र नाय- कस्य उत्साहदर्पयोरतिशयसूचनाय वीररसत्वेन दर्पत्वेन चोल्लेख ॥ ऊह्यमुदाह- रणमिति । यथा मम रामविलासे- 'तन्निपीय कटु कर्णपदव्या खेदमाप न मनागपि राम । शूलपाणिरिव घोरमुदग्रं कालकूटपटलं किल पूर्वम् ॥' तस्य श्रीरामस्य । आकारो मुखनेत्रादि तस्य विभ्रमो वैपरीत्यं येन हर्षशोकादयो लक्ष्यन्ते ॥ व्यवसायात् प्रारब्धकर्मण । अचलनम् अप्रच्यवनम् ॥ प्रसं- ख्यानपरो योगनिष्ठ । आत्मेश्वराणा मनोरोधक्षमाणांम् ॥ अधिक्षेपो
- अस्मिन्निति । अस्मिन्क्षणे वसन्ताविर्भावसमये ॥ घ. ३. 'तस्य-' इत्यादि लक्ष्य'ते' इत्यन्त पाठो टि 'मनोनिरोधक्षमागाम्' इत्यादाग्रे ५०
तृतीयः परिच्छेदः । १०७ वाग्वेषयोर्मधुरता तद्वच्छृङ्गारचेष्टितं ललितम् । दानं सप्रियभाषणमौदार्यं शत्रुमित्रयोः समता ॥ ५५ ॥ एषामुदाहरणान्यूह्यानि । अथ नायिका त्रिभेदा स्वान्या साधारणस्त्रीति । नायकसामान्यगुणैर्भवति यथासंभवैर्युक्ता ॥ ५६ ॥ नायिका पुनर्नायकसामान्यगुणैस्त्यागादिभिर्यथासंभवैर्युक्ता भवति । सा च स्वकी अन्यस्त्री साधारणस्त्रीति त्रिविधा । तत्र स्वकी— विनयार्जवादियुक्ता गृहकर्मपरा पतिव्रता स्वीया । यथा— लज्जापञ्जरपसाहणोइ परभत्तिणिप्पिदामारं । अविणअदुम्मेधाई धणगाण घरे अलत्ताइ ॥ नर्मन्नम् । अपमान पराभव । अरिना अपर. तरि । प्रयुक्तव्य दृश्य । परेण नहणा ॥ उदाहरण यथा रामनिती— निरपरररदोहन... कृत्वा त्रिदिवेरितलोचनन्युत्योनरुचिरकृतम् । वृत्त तस्य हस्तहृत्तपटि तेजोवराहस्त नेत्रान्तेन विदार्य ... प्रोचे दय राघव ।' विरन्वक- सन्तं एरदोटयात्र यस्य तम् । तस्य गदादस्य । अहं गच्छन् । तद्गच्छ- ... । ललितं पार्थगौरवार्थे यत्र—'दीक्ष तस्य रुचि प्रतेश शूषणस्य मधुर च भवितम् । सप्रसादमदस्य चित्र हरणस्य सप्रक्ति दृष्टम् ।', 'दत्ते गहावदने सप्रियवदन च नूपुर । द्विचि तस्ये यत्र निशितस... जरा रक्षन् ।' स्वा स्वीय । अन्या परन ... । साधारणी सर्वलोक- वेश्या । 'स्त्री इति स्वरूपोक्तेः, यथासंभवैरिति । हेतुकर्मगुणैर्युक्ता नायिकाया न वर्तन्ते । अत एव कुलाङ्गने नायके नासिका तुष... ... । तत्रेति । 'राजा' इत्युपलक्षणम् ...
२. तृतीय परिच्छेद: रस-निरूपण, भाव व विभाव
१२० साहित्यदर्पणे पुनश्च— अवस्थाभिर्भवन्त्यष्टावेताः षोडशभेदिताः । स्वाधीनभर्तृका तद्वत्खण्डिताथाभिसारिका ॥ ७२ ॥ कलहान्तरिता विप्रलब्धा प्रोषितभर्तृका । अन्या वासकसज्जा स्याद्विरहोत्कण्ठिता तथा ॥ ७३ ॥ तत्र— कान्तो रतिगुणाकृष्टो न जहाति यदन्तिकम् । विचित्रविभ्रमासक्ता सा स्यात्स्वाधीनभर्तृका ॥ ७४ ॥ यथा—'अस्माकं रति वाससी—' इत्यादि (९०पृ.) । पार्श्वमेति प्रियो यस्या अन्यसंभोगचिह्नितः । सा खण्डितेति कथिता धीरैरीर्ष्याकषायिता ॥ ७५ ॥ यथा—'तद्वितथमवादीः—' इत्यादि (११३पृ.) । अभिसारयते कान्तं या मन्मथवशंवदा । स्वयं वाभिसरत्येषा धीरैरुक्ताभिसारिका ॥ ७६ ॥ उदाहरणम्— न च मेतिगच्छति यथा लघुतां, करुणां यथा च कुरुते न मयि । निपुणं तथैनमभिगम्य वदेर्गर्भद्रुतिं क्वचिद्दिनि संदिदिगे ॥ उच्छ्रिते कनकद्रणद्वयमिदं, बद्धा दृढं मेखला, दत्तेन प्रतिपादिता मुग्गरयोर्मङ्गीयोर्मूक्रता । .... । ईर्ष्याकषायिता ईर्ष्या कषायीकृताचित्ता ॥ अभिसारिकाया लक्षणं ........ सूत्रेण तद्व्याचष्टे—अभिसारयते इति ॥ न चेति । न ....... दूतं प्रति संदिष्टे कविः न्याख्यातं ॥ उच्छ्रि- ............................................................. ............................................................. ............................................................. ............................................................. ............................................................. ............................................................. ............................................................. ............................................................. .............................................................
तृतीयः परिच्छेदः । १२१ आरब्धे रससान्मया प्रियसखि क्रीडाभिसारोत्सवे, चण्डालस्तिमिरावगुण्ठनपटक्षेपं विधत्ते विधुः ॥’ संलीना स्वेषु गात्रेषु मूकीकृतविभूषणा । अवगुण्ठनसंवीता कुलजाभिसरेद्यदि ॥ ७७ ॥ विचित्रोज्ज्वलवेषा तु रणन्नूपुरकङ्कणा । प्रमोदस्तमेरवदना स्याद्वेश्याभिसरेद्यदि ॥ ७८ ॥ मदस्खलितसंलापा विभ्रमोत्फुल्लोचना । आविद्धगतिसंचारा स्यात्प्रेष्याभिसरेद्यदि ॥ ७९ ॥ तत्राद्ये ‘उत्क्षिप्तं—’इत्यादि (१२० पृ.) । अन्ययोरप्युदाहरणम् । प्रसङ्गादभिसारस्थानानि कथ्यन्ते— क्षेत्रं वाटी भग्नदेवालयो दूतीगृहं वनम् । मालापक्षः श्मशानं च नद्यादीनां तटी तथा ॥ ८० ॥ तम् ऊर्ध्वं न्यस्तम् । एतेन तयोः शब्दप्रतिरोधः । प्रतिपादिता दृशा । तिमिरमेव अवगुण्ठनपटं आच्छादनवस्त्रं तस्य क्षेपं निरासम् ॥ प्रसङ्गादभिसारलक्षणमाह— संलीनेति । गात्रेषु अङ्गेषु । सङ्कुचितसर्वाङ्गीत्यर्थः । अवगुण्ठनेन आच्छादनपटेन संवीता संवृतदेहा । एतदुपलक्षणम् । अनुचितरविनापि संवीता । तत्रान्धकारे नील- तत्तत्सदृशवस्त्रादिनासंवीता । ज्योत्स्नायां चन्दनाद्युपलीप्ता । उक्तेन यथा—‘लीनं यत्तमसि प्रियं वपुषि नीलोत्पलाभाम्बरं साटोपारवमद्य मन्दमपरं पादौ दधौ योषिताम् । व्योम परिवेदितं रजनिराज्या दुर्दिनः परं परमनुग्रहान् गतिं न रुद्धितः प्रेयसी ।’, ‘मदिरामोदगन्धेन सङ्केतगोऽनुविन्दन् । दीपोऽसौ न तरन्ते जोत्स्नावतारि- गतिम् ॥’ आविद्ध उद्धान्ता पद उद्भ्रान्तो यस्याः । ‘आविद्धगतिसञ्चारा’ इति पाठे आविद्धा उद्धान्ता गता सञ्चारः यस्येत्यन्यपदार्थस्य विशेषणं । आद्ये कुलजाभिसारप्रसङ्गे । अन्ययोरपि प्रेष्याभिसारप्रसङ्गयोः । तत्र ... तम् । यथा मम—‘दत्तेऽङ्गुष्ठेऽङ्गुष्ठे पुरे दर्शनं स्थिरतरकुटीकुसुमकेशे- र्भितः । अन्ये मुकुलितकुवलयदलैरम्भोभिर्नवाश्चित्तधृत इति यक्षः ।’, ‘अयं तवेशान-...-रभसनिर्भरम् । प्रसङ्गादेते विशेषण- नीनि सूच्यते प्रेक्षद् विभाव्यिते । अत्र ‘मन्दोऽयम्’ इति पाठाद् ‘अतीवोध्द्’ इति ... वाटीति । ... ... ... ...
१२६ साहित्यदर्पणे
'तव कितव किमाहितैर्वृथा नः क्षितिरुहपल्लवपुष्पकर्णपूरैः । ननु जनविदितैर्भवद्व्यलीकैश्चिरपरिपूरितमेव कर्णयुग्मम् ॥' 'मुहुरुपहसितामिवालिनादैर्वितरसि नः कलिकां किमर्थमेनाम् । वसतिमुपगतेन धाम्नि तस्याः शठ कलिरप महांस्त्वयाद्य दत्तः ॥' 'इति गदितवती रुषा जघान स्फुरितमनोरमपक्ष्मकेसरेण । श्रवणनियमितेन कान्तमन्त्या सममसिताम्बुरुहेण चक्षुषा च ॥' इयं हि वक्रोक्त्या परुषवचनेन कर्णोत्पलताडनेन च धीरमध्यताधी- रमध्यताधीरप्रगल्भताभिः संकीर्णा । एवमन्यत्राप्यूह्यम् । इतरा अप्यसंख्यास्ता नोक्ता विस्तरशङ्कया ॥ ८८ ॥ ता नायिकाः ।
पिवति पाति वेति व्युत्पत्तिद्वयेन सैव विटपा अयमपि विटप इति तुल्ययोर्योगो योग्यो भवतीत्यर्थः । भवद्व्यलीकैर्भवतोऽप्रियवचनै । स्फुरितो मनोरमः पक्ष्मवत्के- सरो यस्य तेन । चक्षु पक्षे—पक्ष्मैव केसरो यस्य तेन । वक्रोक्त्येति । विटश- ब्दस्य नानार्थकल्पनाविचित्रोक्त्येत्यर्थः ॥ इतरा अपि पद्मिनीहस्तिनीप्रभृतयः ॥ अमु विटान्पातीति विटपं पल्लवम् । 'विटपः पल्लवे पिङ्गे' इति विश्वः । ददस्व प्र- यच्छ । व्रज गच्छ । यतो दानाच्चिराय सदृशोरनुरूपयोर्योगो भवतु । उभयोरपि विटपत्वादिति भावः ॥ हे कितव धूर्त, वृथा व्यर्थमेवाहितैः । तत्कार्यस्यान्यथा- सिद्धत्वादिति भावः । तव सम्बन्धिभिः क्षितिरुहाणां पल्लवाः पुष्पाणि च तान्येव कर्णं पूरयन्तीति कर्णपूराः कर्णावतंसाः । तैरनोऽस्माकं किं तत्साध्यम् । न किंचिदस्ती- त्यर्थ । ननु अङ्ग, जनविदितैर्भवद्व्यलीकैस्तवाप्रियवचनैः कर्णयुग्मं चिरपरिपूरितं नित्यं पूर्णमेव । अतः पूरितस्य पूरणायोगादलमेभिरिति ॥ अलिनादैर्मुहुरुपहसिता प्रतारणा- येति प्रहस्यमानामिव स्थितामेनां कलिकां कोरकम्, अद्य कलिं कलहं च । 'कलहे च युगे कलिः' इति वैजयन्ती । स्त्रीप्रत्ययस्त्वविवक्षितः श्लेषे । नः अस्माकं किमर्थं वितरसि । हे शठ गूढविप्रियकारिन्, तस्याः त्वत्प्रियाया धाम्नि भवने वसतिं स्थितिमुपगतेन त्वया अद्यैव वर्तमानो महान् कलिः कलहो दत्तः । स्वदत्त एव महति कलौ स्थिते किं कृत्यन्तरेणेत्यर्थः ॥ इति गदितवती उक्तवती अन्या स्त्री रुषा कान्तं स्फुरितान्युज्ज्वलानि मनोरमाणि च पक्ष्माणीव केसराणि । अन्यत्र केसराणीव पक्ष्माणि, यस्य तेन श्रवणे नियमितेन श्रोत्रे निरुद्धेन असिताम्बुरुहेण नीलोत्पलेन चक्षुषा च समं युगपज्जघान ताडयामासेति ॥
- इतरा इति । तथा चोक्तम्—'पुनश्च तास्त्रिधा ज्ञेया दिव्यादिव्योभयात्मना । चतुर्धा चोद्धतोदात्ता ललिता शान्तिका तथा ॥ अक्षता च क्षता यातायाता यायावरेत्यपि ।
१ अयं श्लोकः क-ग-घ पुस्तके नास्ति, २ 'इतरा-' इति कारिकार्धं नास्ति ग पुस्तके.
तृतीयः परिच्छेदः । १३३ अथ विव्वोकः— विव्वोकस्त्वतिगर्वेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥ यथा— ‘यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा, याः प्राणान्वरमर्पयन्ति, न पुनः संपूर्णां दृष्टिं प्रिये । अत्यन्ताभिहितेऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥’ अथ किलिकिञ्चितम्— स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । सांकर्यं किलिकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥ यथा— ‘पाणिरोधमविरोधितवाञ्छं भर्त्सनाथ मधुरस्मितगर्भाः । कामिन स्म कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥’ यासामिति । कंचिन्मानिनं प्रति सख्युपगर्भवचनमिदम् । सद्गुणानुसरणे संद- र्शनायने दोषाणामनुवृत्तिः खय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि- रोधं दन्तक्षेपणादिरूपनानाप्रकारप्रतिबन्धम् । हारि मनोहरम् । करणं भिन्नम् ॥ १. प्राणानिति। गन्धरूपरसादिना न्यक्करणम्, न पुनः संपूर्णदृष्टिप्रिये । २ वस्तुनीति । गं ऽभ्यन्तरविषये ॥ ३ वामा इति । ङग देविषु । देवी प्रसूति शशिशेखरम चित्तवृत्तिभिरिति
१३२ साहित्यदर्पणे अथ विलासः— यानस्थानासनादीनां मुखनेत्रादिकर्मणाम् ॥ ९९ ॥ विशेषस्तु विलासः स्यादिष्टसंदर्शनादिना । यथा— 'अत्रान्तरे किमपि वाग्विभवातिवृत्त- वैचित्र्यमुल्लसितविभ्रममायताक्ष्याः । तद्भूरिसात्त्विकविकारमपास्तधैर्य- माचार्यकं विजयि मान्मथमाविरासीत् ॥' अथ विच्छित्तिः— स्तोकाप्याकल्परचना विच्छित्तिः कान्तिपोषकृत् । यथा— 'स्वच्छाम्भःस्नपनविधौतमङ्गमौष्ठ- स्ताम्बूलद्युतिविशदो विलासिनीनाम् । वासस्तु प्रतनु विविक्तमस्त्वितीया- नाकल्पो यदि कुसुमेषुना न शून्यः ॥' जूतो यस्या अस्तीति ॥ अत्रान्तरे नायकसंदर्शनादिसमये । वाग्विभवमतिवृत्तम- तिक्रम्य स्थितं वैचित्र्यं गमनादिचातुरी यस्मात्तत् । ते प्रसिद्धा भूरिसात्त्विकवि- काराः स्तम्भादयो यस्मात्तत् । आचार्यकमुपाध्यायकर्म । उपदेश इत्यर्थः ॥ स्तोका अल्पा आकल्परचना वेषविन्यासः । प्रतनु अतिसूक्ष्मम् । विविक्तं निर्मलम् ॥ महाकुलोत्पन्ना, कुलं स्वामिकुलममलं निष्कलङ्कम् । अयं मटक्षणो जनः न त्वेष स्थिरः, जीवितं च न स्थिरम् । अचिरावस्थायिनः शरीरस्य कृते मातृपितृभर्तृकुलकलङ्कनमभि- नरामनुचितमिति भावः ॥
- इतीति । इत्येवंरूपं स्यात् एतावानेव विलासिनीनामाकल्पो नेपथ्यमस्तु । किन्न्वन्तरित्यर्थः । यदि स कुसुमेषुना कामेन शून्यो न स्यात् । अन्यथा उद्विग्नितानामिव कनकभूषणादि नाप्यायत एवेति भावः ॥ १ 'प्रतन्वङ्गे विशेषस्तु विष्णोनेत्रादिकर्मणाम् २' इति ग. २. 'मोष्ठस्तम्बूलदीप्ति विच्छित्ति- १' इति ग. ३ 'कन्दिशो शैलप्रपातमधो गोगोवनागद्वेषिनिवारणे । यस्य वने ० ० ० ० च यदि दहनदोहः ३' इति ग.
तृतीयः परिच्छेदः । १३३ अथ विव्वोकः- विव्वोकस्त्वतिगर्नेण वस्तुनीष्टेऽप्यनादरः ॥ १०० ॥ यथा- 'यासां सत्यपि सद्गुणानुसरणे दोषानुवृत्तिः परा, याः प्राणान्वरसमर्पयन्ति, न पुनः संपूर्णदृष्टिं प्रिये । अत्यन्ताभिमतेऽपि वस्तुनि विधिर्यासां निषेधात्मक- स्तास्त्रैलोक्यविलक्षणप्रकृतयो वामाः प्रसीदन्तु ते ॥' अथ किलकिञ्चितम्- स्मितशुष्करुदितहसितत्रासक्रोधश्रमादीनाम् । सांकर्यं किलकिञ्चितमभीष्टतमसङ्गमादिजाद्धर्षात् ॥ १०१ ॥ यथा- 'पाणिरोधमविरोधितवाञ्छं भर्त्सनाश्च मधुरस्मितगर्भाः । कामिनः स कुरुते करभोरुर्हारि शुष्करुदितं च सुखेऽपि ॥' यासामिति । कंचित्कामिनं प्रति सख्याशीर्वचनमिदम् । सद्गुणानामनुसरणे परै- रुद्भावने दोषाणामनुवृत्तिः स्वय पुन पुनरुद्भावनम् ॥ सांकर्यं मेलनम् ॥ पाणि- रोधं वस्त्रक्षेपणादिप्रवृत्तनायककरप्रतिबन्धम् । हारि मनोहरम् । कारणं विना रुदितं १. प्राणानिति । मानत्रह्यस्त्वत्प्राणार्पणं तावत्सुकरम्, न पुनः संपूर्णदृष्ट्यर्पणम् ॥ २. वस्तुनीति । नीवीवसनादिरूपे ॥ ३. वामा इति । वामा योषितः । इष्टेपि वस्तुनि अनिष्टोद्भावन विलक्षणप्रकृतित्वे बीजम् । ४. पाणीति । करभोरुः स्त्री अविरोधितवाञ्छमनिवारितप्रियमनोरथं यथा तथा का- मिनः पाणिरोधं नीवीमोक्षणे व्यापृतस्य प्रियपाणेर्निवारणं कुरुते स्म । तथा मधुर सित गर्भे अन्तर्वर्ति यासु ता मन्दहासमिश्रा भर्त्सनास्तर्जनाश्च कुरुते स्म । तथा सुखेऽपि अधरपीड- १ 'गर्भाभिमानादिष्टेऽपि विव्वोकोऽनादरोऽनया । तथा वात्स्यायन - 'शोभाभ्यन्तारितैर्वैत्र यत्प्रिय- म्यवधीरणम् । ताटन वावर्त्तनेन यच्च रागायैव वर्धनम् ॥ निषेधस्यापि हि जानन्पुष्पादिना इति । दत्तस्तम्तिनपैश्राद्यरोपस्थानेऽपि यन्मित्तम् ॥ प्रेयस्तत्सूरयो राशीद्भावनवाले । विव्वोकारव्य मूनो हाव रागरागविवर्द्धनः ॥ अभिनवगुप्तेनपट्टनावपि 'यष्टिनादरस्त्वन्या । नग्नत्वं प्रियस्य वधन (न) ताडनमश्राणिद्यादि विव्वोकः ॥' अवधीरणे यथा कालिदास - 'निर्मुमुन्द दशनच्छदं न्नो वाचि मधुरैरधीगण्परा । ईक्षणात्तनया समीपानात् नाय दिपदानहेतुवन् ॥' इति ग २ 'पाठा-' इति श्लोको नास्ति ग-पुस्तके. ३. 'रोषाऽह्रञ्चीत्यादे संकरः किलकिञ्चितम् ।' इति ग ४ 'रुजिनीडावृत्ते व्यजनि सन्त्रास समथं मया दृष्ट्यैः तया इत्यित्थन्तद्वाष्पैर्मधे । कुल- भूमहाडौ मरटिन्दिरगुंणैरहर्द्दित्तकण्येगोधोद्वाप्त पुनरपि वि इपदान्ति मुखम् ॥' इति ग.
- १२ ५
१४८ साहित्यदर्पणे यथा- 'वृद्धोऽन्धः पतिरेष मञ्चकगतः, स्थूणावशेषं गृहं, कालोऽभ्यर्णजलागमः, कुशलिनी वत्सस्य वार्तापि नो । यत्नात्सञ्चिततैलविन्दुघटिका भग्नेति पर्याकुला दृष्ट्वा गर्भभरालसां निजबधूं श्वश्रूश्चिरं रोदिति ॥' अथ श्रमः- खेदो रत्यध्वगत्यादेः श्वासनिद्रादिकृच्छ्रमः । यथा- '³सद्यः पुरीपरिसरेऽपि शिरीषमृद्वी सीता जवात्त्रिचतुराणि पदानि गत्वा । गन्तव्यमस्ति कियदित्यसकृद्ब्रुवाणा रामाश्रुणः कृतवती ⁴प्रथमावतारम् ॥' अथ मदः- ⁵संमोहानन्दसंभेदो मंदो मद्योपयोगजः ॥ १४६ ॥ स्थूणा स्तम्भः । अभ्यर्णजलागमो निकटस्थवर्षासमयः । तैलविन्दूना घटिका क्षुद्रभाजनम् ॥ सद्य इति । वारंवार गन्तव्याध्वपरिमाणजिज्ञासया सीताया स्वल्पपथलङ्घनश्रममवधार्य श्रीरामस्य रोदनम् ॥ संमोहानन्दयो समेदो मेलकः । १. वत्सस्येति । वत्सस्य पुत्रस्य ॥ २. निजबधूमिति । निजबधू आत्मस्नुषाम् ॥ ३. श्रम इति । बहुतरशारीरव्यापारजन्मा नि श्वासाङ्गमर्दननिद्रादिकारणीभूतः खेद- विशेषः श्रम इति। यदाहु - 'अध्वव्यायामसेवाद्यैर्विभावैरनुभावकैः । गात्रसंवाहनैरा- स्यसङ्कोचैरङ्गमोटनैः ॥ नि श्वासैर्जृम्भितैर्मन्दै पादोत्क्षेपैः श्रमो मतः ॥' इति। अय च सत्यपि बले जायते, शारीरव्यापारादेव च जायते न तु ग्लानि । अतो ग्लानि- श्रमस्य भेदः ॥ ४. प्रथमेति । प्रथमावतार पूर्वाविष्करणम् ॥ ५. मद इति । मद्याद्युपयोगजन्मा उल्लासाख्यः शयनहसितादिहेतुश्चित्तवृत्तिविशेषो १ '-श्रम स्वेदादिकारक रतान्मार्गगमनादेश्च य खेद स श्रम स्वेदमर्दनाद्यनुभाजन क ।' इति ग. २ 'यथा' ग-पुस्तके नास्ति ३ ग-पुस्तके तु 'सद्य ' इति श्लोकस्य स्थाने 'अइ पिहुल घेत्तूण समागदम्हि रुहि तुरिअम् । समसेअसलिलणीतासणीसहा वीसमानि खणम् ॥' इति ४ 'च' घ ५ 'हर्षोत्कर्षो मद पानात्स्खलदङ्गवचोगति । मद्यादिपानाद्यो हर्षोत्कर्ष
- वचनगत्वादिस्खलनानुभावक ।' इति ग.
तृतीयः परिच्छेदः । १४९ अमुना चोत्तमः शेते, मध्यो हसति गायति । अधमप्रकृतिश्चापि परुषं वक्ति रोदिति ॥ १४७ ॥ यथा— ‘प्रातिभं त्रिसरकेण गतानां वक्रवाक्यरचनारमणीयः । गूढसूचितरहस्यसहासः सुध्रुवां प्रववृते परिहासः ॥’ अथ जडता— अप्रतिपत्तिर्जडता स्यादिष्टानिष्टदर्शनश्रुतिभिः । अनिमिषनयननिरीक्षणतूष्णींभावादयस्तत्र ॥ १४८ ॥ यथा मम कुवलयाश्वचरिते प्राकृतकाव्ये— ‘णेवरिअ तं जुअजुअलं अण्णोण्णं णिहिदसजलमन्थरदिट्ठि । मद्यस्यानवस्य उपभोगाद् भक्षणाज्जात । अमुना मदेन ॥ प्रातिभं प्राग- ल्भ्यम् । त्रिसरकेण मद्येन । गूढं सूचितं रहस्यं यत्र स चासौ हासश्चेति ॥ अप्र- तिपत्तिः कर्तव्यानिश्चयः । तूष्णींभावो मौनम् । तत्र जडतायाम् ॥ णवरिअ मद इति । तत्रोत्तमे पुरुषे स्वापोऽनुभावः । मध्यमे हसितगाने । अधमे तु रोदनपरुषो- क्त्यादि । अयं च मदस्त्रिविधः । तरुणमध्यमाधमभेदात् । अव्यक्तासङ्गतवाक्यैः सुकुमा- रस्खलद्विला च योऽभिनीयेते स आद्यः । कुञ्चितनेत्रस्खलितघूर्णितनादिनिर्नमध्यमः । गतिभ्र- ष्टस्मृतिनाशहिक्काछर्द्यादिभिर्चरमः । प्रदीपे तु ‘उत्तमसत्त्वः प्रहसति गायति तद्वच्च मध्य- मप्रकृतिः । परुषवचनाभिधायी शेते रोदित्यधमसत्त्वः ॥’ इति व्यत्यासोऽस्ति ॥
- प्रातिभमिति । मदानुभाववर्णनमिदम् । त्रयाणां सरकाणां समाहारस्त्रिसरकं त्रिवारमधुपानम् । ‘सरकं शीधुपात्रे स्याच्छीधुपाने च शीधुनि ।’ इति विश्वः । तेन त्रिसरकेण । ‘त्रिपाने मदातिभूमिः’ इति पानप्रसिद्धिः । प्रतिभां प्रतिभं प्रतिभानविशेषः । तत्प्रातिभं गतानां त्रिवारसुरापायोत्कटमदोद्रेकप्रागल्भ्यभाजां सुध्रुवां वक्रवाक्यरचनारम- णीयं वक्रोक्तिशोभनः । गूढानि पूर्वं लज्जया संवृतानि, सूचितानि संप्रति मदेन प्रका- शितानि रहस्यानि नाभ्याद्यवयवचेष्टाप्रलपितानि यस्मिन् स गूढसूचितरहस्यः, स चासौ हासश्चेति विशेषणममानः । प्रववृते प्रवृत्तः ॥
- जडतेति । चिन्तोत्कण्ठामयविरहेष्टानिष्टदर्शनश्रवणादिभ्यस्तत्तदवस्थेऽवधार्यप्रति- संधानविकलं चित्तवृत्तिर्जडता । इयं च मोहात्पूर्वः परश्च ज्ञायते । यदाहुः— ‘कार्याविवेको जडता परवतः स्तब्धतोऽपि वा । तद्विभावाः प्रियानिष्टदर्शनश्रवणे तथा ॥ अनुभावास्त्वमी तूष्णींभावविस्मरादयः । सा पूर्वं परतो वा स्यान्मोहादिति निदर्श- नकृत् ॥’ इति ॥
- णवेति । स्तब्धस्वेदम् । यहृद्दण्डम्—‘स्तब्धवलितं तत्तद्विधं यत्र चक्षुष्क- १. ‘अथ जडता’ इति नास्ति ग-पुस्तके. २. ‘यथा—’ इत्यादिपाठिका नास्ति ग-पुस्तके.
१४० साहित्यदर्पणे आलेख्खओपिअं विअ खणमेत्तं तत्थ संट्ठिअं मुअस्सण्णं ॥' अथोग्रता— शौर्यापराधादिभवं भवेच्चण्डत्वमुग्रता । तत्र खेदशिरःकम्पतर्जनाताडनादयः ॥ १४९ ॥ यथा-- 'प्रणयिसखीसलीलपरिहासरसाधिगतै- र्ललितशिरीषपुष्पहननैरपि ताम्यति यत् । वपुषि वधाय तत्र तव शस्त्रमुपक्षिपतः पततु शिरस्यकाण्डयमदण्ड इवैष भुजः ॥' अथ मोहः— मोहो विचित्तताभीतिदुःखावेगानुचिन्तनैः । मूर्च्छानाज्ञानपतनभ्रमणादर्शनादिकृत् ॥ १५० ॥ यथा— 'तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । इति । 'केवलं तद्युवयुगलमन्योन्य निहितसजलमन्थरदृष्टि । आलेख्यर्पितमि क्षणमात्रं तत्र संस्थितं मुक्तसङ्गम् ॥' इति संस्कृतम् । णवरिअशब्द केवल देशी ॥ चण्डत्वमत्यन्तासहिष्णुत्वम् । प्रणयिनी या सखी तस्या परिहासरसेना गतैः प्राप्तै । अकाण्डयमदण्ड इति । अकालयमदण्ड इत्यर्थ । अत्र मालत शरीरे शस्त्रप्रहार कुर्वतोऽघोरघण्टस्यापराधेन माधवस्य चण्डत्वमेतादृशोत्क व्यज्यते ॥ चित्तस्य निमीलनत्व विचित्तता । सुषुप्तिवारणायाह—भीतीति आवेग श्भ्रम । अनुचिन्तनमत्यन्तचिन्ता । अदर्शनमज्ञानम् ॥ अभिषङ्ग ल्गानाटकेनार्थ स्यात् । तत्तुन्त्यमप्रिमदल भवति चतुःषष्टिमात्रकभीरिनिदम् ॥' इ दामोदरमिश्राः ॥
- उग्रतेति। अविशेषापमानादिप्रभवा किमस्य करोमीत्याद्याकारा चित्तवृत्तिरुग्रता यदाहु—'नृपापराधोऽसद्क्षेपकीर्त्तन चोरधारणम् । विभावोः स्युरथो बन्धो वधम्ताड भर्त्सने ॥ एते यत्रानुभावास्स्युर्दौस्थ्य निर्दयतामरुन् ॥'
- मोह इति । भयवियोगादिनयोज्या वस्तुतत्त्वानवधारिणी चित्तवृत्तिर्मोहः 'अज्ञानान्तरमुत्पन्ना चित्तवृत्तिः' इति तु नव्याः ॥ १. 'अथोनना' इति क्वचित् ग पुस्तके २ पुस्तके 'ई यं दिना यच्चण्डामुग्रता । तत्र स्वेदांग स्तम्भानुभावा भवन्ति ।' इत्येवं दृश्यते. ३ 'देह' इत्यधिकम्लल्लपुस्तकपाठस्त्वशुद्धः । ङौ.२
- विचित्तेति शेषे इतिदृष्टान्तचतुष्टयमभूत् ।' इति ग.
तृतीयः परिच्छेदः । १५१ अज्ञातभर्तृव्यसना मुहूर्तं कृतोपकारेव रतिर्बभूव ॥' अथ विबोधः— निद्रापगमहेतुभ्यो 'विबोधश्चेतनागमः । जृम्भाङ्गमङ्गनयनमीलनाङ्गावलोककृत् ॥ १५१ ॥ यथा— 'चिरंरतिपरिखेदप्राप्तनिद्रालुब्धानां चरममपि शयित्वा पूर्वमेव प्रबुद्धाः । अपरिचलितगात्रा कुर्वते न प्रियाणाम्- अशिथिलभुजचक्राश्लेषभेदं तरुण्यः ॥' अथ स्वप्नः— स्वप्नो निद्रासमुत्थस्य विषयानुभवस्तु यः ।
१५२ साहित्यदर्पणे कोपावेगभयग्लानिसुखदुःखादिकारकः ॥ १५२ ॥ यथा— 'मामोकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- र्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेन । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥' अथापस्मारः— मनःक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः । भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥ १५३ ॥ 'आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्भुजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥' अथ गर्वः— गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञांसाविलासाङ्गदर्शनाविनयादिकृत् ॥ १५४ ॥ तत्र शौर्यगर्वो यथा— 'धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम् ॥' भुजाक्षेपं कर्तुमर्हतीति । अस्य निद्राभङ्गो नोचित इति भाव ॥ मामिति । यक्षस्य मेघं प्रति प्रियायै वाचनिकार्पणमिदम् । मा यक्षम् । कथमपि महता कष्टेन । मुक्ता इव स्थूला ॥ मनःक्षेप इति । मनसो नाट्योविशेषनिवेशेन घूर्ण- नमित्यर्थः । ग्रहादीत्यादिना भूतादिपरिग्रह । मध्यमादिपदेन धातुवैषम्यादिपरि- ग्रहः ॥ फेनायमानं फेनमुद्वमन्तम् । असौ श्रीकृष्णः आशशङ्के ज्ञातवान् ॥ मदश्चित्तविकारविशेषः । राज्ञ कोशदण्डादिजन्यः प्रतापः प्रभावः । श्रीस्त्रि-
- मामिति । मया कथमपि स्वप्नप्रदर्शनेन लब्धायाः के तव निर्दयाश्लेषहेतोः गाढा- लिङ्गनार्थम् आकाशप्रणिहितभुजं शून्यार्पितबाहु मा पश्यन्तीना म्स्थलीदेवताना वनदेवताना १. 'मात्सर्यमथकोपाडेरनुभावस्य कारणम् । विद्राणस्यापि विषयज्ञान मनसः ! मात्सर्यानुभाव- हेतु । इति ग. २ 'भूयश्चावि स्त्वमसि शयने कण्ठलग्ना पुरा मे-'इत्युदाहरणान्तरं ग पुस्तके ३ 'आवेशो महदु बाधैरपस्मारः स्मृतो बुधै । मुर्मुहूर्पतनभूपानफेनाङ्गान्दोलनादिकृत् ॥' इति ग ४. 'लोल्द्रू' ग ५ 'मोङ्गलसदशवशाहाहेनाविनयादिकृत् । प्रभावदिजन्यो मदो गर्व । आदि शब्दाद्दारण्यसेनाग्यादिः । स चाविनयाद्यनुभावहेतु ।' इति ग. ६. 'यथा' क. घ. ७ अस्मादग्रे 'त्वमन्यदयूथ्यम्' इत्याधिकं ग-पुस्तके