समराङ्गणसूत्रधार (महाराज भोज - वास्तु, स्थापत्य एवं यंत्र शास्त्र)
Samarangana Sutradhara of Raja Bhoja
धाराधिपति महाराज भोज / प्रो. पुष्पेन्द्र कुमार द्वारा
४९० समराङ्गणसूत्रधारे एषां पद्ममहापद्मस्वस्तिका वर्धमानकः । सर्वतोभद्र (लता ?)स्तलबन्धान् निवेशयेत् ॥ २१८ ॥ (आरभ्यन्तामरेकस्या चै ?) द्वादशभूमिका(त्) । ऊर्ध्वमानं च कर्तव्यं सामान्यं तेषु पञ्चसु ॥ २१९॥ द्वादशभूमिकः ॥ (पीठमूल ?)च्छन्दकभूमिकामि- र्विनिर्मिता द्रविडनामधेयाः । प्रासादमुख्याः कथिता(यथा यँथा- ऽवेत्थं खल्पिविमिरुच्यतेऽसौ ?) ॥ २२० ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे द्राविडप्रासादाध्यायो नाम द्विषष्टितमः ॥ अथ मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । अधुना नागरान् ब्रूमः प्रासादान् नामलक्षणैः । मेरुमन्दरकैलासाः कुम्भोऽथ मृगराज् गजः ॥ १ ॥ विमानच्छन्दसंज्ञश्च चतुरश्रस्तथापरः । अष्टाश्रिः षोडशाश्रिश्च वर्तुलैः सर्वतोद(भद्र)कः ॥ २ ॥ सिंहास्यो नन्दनो नन्दिवर्ध(मा ?)नो हंसको वृषः । गरुत्सा (गरुडः) पद्मकाख्यश्च समुद्र इति विंशतिः ॥ ३ ॥ नागराणामिति प्रोक्ता प्रासादानां समासतः । शत(मुद्दे ?)श्रुतद्वर्दारः षोडशक्षितिरूर्ध्व(तः) ॥ ४ ॥ विचित्रशिखराकीर्णो मेरुः प्रासाद उच्यते । मन्दरो द्वादशटलः कैलासो नवभूमिकः ॥ ५ ॥ १ मु. 'इत्येतां' इति पाठः स्यात् । द. लतां । २ द. छन्दान् । ३ मु. पु. 'आरभ्य भूमेरकस्या आ च' इति स्यात् । ४ द. या च । ५ द. पीठस्तल । मुद्रित पु. 'पीठैस्तल' इति स्यात् । ६ द. द्र । ७ द. यो । ८ द. वेत्थ स्वं च्छिल्यिमिरुच्यतेऽसौ । ९ द. सः । १० द. श्नि । ११ द. श्नि । १२ द. र्द्ध । १३ द. यं । १४ द. द्र । १५ द. त्रा ।
[Header] मेर्वादिर्विंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । ४९१ अनेकशिखरश्चित्रश्चतुर्द्वारो महोच्छ्रितिः । विमानच्छन्दकस्त्वष्टभूमिकः परिकीर्तितः ॥ ६ ॥ विंशत्यण्डकसंयुक्तः सप्तभूर्नन्दिवर्धनः । षड्भूमिर्नन्दनः कार्यः प्रासादः षोडशाण्डकः ॥ ७ ॥ पञ्चभूः सर्वतोभद्रो¹ भद्रशालाविभूषितः । अनेकशिखराकीर्णः कर्तव्यः प्रचुराण्डकः ॥ ८ ॥ ²वलभिच्छन्दकः कार्यो देवतानां (ए ?³) वृषः सदा । वृषस्तु स्वोच्छ्रितेस्तुल्यः सर्वतः स्वस्ति वर्तितैः ॥ ९ ॥ मण्डलं (?) स तु विज्ञेय एकाण्डकविभूषितः । सिंहः सिंहाकृतिर्ज्ञेयो गजो⁵ गजसमाकृतिः ॥ १० ॥ ⁸कुम्भः कुम्भाकृतिस्तद्वद् भूमिकानवकोच्छ्रितः । अञ्जलीपुटसंस्थानः पञ्चाण्डकविभूषितः ॥ ११ ॥ षोडशाश्रिः समन्ताच्च विज्ञेयं: स समुद्रकः । पार्श्वयोश्चन्द्रशाला वै¹¹ उच्छ्रायातें¹² स द्विभूमिकः ॥ १२ ॥ तथाष्टाश्रिः पद्मनिभो भूमिकात्रयमुच्छ्रितः । षोडशाश्रिः स विज्ञेयो विचित्रशिखरः शुभः ॥ १३ ॥ मृगराजस्तु विख्यातश्चन्द्रशालाविभूषितः । प्राग्ग्रीवेण विशालेन भूमिकास यदु( सु य उ )च्छ्रितः ॥ १४ ॥ अनेकचन्द्रशालैस्तु¹³ गजः प्रासाद उच्यते । पर्यस्तो मृगराजस्तु गरुडो नाम नामतः ॥ १५ ॥ सप्तभूम्युच्छ्रितस्तद्वच्चन्द्रशालात्रयान्वितः¹⁴ । अश्रिभि(¹⁵र्विहरं तस्य ?) षड्भिर्युक्तः समन्ततः ॥ १६ ॥ स्यादन्यो गरुडस्तद्वदुच्छ्राये दशभूमिकः । पद्मकः षोडशाश्रिः स्याद् भूमिकाद्वितयाधिकः ॥ १७ ॥ १ द. द्व । २ द. वल्लभी । ३ द. एषः सदा । ४ द. तो तु । ५ द. र्जि । ६ द. ते । ७ द. जे । ८ द. कुम्भाः । ९ द. तिः । १० द. या स समुद्रकः । ११ द. वा । १२ द. स्त । १३ द. ला । १४ द. त्रयोन्विता । १५ मुद्रित पुस्तके 'बँहिरन्तश्च' इति स्यात् ।
४९२ समराङ्गणसूत्रधारे पद्मतुल्यप्राण( ?)१वोवृक्षश्चतुरश्रकः । पञ्चाण्डमे(ए)कभूमिस्तु गर्भ(र्भो) हस्तचतुष्टयम् ॥ १८ ॥ वृषो भवति ना(त्रोयं ? )प्रसादः सर्वकामिकः । सप्तकापञ्चकाभूमिप्रासादो( ?) य इहोदिताः ॥ १९ ॥ (५हिंस्य ? )ते समा ज्ञेया ये चान्ये तत्प्रमाणकाः । विचित्रशिखराः कार्याश्चन्द्रशालाविभूषिताः ॥ २० ॥ सर्वे प्राग्ग्रीवसंयुक्ताः कर्तव्यास्तोरणान्विताः । ऐष्टिका दारवा यद्वा शैलजा वाजनाकुलाः ॥ २१ ॥ स्यात् पञ्चाशतकरान्मेरुसूत्त्रलिङ्गं नवोदयान्( ?) । गर्भास्तु द्विगुणा लिङ्गाद् भित्तयः स्युश्चतुष्कराः ॥ २२ ॥ अन्धारिका हस्तषट्कं विधातव्या समन्ततः । अन्धारिकां च कुर्वीत बाह्यांभित्तिं विचक्षणः ॥ २३ ॥ अयं साधारणः प्रोक्तो मेरुः सर्वगुणान्वितः । प्रासादानां तथान्येषां गर्भो (लिङ्गदिशंगुणः ? ) ॥ २४ ॥ प्रासादगर्भमुत्सृष्टं यच्छेषं तेन कल्पयेत् । सहान्धारिकया सर्वा(र्वं) समभागेन पूर्ववत् ॥ २५ ॥ मेवा(र्वा)द्या ये विमानान्ताः (९सं + ?) पूर्वं प्रकीर्तिताः । शस्तास्ते (मृज्य ? ) लिङ्गानामन्येषां तु भयावहम्(हाः) ॥ २६ ॥ वावृक्षमुरुया ये तूक्ता नन्दिवर्धनपश्चिमाः । तष्टो (तेऽष्टौ) शुभा मध्यमानामन्येषां दुःखदाः स्मृताः ॥ २७ ॥ हंसादयः समुद्रान्ताः पञ्च ये समुदाहृताः । प्रशस्तास्ते समुद्दिष्टा लिङ्गानां (विधीयसा ? ) ॥ २८ ॥ मन्दरस्तु करात् कार्यश्चत्वारिंशत्तु +++ । ++++++११ लासो विमानो१२षरोष्ठिताः (?) ॥ २९ ॥ १ द. म्वा । २ द. प्रायं, तथा मुद्रित प्रतौ अपि 'प्रायं' इत्येव पाठः । ३ द. भू । ४ द. मिः । ५ मुद्रित पुस्तके तु 'हंसस्य' इति पाठः स्यात् । ६ द. त्रा । ७ द. ष्टा । ८ द. ह्य। ९ मु. पु. 'सप्त' इति स्यात् ।; द. स । १० द. र्या । ११ द. कै । १२ द. षट्करो° ।
मेरर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । ४९३ हस्तद्वात्रिंशता कार्यः १ प्रासादो नन्दिवर्धनः । हस्तांस्तु नन्दनस्त्रिंशत् सर्वतोभद्र एव च ॥ ३० ॥ अष्टाविंशतिमष्टाभिः(त्रिः) षोडशा (त्रि) स्त्रिभिर्विना । वर्तुलः पद्मकः श्वेतो विमानच्छन्द एव च ॥ ३१ ॥ एते द्वादशहस्ताः + कार्यों विंशतिहस्तकौ (?) । गजः सिंहश्च कुम्भश्च वलभीच्छन्द(कँ)स्तथा ॥ ३२ ॥ चत्वार एते तुल्याः स्युर्हस्तोत्न्मेड्समानतः (?) । वावृक्षो मृगराजश्च विमानच्छन्द एव च ॥ ३३ ॥ एते द्वादशहस्ताः(स्युः) प्रमाणेन पृथक् पृथक् । दशहस्तो भवेद् वा स गरुते(डोऽ)ष्टकरः स्मृतः ॥ ३४ ॥ एतैः प्रमाणैः प्रासादा(न्) कुर्यादित्यपरे स्थिताः । एकहस्ता द्विहस्ताश्च (त्रि)हस्ता ये च कीर्तिताः ॥ ३५ ॥ यक्षनागग्रहादीनां विधेया रक्षसां च ते । विधिरेष समुद्दिष्टः प्रासादानां समासतः ॥ ३६ ॥ विशेषेण पुनर्व्रूमो विमानं शुद्धपुष्पकम् । चतुरश्रीकृते क्षेत्रे पञ्चात्रिंशद्विभाजिते ॥ ३७ ॥ रथिका पञ्चभागा स्याद् द्विभागं सलिलान्तरम् । (कूट ?) त्रिभागं पञ्जरं कुर्यात् प्राग्रीवकविभूषितम् ॥ ३८ ॥ जलान्तरं द्वितीयं तु तदपि स्याद् द्विभागिकम् । शालैकादशभागा तु पूर्ववत् सलिलान्तरम् ॥ ३९ ॥ त्रिभागं पञ्जरं कुर्याद् द्विभागं सलिलान्तरम् कूटं पञ्चकरं प्रान्ते दिक्षु सर्वास्र्वयं विधिः ॥ ४० ॥ नागरोऽयं तलच्छन्दः प्रासादे शुद्धपुष्पके । जङ्घा सपीठा क्षेत्रार्धविस्तारसहशोदया ॥ ४१ ॥ सार्धैर्द्वितीया दशभिस्तृतीया नवभिः करैः । अष्टहस्ता चतुर्थी स्यात् सप्तहस्ता तु पञ्चमी ॥ ४२ ॥ १ द. र्या । २ द. र्यो । ३ द. स । ४ द. न्मो । ५ द. णा । ६ द. यां । ७ द. विं ।
षष्ठी तु भूमिका कार्या प्रमाणेनास्य षट्करा । सप्तमी पञ्चहस्ता तु (चतु)र्हस्ता ततोऽष्टमी ॥ ४३ ॥ त्रिहस्तं वेदिकाबन्धं विचित्रं कारयेद् बुधः । विस्ताराद् द्विगुणोच्छ्रायः स्कन्धोऽयं (वेदिकाबन्ध ?) ॥ ४४ ॥ स्कन्धादूर्ध्वं भवेद्³ घण्टा यदि वामलसारकम् । तद् वर्तुलं शुभं कार्यं घण्टा स्कन्धार्धमुच्छ्रिता ॥ ४५ ॥ घण्टाविस्तारै(तः) कुम्भं चतुर्थांशेन कारयेत् । प्रमाणं समुदायेन भूमिकानामुदाहृता(तम्) ॥ ४६ ॥ एकैकस्या(स्य) विशेषेण प्रविविच्योधुनोच्यते । प्रमाणेन विधातव्या (खंकारा ?) भूमिरङ्गिका⁷ ॥ ४७ ॥ (द्यं हस्तं तु ?) खुरकं द्विभागा पद्मपत्रिका । भागिका (कणकर्याण्यह्यंशं ?) कुमुदं¹⁰ छेद एव च ॥ ४८ ॥ त्र्यंशस्तद्द्विगुणः कण्ठः किङ्किणीपल्लवान्वितैः । तस्यार्धं पट्टिका कार्या तत्समा गिरिपत्रिका¹² ॥ ४९ ॥ (भाग्यंशावरण्डीतमध्ये पच्छीतेलाधर्भागिकी ?) । पूर्वप्रोक्तेन कण्ठेन समसूत्रा च सा भवेत् ॥ ५० ॥ छेदं तदूर्ध्वं कुर्वीत स्तरमेकं विचक्षणः । पुनः कण्ठः प्रदातव्यो भागद्वितयसम्मितः ॥ ५१ ॥ पट्टिका स्तरमेकं तु तत्समा गिरिपत्रिका । चतुर्गुणाथ त्रिगुणा कार्यावि(ति)लकनासिका ॥ ५२ ॥ स्तम्भद्वितयमध्ये तु पश्चाल्यं कर्म कारयेत् । शोभनं तत्तू कर्तव्यं युक्तं तिलकनाम(स)या ॥ ५३ ॥ पुनश्छेदः प्रदातव्यः पूर्वमानेन धीमता । जङ्घा सप्तस्तरा मेठी वरण्डी त्रिस्तरोर्ध्वतः¹⁶ ॥ ५४ ॥
१ द. स्तां । २ द. वधः । ३ द. ˚द्धन्तुं । ४ द. का । ५ द. रः । ६ द. विद्यातु । ७ द. षट्करा । ८ द. ता । ९ द. यां । १० द. दां । ११ द. ताः । १२ द. वर्त्तिता । १३ द. ती । १४ द. च । १५ द. में । १६ द. थो ।
मेर्वादिविंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । ४९९ भवेदधस्ताज्जङ्घायास्त्रिस्तर(स्तरत्व?)कुम्भकः । घण्टार्प(म)ण्टपसंयुक्ता माला स्यात् (पंचरात् ?) ततः ॥ ५५ ॥ अर्धेन तस्या लशुनं स्तरेण भरणं भवेत् । कुर्वीत द्विस्तरं कुम्भं गण्डमेकस्तरं ततः ॥ ५६ ॥ उच्छालं द्विस्तरं कुर्याद् ³वीरगण्डं ततः स्तरम् । द्विस्तरैः⁴ स्यात् ततः (पट्टः) पट्टस्यार्धेन पट्टिका ॥ ५७ ॥ तत्समा गिरिपत्री च वरण्डी त्रिस्तरा ततः । स्तम्भस्योर्ध्वं विधातव्या मनोज्ञा त्र्य(द्व्य)र्धपादिका ॥ ५८ ॥ स्तरमेकं ततश्छेदस्ततः कण्ठः स्तरत्रयम् । पट्टिका स्तरमेकं स्यात् तत्समा गिरिपत्रिका ॥ ५९ ॥ वरण्डीं⁵ त्रिस्तरां कुर्यादर्धप्रस(स्त)रसंयुतम् । पुनश्छेदः स्तरं कार्यः⁷ कण्ठस्तेन समस्ततः ॥ ६० ॥ तत्समा⁸ गिरिपत्री⁹ च त्र्यंशाममलसारकम् । ततश्छेदं च कण्ठं च गिरिपत्रीं वरण्डिकाम् ॥ ६१ ॥ पूर्वमानेन कुर्वीत छेदकम्पे तथा पुनः । गिरिपत्रीं स्तरं कुर्यात् (¹¹त्र्यंशत्¹²खैरंकततः ?) ॥ ६२ ॥ ¹³छेदं कण्ठं पत्रिकां च (¹⁴प्रांस्तरमेकं ततश्छेदकं कुर्यात् पुनर्बुधः?) । वरण्डीं त्रिस्तरां कुर्यादर्धप्रस्तरसंयुतम् ॥ ६३ ॥ छेदं कण्ठं च पीठं च (¹⁵प्राग्व्वामलसारकण्ठं कुर्यात् तथापरम्?) । पूर्ववद् गिरिपत्रीं च द्विस्तरां वेदिकां ततः ॥ ६४ ॥ छेदं कुर्यात् तदर्धं च ततः कण्ठं ¹⁶स्तरद्वयम् । गिरिपत्रीं ततः कुर्यात् स्तरमेकं सुशोभनाम् ॥ ६५ ॥ चतुरश्रप्रमाणं च कुर्यादामलसारकम् । पद्मपत्रं तु तस्यार्धमुपरिष्टात् प्रकल्पयेत् ॥ ६६ ॥ १ द. पटव । २ मु. पु. 'पट्टस्तरा' इति स्यात्; द. पट्टस्तरा । ३ द. वा । ४ द. रं । ५ द. ण्डी विस्तरं । ६ द. तां । ७ द. र्यै । ८ द. मां । ९ द. त्रीं । १० द. गिरीपत्रीं । ११ मुद्रित पुस्तके 'त्र्यंशेन खुरकं ततः' इति स्यात् । १२ द. शि । १३ द. छेदंकंठपं । १४ द. प्राग्वत् कुर्यात् । १५ द. प्राग्वच्यामलसारकं । स्तरमेकं ततः छेदं कंटं । १६ द. क ।
४९६ समराङ्गणसूत्रधारे चतुःस्तरो भवेत् कुम्भः स्तरं कण्ठस्ततो भवेत् । स्तरमेकं ततः कर्णो द्विस्तरं बीजपूरकम् ॥ ६७ ॥ चतुर्भिः कूटविस्तारं ततो ( १भागे विराजयेत् ? ) । द्विभागं मञ्जरी कार्या स्तै(२शू)रसेनेनरलङ्कृतौ ॥ ६८ ॥ वरण्डिकाख्यो बन्धश्च भागं भागं ( भागं ? ) भवेत् ततः । विस्तारं(राद् ) मूलमञ्जर्याः शुकनासां३ प्रकल्पयेत् ॥ ६९ ॥ अथ निर्णीयते द्वयर्धपादाख्यं तत्र विस्तृतिः । उच्छ्रायाद् द्विगुणा कार्या पञ्चभागक्रमोऽथवा ॥ ७० ॥ शूरसेनोऽथवा कार्यः ४शु(क)नासास्त्रिवे(धे५)त्यसौ । कृत्वा त्रिभागमुच्छ्रायं च(६म)करं चोर्ध्वभागिकम् ॥ ७१ ॥ स्तम्भयुक्तं गुणद्वारं (स्योतस्योधिः संप्रताम् ? ) । अर्धप्र(श ?)स्तरसंयुक्तं कुर्यात् + पार्श्वयोर्द्वयोः ॥ ७२ ॥ कर्तव्यं गर्भकूटं वा शुभं तत्र विपश्चिता । द्वितीयभूमिकायां तु पीठं सास्त(र्ध)दशस्तरम् ॥ ७३ ॥ (७मेलान्ततोवती ? ) जङ्घा माला कार्या चतुःस्तरा८ । लशुनं द्विस्तरं प्रोक्तं स्तरं भरणमिष्यते ॥ ७४ ॥ कुम्भं( ? ) तद्वत् प्रकर्तव्यमुच्छां द्विगुणान्वितः(तम् ) । गण्डकः स्तरमेकं स्यात् ततः पट्टः स्तरद्वयम् ॥ ७५ ॥ अर्धेन पट्टिका कार्या तथैव गिरिपंत्रिका९ । सू(स्त )रत्रयं वरण्डी स्याच्छूरसेनेनरलङ्कृता ॥ ७६ ॥ स्तरमेकं भवेच्छेदस्ततः कण्ठः स्तरद्वयम् । पट्टिका भागमेकं च तत्समं गिरिपत्रिकां१० ॥ ७७ ॥ त्रिभागं शिखरं कुर्याच्छेदं मे(रु ? ) तु भागिकम् । एकं कण्ठं प्रकुर्वीत (११पंथिकां गिस्तरं ? ) विदुः ॥ ७८ ॥ १ द. भागैर्विं । मुद्रित पुस्तके तु 'भागैर्विभाजयेत्' इति पाठः । २ द. सू । ३ द. तां । ४ द. शं । ५ द. र्याः सुनां । ६ द. ग । ७ द. मा । ८ द. रां । ९ द. वर्तिका । १० द. वर्तिका । ११ मुद्रित पुस्तके 'रथिकां त्रिस्तरां' इति स्यात् ।
मेर्वादिद्विंशिकानागरप्रासादलक्षणं नाम त्रिषष्टितमोऽध्यायः । ४९७ स्तरमेकं भवेत् कण्ठः पट्टिकापि च तत्समा । गिरिपत्रीं च कुर्वीत भागार्धेन विचक्षणः ॥ ७९ ॥ द्वा(द्ध्य)र्धपादिकया युक्ता त्रिस्तरा स्याद् वरण्डिका । छेदं कण्ठं च कुर्वीत पूर्वमानेन बुद्धिमान् ॥ ८० ॥ पट्टिका गिरिपत्री च भागं भागं विधीयते । द्विस्तरं शिखरं कुर्या(त् तथा) छेदं तु भागिकाम् ॥ ८१ ॥ एवं कण्ठं प्रकुर्वीत + + + + पट्टिकाम् । वरण्डिका (द्विभाग्योहकारेण ?) समन्विता ॥ ८२ ॥ छेदं² कण्ठं च पत्री च गिरिवर्ती ³त्रिभागिका(?) । प्राग्वद्⁴ (विरिहिर ?)कुर्याद् यथाशोभं प्र + + + ॥ ८३ ॥ चतुर्थी भूमिका चोर्ध्वं कर्तव्या लक्षणान्विता । त्रयोदशस्तरं पीठं मध्यजङ्घा च तत्समा ॥ ८४ ॥ चतुःस्तरा भवेन्माला तदर्धं⁵ लशुनं ततः । कुम्भं तेन समं कार्यमु(कुर्यादु)च्छालं द्विस्तरं भवेत् ॥ ८५ ॥ तस्यार्धे गण्डकं कुर्यात् पट्टं तद्द्विगुणं ततः । पट्टिका गिरिर्पत्री च विधातव्ये स्तरं स्तरम् ॥ ८६ ॥ वरण्डी त्रिस्तरा कार्या छेदमेकस्तरं विदुः । कुर्वीत द्विस्तरं कण्ठं तदर्धेन तु पट्टिकाम् ॥ ८७ ॥ तत्समां गिरिपत्रीं द्वौ स्तरौ (खिरिहिरं ?) ततः । छेदः कण्ठः पट्टिका च गिरिपत्रीति⁷ भागिकाः⁸ ॥ ८८ ॥ वरण्डी द्विस्तरा कार्या ततश्छेदः स्तरं भवेत् । कण्ठश्च पत्रिका चेति गिरिपत्रीति भागिकाः ॥ ८९. ॥ (प्रांग्वत्काशिखिरिहिरं) कुर्याच्छेदं पूर्वक्रमेण च । द्विस्तरा तिलनासा (तु) विधातव्या विपश्चिता ॥ ९० ॥ १ द. स्या । २ द. दा; मुद्रित पाठस्तु 'छेदः कण्ठश्च पत्री च गिरिपत्रीति भागिकाः' इति स्यात् । ३ द. ति । ४ द. तरिवरिहरं । ५ द. र्धे । ६ द. वर्तिश्च । ७ द. वर्तनीति । ८ द. का । ९ द. तथा मुद्रित पुस्तकेऽपि 'प्राग्वन् खिरिहिरं' इति स्यात् । वा. ६३
४९८ समराङ्गणसूत्रधारे कुर्वीत भागिकं छेदं ततः कण्ठो(ण्ठं ) द्विभागिकी(कम् ) १। पट्टिकां भागमेकं च तत्समां गिरिपत्रिकाम् ॥ ९१ ॥ घण्टा सप्तस्तरा प्रोक्ता पद्मं द्विस्तरमुच्यते । द्विगुणः कलशस्तस्यां२ छेदं पूर्ववदाचरेत् ॥ ९२ ॥ ऊर्ध्वं स्यात् पञ्चमी भूमिः पीठमेकादशास्ततः(र )म् । तदू( ३न्मेष्टा ?) भवेज्जङ्घा माला च त्रिस्तरा ततः ॥ ९३ ॥ सार्धस्तरं स्याल्लशुनं स्तरेण भरणं भवेत् । कुम्भं गण्डकसंयुक्तं कुर्यात् सार्धस्तरं बुधः ॥ ९४ ॥ उच्छालं द्विस्तरं प्रोक्तं स्तरं गण्डो विधीयते । द्विस्तरः स्यात् ( तरैः ? )पट्टः पट्टस्यार्धेन पट्टिका ॥ ९५ ॥ तत्समा गिरिपैत्री५ च त्रिस्तरा तु वरण्डिका । स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणस्ततः ॥ ९६ ॥ तदर्धं पट्टिका कार्या तथैव गिरिपत्रिका६ । स्तर(कं ?)द्वयं ७विरिहिरं तदर्धं छेदमाचरेत् ॥ ९७ ॥ एवं कण्ठः पट्टिका च स्यात् तथा गिरिपत्रिका८ । द्वौ स्तरौ तिलनासा स्याच्छेदः सार्थकरो(रा )यतः ॥ ९८ ॥ कण्ठं तद्द्विगुणं कुर्याद् भागेनैकेन पट्टिकाम् । तत्समा गिरिपैत्री स्याद् घण्टा पञ्चस्तरा भवेत् ॥ ९९ ॥ कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमात् ततः । ततो भूमिर्भवेत् षष्ठी १२पीठं तत्राभिधीयते ॥ १०० ॥ द्विस्तरा भूमिरङ्गा स्या( १३तुलः ? )खुरकस्ततः । छेदो भवेत् तदर्धेन ततः कण्ठः स्तरद्वयम् ॥ १०१ ॥ पट्टिका भागमेकं स्याद् भागं च गिरिपत्रिका१४ । वरण्डीं द्विस्तरां कुर्यात् तदर्धं छेदमादिशेत् ॥ १०२ ॥
१ द. ण्ठी । २ द. स्याः । ३ मु. पु. ‘न्मेडा’ इति स्यात् । ४ द. तः । ५ द. वर्त्तिश्च । ६ द. वर्तिका । ७ द. खि । ८ द. वर्तिका । ९ द. ˚दमर्द्धेन कारयेत् । १० द. का । ११ द. वर्ति । १२ द. पंठं । १३ मुद्रित पुस्तके ‘ततुल्यः’ इति स्यात् । १४ द. वर्तिका ।
द्वादशां(श)मिदं(तं) पीठं जङ्घा (माष्टा ?) तदर्धतः । माला तु द्विस्तरा प्रोक्ता लशुनं तत्समं भवेत् ॥ १०३ ॥ भरणं स्तरमेकं तु द्विभागः कलशो भवेत् । उच्छाालकं च तत्तुल्यं गण्डो भागं विधीयते ॥ १०४ ॥ कुर्वीत द्विस्तरं पट्टं भागेनैकेन पट्टिकाम् । पूर्ववद् गिरिपुत्रीं² ++स्तरां तु वरण्डिकाम् ॥ १०५ ॥ स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणस्ततः । पूर्ववत् पत्रिके द्वे तु द्वयंशं खिरिहिरं भवेत् ॥ १०६ ॥ छेदः कण्ठः पट्टिका च गिरिपुत्रीति³ भागिकाः । द्विस्तरा निलनासा स्याच्छेदः⁴ कार्यस्तु भागिकः ॥ १०७ ॥ द्विस्तरः स्यात् ततः कण्ठो भागिका कण्ठपट्टिका । भागिकी गिरिंपत्री च विधातव्या ततः परम् ॥ १०८ ॥ पञ्चस्तरा(न्) त्रिभागोना(न्) कुर्यादामलसारकम् । त्रिस्तरं स्यात् ततः ++ शेषं पूर्वक्रमाद् भवेत् ॥ १०९ ॥ पञ्चम्यां भूमिकायां तु पीठं स्याद् द्वादशस्तरम् । जङ्घा पञ्चस्तरा मेठा माला च स्याद् द्विभागिकी ॥ ११० ॥ अर्धस्तरेण लशुनं स्तरेण भरं(रणं) भवेत् । कुम्भं गण्डेन सहितं स्तरं कुर्याद् विचक्षणः ॥ १११ ॥ उच्छालं द्विस्तरं कुर्याद् गण्डो भागं विधीयते । पट्टः सार्धस्तरः कार्यः पट्टिका तु स्तरं भवेत् ॥ ११२ ॥ तत्समा गिरिपुत्री च त्रिस्तरा तु वरण्डिका । छेदो ⁹भागत्रिभोगं कण्ठस्यार्धे गुणस्ततः (?) ॥ ११३ ॥ पत्रिके द्वे तु भागिक्यौ +स्तरा तिलनासिका । अर्धप्रस्तारयुक्तासौ कार्याथ प्रस्तरन्विता ॥ ११४ ॥
१ द. श । २ द. त्रा । ३ द. वर्त्तति । ४ द. दकार्यंस्तु । ५ द. वार्त्तैश्च । ६ द. दः । ७ द. र्धः । ८ द. ०वर्त्तिश्च । ९ द. छेदो भागं त्रिभागोनं; मुद्रित पुस्तके 'भागं त्रिभागोनं कण्ठश्चार्ध- गुणस्ततः' इति स्यात् । १० द. स्त ।
५०० समराङ्गणसूत्रधारे छेदं भागेन कुर्वीत कण्ठं तद्द्विगुणं ततः । (अर्धप्रस्तरं ?) पूर्ववत् पत्रिके द्वे तु घण्टा स्तरचतुष्टयम् ॥ ११५ ॥ कुर्वीत द्विस्तरं पद्मं शेषं पूर्वक्रमेण तु । अष्टमी भूमिका या तु सा कार्या शुभलक्षणा ॥ ११६ ॥ मेर्वादयो विंशतिरेवमुक्ताः प्रासादमुख्याः १++++++। भूम्यष्टकान्तांस्तदिमान् विदध्यात् स्याच्छिल्पिनां संसदि पूजनीयः ॥ ११७ ॥ इति महाराजाधिराजपरमेश्वरश्रीभोजदेवविरचिते समराङ्गणसूत्रधारनाम्नि वास्तुशास्त्रे मेर्वादिविंशिकानागरप्रासादभूमिजा नामाध्यायस्त्रिषष्टितमः ॥
अथ दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । प्रासादमथ ( वोरोयं २? ) वक्ष्यामो नामलक्षणैः । लक्षणै( ? )स्तेषु दिग्भद्रैः श्रीवत्सो वर्धमानकः ॥ १ ॥ नन्द्यावर्तश्चतुर्थः स्यात् पञ्चमो नन्दिवर्धनः । विमानश्च तथा पद्मो ३महाभद्राख्य एव च ॥ २ ॥ श्रीवर्धमानकाख्यश्च महा(पद्मतोऽपि वा ? ) । एकादशः पञ्चशालो ५ द्वादशः पृथिवीजयः ॥ ३ ॥ तत्र प्रागेव (६दिग्भद्रः श्रावणं ?) प्रतिपाद्यते । चतुरश्रीकृते क्षेत्रे नवभागविभाजिते ॥ ४ ॥ कोणो द्विभागविस्तारः प्रत्यङ्गौ भागिकौ स्मृतौ । शाला भागत्रया कार्या नासिकात्रयशोभिता ॥ ५ ॥ परस्परं विनिष्कासमर्धभागेन कारयेत् । कोणप्रत्यङ्गयोरन्तः शालाप्रत्यङ्गयोस्तथा ॥ ६ ॥ १ मु. पु. 'शुभलक्ष्णयुक्ताः' इति स्यात् । २ द. व; मुद्रित पुस्तके 'वावाटम्' इति स्यात् । ३ द. द्रा । ४ मुद्रित पुस्तके 'पद्माभिधाऽपि वा' इति स्यात् । द. महापद्मस्ततोऽपि वा । ५ द. ला । ६ मुद्रित पुस्तके 'दिग्भद्रलक्षणम्' इति स्यात् ।
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०१ १षोडशांशेन कुर्वीत +++ सलिलान्तरम् । सीमास्याद् (स्य ) दशभिर्भागैः प्रविभज्य विधीयते ॥ ७ ॥ २++ का गर्भपादैः षड् भित्तयः स्युर्द्विभागिकाः । ( वर्धमानेनमथ ब्रूमो ? ) विस्ताराद् द्विगुणं हि तत् ॥ ८ ॥ द्वौ भागौ वेदिकाबन्धो जङ्घा ज्ञेया चतुष्पदा । ( ३शान्तापत्रा ? ) कपोताली सार्धंभागं समुच्छ्रिता ॥ ९ ॥ सार्धभागसमुच्छ्राया ४ कार्या प्रथमभूमिका । द्वितीया भूमिका ज्ञेया सार्धभागत्रयोदया ५ ॥ १० ॥ तृतीया च विधेया स्यात् सार्धभागद्वयोच्छ्रिता । उच्छालकं ६ च जङ्घा च भूमिकार्धं ७ विधीयते ॥ ११ ॥ कूटं ( नै ? ) चार्धतो देयं कर्मशोभासमन्वितम् । घण्टा भागत्रयोत्सेधा बहुमिश्राश्रिभिर्युता ॥ १२ ॥ कलशं स्थापयेदूर्ध्वं भागद्वयसमुच्छ्रितम् । बीजपूरकसंयुक्तं वर्तुलं पल्लवावृतम् ॥ १३ ॥ १०शिखराधंस्य कुर्वीत सपादमुदयं तथा । इमं दिग्भद्रसंज्ञं ११ यः प्रासादं कारयेत् पुमान् ॥ १४ ॥ शतक्रतुफलं सोऽपि लभते नात्र संशयः । लक्ष्म श्रीवत्ससंज्ञस्यै १२ प्रासादस्याभिधीयते ॥ १५ ॥ चतुरश्रीकृते क्षेत्रे भक्ते पञ्चदशांशकैः । ( अस्योच्छ्रायो सकारुह्यंशस्त्रं १३ क्षोणस्यादंशकैस्त्रिभिः ? ) ॥ १६ ॥ कर्णशालान्तरे कार्यौ द्वयंशौ प्रतिरथावुभौ । ( तयोरुभयोः सार्ध सादं तु मार्गौ निवेशयेत् ? ) ॥ १७ ॥ भागमेकं प्रविष्टौ च शाला भागत्रयात्मिका । निर्गमः स्यात् पदार्धेन गर्भस्तु नवभागिकः ॥ १८ ॥ ───────────────────────────────────────── १ द. ॰शः कासेन कु॰ । २ द. कार्यो गर्भः पदैः षड् भित्तयः स्युर्द्विभागकाः । ३ मुद्रित पुस्तके ‘ शतपत्रा ’ इति स्यात् । ४ द. र्ध । ५ द. यो । ६ द. श । ७ द. कश्च । ८ द. र्धे । ९ द. त्र । १० द. शिखराद्धं स्य चोर्द्ध्वस्य चोर्द्ध्वेन सूरसेनं विधीयते । प्रासादगर्भ मानेन हीनमष्टांशकेन वा ॥ विस्तारमस्य कुर्वीत । इति अधिकः पठ्यते । ११ द. ज्ञे । १२ द. थ । १३ द. स्त्र्यं ।
५०२ समराङ्गणसूत्रधारे त्रिपदा च भवेद् भित्तिरूध्र्वमस्याथ कथ्यते (?) । श्रीवत्सः कीर्तितः सम्प्रत्युच्यते वर्धमानकः ॥ १९ ॥ चतुरश्रीकृते क्षेत्रे +++ भागकल्पितम् । छेदादि गिरिपत्र्यन्तं दद्यात् पूर्वक्रमेण (तु) ॥ २० ॥ द्विस्तरा त्रिस्तरा चापि कर्तव्या¹ वेदिका न (म)ता । स्तरमेकं भवेच्छेदः कण्ठस्तद्द्विगुणो भवेत् ॥ २१ ॥ पट्टिकां गिरिपत्रीं च तस्यैवार्धेन कारयेत् । दशस्तरा ततो घण्टा यदि वामलसारकम् ॥ २२ ॥ द्विस्तरं स्यात् ततः पद्मं द्विगुणः कलशस्ततः । तदूर्ध्वं भूमिका कार्या सपीठा लक्षणान्विता ॥ २३ ॥ स्तरैः स्यात् पञ्चदशभिः पीठं जङ्घापि तावता । चतुःस्तरा भवेन्माला लशुनं तु स्तरद्वयम् ॥ २४ ॥ तस्या (प्य) र्धेन भरणं कुम्भं कुर्वीत तत्समम् । तस्य द्विगुणमुच्छ्रालं गण्डमेकस्तरं भवेत्⁴ ॥ २५ ॥ पट्टं द्विगुणमेतस्मात् कुर्यादर्धेन पट्टिकाम् । पट्टिकायाः प्रमाणेन कर्तव्या गिरिपत्रिका ॥ २६ ॥ वरण्डी त्रिस्तरा कार्या शूरसेनैरलङ्कृता । एकस्तरस्ततश्छेदः कण्ठस्तु द्विगुणस्ततः ॥ २७ ॥ पट्टिका गिरिपत्री च विधातव्ये स्तरं स्तरम् । ⁶उभौ (स्तरौ) खिरिहिरं भवेच्छेदः स्तरं ततः ॥ २८ ॥ तथैव कण्ठस्तद्वच्च पट्टिकागिरिपत्रिके⁷ । वरण्डिका द्विस्तरा स्याच्छेषं पूर्ववदाचरेत् ॥ २९ ॥ उभौ स्तरौ खिरिहिरं छेदं कुर्वीत भागिकम् । कंण्ठश्च पत्रिका चैव गिरिपत्री⁹ च पूर्ववत् ॥ ३० ॥ १ द. ता । २ द. व्यो । ३ द. वर्त्तिं । ४ द. ततः । ५ द. वर्त्ती । ६ द. स्तरावुभौ खिरै° । ७ द. वर्त्तिके । ८ द. कंठं च पत्रिकां । ९ द. त्रां ।
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०३ द्विस्तरा वेदिका कार्या (द्यंवपादिकया ?) युता । छेदमेकं स्तरं कुर्यात् कण्ठं (तद्) द्विगुणं ततः ॥ ३१ ॥ पत्रिकां गिरिपेत्रीं च तस्यैवार्धेन कारयेत् । स्तराष्टकेन घण्टा स्याद् यदिवामलसारकम् ॥ ३२ ॥ भवेत्यमं(?) ++++ कलशो द्विगुणस्ततः । स्तरमेकं भवेद् ग्रीवा कर्णं कुर्वीत तत्समम् ॥ ३३ ॥ द्विगुणं बीजपूरं तु पूर्वत्राप्येवमाचरेत् । (३त्कृष्टा सप्तदशांशकैर्भागैस्त्रिभिर्भवेत् ?) ॥ ३४ ॥ द्विभागिकः प्रतिरथः शाला स्यात् पञ्चभागिका । शालाप्रत्यङ्गयोरन्तर्भागार्धेनोदकान्तरम् ॥ ३५ ॥ परस्परं विनिष्कासः पादहीनं४ पदं भवेत् । गर्भः स्याद् दशभिर्भागैर्भित्तिः सार्धपदत्रयात् ॥ ३६ ॥ चतुर्भिर्वेदिकाबन्धो जङ्घा स्यादष्टभिः पदैः । सार्धैः पञ्चभिराद्या भूः कपोतालीसमन्विता ॥ ३७ ॥ तृ(द्वि)तीया भूमिका चास्य कर्तव्या पञ्चभिः पदैः । सार्धैर्भवेत् तृतीयापि चतुर्भिर्भूमिका पदैः ॥ ३८ ॥ चतुर्थी भूमिका भागैश्चतुर्भिः कीर्तिता पदैः । घण्टा च त्रिपदा कार्या कूटभक्त्यादि पूर्ववत् ॥ ३९ ॥ शुकनासादि कुम्भादि पूर्ववत् समुदाहृतम् । उक्तोऽयं वर्धमानाख्यः प्रासादः शुभलक्षणः ॥ ४० ॥ नन्द्यावर्तमथ ब्रूमः क्षेत्रे सप्तदशांशके । कोणांश्चतुष्पदान् कुर्यात् पञ्जरं सार्धभागिकम् ॥ ४१ ॥ षड्(भि)भागैर्भवेच्छाला गर्भस्तु दशभागिकः । सार्धत्रिभागिका भित्तिरूध्र्वमान(द्विभांगुणम् ?) ॥ ४२ ॥ १ द. द्यद्व्यपादिकिया युता; मुद्रित पुस्तके 'द्यर्धपादिकया' इति स्यात् । २ द. वर्ती । ३ द. कू । ४ द. हीना पदा भवेत् । ५ द. त्रये ।
५०४ समराङ्गणसूत्रधारे वेदी चतुष्पदोत्सेधा जङ्घा भागाष्टकोच्छ्रिता । षट्पदा भूमिका + + + +¹ पञ्चपदायता ॥ ४३ ॥ स्यात् सम्पदे चतुर्भागा तृतीयान्या पदोच्छ्रिता । (सांद्रिवांसवघंटा ?) स्यात् पूर्ववत् कलशादिकाः ॥ ४४ ॥ नन्द्यावर्तोऽयमाख्यातः प्रासादः सर्वकामदः । अथातः सम्प्रवक्ष्यामः प्रासादं नन्दिवर्धनम् ॥ ४५ ॥ चतुरश्रीकृते क्षेत्रे पदाष्टदशकाङ्किते² । कोणस्त्रिपदविस्तारः प्रत्यङ्गं स्यात् पदद्वयम् ॥ ४६ ॥ शाला चतुष्पदा प्रोक्ता चित्रकर्मोपशोभिनौ । पादोनभागमानेन निर्गमः स्यात् परस्परम् ॥ ४७ ॥ कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा । भागेन विस्तृतं कार्यं सर्वत्र सलिलान्तरम् ॥ ४८ ॥ गर्भः स्याद् दशभिर्भागैर्भित्तिर्भागचतुष्टयात् । ऊर्ध्वमानमथ ब्रूमो द्विगुणं तत् प्रकीर्तितम् ॥ ४९ ॥ वेदीबन्धोऽशकाः पञ्च जङ्घा स्यादष्टभागिका । प्रथमा भूमिका कार्या कपोतालीसमन्विताँ ॥ ५० ॥ सपादैः पञ्चभिर्भागैर्द्वितीया तद्वदेव हि । तृतीया तु भवत्यस्य भूमिका पञ्चभागिका ॥ ५१ ॥ चतुर्थी भूमिका ज्ञेया सार्धभागचतुष्टया । घण्टा तस्योर्ध्वतः कार्या पदत्रयसमुच्छ्रिता ॥ ५२ ॥ शुकाद्या य(शू)रसेनश्च स्तम्भिकाकूटभक्तयः । कलशस्योदयस्तस्य विधेयाश्चास्य पूर्ववत् ॥ ५३ ॥ अमुं यः¹¹ कारयेदन्यः प्रासादं नन्दिवर्धनम् । स नन्दिगणसामान्यो जायते नात्र संशयः ॥ ५४ ॥ १ द. द्वि पंचदायता । २ द. ॰ष्ठिता । ३ द. यं । ४ द. तौ । ५ द. तं । ६ द. भागैश्च° । ७ द. तः । ८ द. यं । ९ द. न्न । १० द. द्विद्विधेय । ११
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०५ अतः परमथ ब्रूमो विमानं शुभलक्षणम् । चतुरश्रीकृते क्षेत्रे विंशत्या भाजिते पदैः ॥ ५५ ॥ को(णाः) पञ्चपदाः कार्या मध्ये च सलिलान्तरम् । कर्णिका सार्धभागेन भागार्धमुदकान्तरम् ॥ ५६ ॥ (१सालोपचद ?) विस्तीर्णा सार्धभागेन निर्गता । कोणस्य चार्धभागेन कर्णिकानिर्गमः स्मृतः ॥ ५७ ॥ गर्भश्चास्य विधातव्यो द्वादशांशकविस्तृतः । भित्तिश्चतुष्पदा कार्या दिक्षु सर्वासुव्यवस्थितां ॥ ५८ ॥ ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् । वेदीबन्धोऽशकाः पञ्च जङ्घा नवपदोच्छ्रिता ॥ ५९ ॥ प्रथमा भूमिका कार्या भागैः षड्भिः समुच्छ्रिता । शतपत्रां कपोतालीं मध्ये चास्याः प्रकल्पयेत् ॥ ६० ॥ द्वितीया भूमिका चास्य विधेया पञ्चभिः पदैः । अर्धेऽस्याः स्तम्भकोच्छात्रं कूटं चार्धव्यवस्थितम् ॥ ६१ ॥ (४परस्परपार्धेन हर्मा ?)स्तिस्रोऽन्यभूमिकाः । स्तम्भिकाकूटभरणशूरसेनाः सघण्टकाः ॥ ६२ ॥ कलशस्योदयश्चात्र प्राग्वत् कार्या विपश्चिता । य इमं कारयेद् भक्त्या विमानाख्यं नृपुङ्गवः ॥ ६३ ॥ इह भोगान् स लभते तथा (सत्कायदंविधे?) । अथ पद्माप्रियप्रीतिजननः पद्म उच्यते ॥ ६४ ॥ चतुरश्रीकृते क्षेत्रे भक्ते षोडशभिः पदैः । कोणाश्चतुष्पदाः कार्याः सलिलान्तरभूषिताः ॥ ६५ ॥ द्विपदः पञ्जरो ज्ञेयो गर्भे कोणाश्चतुष्पदाः । (८भागःस्यात् ?) षोडशांशेन तदन्ते सलिलान्तरम् ॥ ६६ ॥ १ मु. पु. 'शाला षट्पद' इति स्यान्; द. स। २ द. ताः । ३ द. तां । ४ मु. पुस्तके 'परस्परं पदार्धेन हीना' इति स्यात् । ५ द. ता । ६ द. नो । ७ द. त्रि । ८ द. भागस्य; मुद्रित पुस्तकेऽपि 'भागस्य' इत्येव पाठभेदः स्वीकृतः । वा. ६४
५०६ समराङ्गणसूत्रधारं गर्भः स्यान्नवभिर्भागैर्भित्तिः सार्धपदत्रयम् । ऊर्ध्वमानमथ ब्रूमस्तथा(द)स्य द्विगुणं भवेत् ॥ ६७ ॥ द्वितीया भूमिका ज्ञेया भागैः पञ्चभिरुच्छ्रिता । अन्योन्यं तु पदार्धेन हीनं स्याद् भूमिकाद्वयम् ॥ ६८ ॥ स्तम्भिकाकूटभरणशुकाय्रै(ग्रा)शूरसेनकाः । घण्टा(कोरस ?)विस्तार भवन्त्येतस्य पूर्ववत् ॥ ६९ ॥ पद्मप्रासादमेनं यः कारयेद् भक्तिसंयुतः । स श्रीपतिरिव श्रीशो भवत्यवनिमण्डनः ॥ ७० ॥ महाभद्रमथ ब्रूमः प्रासादमतिसुन्दरम् । चतुरश्रीकृते क्षेत्रे विंशत्या सैकयाङ्किते ॥ ७१ ॥ कोणाश्चतुष्पदाः सार्धद्वयंशाः प्रत्यङ्गकाः स्मृताः । शाला पञ्चपदा कार्या दिक्षु सर्वासुव्यवस्थिता ॥ ७२ ॥ पादोनभागविस्तारं कर्तव्यं सलिलान्तरम् । गर्भस्त्रयोदशपदो भित्तयश्च चतुष्पदाः ॥ ७३ ॥ ऊर्ध्वमानमथैतस्य ब्रूमस्तद् द्विगुणं भवेत् । वेदी चतुष्पदोत्सेधा जङ्घा स्यादष्टभागिका ॥ ७४ ॥ सप्तभागसमुत्सेधा विधेया चादिभूमिका । मध्ये सान्तरपत्रास्याः कपोताली पदत्रयम् ॥ ७५ ॥ द्वितीयभूमिका चास्य सार्धैः षड्भिः पदैः स्मृता । भागभागविहीनास्तु तिस्रोऽन्या भूमिकास्ततः ॥ ७६ ॥ घण्टा भागत्रयोत्सेधा पद्मपत्रिकया सह । स्तम्भिकाकूटभरणशुकाग्राशूरसेनकाः ॥ ७७ ॥ कलशः (कुम्भं नथाः ?) प्राग्वत् तस्य भवन्त्यमी । महाभद्रमिमं योऽत्र कारयेद् भक्तिमान् नरः ॥ ७८ ॥ १ द. ग्र। २ द. कालस; मुद्रित प्रतौ 'कलश' इति स्यात् । ३ द. रिवाश्चेसाङ्क° । ४ द. दाः । ५ द. ताः । ६ द. धो । ७ द. स्तंभकाः कूटभरणा । ८ द. कलशः कुंभनाथाः । ९ द. मां ।
दिग्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ६०७ स स्वर्गे सुरनारीभिः सेव्यते मदनाज्ञया । अथ श्रीवर्धनमानस्य लक्ष्म साम्प्रतमुच्यते ॥ ७९ ॥ चतुरश्रीकृते क्षेत्रे चतुर्विंशतिभाजिते । कोणाः षड्भागिकाः कार्याः शालाः स्युर्नवभागिकाः ॥ ८० ॥ सार्धं पदद्वयं कार्यः १ शालानामत्र निर्गमः । कुर्याज्जलान्तरं तत्र मध्यतः कोणशालयोः ॥ ८१ ॥ विस्तृतं सार्धभागेन प्रविष्टमपि भागतः । (कोणे मध्यं ? ) विधातव्यं भागेनैवोदकान्तरम् ॥ ८२ ॥ नवांशकृ(क्लृ)प्तशालायाः प्रत्यङ्गौ द्वावुदाहृतौ । भागं ३ द्वितयविस्तारौ भागेनैकेन निर्गतौ ॥ ८३ ॥ चतुर्दशपदो गर्भो ४ भित्तिः पञ्चपदा स्मृता । ऊर्ध्वमानमथ ब्रूमस्तदस्य द्विगुणं भवेत् ॥ ८४ ॥ वेदिका षट्पदोत्सेधा जङ्घैकादशभिः पदैः । प्रथमा भूमिका चास्य कार्या सप्तांशकोच्छ्रिता ॥ ८५ ॥ पादोनैः सप्तभिर्भागैर्द्वितीया भूमिकेष्यते । तृतीया भूमिका षड्भिः सपादैर्जायते पदैः ॥ ८६ ॥ (पादेन षट्कौ ? ) भागेन चतुर्थी भूमिका स्मृता । भागं भागं विधातव्यः प्रवेशः प्रतिभूमिकम् ॥ ८७ ॥ सपादैः पञ्चभिर्भागैः कार्यों घण्टासमुच्छ्रयः । भागत्रयसमुत्सेधस्तदूर्ध्वं कलशो भवेत् ७ ॥ ८८ ॥ सुकाघ्रासूरसेनश्च स्तम्भिकाकूटभक्तयः । कार्या पूर्वोक्तमार्गेण विचित्रकर्मोपशोभिताः ॥ ८९ ॥ १ द. र्य । २ मु. पु. 'कोणमध्ये' इति स्यात् । ३ द. भागं द्वि° । ४ द. र्भो । ५ द. पा । ६ मु. प्रतौ 'पादेन षट्क' इति स्यात् । ७ द. दूर्ध्व । ८ मुद्रित पुस्तकानुसारेण इत ऊर्ध्वं मातृकायां पत्रमेकं (२३३ तमं) लुप्तम् परन्तु 'द.' पुस्तकानुसारतः 'सुकाघ्रा......अष्टाविंशति पदाङ्किते' इत्यन्तं अधिकः श्लोकपाठ उपलभ्यते ।
५०८ समराङ्गणसूत्रधारे श्रीवर्द्धमानं य इमं प्रासादं कारयेन्नृपः । यशः श्रीश्रेयसांगस्य वृद्धि स्यादुत्तरोत्तरा ॥ ९० ॥ पद्मयोनिपृथः सद्मश्चथ कीर्त्यते । चतुरस्त्रीकृते क्षेत्रे विंशत्येकोनयान्तिके ॥ ९१ ॥ कोणाश्चतुष्पदाः कार्या प्रत्यङ्गा अपि तत्समाः । परिवर्तनकर्त्तव्या परस्परममी शुभाः ॥ ९२ ॥ शाला नवांशविस्तीर्णा स्यात् पदत्रयनिर्गमा । शालालस्ताश्च कर्त्तव्या द्विभागा बालमञ्जरी ॥ ९३ ॥ कर्णप्रत्यङ्गयोर्मध्ये बालप्रत्यङ्गयोस्तथा । जलन्तराणि कार्याणि तत्प्रमाणस्य मध्यतः ॥ ९४ ॥ गर्भः सप्तदशांसः (शः) स्याद्भित्तयः षड्भिरंशकैः । ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥ ९५ ॥ वेदी षड्भागिकोत्सेधा जङ्घाभागास्त्रयोदश । सप्तभागसमुत्सेधा कर्त्तव्या चादिभूमिका ॥ ९६ ॥ षड्भिः सार्धैः द्वितीया स्याद्भागभागोज्झिते परे । पञ्चमी स्याच्चतुर्भागा भागार्द्धेन परेत्पृथक् ॥ ९७ ॥ प्रवेशः कूटदम्भैण भूमीनां स्यात् परस्परम् । भूमिकार्द्धं विधातव्यं स्तम्भिकाभरणान्वितम् ॥ ९८ ॥ अपरं कूटशोभातिरर्द्धमस्याविभूषयेत् । घण्टापञ्चपदोत्सेधा विस्तृता गर्भमानतः ॥ ९९ ॥ सुकाद्याद्य परं यत्तु पूर्ववत्तत् प्रकल्पयेत् । महापद्माभिधयोत्र प्रासादं कारयेत् सुधीः ॥ १०० ॥ इहामुत्र च निर्द्वन्द्वः स परं सुखमश्नुते । लक्ष्याथ पञ्चशाला प्रासादस्याभिधीयते ॥ १०१ ॥ चतुरस्त्रीकृते क्षेत्रे अष्टाविंशतिपदान्तिके । तस्यार्जनफलाः काराः कोणा पञ्चपदाः स्मृताः ॥ १०२ ॥ प्रत्यङ्गास्त्रिपदाः कार्या भागद्वितयनिर्गता । शाशा (ला) ष्टपदविस्तारा पदत्रितयनिर्गमा ॥ १०३ ॥
दिम्भद्रादिप्रासादलक्षणं नाम चतुष्षष्टितमोऽध्यायः । ५०९ कोणप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा । भागेन विस्तृतं कार्यं प्रविष्टं च जलान्तरम् ॥ १०४ ॥ गर्भः षोडशभिर्भागैः भित्तयोऽपि च षट्पदाः । ऊर्ध्वमानमथैतस्य ब्रूमस्तद्द्विगुणं भवेत् ॥ १०५ ॥ विधेयो वेदिकाबन्धः सार्धपञ्चपदोच्छ्रयम् । जङ्घा चास्य भवेत् कार्या तत्रैकादशभागिका ॥ १०६ ॥ सार्द्धसप्तपदोत्सेधा विधातव्या च भूमिका । कपोतपाली कार्यास्य मध्ये भागत्रयोच्छ्रिता ॥ १०७॥ अयं भूमिप्रमाणेण स्याद्वितीयाऽपि भूमिका । तृतीया सप्तभिर्भागैश्चतुर्थी सार्धषट्पदा ॥ १०८ ॥ पञ्चमी षट्पदा कार्या घण्टा पञ्चपदोच्छ्रिता । शालास्थानेषु सर्वेषु कर्त्तव्यं पञ्चघण्टकम् ॥ १०९ ॥ कुमारैः पञ्चभिर्युक्तं पञ्चशालयमुच्यते । शुकाघ्रासूरसेनादि यच्चान्यत् कलशादिकम् ॥ ११० ॥ तदस्य पूर्ववत् कार्यं पञ्चशालस्य धीमता । पञ्चशालमिमं यस्तु प्रासाद(दं)का(र)येद्भुवि ॥ १११ ॥ तस्य धन(न्य)स्य सन्तानेऽप्यतुला(लं) जायते सुखं । अथातः संप्रवक्ष्यामः प्रासादं पृथिवीजयम् ॥ ११२ ॥ चतुरस्त्रीकृते क्षेत्रेऽष्टाविंशतिपदाङ्किते । ¹+++++++++++ पदाः स्मृताः । भागद्वितयविस्ताराः कर्तव्या बालपञ्जराः ॥ ११३ ॥ शाला² षड्भागविस्तीर्णा भागत्रि³(तयमुच्छ्रिता) । (को)णप्रत्यङ्गयोर्मध्ये शालाप्रत्यङ्गयोस्तथा ॥ ११४ ॥ कक्षान्तरे विधातव्यं भागिकं सलिलान्तरम् । गर्भः ⁴स्याद् ५दशभिर्भागैर्भित्तिः कार्यास्य षट्पदा⁶ ॥ ११५ ॥ १ द. कोणाः कार्यश्चतुर्भागा प्रत्यङ्गास्त्रिपदाः स्मृताः । २ द. लाः । ३ द. त्रितयनिर्गताः । ४ द. बा । ५ द. षोड । ६ द. दाः ।