भारतकोश
संग्रह पर लौटें

शिवदृष्टि (सोमानन्दनाथ - उत्पलदेवाचार्य वृत्ति सहित काश्मीर प्रत्यभिज्ञा मूल दर्शन सटीक)

Shivadrishti of Somanandanatha with Utpaladeva Vritti

सोमानन्दनाथ (वृत्ति: उत्पलदेव) द्वारा

DevanagariHindipublished188 पृष्ठ

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ६६ विषयरूपत्वेन कर्मतया¹ यस्याख्या प्रतीतिः शब्दस्य तस्य इन्द्रि- यस्य च करणतया² प्रसिद्धस्य वाग्रूपस्य मिश्रत्वेनैकीकारेण यस्मात्तैरुक्त- मनादिनिधनमित्यादिकमभेदाभिधायि तयोः³, तस्मात्तेन मिश्रीकारेण सर्वदर्शनाज्ञानता⁴ पदवेदिनां वैयाकरणानां प्राप्ता। नहि क्वचिदपि सांख्यादि- दर्शनेषु व्यावहारिकयोरिन्द्रियविषययोरभेद इष्टः। एवं⁵ च वा शब्दस्य परत्त्वेनानादिनिधनत्वेनाद्वयवादादैक्येन वर्ण्यमानत्वे हस्तेऽपि⁶ कर्मेन्द्रिये तद्ग्राह्येण विषयेणैकता प्रसज्येत ॥ ८२ ॥ ब्रह्मणो ज्ञानशक्तिः⁷ पश्यन्तीत्यपि यावदिष्यते तावदन्यदपि⁸ सूक्ष्म- तरमेष्टव्यमित्याह-- पश्यन्ती हि क्रिया तस्या भागौ पूर्वापरौ स्थितौ । न तद्दृष्टव्यमित्येतद्विमर्शः ९ पूर्वतो भवेत् ॥ ८३ ॥ यथा कर्तुः कुलालादेर्घटः कार्य इतीदृशः । विमर्श इच्छारूपेण तद्वदत्रापि संस्थितम् ॥ ८४ ॥ सा स्थिता पूर्वतस्तस्य इच्छायाः प्रसरः कथम् । यावन्न सूक्ष्म उल्लासश्चितः कार्योन्मुखः स्थितः ॥ ८५ ॥ तस्या अपि सामरस्ये व्यवस्थावान् स्थितः शिवः । एवं भवप्रक्रियाया अपि सूक्ष्मतरा स्थितिः ॥ ८६ ॥ परं तत्त्वमित्याहुः। तच्च शब्दतत्त्वं विषयाख्यं कर्मरूपं ग्राह्यं वाक्तत्त्वं च करणरूपं ग्राहकं, तथा च ग्राह्यग्राहकयोरभेद एव परमार्थतत्त्वमिति तदेतत्सोपहासं प्रत्याह सर्वदर्शनेति। १ ग्राह्यतया। २ ग्राहकतया। ३ वाक्तत्त्वशब्दतत्त्वयोः। ४ सर्वशास्त्रानभिज्ञत्वं। ५ एवमित्यङ्गीकारे। ६ हस्तेनेत्युपलक्षणं तेनान्येषामपि कर्मेन्द्रियाणामेवमेव बोध्यम्। ७ ननु किमिदमुच्यते जडात्मनि ज्ञानशक्तिरिति, अत्र हि न स्वरूपद्वित्वमाश्रितं, येन स्वरूपं जडात्मकं, सा च स्वयं ज्ञानात्मिका शक्तिरिति। यैव हि ब्रह्मणो ज्ञानात्मिका शक्तिः सैव पश्यन्तीति शक्तिरूपा, न तु स्वतन्त्रा काचिदिति। तथा च न तस्यां काचनापि पूर्वोक्तदूषणावतारसरणिरित्य- भ्युपगमद्वारेण स्वमतेन सिद्धान्तयति। ८ उन्मीलितमायुष्मतो विवेकचक्षुषा न कारणमत्र विद्मो येन न पूर्णं विकसतीति भावत्वेनाह तावदित्यादि। ९ न शब्दोऽत्र शीर्षचालनन्यायेनाभ्युपगमेन द्रष्टव्यं द्रष्टव्यमेवेत्यर्थः।

७० शिवदृष्टि: [ आ०-२ स्थिता सा न पुनः सत्या वाचो वायुगमात्मनः । इष्यते ब्रह्मरूपत्वं¹ घटादेरपि कथ्यताम् ॥ ८७ ॥ पश्यन्ती हि दर्शनक्रियात्मिका पूर्वापरीभूतावयवा, पूर्वं² चैतद्- द्रष्टव्यमिति विमर्शः कुलालादेरिव घटादिकरणेऽवश्यमिच्छात्मकः स्यात्, तद्वदत्रापि³ सर्वमेतत्स्थितम् । एवं चेच्छा दर्शनक्रियायाः पूर्वा स्थिता, तस्याश्चेच्छाया अपि चित्तत्वसंबन्धिसूक्ष्मतरोल्लासमिष्टज्ञेयकार्योन्मुख्य- लक्षणं विना प्रागुक्तन्यायात् कथं प्रसरः, तस्या अपि चित्तो निवृत्यो- न्मुख्येच्छाज्ञानक्रियाक्रमव्यवस्थाया यत्सामरस्यमेकीभावः समावेशविषय- स्तत्र व्यवस्थावान् व्यवस्थाश्रयोऽक्रमः शिवभट्टारकः स्थित इति । एवं ज्ञानशक्तिताभिप्रायेणापि पश्यन्त्या भवलक्षणां प्रक्रियां प्रति सूक्ष्मतरा- न्यापि पररूपा स्थितिरस्ति, ततः साप्यनुमन्तव्या न तु वायुगमात्मिकाया वाचः सत्यास्तस्या ब्रह्मरूपत्वमेष्टव्यम् । एवमिष्यमाणे⁴ भूतत्वाविशेषात् घटादेरप्येवमुच्यताम् ॥ ८७ ॥ यथा⁵ सर्वपदार्थानां भगवच्छिवरूपता । तद्वद्वागिन्द्रियस्यापि न पुनः सा परा दशा⁶ ॥ ८८ ॥ कण्ठादौ वदने वायोर्व्यापारो वाग्रुतस्य सा । करणं, नादरूपादिशब्दस्यास्ति शिवात्मता ॥ ८९ ॥ तस्यापि कथिता पञ्चतत्त्वदीक्षाविधौ क्वचित् । न वाच इष्यते तद्वत्तस्मात्सर्वं शिवात्मकम् ॥ ९० ॥ यद्यपि सर्वार्थानां ज्ञानगोचराणां चिदन्तःप्रवेशात् चिल्लक्षण- परमेश्वररूपता परमार्थतो यथा तथा वागिन्द्रियस्यापि ज्ञेयसर्वार्थान्त- १ यदि च सामान्यतयास्या वाचस्तर्हि घटादेरपि तथा प्रकल्प्यताम् । २ तस्याः क्रियायाः । ३ पश्यन्तीविचारे । ४ तस्या ब्रह्मत्वे । ५ ननु च सत्यमेवैतद्घटादेरपि कथ्यतामिति यत्सर्वार्थानां ज्ञानगोचरत्वाच्चिदन्तः- प्रवेशाच्चिन्मयत्वे परिपूर्णमखण्डमेव परमेश्वरत्वमिति, तच्च साम्येऽपि वाच इयान्विशेषः सत्त्वादेर्यदग्राह्यत्वमिति, सर्वार्थान्तर्भावस्तु सर्वत्र समान एवेति बुद्ध्याद्यग्राह्यत्वविशेषेण तस्या एव ब्रह्मत्वमित्याशंक्याह यथेत्यादि । ६ ‘न पुनः सा परा दशा’ इत्यनेन तस्या अन्येभ्यो विशेषे सत्यपीति ध्वनितम् ।

आ०-२ ] उत्पलदेवकृतवृत्त्योपेता ७१ र्भावादज्ञेयत्वेऽसत्त्वादेः, तथापि वागिन्द्रियदशापरा न भवति, माया- शक्त्या शिवाभेदाख्यात्या तदुत्थानात्। तथा हि कण्ठताल्वादौ वद- नैकदेशे वायोर्योऽभिघातव्यापारः शब्दाविर्भावहेतू रुतं नाम तस्य सा करणम्, एषा च सर्वैव भेदमय्यपरावस्था। अथ नादरूपस्य स्थूलस्य परस्य च शब्दस्यास्ति मन्त्रात्मनः परमशिवात्मता तदिष्टा कथिता पञ्चतत्त्वदीक्षाविधौ दीक्षाशास्त्रे न पुनरेवं वाच इन्द्रियरूपायाः, पर- भावस्तन्मयत्वं वा जगतो युक्तम्, अतः सर्वं शिवात्मकमेवोपपन्नमिति शिवम् ॥ ६० ॥ इति श्रीमदुत्पलदेवपादकृतौ श्रीशिवदृष्टिवृत्तौ द्वितीयमाह्निकम् ॥

अथ तृतीयमाह्निकम् अद्वयवादः स्थितः१, पश्यन्तीविचारादनन्तरं स्वयूथ्यानद्वयवादिनः२ प्रतीदानीमारम्भः३ । तथा च तैरूक्तम्— ‘यस्या निरुपाधिज्योतीरूपायाः शिवसंज्ञया । व्यपदेशः परां तां त्वामम्बां नित्यमुपास्महे ॥’ इति । तत्राह— अथ४ शक्तेः परावस्था यैर्भक्त्या परिगीयते । युक्त्या प्रकाशितो देवस्ततः५ शक्तिदशा यतः ॥ १ ॥ लिङ्गविशेषान्यथानुपपत्त्या६ शक्तित्वेनैवाभिमतस्यार्थस्य परा- वस्थारूपाभिधानं भक्तिरेव ततः परस्य शक्तिमतोऽभावात् शक्तिमद- भिन्ना हि तत उद्धृत्यापि प्रयोजनवशान्निर्दिश्यमाना तत्पारतन्त्र्येण७ १ स्वसिद्धान्तेन निश्चयेन दृढीकृतः । २ स्वसमानजातीन् । ३ न तु निराकरणमित्यर्थः । ४ अयं भावः--शक्तिरिति पराधीन- त्वादस्याः स्त्रीलिङ्गस्य पुंल्लिङ्गविशेषरूपत्वाच्च सिद्ध एव स्वयं तस्यास्तदधीनत्वे यत्परत्वाभिधानं सा केवलं तत्तत्त्वोत्कर्षाख्यापिका भक्तिरेव । भक्तिस्तत्र प्रेमातिशयः रचना च । रचनया तैस्तदौत्कर्ष्य- प्रख्यापनेन शक्तिमत्प्राधान्यमेव सूचितमित्यर्थः । ननु च यदि भक्तिरेव तद्व्यपदेशः परंतु शक्तिमानेवोत्कर्षेण ख्यापितोऽलं तर्हि तान्प्रति प्रत्या- क्षेपकरणेनेत्यत आह युक्त्येति । युक्तिर्हि कांश्चित्सूक्ष्मदृष्टीन्प्रत्येवोपर्युक्ते इति तदुक्तिर्भूषणमेव सर्वोपकारकत्वाभावादित्यर्थः । ५ न च तेषां शक्तिरेव स्वातन्त्र्येण मतेति मन्तव्यमित्याह तत इत्यादि । ६ सामान्यं पुंलिङ्गं विनेत्यर्थः । ७ ननु च यदि शक्तिमतस्तत्स्वातन्त्र्यरुरूपा शक्तिः— ‘न वह्नेर्वाहिका शक्तिः पृथङ्निर्द्देष्टुमर्हति ।’ इति न्यायेन युक्तिबोधनार्थं भक्त्या वाभिधानं कथं संभवतीत्यत आह

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७३ तदनन्तरं निर्देशमर्हति । यतस्तैरेव१ ततः परावस्थातोऽनन्तरं शक्तिदशा किंचिदुच्छूनतेत्यादिनोक्ता ततो यैः शक्तेः परत्वं गीयते तैस्तया धर्म- भूतया धर्मी स्वाश्रयः स्वतन्त्रो वास्तवाभेदयुक्त्या देवः शिवः प्रकाशितः । अनिमित्तमेव२ तु विशेषात्मनि स्त्रीलिङ्गे किमित्यभिनिवेशः, पुंस्त्वं३ हि स्त्रीपुंसयोः सामान्यं लिङ्गं, नपुंसकं४ पुनः शक्ततापर्यायरूपं नैवं- विधविश्वेश्वरनिर्देशावसरे युक्तोपादानमित्यभेदाभिधानार्थं शक्तितद्वतोः पुंस्त्वेनोपपत्तिः ॥ १ ॥ तथा तद्व्यपदेशश्चेद्व्यपदेशः शिवात्मकः । तथा स्त्रीलिङ्गेन परमशिवस्यैव व्यपदेशो मतश्चेत्तत्सोऽपि व्यपदेश उक्तन्यायाच्छिवशब्दात्मकः५ कार्यः । अभेदमेवाह-- न६ शिवः शक्तिरहितो न शक्तिर्व्यतिरेकिणी ॥ २ ॥ शिवः शक्तस्तथा भावानिच्छया कर्तुमीदृशान् । शक्तिशक्तिमतोर्भेदः७ शैवे जातु न वर्ण्यते ॥ ३ ॥ शक्त्या रहितः शून्यो न यद्यपि शिवस्तथापि कथमैक्यं तदाह न शक्तिव्यतिरेकिणीति । तथाहि तेन तेनैव वैचित्र्येण ईदृशानति-


तत्पारतन्त्र्येणेति । तस्याः स्वयं स्वातन्त्र्यं व्याघातविरोधादिदोषप्रसङ्गा- दित्यर्थः । १ न च तेषामेतदनभिप्रेतं येन तदुक्तिरन्यवादिवत्प्रतिक्षेप्यपक्षे ; व्यवतिष्ठेतेत्याह यतस्तैरित । २ विशेषेण तत्पक्षं व्यवस्थापयति अनिमित्त- मित्यादिना । ३ का हानिरत्रेत्याह पुंस्त्वं हीति । ४ नन्वत्र यदि स्त्रीलिङ्गव्यपदेशे विशेषरूपत्वादोष आशंक्यते तर्हि पुंलिङ्गेऽपि शक्ति- मत्स्वरूपप्रख्यापके दोष आपतत्येव स्थूलदृशामिति निर्दोषं नपुंसकलिङ्गमेव गृह्यतां येन शक्तिरिति स्वातन्त्र्यं नपुंसकलिङ्गेनैव तन्निर्देश्टुमर्हतीत्यत आह नपुंसकमिति । ५ पुंल्लिङ्गं सामान्यमिति न्यायात् । ६ न चानयोः परस्परं भेदो युक्तः येन स्त्रीलिङ्गव्यपदेशोऽप्युपपत्स्यत इति स्वमतेन सिद्धान्तयति । ७ शैव इति प्रामाणिकत्वकथनार्थं, तेन च तेषामपि तद्व्यवस्थितिरेव दर्शिता नान्यदर्शनस्थितिरत एव वृत्तिकारेण स्वयूथ्यानिति कथितम् ।

७४ शिवदृष्टिः [ आ०-३ दुष्करानिच्छामात्रेण शक्तः शिवः कर्तुमिति व्यवहारेऽप्यभेदः, शक्तितद्वतो- र्भेदाख्यानुपपद्यमानत्वात् शैवे न कदाचिदवान्तरादिभेदेष्वपि वर्ण्यते यथा- न्यत्राप्रामाणिकदर्शनेषु ॥ ३ ॥ तदेव विचारयन्नाह— शक्तेरेव स्वतन्त्रत्वात्कर्तुं भावान्विचित्रकान् । सामर्थ्यं यदि कल्प्येत तन्नामानन्त्यमेव वा ॥ ४ ॥ भेदे १ हि शक्तिः किं कार्यं करोत्युत च शक्तिमान् । तत्र यदि शक्तिस्तत्किमसौ २ शक्ता करोति अथाशक्ता, अशक्तस्य करणेऽतिप्रसङ्गः ३, शक्तत्वे ४ तस्याः शक्त्यन्तरयोगे शक्तचाश्रयस्य शिव- स्यैव ५ शक्तिरिति नाम स्यात् । अथ ६ शक्त्यैव सत्या भिन्नशक्तियोगस्तत्सैव भिन्नशक्तिः कार्यं कुर्यात्, कथं वा कुर्यादशक्ता, शक्तत्वे शक्त्यन्तरकल्पनेना- नवस्था स्यात् आनन्त्यापत्तेः ॥ १ अभेदेन व्यवस्थाप्य भेदं तयोः खण्डयितुमाह भेदे इति । २ ननु सत्यमेतत्— शक्तिशक्तिमतोर्भेदः शैवे जातु न वर्ण्यते ।' इति, तथापि यदेव शक्तिमतः शक्तित्वं नाम स्वातन्त्र्यं तेनैव तस्य शक्तिमतोऽपि स्वरूपलाभेऽपि शक्तिप्रसर इत्यलं शक्तिमत्स्वरूपविस्त्रम्भेण । येनोक्तं— 'तथा तद्व्यपदेशश्चैद्व्यपदेशः शिवात्मकः ।' इत्यादि, तत्र पृच्छति तत्किमसौ शक्तेति । ३ शून्यादपि सर्वभावोत्पत्तिः स्यात् । अनिष्टापत्तिः प्रसङ्गः । ४ तदेव शक्तत्वं यत्स्वात्मनि शक्त्य- विच्छेदः, शक्तिसमवायं विना शक्तत्वस्यैवानिर्वाहात् । ५ यदि च शक्ति- योगः शक्तेस्तर्हि फलितं ममैव मनोरथकल्पलतेत्याह शिवस्यैव शक्ति- रिति नाम स्यादिति । ६ अथेदानीमभेदपक्षे न कथंचनापि शक्तिव्यपदेशो यदि शक्तिवादी भेदपक्षमनयोराश्रुणोति तत्र विवेचयितुमाह अथेत्यादिना । यदुक्तं शक्तिमतः शक्तत्वं धर्मभूतं स्वभावकल्पमेव येन शक्तिमानिति व्यपदेशः । तन्न, भिन्नैव शक्तिः शक्तिमत इति तत्रापि पृच्छति तद्भिन्न- शक्तिरिति । अत्रापि पूर्ववन्न्यायः, अशक्तस्य करणेऽतिप्रसङ्गः शक्तत्वे पुनस्तस्याप्यन्यत्तस्याप्यन्यदित्यानन्त्यापत्त्यानवस्थाप्रसङ्ग इति ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७५ किंच¹-- शक्तिमानेव शक्तिः स्याच्छिववत्करणार्थतः ॥ ५ ॥ शक्तेः³ स्वातन्त्र्यकार्यत्वाच्छिवत्वं न क्वचिद्भवेत् । शक्तिरपि शक्त्यन्तरयोगात्कुर्वती शक्तिमानेव स्यात् । करणलक्षणाद- र्थप्रवृत्तिनिमित्तात्कर्तृत्वादित्यर्थः, यथा शिवभट्टारकः⁴ । शक्तेश्च स्वतन्त्रं स्वनिबन्धनं कार्यं नान्याश्रयमिति⁵ शिवता नान्यत्र क्वचिद्भवेदिति शैवदर्शनानुपपत्तिः स्वयूथ्यानाम् ॥ मुञ्चतोऽपि निजां शक्तिं स्वातन्त्र्ये⁶ ज्ञानमापतेत् ॥ ६ ॥ १ न केवलं शक्तेः शक्त्यन्तरयोगेन शिवस्य शक्तिरिति भवदभीष्टमेव नाम निर्वहेद्येन स्ववचनविरुद्धव्याघातदोषोऽप्यापतेदित्याह किंचेत्यादिना । २ शक्तिमत्त्वं हि कर्तृत्वमुच्यते, शक्तित्वं हि करणत्वं, शक्तेश्च शक्तता- योगे स्फुटमेव तस्या एव शक्ततायाः करणत्वमेतस्याश्च तद्योगात्कर्तृत्वमिति शक्तिरपि शक्तिमद्व्यपदेशमर्हति न काचनापि शक्तिरिति स्यादिति, येन क्रियते तत् करणं इति । ३ ननु किमिदमुच्यते शक्तियोगे शिवस्यैव शक्तिरिति नाम, तथा ‘शक्तिमानेव शक्तिः स्यात्’ इति च, यतस्तदेव शक्तेः शक्तित्वं यत्स्वा- तन्त्र्येण स्वात्मन्येव स्वनिबन्धनमेव कार्यकारित्वं, तथा च कार्यत्वमपि स्वतन्त्रं तदेकाकारं नान्याश्रयमिति तदेतदपि विघटयति शक्तेरित्यादिना । ४ करणलक्षणेनार्थेन शक्त्या यथा शिवभट्टारकस्य कर्तृत्वमित्यर्थः । ५ तथा च कुतोऽयं निर्देशस्तैः कृतः— ‘शक्तिश्च शक्तिमांश्चैव पदार्थद्वयमुच्यते । शक्तयोऽस्य जगत्सर्वं शक्तिमांस्तु महेश्वरः ॥’ इति ॥ ६ ननु च न शैवदर्शनानुपपत्तिः स्वयूथ्यानां येनोक्तं ‘शिवता नान्यत्र क्वचिद्भवेत्’ इति । अस्त्येव शिवताया विषयः यावद्धि शक्तित्वसमावेशः तावत्केन शिव इति व्यपदिश्यते, तद्व्यतिरेके तु विविक्तत्वाच्छिव इति व्यपदेशः केनापह्रूयत इति विविक्तविषयत्वात्स्फुटमनयोः स्वरूपलाभोऽ- स्त्येव । तत्राह ‘स्वातन्त्र्ये ज्ञानमापतेत्’ इति । अयं भावः, यद्यत्र भवद्भि- र्विषयभेदेन व्यवस्थाप्यते तर्हि तावत् ‘शक्त्या गर्भान्तर्वर्तिन्या शक्तिगर्भं परं महः’ इति लक्षणं शिवभट्टारकस्य भवदनुरोधेन छिन्द्यात् । छिनत्तु वा नास्त्यत्र तव कोपि भरः । तथापि ‘स्वातन्त्र्ये ज्ञानमापतेत्’, स्वातन्त्र्यं हि

७६ शिवदृष्टिः [ आ०-३ शक्तिं मुञ्चतो विविक्तस्य शिवभट्टारकस्याभ्युपगमे' .... तत्त्वात्स्वा- तन्त्रचे ज्ञेयनिष्ठत्वाभावस ... ... ... माप्नोति ज्ञेया- प्रकाशनात् तच्च ... ... ... अथवा निजशक्ति- त्यागे ......... हि तस्य स्वस्वात्तन्त्रचस्य...... तथैव ज्ञानं स्यात्...... शक्ति- मतः शक्तेः पृथग्भावेन प्रतीतिरस्ति केवलमेकस्मिन्नेव यस्मिन् वस्तुनि प्रतीतेः किञ्चिद्भवति२ तत्समानं शक्तं व्यवहारसारमेवमुच्यते३ शक्ति- मानिति४ ॥ तदाह-- न५ हिमस्य पृथक् शैत्यं नाग्नेरौष्ण्यं पृथग्भवेत् । शक्तिः शक्तत्वं शक्तस्य धर्मः, न च धर्मो धर्मिणो भिद्यते तथा६ हिमवह्न्योः शीतोष्णस्पर्शौ न पृथगुपलभ्येते ॥ ६ ॥ स्वतन्त्रस्य शक्तिमतः स्वभावभूतो धर्मः स्वभाववन्तं विना न कथनार्हमिति भावः। १ अभ्युपगमे' इति प्रभृति 'ज्ञानं स्यात्' इत्यन्तं निम्नलिखितः पाठः कपुस्तके दृश्यते—नास्त्यत्र भवतो विप्रतिपत्तिसम्भावनापि केवलं स्वातन्त्र्ये शक्तिमन्तं विनापि शक्तौ स्वभावभूते धर्मे ज्ञानं स्वतः संभावनानिष्ठापत्ति- रायाति, न चेष्टा, नहि भवतां--२ आधिक्यमिव तस्याः स्पन्दस्वरूपं किंचिच्चलनात्मकत्वात् । ३ किंचिच्चलत्ताव्यवहारसारम् । ४ इदमत्र तात्पर्यम्, एकमेवेदं स्वस्वभावाख्यं शक्तिगर्भं शक्तिमत्स्वरूपं तत्रैतादृशे यत्किचित्प्रतीतेराधिक्यं यदा स्फुरति, तत्तदा शक्तिरिति भण्यते । तदा- श्रयत्वेन च तत्समानं तदेकसङ्घट्टमीहग्व्यवहारसारं चलत्तात्मकस्वरूपा- भासनविश्रान्ति सामरत एव शक्तमिति तच्छक्तिसहितं शक्तिमानिति कथ्यते, न तु शक्तिशक्तिमतोर्वस्तुतो भेदो लक्ष्यत इति । ५ नन्वस्तु शक्ति- शक्तिमतोरभेद एव तथापि यथाग्नितदौष्ण्ययोर्हिमशैत्ययोश्चभेदेऽपि औष्ण्य- शैत्याभ्यामेव व्यवहारो नाग्निना नापि हिमेन तथानयोरपि चोभेदेऽपि शक्तद्वयवाद एव युक्तियुक्तः, न शिवाद्रयवाद इत्याशङ्क्याह न हिमस्येति । अयं भावः—सत्यमेव शक्त्यैव व्यवहारदर्शनात्तद्द्वयवाद एव वक्तुं युक्त- मित्येतद्यद्यपि तथापि न धर्मिणं विना धर्मो व्यवहारशक्तः । न हि हिमाग्नी विना शैत्यौष्ण्यस्पर्शो जातुचित्संभवति तद्व्यवहारेऽपि। तथा शक्तिसंबन्धेऽपि सर्वत्र तद्व्यवहारदर्शनान्न तथा धर्मिणं व्यवधाय व्यवहारो युक्त इति शिवा- द्वयवाद एव युक्तियुक्तोऽङ्गीकर्तव्य इति । ६ यद्यपि हिमवह्न्योरत्र दृष्टान्तत्वेन

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७७ मन्त्रस्तम्भनतायां१ हि नासौ वह्निस्तदोच्यते । ७ ।। हेमादिवद्भास्वरं तद्द्रव्यं तैर्व्यभिचारितम् । यद्यौष्ण्यव्यतिरेकत्वे दृष्टान्तो दाहकाश्रयात् ॥ ८ ।। मन्त्रेणौष्ण्यस्तम्भनं२ यस्य तथा शक्तिव्यतिरेकता शक्तिमत उच्यते । तन्न इदं वह्नित्वं, तदभावे सत्यग्नेरौष्ण्यं नोपलभ्यते यतस्तदानीमसौ वह्निस्तेजोमयत्वेऽपि यथा सुवर्णादि द्रव्यं भास्वरम् । अथ तैरेव हेमादि- भिरग्निसंज्ञतेजोमहाभूतात्मभि( गिनसहचरितै )रेव दृष्टान्तो यदि ( शक्तिव्यतिरेकता शक्तिमत उच्यते तन्न दोषः यतो ) दाहकत्वेन श्रित उष्णः सन् ( स ) वह्निः शक्तिव्यतिरेके दृष्टान्तीकृतो न वह्निमात्रम् ॥ ८ ॥ शैवैः३ सद्भिर्वाच एव पश्यन्त्यादिक्रमे स्थिताः । कल्पितास्तैरशैवत्वमात्मनः प्रतिपादितम् ॥ ९ ।। अन्यच्च यैः शक्तिवादिभिः-- 'यस्या निरुपधिज्योतिरूपायाः शिवसंज्ञया । व्यपदेशः.....................................,' इत्येवमभिधानात् शैवदर्शनस्थितेरपि सद्भिर्वाच एव क्रमव्यवस्थिताः पश्यन्तीमध्यमावैखरीसंज्ञाभिर्विश्वात्मतया कल्पिताः, यदाहुः-- व्यपदेशो युक्तः तथाप्यनुभवशालिनामौत्कर्षख्यापनाय दाष्ट्रान्तिकत्वेन योजित इति बोध्यं तदाह तथेति । १ ननु च यथा मन्त्रेणौष्ण्यशक्तिस्तम्भने- ऽपि वह्नेर्भासमानत्वात् वह्निरयमिति सर्वोऽपि प्रत्येति, तथा शक्तिव्यतिरेके- ऽपि तस्य व्यवस्थानात् कथनुक्तं 'मुञ्चतोऽपि' इत्यादि । तथा, यथा च तत्र पृथगेवान्यथा कथं मन्त्रेण स्तम्भनं सिद्ध्येदिति, तथा च कथमनयोरभेद इत्यत्र समर्थयति मन्त्रस्तम्भनेत्यादि । २ मन्त्रेणौष्ण्यस्तम्भनं यस्य तस्य वह्नेर्यथा शक्तिर्व्यतिरिक्तैव तथा तच्छक्तिस्तम्भनतायां वह्निः स्वरूपेण तिष्ठते, न तु तेनैव वह्निरिति ज्ञानम् । तथा शक्त्यपगमे शक्तिर्व्यतिरिक्ता । न च शक्त्यैव शक्तिमत्स्वरूपव्यपदेश इत्यर्थः । ३ अथेदानीं स्वातन्त्र्यापर- पर्यायशक्त्यद्वैतपक्षेऽनुपपन्नेऽपि चान्ये शक्तिवादिनः पुनरपि प्रत्यवतिष्ठन्ते । पश्यन्त्यादिवाच एव समन्ताद्विश्वमागूर्य यतो वर्तन्ते ततो वाचः शक्ति- रूपत्वाद्व्यागद्वैतमयं शक्त्यद्वैतमयं सर्वं विश्वम् । अलं शिवाद्वैतवादेनेत्यत आह शैवैरित्यादि ।

७८ | शिवदृष्टिः | [ आ०-३ “.........................यावन्नोन्मेषभागणुः । न तावदर्थे वर्तत स चोन्मेषः क्रिया मता । क्रिया च नानारूपैव...................” इत्युपक्रम्य-- 'स्वस्वभावस्थितिं मुक्त्वा तस्मान्नान्यास्ति सा दशा । शिवे यस्यां न वाग्रूपं सूक्ष्ममप्राप्तसंनिधिः ॥' इति तैरशैवत्वमात्मन उक्तम् ॥ ९ ॥ तथाहि-- शैवे वाच इन्द्रियत्वमथ¹ नादादिनोदिता । तदभ्यासे फलावाप्तिः सूक्ष्ममन्त्रस्वरूपता ॥ १० ॥ कथिता कालपादादौ² नादाख्यं यत्परं त्विति । परापरादिभेदश्च तत्रैव³ प्रतिपादितः ॥ ११ ॥ इत्यनेन वर्णितात्र वाच एव परात्मता । शैवे हि वाचः सांख्य इव कर्मेन्द्रियत्वमेवात्यन्ताधस्तनदशायाम् । अथ 'नादे प्रलीनचित' इत्यादिना वाच एव फलावाप्तिः कथिता सूक्ष्म- मन्त्रात्मकता कालोत्तरादौ-- 'नादाख्यं यत्परं बीजं.........।' इत्यादिना परापरादिभिन्नता चोक्ता इति, तस्मादनेन शैवग्रन्थेन वाच एव परात्मता कथमयुक्ता । परं त्विति तुशब्दः पादपूरणे ॥ नैतन्न¹ वाचः कथितं पतिशब्दस्य वर्णितम् ॥ १२ ॥ शब्दस्य विषयाख्यस्य न कदाचिदुदाहृतम् । १ अथेत्यत्रायं भावः,—वैयाकरणैर्हि करणरूपा बुद्धीन्द्रियादप्यति- निकृष्टकर्मेन्द्रियरूपा पशुप्रमातृभिस्तिर्यगादिभिः साधारणा ध्वनिजनिका- हङ्कारवृत्तिरेव काचिद्वाक् पाण्यादिवदभ्युपगता कथं तत्र परत्वमिति । अथ सामान्यं स्थूलसूक्ष्मरूपमाश्रित्य पृच्छत्यथेत्यादि । २ शैवतन्त्रे एव । ३ कालपाद एव । १ अत्र हि अहमिति वाक् शुद्धकर्तृत्वप्राणा असंकुचितमहामन्त्रमयी शब्दनरूपा या तस्या एवैतदुक्तमित्यर्थः । ये पुनरमी मायीया वर्णाः शब्दात्मानस्ते घटादिस्थानीयास्तदुत्थापकं चाविकल्प- सविकल्परूपं पश्यन्तीमध्यमात्मकं ज्ञानं ज्ञानान्तरस्थानीयं च तन्निवर्तकं

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ७६ तदेतन्न, नहि वागिन्द्रियस्य बद्धाणुव्यवस्थितस्य तत्तत्र १ कथितम्, विषयाख्यस्य वा शब्दस्य तत्परत्वं कदाचित् क्वचित्प्रतिपादितम्, अपि तु पतिभावे ईश्वरतासमापत्तौ यो महामन्त्रमयः शब्दनात्मा तस्योक्तम् ।। १२ ।। तथा चाह खेटपालः शब्दराशेर्विशेषताम् ।। १३ ।। स्वायम्भुवस्य टीकायां बाढमित्यादिना गुरुः । तथा मतङ्गटीकायां व्याख्यानिगुरुणोदितम् ।। १४ ।। मन्त्राणां परशब्दानामुक्तं २ वाचो न जातुचित् । खेटपालगुरुः श्रीस्वायम्भुवशास्त्रटीकायां 'किं शब्दराशेर्विशेषोऽस्ति' इत्याक्षिप्य, 'बाढम् एकः शिवात्मकोऽन्यश्च पाशात्मकः' इत्यादिना परतवेन शब्दराशेर्मन्त्ररूपस्य कर्तृशक्ताववस्थानात् विशिष्यमाणतानाह न तु शब्द इत्येव कृत्वा शब्दराशेर्निर्विशेषत्वम् । तथा व्याख्यानिसंज्ञकेन गुरुणा मतङ्गटीकायामेवमेव विशिष्टमुक्तम् । तथोक्तं 'प्रमातृभूमिगतानां मन्त्राणां परभूमिगतानां च शब्दानां न तु वागिन्द्रियस्य कदाचित्, वागिन्द्रियं हि मायापद एव स्थितं, शब्दस्तु परतन्मात्ररूपः परव्योममहाभूतमयः परमेश्वरस्य पञ्चब्रह्मविन्यासे वक्त्रमुच्यते' । दर्शितं चैतदीश्वर- प्रत्यभिज्ञायाम् ।। तत्र ३ वा तदुपायत्वात्परत्वेनोपचारिता ।। १५ ।। च वागिन्द्रियं पाण्यादिस्थानीयं द्वैतात्मकमायापक्षनिक्षिप्तं च तत्कथमिव परतत्त्वं स्यादिति । ननु यत्र तत्रापि स्वकृत्यप्रसाधकत्वं दृश्यते तत्र किं कथनीयम् । अत्रोच्यते तत्तु 'अपि त्वात्मबलस्पर्शात्' इति परतवबलस्पर्श- कृतमिति । १ तत्र, कालोत्तरादौ । २ उक्तं वाचो न जातुचिदिति, अत एव भट्टनारायणेनाप्युक्तम्-- 'सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया । जयत्युल्लासितानन्दमहिमा परमेश्वरः ॥' इति । अत्र च पश्यन्तीशब्देन श्रीसदाशिवभूमिर्ज्ञानशक्तिस्वभावा योक्ता असौ महापश्यन्तीनां प्रत्यगात्मरूपाणामविभागात्मिका परममहापश्यन्ती, तया च योऽसावानन्दमहिमा परमस्वातन्त्र्यात्मोल्लसनीयः सा भगवतः परा वागिति । ३ ननु किमिदमुच्यते-- 'शैवैः सद्भिर्वच एव पश्यन्त्यादिक्रमे स्थिताः ।' 'तैरशैवत्वमात्मनः प्रतिपादितम्'

८० शिवदृष्टिः [ आ०-३ किरणेषु तथा चोक्तं नादबिन्दादिनेदृशम् । अथ परमन्त्रशब्दप्राप्त्युपायत्वात् परत्वं पश्यन्त्या एवोपचारयोगेन मतम् । तथा च श्रीकिरणसंहितायां नादबिन्दादिनेवंविधमुपचारवस्तु कथितम् ॥ तदुपायत्वात्परत्वं चेद्दीपादेरप्युपायता ॥ १६ ॥ किरणादावन्यथा¹ तदुक्तं, तत्र तदुपायमात्ररूपत्वात्परत्वं दीपा- देरपि ज्ञानोपायत्वात्परताप्रसङ्गादित्येषां शैवदर्शनस्थानां पश्यन्ती²- परत्ववादोऽनुपपन्नः । पूर्वोक्तनीत्या च स्वतन्त्रशक्तिवादः प्रकृतो³- ऽप्येषामयुक्तः ॥ १६ ॥ तस्मात्समग्राकारेषु⁴ सर्वासु प्रतिपत्तिषु । विज्ञेयं शिवरूपत्वं स्वशक्त्यावेशनात्मकम् ॥ १७ ॥ तस्मात् शक्तिमात्रवादस्यानुपपन्नतत्वात् सर्वासु प्रतीतिषु इन्द्रियमनो- मात्रजन्यासु ये स्फुरन्ति आकारास्तेषु सर्वेष्वेव शक्तिमद्भगवच्छिवरूपत्वं स्थितं ज्ञेयं पूर्वोक्तसर्वनिजशक्तिसामरस्यमयमपदेशगम्यम् ॥ १७ ॥ इत्यादि । यतः पश्यन्तीज्ञानशक्तिमयीत्वादस्याः परसंविदुपायत्वात्परत्व- मुच्यते । दृश्यते हि उपायत्वेप्युपेयतारोपः, यथा--परेशविमर्शोपायत्वा- च्छास्त्रस्य संविद्विमर्श एव शास्त्रमिति भण्यते तथेहापीत्याशङ्क्याह तत्र वेत्यादि । १ यदा सदाशिवसारत्वेऽहमिति चमत्कारितरन्तःकृतानन्तविश्वे- दन्ताचमत्कृतिपूर्णवृत्तिः स्यात्पश्यन्ती स्वात्मानं परसंवित्परामर्शात्मकं करोति तदा तदुपायत्वात्परत्वं केनापह्नूयत इत्याहान्यथेति । २ पश्यन्त्या- मेव तात्पर्येण यत्परत्वं तद्वाच इत्यर्थः । ३ अनेन पश्यन्तीपरत्वोपगम एषामप्रकृत एवेत्यर्थः । ४ इदानीं सर्वमतानुपपत्त्या यत्सिद्धं तत्कथयति तस्मादिति । तदिदानीं शक्त्यद्वयवादः कथञ्चनापि नोपपन्न इति स्थिते यत् फलितं तदाह तस्मादिति, आकारः पदार्थवपुः, प्रतिपत्तिस्तदाकारप्रति- ज्ञानकारणं, तदेवं स्थितं द्वितत्त्वमयमेव सर्वं विश्वं तदन्तर्भावात्सर्वस्य तेन सर्वमेव यत्किञ्चित् षडध्वजातं तत्सर्वमेव ग्राह्यग्रहणमयमेव । तत्र सर्वत्र शिवरूपत्वं तत्सर्वं शिवमयमेश । आधारनिर्देशस्तु ऽउपदेश्यजनापेक्षया । ननु ‘नाप्रकाशः प्रकाशते’ इति नीत्या सिद्धमेवैतत् कोऽत्र चमत्कार इत्यत आह--‘स्वशक्त्यावेशनात्मकम्’ इति, पञ्चशक्तिसामरस्यात्मकं यच्छैवतत्त्वं तदेव सर्वं घटादिपदार्थजातमपीत्यर्थः ।

आ०-३ ] उत्पलदेवदेवकृतवृत्त्योपेता ८१ स्वनिष्ठे शिवता देवे पृथिव्यादावपीदृशम् ॥ यथा स्वनिष्ठे शिवतामात्रस्थितौ परमेश्वरे शिवता सर्वशक्ति- विलोलता, तथा पृथिवीपर्यन्तायामपि तादृशमेव रूपम् ॥ पिण्डे १ वा कटिकायां वा किं सुवर्णत्वमिष्यते ॥ १८ ॥ न भूषणे कुण्डलादौ यथा तत्र स्वशक्तितः । रूपकत्वं गतं हेम न शक्तयैव स्वतन्त्रया ॥ १९ ॥ तथेच्छया समाविष्टस्तथा शक्तित्रयेण च । तथा तथा स्थितो भावैस्तः सर्वं शिवात्मकम् ॥ २० ॥ नहि, तत्तद्भूषणादिव्यक्तावयवविकारमप्राप्त एव पिण्डे कटकादि- रूपस्थित एव सुवर्णता न तु कुण्डलादाविति २ वक्तुं शक्यम्, अपि तु सर्वत्रैव साम्येन स्वयं विकारापत्तिशक्तियुतं हेमैव स्थितं, पिण्डाख्यं सुवर्णमेव तथा शक्तिमत्प्रसरति । कुण्डलमपि पुनरन्यथा प्रसरति शक्ति- मदेव, न तु शक्तिरेव स्वतन्त्रा हेम्नः तथात्वकारणम् । तस्यास्तद्व्य- तिरिक्ताया अनुपलक्षणात् । दृश्यमानहेमरूपत्वे च शक्तेर्नाम्नि विवादः, तस्या अपि च पुनः कुण्डलादिगमने शक्तिरेष्टव्येत्यादि ३ प्रागुक्तम् । एवं सुवर्णवत् परमेश्वर एव पूर्वोक्तेच्छादिशक्तिमान् तथा तत्त्वभुवन- कार्यकरणाविप्रकारवैचित्र्येण सर्वैः पदार्थैरित्थंभूतलक्षणैः स्थितोऽतः शिवात्मकमेव सर्वं न तु शक्त्यात्मकम् । व्यावहारिकशक्तिभेदाश्रयणे तु शक्त्यात्मकमुक्तं— ‘शक्तयस्तु जगत्कृत्स्नं……………’, इति, वस्तुतस्तु शिवात्मकमेव ॥ २० ॥ इत्युक्तेऽत्र समाक्षेपः पक्षस्यास्य विधीयते । आदौ तावद्विकारित्वं शिवतत्त्वस्य जायते ॥ २१ ॥ नानाविकाररूपेण जडतैवमवस्थिता । तथा सावयवत्वं च पराधीनत्वमेव च ॥ २२ ॥ १ एतदेव दृष्टान्तप्रदर्शनद्वारेण समर्थयति पिण्डे वेत्यादि ॥ २ व्यक्ता- वयवविकारं प्राप्ते । ३ अनवस्थादि । ६

८२ शिवदृष्टिः [ आ०-३ क्षीरवत्परिणामित्वे शुद्धाशुद्धपरापर- न्यूनत्वादि विनाशित्वं तथोल्लङ्घननिष्कृतिः ॥ २३ ॥ यत्रोपरि न हस्तोऽन्येयमीश्वरसंनिधौ । तत्र पादविहारादेः स्फुटमेव निषिद्धता ॥ २४ ॥ एवं सति समग्रस्य व्यवहारस्य भङ्गिता । तथैवं संप्रवृत्तौ तु निमित्तकलनापतेत् ॥ २५ ॥ एवं शिवात्मकत्वे सर्वस्यैव उक्तेऽस्मिन् सति परैरस्य पक्षस्य बहुमुखमाक्षेपः क्रियते । विश्वात्मकत्वे चिन्मयस्य शिवतत्त्वस्य शश्वदेवो- पचयापचयरहितस्याभिमतस्य विकारिता मृदानिसाम्येन प्राप्ता, इत्यय- मेव प्रथमतॊ महान् दोषः । पृथिव्यादिवेद्यवस्तुनानारूपेण चावस्थाने जडताऽस्य । तथा तद्वत् सावयवत्वम् । चिदेकरूपस्यापि ईश्वरस्यापि चोत्पत्तिविनाशेषु अन्यापेक्षतया भोग्यभावेन च परायतत्वम् । क्षीरदधि- वत्परिणामवादाभ्युपगमे शुद्धाशुद्धादिविरोधिरूपापत्तिः । यथा क्षीरं शुद्धं मूत्रत्वेन परिणतमशुद्धं, यथा प्राकृतदशायां परता महत्त्वं च । कार्यकलापावस्थाने तु अपरता न्यूनत्वं च । तथा पूर्वावस्थाननाशे तद- भेदात् तस्यैव नाशोऽसत्कार्यवादमाश्रयणे वा । तथा पृथिव्याः शिवरूपायाः पादलङ्घनाष्ठीवनादिविषयत्वे प्रायश्चित्तापत्तिः । यस्मिन् व्यवहारे संनिहिते ईश्वरेऽन्यस्य तथैव चोपरि हस्तोऽन्यत् काष्ठादि च न नेतव्यं तत्र पादन्यासादिक्रिया निकृष्टत्वात् दूरोत्सारितैव । एवं च पादविहारादेर्विरोधे सर्वव्यवहारोत्सादः । शिवभट्टारकस्यैव च विश्वात्मनावस्थानप्रवृत्तौ निमित्तं विचार्यं तस्य कर्माद्यविषयत्वात् ॥ २५ ॥ अन्यच्च— नानावादैः स्वसिद्धान्तैः साकमत्र विरोधिता । सर्वभावशिवत्वेन नास्तिता बन्धमोक्षयोः ॥ २६ ॥ तदभावाद्देवगुरुशास्त्रोच्छेदो भवेत्तराम् । निरर्थकत्वं शास्त्रस्य करणे तन्निरूपणे ॥ २७ ॥ सर्वेषामेव मुक्तत्वे स्थिते कस्योपदेश्यता । धर्माधर्मौ न संबद्धौ शिवस्य न तयोः कृतिः ॥ २८ ॥

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८३ ततश्च शिवधर्मादेर्वेदादेरकृतार्थता । निमित्तसमवाय्यादिकारणेषु समानता ॥ २९ ॥ सर्वशिवत्ववादे सर्वदर्शनैः स्वसिद्धान्तेन च सह विरोधः । तत्रैवम- निष्टत्वात् तेषामपि चान्यार्था(भावा)च्छैवत्वम् । स्वसिद्धान्तेऽपि च मायाप्रधानकर्मादेः पृथग्भूतस्य जगत्कारणत्वेनोक्तेः । सर्वेषां च भावानां शिवत्वाभ्युपगमे प्राणिनोऽपि सर्वशक्तित्वात् नित्यनिर्मुक्ता इति बन्ध- मोक्षाभावः । ततश्च हेयोपादेयादिविभागाभावात् देवगुरुशास्त्रलक्षण- पुरुषार्थप्राप्त्युपायोच्छेदो लोकायताधिक्येन भवेत्, तस्य हि कदाचित् दृष्टार्थे तदभ्युपगमः स्यात्, सर्वशिवत्वे तु कः कस्योपायः । तथा च शास्त्रस्य करणे निरूपणे व्याख्याने श्रवणे च निरर्थकत्वम् । सर्वेषामेव शिवत्वेन मुक्तत्वात् कस्य शास्त्रस्योपदिश्यमानता । धर्मार्थमपि शास्त्रम- युक्तं शिवस्य कार्ममलाभावान्न धर्माधर्मौ समवेतौ, न तु तयोः शिवे करणं मिथ्याज्ञानरागादिकारणत्वात् प्रवृत्तीनाम् । एवं च शिवधर्मा- दीनां वेदस्य च धर्मार्थत्वाभावादकृतप्रयोजनता । तथा समवाय्य- समवायिनिमित्तकारणेषु शिवत्वेन विशेषः शास्त्रान्तरोक्तः परिदृश्यमानश्च न स्यात् ॥ २६ ॥ किं च-- पृथिव्यादिकल्पनया कल्पनावान् शिवो भवेत् । शिवतत्त्वे सानुभवे पश्यन्तीतुल्यता तदा ॥ ३० ॥ इच्छावत्कार्यनिष्पत्त्या पुनरिच्छान्तरोद्गमे । शिवस्य हेतुर्वक्तव्यो यदर्थं सा नवोद्गता ॥ ३१ ॥ विश्वस्यासत्यरूपत्वं यैर्वाक्यैर्वर्णितं क्वचित् । शिवोक्तैस्तैर्विरोधः स्यात्सर्वसत्यत्ववादिनः ॥ ३२ ॥ पृथिव्यादिरूपतयात्मानं परिकल्प्य तथास्ते इति मते कल्पनावान् शिवभट्टारकः प्राप्नोति । निर्विकल्पश्च स इष्यते, विकल्पानां भिन्नवस्तु- शून्यत्वेनाविद्यारूपत्वात् । अथ न सविकल्पं शिवतत्त्वम्, अपि तु सानु- भवम्, अनुभवो हि नाऽयथार्थो भवति । एवंरूपे तस्मिन् किमसावनुभवति, किमात्मानमुत परात्मानमपि, किमननुभूतमुतानुभूतम् । अनुभाव्यानु- भावकयोश्च भेद एव, इत्येवमादिपश्यन्तीविषयोक्तदूषणावसरस्

८४ ··शिवदृष्टिः [ आ०-३ विशिष्टेच्छावशाच्चाभीष्टे यज्जगल्लक्षणकार्यसंपत्त्या हेतुभूतया इच्छा- कारणविरतौ पुनः स्थितिप्रलयादौ पटादिविज्ञाने वा इच्छान्तरोद्गमे को हेतुः कः प्रयोजको यत्प्रेरितस्य शिवस्य पूर्वस्वभावनिवृत्तावपूर्वस्वभावान्त- रोदये चेच्छा नवनवा प्रवर्तते। सर्ववस्तूनां च शिवैकरूपत्वे सत्थत्वं स्यात्, एवं च मायेन्द्रजालोपमत्वं जगतः पारमेश्वरैरेव शास्त्रैैर्यद्वर्ण्यते तद्विरुद्धं स्यात् ।। ३२ ।। अत्राह-- इत्याक्षेपर्क्षणार्थमत्र प्रतिविधीयते । ईदृशात्परकृतान्महाक्षेपात् स्वदर्शनस्य रक्षणार्थमस्य वाक्षेपस्य रक्षणार्थं निवारणार्थमत्राक्षेपे सति स्वदर्शनेऽत्र वा समर्थनं क्रियते ॥ चिदात्मनो१ हि स्थूलस्य सूक्ष्मस्याथ विकारिता ।। ३३ ।। क्षीरमायाप्रकृतिवत्तस्य चेच्छैव यादृशी । परस्य तादृगात्मत्वमुत्पद्येतात्र योगिवत् ।। ३४ ।। चिदात्मनः स्थूलत्वे२ क्षीरस्येव दधिनिष्पत्तौ जगन्निर्माणे विकारिता १ इत्याक्षेपर्क्षणार्थमित्युक्तं, तत्र यत्तावदुक्तं आदौ तावदित्यादिनैष एव प्रथमो महान्दोष इति । तत्रैव जडतासाव- यवत्वपरधीनत्वादीनामन्तर्भावात्तदेव तावन्निर्दलयितुम् अधिकरण- सिद्धान्तनयेन तस्मिन् महादोषे विगतशक्तिके सति तदुपपरिवर्तिनोऽन्ये स्वयमेवोपशाम्यन्तीत्याह--तदात्मनो हीत्यादि । तदिति सर्वनाम्ना प्रसिद्धताद्योतकेन विश्वात्मतायामप्रच्युतप्राच्यस्वरूपं ध्वनितम् । हिशब्दः परकृताक्षेपे समर्थनतां द्योतयति । अथ पक्षान्तरे । अयं भावः--यावत इति स्थूले सूक्ष्मे वा कारणे परिणामादियोगो यत्र संभवति तत्र कार्यतापत्तौ परिणामादावपि विकारिताऽवश्यं संभवत्येव क्षीरस्य स्थूलत्वाद्दधिरूपेण परिणामेऽपि विकारिता, मायाप्रकृत्यादेश्च सूक्ष्मस्य जडस्य त्रिगुणात्मकस्य कार्यतापत्तावपि तादृशमेव रूपं, तदेतत्सिद्धम्, यादृशं कारणं तादृशमेव कार्यं, कारणरूपतापत्तिरेव कार्ये न तु कार्येण कारणमनुगच्छतीति । २ पक्षे सति ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८५ स्यात् । सूक्ष्मत्वेऽपि¹ वा मायाप्रकृतितवत् । तत्तयोरिव² यावता न स्थूलो नापि सूक्ष्मः परमेश्वरश्चिदात्मा, अपि तु ततः परं, सर्वतोऽपि जडस्यैव हि स्थौल्यादिपरिणामयोगो न चिन्मयस्य, तस्य³ तु परस्य यादृगात्मत्वमभीष्टं तथावस्थानमेवोत्पत्तिर्योर्गिनामिव⁴ ॥ ३४ ॥ तदेवाह-- इच्छया⁵ सर्वभावत्वमनेकात्मत्वमेव च। नात्र स्वात्मविकारेण जनयेद्भावमण्डलम् ॥ ३५ ॥ तदिच्छासामनन्तर्ये तथाभूतात्मता यतः। उभयोरप्यत्र⁶ निर्देशः। यथा योगिनां सर्वभावत्वमिच्छया- नेकात्मत्वं वा भवतीति इष्टं⁷ तथा परमेश्वरस्यापि मन्तव्यम् । न ह्यसौ योगी स्वात्मनो मृत्पिण्डस्येव शिबिकस्तूपकादिरूपविकारपरिणाम- क्रमेण कुम्भकार इव घटमिव भावमण्डलं जनयति, अपि तु तस्य यादृशीच्छा तत्समनन्तरमेवेष्टकार्यात्माभिलाषात्मतया स्थितिः, तथा चिदात्मनोऽपि ॥ ३५ ॥ १ यथा सूक्ष्मा कारणभूता माया जडा तत्कार्यमपि तादृशमेव, यथा सूक्ष्मा त्रिगुणात्मिका प्रकृतिस्तत्कार्यमपि त्रिगुणात्मकमवयव- विकारापन्नं चेत्यर्थः । २ तयोस्तत्कार्यविकारयोः । ३ ननु यदि तस्य न परिणामादियोगः तत्किमत्र तदनुगतता नाम येनोक्तं शिवात्मकमिदं सर्वमिति । तदेतदाशङ्क्याह तस्य त्विति । अयं भावः--न जडतादिकमत्र शिवत्वं तस्य तस्येच्छामात्ररूपत्वात् । शिवात्मकत्वं च तादृगवस्थानात्म- कत्वादुत्पत्तेः । ४ न तु तदेव तथेति वक्तुं शक्यमित्यर्थः । ५ इच्छया च निर्माणं स्वप्नसंकल्पादौ दृष्टमेव, घटादेः प्रसिद्धकारणपरम्परा- पराकरणेन तदत्रासत्यं घटादीति चेत्, अस्तु तावदेतत्, तथापि योगी पुरसेनादिनिर्माणमिच्छावशादेव करोतीति सिद्धमेतत् । तत्र हि तदि- च्छया झटिति संघटिताः परमाणव उपादानमित्युच्यमाने यदि प्रसिद्धो घट- संपादकः समस्तकर्मशिक्षाधर्माधर्मदण्डादिसहकारिसहितः स्वोपादानोचितः कपालादिकारणकलापोऽभ्युपेयते तत्कुलालविशेष एवायं योगीत्यायातं, तृणमात्रेणापि तु प्रसिद्धयुल्लङ्घने स्वप्नसंकल्पकामशोकादिविषयपरिदृष्ट- भावाभासनिर्माणसामर्थ्यं संविद एवेति । ६ उभयोश्चिदात्मयोगिनोः । ७ स्वप्नसंकल्पादाविष्टं माभूत् ।

८६ शिवदृष्टिः [ आ०-३ पुनराह— यथा$^१$ न योगिनोऽस्तीह नानासैन्यशरीरकैः ॥ ३६ ॥ विभागस्तद्वदीशस्य मध्योत्कृष्टनिकृष्टकैः । भावैर्नास्ति विभेदित्वमथवाम्बुधिवीचिवत्$^२$ ॥ ३७ ॥ तत्र वीचित्वमापन्नं न जलं जलमुच्यते । न च तत्राम्बुरूपस्य वीचिकाले विनाशिता ॥ ३८ ॥ निश्चलत्वेऽपि हि जलं वीचित्वे जलमेव तत् । वीचिभिस्तद्विशिष्टं चेत्तन्नैश्चल्यविशेषकम् ॥ ३९ ॥ यथा न योगिनो नानासैन्यशरीरकैर्गजरथतुरगपदातिरूपैरवस्थि- तस्यात्मविभागस्तथा परमेश्वरस्य मध्योत्कृष्टनिकृष्टकैर्देवमनुष्यतिर्य- गादिरूपैर्विभेदः सर्वशक्तिबोधमात्ररूपस्यैकत्वनियमात् । अथवात्यन्त- प्रसिद्धोऽयं दृष्टान्तः । यथाम्बुधेस्तरङ्गाणां चैक्येऽपि व्यवहारभेदस्तथा शिवस्य विश्वस्य च । तत्र हि व्यवहारे वीचितां प्राप्तं जलं न जलमित्युच्यते, न च तत्र वीचिरूपे जलता विनष्टा । तथाहि निश्चलत्वे चलवीचित्वे च जलमेव जलविशेषत्वाद्वीचेः, अथ जलं तद्वीचित्वविशिष्टं न जलमात्रम्, तदेतदस्तु वीचिताविशिष्टत्वेऽपि न क्षतिर्जलस्य तादवस्थ्यात् । वीचि- विशिष्टत्वे जलत्वाभावो निश्चलत्वविशिष्टेऽपि जलता न स्यात्, एवं भावरूपत्वेऽपि शिवता स्थितैव ॥ ३६ ॥ अत एव परेच्छातो न जडत्वमवस्थितम् । पृथिव्यादितत्त्वगणे जडत्वं चेत्प्रतीयते ॥ ४० ॥ न$^३$ यथा जडता क्वापि तथाग्रे सुविचारितैः ।


१ ननु भवतु चेच्छया सर्वकार्यकारित्वं योगिन इव, तथा पुनः स्थित्य- वस्थायां स्फुटमेव विलक्षणरूपत्वादेषां कात्र व्यवस्था तदेकरूपत्व इत्यत आह यथा नेत्यादि । २ ननु मास्तु योगिनः सैन्यशरीरकाणां भेद इत्यत्र यथा परमेश्वरस्यापि भेदव्यवहारश्च स्फुटमवभासमानस्तस्मात्तेषां चान्योन्यं कथमपह्नुयत इति कुतर्कमोहान्ध्यविलुप्तविज्ञानदृष्टीन्प्रति स्फुटताप्रतीतये पुनरन्यदृष्टान्तेन द्रढयति अथवेत्यादि । ३ नशब्दोऽत्र काकाक्षिगोलकन्यायेन योज्यः ।

आ०-३ ] उत्पलदेवकृतवृत्त्योपेता ८७ वर्णयिष्याम एवात्र न चः सावयवः क्वचित् ॥ ४१ ॥ कश्चिदस्तीह वक्ष्याम एतदप्यग्रतः स्फुटम् । अत एव योगिन इव परमेश्वरस्येच्छावशादेव तथावस्थाने पृथि- व्यादितत्त्वगणे जडता नास्ति इच्छाविशेषरूपत्वात्, न तु प्रधानादिजडो- पादनतास्य । अथ तत्रेदन्तानिर्देश्यतारूपा जडता प्रतीयते । तन्न, यथा न क्वचिदिदन्तानिर्देश्यत्वेऽपि तत्त्वतो जडता तथोत्तरत्र सुष्ठु विचारणाभि- र्वक्ष्यामः । सर्वात्मत्वे शिवतत्त्वस्य सावयवत्वप्रसङ्गदूषणमपि अग्रे निरा- करिष्यामो यथा न कश्चित् कस्यामप्यवस्थायां सावयवः स्यात् । स्वयं शिवात्मतावस्थाने स्वयं विश्वात्मतयावस्थाने च किमपेक्षया भोग्यता यया सावयवत्वं स्यात् ॥ स्वेच्छातो भावरूपत्वे पराधीना कुतः स्थितिः ॥ ४२ ॥ क्षीरवद्यदि वोच्येत पराधीनं जडं भवेत् । एतयैव दिशा शोध्यं शुद्धन्यूनादिदूषणम् ॥ ४३ ॥ अभग्नेस्वस्य रूपत्वे शुद्धन्यूनादिकं कुतः । एतद्ग्रहादिके हेम्नि हेमत्वं मुकुटादिके ॥ ४४ ॥ स्थितमेव न हेम्नोऽस्य काचिदस्ति विभेदिता । चण्डालसङ्गो वह्निर्न वह्निर्यदि कथ्यते ॥ ४५ ॥ तदेवं स्यादथोच्येत वह्नेः संस्कारचोदना । शास्त्रेषु वर्णिता कस्मात्कार्यार्थं कार्यमेव तत् ॥ ४६ ॥ न स्वरूपविभागोऽत्र स्वरूपे तत्स्वरूपता । परापरादिभेदोऽत्र तथा तस्य व्यवस्थितेः । संज्ञाकरणमात्रं तद्व्यवहाराय कल्पितम् ॥ ४७ ॥ स्वेच्छावशाद्विश्वभावरूपस्य पराधीना न स्थितिरपि तु स्वेच्छा- यत्तैव । विश्वरूपता क्षीरायत्ता दधिरूपतेव कारणपरिणामसापेक्षा यदि कथ्येत पराधीनो विश्वात्मा तदा जडः स्यात् चिद्रूपस्यापेक्षानुपपत्तेः, यावता विश्वरूपत्वे चिद्रूपतैव । अनयैव चिद्रूपताहानिदिशा शुद्धाशुद्धत्वो- पचयापचयवत्त्वादिदोषः परिहार्यः । स्वं रूपं यस्य स स्वरूपस्तस्य भावे

८८ शिवदृष्टिः [ आ०-३' चिद्रूपत्वे तदवस्थे शुद्धन्यूनादिदोषाभावात् । मुकुटपतद्ग्रहयोः सुवर्णसाम्येन सुवर्णत्वम् । तथाहि चण्डालगृहस्थोऽग्निर्यदि नाग्निः स्यात् तदेतदपि स्यात् । अथ वह्नेर्यदि अशुद्धता न स्यात् तत्तस्य कुतो मन्त्रैः संस्कार- योगः कार्यसंपादनार्थं शास्त्रे चोच्यते तस्मात् तस्याशुद्धता संभवेत् । नैवं, कार्यमेवानुष्ठेयमेव तद्व्यवहाराय न तु स्वरूपे वह्ने`विभागः, स्वरूपे निजरूपे स्थिते तु वह्नावुपगम्यमाने तत्स्वरूपता वह्निरूपतैव सर्वत्र, तद्वत् शिवरूपता जगतस्तस्य, तथा ईश्वरस्य तन्मात्रपृथिव्यादिरूपतया व्यवस्था- नात् परस्थूलसूक्ष्मतादिभेदः । तथा च सर्वत्रैक्ये संसारव्यवहाराय संज्ञामात्रं तत्कल्पितं भवति ॥ ४७ ॥ व्य१वहारोऽप्यविद्या२ नो तथात्वेनेश्वरस्थितेः । तेनैव वा तथा क्लुप्तस्तथा तदनुवर्तनम् ॥ ४८ ॥ न तत्स्वरूपभेदाय शास्त्रं यद्व्यवहारगम् । संसारव्यवहारोऽप्यविद्या नाम न पदार्थान्तरं भवति, ईश्वरस्यैव तथात्वेन लोकयात्रामतया तथावस्थानात् । शास्त्रमपि३ वा व्यवहार- गामिसंस्कारोपदेशकं न शिवतत्त्वभेदाय, तेनैवेश्वरेण४ तथाग्निसंस्कारादिः १ ननु चास्तु सर्वत्र तस्यैव व्यवस्थितत्वादैक्यम्, अस्तु च व्यव- हाराय संज्ञाकरणमात्रं, तथापि यदुपरोधात्संज्ञाकरणमात्रमायाति सोऽपि कश्चिद्यद्यपि आभासमानत्वात्तन्मयमेव तथापि नाममात्रभेदोऽस्त्येवेत्यत आह व्यवहार इत्यादि । २ यत्राविद्या नो इति पर्युदासाश्रयेण न निषेधे तात्पर्यं किंतु स्वयं व्यवहारात्मकाविद्यालक्षणं न भवतीत्यर्थः, तदाह तथात्वेति । ३ ननु चास्तु संसारव्यवहारस्तदात्मकत्वादपृथग्भूतं व्यव- हारार्थं पृथग्भूतं कल्पितं विपर्यस्तैरिति च यद्यप्यस्ति तथापि तदर्थं शास्त्र- नियमेनालं, कृतश्च संसारव्यवहारं सत्यमिति गमयति इत्याशंक्याह शास्त्र- मिति । अयं भावः—यावद्धि व्यवहारः सत्यभूतस्तावत्तदर्थं शास्त्रमपि सत्यमेव तन्निरासे तस्यापि न नियम इत्यर्थः । ४ ननु च किमिदमुच्यते ,तथात्वेनेश्वरस्थितिः' इति । यदि च तथात्वमेव तर्हि न व्यवहार- व्यपदेशोऽपि, व्यवहारव्यपदेशे च न तथात्वव्यपदेश इति पक्षान्तरं समर्थयति तेनैवेश्वरेणेति । इदं हि स्वातन्त्र्यवादमाश्रित्य समर्थितं, स्वातन्त्र्याद्यथा संस्कारादि कल्पितं न परमार्थसत्, तथा तदनुवर्तनमपीति पूर्वस्मात्पक्षा- दाधिक्यमत्र सूक्ष्मधियामेवागन्तव्यम् ॥