भारतकोश
संग्रह पर लौटें

षोडश ग्रन्थाः (महाप्रभु वल्लभाचार्य - पुष्टिमार्ग सिद्धान्त एवं सान्वय हिन्दी व्याख्या)

Shodasha Grantha of Mahaprabhu Vallabhacharya with Commentary

महाप्रभु वल्लभाचार्य द्वारा

DevanagariHindipublished408 पृष्ठ

श्रीव्रजोत्सवक़ृतविवृतिसमेतम् । १५ ब्रह्मेति । भगवान् सर्वेश्वरः सर्वान्स्वदासत्वेनानुगृह्णातीति जीवानां सहजदासत्वं सदैव वर्तते । एतदेव स्पष्टीकृतं सिद्धान्तमुक्तावल्यां भक्तिहंसे च । 'तदविद्ययान्तरायभू- तया स्वस्वरूपविस्मारणेनोन्मार्गमने सति निवृत्तं प्रभुसेवास्वरूपधर्मानधिकारसम्पादकं दुष्टत्वं च जातम् । तत्तु प्रभोरेवाङ्गीकारेण दूरीकर्तुं शक्यम्, न तु सहस्रजन्मपर्यन्तमपि कृतैः साधनै'रिति । ब्रह्मसम्बन्धकरणानन्तरं साक्षात्पुरुषोत्तमसेवाधिकारे सम्पन्ने तद्भज- नेनैव दोषनिवृत्तिर्भविष्यतीति तन्निरूपयन्ति ब्रह्मेति । ब्रह्मसम्बन्धकरणं नाम साक्षा- त्पुरुषोत्तमसम्बन्धकरणम् । तच्च श्रीमदाचार्यद्वारा शरणगमनपूर्वकम् । देहजीवयोः सर्वेषां च कोर्थः ? तत्सम्बन्धिनां दारादीनां सर्वेन्द्रियप्राणान्तःकरणादीनां च प्रभोश्चरणे सम- र्पणेन केवलतदीयत्वकरणम्, तत एव देहजीवयोः सर्वेषां च सर्वदोषनिवृत्तिर्भविष्यति । ब्रह्मसम्बन्धे जाते तद्भजनाधिकारे सम्पन्ने सर्वेषां तत्रैवोपयोगेन सर्वे दोषाः स्वयमेव नङ्क्ष्यन्तीति भावः । देहजीवयोरित्यत्र जीवस्य स्वरूपतः शुद्धत्वाद्देहसम्बन्धेनैव तस्य दुष्टत्वात्प्रथमं देहग्रहणम् । ते दोषाः के ? तत्राहूः दोषाः पञ्चविधा मता इति । एते दोषाः प्रथमस्कन्धीयसप्तमाध्यायोक्ताः । 'कृष्ण कृष्ण महावाहो भक्तानामभयंकर । त्वमेको दह्यमानानामपवर्गोसि संसृते'रिति श्लोकार्थविवरणे श्रीमदाचार्यचरणैः स्फुटीकृताः 'कर्मजाः कालजाः स्वभावजा मायोद्भवा देशोद्भवाश्चे'ति । तत्र ये स्वभावजास्तेऽत्र सहजाः प्रोक्ताः । ये कालजास्ते कालोत्थाः । ये देशोद्भवास्ते देशोत्थाः । ये मायोद्भवा अविद्यासं- योगजनिताः स्वधर्मभगवद्धर्माज्ञानादयस्ते संयोगजा उक्ताः । ये कर्मजास्ते स्पर्शजा ज्ञेयाः । तत्र यादृशं कर्म, तादृशमेव देहादिकं जीवानां जायत इति नियमस्तदधीनत्वात् । तेन तत्स्पर्शजन्यत्वात् स्पर्शजत्वं तेषामुक्तमिति भावः ॥ २ ॥ तानेव गणयन्ति सहजा इति । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ देहस्य भौतिकत्वात्प्राकृतगुणविचारेष्वेव साहजिकी प्रवृत्तिर्नाप्राकृत इति सहजा दोषाः स्वभावजा उक्ताः । किञ्च, देह इत्युपलक्षणम् । सर्वेन्द्रियाणामपि तथोक्ताः । तथैव जीवाः स्वभावतो दुष्टा इति 'अन्यत्सर्वं कर्तव्यम्, भगवद्भजनं न कर्तव्य'मित्यादयश्च जीवानां सहजास्ते । तथैव देशाः सौराष्ट्रमगधादयस्तुदुत्थाः । पूर्वं ते दुष्टा एव, पुनर्यत्र गमनमात्रेण संस्कारमर्हन्ति, तत्र जन्मस्थित्यादिना विशेषतो दुष्टाः । धर्मवासनापि तेषां नास्तीति । तथैव जीवस्यापि तद्देहाभिमानात्तथात्वम् । ननु पुण्यदेशोद्भवानां दुष्टत्वं न भविष्यति, तत्राहूः कालोत्था इति । कलिकालस्य प्रबलदोषरूपत्वात्पुण्यदेशानामपि तद्दोषकलुषितत्वादाधिदैविकतिरोधानेन सामर्थ्याभावात्तत्रोत्पन्नदेहानामपि तथात्वमेव । तदभिमानित्वाज्जीवस्य तथात्वं स्पष्टमेव । ननु केचन सन्तोपि भविष्यन्ति, तत्राहूः

संयोगजा इति । पूर्वोक्तानां सङ्गेन अविद्यासंयोगः सतामपि भवतीति । ‘तत्संसर्गी च पञ्चम’ इति वाक्यात्तत्संयोगजनिता दोषास्तेष्वपि वर्तन्त इति तेषामपि तथात्वम् । ननु तादृशानां दुष्टसङ्गः कथं भवेत्, तत्राहुः स्पर्शजा इति । परम्परासम्बन्धेनापि तद्द्रव्यान्ना- दिसंसर्गात्तद्दोषस्पर्शो भवत्येवेति तादृशकर्मस्पर्शजनितत्वात् स्पर्शजा उक्ताः । चकाराद- नुक्ता अपि ज्ञेयाः । परम्परासम्बन्धेनापि स्पर्शोऽस्मिन्मार्गे बाधक इति समर्पणानन्तरं तादृशानां परम्परासम्बन्धस्पर्शोपि न भवेत्तथा स्थेयमिति ज्ञाप्यते । यद्वा । संयोगजा इति । यद्यपि केचन समीचीना अपि भविष्यन्ति, तथापि स्वपाण्डित्याभिमानात्तत्तच्छा- स्रमतेष्वेव प्रवृत्त्या तत्संयोगजनितदोषेण भगवद्भजनधर्मेष्वेवासन्मतिस्तेषामिति संयोगजा उक्ताः । भगवद्भजने सन्मतिल्वेपि तेषां सकलविधिद्वारैव तत्तन्मार्गे प्रवृत्तिस्ते मार्गस्ता- दृशा एवेति तथात्वमेव । स्वमार्गस्तु समस्तविधिभिरस्पृष्टः । स्वमार्गीयप्रभुरपि तदस्पृष्ट एवेति तेषु तत्स्पर्शजनितदोषास्तु वर्तन्त एवेति स्पर्शजा उक्ताः । एवमपि मायोद्भवत्व- कर्मोद्भवत्वे निरूपिते । एतेन तत्स्पर्शमात्रगन्धेपि प्रभुभजनानधिकार एवेत्युक्तम् । अतः- परमेते दोषा भजनानधिकारसम्पादका इत्यत्र प्रमाणमाहुः लोकेति । लोके स्मृतिपुरा- णादिषु तत्कृतत्वात्तेषां तथात्वमुक्तम् । अलौकिके वेदे च निरूपिताः । भगवद्भजनान- धिकारसम्पादकत्वेन प्रसिद्धाः । तदुक्तम् ‘नाहं वेदैः’ ‘न रोधयती’ति ‘नायमात्मे’त्या- दिना । यद्यप्येतादृशेषु सत्सु सर्वथा साक्षात्पुरुषोत्तमभजनानधिकारादयोग्यता, तथापि पुष्टिमार्गस्य लोकवेदातीतत्वेन केवलाङ्गीकारैकलभ्यत्वेन तत्राङ्गीकारकरणे ते दोषा न मन्तव्याः । तस्य भजनाधिकारसम्पादकत्वात् । अङ्गीकारानन्तरं भजनेनैव ते नङ्क्ष्यन्तीति तच्छङ्कापि न कर्तव्येति कदाचनेत्युक्तम् ॥ ३ ॥ ननु दोषनिवृत्त्यनन्तरमेवाङ्गीकारे का क्षतिः, तत्राहुः अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४॥ मदुक्तप्रकारकाङ्गीकाराभावे त्वेतेषां दोषाणां निवृत्तिः कथञ्चन अपि न, सहस्रज- न्मपर्यन्तमपि कृतैः साधनैर्न भविष्यतीत्यर्थः । साधनानामस्वधर्मत्वात् । दासानां तु सेवैव स्वधर्म इत्यङ्गीकारेणैव तदधिकारे सम्पन्ने सर्वेन्द्रियाणां तदर्थमेव विनियोगे सति तन्नाशो भवेदिति भावः । एवमङ्गीकारेण दोषनिवृत्तिप्रकारं निरूप्य ब्रह्मसम्बन्धकरणानन्तरं सेवायां जाताधिकारस्य तस्य देहेन्द्रियादीनां सर्वेषां दुःसंसर्गदुष्टान्न सम्बन्धस्य प्रबलबाधकत्वात्, तत्त्यागकथनेनैतन्मार्गस्थितिप्रकाराभाव एव, तदभावे तु सर्वथा पूर्वोक्तदोषानिवृत्तिरिति । समर्पितात्मनो ह्यसमर्पितवस्तुसम्बन्धो बाधकः, तस्मादसमर्पितानां सम्बन्धिनां वस्तूनां असमर्पितानां च वस्तूनां वर्जनं त्यागं कुर्यात् । अत्रेदं भाति । स्वयं समर्पितात्मा प्रभुणा १ भजनाधिकारायोग्यतेति पाठः ।

श्रीगोकुलोत्सवकृतविवृतिसमेतम् । १७ साक्षादात्मसात्कृतः । तस्य देहप्राणेन्द्रियान्तःकरणादयोपि तदङ्गीकृतास्तदधीनाः साक्षात्से- वैकव्रता भगवत्स्वरूपतत्सम्वन्धिसरूपान्तर्गतस्वस्वविषयग्रहणैकधर्माः, अन्ये तु स्वव्यति- रिक्ताः सर्वे बान्धवादय उदासीनाश्च भगवदनङ्गीकृताः पूर्वोक्तसेवानधिकाररूपप्रबलदो- षदुष्टाः असमर्पितात्मानः, तेषां संसर्गश्च बाधको विजातीयत्वादस्वधर्मत्वाच्चेति तत्सङ्गनिषेध उक्तः । एवं सति स्वसमर्पितानां देहप्राणेन्द्रियादीनां तत्सम्बन्धिनां च प्रत्येकं केषामप्य- समर्पितसंसर्गो न कार्यः । तत्तदिन्द्रियविषयत्वेन तद्ग्रहणं न कर्तव्यम् । अनेन सर्वथा समर्पितेष्वेव सङ्गः कर्तव्यः । तेन च भगवत्येव सर्वेषां विनियोगो भविष्यतीति सूच्यते । तथा हि । सर्वथा समर्पितात्मानो ये ते साक्षाद्भगवत्सम्बन्धिव्यतिरिक्तं न किञ्चिद्गृह्णन्ति । तेषां नेत्राणि तत्स्वरूपमेव स्वविषयं गृह्णन्ति, नत्वन्यत्तद्व्यतिरिक्तम् । रसनेन्द्रियं तु तत्साक्षाद्भुक्तावशिष्टं स्वसमर्पिताङ्गीकारकरणेन परमसौभाग्यकारकं तद्दत्तमहाप्रसादरूपम- लौकिकरसामृतक¹श्रीमदासामृतमेवास्वादयति । घ्राणस्तु तत्स्वरूपसौरभाघ्राणमेव करोति, तदुपभुक्तपुष्पाद्याघ्राणं वा । त्वगपि स्पर्शं तदङ्गस्यैव, तत्सम्बन्धिवस्तुनो वा । श्रवणमपि तद्वचनानि तद्गुणानैव वा शृणोति । एवमेव कर्मेन्द्रियाण्यपि तत्सम्बन्धिकार्यमेव कुर्वन्ति, न तु प्राकृतविषयं किमपि गृह्णन्ति । तादृशानां भगवदीयानामैहिकमपि सर्वं भगवन्निमि- त्तकमेवेति सर्वथा प्राकृतविषयग्रहणाभाव एवेति तत्सङ्गेनास्यापि सर्वेषां तत्रैव विनियोगः सम्पत्स्यत इति तात्पर्यार्थः । अनेन समर्पणानन्तरं प्रभुसम्बन्धिव्यतिरिक्तकार्यं किमपि सर्वथा न कर्तव्यम् । तत्करणे त्वितरसम्बन्धेन तद्दोषसंक्रान्त्या बहिर्मुख्यं स्वधर्महानिश्च स्यादिति भावो ज्ञापितः । एवं सति श्रवणादिकमपि तादृशभगवदीयमुखेनैव कार्यम्, नेतरेणेत्यपि सूच्यते । तच्छ्रवणस्य साक्षात्पुरुषोत्तमसम्बन्धित्वाभावात् । किञ्च, कदाचिद्बहिःसंसर्गेपि तद्द्रव्यान्नादिकं सर्वथा न ग्राह्यमिति वस्तुपदकथनेन द्योत्यते । एवं सति लौकिकदेह- निर्वाहादिकं वैदिकमपि यावत्तावत्सर्वं समर्पितेनैव कार्यम्, न त्वसमर्पितेनेत्यपि ज्ञापितम् ॥ ४ ॥ ननु स्वस्य तु समर्पणं जातम्, परन्तु यावत्पर्यन्तं दारादीनां समर्पणं प्रत्येकं न भवेत्, तावत्पर्यन्तं तत्सम्बन्धस्य बाधकत्वमाशङ्क्य तत्र तदभावप्रकारमाहुः निवेदिभिरिति । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ स्वसम्बन्धि सर्वं समर्प्यैव प्रभुसेवां कुर्यात्, न तु तन्मध्ये किञ्चिदप्यर्थं स्थापयित्वेति समर्पणमर्यादा । सा पूर्वमपि निवेदिभिस्तथैव कृता, आधुनिकैरपि तथैव कर्तव्येति शेषः । एवं सति स्वात्मना सह दारादीनामपि समर्पणं जायते । तेषामनुकूलत्वे सेवोपयोगित्वेन संसर्गे न कोपि दोषप्रसङ्गः । प्रतिकूलत्वे त्याग एव कर्तव्य इत्येतत्सर्वं 'सर्वेषां प्रभुस-


१. पुष्टेति पाठः । सि. र. ३

१८ सिद्धान्तरहस्यम् । म्बन्ध' इति श्लोके नवरत्ने प्रभुचरणैरेव स्फुटीकृतम् । सेवाधिकारस्तु विशेषतः पृथगङ्गी- कारे भविष्यति । एतेन यत्र दारादीनामात्मदेहार्धभूतानामपि संसर्गस्य स्वात्मना सह समर्पितत्वेन तत्रापि सेवोपयोगित्वेनैव न बाधकत्वम्, अन्यथा तथात्वमेव, तत्रान्येषामतादृ- शानां तथात्वे किं वाच्यमिति कैमुतिकन्यायोपि सूचितः । अथवा, निवेदिभिस्तादृशैः सर्वथा प्रपन्नैः सह सा पूर्वोक्ता मर्यादा कर्तव्या, किन्तु सर्वमेव स्वकीयं समर्प्य सर्वेषां भगवत्येव विनियोगं कुर्यादिति दुष्टसङ्गो निवारितः । एतेनासमर्पितानां सङ्गं त्यक्त्वा सर्वथा प्रपन्नैः सह सङ्गः कार्य इत्युक्तम् । ननु यदि दारादीनां सेवाधिकारो विशेषतः पृथक् ब्रह्मसम्बन्धकरणेनैव भवति, तदा स्वात्मना सह समर्पणस्य किं प्रयोजनं तत्राहूः न मतमिति । अयं भावः । जीवस्यात्मदेहसम्बन्धिदारादिधनपर्यन्तं यद्वस्तु तत्सर्वं स्वस्व- रूपान्तःपात्येवास्तीति सर्वेषां प्रत्यहमन्यत्र स्वार्थं वोपयोगस्य पूर्वं जायमानत्वात्तस्मिन्स- त्येव तन्मध्ये केवलमात्मनः समर्पणं सामिभुक्तस्य तद्वद्भवति, तद्देवदेवस्य प्रभोर्मतं न । देव एव स्वयं निर्दुष्टो निर्दुष्टवस्तुन एव भोक्ता भवति । तस्याप्ययं देवः सर्वोत्कृष्टः । यः सर्वोत्कृष्टः स सर्वथा निर्दुष्टपदार्थस्यैवोपभोगं करोति । निर्दुष्टत्वं तु सर्वांशेनान्यसम्बन्ध- त्यागेन केवलं तदीयत्वकरणेनैव भवतीति तेषामन्यत्रोपयोगे विद्यमान एव तन्मध्ये केवला- त्मसमर्पणस्य सर्वांशेन स्वकीयत्वाभावात् सामिभुक्तत्वेनोपभोगार्थं न सम्मतमित्यर्थः । यत्रैतत्प्रकारकसमर्पणस्यैव सामिभुक्तत्वम्, तत्र प्रमादतः स्त्रीबालादिभुक्तावशिष्टस्य निवे- धस्तु प्रमाणसिद्ध इति तस्य सामिभुक्तत्वेनासम्मतत्वे किं वाच्यम् । किञ्च, दासस्याप्यस- म्र्पितवस्तुसम्बन्धस्य बाधकत्वात्स्वधर्महानिप्रसङ्गे स्वानुपयोगित्वेन तादृशं समर्पणं प्रभोर्न मतमित्यपि ज्ञेयम् ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । तस्मादादावेव सर्ववस्तूनां दारादिधनपर्यन्तानां देहप्राणेन्द्रियादीनां समर्पणं कर्तव्यम् , अत्र प्रयोजनं सर्वकार्ये ऐहिकपारलौकिककार्ये। ऐहिकं भगवत्सेवामात्रोपयोगि- त्वात्तत्तदिन्द्रियविषयत्वेन स्त्रीपुत्रादिग्रहणं तन्निर्वाहादिकं च। पारलौकिकं तु सर्वेषां पूर्वो- क्तानां साक्षाद्भगवदर्थोपयोगरूपकार्यम्, तदर्थं यथा भगवत्येव सर्वेषां विनियोगो भवेत्, नान्यत्र, तथान्यविनियोगादिकं त्याजयित्वा तद्विनियोगार्थमेव सर्वेषां वस्तूनां देहादिदारा- न्तानां तत्तत्पदार्थानां समर्पणं कर्तव्यमित्यर्थः । एवं सति सेवोपयोगित्वेनात्मशोधकत्वेन १. संबन्धाभावेनेति पाठः ।

श्रीव्रजोत्सवकृतविवृतिसमेतम् । २९

साक्षादलौकिकरसात्मकत्वेन प्रभूपभुक्तं तदुत्तममहाप्रसादत्वेनैव तत्तत्पदार्थेन तावन्मात्रदेहा- दिनिर्वाहादिकमपि कर्तव्यम्, न तु भोगत्वेन लौकिकाद्युत्साहेन च अधिकव्ययादिकमित्य- पि ज्ञापितं भवतीति सर्वमनवद्यम् । ननु निवेदितस्य सर्ववस्तूनां समर्पणेन भगवदीयत्वे जाते तद्ग्रहणनिषेधः शास्त्रेषु श्रूयते, तत्राहुः दत्तेति । स्पष्ट एवार्थः । इदं भिन्नमार्गपरं वचनम्, न तु स्वमार्गीयम् । स्वमार्गप्रकारस्तूच्यते सेवकानामिति । सेवकानां दासानां यथा व्यवहारः लोके लौकिके प्रसिद्धो वर्तते । तथा हि । सेवकस्य दासस्य सर्वं प्रभोरेव, गृहादिकमपि प्रभोरेव, न तु स्वस्येत्यखिलं तदधीनमिति । तस्यायं धर्मः । यत्स- र्वेषां तत्रैवोपयोगकरणेनाहर्निशं तदेकपरतया यावद्भोगसामग्र्यादिकमपेक्षितम्, तत्तत्सा- मयिकं तत्सर्वं सम्पाद्य तदुपयुक्तं करोति । ततस्तदुपयोगे जाते स्वेदेहादीनां दारादीनां च सार्थंकत्वे सम्पन्ने तदुपयोगानवसरे कृपया तद्दत्तप्रसादस्य पूर्वोक्तधर्मरूपत्वात्तेनैव देहनिर्वाहादिकं तत्सम्बन्ध्येहिकं च तन्मात्रोपयोगि करोति, तथा निवेदिनापि सर्वं समप्यैव कार्यम् । यस्य यादृक्प्रकारेण हि उपयोगः सम्पन्नो भवति, तादृक्प्रकारेणैव स्वप्रभावुपयुक्तं कृत्वा तदुपयोगानवसरे तद्दत्तत्वात्पूर्वोक्तधर्मरूपेण तदुपभुक्तपदार्थेन तावन्मात्रोपयोगि देहनिर्वाहादिकमन्यदप्यैहिकं कार्यं कुर्यात्, न तु भोगादिभावेनेति स्वमार्गप्रकार उक्तः । एवं स्थितौ सर्वेषां निर्दुष्टत्वं भवेदित्याहुः सर्वेषामिति । सर्वेषां पूर्वोक्तानां देहप्राणेन्द्रियादीनां ततस्तदनन्तरं तादृक्प्रकारकास्थित्यनन्तरं ब्रह्मता भवति । सर्वेषु तदीयत्वस्फूर्त्या तदर्थमेवोपयोगकरणात्प्राकृताध्यासनिवृत्त्या सच्चिदानन्दरूपता तिरोहितानन्दस्य प्रकटतत्रितयात्मकता भवतीत्यर्थः । एतदेवोक्तं 'ततः संसारदुःखस्ये'त्यत्र 'वस्तुस्वभावाद्भवत' इति । किञ्च, तदुत्तममहाप्रसादस्यापि तथात्वेन ग्रहणाद्वाह्याभ्यन्तर- शुद्ध्या मायांशनिवृत्त्या निर्दुष्टता भवेदित्यर्थः । तदुक्तं'मुच्छिष्टभोजिन' इति । एतेन ब्रह्मणः पुरुषोत्तमाधिष्ठानत्वाद्देहप्राणेन्द्रियादिषु तद्रूपत्वे सम्पन्ने पुनः सर्वदा तत्र साक्षात्पुरुषोत्तमावेशस्तिष्ठेदित्युक्तं भवति । किञ्च, ब्रह्मणि यथा विरुद्धधर्मेष्वपि दृश्यमानेषु निर्विकारत्वम्, तथा तादृशेषु लोकसंग्रहार्थं लौकिकवैदिकधर्मादिष्वपि सत्सु निर्विकार- त्वमेव, न तु किमपि सविकारत्वमित्यपि ज्ञापितम् । पुनस्ते धर्मा दोषरूपत्वेन गणनीया न भवन्ति, कपटरूपत्वात् ॥ ७ १/२ ॥ इममेवार्थं दृष्टान्तेन प्रकटीकुर्वन्त उपसंहरन्ति गङ्गात्वमिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८ १/२ ॥ यथा क्षुद्रनदीनां जलेषु बहवो दोषाः सन्ति, तेषां गङ्गासम्बन्धे सति तत्तन्नदी- नाम्नामपि लुप्तत्वाद्गङ्गात्वमेव भवति, गङ्गात्वे सम्पन्ने तत्तद्गुणदोषादिवर्णनापि निरूपयितुं


१. तदुपयुक्तेति पाठः ।

२० सिद्धान्तरहस्यम् । योग्या न भवति, तज्जलानां गङ्गासम्बन्धान्ते स्वयमेव नष्टा इत्यभावादेवानिरूप्यत्वमुक्तम्, तद्वत्तथात्रापि ब्रह्मसम्बन्धानन्तरमेवं प्रकारकस्थितौ ब्रह्मतायां सम्पन्नायां ते दोषाः प्राकृतांशोद्भूताः स्वयमेव लुप्ता भवन्तीति तेषामप्यनिरूप्यत्वमुक्तम् । तादृशानां लोकसंग्रहार्थं दृश्यमानानामपि केषाञ्चित्प्राकृतरीतिर्धर्माणां कपटरूपत्वादग्दधपटन्याये- नानिरूप्यत्वमेवेति सर्वमनवद्यम् । एवं जीवस्य तिरोहितानन्दस्य साधनसहितं पुनर्ब्र- ह्मसम्पत्तिपूर्वकं साक्षात्पुरुषोत्तमप्राप्तिरूपफलयोग्यता निरूपिता ॥ ८$\frac{१}{२}$ ॥ ईश्वरवचननिरुक्तिः कर्तुं केनेह शक्यास्ति । यदिदं तदर्थरीतिः स्फुरिता मे तत्कृपैव तस्यैव ॥ १ ॥ मद्ग्राह्ये नो देया दृष्टिः किन्तु स्वकीयत्वे । मम तु तयैव भविष्यति मार्गस्थितिरन्यथा हि नो भविता ॥ २ ॥ इति निश्चयेपि शरणं प्रभो भवच्चरणपङ्कजान्येव । सततं मम तेनैव त्वत्करणाशापि भाविनी फलिता ॥ ३ ॥ इति श्रीव्रजोत्सवकृतसिद्धान्तरहस्यविवृतिः सम्पूर्णा ।


श्रीकृष्णाय नमः ।

सिद्धान्तरहस्यम् ।

श्रीगोकुलोत्सवकृतविवृतिसमेतम् ।

पिबत श्रीमदाचार्यचरणाम्बुजयोर्मधु । यद्ध्यानाद्धान्तमाधूर्य मेधा मेधार्थमादधे ॥

अथ साक्षाद्भगवान् ‘स ऐक्षते’त्यादिश्रुत्या क्रीडार्थं नानास्वभावं जगत्सृष्ट्वा, तत्र साक्षात्स्वसेवोपयोगित्वेन प्रकटितानां वक्ष्यमाणप्रबलदोषविस्मृतस्वधर्माणां दैवजीवानां तत्रापि पुष्टिमार्गीयाणां उत्तरदलानुभवार्थमेव पृथकृतानां तत्र संसर्गवशादुपचीयमानं बाहि- र्मुख्यं अवलोक्य तदुद्दिधीर्षया स्वसेवायामङ्गीकारार्थं स्वाज्ञयैव प्रादुर्भूतानां श्रीमदाचा- र्याणां ‘शुद्धाश्च सुखिनश्चैव ब्रह्मविद्याविशारदाः । भगवत्सेवने योग्या नान्य’इति वाक्यात्तन्नि- ष्ठदोषाभावस्य ब्रह्मविद्यासम्पत्तेश्च तत्राधिकारसम्पादकत्वात् । प्रतिपादकानां तत्तच्छास्त्रोक्तानां मन्त्रादीनां ‘कलौ दशसहस्राणी’त्यादिवाक्यात्तिरोहितदेवतावत्त्वादन्धिष्ठितानां तदसाधक- त्वात्कथमेतेषां दोषनिवृत्तिः, कथञ्च ब्रह्मविद्यानैपुण्यम्, कथञ्च भगवत्सेवोपदेशः कर्तव्य इति


२. कर्मणामिति पाठः ।

श्रीगोकुलोत्सवकृतविवृतिसमेतम् । २१ विचारपरतां मत्वा स्वयं पुष्टिमार्गव्यवस्थां सकलमार्गेभ्यो भिन्नामेव ज्ञापयंस्तेषां फलदान- विलम्बासहिष्णुः स्वसिद्धान्तरहस्यं यदाज्ञापयत्, तदेव कदा कस्मिन्काले केन प्रकारेणाज्ञेति प्रकाशयन्तः श्रीमदाचार्यचरणाः स्वकीयशिक्षार्थं प्रत्यक्षरविचारेण निरूपयितुं प्रतिजानते । श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ श्रावणस्येति । श्रावणस्य विष्णुदैवतत्वात्तदुपलक्षितमासस्यापि तथात्वमेव । अत एवास्योपनयनादौ निषिद्धत्वेपि वैष्णवदीक्षायां प्राशस्त्यं श्रूयते । 'श्रावणे सुखसम्पत्ति'रिति । तेन यथैतन्मासस्य दैवतं विष्णुः, तथा देवानां तत्रापि पुष्टिमार्गीयाणां प्रभुः साक्षाद्भगवानेवेति तेषां भगवदधीनत्वमेव, नतु कालाधीनत्वमितरमार्गीयाणामिव । अतोहमेवैतेषां दोषनि- वर्तको, न साधनान्तरापेक्षेति सूचितम् । ननु मास्तु साधनान्तरापेक्षा, भगवतैव दोषनिवृत्तौ सत्यां अङ्गीकर्तव्या इति चेत्, तत्राहुः अमले पक्ष इति । यद्यप्यमलत्वं पूर्णिमायामेव सर्वथा तमोनिवृत्तेः, तथापि अमोत्तरं चन्द्रकलासम्बन्धमात्रेण पक्षस्यामलत्वं न प्रमाणवि- रुद्धम्, क्रमशश्चन्द्रकलाविर्भावे तमोनिवृत्तिः प्रकाशाधिक्यमाह्लादश्च सिध्यति, तथैतेषामपि सम्बन्धमात्रेण तथात्वम् । क्रमशश्च सेवया तदाविर्भावे जातेऽनिष्टनिवृत्तिर्ज्ञानवैशिष्ट्यं भजनानन्दानुभवश्च सेत्स्यतीति भावनीयम् । तत्क्रमसूचनार्थमाहुः एकादश्यामिति । सा ह्येकादशेन्द्रियशोधिका भगवदेकदैवत्या च । तथा सा यथा सर्वेन्द्रियदोषनिवृत्तिपूर्वकं तत्र तत्र भगवदावेशं सम्पादयति, तथा वक्ष्यमाणब्रह्मसम्बन्धानन्तरं सेवायां प्रवृत्तस्य तत्त- दिन्द्रियैर्भागवदीयं तत्तत्कार्यं कुर्वतो यत्र यत्र यथा यथा भगवदावेशः, तथा तथा तत्तद्दोष- निवृत्तिरिति सूच्यते । अनन्तरञ्च यथैकादश्यामेकादशेन्दुकलाविर्भावेन तमसि निवृत्त- प्राये दिनत्रयानन्तरं पूर्णिमायां पूर्णेन्दुसम्बन्धः, तथा सेवायां प्रवृत्तस्यापि पूर्वोक्तक्रमेणै- कादशेन्द्रियेष्वपि सर्वदोषनिवृत्त्या भगवदाविर्भावे सिद्धेऽवशिष्टत्रिगुणात्मकदेहसम्बन्ध- मात्रप्रतिबन्धकदोषनिवृत्तौ पूर्णानन्दसम्बन्धः सूच्यते । तथा चोक्तं श्रीभागवते 'यथा यथात्मा परिमृज्यतेऽसौ मत्पुण्यगाथाश्रवणाभिधानैः । तथा तथा पश्यति तत्त्वसूक्ष्मं चक्षु- र्यथैवाञ्जनसंप्रविष्ट'मिति । भाष्ये च 'आवृत्तिरसकृदुपदेशा'दिति । श्रुतिश्च 'आत्मा वारे द्रष्टव्य' इत्यादि । ननु तथापि कालस्यासुरत्वात्कथं तत्सम्बन्धमात्रेण दोषनिवृत्तिरिति चेत्तत्राहुः महानिशीति । सा हि आसुरीवेला । असुराणामतिप्राबल्य एव हि भगवान्भ- क्तरक्षार्थमाविर्भवति । अक्लिष्टकर्मत्वाद्भगवतः । पूर्वमपि तथैवाविर्भावात् । एवं सति यथा पूर्वमाविर्भूय क्रमेणासुरा हताः, तथा क्रमेण दोषनिवृत्तिं विधास्यामीति भावः । तथापि आविर्भाववैजात्यात् कथं पूर्ववत्कृतिसम्भवः, तत्राहुः साक्षादिति । नन्वस्तु साक्षादावि- र्भावः, अंशादिना तथात्वेपि कथं पूर्वसाजात्यम्, तत्राहुः भगवतेति । षड्गुणपूर्णेन साक्षा- दाविर्भूय पूर्वोक्ततत्तदभिप्रायज्ञापनपूर्वकम्, अत एव यदुक्तं तत्प्रत्यक्षरविचारेण मयोच्यते ॥

२२ सिद्धान्तरहस्यम् । एवं प्रतिज्ञाय तद्विषयं निरूपयन्ति ब्रह्मसम्बन्धकरणादिति । ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधाः मताः ॥ २ ॥ दोषनिवृत्त्युपायालाभेन हि चिन्ता सा तु न कर्तव्या, कुतः, हि यस्माद्देहजीवयो- रुभयोः सम्बन्धिनां सर्वेषां ब्रह्मणः श्रीपुरुषोत्तमस्य सम्बन्धकरणात्सर्वस्वसमर्पणेन तदी- यत्वसम्पादनात्सर्वदोषनिवृत्तिर्भविष्यतीति शेषः । तथा च प्रथमं शरणं प्रविश्य सर्व- समर्पणं कारणीयम्, अनन्तरं सेवाङ्गीकर्तव्या इति सूचितम् । तथा सति सेवाभ्यासेन समर्पणानुसन्धानेन च क्रमशः सर्वत्र स्वाध्यासनिवृत्त्या भगवत्सम्बन्धस्फुरणेन च सर्वदो- षनिवृत्तिर्भविष्यतीति भावः । कथमध्यासनिवृत्तिः, किम्प्रकारकं च तत्र तत्र भगवत्सम्ब- न्धभानम्, एतज्ज्ञापनाय दोषान् गणयन्ति दोषाः पञ्चविधा मता इति। मताः सर्वशा- स्त्रेष्वित्यर्थः । अग्रे च पञ्चविधत्वे प्रमाणमेव लोकवेदनिरूपिता इति कथयन्ति । दोषा हि अविद्याजन्याः । सा च पञ्चपर्वात्मिका तत्संख्याका एवोक्ताः । यद्यपि ते बहवः, परन्तु तेष्वेवान्तर्भूता इति । अत एवाग्रे प्रत्येकं बहुवचनमुच्यते ॥ २ ॥ सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ तथा हि सहजा इति । नात्र क्रमो विवक्षितः । सहजा इति प्राणाध्यासजा उक्ताः । जातमात्रस्यैव प्राणपोषणप्रवृत्तेः प्राणाध्यासस्य सहजत्वम् । देशोत्था इति देहाध्यासजाः । तद्गतामेव तत्तद्देशगमने दोषसम्भवात् । कालोत्था इति स्वरूपविस्मृतिजन्याः । कालेनैव तत्सम्भवात् । संयोगजा इत्यन्तःकरणाध्यासजन्याः, तत्रैवेतरसंयोगे भगवद्बहिर्मुख्यस्वधर्म- भगवद्धर्मज्ञानसम्भवात् । स्पर्शजा इति मात्रास्पर्शजन्याः । तथा चेन्द्रियाध्यासजा उक्ताः । ते ब्रह्मसम्बन्धेन निवर्तिष्यन्त इत्यङ्गीकारे प्रतिबन्धकत्वेन न मन्तव्याः कथञ्चनापि । तत्प्रकारश्च एकादश्यादिपदसमभिव्याहारात्तात्पर्यGeneric: तात्पर्य निरूपणेनोक्तः । अत एव ब्रह्मसम्बन्ध- करणे पूर्वं स्वरूपस्मृतिस्ततो देहादीनां तद्धर्माणां तत्सम्बन्धिनां च भगवति तत्समर्पणेन तदीयत्वेन स्थितिरेव सम्पाद्यते । निर्दुष्टपदार्थसम्बन्धे निर्दोषताभिप्रायेण । लोकवेद- निरूपिता इति सर्वत्र प्रमाणकथनम् ॥ ३ ॥ यद्येवं प्रमेयबलमाश्रित्य दोषनिवृत्तेर्नाङ्गीकारः, तदा कालत्रयेपि न दोषनिवृत्ति- रित्याहुः अन्यथेति । अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन ॥ असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ अन्यथेति प्रमाणबलेन । अन्यत्स्पष्टम् । एवं भगवत्सम्बन्धिनामेव निर्दुष्टत्वम्, तद्व्य- तिरिक्तानां तु सदोषत्वमेवेति निरूपितम् । अतो ब्रह्मसम्बन्धानन्तरं पुनस्तदतिरिक्त-

श्रीगोकुलोत्सवकृतविवृतिसमेतम् । २३ संसर्गे कुञ्जरशौचमिव सर्वं भवतीति तदनन्तरं तन्निषेधमाहुः असमर्पितेति । यतो ह्यसमर्पितानां न दोषनिवृत्तिर्ब्रह्मसम्बन्धाभावात्तस्माद्धेतोस्तेषां तत्सम्बन्धिपदार्थानां वर्जनमाचरेत्, संसर्गं न कुर्यादित्यर्थः । नन्वत्र सर्वथा भगवदीयतत्सम्बन्धिपदार्थातिरिक्त- संसर्गो निवार्यते । आत्मना सहैव समर्पितानामपि दारादीनां आनुकूल्ये न संसर्गदोषः, प्रातिकूल्ये तु ‘गृहं त्यजे’दित्यपि निरूपितं निबन्धे । तथा सति लौकिकेऽपत्यसम्बन्धादौ वैदिकेऽकरणप्रत्यवायजनकवर्णाश्रमविहितयाग- ऋत्विग्वरणदानप्रतिग्रहादिषु असमर्पितात्मनां प्रत्युत गृहाद्यासक्तानां शुष्ककर्मजडानां संसर्गे का गतिरिति चेत्तत्राहुः । निवेदिभिः समर्प्यैव सर्वं कुर्यादिति स्थितिः । न मतं देवदेवस्य सामिभुक्तसमर्पणम् ॥ ५ ॥ निवेदिभिरिति । निवेदिभिरिति सहार्थे तृतीया । समर्प्यैवेत्येवकारोऽन्ययोगव्यव- च्छेदकः । तथा सति समर्प्यैव करणात् सर्वस्वं समर्प्यैव समर्पणानन्तरमेव तदुत्तरक्षणस्या- सुरत्वात्तत्प्रवेशव्यतिरेकेणैव तत्क्षणमारभ्यैव निवेदिभिः समर्पितसर्वस्वैर्भगवदीयैः सह सर्व- लौकिकमपत्यसम्बन्धादिकं वैदिकं यागादि कुर्यात्, न तु तादृशकर्मजडैरित्यर्थः । एतेन समर्प- णोत्तरक्षणस्यासुरत्वात्तत्प्रवेशात्प्रागारभ्यैव नित्यं भगवदीयं सङ्गमेव कुर्यात् । अन्यथा तदै- वासूरप्रवेशः स्यादिति सूचितम् । एतदेव नवरत्नविवरणे स्फुटीकृतं प्रभुचरणैः । ‘निवेदनं तु स्मर्तव्य’मित्यत्र । अत एव श्रीमदाचार्यवंश्यानां नान्यमार्गीयप्रतिग्रहाङ्गीकारः । एतेन समर्पणक्षणमारभ्य भगवदीयैरेवापत्यसम्बन्धः, तादृशानामेव यागादौ वरणं दानप्रतिग्रहौ चेति भगवदीयधर्म इति निरूपितम् । किञ्च । भगवदिच्छां विना भक्तस्य न किञ्चित्कर्मकरण- मिति नवरत्ने भक्तिहंसे च निरूपितमित्यनायासतादृशसामग्रीसम्पत्तिरेव भगवदिच्छासूचि- केति तावत्तयैव साक्षिवत्पश्यतो न कोपि दोषप्रसङ्गावसरगन्धोपीति भावः । तदुक्तं ‘साक्षिणो भवताखिला’ इति नवरत्ने । इदमपि कर्माग्रहित्वानुरोधादुक्तम् । वस्तुतस्त्वस्मि- न्मार्गे इतरसंमेलननिषेधात्सा शङ्कैव नेत्यलम् । कुर्यादित्यत्र तु कर्तृपदं स्पष्टम् । एतद्ग्रन्थस्य शरणागतं प्रति शिक्षारूपत्वेन शिष्यस्य जागरूकत्वात् । इयं निवेदिनो मर्यादास्तीत्याहुः स्थितिरिति । ननु भगवदीयस्य सर्वथान्यसंसर्गनिषेधाद्वर्णाश्रमविषयककार्यमानेषु च तादृशानामतिदुर्लभत्वात्तथाग्रहस्य च भगवति महाभारप्रदत्वेनास्वधर्मत्वात्तत्तत्कार्यमात्राणां चावश्यकत्वात्तत्तन्निर्वाहार्थमस्तु स्वमात्रसमर्पणम्, किं दारादीनां साहित्येनेति चेत्, तत्राहुः । न मतमिति । सामिसमर्पणं भुक्तसमर्पणं च देवदेवस्य न मतम् । सामिसमर्पणतुल्यत्वज्ञापनाय समस्तं पदम् । एतेन सामिभुक्तदोषपरिहारार्थमेव स्वसमर्पणे दारादीनां साहित्यम् । तेषां साक्षात्सेवाधिकारस्तु पृथक्समर्पणेनैव भविष्यतीति सूचितम् । एतदेवोक्तं नवरत्नविवरणे । ‘कस्यचिद्विशेषोऽङ्गीकारश्चेत्, सा पुष्टि’रिति । पुष्टिर्नाम च साक्षात्सेवाधिकाररूपोऽनुग्रहः ।

२४ सिद्धान्तरहस्यम् । एवं सति सर्वं समर्प्य कार्यमात्रे भगवदिच्छैव नियामिकेति निश्चित्य नान्यसंसर्गं कुर्यादिति वाक्यादेतद्द्वारस्य प्रभुनैवाङ्गीकृतत्वादेतदपेक्षया सामिभुक्तसमर्पणस्य जघन्यतरप्रतीतेश्च । ननु भुक्तसमर्पणनिषेधे पूर्वं दारादिभिरुपभुक्तस्य देहादेरपि समर्पणमनुपपन्नमिति चेत् । न । आकस्मिकनिजदोषस्फूर्त्या पश्चात्तापपर्याकुलस्यापराधप्रतीकारमपश्यतः शरणान्तरमलभमा- नस्य समस्तसाधनपरित्यागपूर्वकं महापुरुषद्वारा भगवदेकशरणं प्रविष्टस्य भगवदिच्छया च महापुरुषेण करुणया तदेकशरणं प्रवेश्य कृतात्मनिवेदिनो दीनवत्सलेन भगवता स्वभक्त- पक्षपातेन कृपयाङ्गीकृतस्य ब्रह्मसम्बन्धमात्रेण वस्तुस्वभावान्निर्दग्धनिखिलकल्मषस्य वह्नि- सम्बन्धेन सुवर्णस्येव निर्दुष्टत्वात् । तथा चोक्तं गीतायां ‘सर्वधर्मान्परित्यज्ये’ति । श्रीभागवतेपि ‘स्वयं समुत्तीर्ये’ति । न चैवं जडत्वसामान्यात्करुणास्पदत्वादिधर्मासम्भवा- द्देहादेरपि कथमङ्गीकार इति वाच्यम् । चेतनाध्यस्तत्वात्तस्य । अत एव शवशरीरस्य शर- णागमनं न वा करुणास्पदत्वादि सम्भवति । किञ्च । जीवोद्धारार्थं हि कृपया श्रीमदाचार्येभ्य एतन्मार्गमादिष्टवान् भगवान् । तथा च जीवस्य यत्र यत्र स्वाध्यासेन संग्राह्यत्वबुद्धिः, तत्र तत्र प्रभुसमर्पणे कृते स्वसम्बन्धसम्पादनेन तदध्यासनिवृत्तिं विधाय तमुद्धरति । भुक्तशेषे तु जीवस्यैव हेयत्वबुद्धेः कुतस्तदा देवदेवसमर्पणावकाशः । निषेधवाक्यं तु प्रमादतस्तथा- करणेऽवधानप्रतिपादकं सामिसमर्पणस्य च तत्तुल्यताप्रतिपादकमिति ध्येयम् । अपरञ्च । साधनदशायां हि दासधर्मस्वरूपनिरूपणमेतत् । वस्तुतस्तु केवलं पुष्टिमार्गे भावाधीनो भगवान्, यथा भावे तदप्यङ्गीकरोति । यथा वनभोजनलीलायां ‘सर्वे मिथो दर्शयन्त’ इति । यथा वा फलप्रकरणे ‘खैरुत्तरीयैः कुचकुङ्कुमाङ्कितैरचीक्लृपन्नासनमात्मबन्धव’ इत्यत्र ‘तत्रोपविष्टो भगवान्’ इत्यत्रः श्रीमदाचार्यैः प्रपञ्चितमिति सर्वमनवद्यम् । एतेन सामिसमर्प- णस्य बलवद्दोषवत्त्वं निरूपितम् । अनन्यत्वभङ्गप्रसङ्गेन भगवदनङ्गीकारेण तथाभावप्रति- बन्धकत्वात् । अत एवाभ्यर्हितत्वेन पूर्वनिपातः । तथा चात्मना सह स्वसम्बन्धिसर्वमेव समर्पणीयम्, न त्वात्ममात्रम् । ततश्च भगवदीयैरेव सर्वव्यवहारकत्वम् न त्वन्यैरिति सिद्धम् । एवमेव ह्यग्रेपि यावज्जीवं भगवत्प्राप्तेषु तत्तल्लौकिकवैदिकनिमित्तेष्वपि निर्मितानां पदार्थानां ‘उच्छिष्टभोजिनो दासा’ इति दासधर्मत्वाद्भगवते समर्पणं विधाय पश्चात्तदुपयोगं कुर्यादित्यर्थः । तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ न ग्राह्यमितिवाक्यं हि भिन्नमार्गपरं मतम् । तस्मादिति । अयं भावः । सामिसमर्पणानङ्गीकारादात्मना सह सर्वस्वं भगवते सम- र्पितमनन्तरं च तत्तत्कार्ये प्राप्ते तत्तद्द्रव्यादिना तत्तत्सामग्रीं सम्पाद्यादौ भगवत एव समर्पयेत् । तद्द्रव्यनिर्मितपदार्थानां तद्योग्यत्वात् । ततश्च तत्र विनियोगे जाते तद्दत्तमहाप्रसादत्वेन

श्रीहरिरायकृतविवृतिसमेतम् । २५ तदुपभुक्तवासोलङ्कारादिभिर्भगवदिच्छाप्राप्तत्वात्तत्तत्कार्यं विधेयम् । न तु स्वातन्त्र्येणानर्प- यित्वेति हृदयम्। तथा साक्षादलौकिकरसात्मकत्वेन प्रभूपभुक्तत्वेन तद्दत्तमहाप्रसादत्वेनैव तत्पदार्थैस्तावन्मात्रका सेवोपयोगित्वाद्देहादिवृत्तिरपि कर्तव्या । न तु भोगत्वेन । 'उच्छिष्ट- भोजिनो दासा' इति दासधर्मत्वात् । अन्यथा मार्गस्थितेरुच्छेदादन्यमार्गप्रवेशात्तत्र च भगवन्नैवेद्यग्रहणे दोषश्रवणाद्दोषभागभवतीत्याहुः दत्तेति । इदं वचनं भिन्नमार्गपरं सम्मतम् । दत्तं पुनः स्वोपभोगाय न ग्राह्यम्, तथा हरेः सम्बन्धि किमपि न ग्राह्यमिति यद्वाक्यं तद्भ- क्तिमार्गातिरिक्तमार्गपरमित्यर्थः । भगवति निवेदनाभावान्निवेदितपदार्थानां भगवदुपभोगे जाते महाप्रसादस्यात्मशोधकत्वेनावश्यं ग्राह्यत्वप्रतिपादनाच्च । उपसंहरन्ति सेवकानामिति । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना ॥ ८ ॥ गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ९ ॥ समर्प्यैव समर्पणोत्तरक्षणमारभ्य सेवकानां दासानां यथा लोके व्यवहारः प्रसिद्धो वर्तते, तथैव व्यवहारो विधेयः । स च स्वकायदेहादिपर्यन्तपदार्थेषु स्वाम्यधीनत्वभावनया तस्मिन्नेव यथासम्भवं सर्वं विनियुज्य उच्छिष्टमात्रं भुञ्जतः सेवापरतया स्थितिः । एवं सेवतो लोकेपि दासस्य देहावसाने उत्तमत्वं सिध्यति । नारदस्येव । तथा ब्रह्मसम्बन्ध- करणमारभ्य भगवति सर्वं विनियुज्य सेवतो देहादिषु भगवदीयत्वभावनया सर्वत्र भगव- दावेशाद्ब्रह्मता सिध्यति । ततश्च गङ्गात्वमिति । यथा गङ्गायां निविष्टानां जलानां गङ्गात्वमेव, न तु तद्गतकरतोयादिविलम्बनादिपूर्वदोषनिरूपणमपि । तद्वदस्यापि । यद्यपि कामादयो दोषरूपाः, तथापि भगवदीयस्य भगवत्येव कामः, तत्प्रतिपक्षेषु क्रोधः, एवं यथायथं भगवत्सम्बन्धे ब्रह्मतैव सेत्स्यतीति व्यर्थैव दोषनिवृत्तिप्रतीक्षेति हृदयम् । श्रीमदाचार्यपादाम्बुजमधुमाध्वीवशादहम् । प्रालपं साधुभिर्भाव्यं विशोध्यं साध्वसाधु वा ॥ १ ॥ इति श्रीसिद्धान्तरहस्यविवृतिः समाप्ता । श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीहरिरायोदिता सिद्धान्तरहस्यविवृतिः । अथ श्रीवल्लभाचार्यचरणाविष्टचेतसा । कारिकाभिः स्वसिद्धान्तरहस्यार्थो विविच्यते ॥ १ ॥ स्वरूपेण समुद्धारस्तथा भक्त्यापि चैव हि । व्यवस्था तत्र मन्तव्यावतारानवतारतः ॥ २ ॥ अवतारे त्रिधा रूपमवतीर्णं तथा रसः । पूर्वस्तथा मूलरूपं तत्पारोक्ष्यं हि सर्वथा ॥ ३ ॥ सि. र. ४

२६ सिद्धान्तरहस्यम् । वैकुण्ठगमनान्नित्यमेवस्थानस्थितेरपि । लीलावशिष्टरूपेण हृदयैकप्रवेशतः ॥ ४ ॥ इदानीन्तनजीवानामुद्धृतिस्तु कथं भवेत् । विचार्य कृपया कृष्णो भक्त्याविष्करणोद्यतः ॥ ५ ॥ पुष्टिप्रवाहमर्यादाभेदैः सो त्रिविधा मता । मध्या श्रुतिपुराणेषु सर्वत्र विनिरूपिता ॥ ६ ॥ द्वयोर्निरूपणार्थं हि श्रीभागवतसम्भवः । व्यासावतारोपि हरेरेतदर्थक एव हि ॥ ७ ॥ तत्र मार्यादिकी भक्तिः श्रीभागवतमार्गतः । तदुक्तसाधनैरेव सिद्धा भवति सर्वथा ॥ ८ ॥ पुष्टिस्त्वनुग्रहात्मा हि साधनैर्न भवेदिति । ज्ञापयित्वा भागवते दानाय जगतीतले ॥ ९ ॥ भक्तिभावात्मकं स्वास्यं स्वयमाविश्चकार हि । तत्सम्बन्धेन सर्वेषां मूर्तिमद्भक्तियोगतः ॥ १० ॥ भविता भावसम्बन्धस्ततः पुष्टिः फलिष्यति । विना द्वारं हि जीवानां तत्सम्बन्धोपि दुर्लभः ॥ ११ ॥ स्वरूपाज्ञानतः पूर्वं तदर्थं भगवान्हरिः । मार्गं प्रकाशयन्नाविर्भूतः कालेपि तादृशे ॥ १२ ॥ फलमाचार्यसम्बन्धात्तत्सम्बन्धो हि मार्गतः । अदेयदानदक्षश्चेत्यतो नाम विराजते ॥ १३ ॥ मार्गेण प्रथमं पुष्टिः सम्बन्धवरणात्मिका । मध्ये वेदोक्तमर्यादायुतभक्तिस्थितौ स्थितिः ॥ १४ ॥ अपाषण्डित्वसिद्धयर्थं भगवत्तोषणाय च । फलपुष्टेर्योग्यतायै फलं कृष्णेन नान्यथा ॥ १५ ॥ निःसाधनत्वभङ्गः स्याद्यदि स्यात्साधनैः फलम् । एतादृङ्मार्गबोधाय प्राकट्ये तादृशो मतः ॥ १६ ॥ कालो हरेः कृपापूर्णनिःसाधनफलात्मनः । श्रावणः पुष्टिमार्गीयश्चातुर्मास्यगतत्वतः ॥ १७ ॥ विष्णुसम्बन्धिसम्बन्धात्सम्बन्धरूपयापको मतः । बोध्यते तेन पुष्टिर्हि प्रथमं वरणात्मिका ॥ १८ ॥ मर्यादाबोधनार्थाय पक्षः प्रोक्तोऽमलस्तथा । भक्तिमार्गीयमर्यादाबोधिकैकादशी मता ॥ १९ ॥ प्राकट्यकालः पूर्णस्य हरेः प्रोक्ता महानिशा । निःसाधनजनोद्धृत्यै फलदानाय भूतले ॥ २० ॥ फलसामयिकी पुष्टिस्तेनात्र विनिरूपिता । एवंविधे हरिः काले प्रादुर्भूय निजेच्छया ॥ २१ ॥ ब्रह्मसम्बन्धमारभ्य सर्वं मार्गं स्वयं जगौ । न भक्तैर्नावतारेण न स्वमप्रेरकेण च ॥ २२ ॥ न पूर्वरसरूपेण मूलरूपेण वै हरिः । उक्तवानिति बोधाय साक्षात्पदमिहोदितम् ॥ २३ ॥ सर्वलीलाविशिष्टत्वबोधाय भगवत्पदम् । साभिप्रायत्वबोधाय कथने प्रपदं मतम् ॥ २४ ॥ यदुक्तं हरिणा तद्धि प्रत्यक्षरमिहोच्यते । ब्रह्मसम्बन्धकरणादित्यादि भगवद्वचः ॥ २५ ॥ आदौ सम्बन्धकरणं कन्ययेव स्वयम्बरे । स्वस्य सर्वपदार्थानां मनसा तेन योजनम् ॥ २६ ॥ सम्बन्धवत्या दूत्येव गुरुणा तत्कृतिर्भवेत् । सम्बन्धश्चापि निर्दोषस्तथा सर्वसमः स्मृतः ॥ २७ ॥ वन्हेरेवेति बोधाय प्रोक्तं ब्रह्मपदं पुनः । 'निर्दोषं हि समं ब्रह्मे'त्यत्रोक्तं तत्तथाविधम् ॥ २८ ॥ स्यात्प्रयुक्ते कृष्णपदे विषमैत्वं गुणाहितिः । सम्बन्धे तादृशापेक्षा नास्ति दोषनिवारणात् ॥ २९ ॥ दोषमात्रनिवृत्त्यर्थं ब्रह्मसम्बन्ध उच्यते । गुणाधायकसम्बन्धः फलसामयिको मतः ॥ ३० ॥ तस्मिन्वाच्ये कृष्णपदं वाच्यं कृष्णः फलात्मकः । तत्सम्बन्धे स्वतःसिद्धे फलसंसिद्धिसंभवात् ॥ अपरा कृष्णसेवादिप्रकृतिर्वैयर्थ्यमाप्नुयात् । अतः साधनसम्बन्धो विवाह इव लौकिके ॥ ३२ ॥ तेन निर्दुष्टतासिद्धिविंधिनेव रतौ पुनः । ईदृक्सम्बन्धबोधाय प्रोक्तं ब्रह्मपदं पुरा ॥ ३३ ॥ विषमश्च हरिः कृष्णो न यायात्समतां यतः । हेतुसम्बन्धसम्बन्धात्कृष्णः साधनतां गतः ॥ ३४ ॥ १. नित्यलीलास्थानेति पाठः । २. सापि त्रिधेति पाठः । ३. विषयत्वम् । ४. हेतोरक्षरस्य सम्बन्धो यस्य कृष्णस्य तस्य सम्बन्धात् ।

श्रीहरिरायकृतविवृतिसमेतम् । २७ ब्रह्मेति प्रोच्यते सर्वसमत्वाददोषनिर्वृत्तेः । व्यापकत्वं च सम्बन्धे तेनैव विनिरूपितम् ॥३५॥ करणोक्त्या न मुख्योत्र भावित्वान्मानसी कृतिः । युक्तः प्रथमसम्बन्धो भावात्मा भावरूपिणा ॥ अग्रिमोपि तथोभूतः सर्वथा नात्र संशयः । विशेषः परमेतावान् प्रथमो मानसो मतः ॥३७॥ सर्वेन्द्रियैस्तथा चान्तःकरणैरात्मनापि हि । साक्षात्स्वरूपसम्बन्धो द्वितीय इति निश्चयः ॥३८॥ परं तत्रेन्द्रियादीनां कृत्यादीनां च सर्वथा । भावात्मकत्वं मन्तव्यं तादृग्रूपानुभूतितः ॥३९॥ अप्राकृतत्वं चैतद्धि बोध्यं स्यादिन्द्रियात्मनाम् । मानसे पूर्वसम्बन्धे या कृतिस्तनुवित्तजा ॥४० सा हि साधनतां प्राप्ता प्राकृतेन्द्रियदेहजा । तथोक्तमस्मदाचार्यैस्तत्सिद्ध्यै तनुवित्तजा॥४१॥ एतादृशस्य योगस्य सकृत्करणमात्रतः । अयोग्यानां च योग्यानां सर्वेषामधिकारिणाम्॥४२॥ स्त्रीशूद्रद्विजबन्धूनां ब्राह्मणादेरपि स्वतः । ज्ञानाज्ञानविभेदेन हीनमध्‍याधिकारिणाम् ॥४३॥ श्रीकृष्णसात्कृतासूनामुत्तमाधिकृतावपि । भवति ब्रह्मसम्बन्धः समत्वात्सकलान्प्रति ॥ ४४ ॥ पुरुषोत्तमरूपत्वान्न चिन्ता तदनुग्रहे । न वा समागतां कन्यां त्यजेत्पुरुषकेसरी ॥ ४५ ॥ न च सामर्थ्यसहितः कुर्यात्कांचिद्विचारणाम् । बलादङ्गीकृतिकृतिर्न गृह्णीयात्समर्पितम् ॥४६॥ अतो न चिन्तालेशोपि विधेयः स्वीकृतौ हरेः । एतदेवास्रदाचार्यैर्नवरत्ने निरूपितम्॥४७॥ तथा निवेदने चिन्ता त्याज्या श्रीपुरुषोत्तमे । अयमेवात्र संस्कारो मन्तव्यः कृष्णसेवने॥४८॥ उपदेशस्तु सावित्र्या यथा वैदिककर्मणि । तापक्लेशगुणाधानं शुद्धिश्च समर्पणात् ॥ ४९॥ यथा हि संस्कृतः शुद्धः कर्ममार्गेभिधीयते । भक्तिमार्गे तथा तापक्लेशैः शुद्धो निरूप्यते॥५०॥ शुद्धो यत्कुरुते कर्म तत्सर्वं सफलं यथा । तथात्र तापक्लेशार्तकृता सेवापि मानसी ॥ ५१॥ संस्कारत्वे तु सम्बन्धो देहमात्रं विशोधयेत् । गायत्रीवन्न वै जीवमित्याशङ्कयात्र चोदितम्॥५२॥ सर्वशोधकतासिद्धयै पदं यद्देहजीवयोः । जीवशुद्धिरविधातः संसाराद्विस्मृतेर्हरेः ॥ ५३ ॥ अशुद्धिस्तदभावात्मा ब्रह्मसम्बन्धतस्तु सा । भवति ब्रह्मसम्बन्धे ह्यहन्ताममतागतिः ॥५४॥ तापक्लेशै च भगवत्स्मृतिः सार्वदिकी मता । अतः शुद्धो हि योग्यस्तु भगवद्भजने मतः॥५५॥ निवृत्तिरत्र दोषाणामेकदैव विवक्षिता । अतः सर्वपदं प्रोक्तं दोषाणां विनिवर्तने ॥ ५६ ॥ दोषत्वेनैव दोषाणां संग्रहस्तु निरूपितः । न प्रत्येकमपारत्वात्ते शक्यन्त उदीरितुम् ॥५७॥ बुद्धिसौकर्यसिद्धयर्थं तत्पञ्चविधतोदिता । दुष्यन्ति यैस्तु देहाद्या जीवाः कृष्णोपयोगतः ॥५८॥ निवर्तन्ते सर्वथैव ते दोषाः परिकीर्तिताः । निवृत्तिस्तु द्विधा दूरीकृतेः शुद्धिकृतेरपि ॥५९॥ आद्या तु वस्त्रमालिन्यनिवृत्तिरिव शोधकैः । द्वितीया मृण्मयस्येव पाकेनेव च शुद्धता॥६०॥ सदोषाङ्गीकृतेस्तस्यास्तद्गतौ व्यर्थता भवेत् । अतोत्र विनिवृत्तिस्तु द्वितीयैव हि युज्यते॥६१॥ एतदेव हि गङ्गात्वमित्यत्राग्रे निरूपितम् । हिशब्दः सर्वदोषाणां निवृत्तौ युक्तिबोधकः॥६२॥ कोटिसूर्याभिरूपस्य सम्बन्धाद्दोषवारणे । निश्चयार्थोपि बोद्धव्यः सत्यसङ्कल्पवाक्यतः॥६३॥ अविद्यारूपतस्तेषां संख्या चोक्ता तथाविधा । स्मृता इति पदोक्तौ च प्रसिद्धिरपि बोधिता॥६४॥ सर्वश्रुतिपुराणेषु लोके वेदेपि चैव हि । तेषु पञ्चविधत्वोक्त्या तत्रैवान्यनिवेशनम् ॥ ६५ ॥ देहेन सह जायन्ते जीवेनापि तथा पुनः । ते हि शूद्रत्वसंसारित्वादयः सहजा मताः॥६६॥ १ सम्बन्धः । २ न मुक्तः । ३ प्रतिमासम्बन्धः ।

२८ सिद्धान्तरहस्यम् । नन्वासुरत्वं सहजं कथं न हि निवर्तते । ब्रह्मसम्बन्धतः सर्वदोषदाहकतोपि हि ॥ ६७ ॥ इति चेत्सत्यमेवास्ति परं सम्बन्धसम्भवः । दुर्लभस्तेषु तद्दोषाद्भक्तिमार्गाप्रवेशतः ॥ ६८ ॥ यथा कथञ्चित्सम्बन्धे तन्निवृत्तिरपीष्यते । अत एवावतारे तु सम्बन्धात्तत्कृतार्थता ॥ ६९ ॥ परं रूपेण करणं न भक्त्येति विनिश्चयः । इदानीं भक्तिमात्रेण ह्युद्धारो भगवन्मतः ॥७०॥ तदा क्रोधादिभावेपि नेदानीं तद्धि साधनम् । भक्तिसाधनसत्त्वेन तेषां भक्तिविरोधतः॥७१॥ सन्तो न कुर्युस्तत्सङ्गमिति सङ्गोपि दुर्लभः । तस्मादनवतारे तु नासुराणां फलं भवेत्॥७२॥ अङ्गवङ्गादिगमनजनिता दैशिका मताः । यथा परीक्षितः कालस्थानदानात्तथा पुनः ॥७३॥ कालावेशेन ये जातास्ते दोषाः कालिकाः स्मृताः। यथा लोके राजसेवा योग्या नैव कुरूपिणः॥ चातुर्यंरहिता मूर्खा दुःशीलाः स्तेयकारिणः । कुरूपित्वादयो दोषा अतस्ते लौकिकाः स्मृताः॥ वेदोक्तविध्यकरणात्प्रतिषिद्धकरणादपि । वैदिकास्ते समाख्याता आज्ञाभङ्गो यतो हरेः॥७६॥ सान्निध्यादेव दोषाणामेकोक्तिर्देशकालयोः । निषिद्धकृतिजन्यानां तेषां लोकेपि सम्भवात्॥७७ अपकीर्त्या लौकिकेषु साङ्कर्याद्वेदवर्तिनाम् । अतस्तथैव ग्रन्थेऽस्मिन्नेकोक्तिर्लोकवेदयोः ॥७८॥ अतो लोकेषु संख्याया नाधिक्यमिह शङ्कितम् । सम्यग् योगो हि संयोगः कामलोभादयश्चसः ॥ नैरन्तर्येण संवासशयनासनभोजनैः । म्लेच्छशूद्रादिसंयोगस्तज्जाः संयोजगाः स्मृताः ॥८०॥ स्पर्शजाः स्पर्शमात्रेण प्रायश्चित्तं विधीयते । यत्र चाण्डालपतितादीनां ते तादृशा मताः ॥८१॥ एवं पञ्चविधा दोषा विज्ञेया भगवत्परैः । उक्ता अनुक्ता सर्वेपि चकारेण समुच्चिताः ॥८२॥ स्वानुभूतेः परप्रोक्तात्प्रतीता अपि सर्वथा । सेवायां बाधकत्वेन न मन्तव्या विशेषतः ॥८३॥ कथञ्चनेति पदतः सूचितोर्थो निरूपितः । तव्यप्रत्यययोगेनामननं सर्वथोच्यते ॥ ८४ ॥ अन्यथा स्यादविश्वासात्समस्तं फलमन्यथा । ननु दोषनिवृत्त्यर्थं प्रायश्चित्तादिकं कथम् ॥८५॥ अन्यत्र विहितं चात्र तदेव न किमुच्यते । किमर्थं ब्रह्मसम्बन्ध इति चेत्तत्र चोच्यते ॥८६॥ विना तु ब्रह्मसम्बन्धं प्रायश्चित्तादिभिः पुनः । युगपत्सर्वदोषाणां न निवृत्तिर्भवेदिति ॥८७॥ ब्रह्मसम्बन्धकरणं सर्वदोषनिवर्तकम् । तदभावे कथं सद्यः सेवायामधिकारिता ॥ ८८ ॥ अत एवाग्रिमे पद्ये प्रोक्तं सर्वपदं पुनः । अन्यथा सर्वदोषाणामित्यत्रोक्तार्थसूचकम् ॥ ८९ ॥ एवं हि ब्रह्मसम्बन्धः संस्कारोत्र निरूपितः । तदुत्तरं तस्य सर्वसमर्पणमिहोच्यते ॥ ९० ॥ यस्मात्कृतो हि सम्बन्धो विनियोगाय सर्वथा । खासम्बन्धि यतः कृष्णो न गृह्णातीति निश्चयः ॥ एतदेवोक्तमाचार्यैर्वेणुगीतनिरूपणे । स्वभोगानन्तरं भोग्यो भगवान्भवतीति हि ॥ ९२ ॥ तत्रापि ब्रह्मसम्बन्धो वेणुना शब्दरूपिणा । ब्रह्मणा येन संसिद्धं देहादिविनियोजनम् ॥९३॥ तस्मात्सम्बन्धसहितो वर्जयेदस मर्पितम् । समर्पणं तु संसिद्ध्येत्सम्बन्धादेव सर्वथा ॥ ९४॥ स्वसम्बन्धि यतः सर्वं गृह्णात्येवेति निश्चयः । समर्थं भक्त्युपहृतमतस्तु हरिणोदितम् ॥९५॥ गीतायां भक्तिमार्गीयप्रभुणातिदयालुना । वस्तूनामिति यत्प्रोक्तं बहुत्वं तस्य चाशयः ॥९६॥ सर्वांशेनैव तत्यागो नैकांशेनेति बुध्यताम् । यथा गायत्र्योपदेशः संस्कारोत्तरमुच्यते ॥९७॥ श्रुतिस्मृत्युदिताचारस्तदभावे फलं न हि । आचरेदित्यनेनात्र ब्रह्मसम्बन्धतः परम् ॥ ९८॥ १ दोषेषु ।

समर्पणं तथाचारो ह्यसमर्पितवर्जनम् । तदभावेऽङ्गहीना तु सेवा नैव फलेदिह ॥ ९९ ॥ ननु सर्वं समर्प्य चेद्वैदिकं लौकिकं तथा । न कुर्यात्कृष्णकार्याय सम्बन्धो विहितो यतः ॥ न चान्यविनियोगोपि ह्युचितश्च निवेदिनाम् । इति चेदुच्यते सर्वं कुर्यादेव यथोदितम् ॥ मर्यादामध्येपातेन पुष्टिमार्गनिरूपणात् । निवेदो वर्तते तेषां पदार्थानां पुराकृतः ॥१०२॥ तेनैव सकलं कुर्यात्समर्प्यैव हरौ परे । देहनिर्वाहवत्कृष्णप्रसादेनेति निश्चयः ॥ १०३ ॥ स्वयं कुर्यान्न विश्वासं पुत्रादीनामपि क्वचित् । एवं प्रकारिकैवैषा स्थितिः पुष्टिफलावधि ॥ मर्यादापीयमेवेह स्थित्यर्थमवगम्यताम् । नन्वेतदुचितं नैव यत्समर्पितयोजनम् ॥ १०५ ॥ लौकिके वैदिके नीचप्रेतपित्रादियोगिनि । अतोऽसमर्पितेनैव तत्कार्यमिति चेन्न हि ॥१०६॥ युज्यते शेषभावात्स्या निखिलं तज्जुगुप्सितम् । अर्धभुक्तं देवदेवोपयोगाय भवेच्च तु ॥ १०७॥ न चोचितं सेवकानां स्वामिन्येवंविधापर्णम् । एवं समर्पणासिद्धौ सम्बन्धो विफलो भवेत् ॥ अतो निषिद्धं कृष्णस्य सामिसुक्तसमर्पणम् । ननु कृत्वारिखलं कर्म लौकिकं वैदिकं तथा ॥ कृष्णार्पणैकबुद्ध्या वा पश्चात्कृष्णे समर्पयेत् । तदा न प्राप्यते दोषः कश्चित्तादृक्समर्पणे ॥ इति चेद्देवदेवो हि यस्मात्कृष्णो न केवलः । अतः सेवकशेषो हि सामिसुक्तं हरेः स्मृतम् ॥ कृष्णार्पणैकमत्या वा कृत्वा कृष्णसमर्पणम् । तत्रापि स्यादन्यशेषो मतिमात्रेण चार्पणात् ॥ सर्वथा नार्पितं कृष्णे तन्न गृह्णाति केशवः । यतः सम्बन्धवैयर्थ्यमत आदौ समर्पणम् ॥ तत्रापि सर्ववस्तूनां सर्वकार्ये तथैव च । लौकिके वैदिके वापि ह्युत्तमेऽनुत्तमेपि च ॥११४॥ पश्चाद्विधेयं सर्वं हि तदा सार्थकता भवेत् । उच्छिष्टदाने सर्वेषां माहात्म्यं चापि सिध्यति ॥ नन्वेवं लौकिकार्थं हि वैदिकार्थं तथा पुनः । समर्पितपदार्थानां ग्रहणे दोषसम्भवः ॥११६॥ दत्तापहाररूपो हि धर्ममार्गनिरूपितः । भगवच्छास्त्रसिद्धोपि नैवेद्यग्रहणात्मकः ॥ ११७ ॥ 'अपि दीपावलोकं म' इत्यादिप्रभुणोदितः । इति चेन्न यतो मार्गो भिन्नोयं पुष्टिनामकः ॥ मार्गभेदान्न दोषोत्र कर्मपूजादिरूपितः । यथाश्रमविभेदेन निषेधानां विधेरपि ॥ ११९ ॥ भिन्नतात्र तथा मार्गभेदेनापि विबुध्यताम् । न वा निवेदनं दानं येन दोषो ग्रहे भवेत् ॥ वाक्यं पूजाप्रकरणात्तद्दोषविनिरूपकम् । नन्वेवं सर्ववस्तूनां समर्प्य विनियोजनम् ॥१२१॥ प्राप्येत कामचारेण दोषाभावाच्च रक्षणम् । तथा च प्रभुवस्तूनां वृथैव विनियोगतः ॥१२२॥ अन्यत्र तेन भविता सम्बन्धदृढताङ्कतिः । न स्वसम्बन्धिवस्तूनां नाशनं कुरुते वृथा ॥ लोकेपि दृढसम्बन्धयुतः स्वाम्यर्थरक्षकः । अतः प्रोक्तं यथा लोके सेवकानां प्रकर्षतः ॥ लौकिको वैदिकश्चैव व्यवहारो हि सिध्यति । तथा सर्वं समर्प्यैव पुनः कार्यं निवेदिभिः ॥ पदार्थैस्तेन सम्बन्धे सिद्धे भाववतां दृढे । ततः सम्बन्धतः सिध्येन्निर्दोषसमता पुनः ॥ सेवायां सर्ववस्तूनां सर्वेषामधिकारिणाम् । अतस्तदुपयोगेन फलं सिद्धं न संशयः ॥१२७॥ सर्वांशकृतसम्बन्धो यतः फलमिहोच्यते । ननु दोषनिवृत्तिः का मलस्येव हि नाशनम् ॥ अथवा परिपाकेन दोषतागमनं यथा । मृण्मयेपि घटे पाकादामतैव निवर्तते ॥ १२९ ॥ न मृन्मयत्वमेवं हि तन्निवृत्तिरिहोच्यते । इति संशयतः प्राह प्रसुर्गङ्गात्वमेव हि ॥१३०॥ १ क्षतिः । २ देवव्रतो जनः ।

३० सिद्धान्तरहस्यम् । दोषाणां तत्प्रविष्टानां जलानामिव सर्वथा । तत्प्रवेशे पुनस्तेषां गुणदोषादिवर्णना ॥१३१॥ गङ्गात्वेनैव कर्तव्या न पानीयप्रयोगतः। शूद्रत्वादिकथात्रापि वैष्णवत्वेन बुध्यताम् ॥१३२॥ उपदिश्य जनोद्धारं पुष्टिमार्गेण सर्वथा । निजासँरूपाचार्येभ्यो दयार्द्वेभ्यो दयानिधिः ॥ कृपया प्रकटीभूय साक्षाच्छ्रीगोकुलेश्वरः । लीलाविशिष्टरूपस्तद्धृदयं प्राविशद्धरिः ॥१३४॥ इति श्रीवल्लभाचार्यदासदासेन रूपितः । तद्वाक्यगूढवाक्यार्थस्तेन तुष्यन्तु ते मयि ॥१३५॥ इति श्रीहरिदासोदिताः सिद्धान्तरहस्यविवृतिकारिकाः समाप्ताः ।

श्रीकृष्णाय नमः । सिद्धान्तरहस्यम् । श्रीविट्ठलेश्वरविरचितविवृतिसमेतम् । श्रीहरिः । श्रीमदाचार्याः स्वप्रकटितशुद्धपुष्टिमार्गानभिज्ञान् स्वमार्गीयसिद्धान्तजि- ज्ञासून् स्वसेवकान् प्रति कृपया पुरुषोत्तमसिद्धान्तं निरूपयन्ति श्रावणस्यामले पक्ष इति श्रावणस्यामले पक्षे एकादश्यां महानिशि । साक्षाद्भगवता प्रोक्तं तदक्षरश उच्यते ॥ १ ॥ अर्धरात्रे साक्षादव्यवधानेन भगवता श्रीमद्भिरिधारिणा यत्प्रोक्तं तदक्षरश इति प्रत्यक्षरेण सप्तप्रकारेण निरूप्यते । सप्तप्रकारानाह । श्लोकार्थः, अर्धश्लोकार्थः, पदार्थः, प्रकरणाथैः, वाक्यार्थः, वेदार्थः, अक्षरार्थः । एतैः सप्तप्रकारैः साक्षादन्तरालरहितं मनो- वाक्शरीरैः सकलांशेन भगवता पूर्णपुरुषोत्तमेन प्रोक्तं प्रकर्षेण निश्चयं कृत्वोक्तम् । उक्तं तत् कस्मिन्नवसरे ? 'श्रावणस्यामले पक्षे एकादश्यां महानिशि' इत्येतस्मिन्नवसरे प्रोक्तम् । श्रावणे यदुक्तं तत्कथं, तत्र हेतुमाहुः । श्रावणस्तु दक्षिणायनं चातुर्मास्यं च । तस्मान्निषिद्धमासे यदुक्तं तस्यायमाशयः । पुरुषोत्तमविषये सर्वदा विधिरेव, न तु निषेधः । उक्तं च 'स्मृते सकलकल्याणभाजनं यत्र जायते । पुरुषं तमहं नित्यं व्रजामि शरणं हरिम्' । तथा चोक्तं दशमस्कन्धे जन्मप्रकरणे 'अथ सर्वगुणोपेतः कालः परमशोभन' इति । एतावता भगवत्प्रवृत्तिर्यदा भवति, तदा सर्वे उत्तमयोगा भवन्तीत्युक्तम् । शुक्ल- पक्षस्य हेतुमाह । शुक्लपक्षस्तु पूर्वजानां रात्रिः, तत्र कर्ममार्गानधिकार इति । उक्तं च एका- दशस्कन्धे 'न रोधयति मां योगो न सांख्यं धर्म उद्धव । न स्वाध्यायस्तपस्त्यागो नेष्टापूर्तं न दक्षिणा । व्रतानि यज्ञाश्छन्दांसि तीर्थानि नियमा यमा' इति । एकादश्या हेतुमाह । एकादशी शिवतिथिः, शिवस्तु भक्तप्रधानः । उक्तं च चतुर्थस्कन्धे । 'अथ भागवता १ निजाख्यरूपानार्यान् दयार्द्रानिति पाठः ।

श्रीविठ्ठलेश्वरकृतविवृतिसमेतम् । ३१ यूयं प्रियाः स्थ भगवान् यथा, न मे भागवतानां च प्रेयानन्योऽस्ति कर्हिचित् ।' तस्मा- च्छिवतिथिरुक्ता । महानिशीथस्यायमाशयः । यत् शृङ्गाररसलीलाभजनमुक्तम् । उक्तं च चतुर्थस्कन्धे 'संसारसिन्धुमतिदुस्तरमुत्तितीर्षोर्नान्यः प्लवो भगवतः पुरुषोत्तमस्य । लीला- कथारसनिषेवणमन्तरेण पुंसो भवेद्विविधदुःखदवार्दितस्ये'ति ॥ १ ॥ ब्रह्मसम्बन्धकरणात्सर्वेषां देहजीवयोः । सर्वदोषनिवृत्तिर्हि दोषाः पञ्चविधा मताः ॥ २ ॥ ब्रह्मसम्बन्धकरणादिति । इदानीं श्रीमदाचार्यैः श्रीगिरिधरं प्रति प्रश्नः कृतः । यत् हे सुन्दरीकान्त, भवता आज्ञा दत्ता, यज्जीवानां मदीयभजनमार्गं निरूपय । तत्र ते जीवाः सकलदोषनिधानम्, भगवान् सकलगुणनिधानम् । भगवान् पूर्णपुरुषोत्तमः । जीवस्त्वपूर्णः पुरुषाधमः । तर्हि भगवद्भजनं कर्तुं कथं योग्यो भवति । तथा च श्रुतिः 'देवो भूत्वा देवान् यजेते'ति । तदा श्रीमद्गिरिधारिणोक्तम्-यद्ब्रह्मसम्बन्धकरणात् सर्व- दोषनिवृत्तिः । भगवद्भजनं कर्तुमुद्युक्तो यो जीवः स तत्कालं शुद्धो भवति । तस्य शुद्ध- जीवस्य मया सह सम्बन्धः कार्यः। अथवा । ब्रह्मणा मया सह सम्बन्धः कार्यः। तत्सम्बन्ध- प्रकारा दशमस्कन्धे उक्ताः 'कामं क्रोधं भयं स्नेह'मिति श्लोके । तेषु षट्सु कामसंबन्ध उत्तमः । कामसम्बन्धात् सकलदोषनिवृत्तिः । तत्र तत्संबन्धेन यथा कस्यचिद्राज्ञो दुःकुला स्त्री कामसंबन्धेन भजन्ती राजतुल्या स्यात्, तथा अनन्यत्वेन जीवो मां भजन् शुद्धः स्यात् । कामसंबन्ध इति किम् । साध्व्या आचारः । अथ च स्वैरिणीवत् नित्यनूतन- भावेन भजनमिति । उक्तं च दशमस्कन्धे 'मयि निर्बद्धहृदयाः साधवः समदर्शिनः । वशे कुर्वन्ति मां भक्त्या सत्स्त्रियः सत्पतिं यथे'ति । एतेनानन्यत्वेन व्यभिचारिण्या भाव- मादाय भजनं विधेयमिति कामसम्बन्धः । तथा चोक्तं सप्तमस्कन्धे 'नन्वद्धा मयि कुर्वन्ति कुशलाः स्वात्मदर्शनाः । अहैतुक्यव्यवहितां भक्तिमात्मप्रिये यथा' । पुनराचार्यैः पृष्टम्, यत् पतिभावभजने वर्णाश्रमाणां मध्ये कोऽधिकारी । तदा श्रीमद्गिरिधारिणोक्तम्, जीवमात्रस्य भगवद्भजनेऽधिकारः । उक्तं च सप्तमस्कन्धे 'देवोऽसुरो मनुष्यो वा यक्षो गन्धर्व एव वे'ति । सर्वेषां देहजीवयोरिति । अस्यायमर्थः । यथा देहस्य जीवसंबन्धात् सर्वदोषनिवृत्तिस्तथा ब्रह्मसंबन्धकरणादिति । यथा जीवमन्तरेण देहः अपूर्णः, तत्स- म्बन्धेन सकलगुणपूर्णः, तथा ब्रह्मसम्बन्धादिति । यथा जीवो देहदुःखेनार्तुरो भवति, तथाहं भक्तदुःखेनार्तुरो भवामीत्यर्थः । अथवा । देहजीवयोरिति । भगवद्भजनेन तस्य हीनजा- तिरोगादयो दोषाः, तथा हिंसादिपातकानि व्रजन्तीत्यर्थः । उक्तं च तृतीयस्कन्धे 'श्वपा- दमूलं भजतः प्रियस्ये'ति । पुनः श्रीमदाचार्यैः पृष्टम्, दोषा गता इति कथं ज्ञायते । तदा श्रीमद्गिरिधारिणोक्तम्, सर्वदोषनिवृत्तिर्हीतिशब्देन । निश्चयो यदा उत्पद्यते, तदा सर्वे दोषा गता इति ज्ञातव्यम् । उक्तं च भारते 'वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।

३२ सिद्धान्तरहस्यम् । सर्वपापविशुद्धात्मा पाति ब्रह्म सनातनम् ।' पुनः श्रीमदाचार्यैः पृष्टम्, दोषाः कति सन्ति । तदा श्रीमद्गिरिधारिणोक्तं दोषाः पञ्चविधा मता इति । तत्रापि द्वात्रिंशद्भेदाः सन्ति । के ते दोषाः तान् प्रभुर्वदति सहजा देशकालोत्था इति । सहजा देशकालोत्था लोकवेदनिरूपिताः । संयोगजाः स्पर्शजाश्च न मन्तव्याः कथञ्चन ॥ ३ ॥ सहजा द्वादश । देशोत्थाः सप्त । त्रयः कालोत्थाः । संयोगजाः सप्त । स्पर्शजा- स्त्रयः । एवं द्वात्रिंशद्भेदा वेदपुराणादियुक्ताः । सहजा द्वादश । तत्र एकादश इन्द्रियाणां कुमार्गप्रवृत्तिरूपाः । एको देहस्य हीनजातिलक्षणः । देशस्य सप्त । उषरभूमिः, गर्दभ- क्षेत्रम्, दुर्जनवासः, हीनजलदेशः, जलान्तर्गतदेशः, स्वचक्रभीतिदेशः, परचक्रभीतिदेशः । त्रयः कालदोषाः प्रातरादयः । एते त्रयो दोषरूपाः । भगवद्भजने न गुणरूपाः । संयो- गजाः सप्त, सहभोजनशयनासनगानमैथुनभाषणनिवासादयः । मानसवाचिककायिकास्त्रयः स्पर्शजाः । एवं द्वात्रिंशत्प्रकारका दोषाः । एते प्रत्यहं भगवद्भजने क्रियमाणे सति नोत्प- द्यन्ते । उक्तं च द्वितीयस्कन्धे 'यत्कीर्तनं यत्स्मरणं यदीक्षणं यद्वन्दनं यच्छ्रवणं यदर्हणम् । लोकस्य सद्यो विधुनोति कल्मषं तस्मै सुभद्रश्रवसे नमो नमः ।' दशमस्कन्धे 'तावद्रा- गादयः स्तेनास्तावत्कारागृहं गृहम् ।' न मन्तव्याः कथञ्चन । भगवत्सम्बन्धे संपन्ने एते दोषाः किं करिष्यन्तीत्यर्थः । प्रयत्ने क्रियमाणे चेदुत्पद्यन्ते, तर्हि हरिमेव शरणं गच्छेत् । शरणगमनाद्धरिः रक्षेत्येव । प्रत्यहं करोति चेत्, तदा पतितो भवेत् ॥ ३ ॥ अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चन । असमर्पितवस्तूनां तस्माद्वर्जनमाचरेत् ॥ ४ ॥ पुनः श्रीमदाचार्यैः पृष्टम्, अनन्यत्वेन पतिभावं विना प्रकारान्तरेण जीवस्य दोषाः कथञ्चिदपि न गच्छन्तीति, तत् किमन्ये मार्गाः सर्वे मिथ्याभूता इति । तदा श्रीमत्प्रभु- णोक्तम्-अन्यथा सर्वदोषाणां न निवृत्तिः कथञ्चनेति । अन्यथा करणे भगवत्संबन्धो न भवेत्, तदा कथमपि किञ्चिदपि सर्वदोषाणां निवृत्तिर्न स्यादित्यसमर्पितवस्तुवर्जनं कुर्यादित्यर्थः । प्रकारान्तरेण साधननिष्ठेन किञ्चिद्दोषनिवृत्तिः, न तु सकलदोषनिवृत्तिः । यथा राज्ञः स्त्री सकलदोषरहिता भवति, तत्सम्बन्धिनोपि भवन्ति, परन्तु तत्संबन्धिनां सकलदोषा ( न ) ? गच्छन्ति । तथा भक्त्या भवति............गच्छन्ति । .............त्वेन गच्छन्ति । उक्तं च गीतायां 'अपि चेत् सुदुराचार' इति श्लोके । एतेन पतिभावभजनेन सर्वदोषनिवृत्तिः, न तु भावान्तरभजनेनेति श्रुत्वा पुनः श्रीमदाचार्यैः पृष्टम्, अनन्यत्वोत्पत्तेः किं साधनम्, तदा श्रीमद्गिरिधारिणोक्तम्, असमर्पितवस्तुवर्जनं कार्यम् । एतेनान्यदेवसमर्पितस्य असमर्पितस्य च वस्तुनो वर्जने क्रियमाणे भक्तिभाव उत्पद्यते । पुनः श्रीमदाचार्यैः पृष्टम्, असमर्पितान्यदेवसमर्पितवस्तुवर्जनं करोतीत्यावेशः

कथमुत्पद्यते । यद्यसमर्पितमश्नाति, तर्हि असुरावेशो भवति । अथ च भगवदनिवेदित- निवेदनात् सकलकर्ममिथ्यात्वम् । उक्तं च द्वितीयस्कन्धे 'तपस्विनो दानपरा यशस्विनो मनस्विनो मन्त्रविदः सुमङ्गलाः । क्षेमं न विन्दन्ति विना यदर्पणं तस्मै सुभद्रश्रवसे नमो नम' इति । तस्मात् सर्वकार्याणि भगवति निवेद्य कार्याणीति । एवमावेशः कथमुत्पद्यते, तस्य किं कथं कर्तव्यमिति पृष्टे, श्रीमद्गिरिधारिणोक्तम्—निवेदिभिः समर्प्यैव सर्वं कार्यमिति स्थितिः । ये निवेदिनो धर्मिणो भक्तास्तेषां सङ्गतिः कार्या । तया सर्वे शुद्धा भवन्ति, मद्भक्तियोग्याश्च भवन्ति । एवं सत्सङ्ग एव प्राप्तेर्मूलम् । उक्तं च द्वितीयस्कन्धे 'किरातहूणान्ध्रपुलिन्दपुल्कसा आभीरकङ्का यवनाः खसादयः, येऽन्ये च पापा यदुपाश्रया- श्रयाः शुध्यन्ति तस्मै प्रभविष्णवे नमः' । पुनः श्रीमदाचार्यैः पृष्टम्—यत्कर्ममार्गे एवमुच्यते, अर्धं समर्प्यते, समर्पितं तदन्यस्मै दीयते, असमर्पितं च भुज्यते, तत्कथम् ? तदा श्रीमद्गिरिधारिणोक्तम्—देवदेवस्य पुरुषो- त्तमस्य मम साम्यर्थमुक्तं समर्पणं न मतम् । उक्तं च गीतायां 'पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तस्याहं न प्रणश्यामि स च मे न प्रणश्यति' 'अम्बरीष नवं वस्त्रं फलमन्नाद्यमौषधम् । अनिवेद्य हरेर्भुञ्जन् सप्त जन्मानि नारकी । विष्णोर्निवेदितान्नेन यष्टव्यं देवतान्तरम् । पितृभिश्चापि तद्देयं तदानन्त्याय कल्पते । पितृशेषं तु यो दद्यात् हरये परमात्मने । रेतोधाः पितरस्तस्य भवन्ति क्लेशभाजिनः । श्रीशं समर्प्य सर्वस्वं पुनर्ग्राह्यं समर्प्य च । भोक्तव्यमेव सकलं दासो नैव च दोषभाक्' । श्रीभागवतेऽपि 'त्वयोपभुक्त- स्रग्गन्धे'ति । एतैः श्लोकैरेवमुक्तम्, यद् अन्यस्मै दत्तं न ग्राह्यम्, परन्तु दासत्व- नितयोर्यद् दत्तं भवति, तद् गृह्यते, तथा दीयते, तत्र न दूषणम् ॥ ४ ॥ ५ ॥ तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणम् । दत्तापहारवचनं तथा च सकलं हरेः ॥ ६ ॥ तदा पुनः श्रीमदाचार्यैः पृष्टम्—यदा किञ्चित् कार्यं क्रियते, तदा त्वां कथं सम- र्प्यते । तदा श्रीमद्गिरिधारिणोक्तम्—तस्मादादौ सर्वकार्ये सर्ववस्तुसमर्पणमिति । यस्मात् सर्वांशेनासमर्पणं यस्मै भगवदमतम्, तस्मात् सर्वस्मिन्नपि कर्तव्यत्वेन प्राप्ते कार्यमात्रे आदौ प्रथमत एव उत्सवं कृत्वा सर्ववस्तूनां पदार्थानां मनोवाक्कर्मभिः समर्पणं कुर्यादित्येवंविधो भक्तिमार्गोऽस्ति । उक्तं च तृतीयस्कन्धे 'देवानां गुणलिङ्गानामानु- श्राविककर्मणाम् । सत्त्व एवैकमनसो वृत्तिः स्वाभाविकी तु या । अनिमित्ता भागवती भक्ति- स्सिद्धेर्गरीयसी । जरयत्याशु या कोशं निगीर्णमनलो यथा' । एतेन हरये सर्वं कार्यं नित्यं समर्पणीयं च । तेन सर्वं कर्मवागात्यादिकं भक्तिर्भवतीत्यर्थः । पुनः श्रीमदाचार्यैः पृष्टम्—दत्तापहारवचनं यत्, तत् किञ्चिद्विषयम् । 'अपि दीपाव- लोकं मे नोपयुञ्ज्यान्निवेदित'मिति । तदा श्रीमद्गिरिधारिणोक्तम् । निवेदितस्वीकारे दत्तापहा- रवचनं 'यत् हरे'रिति मत्परत्वेन न ग्राह्यम्, किन्तु भिन्नमार्गपरं ज्ञेयम् । भक्तिमार्गाद्भिना ये सि. र. ५

३४ सिद्धान्तरहस्यम् । मार्गास्तत्परत्वेन ज्ञेयम् । अन्ये सर्वेऽपि प्रकाराः पुरुषोत्तमविषये न भवन्ति, किन्तु मायावादि- सिद्धान्ते भवन्ति । उक्तं च सप्तमस्कन्धे ‘नैषां मतिस्तावदुरुक्रमांघ्रिं स्पृशत्यनर्थापगमो यदर्थः । महीयसां पादरजोऽभिषेकं निष्किञ्चनानां न वृणीत यावत्’ । पुनः श्रीमदाचार्यैः पृष्टम् । मायावादः कस्मिन् विषये प्रवर्तते । तदा श्रीमद्गिरिधारिणोक्तम्-महल्लीलारसमन्तरेण सर्वं मायावाद उच्यते । उक्तं च पुराणान्तरे । ‘जानीत परमं तत्त्वं यशोदोत्सङ्गलालितम् । तदन्यदिति ये प्राहुरसुरांस्तानहो बुधा’ इति । मायावादस्वरूपमाह । वेदोक्तकर्माणि मन्यन्ते, निराकारस्वरूपं भजन्ते, द्वेषेण मोक्षं मन्यन्ते, सर्वदेवान् मां च समं मन्यन्ते, सर्वमेकीकृत्य जानन्ति, प्रपञ्चमसत्यं मन्यन्त इति मायावादः । न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । सेवकानां यथा लोके व्यवहारः प्रसिध्यति ॥ ७ ॥ तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता ततः । न ग्राह्यमिति वाक्यं हि भिन्नमार्गपरं मतम् । न ग्राह्यमिति निवेद्य न ग्राह्यमिति यद्वचनं तत् मद्भजनाद्भिन्नमार्गपरं ज्ञेयम् । उक्तं च गीतायां ‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् । परं भावमजानन्तो मामेवाक्ष्यमव्ययम्’ । पुनः श्रीमदाचार्यैः पृष्टम् । सकलसिद्धान्तस्य फलमेकीकृत्य वक्तव्यम् । तदा श्रीमद्गिरिधारिणोक्तम्-लोके यथा सेवकस्य व्यवहारः प्रसिद्धोऽस्ति, तथा भजनं विधे- यम् । उक्तं च गीतायां ‘मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति’ । एवं प्रथममन्यसे- वकवद्भजनं विधेयम् । पश्चात् पतिव्रताधर्म आयाति । पुनः श्रीमदाचार्यैः पृष्टम् । सेव- कस्य व्यवहारः कथमस्ति । तदा श्रीमत्प्रभुणोक्तम्-तथा कार्यं समर्प्यैव सर्वेषां ब्रह्मता तत इति । यथा लोके सेवकव्यवहारः, तथा समर्प्य कार्याणि कर्तव्यानि । एवं क्रियमाणे मदाश्रयेण ब्रह्मस्वरूपो भवति । शुद्धो भवतीत्यर्थः । यथा राज्ञः प्रथमं कश्चिज्जातीयः सेवक आगत्य तिष्ठति । राजसेवकान् मिलित्वा स्वसेवां ज्ञापयति, अहमद्य प्रभृति भवदीयोऽस्मि, तथा भक्तौ नामग्रहणम् । पश्चाद्राजा आज्ञां ददाति, तदनन्तरं पृष्ट्वा पृष्ट्वा राजकार्याणि करोति, पश्चाद्राजा पृच्छति, प्रसन्नो भवति, तदा तं स्वसदृशं करोति, तथाहमपि भक्तं शुद्धं करोमि । उक्तं च प्रथमस्कन्धे ‘अतो वै कवयो नित्यं भगवत्यखिलात्मनि । कुर्वन्त्यहैतुकीं भक्तिं ययात्मा सुप्रसीदति । श्रुतोऽनुपठितो ध्यात आदृतो वानुमोदितः । सद्यः पुनाति सद्धर्मस्तन्नामग्रहणादिभिः ।’ एतेन मद्भजनेन मत्सदृशो भवतीति सूचितम् । तत्र दृष्टान्तः । गङ्गात्वं सर्वदोषाणामिति । गङ्गात्वं सर्वदोषाणां गुणदोषादिवर्णना । गङ्गात्वे न निरूप्या स्यात्तद्वदत्रापि चैव हि ॥ ८½ ॥ यथा शुद्धमशुद्धं वा जलं गङ्गान्तः पतितं सत् गङ्गातुल्यं भवति । परन्तु गङ्गामध्ये