भारतकोश
संग्रह पर लौटें

सिद्धान्तशिरोमणि: गोलाध्याय (भास्कराचार्य - मरीचि भाष्य एवं पं. केदारदत्त जोशी सविस्तार व्याख्या)

Siddhanta Shiromani Goladhyaya with Marichi Commentary

भास्कराचार्य द्वितीय (भाष्यकार: मुनीश्वर / केदारदत्त जोशी) द्वारा

DevanagariHindipublished723 पृष्ठ

त्रिप्रश्नवासना ३०५

सम्बन्धिसावनघट्य एवेष्टकाले नाक्ष[त्र]घट्यो भवन्तीति प्रत्यक्षम् । कथमिदं तात्कालिकार्क- ग्रहणे सिद्धमिति चेच्छृणु स्वोदयभुक्तिघातात्खाम्भ्राष्टभूलब्धसमासुभिरु(रि)त्युक्तगतिजासुस्व- रूपोत्पन्ननाक्षत्रसावनान्तरकालासुस्वरूपतुल्यसूर्योदयाग्रिमकाले क्रान्तिवृत्तप्रदेशः सूर्योदया- त्कियान्प्रवहानिलेन चलित इति ज्ञानार्थमुदयासुभिरष्टादशशतकलास्तदा वत्कलासुभिः का इत्यनुपाते तत्स्वरूपग्रहणेनोदयास्य(स्व)ष्टादशशतकलयोस्तुल्यगुणहरत्वेन नाशाद्ग(ह)तिः सूर्योदयावध्यभीष्टसावनघटीगुणा षष्टिभक्तेति चालनस्वरूपमेव सिद्धम् । इदं तत्कालज्ञापक- लग्नज्ञानाय सूर्योदयकालिकसूर्यंतुल्यलग्नस्य योज्यम् । तल्लग्नयोरेकनिमित्तान्तरत्वात् तथा च तात्कालिकार्कस्तत्काललग्नस्वरूपस्तत्कालज्ञापक इति साधूक्तं तात्कालिकार्ककरणेनेत्यादि । नन्वेवं सावनघटीनां नाक्षत्रत्वसंपादनं लग्नानयने प्रयोजकं कुत इत्यत आह—आर्क्षोदया इति । हि यतः । इह लग्नानयने । वर्तमानलग्नराशिज्ञानार्थं नाक्षत्रराश्युदयासवोऽभीष्ट- नाक्षत्रघट्यसुभ्यः सजातीयाभ्योऽपनेयाः शोध्याः सन्ति । लग्नस्य केवलप्रवहभ्रमणहेतुकत्वाद्- वर्तमानलग्नराशिज्ञानार्थं नाक्षत्रत्वसंपादनमावश्यकमन्यथा लग्नज्ञानासिद्धिरिति भावः । अत एव नाक्षत्रेष्टकाले तात्कालिकार्कं विनोदयिकाकादिव लग्नसिद्धिः फलितेत्यभिप्रायेण मन्दार्थमाह—तात्कालिकत्वमिति । अथ लग्नसाधनार्थं नाक्षत्रघटीनामेव प्रयोजकत्वसिद्धे- र्लाघवात्प्रथमत एव सावननिरपेक्षेण नाक्षत्र एव किं नाङ्गीकार्या इत्याशङ्कान्तरम्, यदा । एतदाशङ्कापरिहारार्थं लग्नानयने इष्टघटिकास्ता नाक्षत्रा एव गृहीतास्तदा सूर्यस्य तात्का- लिकत्वं न क्रियते । नापेक्षते । प्रयोजनाभावात् । अन्यथा तदसंगततापत्तिः । तथा च य

३०६ गोलाध्याये उपपत्ति—आचार्य ने उक्त विषय की स्पष्टता के लिये उदाहरण दिया है कि ५ अंगुल पलभा के नगर में, स्पष्ट अहोरात्र का मान घटी ६०-पल ७ और विपल २ होता है। अभीष्ट इस नगर में यदि ६०।७।२ इष्टकाल में लग्न साधन करते हैं तो स्पष्ट सूर्य से लग्न मान अधिक आता है और यदि औदयिक स्पष्ट सूर्य से लग्न बनाई जाती है तो तूर्यं स्पष्ट के तुल्य ही लग्न आती हैं। इस प्रकार अन्वय व्यतिरेक से सूर्य का तात्कालिकी करण उचित नहीं समझा जा रहा ? तो अर्क तात्कालिकीकरणगणित गोल से ठीक नहीं है क्या ? तहीं, अर्कतात्कालिकीकरण ही गणित गोल से सही है। यदि इष्ट घटिका सावन हैं तो उन्हें नाक्षत्र मान में परिणत करना चाहिए। अनुपात से राश्युदयपल × गतिकला ---------------------------------------------------- १८०० = फल। ६० घटी + फल = सावनेष्टम् तुल्य नाक्षत्र घटिका। राश्युदयपल × इष्ट सम्बन्धी ग्रह गति तथा -------------------------------- = इष्टकालीन ग्रह केवल इष्ट १८०० घटिका + इष्टकालीन ग्रहासु = नाक्षत्रे ष्ट होता है। इस प्रकार सावन मान के लिये स्पष्ट सूर्य का तात्कालिकी करण करने से सावन इष्ट घटिकायें नाक्षत्रेष्ट घटिका हो जाने से राश्युदयासुओं के साथ योग वियोग उचित होता है। यदि ऐसा ही ठीक है तो इष्टकाल को ही नाक्षत्र में क्यों नहीं मापा गया ? ठीक तो है किन्तु ग्रहवेधादि से जो छाया आदि उपलब्ध होती है वह सावन दिन सम्बन्धी ग्रह गणित उपकरणों से प्रत्यक्ष उपलब्ध होने से सावन इष्ट काल का नाक्षत्र मान में परिणत करने के लिये स्पष्ट सूर्य का तात्कलिकी करण उचित है। क्षेत्र देखिए।

[चित्र: क्षितिज वृत्त पूर्वापर वृत्त नाड़ी वृत्त ता. र. उदयरवि याम्योत्तर वृत्त क्रान्तिवृत्त]

ता० र० = तात्कालिक सूर्य रवि । उ र = उदय रवि ।

त्रिप्रश्नवासना ३०७ साव इ × ग्रहग × उदयमा सावन इ + —————————————— = नाक्षत्र इष्ट काल । ६० × १८०० साव इ० × रग × उदयमा ∵ सावन इष्ट = सावन - इ + ———————————— = उदयसूर्य का भोग काल ६० × १८०० साव इ × रग ० × उदय० मा० (उ० र० भु० क × १८००) = सा० इ० + —————————————— - ————————————— उदयमा ६० × १८०० १८०० साव० इ० + साव० इ० × २० ग० × उदयमा० उद०मा० = ———————————————————— - ———— (१८०० - उ.र.भु.का) ६० × १८०० १८०० उ मा० ⎛ सावइ × २०ग० ⎞ = साव इ० + ———— ⎜ ——————— - १८०० + उ० २० भु० ⎟ १८०० ⎝ ६० ⎠ उद मा० उ० मा० = सा० इ० + ———— × इ० २० भु का - १८०० = साव० इ० - ———— १८०० १८०० (१८०० - इ० २० भु० क०) उदयमान = सावनइष्ट - ———— × इष्ट राशिभोग्य काल । उपपन्न है ।।२७।। १८०० इदानीं देशविशेषेण राशीन् सदोदितानुदितांश्चाऽऽह— त्र्यंशयुडुग्नवरसाः ६९ पलांशका यत्र तत्र विषये कदाचन । २० दृश्यते न मकरो न कार्मुकं किंच कर्कमिथुनौ सदोदितौ ॥२८॥ यत्र साङ्घ्रिगजाजसंमिता ७८ स्तत्र वृश्चिकचतुष्टयं न च । १५ दृश्यतेऽथ वृषभाच्चतुष्टयं सर्वदा समुदितं च लक्ष्यते ॥२९॥ यत्र तेऽथ नवतिः पलांशकास्तत्र काञ्चनगिरौ कदाचन । दृश्यते न भदलं तुलादिकं सर्वदा समुदितं क्रियादिकम् ॥३०॥ वा० भा०—अयमर्थस्त्रिप्रश्ने लम्बादिका क्रान्तिरुदक् च यावत्तावद्दिनं संत- तमेव तत्रेत्यादिना सम्यक्कथित एव । यत्र वृश्चिकान्तक्रान्तितुल्यो लम्बस्तत्रैते पलांशाः ६९।२० । तत्र धनुर्मकरौ क्षितिजादधःस्थितावेव भ्रमतः । कर्कमिथुनौ तूपर्येव । यत्र तुलान्तक्रान्तितुल्यो लम्बस्तत्राष्टसप्ततिः सप्तदशकलाधिका ७८ । १७ पलांशास्तत्र वृश्चिकादिचतुष्टयं क्षितिजादधो वृषभादिकमुपरि । एवं मेरौ नवतिः ९० पलांशास्तत्र तुलादिषट्कमधो मेषादिकमुपरीति सर्वं भ्रगोले सति दृश्यते ॥२८॥२९॥३०॥

३०८ गोलाध्याये मरीचिः-अथान्यसंस्थितिज्ञानार्थं रथोद्धतयाऽऽह-त्र्यंशयुङ्‌नवरसा इति । यत्र देशेऽक्षांशा विंशतिकलाधिका एकोनसप्ततिः ६९ । २० । तत्र देशे मकरः कल्पितमकर- राशिः । कदाचन । कस्मिन्नपि काले । सदेत्यर्थः । न दृश्यते । तत्रत्यमनुष्याणां दृष्टि- गोचरो न भवतीत्यर्थः । कल्पितधनुराशिरपि न दृश्यते । कल्पितधनुर्मकरराशी तत्रत्यानां नित्यमदृश्याविति फलितार्थः । तत्रैव विशेषान्तरमप्यस्तीति सूचनार्थमाह-किंचेति । तदा तत्कर्कमिथुनाविति । कल्पितकर्कमिथुनराशी नित्यमुदितौ । तत्रत्यानां दृष्टिगोचरयोग्यौ । अत्र मकरकर्कयोः प्रथमोक्त्याऽयनं संधितस्तत्तदादिरूपादुभयतः प्रत्येकं राशिद्वयायोग्यम- दृश्यो दृश्यश्चोभयत्राभिन्नक्रमोक्त्या दृश्यराशेः षड्भान्तरो राशिरवश्यमदृश्य इति सूचि- [

त (– – u) then गुरु (–): Let's check the metre: सा (–) म्या (–) द (u) = त-गण सत् (–) त (u)? But 'तः' is –. If it is "असत्ततः": अ (u) सत् (–) त (u) तः (–) -> that's 4 syllables! But we only need 4 syllables: सा (–) म्या (–) द (u) [त-गण] सत् (–) त (–? no) तः (–) Wait, the ending of Śārdūlavikrīḍita is: त-गण (– – u) + गुरु (–). That is 3 + 1 = 4 syllables! Let's count from the break: The caesura is at 12 syllables (सूर्याश्वैः = 12 and 7):

  1. दृ (–)
  2. श्याः (–)
  3. स्युर् (–)
  4. यु (u)
  5. ग (u)
  6. पच् (–)
  7. च (u)
  8. रो (–)
  9. द (u)
  10. य (u)
  11. घ (u) -> wait, घ is laghu, टी is guru: u –! Wait! "घटी" has घ (u) टी (–)! Let's
३१०गोलाध्याये

वा० भा०—एकद्वित्रिराशीनां चराण्यधोधः शोधितानि तानि चरखण्डानि राशीनां पृथक्पृथक् स्वचरार्धानि चोच्यन्ते। निरक्षोदयासवो गगनभूधरषट्कचन्द्रा १६७० इत्यादयो यत्र देशे यस्य राशेः स्वचरार्धसमाः स राशिस्रतत्र देशे सदा दृश्य इत्यत्र का युक्तिः। अन्यथा दृश्यं तद् सर्वं युक्तिशून्यमुक्तम्। यद्येवं तर्हि यत्र षट्षष्टिः ६६ पलांशास्तत्र सर्वेषां स्वचरोदयसाम्यं स्यात्। युगपत्सर्वेषां सदा दृश्यत्वं मेरावपि न घटते किंत्वन्यत्रातस्तदसत् ॥३१॥ मरीचिः—नन्वूक्तं राशेर्नित्यदृश्यत्वं न युक्तम्। यस्य स्वचरार्धसमा निरक्षविषयो- दयासवो राशेः। दृश्यः स सदा तस्मिन्दृश्यादृश्योऽन्यथा भवतीति लल्लोक्तस्थले तद्राशीनां व्यक्षोदयाससमचरखण्डानुपपत्तेरित्यतः शार्दूलविक्रीडितेन तदनूद्य दूषयति—राशेर्यस्येति। यस्माद्द्वादशान्यतमस्य राशेः कल्पितस्य व्यक्षदेशोदयकालासुभिस्तुल्याः स्वीयाः स्वसंबन्धि- नश्चरखण्डासवः। मेषादिराशित्रितयस्य यानि चराण्यधोधः परिशोधितानि तानि स्वदेशे चरखण्डानि। इत्युक्तविषयानीता तत्र देशे भवन्ति। परकीयसाम्यवारणाय स्वीया इति। तत्र देशे। सः। निरुक्तो राशित्रिंशद्भागात्मकः सदा सर्वकाले दृश्यः। दर्शन- योग्य इति प्रागुक्तं लल्लोदितं लल्लेन स्वकृतगोलग्रन्थे यस्य स्वचरार्धसमा इत्यादिनोक्तं यत्तन्निर्मुक्ति निरुपपत्तिकमित्यर्थः। सयुक्तिकमेव किं न स्यादत आह—यदीति। एवं सयुक्तिकमिदमङ्गीक्रियते चेत्तर्हि षट्षष्ट्यंशांशे देशे। अमी बुद्धिस्था राशयः सर्वे द्वादश। न पुनस्त्रिचतुरा दृश्याश्चतु(क्षु)र्ग्रहणयोग्याः। एतद्देशेष्वपि द्वादशराशीनां क्रमेण तत्त्वादिरूपापादनं न युक्तमतो युगपत्। समुदिता मिलिता इत्यर्थः। तत्त्वं च क्षितिजवृत्तानधःस्थत्वम्। तथाऽपि तद्देशे यत्किंचित्काले समुदितराशीनां दर्शनसंभवान्नोक्तदोषापत्तिरितः सर्वदेति। तथा चायमर्थस्तद्देशे द्वादश राशयः क्षितिजानधःस्थत्वेन सर्वकालावच्छेदेन चरखण्डोदयकालघट्योस्तुल्यत्वसद्भावाच्चक्षुर्ग्रहण- योग्या भवेयुरिति। न च चरखण्डनिरक्षोदयसाम्याभावोऽत्रेति वाच्यम्। अक्षांशानां षट्षष्टिमितत्वेनोक्तरीत्या मेषादिराशिचरज्यानां मेषादिजीवास्त्रिगृहद्युमौर्व्या क्षुण्णाहताः स्वस्वदिनज्ययाऽऽप्ता इत्युक्तनिरक्षोदयज्याभिस्तुल्यत्वात्। यथा हि—अक्षप्रभासंगुणितेत्या- दिना कुज्यारूपमक्षज्यायास्त्रिराशिद्युज्यारूपत्वेन परक्रान्तितुल्यलम्बज्याकोट्यावक्षज्या भुजस्तदा द्वादशकोटौ को भुज इत्यनुपातसिद्धाक्षत्रा(भा)ग्रहणेन द्वादशगुणहरयोर्नाशात्क्रा- न्तिज्या त्रिराशियुज्यागुणा परक्रान्तिज्याभक्तेति सिद्धम्। तत्रापि क्रान्तिज्यास्वरूपग्रहणेन परक्रान्तिज्ययोर्गुणहरयोर्नाशान्मेषादिज्यात्रिग्रहद्युज्यागुणात्रिज्याभक्तेति कुज्यारूपं फलितम्। ततः सा त्रिज्याघ्नी विहृता द्युमौर्व्या चरज्येत्यनेनेन त्रिज्ययोर्गुणहरयोर्नाशान्मेषादिजीवा इत्युक्तरूपचरज्या सिद्धा। तत्र क्षितिजस्य क्रान्तिवृत्ताकारत्वेनोन्मण्डलक्षमावलयान्तराल इत्याद्युक्तचरकालस्य निरक्षोदयकार(ल)त्वेन गोले दर्शनाच्चेति। एकस्यापि राशेस्तत्र नित्यदृश्यत्वासंभवे त्वदुक्त्या द्वादशराशीनां नित्यदृश्यता तत्रासिद्धेति महाविरोधसूचकापि- शब्दः। नन्वेवमिष्टापत्तिरत आह—असदिति। तत्। द्वादशराशिनित्यदृश्येत्वम्। तथा।

-? Let's look at the characters before the hyphen: ग्न ग्र न्था र्था नि-? Wait, let's look at the letters after तथा च : ग्न ग्र न्था र्था Wait, is there a नि? Wait! Look at: था ग्न ग्र न्था र्था ? Wait, if line 32 starts with: वबोधादाचार्यैर्लल्लोदितमित्युक्तं Wait, does line 32 start with वबोधात् or बबोधात्? Line 32 starts with: वबोधादाचार्यैर्लल्लोदितमित्युक्तं Then line 31 must end with: लग्नग्रन्थानर्थानि-? Wait, if line 31 ends with नि-, then नि-वबोधात्? No, "निवबोधात्" is not a word. Could it be लग्नग्रन्थानव-? Let's look at line 31 from तथा च: तथा च लग्नग्रन्थानर्थानि- Wait, let's look at the word: - la

३१२ गोलाध्याये यस्मिन्देशे पलभवा अक्षोत्पन्ना लवा अक्षांशा इत्यर्थः । सदलास्त्रिंशत्कलाधिकाः षट्षष्टिः षडधिकषष्टिर्भवन्ति तस्मिन्देशे धनुर्मकरश्चः समुच्चये । सदा सर्वकाले दृश्यो दर्शनयोग्यो न भवतीत्यर्थः । यत्र यस्मिन्देशे । पञ्चसप्ततिरक्षांशास्तत्र । अपिशब्दाद्धनुर्मकरावदृश्यौ । चः समुच्चये । अत्र विशेषमाह—नेति । वृश्चिको न दृश्यः । कुम्भः न दृश्यः । चकार एवकारार्थे । तेन सदा न दृश्य इति यत्किंचित्काले दृश्य इति र् चितार्थस्य निरास इति प्रागुक्तं निजे स्वरचिते गोले गोलग्रन्थे लल्लेन । प्रलपितमुक्तम् । सदलाः पलस्येत्यार्या- भ्याम् । यत् । हे गोलज्ञ । सर्वदेशगोलस्थितितत्त्वबोधक । ते तदाश्रयदृश्यतादेशसंबन्ध्य- क्षांशा वस्तुभूतास्त्रिलवोनिताः । त्रिभिर्भागैरूनाः । यद्यपि धनुर्द्वयादर्शनाक्षांशा दशकलो- नैस्त्रिभिर्भागैरूनाः, वृश्चिकचतुष्टयादर्शनाक्षांशा दशकलोनैस्त्रिभिर्भागैरूनाः वृश्चिकचतु- ष्टयादर्शनाक्षांशा सपादैस्त्रिभिर्भागैरूनास्तथाऽप्येकोक्तिलाघवात्स्वल्पान्तराच्च भागतत्रयोना अङ्गीकृताः । केन हेतुना । केन कारणेन । उदिता लल्लेनोक्तास्तत्कारणमुच्यताम् । तथा च गोलस्थित्या मदुक्ताक्षांशाः तदाश्रयदृश्यतादेशसंबन्धिउपपत्तिसिद्धाः । लल्लोक्तिस्तु निरुपपत्तिका । अतस्तद्ग्रन्थाविरोधाथं पूर्वोक्तार्यायाः क्लिष्टार्थकल्पनमुक्तम् । लल्लपूर्वै- स्तदनुक्त्या परमप्रतीतेश्च । अत एव प्रलापोऽनर्थकं वच इत्यमरात्प्रलपितमित्यनेन बालकजल्पनवदेतदुक्तमुपेक्षणीयमिति भावः । नन्वाचार्यैर्लल्लोक्तमनवबोधाद्दूषितम् । तथा हि । यस्य क्रान्तिपातावधिकस्य राशेः । उपलक्षणाद्भागादेरित्यर्थः । स्वचरार्धसमाः स्वदेशे सा त्रिभिन्नज्यकाघ्नीत्यादिना यत्साधितं चरं तेन तुल्याः, निरक्षविषयोदयासवः । निरक्षपक्षोक्त्या निरक्षदेशे ये उदयकालासवोऽतुल्या भचक्रपदसम्बन्धिनः । अत्रा- तुल्यानामुदयकालांनां युगपत्तुल्यत्वासंभवात्तेषां योगरूपसमुदायमाक्षिपति । तेन भचक्र- पदसंबन्धिनामुदयकालासूनामैक्यं चतुष्षञ्चाशच्छतं ५४०० । एतत्तुल्यो यस्य चरकालः स्व(स्वात्म)को यस्मिन्देश इत्यर्थः । तस्मिन्देशे । सः । आसन्नायनसंधित उभयतस्तदवधि- भागादिसमुदायः सदा दर्शनयोग्यः । अन्यथा । एतदभावे । दृश्यादृश्य इति यथाश्रुतम् । न चेदमुभयोर्गोलयोः सत्त्वाद्विरुद्धमिति वाच्यम् । ये यत्र न दृश्यन्ते । दक्षिणगोलस्थिता ग्रहा विषये । तत्रैव तत्समीपक्रमान्न सौम्येऽस्तमुपयातीत्यनेन तेनोक्तलक्षणयोर्गोलभेदेन नित्या- दृश्यादृश्यत्वोपपादनात् । अथाक्षांशकथनमतिविरुद्धमिति चेन्न । षट्षष्टिः षडधिका षष्टिः सदलाः स्वदलेन सहिता इत्यर्थादेकोनं शतमनुपपन्नम् । नवत्यधिकत्वात् । न च विशिष्टे- ऽन्वयनाबाद्विशेष्येऽन्वयः । तेनापि षण्णवतिसिद्धेद्योक्तरोधात् । तस्मात्परिशेषाद्विशेषणे विशेषणमिति न्यायात्षष्टिरित्यत्रान्वयस्तेनैकोनसप्ततिः सिद्धा । एवं पञ्चभिरित्यनेन भूगोलस्थभूतभागास्तात्पर्यानुरोधाल्लक्ष्यते । ते च भूमेश्चत्वारो भागाः । अन्येषामेकैको भाग इत्यष्टी भागास्तेन षण्णवतिः सिद्धेति विरुद्धोक्तेरसम्भवात् । अथात्राऽऽचार्योक्तं दूषणं परिहर्तुमशक्यम् । त्रिलवोनिता इत्यस्य रूपतृतीयांशेन विंशतिकलात्मकेनोना इत्यर्थात् । न चाष्टसप्ततिस्थाने पञ्चदशावयवस्य न्यूनत्वात्कथं त्रिलवोनिता इति वाच्यम् । एकोक्तिला- घवात्तदङ्गीकारात् । विनिगमकाभावादब्धिलवोनिता इत्येव कथं नोक्तमिति चेन्न ।

? क्षलम्भादिकानाम्-> wait,क्षलम्ब! * Wait, look at भा: is it बाorभा? क्षलम्बादिकानाम्! The letter is बा (withmatra, inside has a diagonal line, but in some fontslooks likeor). It's क्षलम्बादिकानाम्! * Wait, look at the word before (ग्रा): * द्युज्याकुज्यापमसममनरात्रा(ग्रा)? * Wait, count the letters: * द्यु(1)ज्या(2)कु(3)ज्या(4)(5)(6)(7)(8)(9)रा(10)त्रा(11)((12)ग्रा(13))(14) * Wait, between 8 and 9, look at glyphs: * (sa) * (ma) * then(na) - wait, is there abefore? * Let's read from द्युज्या`: *

३१४ गोलाध्याये अथवा—सायन मेष संक्रमण काल में मध्यान्ह में सूर्य के नतांश का मान अक्षांश और सूर्य के उन्नतांश का मान सूर्य वेध से लम्बांश का ज्ञान होता है ॥३३॥ उपपत्ति—मध्यान्ह में ग्रह बिम्ब से क्षितिज वृत्त तक दृङ्मण्डल में उन्नतांश होते हैं। सायन मेष संक्रमण काल में सूर्य बिम्ब निरक्ष खमध्य पर होने से अपने खमध्य एवं निरक्ष खमध्य का अन्तर चाप = अक्षांश तथा अपने खमध्य से ध्रुव बिन्दु तक याम्योत्तर वृत्त में लम्बांश होते हैं। गोल युक्ति से सुस्पष्ट है। अक्षांश की सूक्ष्मता के लिये उक्त कथन तभी सही होगा जब कि मेष संक्रमण मध्यान्ह में ही होगा। यह विशेष है। स्वल्पान्तर से सायन मेष संक्रमण दिन में भी उक्त कथन स्वल्पान्तर से ठीक कहा जा सकता है ॥३३॥ इदानीं शङ्क्वानयनवासनां संक्षिप्तामाह— उन्नतं द्युनिशमण्डले कुजात्सावनं द्युतिविधौ हि तज्ज्यका । तिर्यगक्षवशतोऽक्षकर्णवच्छेदको न तु नरः स लम्बवत् ॥३४॥ वा० भा०—अस्य वासना त्रिप्रश्ने कथितैव ॥३४॥ मरीचिः—अथ समशङ्कुस्वरूपं विवक्षुः प्रथमं तदुपजीव्यशङ्कुस्वरूपकथनं प्रसङ्ग- ‘स्मारितत्रिप्रश्नोक्ततदानयने मध्याह्नोन्नतांशाज्या रूपमध्याह्नशङ्कुवदिष्टकाल उन्नतांशानां ज्येष्ठशङ्कुर्भवितुमर्हतीति स्यादुन्नत द्युगतशेषकयोरित्यवगतोन्नतकालस्यांशानां ज्येष्ठ- शङ्कुरिति कथं नोक्तं कथं चोन्नतकालाद्धृतिद्वारेष्टशङ्कुसाधनमुक्तमित्युपस्थिताशङ्कां रथोद्धतया परिहरति—उन्नतमिति । द्युनिशमण्डले । ग्रहबिम्बाधिष्ठितद्युरात्रवृत्ते । कुजात् । क्षितिजवृत्तस्य पूर्वभागात्पश्चिमभागाद्वाऽऽसन्नस्थितग्रहबिम्बपर्यन्तम् । यत् । उन्नतं द्वद्यद्वात्मकं तद्ग्रहस्य सावनम् । ततः किमत आह—द्युतिविधाविति । तज्ज्यका । तस्य सावनस्य ज्या । हि यतः । अक्षवशतः । अक्षांशवशात्स्वदेशे गोले । अक्षकर्णवत् । तिर्यक् । अतो द्युतिविधौ । ग्रहच्छायासाधनप्रकारे । छेदको हृतिर्भवति । नतकर्मादिस्थल उन्नतांशाज्या कोटिरूपैवेति सूचितम् । उत्तरयति—न त्विति । सः । उक्तसावनज्यात्मकः । नरो लम्बवत् । वक्ष्यमाणस्वरूपालम्बरूपपरिणतो नैव भवति । तथा च निरक्षदेशेऽहोरात्रवृत्तानां तिर्यक्त्वाभावादुन्नतघट्यंशानां ज्यैवेष्टशङ्कुः पलभाभावाद् द्वादशतुल्याक्षकर्णवत् । साक्षे त्वक्षांशवशादेवाहोरात्रवृत्तानां तिर्यंक्त्वाद्दुन्नतज्या तिरश्चीना छायार्थं हृतिरिष्टशङ्कुकोटेः कर्णरूपेति तात्पर्यर्थः। यद्यप्युदयास्तसूत्राद्ग्रहबिम्बपर्यन्तं सूत्रस्य हृतित्वप्रतिपादनात्तज्ज्यकेत्युक्तमयुक्तम् । उदयास्तसूत्रस्याहोरात्रवृत्तमध्यस्थत्वा- भावात् । अर्धज्याग्रे इत्यादिना मध्यसूत्रावधित एव ज्यास्वरूपनिरूपणात् । अत एव न तत्कर्मणि नतज्यावदुन्नतकालज्याहृतिर्नोक्ता । किंत्वथोनतादूनयुताच्चरेणेत्यादिना कलां प्रसाध्यैवं क्षितिजीवया च कलायुतोना हृतिरिष्टकाल इत्यनेन सोक्ता । तथाऽपि हृतेरर्ध-

त्रिप्रश्नवासना ३१५ ज्यात्[ल्या]कारत्वेन या स्याद्रवेरुन्नतकालजीवाऽभीष्टा हृतिः सा प्रथमं प्रकल्प्या, इत्युक्त- रीत्या वा तदुक्तौ न क्षतिः ॥३४॥ केदारदत्तः —शङ्कु साधन विधान बताया जा रहा है— क्षितिजाहोरात्रवृत्त सम्पात से अहोरात्रवृत्तस्थ ग्रह तक अहोरात्र वृत्त में उन्नतांश चाप अथवा यत्र कुत्र स्थान स्थित ग्रहोपरिगत दृङ्मण्डल वृत्त में क्षितिज से ग्रहबिम्ब तक उन्नतांश की ज्या का नाम शङ्कु एवं खमध्य से ग्रह बिम्ब तक उन्नतांश ज्या भुज होती है। इस उन्नतांश ज्या का नाम शङ्कु और नतांश की ज्या का नाम भुज सर्व साधारण से प्रसिद्ध हैं। ग्रहवेध से दृष्ट इष्ट छाया, ग्रह के सावनात्मक इष्ट काल में हो दृष्टिपथ में होती है। उपपत्ति—उदय और अस्तक्षितिजाहोरात्र वृत्त सम्पात से उभयतः पूर्वा पर गत सूत्रों का नाम सोदयास्त सूत्र एवं क्षितिजाहोरात्र वृत्त और उनमण्डल वृत्त के दोनों सम्पातगत सूत्रों का नाम निरक्षोदयास्त सूत्र होता है। ग्रह बिम्ब से क्षितिज धरातलगत सूत्र का नाम शङ्कु तथा ग्रह बिम्ब से अहोरात्र वृत्त व्यासार्ध तक गत सूत्र का नाम उन्नतकाल ज्या होती है। उन्नतकालज्या मूल और शङ्कुमूल का अन्तर शङ्कुतल भुज होता है। तथा ग्रह बिम्ब से सोदयास्त सूत्रगत लम्बाकार सूत्र का नाम इष्ट हृति होती है, गोल दर्शन से स्फुट है। अक्षांश वशात् साक्ष देश में हृति तिर्यक् लम्बरूपिणी हो जाने पर भी वह इष्ट शङ्कु की तरह नहीं होती है। क्षेत्र देखिये— ग्र = ग्रह ग्रमू = शङ्कु ग्रच = उन्नतकाल ज्या ग्रहृ = इष्ट हृति मूहृ = शङ्कुतल ध्यान देकर बुद्धिगत गोल की स्थिति के अनुसार उक्त क्षेत्र से इष्ट हृति और शङ्कु विषय ठीक समझ में आता है ॥३४॥

३१६ गोलाध्याये इदानीं केषांचिद्दूषणमाह— चन्द्रप्रभार्थमसकृद्विधिनोदितं यत् कैश्चित्कृतं खलु न सत्तदसावनत्वात् । जानन्ति ये न निपुणं गणितं सगोळं तेषां तु तन्त्रकरणव्यसनं वृथैव ॥३५॥ वा० भा०—व्याख्यातमेव ॥३५॥ मरीचि.—ननु ग्रहसंबन्धेनाहोरात्रवृत्ते यदुन्नतं तत्सावनमेवेति व्यर्था तदुक्तिः उन्नत- ज्येष्ठेकत्यत्रैव तत्सिद्धः । नहि ग्रहः कदाचिदपि स्वगतिविरहेण प्रवहानिलेनैव भ्रमति । येनोन्नतकालस्य तदा नाक्षत्रत्वात्तद्वारणार्यं सावनपदं युक्तम् । तदा सावनत्वासिद्धेरित्यर्थतः ऽसिंहोद्धतयाऽऽह—चन्द्रप्रभार्थमिति । चन्द्रप्रभार्थम् । चन्द्रस्य छायासाधननिमित्तम् । कैश्चित् । लल्लादिभिः । समयोऽसकृदेव साध्य इत्यनेन धीवृद्धिदादिग्रन्थेषु तत्कालग्रहोद- येष्टलग्नाभ्यामसकृत्प्रकारेण । उन्नतमुदितमुक्तम् । यत्तत् सम्यक् । खलु निश्चयेन । न कृतम् । नोक्तमित्यर्थः । कुत इत्यतो हेतुमाह—असावनत्वादिति । तत्कालग्रहोदयेष्ट- लग्नाभ्यां साधितः कालः सावनस्तेन चालितं ग्रहोदयलग्नं स्वोदयकालीनमुदयलग्नम् । ताभ्यां साधितः कालो नाक्षत्रः सूक्ष्मः स्यादित्यसकृत्प्रकारेण कालस्य सावनत्वाभावेन ग्रह- च्छायासाधनत्वानुपजीव्यत्वात् । ग्रहचलनेनैव च्छायाचलनात्तस्य सावनहेतुत्वात् । अस- कृदित्यस्य वारद्वयं बहुवारं चार्थं इत्युभयथासाधितकालस्य सावनत्वासिद्धेरित्यर्थः । ननु ग्रहस्य नित्योदयास्तकालौ प्रसाध्य स्वोदयकालीनोदयलग्नं स्वेष्टकालीनं लग्नं च साध्यम् । ताभ्यामानीतकालो नाक्षत्र इति पूर्वोक्तसकृद्रीत्या कालः सावन एवेति लल्लोक्तं सुस्थ- मित्यत आह—जानन्तीति । ये पुरुषाः सगोळं गोलस्वरूपसमेतं गणितं निपुणमत्यन्तं सूक्ष्म- विचारेण न जानन्ति तेषां पुरुषाणां तन्त्रकरणव्यसनं गणितस्कन्धान्तर्गतत्वेन ग्रन्थनिर्माण- विषयकचित्तैकाग्र्यं वृथा निष्प्रयोजकम् । एवकारात्कदाचिदपि तस्य व्यसनं सप्रयोजनं न भवेत् । तत्त्वाशुद्धया कुत्रचिदपि तदुक्तेरसंगतत्वावश्यंभावात्तज्ज्ञानेन प्रेक्षावतां तद्ग्रन्थे प्रवृत्त्यनुपपत्तेरिति सूचितम् । तुकारार्थे पुनर्गोलतत्त्वं गणितं च निपुणं जानन्ति तेषां ग्रन्थ- करणव्यसनं पूर्वग्रन्थाधिकचमत्कारोत्पत्तौ युक्ततरमन्यथा वृथेति सूचितम् । एकदेशज्ञानं तु शूद्रस्य वेदाध्ययनाधिकारवद्ग्रन्थकरणेऽधिकार इति ध्येयम् । तथा चोक्तरीत्या जडकर्म- त्वाल्लाघवादिष्टकालिकग्रहोदयलग्नाभ्यां सकृत्साधितकालस्य सावनत्वसिद्धेस्तादृशोक्तिरज्ञा- नहेतुकेति भावः ॥३५॥ केदारदत्तः— कुछ ग्रह गणितज्ञों ने चन्द्रछाया साधन के लिये असकृत गणित क्रम कहा है जो उचित नहीं है क्योंकि यह गणित कर्म सावन ग्रह की छाया से सम्बन्धित नहीं है । वे आचार्य ग्रहगणित गोल में निपुण नहीं है अर्थात् जो ग्रहगणित गोल ज्ञान से वञ्चित हैं उन्हें उक्त प्रकार के ग्रहगणित् तन्त्र ग्रन्थों की रचना करने का अधिकार नहीं है ।

त्रिप्रश्नवासना ३१७ उपपत्ति या युक्ति—इष्ट कालीन ग्रहस्पष्ट और इष्ट लग्न से साधित काल सावन माप में है । इष्टकालीन ग्रह इष्टकाल में भी चलित होकर इष्टकाल तुल्य गतिफल से सम्बन्धित है इससे चालित ग्रहोदय और लग्न अपने उदय काल में उदय लग्न होती है । इससे साधित काल सूक्ष्म नाक्षत्र काल होते हैं ऐसा असकृत प्रकार से साधित काल सावनात्मक नहीं है । जिस प्रकार ग्रह अपनी गति से चलित है उसी गति के आधार से ग्रह की छाया भी प्रतिक्षण ग्रह गति वेग की तरह चलनशील है, अतएव वहाँ पर असकृत- कर्म प्राप्त ही नहीं है अतः गणित से चन्द्रछायादि इष्टकाल साधन गणित, गोल ज्ञान से बहिर्भूत है । ग्रहगोल गणिताचार्य भास्कर इस स्थल पर भी "लल्लाचार्य" पर कटु आक्षेप करने में संकोच नहीं कर रहे हैं ॥३५॥ उपपत्ति—पूर्व में द्रव्यष्ट है । इदानीं शङ्कुस्थानमाह— दृष्टिमण्डलभवा लवाः कुजादुन्नता गगनमध्यतो नताः । शङ्कुरुन्नतलवज्यका भवेद्दृग्गुणश्च नतभागशिञ्जिनी ॥३६॥ भास्करेऽत्र सममण्डलोपगे यो नरः स समशङ्कुरुच्यते । कोणशङ्कुरथ कोणवृत्तगे मध्यशङ्कुरिति दक्षिणोत्तरे ॥३७॥ कुपृष्ठगानां कुदलेन हीनं दृङ्मण्डलार्धं खचरस्य दृश्यम् । कुच्छन्नलिप्तानुरतो विशोध्याः स्वभुक्ति.तिथ्यंशमिताः प्रभाार्थम् ।३८। वा० भा०—दृङ्मण्डले क्षितिजादुपरि ग्रहपर्यन्तं येऽंशास्त उन्नताः । खमध्या- दधस्ते नताः । उन्नतांशानां ज्या शङ्कुः । नतांशाज्या दृग्ज्या । शङ्कुः कुच्छन्न- लिप्ताभिरूनः कार्यः । द्रष्टुः कुदलेनोच्छ्रितत्वात् । अयमर्थो ग्रहच्छायाधिकारे- व्याख्यात एव ॥३६॥३७॥३८॥ मरीचिः—अथ शङ्कुस्वरूपं तत्प्रसङ्गाद्दृग्ज्यास्वरूपं रथोद्धतयाऽऽह–दृष्टिमण्डलेति । दृग्वृत्तसंबन्धिनोंशा ये क्षितिजादुन्नता अभीष्टस्थानपर्यन्तं ते उन्नतांशा अभीष्टस्थानपर्यन्तं खमध्यस्थानान्नतास्ते नतांशाः । ननु शङ्कुदृग्ज्यास्वरूपकथनोपक्रमेऽनयोर्निरूपणं संगति- विरुद्धमत आह—शङ्कुरिति । उन्नतांशानं ज्या शङ्कुर्भवेत् । कप्रत्ययेन तदतिरिक्तां- शानां ज्या शङ्कुर्न भवेत् । नतांशानां ज्या दृग्ज्या स्यात् । च एवार्थे । तेनान्येषामंशानां ज्या सा न भवेत् ॥३६॥ अथ समशङ्कुस्वस्त्यं (रूपं) तत्प्रसङ्गात्कोणदिनार्धशङ्कुस्वरूपे च रथोद्धतयाऽऽह— भास्करेऽत्रेति । समवृत्तोपगते सूर्ये । अत्र दृग्वृत्ते । चलत्वात् । सूर्यस्थानसंबन्धेन यो नरो भवति स समशङ्कुः पूर्वैरूच्यते । कोणवृत्तस्थेऽर्क इति । पूर्वोक्तरीत्या यः शङ्कुर्भवेति स

३१८ गोलाध्याये कोणशङ्कुः । अत्र भास्करपदं दर्शनयोग्यच्छायाोपजीव्यशङ्कुज्ञानार्थम् वस्तुतः । समवृत्ते । उन्नतानां ज्या समशङ्कुः कोणवृत्ते कोणशङ्कुरिति स्वरूपकथनम् । एवं दक्षिणोत्तरवृत्त इति । पूर्वोक्तरीत्या यः शङ्कुः स मध्यशङ्कुदिनार्धशङ्कुरित्यर्थः ॥३७॥ अथ प्रसङ्गाद्ग्रहच्छायाधिकरोक्तस्वभुक्तिथ्यंशविवर्जितोना महानित्यादिविशेषस्यो- पपत्तिमुपजातिकायाऽऽह—कुपृष्ठगानामिति । यतः कुपृष्ठस्थितानां मनुष्याणां दृग्वृत्तस्यार्धं कुदलेन भूव्यासाधैन पूर्वापरयोः प्रत्येकं हीनं दृश्यमस्ति । भूगर्भक्षितिजोपरि दृग्वृत्तार्थस्य- तत्स्व(त्स्थ)दृश्यत्वात् । ततो भूव्यासाध्रान्तरेण भूपृष्ठस्थानामुच्छ्रितत्वात्क्षितिज- स्यापि तदन्तरेणैवोच्छ्रितत्वात् । क्षितिजादधःस्थस्यादृश्यत्वादतः कारणात् । ग्रहस्य भूगर्भ- संबन्धावगतशङ्कोर्मध्ये । कुच्छन्नलिप्ताः । भूव्यासाधैन च्छन्ना अदृश्याः कलाः स्वभुक्ति- तिथ्यंशमिताः शङ्कुसंबन्धिग्रहमध्यमगतेः पञ्चदशांशप्रमाणा गतियोजनपञ्चदशांशस्य भूव्यासाधंतुल्यत्वात् । विशोध्या हीनाः कृतास्तेन भूपृष्ठे शङ्कुर्भवति । ननु भूपृष्ठसंबन्धेना- क्षांशचरादीनामपि भिन्नत्वात्साधनावश्यकत्वेपि तन्न साधितं गणितसाधनस्य भूगर्भत एव कक्षामध्यकेन्द्रत्वेनोत्पत्तेस्तथा शङ्कुरपि भूगर्भीय एव न भूपृष्ठसंबन्धेन साध्य इत्यत आह—प्रभार्थमिति । छायासाधननिमित्तमित्यर्थः । तथा च भूगर्भसंबन्धावगतशङ्कोः साधितच्छाया भूगर्भे भवत्यूतोऽस्मदादीनां तदप्रतीतेर्भूपृष्ठसंबन्धावगतशङ्कोः साधितच्छा- याया अस्मदादिप्रतीतियोग्यत्वान्नलिकान्धोपजीव्यत्वाच्चोक्तं सम्यगिति भावः ॥३८॥ केदारदत्तः—शङ्कु की स्थिति और स्थान— दृङ् मण्डल में क्षितिज से ग्रह बिम्ब तक उन्नतांश और खमध्य से ग्रह तक नतांश होते हैं । उन्नतांश ज्या का नाम शङ्कु और नतांश ज्या क । नाम दृग्ज्या होता है । पूर्वापराह्रोरात्र वृत्त सम्पात से क्षितिज धरातल गत रेखा पर लम्ब का नाम समशङ्कु होता है । कोणाहोरात्रवृत्तसम्पातगत ग्रह बिम्ब से क्षितिज धरातलगत शंकु का नाम कोण शङ्कु, एवं याम्योत्तराहोरात्रवृत्तसम्पात से क्षितिज धरातलगत सूत्र का नाम याम्योत्तरा- होरात्र वृत्त सम्पात से क्षितिजधरातल गत बिम्ब का नाम मध्याह्न शङ्कु होता है । उपपत्ति—समग्र खगोल गणित भूकेन्द्राभिप्रायिक कक्षा वृत्त में होता है । परन्तु आकाश दर्शक दृष्टा कीतो भूगर्भक्षितिज में दृष्टि न होकर अपने पृष्ठ स्थान पर शङ्कु द्वारा दृष्ट छाया होने से शङ्कु में गर्भ और पृष्ठ के अन्तर रूप भूव्यासाधं रूपमान में अन्तर पड़ता हैं । इस लिये गर्भीय नतांशों में भूव्या' सार्ध रूप अन्तर को कम करते हुये भूपृष्ठीय स्पष्ट शङ्कु से छाया साधन समीचीन होता है । इसलिये गर्भीय शङ्कु में कुछन्न कला कम करने से शेष तुल्य पृष्ठ शङ्कु से गणित क्रिया करनी चाहिए । उपपत्तिः— चूँकि— योजन गति तिथ्यंश ───────── = भूव्यासाधं १५

त्रिप्रश्नवासना ३१९ पृष्ठीय शङ्कु = गर्भीयशङ्कु - कुछन्न कला अतः गर्भीयशङ्कु-कुछन्न कला = गतियोजन / १५ = पृष्ठीय शङ्कु उपपन्न होता है ॥३६।३७।३८॥ इदानीमग्रामुदयास्तसूत्रं चाऽऽह— क्ष्माजे द्युरात्रसममण्डलमध्यभाग- जीवाग्रका भवति पूर्वपराशयोः सा । अग्राग्रयोः प्रगुणमत्र निबद्धसूत्रं यत्तद्वदन्ति गणका उदयास्तसूत्रम् ॥३९॥ सूत्राद्दिवाशङ्कुतलं यमांशं याम्यां गतं हि द्युर्निशं कुजोर्ध्वे । अधश्च सौम्यां निशि सौम्यमस्मात्सद्युक्तियुक्तं नृतलं निरुक्तम् ॥४०॥ सौम्याग्रकाग्रान्नृतलं हि याम्यं याम्याग्रकाग्रात्पुनरेव याम्यम् । तदन्तरैक्यं समवृत्तखेटमध्यांशजीवां भुवि बाहुमाहुः ॥४१॥ दृग्ज्यां श्रुतिं चाथ तयोस्तु कोटिं पूर्वापरां वर्गवियोगमूलम् । वा० भा०—क्षितिजस्वाहोरात्रवृत्तसंपातयोर्बद्धं सूत्रमुदयास्तसूत्रम् । ग्रह- स्थानाल्लम्बः शङ्कुः । तस्य तलमुदयास्तसूत्राद्दक्षिणतो भवति । यतः क्षितिजा- दुपरि दक्षिणतोऽहोरात्रवृत्तं गतम् । अधस्तूत्तरतो गतम् । अतो निश्युत्तरं नृतलम् । अथ भुज उच्यते । उत्तरगोलेऽग्रोत्तरा नृतलं याम्यमतस्तेनौनाग्रा बाहुर्भवति । बाहुर्नाम शङ्कुप्राच्यपरसूत्रयोरन्तरम् । यदाऽग्रा शङ्कुतलादूना तदा तयोरन्तरं दक्षिणं शङ्कुतलं बाहुः स्यात् । एवं समवृत्तप्रदेशादुपरि । दक्षिणगोले त्वग्रा याम्य शङ्कुतलं च याम्यं तयोर्योगे कृते बाहुः स्यात् । रविसममण्डलयोरन्त- राशानां ज्या बाहुः । तत्र या दृग्ज्या स कर्णः । तयोर्वर्गान्तरपदं पूर्वापरा कोटिः ॥३९॥४०॥४१॥ मरीचिः—अथाग्रास्वरूपमुदयास्तसूत्रस्वरूपं च वसन्ततिलकयाऽऽह—क्ष्माजे द्युरात्रेति । क्षितिजवृत्ते । द्युरात्रसमवृत्तयोर्मध्यस्थितांशानाम् । ज्या । अग्रा । सा । अग्रा । पूर्वपराशयोः क्षितिजस्य पूर्वभागे पश्चिमभागे च भवति । अत्र । निबद्धदृग्गोले । पूर्वापरा- ग्रासम्बन्ध्येकद्युरात्रवृत्तप्रदेशयोर्निबद्धसूत्रं यत्तद् गणकाः प्राचीना उदयास्तसूत्रं वदन्ति । गणका वदन्तीत्यनेन प्रतिक्षणं ग्रहस्य द्युरात्रानेकत्वसंबन्धादुदयास्तसूत्रमिदम- संगतमपि स्वल्पान्तरत्वादङ्गीकृतम् । वस्तुभूतसूत्रस्य द्युरात्रान्तरसंबन्धादनुपयुक्त[त्व] मितिसूचितम् । ननूद्यास्तसूत्रं किमर्थमत आह—प्रगुणमिति । प्रकर्षेण गुणा विद्यन्ते यस्य तत् । वक्ष्यमाणपदार्थस्वरूपप्रतिपादनोपजीव्यमित्यर्थः ॥३९॥

अथ नलिकाबन्धोपयुक्तभुजस्योपपत्तिं विवक्षुः प्रथमं शङ्कुतलस्वरूपं तदुपयुक्तमुप- जातिकयाऽऽह-सूत्रादिति । सूत्रात् । उदयास्तसूत्रात् । दिवा ग्रहदर्शनयोग्यकाल इत्यर्थः । शङ्कुतलम् । शङ्कोर्मूलं दक्षिणदिक्कम् । अत्र हेतुमाह-याम्यमिति । कुजोर्ध्वे । क्षितिजादुपरि । हि यतः । द्युनिशमहोरात्रवृत्तम् । दक्षिणदिशं प्रति । दक्षिणदिशीत्यर्थः । गतं नतमित्यर्थः । अक्षांशवशाद्दक्षिणतो नतेभ्यो द्युरात्रवृत्तप्रदेशेभ्योऽवलम्बसूत्रं दक्षिणत उदयास्तसूत्रत्पततीति भावः । चकारात्क्षितिजवृत्तादधोऽहोरात्रवृत्तमुत्तरदिशं प्रत्युत्तरस्या- मित्यर्थः । स्थितम् । अस्मात्कारणात् । निशि । ग्रहादर्शनकाले शङ्कुतलम् । सौम्यमुत्तर- दिक्कम् । निरुक्तम् । सौम्यं त्वधोमुखनरस्य तलं प्रदिष्टमित्यनेन शृङ्गोन्नत्यधिकारोक्त- मित्यर्थः । ननूत्तरशङ्कुतले तथा प्रतीतेरभावान्न भवदुक्तमसंगतमित्यत आह - सद्युक्तियुक्त- मिति । सत्समीचीना युक्तिस्तयाऽन्वितम् । तथा च क्षितिजादधोभागस्थद्युरात्रवृत्तप्रदेशेभ्यः सूत्रमृजुतया नीतमूर्ध्वमुदयास्तसूत्रादुत्तरभागे भवतीति प्रतीतिरिति भावः । निरक्षदेशा- दक्षिणदेशे तु वैपरीत्यमिति ध्येयम् ॥४०॥ अथ भुजोपपत्तिमुपजातिकयाऽऽह- सौम्याग्रेति । हि यतः । उत्तरगोलसंबन्ध्यग्राया अग्रं तस्मादित्यर्थः । शङ्कुतलं शङ्कुमूलोदयास्तसूत्रान्तरमित्यर्थः । याम्यं दक्षिणदिक्कं भवति । याम्यगोलसंबन्ध्यग्राया अग्रात्पुनः सुतरामित्यर्थः । दक्षिणदिक्कं भवति । एवकारा- द्याम्याग्राच्छङ्कुतलमुत्तरमित्यस्य निरासः । अतः कारणात् । तदन्तरैक्यं गोलक्रमेण । तयोः शङ्कुतलाग्रयोरन्तरमैक्यम् । समवृत्तखेटमध्यांशजीवां समवृत्तप्रदेशग्रहयोर्मध्यस्थितांशानां ज्यारूपं गोले । भुवि गोलस्य क्षितिजवृत्तसमभागे भुजं पूर्वाचार्या आहुः ॥४१॥ केदारदत्तः - अग्रा और उदयास्त सूत्र बन्धन - क्षितिज और अहोरात्र वृत्त सम्पात द्वय बद्ध सूत्र को उदयास्त सूत्र कहते हैं। ग्रह स्थान से क्षितिजधरातलगत लम्ब का नाम शङ्कु का मूल जो उदयास्त से दक्षिण में शङ्कुतल होता है इस लिये क्षितिज के ऊपर अहोरात्र वृत्त दक्षिण की तरफ नत और क्षितिज के नीचे अहोरात्र वृत्त उत्तर को नत होते हैं इसलिये रात्रि में क्षितिज के नीचे शङ्कु मूल उदयास्त सूत्र से उत्तर तरफ नत होते हैं। अग्राग्र बद्ध सूत्र अग्रा, उथयास्त द्वय बद्ध सूत्र स्वोदयास्त और पूर्वस्वस्तिक पश्चिम स्वस्तिक गत सूत्र का नाम पूर्वापर सूत्र होता है। उपपत्ति - अग्रा और शङ्कुतल के योग वियोग से भुज ज्ञान होता है। जो पूर्वापर और शङ्कुममूल का याम्योत्तरान्तर होता है। दृग्ज्या = कर्ण, सूर्य और पूर्वापर वृत्त के अन्तर चाप की ज्या = भुज अतः कर्ण² - भुज² = पूर्वापर सूत्र में कोटि होती है। ॥३९॥४०॥४१॥ इदानीं क्रान्ति क्षेत्राण्याह - क्षेत्राणि वक्ष्येऽपमसम्भवानि संक्षेपतोऽक्षःप्रभवाणि चातः ॥४२॥

त्रिप्रश्नवासना ३२१ भुजोऽपमःकोटिगुणो द्युजीवा कर्णस्त्रिभज्या त्रिभुजेऽपमोत्थे । मेषादिजीवाः श्रुतयोऽपवृत्ते तद्भूमिजे क्रान्तिगुणा भुजाः स्युः ॥४३॥ तत्कोटयः स्वद्युनिशाख्यवृत्ते व्यासार्धवृत्ते परिणामितानाम् । चापेषु तासामसवस्ततो ये तेऽधो विशुद्धा उदया निरक्षे ॥४४॥ वा० भा०—स्पष्टम् । एषां क्षेत्राणामुपपत्तिः स्पष्टाधिकारे दर्शितेव ॥४२॥ ॥४३॥॥४४॥ मरीचिः—अथ भुजस्य कर्णकोटिसापेक्षत्वेन तत्क्षेत्रं प्रदर्शयन्वक्ष्यमाणमिन्द्रवज्रया प्रतिजानीते—दृग्ज्यामिति । अत्र निरुक्तभुजसम्बन्धिक्षेत्रे । दृग्ज्यां कर्णम् । चकारात्पूर्वा- चार्या आहुः । तयोर्भुजकर्णयोर्वर्गान्तरपदं कोटिम् । तुकारात्पूर्वाचार्या आहुः । ननु भुजस्य शङ्कुमूलप्राच्य

३२२ गोलाध्याये एतत्क्षेत्रादेवास्य वर्गं त्रिज्याकृतेः प्रोज्झ (ज्झ्य)पदं द्युजीवेति स्पष्टाधिकारोक्तं सूपपन्नम् । द्वितीयमाह-मेषादिजीवा इति । अपवृत्ते क्रान्तिवृत्ते । मेषादिजीवाः । कल्पितमेषादितो राशीनामेकद्वित्रयाणां ज्या कर्णः । तद्भूमिजे । निरक्षभूगर्भक्षितिजवृत्ते । क्रान्तिगुणाः । तद्राशीनां क्रान्तिज्याः । भुजा भवन्ति । तद्राशीनां द्युनिशाख्यवृत्ते । तत्कोटयः । तत्क्षेत्राणां कोटयः । अत्र राशिरित्युपलक्षणम् । पदान्तर्गतभागानामिति ध्येयम् । नन्वेतत्क्षेत्रस्य किं प्रयोजनमत आह—व्यासार्धवृत्त इति । ततस्तत्क्षेत्रात्तासां तद्राशिक्षेत्रसंबन्धिकोटीनामु- त्पन्नानाम् । स्वक्रान्तिज्यावर्गहीनायाः स्वदोर्ज्यायाः पदरूपाणामित्यर्थः । व्यासार्धवृत्ते । त्रिज्यावृत्ते परिणामितानाम् । परिणामः संजातो यासाम् । त्रिज्यागुणितानां द्युज्याभ- क्तानां चेत्यर्थः । चापेषु येऽसवः । ते स्वाधः शुद्धाः निरक्षदेशे तद्राशीनामुदयासवो भवन्ति । ततश्चैतत्क्षेत्रभेदेभ्य एव । एकस्य राशेर्महती ज्यका या द्वयोस्त्रिभस्यापि कृतीकृतानामि- त्यादिपद्म(द्य)द्वयेन स्पष्टाधिकारोक्तं निरक्षोदयसाधनं सूपपन्नमिति भावः ॥४४॥ केदारदत्तः—क्रान्तिसाधनपूर्वक निरक्ष देशीय उदयासु साधन तथा संक्षेपतः क्रान्ति क्षेत्रों की उत्पत्ति कही जा रही है । (१) क्रान्तिज्या = भुज, द्युज्या = कोटि और त्रिज्या = कर्ण । (२) क्रान्तिवृत्त में मेषादि तीन राशियों की ज्या = भुजांशज्या = कर्ण तथा क्रान्तिज्या = भुज । अहोरात्र वृत्त में तीनों की कोटियाँ अपनी-अपनी क्रान्तिज्या वर्ग से रहित भुजज्या वर्ग का मूल कोटि का मान भुज कोटिज्या व्यासार्धवृत्त में होने से विषुवांशज्या × त्रिज्या —————————— = नाड़ी वृत्त में एकादि राशियों के उदयासु होते हैं । तृतीय राशि द्युज्या उदयासु—द्वितीय राशि उदयासु, एवं द्वितीय राशि उदयासु—प्रथम राशि उदयासु द्वितीय तथाप्रथम राशि उदयासु इस प्रकार मेषादि तीन राशियों के उदयासु पूर्वक १२ राशियों के निरक्षोदयासू होते हैं ॥४२।४३।४४॥ अथाक्षक्षेत्राण्याह— भुजोऽक्षभा कोटिरिनाङ्गुलो ना कर्णोऽक्षकणॊस्त्रिभुजं यथेदम् । तथाऽक्षलम्बौ भुजकोटिरूपौ त्रिज्या श्रुतिर्दक्षिणसौम्यवृत्ते ॥४५॥ उन्मण्डले प्रागपरोत्थसूत्रा- त्क्रान्तिज्यका कोटिरथ द्युरात्रे । कुज्या भुजोऽग्रा क्षितिजे च कर्णः क्षेत्रं तथेद्ं त्रिभुजं प्रसिद्धम् ॥४६॥ अग्रा भुजः स्वे समना च कोटि- र्द्यु रात्रके तद्धृतिरत्र कर्णः । भुजोऽपमज्या समना च कर्णः कुज्योनित्ता तद्धृतिरेव कोटिः ॥४७॥

त्रिप्रश्नवासना ३२३ उद्द्वृत्तना दोरपमः श्रुतिः स्यादग्रादिखण्डं खलु तत्र कोटिः । उद्द्वृत्तना कोटिरथाग्रकाग्रखण्डं भुजस्तच्छ्रवणः क्षितिज्या ॥४८॥ कोटिर्नरः शङ्कुतलं च बाहुश्छेदः श्रुतिस्त्र्यस्रसहस्रमेवम् । उत्पाद्य सद्यः स्फुटगोलविद्येच्छात्राय शास्त्रं प्रतिपादनीयम् ॥४९॥ वा० भा०—अक्षक्षेत्राणां साधनानामप्युपपत्तिस्त्रिप्रश्ने दर्शिता ॥४५॥४६॥ ४७॥४८॥४९॥ इति श्रीभास्करीये गोलभाष्ये मिताक्षरे त्रिप्रश्नवासना ॥ ● मरीचिः—अथाक्षक्षेत्रेष्वाद्यद्वितीयाक्षक्षेत्रे उपजातिकयाऽऽह—भुजोऽक्षभेति । अक्षभा भुजः । द्वादशाङ्गुलः शङ्कुकोटिः । अक्षकर्णः कर्णः । इदमुक्तम् । यथाऽक्षक्षेत्रं जात्यत्र्यस्रं तथाऽन्यदपि जात्याऽक्षक्षेत्रत्र्यस्रं गोले याम्योत्तरवृत्ते प्रत्यक्षम् । तदाह—अक्षलम्बाविति । अक्षलम्बांशज्ये । भुजकोटी क्रमेण त्रिज्याव(क)र्णः । यथेदं तथेत्यनेन द्वितीयाक्षक्षेत्रं लम्बज्याद्वादशांशापवर्तितं प्रथममुक्तं न तदतिरिक्तमिति सूचितम् ॥४५॥ अथ तृतीयमिन्द्रवज्रयाऽऽह—उन्मण्डल इति । अथानन्तरम् । उद्द्वृत्ते । प्रागपरोत्य- सूत्रात् । विषुवद्वृत्तोन्मण्डलसंपातबद्धसूत्रभिन्नात् । अहोरात्रवृत्तपर्यन्तं क्रान्तिज्यका सा कोटिः क्षितिजवृत्ते । चकारात्प्रागपरोत्यसूत्रात् । समक्षितिजवृत्तसंपातबद्धसूत्रादित्यर्थः । तदहोरात्रपर्यन्तम् । अग्रा । सा कर्णः । तदन्तराले । द्युरात्रवृत्ते । प्रागुक्ता कुज्या भुजः । इदं निरुक्तं क्षेत्रमक्षक्षेत्रम् । त्रिभुजं जात्यत्र्यस्रम् । तथा पूर्वाक्षक्षेत्रप्रत्यक्षवत् । प्रसिद्धम् । गोलप्रत्यक्षमित्यर्थः ॥४६॥ अथ चतुर्थपञ्चमे उपजातिकयाऽऽह—अग्रा भुज इति । अग्रा भुजः स्वे स्वदेश- संबन्धिगोले । समशङ्कुः । चकारात्समवृत्तेऽर्ध्वज्यारूपः । कोटिः । तदहोरात्रवृत्ते भुजाग्र- कोट्यग्रान्तरं तद्धृतिः । तस्य समशङ्कोर्धृतिः । एवकारात्तदन्यधृतित्वनिरासः । कर्णः । क्रान्तिज्याभुजः समशङ्कुश्चकारात्प्रागुक्तः कर्णः । अत्र पञ्चमाक्षक्षेत्रे । कुज्योनिता तद्धृतिः कोटिः ॥४७॥ अथ षष्ठसप्तमे इन्द्रवज्रयाऽऽह—उद्द्वृत्तेनेति । समशङ्कुवदुद्द्वृत्ताच्छङ्कुरुद्द्वृत्त- शङ्कुः । भुजः । क्रान्तिज्या कर्णः । तत्र षष्ठे क्षेत्रे खलु निश्चयेनाग्रा प्रथमखण्डं कोटिः । उद्द्वृत्तशङ्कुः कोटिः । अग्राया अन्त्यखण्डं भुजः । कुज्या तस्य सप्तमक्षेत्रस्य कर्णः ॥४८॥ अथेष्टशङ्कुवशादुत्पन्नमक्षक्षेत्रं निरूपयन्द्युज्याकुज्येत्याद्युक्तप्रश्नस्योत्तरमिन्द्रवज्र- योपसंहरति—कोटिर्नर इति । इष्टशङ्कुः कोटिः शङ्कुतलं बाहुश्छेदः श्रुतिस्त्र्यस्रसहस्रमेव भुजच्छेद इष्टहृतिः कर्णः । चकारादेतत्क्षेत्रसंबन्धिनः प्रागुक्तरूपाः । ननु गणितान्तरोप-

३२४ गोलाध्याये पत्तिप्रतिपादनार्थमन्यान्यप्यक्षक्षेत्राणि सन्ति । तानि कथं नोक्तानीत्यत आह —त्र्यस्रसहस्र- मिति । स्फुटगोलविद्यैः । स्फुटा गोलविद्या येषां ते । तैर्गणकैरित्यर्थः । एवमुक्तदिशा । दृग्गोले वृत्तानां परस्परसंपातात्त्र्यस्रसहस्रं जात्याऽक्षक्षेत्रत्र्यस्राणां सहस्रम् । अनन्तभेदानु- त्पाद्य । स्वमतिमाहात्म्यानुरोधादन्यान्यप्यक्षक्षेत्राणि प्रकल्प्येत्यर्थः । छात्राय जात्यभिप्राये- णैकवचनम् । शिष्येभ्य इत्यर्थः । शास्त्रं ग्रन्थतत्त्वं प्रतिपादनीयम् । तथा च गोलवृत्तभेदेन गोलतत्त्वप्रतिपादनं ब्रह्मणोऽप्यशक्यमायुषोऽल्पत्वादतो मया कल्पनारीतिप्रदर्शनाथं किंचि- दुक्तम् । एतद्रीत्याऽन्यदपि गोलवशात्प्रकल्प्य गणितान्तरपदार्थोपपत्तिरवधेयेति भावः । त्रिप्रश्नोक्ताष्टमक्षेत्रस्य चतुर्थसप्तमविशेषरूपत्वेन तदनतिरेकत्वात्प्रतिपादनमत्र न कृतमिति ध्येयम् ॥४९॥ अथाऽऽरब्धाधिकारो निरूपित इति फक्किकयाऽऽह —इति त्रिप्रश्नाधिकारवासनाधिकार इति । त्रिप्रश्नाधिकारे यदुक्तं तद्वासनाप्रतिपादनात्तदधिकारः । अन्याधिकारोक्तवासना- प्रतिपादनेऽपि न स्वरूपक्षतिरिति ध्येयम् ॥५०॥ दैवज्ञवर्यगणसंततसेव्यपार्श्वश्रीरङ्गनाथगणकात्मजनिर्मितेऽस्मिन् । यातः शिरोमणिमरीच्यभिधे समाप्तिं त्रिप्रश्नसम्यगुपपत्तिमयोऽधिकारः ॥२८॥ इति श्रीसकलगणकसार्वभौमरङ्गनाथगणकात्मजविश्वरूपापरनामकमुनीश्वरविर- चिते सिद्धान्तशिरोमणिमरीचावुत्तराध्याये त्रिप्रश्नाधिकारवा- सनाधिकारः सम्पूर्णः ॥ केदारदत्तः—अक्ष क्षेत्र बताये जा रहे हैं । यह विषय इसी ग्रन्थ के गणिताध्याय के त्रिप्रश्नाधिकार के श्लोक १३-१७ तक की केदारदत्त जोशी कृत संस्कृत दीपिका एवं हिन्दी शिखा भाषा में पेज ३३३ पेज तक में जो अति स्पष्ट है देखिये । (ले० केदारदत्त जोशी—विश्वविद्यालय अनुदान आयोग प्रदत्त द्रव्य राशि से मुद्रित काशी हिन्दू विश्वविद्यालय प्रेस सन् १९६४) । इति सिद्धान्तशिरोमणि ग्रहगोलाध्याय के त्रिप्रश्नवासनाध्यायः-८ की श्री पं० हरिदत्त ज्योतिर्विदात्मज पर्वतीय श्री केदारदत्त जोशी कृत “केदारदत्तः” हिन्दी व्याख्यान सम्पन्न ।