सुभाषितरत्नभाण्डागार (पण्डित काशीनाथ शर्मा संग्रह)
Subhashita Ratna Bhandagara
पण्डित काशीनाथ शर्मा (सम्पादक: नारायण राम आचार्य) द्वारा
स्रोत: Subhashita Ratna Bhandagara (10,000+ Classic Sanskrit Epigrams & Maxims - Nirnaya Sagar Press) (उद्गम)
२७८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
विरहो न संगमस्तस्याः । सङ्गे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥ १९ ॥
अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे । यदि मदिरायतनयना तामधिकृत्य प्रहरतीति ॥ २० ॥
दैवादहमत्र तया चपलायतनेत्रया वियुक्तश्च । अविरलविलोलजलदः कालः समुपागतश्चायम् ॥ २१ ॥
स्मेरं विधाय नयनं विकसितमिव नीलमुत्पलं मयि सा । कथयामास कृशाङ्गी मनोगतं निखिलमाकूतम् ॥ २२ ॥
आनन्दममन्दमिमं कुवलयदललोचने ददासि त्वम् । विरहस्त्वयैव जनितस्तापयतितरां शरीरं मे ॥ २३ ॥
तस्या सुतनुसरस्या चेतो नयनं च निष्पतितम् । चेतो गुरु तु निमग्नं लघु नयनं सर्वतो भ्रमति ॥ २४ ॥
निष्कासयन्त्यनेके सागरसरिदम्बुपूरपरिपतितम् । हृदयह्रदे निमग्नामिन्दुमुखीं मा बहिः कुरुताम् ॥ २५ ॥
दर्शनपथमुपयाता यदवधि मदिरायतेक्षणा सहसा । तदवधि हृदयेनाहं मदनेषुभयादिवोन्मुक्तः ॥ २६ ॥
अपसरति न चक्षुषो मृगाक्षी रजनिरियं च न याति नैति निद्रा । प्रहरति मदनोऽपि दुःखितानां बत बहुशोऽभिमुखीभवन्त्यपाया ॥ २७ ॥
पुनरपि मिलनं यदाकदाचित्प्रियतमया कृपया भवेद्विधातुः । हरिरिव करवै हृदि प्रतिष्ठामिह रमणीं तनवै मनोऽनभिन्नाम् ॥ २८ ॥
स्खलदंशुकमव्यवस्थतारस्मितकान्ति स्नपिताधरप्रवालम् । असमासनकारमासशोभं हरिणाङ्कं हरिणीदृशः स्मरामः ॥ २९ ॥
अधृतपरिपतन्निचोलबन्धं सुषितनकारमवक्रदृष्टिपातम् । प्रकटहसितमुन्नतास्यबिम्बं पुरसुदृशः स्मरचेष्टितं स्मरामि ॥ ३० ॥
नयनेन निरीक्षिता नताङ्गी हृदये हन्त पतत्रिणः पतन्ति । विषमा विषमायुधव्यथासौ परिभूयेत परः परापरार्थैः ॥ ३१ ॥
यत्राकृतिस्तत्र गुणा वसन्ति नैतद्धि सम्यक्कविभिः प्रणीतम् । येनातिचार्वङ्ग्यपि मे हृदिस्था दुनोति गात्रं विरहे प्रियासौ ॥ ३२ ॥
पञ्चसायकमहेन्द्रजालिना पाणिपद्मसमुद्भिता स्वयम् । मोहनाय मनसः प्रगल्भते पिच्छिकेव मम चञ्चलेक्षणा ॥ ३३ ॥
दूरमस्तु दरघूर्णिततारं शारदेन्दुमुखवीक्षणमक्ष्णोः । एतदेव मम पुण्यमगण्यं यत्कृशोदरि दृशोरतिथिस्त्वम् ॥ ३४ ॥
असति कोऽपि विमोहविधुंतुदो हृदयचन्द्रमस मम दारुणः । तदपि हन्त तदन्तरशायिनी लगति चिह्नमृगीव मृगेक्षणा ॥ ३५ ॥
असुलभा सकलेन्दुमुखी च सा किमपि चेदमनङ्गविचेष्टितम् । अभिमुखीष्विव वाञ्छितसिद्धिषु¹ व्रजति निर्वृतिमेकपदे² मनः ॥ ३६ ॥
तप्ते महाविरहवह्निशिखावलीभिरापाण्डुरस्तनतटे हृदये प्रियायाः । मन्मार्गवीक्षणनिवेशितदीनदृष्टेर्नूनं छमच्छदमिति बाष्पकणाः पतन्ति ॥ ३७ ॥
कान्तामुखं सुरतकेलिविमर्दखेदसञ्जातघर्मकणविच्छुरितं रतान्ते । आपाण्डुरं विलसदर्धनिमीलिताक्षं सस्मृत्य हे हृदय किं शतधा न यासि ॥ ३८ ॥
तत्प्रचलकुण्डलमृष्टगण्डं वक्त्रं स्मरामि विपरीतरताभियोगे । आन्दोलनश्रमजलस्फुटसान्द्रबिन्दुमुक्ताफलप्रकरविच्छुरितं प्रियायाः ॥ ३९ ॥
निद्रार्धमीलितदृशो मदमन्थराणि¹ नाप्यर्थवन्ति न च नाम निरर्थकानि । अद्यापि मे मृगदृशो मधुराणि तस्यास्तान्यक्षराणि हृदये किमपि ध्वनन्ति ॥ ४० ॥
अद्यापि तां कनकचम्पकदामगौरीं फुल्लारविन्दनयनां तनुरोमराजिम् । सुप्तोत्थितां मदनविह्वललालसाङ्गीं विद्यां प्रमादगलितामिव चिन्तयामि ॥ ४१ ॥
अद्यापि सा मनसि संप्रति वर्तते मे रात्रौ मयि क्षुतवति क्षितिपालपुत्र्या । जीवेति मङ्गलवचः परिहृत्य कोपात्कर्णे कृतं कनकपत्रमनालपन्त्या ॥ ४२ ॥
आसन्नमार्गमपिलङ्घ्य नतेन मूर्ध्ना पश्चात्ससङ्ग्वलितेन मुखेन यान्त्या । आरोपिताः कतिपये मयि पङ्कजाक्ष्या साकूतहासमनतिप्रकटाः कटाक्षाः ॥ ४३ ॥
राजल्ललाटफलका कमनीयकूजत्काञ्चीगुणप्रणयिनी धृतकेशपक्षा । हा किं करोमि मम सा हृदयं प्रविष्टा नाराचयष्टिरिव पुष्पशिलीमुखस्य ॥ ४४ ॥
यत्र क्षिपामि दृशमन्यदिदृक्षयाहं तत्रागतः स्फुरति केवलमेतदेव । तद्वक्त्रबिम्बमरुणाधरलोभनीयं ते लोचने तदलसालसमीक्षिते च ॥ ४५ ॥
मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ ४६ ॥
तामिन्दुसुन्दरमुखीं सुचिरं विभाव्य चेतः कथं कथमपि व्यपवर्तते मे । लज्जां विजित्य विनयं विनिवार्य धैर्यमुन्मथ्य मन्थरविवेककाण्ड एव ॥ ४७ ॥
यद्विस्मयस्तिमितमस्तमितान्यभावमानन्दमन्दममृतप्लवनादिवाभूत् । तत्सन्निधौ तदधुना हृदयं मदीयमहङ्गारचुम्बितमिव व्यथमानमास्ते ॥ ४८ ॥
पश्यामि तामित इतः पुरतश्च पश्चादन्तर्बहिः परित एव विवर्तमाननाम् । उद्बुद्धमुग्धकनकाब्जजिह्मं वहन्तीमासक्ततिर्यगपवर्तितदृष्टि वक्त्रम् ॥ ४९ ॥
लीलास्मितेन शुचिना मृदुनोदितेन व्यालोकितेन लघुना गुरुणा गतेन । व्याजृम्भितेन जघनेन च दर्शितेन सा हन्ति तेन गलितं मम जीवितेन ॥ ५० ॥
यान्त्या मुहुर्वलितकंधरमाननं तदावृत्तवृन्तशतपत्रनिभं वहन्त्या । दिग्घोऽमृतेन च विषेण च पक्ष्मलाक्ष्या गाढं निखात इव मे हृदये कटाक्षः ॥ ५१ ॥
ता हेमचम्पकरुचिं
पादटिप्पणी:
- १ इष्टसिद्धिषु
- २ सतोषम्
- १ मन्दानि
वियोगिनो विप्रलापाः २७९
मृगशावकाक्षीं पार्श्वे स्थिता च पुरतः परिवर्तमानाम् । पश्चात्तथा दशदिशासु परिस्फुरन्तीं पश्यामि तन्मयमहो भुवनं किमेतत् ॥ ५२ ॥ अद्यापि तिष्ठति दृगोरिदमुत्तरीयं धर्तुं पुरः स्तनतटात्पतितं प्रवृत्ता । वाचं निशम्य नयनं नयनं ममेति किंचित्तदा यदकरोत्स्मितमायताक्षी ॥ ५३ ॥ राकासुधाकरमुखी तरलायताक्षी संखेरयौवनतरङ्गितविभ्र- मास्या । तत्किं करोमि कथमत्र तनोमि मैत्रीं तत्स्वीकृति- व्यतिकरे क इहाभ्युपायः ॥ ५४ ॥ यान्त्याः सरः सलिल- केलिकुतूहलाय व्याजादुपैत्य मयि वर्त्मनि वर्तमाने । अन्तःस्थितद्युतिमत्कृतिकुद्वक्त्ररङ्गैरीकृतं किमपि वामदृशः स्मरामि ॥ ५५ ॥ मन्दादरः कुसुमपत्रिषु पेलवेषु नूनं बिभर्ति मदनः पवनास्त्रमद्य । हारप्रकाण्डसरलाः कथमम्य- थामी श्वासाः प्रनर्तितदुकूलदशाः सरन्ति ॥ ५६ ॥ पीतो यतः- प्रभृति कामपिपासितेन तस्या मयाधररसः प्रचुरः प्रियायाः । तृष्णा ततः प्रभृति मे द्विगुणत्वमेति लावण्यमस्ति बहु तत्र किमप्यपूर्वम् ॥ ५७ ॥ अलसविलसितानामुल्लसद्भ्रूलतानां मसृणमुकुलितानां प्रान्तविस्तारितानाम् । प्रतिनयननिपाते किंचिदाकुञ्चितानां विविधमहमभूवं पात्रमालोकितानाम् ॥ ५८ ॥ अलसवलितमुग्धस्निग्धनिस्पन्दमन्दैरधिकविक- सदन्तर्विस्मयस्मेरतारैः । हृदयमशरणं मे पक्ष्मलाक्ष्याः कटाक्षैरपहृतमपविद्धं पीतमुन्मूलितं च ॥ ५९ ॥ क्रमशरू- लितकण्ठप्रक्रमोल्लासितोरस्तर लितवलिलेखासूत्रसर्वस्वमस्याः । स्थितमतिचिरमुच्चैरग्रपादाङ्गुलीभिः करकलितसखीकं मा दिवक्षोः स्मरामि ॥ ६० ॥ व्रीडायोगान्नतवदनया सन्नि- धाने गुरूणां बद्धोत्कम्पस्तनकलशया मैन्युमन्तर्निगृह्य । तिष्ठेत्युक्तं किमिव न तया यत्समुत्सृज्य बाष्पं मय्यासक्त- श्चकितहरिणीहारिनेत्रत्रिभागः ॥ ६१ ॥ बारवारं तिरयति दृशोरुद्गमं बाष्पपूरस्तसंकल्पोपहितजडिम स्तम्भमभ्येति •गात्रम् । सद्यः स्विद्यन्नयमविरतोत्कम्पलोलाङ्गुलीकः पाणि- र्लेखाविधिषु नितरा वर्तते किं करोमि ॥ ६२ ॥ हा हा देवि स्फुटति हृदयं संस्रते देहबन्धः शून्यं मन्ये जगद- विरतज्वालमन्तर्ज्वलामि । सीदन्नन्चेतमसि विधुरो मज्ज- तीवान्तरात्मा विष्वग्मोहः स्थगयति कथं मन्दभाग्यः करोमि ॥ ६३ ॥ ऊरू रम्भा दृगपि कमलं शेवलं केशपाशो वक्त्रं चन्द्रो लपितममृतं मध्यदेशो मृणालम् । नाभिः कूपो वलि- रपि सरित्पल्लवः किं च पाणिर्यस्याः सा चेदुरसि न कथं हन्त तापस्य शान्तिः ॥ ६४ ॥ प्रासादे सा दिशि दिशि च सा पृष्ठतः सा पुरः सा पर्यङ्के सा पथि पथि च सा तद्वियोगातुरस्य । हंहो चेतः प्रकृतिरपरा नास्ति मे कापि सा सा सा सा सा सा जगति सकले कोऽयमद्वैतवादः ॥ ६५ ॥ कुन्दं दन्तैर्मधु निगदितैः षट्पदं दृग्विलासैरेभि- र्हासैरमृतलहरीं कुन्तलैरम्बुवाहम् । इन्दोर्बिम्बं वदनश- शिना पङ्कजं च स्तनाभ्यां त्वं जित्वा तान्वससि हृदये तेन मा विद्विषन्ति ॥ ६६ ॥ स्वप्ने दृष्ट्वा किमपि पिशुनाशङ्कया नैव पृष्टा स्पृष्टा नीवी न खलु भवतः किङ्कि- णीनिक्वणानाम् । आश्लेषाय स्पृहयति मयि द्राग्व्यरसीदसीमा निद्रामुद्रा शिव शिव दृशोरदृशो दुर्विपाकः ॥ ६७ ॥ दलति हृदयं गाढोद्वेगं द्विधा न तु भिद्यते वहति विकलः कायो मोहं न मुञ्चति चेतनाम् । ज्वलयति तनूमन्तर्दाहः करोति न भस्मसात्प्रहरति विधिर्मर्मच्छेदी न कृन्तति जीवितम् ॥ ६८ ॥ जगति जयिनस्ते ते भावा नवेन्दुकलादयः प्रकृ- तिमधुराः सन्त्येवान्ये मनो मदयन्ति ये । मम तु यदिदं याता लोके विलोचनचन्द्रिका नयनविषयं जन्मन्येकः स एव महोत्सवः ॥ ६९ ॥ मयि सकपटं किंचित्क्वापि प्रणी- तविलोचने किमपि नयनं प्रासे तिर्यग्विज़म्भिततारकम् । स्थितमुपगतामालीं दृष्ट्वा सलज्जमवाञ्चितं कुवलयदशः स्मेरं स्मेरं स्मरामि तदाननम् ॥ ७० ॥ हृदयमिषुभिः काम- स्यान्तः सशल्यमिदं सदा कथमपुलभे निद्रां स्वप्ने समागम- कारिणीम् । न च सुवदनामालेख्येऽपि प्रियामसमाप्य तां मम नयनयोरुद्वाष्पत्वं सखे न भविष्यति ॥ ७१ ॥ कुसुम- शयनं न प्रत्यग्रं न चन्द्रमरीचयो न च मलयजं सर्वाङ्गीण न वा मणियष्टयः । मनसिजरुजं सा वा दिव्या ममालम- मोहितुं रहसि लघयेदारब्धा वा तदाश्रयिणी कथा ॥ ७२ ॥ ईंदमेशिशिरैरन्तस्तापाद्द्विवर्णमणीकृतं निशि निशि भुजन्य- स्तापाङ्गप्रवर्तिभिरश्रुभिः । अनतिलुलितैरूज्याघाताङ्कं मुहुर्मणि- बन्धनात्कनैकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥ ७३ ॥ कदा कान्तागारे परिमलमिलत्पुष्पशयने शयानः श्यामायाः कुचयुगमहं वक्षसि वहन् । अये स्निग्धे मुग्धे चपलनयने चन्द्रवदने प्रसीदेत्याक्रोशन्निमिषमिव नेष्यामि दिवसान् ॥ ७४ ॥ तया गाढं मुक्तो भुवि धनुषि सधाय निशितः कटाक्षेषुर्नान्यैः सह पठनयोग्यः शरगणैः । पतन्गात्रे गात्रे परममृतमाक्षौदिव तदा दवीयानद्यायं दलयति पुनर्न व्रण- यति ॥ ७५ ॥ तदा मुग्धं वक्त्रं किसलयसखः सोऽधरमणि- र्विशाले ते नेत्रे स्तनभरनता सा तनुलता । सलीलं तद्यातं
पाद-टिप्पणियाँ (Footnotes)
[वाम पृष्ठ] १ लज्जा २ नम्रमुखत्वेन ३ क्रोधम् ४ रुद्धा
[दक्षिण पृष्ठ] १ कनकवलयमित्यर्थ २ उष्णै, अश्रुभिरित्यनेन संबन्ध ३ अभ्य- न्तरे विरहजन्यतापाह्वेतो ४ विवर्णा हीनवर्णा मणयो यस्मिन्नेवविध कृतम् ५ नेत्रप्रान्त ६ मौर्वीघर्षणजन्य किण ७ सुवर्णकङ्कणम् ८ वारंवार गलितम्
| २८० | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम् |
|---|
जननयनसजीवनसुधा प्रिया सा सा सेत्यजनि हृदयं तन्मयमहो ॥ ७६ ॥ कटाक्षेणापीषद्वक्षणमपि निरीक्षेत यदि सा तदानन्द. सान्द्रः स्फुरति निहताशेषविषय. । सरोमाञ्चोद्गच्छत्कुचकलशनिर्भिन्नावसन. परीरम्भारम्भः क इव भविताम्भोरुहदृश. ॥ ७७ ॥ पुरस्ताद्गच्छन्ती सह सहचरीभिः प्रियतमा ममालापं श्रुत्वा सचकितपरावृत्तवदना । किमग्रे व्यासङ्गादहमहह यामीति विनयप्रणालीमालीना यदकृत तदन्तर्व्यथयति ॥ ७८ ॥ समुत्तीर्णे तन्व्या निशितनयनान्तेन मृदिते स्तनद्वन्द्वस्यन्दैः सितलवसुधाम्भि. मृतमति । मदन्तःकेदारं मदनकृषिकारेण जनिता चिरादाशावल्ली किमिति न फलं हन्त लभते ॥ ७९ ॥ विलीयेन्दुः साक्षादमृतरसवापी यदि भवेत्कलङ्कस्तत्रत्यो यदि च विकचेन्दीवरवनम् । तत. स्नानक्रीडाजनितजडभावैरवयवै. कदाचिन्सुख्येयं मदनशिखिपीडाव्यतिकरम् ॥ ८० ॥ परागैः कर्पूरैस्तुहिनसलिलैश्चान्दनरसैः सुधाम्भिज्र्योत्स्नाभिः स्नपितमिव य प्रागकृत माम् । स एवासौ मारः शिव शिव वियोगे मृगदृशः करालं काकोल किरति मयि कालानलमपि ॥ ८१ ॥ न दूतीसंचारो न सरसपरोक्षोक्तिकल्पना न सामुद्र्ये हासः क्वचिदपि न वाचा व्यतिकरः । अहो चित्र चेतः क्षणपरिचितालोकनवशन्मुहुर्धावंधावं व्रजति सुदृश नो विरमति ॥ ८२ ॥ शरीर क्षामं स्यादसति दयितालिङ्गनसुखे भवेत्सास्त्रं चक्षुः क्षणमपि न सा दृश्यत इति । तया सारङ्गाक्ष्या त्वमसि न कदाचिद्विरहित प्रसक्ते निर्वाणे हृदयमरिताप वहसि किम् ॥ ८३ ॥ दृगन्तव्यापारप्रबलनिगडेन स्फुरदुरस्तटीकारागारे तव समुचितं बन्धनमिदम् । अरे चेतस्त्यक्त्वा यदिह जनमाजन्मसुहृदं क्षणप्राप्तामेतामधरमधुलामेन भजसे ॥ ८४ ॥ विपत्तिन्धुं बन्धु विगलितजलं नेत्रयुगल सशोकं भूलोकं भुवनवलय खेलनिलयम् । अनङ्गं नीरङ्ग विघटितधनं कोशभवनं विधातु कि धातस्तव हृदि न लज्जा प्रभवति ॥ ८५ ॥ न वक्षोजाश्लेषप्रभृतिकुतुकानामवगमो न पीयूषस्वादस्मितवलितवाचामनुभव. । न चासीन्मे तादृग्दृढपरिचयः पङ्कजदृशः कुतो हेतोस्तन्वी क्षणमपि न निर्याति मनस. ॥ ८६ ॥ आः पात्री स्यामकृतकघनप्रेमविस्फारिताना सत्रीडाना सकलकरणानन्दनाडिधमानान् । तेषा तेषा हृदयनिहिताकूत निष्पन्दिनेत्रव्यापाराणा पुनरपि तथा सुध्रुवो विभ्रमाणाम् ॥ ८७ ॥ तदङ्गमपि नाम तत्सहजकान्तिपूराप्लुत सुवर्णकदलीदलोद्वलितगर्भगौर पुन. । कठोरमदनव्यथापिशुनपाण्डिमाधिष्ठितप्रथीयकुचमण्डल परिरमेय वीक्ष्य वा ॥ ८८ ॥ जाने कोपपराङ्मुखी प्रियतमा स्वप्नेऽद्य दृष्टा मया मा मा सस्पृश पाणिनेति रुदती गन्तुं प्रवृत्ता पुरः । नो यावत्परिरभ्य चाटुकशतैराश्वासयामि प्रिया भ्रातस्तावदह शठेन विधिना निद्रादरिद्रीकृतः ॥ ८९ ॥ याता किं न मिलन्ति सुन्दरि पुनश्चिन्ता त्वया मन्कृते नो कार्या नितरा कृशासि कथयत्येवं सबाष्पे मयि । लज्जामन्थरतारकेण निपतत्पीताश्रुणा चक्षुषा दृष्ट्वा मा हसितेन भाविमरणोत्साहस्तया सूचितः ॥ ९० ॥ श्वासा एव मृगीदृशो न गणिता. के नाम झञ्झानिलास्तीर्णा बाष्पपरम्परैव सरिता वृन्देषु कः सभ्रम. । सोढा कातरदृष्टिरेव कियती वज्राभिघातव्यथा प्रेमैवायमुपेक्षितो यदि तदा प्राणेषु कोऽनुग्रह ॥ ९१ ॥ सा बाला वयम्प्रगल्भमनस. सा स्त्री वय कातरा. सा पीनोन्नतिमत्पयोधरयुग धत्ते सखेदा वयम् । साक्रान्ता जघनस्थलेन गुरुणा गन्तुं न शक्ता वय दोपैरव्यञ्जनश्चयैरपटवो जाता. स्म इत्यद्भुतम् ॥ ९२ ॥ प्रेमार्द्रा प्रणयस्पृश परिचयादुद्गाढरागोदयास्तास्ता मुग्धदृशो निसर्गमधुराश्चेष्टा भवेयुर्मयि । यास्वन्त.करणस्य बाह्यकरणव्यापारारोधी क्षणादागसापरिकल्पितास्त्वपि भवत्यानन्दसान्द्रो लय. ॥ ९३ ॥ धन्या सा गृहदेहली स्पृशति या तत्पादपद्मप्रभा जाता सा सरसी रसाद्विशति सा यस्या विहारेच्छया । वन्द्यः कोऽपि स एव यः खलु तया नेत्रेण सम्भाव्यते धिग्धिग्वैधममेषु मा यदनयन्नैकं कथंचित्कथम् ॥ ९४ ॥ कि मे सद्गुरुसेवनै प्रतिदिन कि व्योमकेशार्चनै. कि स्यादध्ययनेन वा सुरपुरप्राप्त्याथवा कि फलम् । एतस्या. कुचकुम्भनिर्भरपरीरम्भप्रभावोद्भवत्खेदाम्भोभिरनङ्गवह्निविरहुना निर्वापितो नो यदि ॥ ९५ ॥ तन्वी सा यदि गायति श्रुतिकटुर्वीणाध्वनिर्जायते यद्याविष्कुरूते सितानि मलिनैर्बालक्ष्यते चन्द्रिका । आस्ते म्लानमिवोत्पल नवमपि स्याच्चेत्पुरो नेत्रयोस्तस्या. श्रीरवलोक्यते यदि तदिद्धल्ली विवर्णैव सा ॥ ९६ ॥ तानि स्पर्शसुखानि ते च तरलस्निग्धा दृशोर्विभ्रमास्तद्वक्राम्बुजसौरभं स च सुधास्यन्दी गिरा वक्रिमा ! मा बिम्बाधरमाधुरीति विषयासङ्गेऽपि मन्मानस तस्या लग्नसमाधि हन्त विरहव्याधि. कथं वर्तते ॥ ९७ ॥ तस्मिन्पञ्चशरे खरे भगवता भर्गेण भस्मीकृते जानाम्यक्षयसायक कमलमू कामान्तर निर्ममे । यस्यामीभिरितस्ततश्च विशिखैरापुङ्खममात्मनिर्जीते मे विदलत्कदम्बसुकुलस्पष्टोपमानं वपुः ॥ ९८ ॥ ज्योत्स्नी श्यामलिमानमानयत भो. सान्द्रैर्मषीकूर्चकैर्मन्त्रं तन्ममथ प्रयुज्य हरत श्वेतोत्पलाना सितम् । चन्द्र चूर्णयत क्षणाच्च कणश. कृत्वा शिलापट्टेके येन द्रष्टुमह क्षमे दश दिशस्तद्वक्रमुद्राङ्किताः
१ विकसितम् २ शैल्यम् ३ वह्नि
वियोगिनो विप्रलापाः २८१
॥ ९९ ॥ किं तिष्ठामि किमु व्रजामि किमहमं जागर्मि निद्रामि किं किं जानामि किमु भ्रमामि किमु वा सुख्यीम्य- दुःख्यामि वा। किं नास्म्यस्मि किमित्यनल्पकलिते न क्वापि पक्षे स्थित. प्राप्यानिवर्चनीयमेव कमपि क्रूर विकारं सखे ॥ १०० ॥ आसीनः शयितः स्थित. प्रचलितः क्षमायितो जागृतः पश्यन्मीलितलोचनो व्यवहरन्मौनं प्रपन्नोऽथवा । तां प्रेमाकुलवीक्षितां सितमुखीं सब्रीडमन्दागमां श्लिष्यन्तीं प्रणयार्दमुग्धलपितां पश्यामि नक्तंदिवम् ॥ १०१ ॥ नीले- न्दीवरशङ्कया नयनयोर्बन्धूकबुद्ध्याधरे पाणौ पद्मधिया मधू- ककुसुमभ्रान्त्या तथा गण्डयो । लीयन्ते कबरीषु बान्धव- जनव्यामोहजातस्पृहा दुर्वारा मधुप्रा. कियन्ति तरुण स्थानानि रक्षिष्यसि ॥ १०२ ॥ सा मे यद्यपि सुन्दरी भग- वतो मामेव चेतोसुवो न स्वप्ने न च जागरे नयनयो. पन्थान- मासादिता । तामाकर्ण्य तथापि तादृशदशावैधुर्यमासेदुषी- मानन्दाद्भुतशोककौतुकभयव्रीडाकुलं मे मन ॥ १०३ ॥ मा सञ्चारचमत्कृतिर्नयनयोः स भ्रूलताविभ्रमस्तद्विम्बाधरपाट- लक्षितयुतस्हासस्य सा वैखरी । सेयं चङ्क्रमचातुरी चरणयो- सोऽप्यङ्गहारक्रमो दिष्ट्या तन्मम नेत्रपात्रमखिल जायेत जीवामि च ॥ १०४ ॥ लीनेव प्रतिबिम्बितेव लिखिते- वोत्कीर्णरूपेव च प्रत्युप्तेव च वज्रलेपघटितेवान्तर्निखातेव च । सा नश्चेतसि कीलितेव विशिखैश्चेतोभुवः पञ्चभि- श्चिन्तासंततितन्तुजालनिबिड्स्यूतेव लग्ना प्रिया ॥ १०५ ॥ सा विद्याधरकन्यका किमु भुवं पुण्यैः प्रपन्ना नृणा लावण्या- मृतसागराद्विमथिता लक्ष्मीः किमन्योत्थिता । आ ज्ञात घनसारचन्दनसुधाज्योत्स्नाप्रणालादिभि प्रारब्धा हृदयं मम भ्रमयितुं पौष्पेषवी शाम्बरी ॥ १०६ ॥ हृत्वा पद्मनद्युति प्रियतमेवेयं दिनश्रीर्गता रागोऽस्मिन्मम चेतसीव सवितु- र्बिम्बेऽधिकं लक्ष्यते । चक्राह्नोऽहमिव स्थित सहचरी ध्यायन्नलिन्यास्तटे सज्ञाताः सहसा ममैव भुवनस्याप्यन्ध- कारा दिशः ॥ १०७ ॥ नेत्रे खञ्जनगञ्जने नवसुधाधारानु- कारा गिरः पाणि. पद्मसहॊदर. कचरुचि. शैवालजालोपमा । वक्त्रं कार्तिकपौर्णिमापतिसमं हारिद्रहृद्यं वपुस्त्वं यस्मै वलसे विलासिनी हृदा तेनैव तप्त तपः ॥ १०८ ॥ आस्ता दूर- तया तदीयवदनाम्भोजामृतास्वादन नोदेत्येव मनोरथोऽपि हृदये तत्सङ्गमाशा प्रति । उत्कण्ठाशिथिलीकृताङ्गलतिक वीक्षेत मामेकदा सस्नेहं यदि सा सरोजवदना धन्योऽस्म्यहं तावता ॥ १०९ ॥ निद्रे लोचनमुद्रणं विरचय स्वप्नं त्वम- प्याचर प्राणाभिन्नतमा चिरात्प्रियतमा मच्चेतसो गोचरम् । भ्रातर्बोध दृढानुरोध न तथा कुर्या यथा प्रेयसीप्रौढाश्लेष- विघटनेन भवतः क्रीडन्ति दुष्कीर्तयः ॥ ११० ॥ लज्जै- वोद्घटिता किमत्र कुलिशोद्भिन्ना कपाटावली मर्यादैव विल- ङ्घिता मखि पुनः केयं कलिन्दारमजा । आक्षिप्ता खलु दृष्टि- रेव किमिय व्यालावली वा पुन. प्राणा एव समर्पिता. सखि पुनस्तस्मै किमेषा तनुः ॥ १११ ॥ सव्याज तिलकालका- न्विरलयँलोलाङ्गुलि. सस्पृशन्वारवारमुदञ्चयन्कुचयुगप्रमोदद्वि- नीलाञ्चलम् । यद्रूभङ्गतरङ्गिताक्षितवदृशा मावज्ञमालोकित तद्व्रीडावदधीरितोऽस्मि न पुन: कान्ते कृतार्थीकृत ॥ ११२ ॥ काकार्यं शशंलक्ष्मण. क च कुले भूयोऽपि दृश्येत सा दोषाणा प्रशमाय न श्रुतमहो कोपेऽपि कान्तं मुखम् । कि वक्ष्यन्त्यपकल्मषा कृतधिय स्वप्नेऽपि सा दुर्लभा चेत. स्वास्थ्यमुपेहि क खलु युवा धन्योऽधर पास्यति ॥ ११३ ॥ हा धिक् सा किल तामसी शशर्मुखी दृष्टा मया यत्र सा तद्विच्छेददुरुजान्धकारितमिदं दग्ध दिनं कल्पि- तम् । कि कुर्म. कुशले सदैव विधुरो वाता न चेत्तत्कथ तादृग्शामवतीमयो भवति मे नो जायलोकोऽधुना ॥ ११४ ॥ स्नाता तिष्ठति कुन्तलेश्वरसुता वारोऽङ्गगजस्व- सुर्धूनै रात्रिरियं जिता कमलया देवी प्रसाद्याद्य च । इत्य- न्तःपुरसुन्दरी प्रति मया विज्ञाय विज्ञापिते देवेनाप्रतिपत्ति- मूढमनसा द्वित्राः स्थितं नाडिकाः ॥ ११५ ॥ सा सौन्दर्य- निधिर्विलासभवनं मीनध्वजस्यापि वा कान्तीनामधिदेवता- धिकरण माधुर्यसारस्स वा । तामूद्धीक्ष्य सखे तदादि गत- वान्भवेन्द्रियाणामहं सार्थ तद्गतमानसेन गलितोत्साह किलानीशताम् ॥ ११६ ॥ तस्या. कि मुखपङ्कजं स्मितरुचा चन्द्रद्युतेनिंन्दक कि वा नेत्रयुग कटाक्षचतुर कि भ्रूलता- विभ्रमम् । कि वा स्निग्धमवेक्षित मयि पुनर्यान्र्त्या सखीना पुर. कि कि सप्रति चिन्तयामि हृदये कामेन लक्ष्यीकृते ॥ ११७ ॥ शीतांशुर्विषसोदर. फणभृता लीलास्पद चन्दन हार. क्षारपयोभव. प्रियसृहत्केहृहं भास्वत. । इत्येषा किमिवास्तु वस्तु मदनज्वालाविघाताय यद्ग्राह्याकारपरि- ग्रहेण तु वयं तत्तत्त्वजो वञ्चिता ॥ ११८ ॥ जाने स्वप्न- विधौ ममाद्य चुलुकोत्सेक्यं पुरस्तादभूत्प्रत्युषे परिवेषमण्डल- मिव ज्योत्स्नास्पल महः । तस्यान्तर्नखनिस्रुषीकृतशर- चन्द्रप्रभैरङ्गकैर्दृष्टा काव्यवला बलात्कृतवती मा मन्मथ मन्मथम् ॥ ११९ ॥ सौमित्रे ननु सेव्यता तरुतलं चण्डा- शुरुज्जृम्भते चण्डाशोर्निशि का कथा रघुपते चन्द्रोऽयमु- न्मीलति । वत्सैतद्विदितं कथं तु भवता धत्ते कुरङ्ग यत- क्कासि प्रेयसि हा कुरङ्गनयने चन्द्रानने जानकि ॥ १२० ॥ पादाङ्गुष्ठेन भूमि किसलयरुचिना सापदेश लिखन्ती भूयो-
३६ सु र भा.
१ कोमलपल्लवकान्तिना २ सव्याजम्
२८२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
भूयः क्षिपन्ती मयि सितशबले लोचने लोलेतारे १। वक्रं ह्रीनेम्रीभवत् २ स्फुरदधरपुटं वाक्यगर्भं दधाना यन्मा नोवाच किञ्चित्स्थितमपि पुरतो मानसं तद्धुनोति ३ ॥ १२१ ॥ चक्षुःप्रीत्या निषण्णे मनसि परिचयाच्चिन्त्यमानेऽभ्युपाये याते रागे विवृद्धिं प्रविसरति गिरा विस्तरे दूतिकायाः । आस्तां दूरे स तावत्सरमसदथितालिङ्गनानन्दलाभस्तद्गेहोपान्तरथ्याभ्रमणमपि परा निर्वृतिं सन्तनोति ॥ १२२ ॥
मदनं प्रत्युक्तयः
स्वयमप्राप्तदुःखो यः स दुनोति न विस्मयः । त्वं स्मर प्राप्तदाहोऽपि दहसीति किमुच्यते ॥ १२३ ॥ भवनेत्रभवो वह्निग्द्यापि त्वयि मन्मथ । ज्वलतीवान्यथा किं ते विशिखास्तत्कणा इव ॥ १२४ ॥ अद्यापि नूनं हरकोपवह्निस्त्वयि ज्वलत्येर्व ४ इवाम्बुराशौ ५ । त्वमन्यथा मन्मथ मद्विधानां भस्मावशेषः कथमेवमुष्णः ॥ १२५ ॥ वृथैव सकल्पशतैरजस्रमनङ्ग नीतोऽसि मयातिवृद्धिम् । आकृष्य चापं श्रवणोपकण्ठे मय्येव युक्तस्तव बाणमोक्षः ॥ १२६ ॥ क्व रुजा हृदयप्रमाथिनी क्व च ते विश्वसनीयमायुधम् । मृदुतीक्ष्णतरं यदुच्यते तदिदं मन्मथ दृश्यते त्वयि ॥ १२७ ॥ अनुममार न मार कथं नु सा रतिरतिक्षथितापि पतिव्रता । अयमनाथवधूबधपातकी दयितयापि तयासि किमुज्झितः ॥ १२८ ॥ भुवनमोहनजेन किमेनसा तव परेत बभूव पिशाचता । यदधुना विरहाधिमलीमसमभिभवन्श्रमसि स्मर मद्विधाम् ॥ १२९ ॥ स्मर नृशंसतमस्त्वमतो विधिः सुमनसं कृतवान्भवदायुधम् । यदि दृढं धनूरायसमाशुगं तव सृजेत्त्रिजगत्प्रलयं व्रजेत् ॥ १३० ॥ विधिरनशमभेद्यमवेक्ष्य ते जनमनः खलु लक्ष्यमकल्पयत् । अपि स वज्रमदास्रत चेत्तदा त्वदिषुभिर्व्यदलिष्यदसावपि ॥ १३१ ॥ अपि विधिः कुसुमानि तवांशुगान्स्मर विधाय स निर्वृतिमाप्तवान् । अदित पञ्च हि ते स नियम्य तांस्तदपि तैरैत जर्जरितं जगत् ॥ १३२ ॥ सह तया स्मर भस्म झटित्यभूः पशुपतिं प्रति यामिषुमाग्रहीः । ध्रुवमभूदधुना वितनोः शरस्तव कटुस्वर एव स पञ्चमः ॥ १३३ ॥ त्वमुचितं नयनार्चिषि शम्भुना भुवनशान्तिकहोमहुविः कृतः । तव वयस्यमपास्य मधुं मँधु ६ हतवता हरिणा बत किं कृतम् ॥ १३४ ॥ बाणाग्निभस्तकरुणो विकिरन्ममाङ्गे प्रायो न वेत्सि विषमास्त्रवर खपीडाम् । संताप एव भवता किमु नान्बभावि चण्डीपतेरलिकलोचनगोचरेण ॥ १३५ ॥ तव कुसुमशरत्वं शीतरश्मित्वमिन्दोर्द्वयमिदमयथार्थं ७ दृश्यते मद्विधेषु । विसृजति हिमगर्भरश्मिभिन्दुर्मयूखैस्त्वमपि कुसुमबाणान्वैज्रसारीकरोषि १ ॥ १३६ ॥ हृदि बिसलताहारो नायं भुजंगमनायकः २ कुवलयदलश्रेणी कण्ठे न सा गरलद्युतिः । मलयजरजो नेदं भस्म प्रियारहिते मयि प्रहर न हरभ्रान्त्यानङ्ग क्रुधा किमु धावसि ॥ १३७ ॥ पाणौ मा कुरु चूतसायकममुं मा चापमारोपय क्रीडानिर्जितविश्व मूर्च्छितजनाघातेन किं पौरुषम् । तस्या एव मृगीदृशो मनसिजप्रेङ्खत्कटाक्षानलश्रेणीजर्जरितं मनागपि मनो नाद्यापि सन्धुक्षते ॥ १३८ ॥ रे रे निर्दयं ३ दुर्निवार मदन प्रोत्फुल्लपङ्केरुहं ४ बाणं संवृणु संवृणु ५ त्यज धनुः किं पौरुषं मा प्रति । कान्तासङ्गवियोगदुःखदहनज्वालावलीढं वपुः शूराणां मृतमारणे न हि परो धर्मः प्रयुक्तो बुधैः ॥ १३९ ॥ आपुङ्खाग्रममी शरा मनसि मे मग्नाः समं पञ्च ते निर्दग्धं विरहाग्निना वपुरिदं तैरेव सार्थं मम । तत्कंदर्प निरायुधोऽसि भवता जेतुं न शक्तः परो दुःखी स्यामहमेक एव सकलो लोकः सुखं जीवतु ॥ १४० ॥ बाणाः पञ्च मनोभवस्य नियतास्तेषामसख्यो जनः प्रायोऽस्मद्विध एव लक्ष्य इति यल्लोके प्रसिद्धिं गतम् । दृष्टं तत्त्वयि विप्रतीपमधुना ६ यस्मादसख्यैरयं विद्धः कामिजनः शरैरशरणो नीतस्त्वया पञ्चताम् ॥ १४१ ॥ तद्विच्छेदकृशस्य कण्ठलुटितप्राणस्य मे निर्दयं क्रूरः पञ्चशरः शरैरतिशितैर्भिन्दन्मनो निर्भरम् । शम्भोर्भूतकृपाविधेयमनसः प्रोद्दामनेत्रानलज्वालाजालकरालितः पुनरसावास्ता समस्तात्मना ॥ १४२ ॥ बाणान्संहर मुञ्च कार्मुकलतां लक्ष्यं तव त्र्यम्बकः के नामात्र वयं शिरीषकलिकार्कल्पं यदीयं मनः । तत्तारुण्यपरिग्रहात्कुरु दयामस्मिन्विधेये जने स्वामिन्मन्मथ तादृशं पुनरपि स्वमाद्भुतं दर्शय ॥ १४३ ॥
चन्द्रं प्रत्युक्तयः
चण्डीशचूडाभरण चन्द्र लोकतमोपह । विरहिप्राणहरण कदर्धय न मा वृथा ॥ १४४ ॥ तारापते कुमुदिनीमनुकूलकान्ता पादेन पीडयसि कम्पयसि द्विर्जातीन् ७ । विद्वेषमाचरसि किं च वियोगिलोके नैक्तचरस्य ८ भवतः करुणा कुतः स्यात् ॥ १४५ ॥ किं रे विधो मृगदृशा सुखमद्वितीयं राजीव दृप्यसि दृगम्बुजमन्यदेव । झङ्कारमावहसि भङ्गतनुर्न तादृक्कर्मणि धिङ् न पुनरीदृशमीक्षणीयम् ॥ १४६ ॥ अभिलषसि यदिन्दो वक्त्रलक्ष्मीं मृगाक्ष्याः पुनरपि सकृदब्धौ मज्ज संक्षालयोङ्कम् ९ । सुविमलमथ बिम्बं पारिजातस्य गन्धैः सुरभय वद नो चेत्तवं क्व तस्या मुखं क्व ॥ १४७ ॥ सूतिर्दुग्धसमुद्रतो १० भगवतः श्रीकौस्तुभौ
१ लोला चञ्चला तारा कनीनिका ययो २ लज्जया नम्रम्. ३ संतापयति ४ वडवाग्नि ५ समुद्रे ६ दैत्यविशेषम् ७ असत्यम् १ वज्रवत्कठिनान्करोषि २ वासुकि ३ निष्करुण ४ विकसितम् ५ उपसंहर ६ विरुद्धस्वभावम् ७ पक्षिण , पक्षे,-ब्राह्मणान् ८ रात्रिचरस्य, पक्षे,-राक्षसस्य ९ लाञ्छनमित्यर्थ १० उत्पत्ति
वियोगिनो विप्रलापाः, वियोगिन्या विप्रलापाः २८३
सोदरौ सौहार्दं कुमुदाकरेषु किरणाः पीयूषधाराकिरः। स्पर्धा
ते वदनाम्बुजैर्मृगदृशां . तत्स्थाणुचूडामणे हंहो चन्द्र कथं नु
सिञ्चसि मयि ज्वालामुचो रोचिषः ॥ १४८ ॥
पवनं प्रत्युक्तयः
उन्मीलन्मुकुलकरालकुन्दकोशप्रच्योतद्धनमकरन्दगन्ध-
बन्धो । तामीषत्चलविलोचनां नताङ्गीमालिङ्ग्य पवन मम
स्पृशाङ्गमङ्गम् ॥ १४९ ॥ व्याधूय यद्वसनमम्बुजलोचनाया
वक्षोजयोः कनककुम्भविलासभाजोः । आलिङ्गसि प्रसभ-
मङ्गमशेषमस्या धन्यस्त्वमेव मलयाचलगन्धवाह ॥ १५० ॥
मेघं प्रत्युक्तयः
भो मेघ गम्भीरतरं नद त्वं तव प्रसादात्स्मरपीडितं मे ।
संस्पर्शरोमाञ्चितजातरागं कदम्बपुष्पत्वमुपैति गात्रम् ॥१५१॥
भ्रमय जलदानम्भोगर्भान्प्रमोहय चातकान्कलय शिखिनः
केकोत्कण्ठान्कठोरय केतकान् । विरहिणि जने मूर्च्छां लब्ध्वा
विनोदयति व्यथामकरुण पुनः संज्ञाव्याधिं विधाय किमीहसे
॥ १५२ ॥ मलयमरुतां वाता याता विकासितमल्लिका
परिमलभरो भग्नो ग्रीष्मस्त्वमुत्सहसे यदि । घन घटयितुं
निःस्नेहं तं य एव निवर्तने प्रभवति गवां किं नश्छिन्नं स
एव धनंजयः ॥ १५३ ॥
अशोकं प्रत्युक्तिः
रक्तस्त्वं नवपल्लवैरहमपि श्लाघ्यैः प्रियाया गुणैस्त्वा-
मायान्ति शिलीमुखाः खरधनुर्मुक्तास्तथा मामपि । कान्तापाद-
तलाहतिस्तव मुदे तद्वन्ममाप्यावयोः सर्वे तुल्यमशोक
केवलमहं धात्रा सशोकः कृतः ॥ १५४॥ रक्ताशोक कृशोदरी
क्व नु गता त्यक्तानुरक्तं जनं नो दृष्टेति मृषैव चालयसि किं
वातावधूतं शिरः । उत्कण्ठाघटमानषट्पदघटासंघट्टदष्टच्छद-
स्तत्पादाहतिमन्तरेण भवतः पुष्पोद्गमोऽयं कुतः ॥ १५५ ॥
तमालं प्रत्युक्तिः
धन्यस्त्वमसि तमाल स्पृष्टस्तन्व्या लतावदनया यत् ।
अद्य स्थावरजन्मा जातस्त्वं जङ्गमादधिकः ॥ १५६ ॥
मृणालहारं प्रत्युक्तिः
परिच्युतस्तत्कुचकुम्भमध्यात्किं शोषमायासि मृणालहार ।
न सूक्ष्मतन्तोरपि तावकस्य तत्रावकाशो भवतः किमु स्यात्
॥ १५७ ॥
मधुकरं प्रत्युक्तयः
वदनमिदं न सरोजं नयने नेन्दीवरे ह्येते । इह सविधे
मुग्धदृशो मधुकर न सुधा परिभ्राम्य ॥ १५८ ॥ भ्रात-
र्द्विरेफ भवता भ्रमता समन्तात्प्राणाधिका प्रियतमा मम
वीक्षिता किम् । ब्रूषे किमोमिति सखे कथयाशु तन्मे किं
किं व्यवस्यति कुतोऽस्ति च कीदृशीयम् ॥ १५९ ॥
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतीं रहस्याख्यायीव
स्वनसि मृदु कर्णान्तिकचरः । करौ व्याधुन्वत्याः पिबसि
रतिसर्वस्वमधरं वयं तत्त्वान्वेषान्मधुकर हतास्त्वं खलु
कृती ॥ १६० ॥ उन्मीलयन्नयनान्तकान्तिलहरीनिपीतयोः
केवलादामोदादवधारणीयवपुषोः कान्तासखे न क्षणम् ।
यत्कर्णोत्पलयोः स्थितेन भवता किंचित्समुद्घूजितं भ्रातस्तिष्ठति
कुत्र तत्कथय मे कान्तं प्रियाया मुखम् ॥ १६१ ॥
हंसं प्रत्युक्तिः
हंस प्रयच्छ मे कान्तां गतिरस्यास्त्वया हृता । विभा-
वितैकदेशेन देयं यदभियुज्यते ॥ १६२ ॥
चकोरं प्रत्युक्तिः
चुलुकयसि चन्द्रदीधितिमविरलममंस्थासि नूनमङ्गारान् ।
अधिकरणमुष्णमनयोः किमिह चकोरावधारयसि ॥ १६३ ॥
कृष्णसारं प्रत्युक्तिः
स्नेहं स्वीकुरु कृष्णसार कथय क्वागान्मम प्रेयसी नो
जानासि यदावयोः समजने व्यापारतो मित्रता । स्फीते
यत्किल मण्डले हिमरुचेर्जातं त्वया लाञ्छनं सव्ये भास्कर-
मण्डले तदधुना दत्तः कलङ्को मया ॥ १६४ ॥
सारङ्गं प्रत्युक्तिः
रे सारङ्गा वनवसत्यस्तत्त्वमाख्यात यूयं कुत्राधीतं
त्रिभुवनमनोहारि चाञ्चल्यमक्ष्णोः । आं जानीमो गमनसमये
हन्त कान्तारसीमन्त्येकाकिन्याः कुवलयदृशो लुण्ठिता
यौवनश्रीः ॥ १६५ ॥
मयूरविषयकोक्तिः
मृदुपवनविभिन्नो मत्प्रियाया विनाशाद्धनरुचिरकलापो
निःसपत्नोऽद्य जातः । रतिविगलितबन्धे केशपाशे सुकेश्याः
सति कुसुममनाथे किं हरेदेष बर्हः ॥ १६६ ॥
मुक्ताकलापं प्रत्युक्तिः
सूचीमुखेन सकृदेव कृतव्रणस्त्वं मुक्ताकलाप लुठसि
स्तनयोः प्रियायाः । बाणैः खरस्य शतशो विनिकृत्तमर्मा
स्वप्नेऽपि तां कथमहं न विलोकयामि ॥ १६७ ॥
वियोगिन्या विप्रलापाः
हारो नारोपितः कण्ठे मया ^१विश्लेषभीरुणा । इदानी-
मन्तरे जाताः पर्वताः सरितो द्रुमाः ॥ १ ॥ बिभेमि सखि
संवीक्ष्य भ्रमरीभृतकीटकम् । यद्य्वानादागते पुंस्त्वे तेन
सार्थं रतिः कथम् ॥ २ ॥ याः पश्यन्ति प्रियं स्वप्ने
धन्यास्ताः सखि योषितः । अस्माकं तु गते कान्ते गता निद्रापि
वैरिणी ॥ ३ ॥ यदीयबलमालोक्य गतः प्रेयानवियुज्यते ।
^१ रक्तवर्णः; पक्षे,-अनुरक्तः. ^२ भ्रमराः; पक्षे,-बाणाः. ^३ कान्तापादघातः 'पादाहतः प्रमदया विकसत्यशोकः'
^१ सीतावियोगदूयमानमानसस्य सूर्यवंशमुक्तामणेः श्रीरामस्योक्तिरियम्. ^२ वियोगः.
२८४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
| वाम-भागः | दक्षिण-भागः |
|---|---|
| आलोकये कथं सख्यस्तस्य चन्द्रमसो मुखम् ॥ ४ ॥<br>विर॑मत विरमत सख्यो नलिनीदलतालवृन्तपवनेन । हृदयगतोऽयं वह्निर्नटिति कदाचिज्ज्वलत्येव ॥ ५ ॥<br>अनलस्तम्भनविद्या सुभग भवाञ्च्छितमेव जानाति । मन्मथशराग्नितप्ते हृदि मे कथमन्वथा वससि ॥ ६ ॥<br>अजनि प्रतिदिनमेषा कर्दमशेषा मदङ्गसङ्गेन । प्रतिनिशमपूरि पम्पा दक्षिणसपातिभि. सलिलैः ॥ ७ ॥<br>मदकलकृतान्तकासरखुरपुटनिधू॑तधूलिसकाशम् । केतकरजो निवार्य सखि यदि कार्ये मम प्राणैः ॥ ८ ॥<br>आलि बालिशतया बलिरस्मै दीयता बलिभुजे न कदापि । केवलं हि कलकण्ठशिशूनामेष एव कुशलेषु निदानम् ॥ ९ ॥<br>गरलद्रुमकन्दमिन्दुबिम्बं करुणावारिजवारणो वसन्त. । रजनी खरभूपतेः कृपाणी करणीयं किमत. परं विधातः ॥ १० ॥<br>हन्तालि संतापन्निवृत्तयेऽस्या किं तालवृन्तं तरलीकरोषि । उत्ताप एषोऽन्तरदाहहेतुर्नतन्वो नँ व्यजनापनोद्य ॥ ११ ॥<br>वरमसौ दिवसो न पुनर्निंशा ननु निशैव वर न पुनर्दिनम् । उभयमेतदुपैत्वथवा क्षयं प्रियजनेन न यत्र समागमः ॥ १२ ॥<br>अहमिह स्थितवत्यपि तावकी त्वमपि तत्र वसन्नपि मामकः । न तनुसगम एव सुसगमो हृदयसगम एव सुसगम. ॥१३॥<br>बकुलमालिकयापि मया न ता तनुरभूषि तदन्तरभीरुणा । तद्धुना विधिना कृतमावयोरिगिरिदरीनगरीशतमन्तरम् ॥ १४ ॥<br>दहनजा न पृथुर्दवधुर्व्यथा विरहजैव यथा यदि नेदृशम् । दहनमाशु विशन्ति कथं स्त्रियः प्रियमपामुसुपासितुमुद्दुरा. ॥ १५ ॥<br>कति न सन्ति जना जगतीतले तदपि तद्विरहाकुलितं मनः । कति न सन्ति निशाकरतारका. कमलिनी मलिनी रविणा विना ॥ १६ ॥<br>अरतिरियमुपैति नापि निद्रा गणयति तस्य गुणानन्मनो न दोषान् । विगलति रजनी न सगमाशा व्रजति तनुस्तनुता न चानुरागः ॥ १७॥<br>प्रियसखि न तथा पटीरपङ्को न च नलिनीदलमारुतोऽपि शीतः । शमयति मम देहदाहमन्तः सपदि कथा हि यथा नरेन्द्रसूनोः ॥ १८ ॥<br>एतानि निःसहतनोरसमञ्जसानि शून्यं मनः पिशुनयन्ति गतागतानि । एते च तीरतरव प्रथयन्ति तापमालम्बितोज्झिततरुग्लपितैः प्रवालै. ॥ १९ ॥<br>अन्तर्गता मदनवह्निशिखावली या सा बाधते किमपि चन्दनचर्चितेन । य. कुम्भकारभवनोपरि पङ्कलेपस्तापाय केवलमसौ न च तापशान्त्यै ॥ २० ॥<br>बत सखि कियदेतप्स्य वैरं खरस्य प्रियविरहकृशेऽस्मिन्रागिलोके तथा हि । उपवनसहकारोद्भासिभृङ्गच्छलेन प्रतिविशिखमनेनोद्दैङ्कितं काल- | कूटम् ॥ २१ ॥<br>कलयति मम चेतस्तल्पमङ्गारकल्पं ज्वलयति मम गात्रं चन्दन चन्द्रकश्च । तिरयति मम नेत्रे मोहजन्मान्धकारो विकृतबहुविकार मन्मथो मा दुनोति ॥ २२ ॥<br>रिपुरिव सखीसवासोऽय शिखीव हिमानिलो विषमिव सुधारश्मियस्मिन्दुुनोति मनोगते । हृदयमदये तस्मिन्नेदं पुनर्वलते बलात्कुवलयदृशा वाम कामो निकामनिरङ्कुश ॥ २३ ॥<br>ज्वलतु गगने रात्रौ रात्रावखण्डकलः शशी दहतु मदनः किं वा मृत्योः परेण विधास्यति । मम तु दयितः श्लाघ्यस्तातो जनन्यमलान्वया कुलममलिनं न त्वेवाय जनो न च जीवितम् ॥ २४॥<br>इदानीं तीव्रामिर्दहन इव भाभि. परिवृतो ममाश्रर्यं सूर्य किमु सखि रजन्यामुदयति । अथ सुग्धं चन्द्रः किमिति मयि तापं प्रकटयत्यनाथाना बाले किमिव विपरीतं न भवति ॥ २५ ॥<br>पिकाली वाचालीभवति बहुधाऽलीकवचने मृणाली व्यालीव व्यथयतितरामङ्गमनिश्म् । विषज्वालाजालं सखि किरति पीयूषकिरणो जगत्प्राणः प्राणानपहरति केय परिणति ॥ २६ ॥<br>मनोरागस्तीव्रं विषमिव विसर्पत्यविरतं प्रमाथी निर्धूम ज्वलति विधुतः पावक इव । हिनस्ति प्रत्यङ्ग ज्वर इव गरीयानित इतो न मा त्रातुं तात. प्रभवति न चाम्बा न भवती ॥ २७ ॥<br>आदौ हालाहलहुतभुजा दत्तहस्तावलम्बो बाल्ये शंभोर्निटिलमहसा बद्धमैत्रीनिरूढ. । प्रौढो राहोरपि मुखविषेणान्तरङ्गीकृतो यः सोऽयं चन्द्रस्तपति किरणैर्मामिति प्राँसमेतत् ॥ २८ ॥<br>भस्मीभूत कुसुमविशिख. शंभुनेत्राग्निभाभूज्ज्वालादायी तदनु मनसि प्रासजन्मा बभूव । भूयस्तस्मिन्विरहदहनैर्दाहितोऽसौ मयैवं कुत्रोत्पन्नो व्यथयति पुनर्मामहो तन्न वेद्मि ॥ २९ ॥<br>पञ्चत्व तनुरेति भूतानवहः स्वैरैर्मिलन्तु ध्रुव धातार प्रणिपत्य हन्त शिरसा तत्रापि याचे वरम् । तद्वापीषु पयस्तदीयमुकुरे ज्योतिस्तदीयाङ्गनव्योम्नि व्योम तदीयवर्त्मनि धरा तत्तालवृन्तेऽनिलः ॥ ३० ॥<br>यास्यामीति समुद्यतस्य गदित विश्रब्धमाकणितं गच्छन्दूरमुपेक्षितो मुहुरसौ व्यावृत्य तिष्ठन्नपि । तच्छून्ये पुनरागतास्मि भवने प्राणास्त एते दृढाः सख्यस्तिष्ठत जीवितव्यसनिनी दम्भादह रोदिमि ॥३१॥<br>यात्रामङ्गलसविधानरचनाव्यग्रे सखीना जने बाष्पाम्भ.पिहितेक्षणे गुरुजने तद्वत्सुहृन्मण्डले । प्राणेशस्य महीक्षर्णापिर्तदृश. कृच्छ्रादपि क्रामतः किं व्रीडाहतया मया भुजलतापाशो न कण्ठेऽर्पित ॥ ३२ ॥<br>दाक्षिण्यं मलयाानलस्य विदित शैल्यं सुधादीधितेर्वाचामेव न गोचरे मलयजस्यापि स्फुटं सौष्ठवम् । विश्लेषे तव केन मे परिचिताः |
पादटिप्पणी (Footnotes)
वाम-भागस्य:
१ विरामं कुरुत
२ एतन्नामक सर इयमपि रामोक्ति
३ नव्यो नवीनो जनस्तरुण , पक्षे,-व्यजनं तालवृन्तम्
४ दत्तम्
दक्षिण-भागस्य:
१ ललाटनेत्राग्निना
२ प्रसिद्ध
३ ग्रहणकाले सपत्कातिशयादन्तरङ्गता प्रापित इत्यर्थ
४ न्यायप्राप्तमित्यर्थ .
वियोगिन्या विप्रलापाः, नायिकां प्रति सखीवचनम् | २८५
प्राणेश तत्तत्कथाविष्कारे पुनरप्रमाणयति मामव्याहतेयं तनुः ॥ ३३ ॥ दुर्वार्यः खरमार्गणाः प्रियमतमो दूरे मनोऽत्युत्सुकं गाढं प्रेम नवं वयोऽतिकठिनाः प्राणा कुलं निर्मलम् । स्त्रीत्वं धैर्यविरोधि मन्मथसुहृत्काल कृतान्तोऽक्षमी नो सख्यश्चतुराः कथं नु विरह सोढव्य इत्थ मया ॥ ३४ ॥ शंवत्त्वग्विबोधवत्कुसुमवत्पीयूषवन्मित्रवद्ध्यानासन् भजति प्रिये मृगदृशोऽथ प्रस्थिते तत्क्षणात् । गेह तन्मुकुर तदेव वलयं तच्चन्दनं सा निशा कारावत्करवालवत्ककचवत्काकोलवत्कालवत् ॥ ३५ ॥ रोलम्बो मधुपः पिकस्तु परभृद्रन्धानुसारी मरुद्भूमा केवलञ्चपातनिरताश्चन्द्रोऽपि दोषाकर । चेतो नैति शुकस्त्विहैकरतितास्त्यायौ पयोदो जडः क वाहं प्रहिणोमि हन्त कठिनस्वान्ताय कान्ताय मे ॥ ३६ ॥ आयाता मधुयामिनी यदि पुनर्नायात एव प्रभुः प्राणा यान्तु विभावसौ यदि पुनर्जन्मग्रह प्रार्थये । व्याधः कोकिलबन्धने हिमकरध्वंसे च राहुग्रहः कंदर्पे हरनेत्रदीधितिरह प्राणेश्वरे मन्मथ ॥ ३७ ॥ रात्रिर्मे दिवसाायते हिमदुरुचिश्चण्डांशुलायते तारापङ्क्तिरपि प्रदीप्तवडवावह्निस्फुलिङ्गायते । धीरो दक्षिणमारुतोऽपि दहनज्वालावलीदायते हा हा चन्दनबिन्दुरद्य जलवत्सञ्चारिरङ्गायते ॥ ३८ ॥ गुञ्जन्ति प्रतिगुञ्जमम्बुजदलद्रोणीषु भृङ्गाङ्गनाः फुल्लपुष्परसालवीथिशिखरे कूजन्ति माध्वयिकाः । काम काममयं करोति विशिखैर्हन्तु सुहृद्दुर्दिनं का सा तन्मल्यानिलस सखि मे भीतिस्तयोद्भाव्यते ॥ ३९ ॥ रोलम्बाः परिपूरयन्तु हरितो झङ्कारकोलाहलैर्मन्द मन्दमुपैतु चन्दनवनीजातो नभस्वानपि । माद्यन्तः कलयन्तु चूतशिखरे केलीपिकाः पञ्चमं प्राणाः सत्वरमश्मसारकठिना गच्छन्तु गच्छन्त्वमी ॥ ४० ॥ वार्यन्ता मन्दमन्दं मधुकरनिकरप्रौढझङ्कारधारा क्षिप्यन्ता यत्र कुत्र प्रतिदिशमधुना भूरिभाराश्च हाराः । दह्यन्ता सर्व एते कमलदल्युताः किं च हा पुष्पभारस्तारा द्वाराद्यधारा विकिरति हृदये मन्मथोऽयं हताशः ॥ ४१ ॥ श्रुत्वा नामापि यस्य स्फुटघनपुलकं जायतेऽङ्गं समन्ताद्दृष्ट्वा यस्याननेन्दुं भवति वपुरिदं चन्द्रकान्तानुकारि । तस्मिन्नागल्य कण्ठग्रहणसरभसस्थायिनि प्राणनाथे भग्ना मानस चिन्ता भवति मम पुनर्वज्रमय्याः कदा नु ॥ ४२ ॥
मदनं प्रत्युक्तयः
हृदयमाश्रयसे यदि मामकं ज्वलयसीत्थमसङ्ग तदेति कम् । स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि हताश हुताशवत् ॥ ४३ ॥ जटा नेयं वेणीकृतकचकलापो न गैरलं गले कस्तूरीयं शिरसि शशिलेखा न कुसुमम् । इयं भूतिर्नाङ्गे प्रियविरहजन्मा धवलिमा पुरारातिभ्रान्त्या कुसुमशर किं मा व्यथयसि ॥ ४४ ॥ पञ्चत्वं यान्तु बाणाः समयपरिणतस्ते विदीर्णोऽस्तु चाप क्रूरः क्रूराहियन्त्रं विशतु तव रथो मा भव त्व शरीरी । किं ते शापेन मादृग्युवतिवधमहापातकन्मीनकेतो शय्यः पाथोजयोनिः स खलु रचितवान्पापिनो दीर्घमायुः ॥ ४५ ॥
चन्द्रं प्रत्युक्तयः
संतापय चिर चन्द्र न तत्र प्रतिषिध्यसे । निवारय करस्पर्शं गमस्राहु परिग्रह ॥ ४६ ॥ मुग्धस्य ते वद विधुंतुद किं वदामि किं त्यक्तवानसि मुखे पतित शशाङ्कम् । अस्यार्द्रविम्बगलितेन सुधारसेन सधानमेति तव किं न जरत्कबन्धः ॥ ४७ ॥ प्रियविरहमहोष्माधर्मरामङ्गलखामपि हतक हिमांशो मा स्पृश क्रीडयापि । इह हि तव लुठन्तः श्लोषपीडा भजन्ते दरजरठमृणालीकाण्डमुग्धा मयूखाः ॥४८॥
रोहिणी प्रत्युक्तिः
भो रोहिणि त्वमसि रात्रिचरस्य भार्याऽथैनं निवारय पति सखि दुर्निवारम् । जालान्तरेण मम सद्मनि सनिविष्टः श्रोणीतटं स्पृशति किं कुलधर्म एषः ॥ ४९ ॥
नायिकां प्रति सखीवचनम्
वियोगवहिकुण्डेऽस्मिन्हृदये ते वियोगिनि । प्रियसङ्गसुखायैव मुक्ताहारस्तपस्यति ॥ १ ॥ पाण्डु क्षाम वदनं हृदयं सरस तवालस च वपुः । आवेदयति नितान्त क्षेत्रियरोगं सखि हृदन्त ॥ २ ॥ सखि पतिविरहहुताश किमिति प्रशम न याति नैनोदैः । शृणु कारण नितम्बिनि मुञ्चसि नयनोदक तु सस्नेहम् ॥ ३ ॥ सहसा हृदये निधाय चेतो नयनादिन्द्रियमुद्रणा विधाय । अयि कण्टकिताङ्गयष्टि सत्य कथय ध्यायसि कि रहो निष्षणा ॥ ४ ॥ सहचरि शपथाः शतं मदीया वद विरहगलपिताः निजामवस्थाम् । सहचरि परिपृच्छ भानुकन्यानवदलिनीनलिनीनिकुञ्जशय्या ॥ ५ ॥ नलिनीदलतालवीजन सखि तन्व्या विनिवारित मया । तनुवलिविभूतिशङ्कया विनिवार्य श्वसितानिलः कथम् ॥ ६ ॥ अयं विपाको वद कस्य यूनां कल्याणि कल्याणपरम्पराणाम् । यदक्षिकोग्नस्रवदच्छधाराहारावतारो गुणमन्तरेण ॥ ७ ॥ वासस्तदेव वपुषो वलयं तदेव हस्तस्य मैव जघनस्य च रत्नकाञ्ची । वाचालभृङ्गसुभगे सुरभौ समस्तमथ्याधिक भवति ते सखि कि निदा-
१ मधप २ विषम्
१ भस २ पाण्डुरता ३ शिवभ्रान्त्या ४ मुक्तस्त्यक्त आहारो येन, पक्षे,-मुक्ताना मौक्तिकाना हार ५ पत्युर्विरहो वियोग एव हुताशोऽग्नि ६ नेत्रोदकै अश्रुभिरिति यावत्
२८६ | सुभाषितरत्नभाण्डागारम् | [ ६ प्रकरणम्
नम् ॥ ८ ॥ उत्पादयत्यलमियं मनसो विषादं सीदत्सरो- रुहनिभं वदनं त्वदीयम् । ज्ञात्वा निदानमहमत्र समान- दुःखा प्राणैरपि प्रियतमे भवितुं समीहे ॥ ९ ॥ अनुदिन- मधिकं ते कम्पते कायवल्ली शिव शिव नयनान्तं नाश्रु- धारा जहाति । कथय कथय कोऽय यत्कृते कोमलाङ्गि त्यजति न परिणद्धं पाण्डिमानं कपोलः ॥ १० ॥ विलुलित- मतिपूर्वैर्बाष्पमानन्दशोकप्रभवमवसृजन्ती तृष्णयोचानदीर्घा । स्रपयति हृदयेश स्नेहनिष्यन्दिनी ते धवलबहुलमुग्धा दुग्धकुल्येव दृष्टि ॥ ११ ॥ अविकरतलतल्पं कल्पितस्वाप- लीलापरिमिलननिमीलत्पाण्डिमा गण्डपाली । सुतनु कथय कस्य व्यञ्जयत्यञ्जसैव स्मरनरपतिलीलायौवराज्याभिषेकम् ॥ १२ ॥ अलमवलितैः प्रेमार्द्राद्रैर्मुहुर्मुहुलीकृतैः क्षणमभि- मुखैर्लज्जालोलैर्निमेषपराङ्मुखैः । हृदयनिहितं भावाकूतं वमद्भिरिवेक्षणैः कथय सुकृती कोऽय मुग्धे त्वयाद्य विलो- क्यते ॥ १३ ॥ भगिनि मदन. श्रीमानेष त्वया यदि लिख्यते किमपि सुमुखि व्यग्रासीति व्रजामि निजालयम् । यदपि मकरोध्वस्तात्पौष करे च शरासन तदपि परितो दृष्टिर्देया जनः सखि नामरः ॥ १४ ॥ गोपायन्ती विरह- जनितं दु खमग्ने गुरूणा किं त्वं मुग्धे नयनगलितं वाष्प- पूर रुणत्सि । नक्तं नक्तं नयनसलिलैरेष आर्दीकृतस्ते शय्योपान्त. कथयति दशामआतपे शोष्यमाणः ॥ १५ ॥ शोणौ कोणौ सखि नयनयोरुद्यतौ गोपनाय शङ्कामेव स्फुटय- तितरा स्वेदबिन्दुप्रचार. । अन्त: प्रेमाङ्कुरपरिकरारम्भकं कन्दमस्या. किंचिकित्कथयति पुन. कापि दिव्या मुखश्रीः ॥ १६ ॥ मुक्ताहार न च कुचगिरे. कङ्कणं नैव हस्तात्कर्णात्स्वर्णाभरणमपि वा नीतवान्नैव तावत् । अहो स्वप्ने बकुलकुसुम भूषणं सदधान. कोऽयं चौरो हृदयमहर- त्तन्वि तन्न प्रतीम. ॥ १७ ॥ साय दामग्रथनसमये लग्नया कर्णमूले सख्या मन्दस्मितसुभगया सादर सूच्य- मानः । धन्य. कोऽयं कमलनयने यत्कथाया. पुरस्ता- दङ्गुल्यग्र निजमपि मुहुः सूचिविद्ध न वेत्सि ॥ १८ ॥ मुखे पाण्डुच्छायां नयनयुगल बाष्पतरलं तनु. क्षामक्षामा गतमविशद धैर्यविगम । हियं मुक्त्वा मूढे कथयसि न मे सारवचनान्यवस्था येनेयं तव सखि मुहूर्तेन पतिता ॥ १९ ॥ पक्ष्माग्रग्रथिताश्रुबिन्दुनिकरैर्मुक्ताफलस्पर्धिभिः कुर्वत्या हरहासहारि हृदये हारावलीभूषणम् । बाले बाल- मृणालनालवलयालङ्कारकान्ते करे विन्यस्याननमायताक्षि सुकृती कोऽयं त्वया स्मर्यते ॥ २० ॥ आसन्नामवलम्ब्य केसरलतामेकेन पुष्पोज्ज्वला सव्यं निःसहया नितम्बफलके कृत्वा कराम्भोरुहम् । आमीलन्नयनान्तवान्तसलिलं श्लाघ्यस- निन्द्यस वा कस्येद दृढसौहृदे प्रतिदिनं दीनं त्वया स्मर्यते ॥ २१ ॥ उज्जृम्भाननमुल्लसत्कुचतटं लोलभ्रमङ्गूलतं स्वेदाम्भःस्नपिताङ्गयष्टि विगलद्व्रीडं सरोमाञ्चया । धन्यः कोऽपि युवा स यस्य वदने व्यापारिताः साप्रतं मुग्धे दुग्ध- महादधिफेनपटलप्रख्याः कटाक्षच्छटा ॥ २२ ॥ मुग्धे दोर्लतिका विधाय न कृतो द्वारोपरोधस्त्वया लग्ना नो रुदती गतासि रमसात्तस्योत्तरीयांशुके । कालेऽस्मिन्कुसु- माकरे द्विगुणितप्रेमोत्सवे रागिणा गच्छन्नग्रत एव मूढ- हृदये मुक्तस्त्वया वल्लभः ॥ २३ ॥ विश्रान्तो दिवसस्तटी- मयमटत्यस्ताचलस्यांशुमान्प्रत्यङ्गङ्कुरितान्धकारपटलैर्लम्भालका द्यौरभूत् । एखन्तर्विश वेश्मन. शशिमुखि द्वारस्थली- तोरणस्तम्भालम्बितबाहुवल्लि रुदती किं स्वं पथः पश्यसि ॥ २४ ॥ आहरे विरतिः समग्रविषयग्रामे निवृत्ति. परा नासाग्रे नयन यदेतदपर यच्चैकतान मनः । मौनं चेदमिद च शून्यमखिलं यद्विश्वमाभाति ते तद्भूया सखि योगिनी किमसि भो. किं वा वियोगिन्यसि ॥ २५ ॥ यत्तालीदल- पाकपाण्डु वदनं यद्दुर्दिनं नेत्रयोर्यत्प्रेङ्खोलितकेलिपङ्कजवनाः श्वासाः प्रसर्पन्ति च । गौरी कुध्यतु वर्तते यदि न ते तत्कोऽपि चित्ते युवा विग्धिकत्वा खलु पांसुखेलनसखी- लोकेऽपि यन्निह्नवः ॥ २६ ॥ क्षामं गात्रमतीव पाण्डु वदनं क्लिष्टा कपोलस्थली कोऽसौ चेतसि वर्तते तव युवा लोकैक- मान्याकृति. । त्यक्त्वा किंचिदपत्रपा कथय मे खिन्नासि किं त्वं वृथा घोरैः पञ्चशरो यदि त्वमबला वक्ष्यामि नातः परम् ॥ २७ ॥ चिन्ताभिः स्तिमितं मनः करतले लीना कपोलस्थली प्रत्यूषक्षणदेशपाण्डुवदनं श्वासैरुखिन्नोऽधर. । अम्भःशीकरपद्मिनीकिसलयैर्नापैति तापः शम कोऽस्याः प्रार्थितदुर्लभोऽस्ति सहते दीना दशामीदृशीम् ॥ २८ ॥ लावण्यद्रविणव्ययो न गणित. क्लेशो महानर्जितः स्वच्छन्दं चरतो र्जनस्य हृदये चिन्ताज्वरो निर्मितः । एषापि स्वगु- णानुरूपरमणामभावाद्वराकी हता कोऽर्थश्चेतसि वेधसा विनि- हितस्तन्वीमिमा तन्वता ॥ २९ ॥ जानीमस्तव गौरि चेतसि चिर शंभु. समुज्जृम्भते तापो नेत्रतनूनपादिव तनौ तीव्र समुन्मीलति । अक्ष्णोरूष्मविषेण गच्छति बहिर्गङ्गातर- ङ्गावलिः पाण्डिम्यः कपटेन चन्द्रकलिकाकान्तिः समुन्मीलति ॥ ३० ॥ न प्रीतिः पवने रतिर्न रसने प्रेमा न पङ्केरुहे न स्नेहः कुसुमे सुख न शयने यत्नो न वा जीवने । चन्द्रे नैव चमत्कृतिमृगयते मोदो न मौनव्रते तेने तेन कियास्त- पस्तरुणिमा यस्मै तवेय दशा ॥ ३१ ॥ मातः कं हृदये
१ उदासीनस्येत्यर्थ २ दीना
दूती प्रति स्वावस्थाकथनम्, नायकं प्रति दूतीप्रेषणम्, नायकस्याग्रे दूत्युक्तयः २८७
निधाय सुचिर रोमाञ्चिताङ्गी मुहुर्जृम्भा मन्थरतारका सुल- लितापाङ्गा दधाना दृशम् । सुप्तेवालिखितेव शून्यहृदया लेखाविशेषीभवत्सात्मद्रोहिणि किं हिया कथय मे गूढो निहन्ति स्मर ॥ ३२ ॥ श्वासास्ते सखि सूचयन्त्यविरताः संतापबाधा परं विस्रस्तत्र न कारणं वयमिति स्वान्तेऽतिचिन्ताभरः । किं वा धर्मनिपीडिता तव तनूवली निकाशं प्रिये पुष्पाद्- प्यतिकोमलो मलिना यातो मृणाली यथा ॥ ३३ ॥
दूती प्रति स्वावस्थाकथनम् ।
अष्टिसवीक्षणं चक्षुरद्विसमीलनं मनः । अष्टिसस्पर्शनः पाणिग्द्य मे किं करिष्यति ॥ १ ॥ हन्त कान्तमपि तं दिदृक्षते मानस मम न साधु यत्यते । इन्दुरिन्दुमुखि मन्दमारुतश्चन्दन च वितनोति वेदनाम् ॥ २ ॥ तुष्यन्तु मे छिद्रमवाप्य शत्रव करोतु मे शान्तिभर गृहेश्वर । मणिस्तु वक्षोरुहमध्यभूषणं ममास्तु सौन्दर्यनिकेतनं प्रिय ॥ ३ ॥ कालो मधु कुपित एष च पुष्पधन्वा धीरा वहन्ति रतिखेदहरा समीगः । केलिवनीयमपि वञ्जुलकुञ्ज- मञ्जुर्दुरे पतिः कथय किं करणीयमद्य ॥ ४ ॥ कान्त कृतान्तरित. कुटिला तदम्बा वज्रोपमानि वचनानि च दुर्जनानाम् । प्रत्यक्ष मन्तर्गतनोः प्रहरन्ति बाणा प्राणा पुनः सखि वहिर्न खलु प्रयान्ति ॥ ५ ॥ अकस्मादेकस्मि- न्यथि सखि मयासुं वनतट व्रजन्त्या दृष्टो यो नवजलधरश्या- मलतनु । स दृग्भञ्ग्या कि वाकुरुत नहि जाने तत इदं मनो मे व्यालोलं क्वचन गृहकृत्ये न वलते ॥ ६ ॥ गते प्रेमाबन्धे प्रणयबहुमाने विगलिते निवृत्ते सद्भावे प्रणयिनि जने गच्छति पुर । तदुत्प्रेक्ष्योत्प्रेक्ष्य प्रियसखि गतास्ताश्च दिवसान्न जाने को हेतुर्दलति शतधा यन्न हृदयम् ॥ ७ ॥ स्वामी कुप्यतु कुप्यता परिजनो निन्दन्तु मामन्यवत्कि शावत्प्रथतामयं तु जगति प्रौढो ममोपद्रव । आश्वास पुन- रेतदेव यदिदं चक्षुश्चिर वर्षता येनेद परिचीयते मुररिपोः सौन्दर्यसार वपुः ॥ ८ ॥ निःस्नेह. पतिरुज्झिता करुणया श्वश्रूरजसं वृथा वाग्बाणैर्हृदय भिनत्ति कलहोत्ताला पुन- र्यातर । नित्य निन्दति नैव नन्दति कदाप्येषा ननान्दापि तन्मातः कं शरणं व्रजामि तरुणी दीनाहमेकाकिनी ॥ ९ ॥ किं स्वप्न किमु जागर किमथवा रात्रि किमासीद्दिनं मोहावस्थितया मया न किमपि ज्ञात किमेतत्सवखि । यन्नाम- श्रवणादनन्तरमिद वृत्तं तमेव प्रियं चेतो दुर्लभमप्यपास्त- सकलव्यापारमाकाङ्क्षति ॥ १० ॥
नायकं प्रति दूतीप्रेषणम् ।
अपूजितेवास्तु गिरीन्द्रकन्या कि पक्षपातेन मनोभवस्य । यद्यस्ति दूर्नी सरमोक्तिदक्षा दास पति पादतले वधूनाम् ॥ १ ॥ न च मेऽवगच्छति यथा लघुता करुणा यथा च कुरुते स मयि । निपुणं तथैनमवगम्य वदेरभिदूति काचि- दिति सदिदिशे ॥ २ ॥ ननु मदिष्टेति मह्नोदितया त्रपया न किंचन किलाभिदवे । निजमैक्षि मन्दमनिर्श निग्रितै कृशितं शरीरमशरीरशरै ॥ ३ ॥ दिशि दिशि परिहासगूढगर्भाः पिशुनगिरो गुरुगञ्जनं च तादृक् । सहचरि हृदये निवेदनीयं भवदनुरोधवशाय विक्राकः ॥ ४ ॥ वृथा गाथाश्लोकेरल्म- लमलीका मम रुजं कदाचिद्धूर्तोऽसौ कविवचनमित्याकल- यति । इदं पार्श्वे तस्य प्रहिणु परिलाञ्जनचयस्रवद्वाष्पो- त्पीडस्थगितलिपि ताटङ्कयुगलम् ॥ ५ ॥ वाच्यं तस्मै सह- चरि भवद्विरहविशेषवह्वौ स्नेहेरेंद्रे मम वपुरिढं कामहोता जुहोति । प्राणान्स्रै तदिहसुचिता दक्षिणा दातुमीहे तत्रा- देशो भवतु भवता यत्त्वमेषामधीश ॥ ६ ॥ जीवामीति वियोगिनी यदि लिखेत्तत्रैव वृत्ता. कथा अद्य श्रोऽथ मरि- ष्यतीति मरणे कालात्ययः किं कृतः । आगन्तव्यमिहेति सप्रति सखे सभावना निष्फला भ्रात. सप्रति याहि नास्ति लिखितं तद्देहि यत्ते क्षमम् ॥ ७ ॥ उल्लङ्ख्यापि सखीवचः समुचितामुल्लङ्घ्य लजामलं भित्वा भीतिमर निरस्य च निजं सौभाग्यगर्व मनाक् । आज्ञा केवलमेव मन्मथगुगे- रादाय नूतं मया त्व निःशेषविलासिवर्गगणनाचूडामणिः सभूत ॥ ८ ॥ दूति त्वं तरुणी युवा स चपलः श्यामा- स्तमोभिर्दिश संदेशक स रहस्य एव विपिने सकेतकावासक । भूयोभूय इमे वसन्तमरुतश्चेतो नयन्त्यन्यथा गच्छ क्षेम- समागमाय निपुणे रक्षन्तु ते देवता ॥ ९ ॥
नायकस्याग्रे दूत्युक्तयः ।
सुभग त्वत्कथारम्भे कर्णकण्डूतिलालमा । उज्जृम्भव- दनाम्भोजी मिनत्यङ्गानि साङ्गना ॥ १ ॥ त्वयि दृष्टे कुर- ङ्गाक्ष्याः समते मदनव्यथा । यथा हृदयमाजीन्दौ ग्लानि. कुमुदसद्हते ॥ २ ॥ विरहे तव तन्वङ्गी कथ क्षपयतु क्षपाम् । दारुणव्यवसायस्य पुरस्ते भणितेन किम् ॥ ३ ॥ सा सुन्दर तव विरहे सुतनुरियन्मात्रलोचना सपदि । एता- वतीमवस्था याता दिवसैरियन्मात्रै. ॥ ४ ॥ तव विरहे विधुवदना मदनाधिक का न सीदन्ति । सीदसि विरहे यस्या साधु तपस्याफलं तस्याः ॥ ५ ॥ प्राणेश तव विरहिणी हिमकरकिरणेषु हर्म्यमिलितेषु । सतापनिशाङ्गी मुञ्चति
२८८ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
निचयं चकोराणाम् ॥ ६ ॥ अनयनपथे प्रिये न व्यथा यथा दृश्य एव दुष्प्रापे । म्लानेव केवलं निशि तपन- शिला वासरे ज्वलति ॥ ७ ॥ मा सर्वथैव रक्ता रागं गुञ्जेव न तु मुखे वहति । वचनपटोस्तव रागः केवलमास्ते शुकस्येव ॥ ८ ॥ न सवर्णा न च रूपं न सस्क्रिया नैव सा प्रकृतिः । बाला त्वद्विरहापदि जातापभ्रंशभावेव ॥ ९ ॥ मा विरहदहनदूना मृत्वा मृत्वापि जीवति वराकी । मारीव कितव भवतानुकूलिता पातिताक्षेण ॥ १० ॥ गायति गीते शंसति वंशे वादयति मा विपञ्चीषु । पाठयति पञ्जरशुकं तव संदेशाक्षरं रामा ॥ ११ ॥ तव विरहमसहमाना सा तु प्राणान्विस्रुक्तवती । किंतु तथाविधमङ्गं न सुलभमिति ते न मुञ्चन्ति ॥ १२ ॥ अभिनवनलिनीकिसलयमृणालवल- यादि दवदहनराशिः । सुभग कुरङ्गदृशोऽस्या विधिवश- तस्त्वद्वियोगपविपाते ॥ १३ ॥ त्वद्विरहे विस्तारितरजनौ जनितेन्दुचन्दनद्वेषे । बिसिनीव माघमासे विना हुताशेन सा दग्धा ॥ १४ ॥ या दक्षिणा त्वमस्यामदक्षिणो दक्षिण- स्तदितरस्याम् । जलधिरिव मध्यस्थो न वेलयो सदृश- माचरसि ॥ १५ ॥ अनुगगवर्तिना तव विरहेणोग्रेण सा गृहीताङ्गी । त्रिपुररिपुणेव गौरी वरतनुरर्धावशिष्टेव ॥ १६ ॥ अगणितगुणेन सुन्दर कृत्वा चारित्रमप्युदासीनम् । भवता- नन्यगतिः सा विहितावर्तैन तरणिरिव ॥ १७ ॥ कितव प्रपञ्चिता सा भवता मन्दाक्षमन्दसञ्चारा । बहुदायैरपि संप्रति पाशकसारोव नायाति ॥ १८ ॥ रुष्टे का परपुष्टे मन्दे का हन्त मारुते चर्चा । त्वयि गतवति हृदग्रेशे जीवनदा- ताप जीवनं हरति ॥ १९ ॥ कुशलं तस्या जीवति कुशलं पृच्छामि जीवतीत्युक्तम् । पुनरपि तदेव कथयसि मृता न कथयामि या श्वसिति ॥ २० ॥ उह्वयते नतभ्रूः पक्ष्मनि- पातोद्धवै पवनैः । इति निर्निमेषमस्या विरहव्यथया विलोकत वदनम् ॥ २१ ॥ त्वयि दृष्ट एव तस्या निर्वति मनो मनोभवज्वलितम् । आलोके हि हिमाशोर्विकसति कुमुदं कुमुदत्याः ॥ २२ ॥ तव विरहे हरिणाक्षी निरीक्ष्य नवमालिका दलिताम् । हन्त नितान्तामिदानीमा कि हतजल्पितैरथवा ॥ २३ ॥ स्मरशरशतविधुराया भणामि सख्याः कृते किमपि । क्षणमिह विश्राम्य सखे निर्दयहृद- यस्य किं वदाम्यथवा ॥ २४ ॥ तव विरहे मलयमरुद्वा- नलः शशिरुचोऽपि सोष्माण । हृदयमरुतमपि भिन्ते नलिनीदलपि निदाघघ्नरिक्थाः ॥ २५ ॥ व्यजनं व्यजनं जलं जलं घनसारो घनसार इत्यपि । अवरोधगृहेषु सुभ्रुवा कुररीणामिव कातरो ध्वनिः ॥ २६ ॥ मम रूपकीर्तिमह- रद्धवि यस्तदनुप्रविष्टहृदयेयमिति । त्वयि मत्सरादिव निरस्त- दय सुतरा क्षिणोति खलु ता मदन ॥ २७ ॥ तव सा कथासु परिघट्टयति श्रवणं यदङ्गुलिसुखेन मुहु. । घनता ध्रुव नयति तेन भवद्गुणपूगपूरितमनुसततया ॥ २८ ॥ उपताप्य- मानमलघूष्णिमभि श्वसितै सितेतरमरोजदृश । द्रवता न नेतुमधर क्षमते नयनागयल्लिदलरागम. ॥ २९ ॥ दधति स्फुट रतिपतेरिषव शितता यदुत्पलपलाशदृशः । हृदयं निरन्तरबृहत्कठिन स्तनमण्डलावरणमप्यभिनत् ॥ ३० ॥ कुसुमादपि स्मितदृश सुतरा सुकुमारमङ्गमिति नापरथा । अनिश निजैररुण करुण कुसुमेषुरुत्तपति यद्विशिखैः ॥३१॥ विषता निषेवितमपक्रियया समुपैति सर्वमिति सत्य- मदः । अमृतम्रुतोऽपि विरहाद्भवतो यदमूं दहन्ति हिम- रश्मिरुचः ॥ ३२ ॥ उदित प्रिया प्रति सहार्दामति श्रदधीयत प्रियतमेन वचः । विदितेङ्गिते हि पुर एव जने समुदीरितां खलु लगन्ति गिरः ॥ ३३ ॥ त्व विनिर्जितमनोभवरूपः सा च सुन्दर भवत्यनुरक्ता । पञ्चभिर्युगपदेव शरैस्ता तापयत्यनुशयादिव काम ॥ ३४ ॥ क्षणमपि विरह. पुरा न सेहे नयननिमीलनखिन्नया यया ते । श्वसिति कथमसौ रसालशाखा चिगविरहेण विलोक्य पुष्पिताग्राम् ॥ ३५ ॥ सखि दयितमिहानयेति सा मा प्रहितवती कुसुमेषुणामितसा । हृदयमहृदया न नाम पूर्वं भवदुपकण्ठमुपागत विवेद ॥३६॥ चिरमपि कलितान्यपारयन्त्या परिगदितु परिशुष्यता मुखेन । गणधुण गमितानि सत्सखीना नयनयुगे. सम्मा- र्दुता मनासि ॥ ३७ ॥ अचकमल मपष्ठवा धरित्री मृदु सुरभि विरहय्य पुष्पशय्याम् । भृशमग्तिमवाप्य तत्र चासास्तव सुखशीतसुपेलुमङ्गमन्छा ॥ ३८ ॥ हारावशेषा ननु कण्ठनाला त्वन्नामशेषा रसना तदीया । लावण्यशेषा तनुमात्रयष्टिस्त्वद्ध्यानशेष परम् तदायु ॥ ३९ ॥ तस्या महाविरहवहिशिखाकलापतंते स्थितोऽसि हृदये सततं प्रियाया. । प्रालेयशीकरममे हृदि सा कृपालो बाला क्षण वसति नेव खलु त्वदीये ॥ ४० ॥ अङ्गानि मे दहतु कान्त- वियोगवह्निः सरक्षता प्रियतमो हृदि वर्तते य. । इत्याशया शशिमुखी गलदश्रुबिन्दुधारामिरुष्णमसिषिञ्चति हृत्प्रदेशम् ॥ ४१ ॥ संकेतकुञ्जभुवि सा शयनोपधानव्यालकृत सुभग कुण्डलिन न वेद । तक्रण्ठलभघनचन्दनगन्धलुब्धस्तत्रैव निश्चलमुवाम चिराय सोऽपि ॥ ४२ ॥ राकासुधाकरकरे- र्नालिनीदलैश्च नीहारहारघनमारुतैः किमेन. । कि वा भयेन हरिचन्दनपङ्कसेकैर्न त्वा विना मृगदृशः परितापशान्तिः ॥ ४३ ॥ त्वामञ्जनीयति कलासु विलोकयन्नि त्वा शृण्वती कुवलयीयति कर्णपूरम् । त्वा पूर्णमाविधुमुखी हृदि भाव- यन्ती वक्षोनिलीननयनीलमणीकरोति ॥ ४४ ॥ अविरल-
नायकस्याग्रे दूत्यूक्तयः २८९
परिवाहैर्हग्भ्रुवः मार्गणा दग्धदहनशिखोष्णश्वामपूरैश्च
तस्याः । सुभग बत कृशाङ्गया स्पर्धयान्योन्यमेभि कियत इव
पुगेभू पङ्किला पासुला च ॥४५॥ शरद्वधुनिमित्तं गूढमुन्नेतु-
मस्याः सुभग तव कथाया प्रस्तुताया सखीभि । भवति वि-
ततपृष्ठोदस्तपीनस्तनाग्रा ततवलयितबाहुर्गुम्भितै साङ्गभङ्गैः
॥ ४६ ॥ विपुलपुलकपालि. स्फीतसीत्कारमन्तर्जनित-
जडिमकाकुव्याकुलं व्याहरन्ती । तव कितव विधायागन्द-
कन्दर्पचिन्तारसजलनिधिमग्ना ध्यानलब्धा मृगाक्षी ॥ ४७ ॥
अङ्गेऽनङ्गज्वरहुतवहश्वश्रुष्वि ध्यानमुद्रा कण्ठे जीव कर-
किसलये दीर्घशायी कपोलः । असे वेणी कुचपरिसरे
चन्दनं वाचि मौनं तस्या. सर्वं स्थितमपि न तु त्वा विना
क्वापि चेत. ॥ ४८ ॥ कि पृष्टेन द्रुततरमितो गम्यता सा
प्रिया ते दृष्टा मार्गे दिवसमखिलं मान्त्रमेका मयैवम् ।
पान्थे पान्थे त्वमिति रभसोद्ग्रीवमालोकयन्ती दृष्टे दृष्टे न
भवति भवानित्युदश्रुं वलन्ती ॥ ४९ ॥ चित्रोत्कीर्णादपि
विषधराद्भीतिभाजो निशाया किं नु ब्रूमस्त्वदभिगमणे
साहस नाथ तस्याः । ध्वान्ते यान्त्या यदतिनिभृत बालया
सप्रकाशास्ताल्र्पणिः पथि फणिफणारत्नरोधी व्यधायि
॥ ५० ॥ यावद्यावद्भवति कल्या पूर्णकाम शशाङ्कस्ताव-
त्तावच्चुतिमयवपुः क्षीयते सा मृगाक्षी । मन्ये धाता घट-
यति विधु सारमादाय तस्यास्तस्याद्यावन्न भवति सखे
पूर्णिमा तावदेहि ॥ ५१ ॥ हस्ताम्भोजे वदनमलका नाय-
तान्बाहुमूले द्वारि स्वैर नयनमधरे तर्जनी सनिधाय ।
दीर्घोन्च्छ्वास विरतिवश्या स्वादमुत्कण्ठितोष्ण मृगधिक्षा त्वा
ह्लादे विदधती बाष्पमाविष्करोति ॥ ५२ ॥ आद्यः कोप-
स्तदनु मदनस्त्वद्वियोगस्तृतीय. शान्त्यै दूतीवचनमपर.
पञ्चम. शीतभानु. । इत्थं बाला निरवधि पर त्वा फलं प्रार्थ-
यन्ती हा हा पञ्चज्वलनमधुना सेवते योगिनीव ॥ ५३ ॥
धातु. शिल्पातिशयनिकषस्थानमेषा मृगाक्षी रूपे देवोऽप्यय-
मनुपमो दत्तपादः खरस्वे । जातं दैवात्तदशमनयो. सगत
यच्चदेतच्छृङ्गारस्योपनतमधुना राज्यमेकातपत्रम् ॥ ५४ ॥
अभ्रध्वानैर्मुखरितदिशः श्रेणयस्तोयदाना धारासारैर्धरणि-
वलयं सर्वतः प्लावयन्ति । तेन स्नेहं वहति विपुलं मत्स्सखीयुक्त-
मेतत्त्वं निःस्नेहो यदसि तदिदं नाथ मे विस्मयाय ॥ ५५ ॥
प्रादुर्भूते नवजलधरे त्वत्पथं दृष्टकामा. प्राणाः पङ्केरुहदल-
दृश. कण्ठदेशं प्रयान्ति । अन्यत्किं वा तव मुखविधुं
द्रष्टुमुड्डीय गन्तु वक्ष पक्ष सृजति बिसिनीपल्लवस्य च्छलेन
॥ ५६ ॥ गृहीतं ताम्बूल परिजनवचोभिः कथमपि
स्मरत्यन्त.शून्या सुभग तव मूर्तिं प्रतिदिनम् । तथैवास्ते
हस्तः कलितफणिगल्लीकमलयस्तथैवासीनस्याः क्रमुकफल-
कालीपरिचितम् ॥ ५७ ॥ गलत्येका मूर्च्छा भवति पुनरन्या
यदनगो किमप्यासीन्मध्ये सुभग सकलायामपि निशि ।
लिखन्त्यास्तत्तस्या कुसुमशरलेखं तव कृते समाप्ति
स्वस्तीति प्रथमपदभागोऽपि न गतः ॥ ५८ ॥ सखीभिक्षा
याचे बत नतगिरास्त्वामिदमहं न चेदस्ति प्रीति. कुरु
तदपि कारुण्यकणिकाम् । अवस्था मा तस्या. सुकृतमय-
मस्या किमपर प्रमोहो विश्रामस्त्वमथ मरण वा प्रतिकृतिः
॥ ५९ ॥ विमुञ्चन्त्या प्राणांश्चिरविरहदुःखासहनया तथा
संदिष्टं ते कठिनहृदयापश्चिममिदम् । अपलं बालैका मम
विधिहतायाः सलिलदा तथा नेय सेव्या व्यसनरुचये
दीयत इति ॥ ६० ॥ न हार नाहार कलयति विहार
विषमिव खरन्ती सा गभा सुभग भवतश्चागमदिनम् । पर
क्षीणा दीना परमसुवहीना सुवदना कुदृपक्ष्मल्लौवचपल-
नयनाङ्गीकृतगतिः ॥ ६१ ॥ क्षण मूर्च्छामेति भ्रमति परितो-
ऽथ क्षणमपि क्षण प्रैति स्तम्भं निग्वधि भवद्ध्याननिग्ता ।
क्षणं स्वप्ने बाला तव सुभग योग च लभते क्षण तेजः
शभोर्नयनजमथ ध्यायति यमम् ॥ ६२ ॥ कुसुमशयने-
ऽप्यङ्गं ताम्यत्यनङ्गविवर्तनं वदनपवनैः श्यामच्छाया बभूव
सखीजनः । हृदयनिहित. शीतो लेपश्चमीति रवं करोत्यहह
कठिनावस्था तस्यास्त्वयैवमुपेक्ष्यते ॥ ६३ ॥ विरहविषम.
कामः काम तनुं कुरुते तनुं दिवसगणनादक्षश्चाय व्यपेत-
घृणोपम. । त्वमपि वशगो मानव्याधेर्विचिन्तय नाथ हे
किसलयमृदुर्जीवत्येवं कथ प्रमदाजन. ॥ ६४ ॥ मृगशिशु-
दृशस्तस्यास्ताप कथं कथयामि ते दहनपतिता दृष्टा मूर्ति-
र्मया न हि वैधवी । इति तु विदित नारीरूप. स लोकदृशा
सुधा तव शततया शिल्प्योत्कर्णे विधेर्विघटिष्यते ॥ ६५ ॥
मुहुर्व्यजनवीजनैः सरसचन्दनासेचनैः सरोजदलवेष्टनैरपि
न चेष्टते सुन्दरी । तथापि तत्र नामनि प्रियसखीभिगवे-
दिते निवेदयति जीवित श्रवणसीम्नि रोमोद्गमः ॥ ६६ ॥
गेहादङ्गणमङ्गणादपि बहिर्वाञ्छाच्च पृथ्वीतल तामार्ति यदि
वेत्ति सैव सुमुखी किं चान्यदाचक्ष्महे । पर्यङ्केऽपि तवाङ्ग-
सङ्गसुभगै. खेदाम्भसा निर्झरैर्घारामण्डपताननीयत तथा
तस्मिन्न्वृल्या सुहुः ॥६७॥ दृष्टे चन्द्रमसि प्रलूनतमसि व्योमा-
ङ्गणस्थेयसि स्फूर्जन्निर्मलतेजसि त्वयि गते दूर निजप्रेयसि ।
श्वास कैरवकोरकीयति मुखं तस्याः सरोजीयति क्षीरोदीयति
मन्मथो मुगदृशो दृक्चन्द्रकान्तीयति ॥ ६८ ॥ आवासो
विपिनायते प्रियसखीमालापि जालायते तापोऽपि श्वसितेन
दावदहनज्वालाकलापायते । सापि त्वद्विरहेण हन्त हरिणी-
रूपायते हा कथं कन्दर्पोऽपि यमायते विरचयन् शार्दूल-
विक्रीडितम् ॥ ६९ ॥ अच्छिन्न नयनाम्बु बन्धुषु कृतं
१ पञ्चधा तापम्, पक्षे,-पञ्चाग्निनामकं तप
३७ सु र भा
२९० सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
तापः सखीष्वाहितो दैन्यं न्यस्तमशेषतः परिजने चिन्ता गुरुभ्योऽर्पिता । अद्य श्वः किल निर्वृतिं व्रजति सा श्वासैः परं खिद्यते विश्रब्धो भव विप्रयोगजनितं दुःखं विभक्तं तया ॥ ७० ॥
त्वच्चिन्तापरिकल्पितं सुभग सा सम्भाव्य रोमाञ्चिता शून्यालिङ्गनसचलद्भुजयुगेनात्मानमालिङ्गति । किं चान्यद्विरहव्यथाप्रगमनीं संप्राप्य मूर्च्छां चिरात्प्रत्युज्जी- वति कर्णमूलपठितैस्त्वन्नाममन्त्राक्षरैः ॥ ७१ ॥
नीरागा मृगलाञ्छने मुखमपि स्वं नेक्षते दर्पणे त्रस्ता कोकिलकूजिता- दपि गिरं नोन्मुद्रयत्यात्मनः । चित्रं दुःसहदाहदायिनि धृतद्वेषापि पुष्पाशुवे सा बाला सुभग प्रति प्रतिपदं प्रेमा- धिकं पुष्यति ॥ ७२ ॥
उन्मीलन्ति नखैर्लुनीहि वहति क्षौमाञ्चलेनावृणु क्रीडाकाननमश्रयन्ति वलयक्वाणैः समु- त्रासय । इत्थं वञ्जुलदक्षिणानिलकुहूकण्ठेषु साङ्केतिक- व्याहाराः सुभग त्वदीयविरहे तस्याः सखीनां मिथः ॥ ७३ ॥
वर्षन्ति स्तनयित्नवो न सरले धारागृहे वर्तसे गर्जन्ति प्रतिकूलवादिनि न ते द्वारि स्थिता दन्तिनः । इत्येवं गमितो वनव्यतिकरः सा राजपुत्री पुनर्वातो वाति कदम्ब- पुष्पसुरभौ केन प्रतारिष्यते ॥ ७४ ॥
सप्ताहेऽवधिवासरे क्षणमसौ त्वद्वर्त्मवातायनं वारंवारमुपेत्य निष्कृपतया निश्चित्य किंचिच्चिरम् । सप्रत्येव निवेद्य केलिकुररीः सास्रं सखीभिः शिशोर्माधव्याः सहकारकेण करुणः पाणिग्रहो निर्मितः ॥ ७५ ॥
नायं मुञ्चति सुभ्रुवामपि तनुत्यागे वियोगज्वरस्ते- नाहं विहिताञ्जलियुदुपते पृच्छामि सत्यं वद । ताम्बूलं कुसुमं पैटीरसमुदकं यच्चेन्दुभिर्दीयते साद्यत्रैव परत्र तत्किमुचित- ज्वालावलीदुःसहम् ॥ ७६ ॥
श्वासान्मुञ्चति भूतले विलुठति त्वन्मार्गमालोकते दीर्घं रोदिति निक्षिपत्यविरतं क्षामा भुजा- वल्लीम् । किं च प्राणसमा न काङ्क्षितवती स्वप्नेऽपि ते सङ्गमं निद्रां वाञ्छति न प्रयच्छति पुनर्दग्धो विधिस्तामपि ॥ ७७ ॥
कोदण्डो विशिखो मनोभवसतैः कामस्य तस्या अपि भ्रूवह्वी नयनाञ्चलं मनसि ते वासः समुन्मीलति । इत्थं साम्यविधौ तयोः प्रभवति स्वामिस्तथा स्निग्धता तन्वाना तनुतां क्रमाद्- तनुता नैषा यथा गच्छति ॥ ७८ ॥
शोकोत्पत्तिरशोकतः सुमनसो यद्वैमनस्योदयो वैरस्यं च रसाळतो विकलता तावत्कलानां निधेः । किं चान्यन्नलदो भवत्यनलदो निर्णीत- मुन्नीयते वामः केवलमेक एव न भवानस्यामशेषं जगत् ॥ ७९ ॥
नैष्ठुर्यं कलकण्ठकोमलगिरां पूर्णस्य शीतद्युते- स्तिग्मत्वं बत दक्षिणस्य मरुतो दाक्षिण्यहानिश्च ताम् । खर्तं- व्याकृतिमेव कर्तुमबला सनाहमातन्वते तद्भिग्नः क्रियते तृणा- दिचलनोद्भूतैस्त्वदाप्तिभ्रमैः ॥ ८० ॥
या चन्द्रस्य कलङ्किनो जनयति स्मेराननेन त्रपां वाचा मन्दिरकीरसुन्दरगिरो या सर्वदा निन्दति । निःश्वासेन तिरस्करोति कमलामोदा- न्वित्तान्यानिलान् सा तैरेव रहस्य्वया विरहिता काचिद्दशा नीयते ॥ ८१ ॥
चन्द्रं चन्दनकर्दमेन लिखितं संमाष्टिं दग्धाधरा कामः पुष्पशरः किलेति सुमनोवर्गं लुनीते च यत् । वन्द्यं निन्दति यच्च मन्मथमसौ भङ्क्त्वाग्रहस्ता- ङ्गुलीस्तत्कामं सुभग त्वया वरतनुर्वातूलता लम्भिता ॥ ८२ ॥
तापोऽस्मत्प्रसृतिपचः प्रचयनवान्बाष्पः प्रणालोचितः श्वासा कम्पितदीपवर्तिकलिका पाण्डिम्नि मग्नं वपुः । कि चान्य- त्कथयामि रात्रिमखिलां त्वन्मार्गवातायने हस्तच्छत्र- निरुद्धचन्द्रमहसस्तस्याः स्थितिर्वर्तते ॥ ८३ ॥
बिभ्राणा हृदये त्वया विनिहितं प्रेमाभिधानं नवं शल्यं यद्विदधाति सा विधुरिता साधो तदाकर्ण्यताम् । शेते शुष्यति ताम्य॑ति प्रलपति प्रम्लायति प्रेङ्क॑ति भ्राम्यत्युलुठति प्रणश्यति गल॑त्युन्मूर्च्छति तृँष्यति ॥ ८४ ॥
कार्श्यं चेत्प्रतिपत्कला हिमरुचः स्थूलैव चेत्पाण्डिमा लीना एव मृणालिका यदि पुनर्बाष्पः कियानम्बुधिः । संतापो यदि शीतलो हुतवहस्तस्याः कियद्वर्ण्यतां किं तु त्वत्स्मृतिमात्रमेव शरणं लावण्यशेषं वपुः ॥ ८५ ॥
सौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवीं द्वारात्त्रस्यति चित्रकेलिसदसो वेषं विषं मन्यते । आस्ते केवलमब्जिनी किसलयप्रस्तारशय्यातले सङ्कल्पोपनमत्त्वदाकृतिरसायत्तेन चित्तेन सा ॥ ८६ ॥
सा न स्नाति न चानुलिम्पति न वा केशेषु धत्ते सजं न क्रीडासु मनो दधाति न सखीगलोकेते चाटुषु । किं तु न्यस्य मुखाम्बुजं करतले बाष्पायमाणेक्षणं निःश्वसद्गलपिताधरं च शयने जागर्ति ते चिन्तया ॥ ८७ ॥
सा रोमाञ्चति सीत्करोति विलपत्युत्कम्पते ताम्यति ध्यायत्युद्भ्रमति प्रमी- लति पतत्युद्याति मूर्च्छत्यपि । एतावल्यतनुज्वरे वरतनु- र्जीवेन्न किं ते रसात्सर्वैद्यप्रतिम प्रसीदसि यदि त्यक्तोऽन्यथा हस्तकः ॥ ८८ ॥
कंदर्पज्वरसंज्वराकुलतनोराश्चर्यमस्या- श्चिरं चेतश्चन्दनचन्द्रमःकमलिनीचिन्तासु सताम्यति । किं तु क्षान्तिवशेन शीतलतनुं त्वामेवमेकं प्रियं ध्यायन्ती रहसि स्थिता कथमसौ क्षीणा क्षण प्राणिति ॥ ८९ ॥
अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि संचारिणि प्राप्तं त्वा परिशङ्कते वितनुते शय्यां चिरं ध्यायति । इत्याकल्पविकल्प- तत्परचनासंकल्पलीलाशतव्यासक्तापि विना त्वया वरत- नुर्नैषा निशा नेष्यति ॥ ९० ॥
॥ आलम्ब्याङ्गणवापिकापरि- सरे चूतद्रुमे मञ्जरीं सर्पत्सान्द्रपरागलम्पटरणद्भृङ्गाङ्गनाशोभि- नीम् । मन्ये सा तनुमुत्तरीयशकलेनाच्छाद्य बाला स्फुर-
पादटिप्पण्यः (Footnotes):
- १ क्षेत्रम्
- १ विरहविह्वला २ ग्लानिं प्राप्नोति ३ चलति ४ नैर्बल्यातिशयेन मृतप्राया भवति ५ खेदातिशयादित्यर्थं ६ क्षीणा भवति
नायकं प्रति नायिकासंदेशः, नायिकां प्रति संदेशप्रेषणम्, नायिकां प्रति नायकसंदेशः २९१
त्कण्ठध्वाननिरोधकम्पितकुचश्वासोद्गमा रोदिति ॥ ९१ ॥ चित्नाय त्वयि चिन्तिते स्मृतिभुवा सजीकृत स्वं धनुर्वित्तिं धर्तुमुपागतेऽङ्गुलियुगे बाणा गुणे योजिता । प्रारब्धे तव चित्रकर्मणि पुनस्तद्द्बाणभिन्ना सती भित्ति द्रागवलम्ब्य विह्व- लपते सा तत्र चित्रायते ॥ ९२ ॥ आदावञ्जनपुञ्जलितवपुषा श्वामानिलोल्लासितप्रोत्सर्पद्विरहानलेन च तत. संतापिताना दशाम् । सप्रत्येव निष्कंकमश्रुपयसा देवस चेनोभुवो भल्ली- नामिव पानकर्म कुरुते कामं कुरङ्गेक्षणा ॥ ९३ ॥ ज्योत्स्ना मौक्तिकदाम चन्दनरस शीताशुकान्तद्रवः कर्पूर कदली मृणालवलयान्यम्भोजिनीपल्लवा. । अन्तर्मानसमास्त्वया प्रभवता तस्या स्फुलिङ्गोत्कव्यवपाराय भवन्ति हन्त किम- नेनोक्तेन न ब्रूमहे ॥ ९४ ॥ पाणिनिर्वकङ्कण स्तनतटी निष्क्रम्यमानाश्रुका दृष्टिर्निश्चलतारका समभवन्निस्ताण्डव कुण्डलम् । कश्चित्प्रापयिता मम कृशतनोर्भेदो भवेन्नो यदि त्वन्नामस्मरणेण कोऽपि पुलकारम्भ. समुज्जृम्भते ॥ ९५ ॥ दत्तोऽस्या प्रणयस्त्वयैव भवता चेय चिर लालिता दैवा- दद्य किल त्वमेव कृतवानस्या नव विप्रियम् । मन्युर्दुःसह एष यात्युपशम नो सान्त्ववादैः स्फुट हे निश्चिन्न विमुक्त- कण्ठकरुण तावत्सखी रोदितु ॥ ९६ ॥ चूडारत्नमपानिधैर्यदि भवेच्चेत्कुन्तलं गण्डकी कावेरी यदि कङ्कणं यदि पुनग्रैवेयकं गौतमी । मुक्तासक्सुरनिम्नगा यदि यदि स्यान्मेखला नर्मदा कौशेय यदि कौशिकी कृशतनोस्तापस्तदाप्येति वा ॥ ९७ ॥
नायकं प्रति नायिकासंदेशः
अदृष्टे दर्शनोत्कण्ठा दृष्टे विच्छेदभीरुता । नादृष्टेन न दृष्टेन भवता विद्यते सुखम् ॥ १ ॥ आलीभि सह भाषितं किमपि तद्धर्मापि सवीक्षितं पञ्चेषु. कुसुमैरपूरि कथमप्या- धाय चित्ते मनाक् । तेनापि प्रिय चेत्तथा मयि कृपाकार्पण्य- मालम्बसे प्राणेश प्रबलं तदत्र निखिलं तद्धातिकूल्यं विधे. ॥ २ ॥ नित्य ब्रह्म यथा स्मरन्ति मुनयो हंसा यथा मानस सानन्दाः स्फुटसल्लकीवनयुता ध्यायन्ति रेवा गजाः । युष्मद्दर्शनलालसा. प्रतिदिनं युष्मान्स्मरामो वय धन्य कोऽपि स वासरोऽत्र भविता यन्नावयोः सगम ॥ ३ ॥ इन्दु कैरविणीव कोकपटलीवाम्भोजिनीबान्धव मेघ चात- कमण्डलीव मधुपश्रेणीव पुष्पाकरम् । माकन्द पिकसुन्दरीव तरुणी प्राणेश्वर प्रोषितं चेतोवृत्तितिय मम प्रियसखे त्वा द्रष्टुमुत्कण्ठते ॥ ४ ॥
नायिकां प्रति संदेशप्रेषणम्
दैवात्पश्येर्जगति विचरन्निच्छया मत्प्रिया चेदाश्वास्यादौ तदनु कथयेर्मामकीनामवस्थाम् । आग्रान्तन्तुर्न च कथय- तात्यन्तमुच्छेद्नीयः प्राणत्राण कथमपि कगेत्यायताक्ष्याः स एकः ॥ १ ॥
नायिकां प्रति नायकसंदेशः
त्वं दूरमपि गच्छन्ती हृदय न जहासि मे । दिनौवमाने छायेव पुरो मूलं वनस्पते ॥ १ ॥ स्मर्तव्योऽह त्वया कान्ते न स्मरिष्याम्यह तव । स्मरण चेतमो धर्मस्तचेतो भवदाहृतम् ॥ २ ॥ त्वया मम समेतस्य कल्या अपि ममाममा । भवत्या विप्रयुक्तस्य कल्पकल्पः क्षणोऽपि मे ॥ ३ ॥ यत.प्रभृति ते कान्त मुखमालोकित मया । काम. काम ममाङ्गानि व्यप्रयत्यमितः शरैः ॥ ४ ॥ तपति तनु- गात्रि मदनस्त्वामनिशं मा पुनर्दहत्वेव । ग्लपयति यथा शशाङ्क न तथा हि कुमुद्वती दिवस ॥ ५ ॥ किमकारि मन्दमतिना रतिपतिना कामतन्त्रनिपुणेन । स्यूतासि हरि- णनयने हन्त हृदि स्नेहन्तुना न तनौ ॥ ६ ॥ कृष्णा ते कचसंहतिरम्बुजनयने तवाधरः शोण । त्व सुरतरङ्गिणी कथमभितस्तापी न ते वियोग स्यात् ॥ ७ ॥ दूर मुक्ता- लतया बिससितया विप्रलोभ्यमानो मे । हंस इव दर्शि- ताशो मानसजन्मा त्वया नीत. ॥ ८ ॥ स्निग्धमालप सुरूक्षमेव वा त्वत्कथैव सखि मे रसायनम् । शीतलं सलिलमुष्णमेव वा पावक हि शमयेदसशयम् ॥ ९ ॥ स्वप्नेऽपि देवि रमसे न मया विना त्वं स्वापे त्वया विर- हितो मृतवद्भवामि । दूरीकृतासि विधिदुर्ललितैस्तथापि जीवत्यवेहि मन इत्यसवो दुरन्ता ॥ १० ॥ वल्गत्कचानि वलनासहमध्यमानि कण्ठोदयत्कलरुतानि गल्त्कुचानि । आस्वादताधरदलान्यलसेक्षणानि तान्येव तन्वि सुरतानि तव स्मरामि ॥ ११ ॥ अद्यापि सुन्दरि तवाननचन्द्रबिम्बं बन्दीकृताम्बुजयुगं परिचुम्ब्य चेतः । त्वत्सगमोद्भवसुखं तनुते तथापि वैर करोति करुणाविकलो विवेकः ॥ १२ ॥ त्वदीयमुखपङ्कज यदि विवोरलं वार्तया तवाधरसुधा यदा भवति कि सुधा नो सुधा । त्वदङ्कपरिरम्भण भण कृतं सुधागाहनैस्त्वदीयदृगनुग्रहस्तदपि धिग्धिगैन्द्र पदम् ॥ १३ ॥ भवतु विदित व्यर्थालापैरलं प्रिय गम्यता तनु- रपि न ते दोषोऽस्माक विधिस्तु पराङ्मुख. । तव यदि तथाभूतं प्रेम प्रपन्नमिमा दशा प्रकृतिसरले का न पीडा गते हृतजीविते ॥ १४ ॥ यदिन्दोर्लक्ष्मीस्ते वदनकमले वासमकरोत्तम् स्तोमस्थेमा तव तरुणि धम्मिल्लमभजत् । अनुप्राप्ता हारावलिमपि च तारावलिरुचि शरण्यायाः कस्ते
१ सायङ्काले २ कोमलाङ्गि
१९२ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
मम शरणदाने परिभव. ॥ १५ ॥ भवत्या विश्लेषे गुरुहृदय- खेदेन तनुता तनुर्नित्य धत्ते मद्दशामिति मत्तेभगमने । इदं तावच्चित्र कमलमुखि सर्वैरवयवै सुरूपा त्व लोके नियतमसुरूपा भवसि न ॥ १६ ॥ सुमध्ये वाग्भङ्गेर्वचन- विधिमङ्गीकुरु न वा स्मितज्योत्स्नाकान्त कुरु वदनमेत- न्मयि न वा । त्रिलोकीमूर्धन्या यदि विविधपुण्याधिकतया मया दृष्टासि त्व तदिह सफल मेऽजनि जनु. ॥ १७ ॥ यदि प्राणा एव प्रणयपरिणाह कथमयं विभिन्ना तेभ्य- श्चेत्कथमियमभेदव्यवसिति । न भिन्ना नाभिना यदि भवसि किं नाम तदपि त्वमेकासि त्वं मे कुवलयदलश्रेणि- नयने ॥ १८ ॥ यदेकः कासार रचयति तथा कूपम- थवा तदाकाङ्क्षा देवो वितरतितरा श्रीपतिरपि । मया तु त्वद्धेतो कमलमुखि सान्द्राश्रुसलिलै कृताः पारावारास्त दपि गणना ते न हृदये ॥ १९ ॥ इतो विद्युत्पुञ्जस्फुरितम- सकृद्वाययतु मामित. केकानेका हरतु हृदय निर्दयमिदम् । इत. कामो वाम प्रहरतु मुहु. पुङ्खितशरो गतासि त्व दूर चपलनयने प्राप्स्यसि कुत ॥ २० ॥ हिमांशुश्चण्डांशुर्नव- जलधरो दावदहन. सरिद्दीर्घावात. कुपितफणिनि. श्वासपवन. । नवा मल्ली भल्ली कुवलयवन कुन्तगहन मम त्वद्विश्लेषा त्सुमुखि विपरीतं जगदिदम् ॥ २१ ॥ आस्ता तावद्रचन- रचनाभाजनत्वं विदूरे दूरे चास्ता तव तनुपरीरम्भसभाव- नापि । भूयो भूय. प्रणतिभिरहं किंतु याचे विधेया स्मार स्मार स्वजनगणने कापि लेखा ममापि ॥ २२ ॥ श्यामा- स्वङ्गं चकितहरिणीप्रेक्षणे दृष्टिपातं वक्त्रच्छाया शशिनि शिखिना बर्हभारेषु केशान् । उत्पश्यामि प्रतनुषु नदीवीचिषु भ्रूविलासान्हन्तैकस्मिन्क्वचिदपि न ते चण्डि सादृश्यमस्ति ॥ २३ ॥ त्वामालिख्य प्रणयकुपिता धातुरागैः शिलाया- मात्मानं ते चरणपतितं यावदिच्छामि कर्तुम् । अस्रैस्ता- वन्मुहुरुपचितैर्दृष्टिरलुप्यते मे क्रूरस्तस्मिन्नपि न सहते संगमं नौ कृतान्त. ॥ २४ ॥ मामाकाशप्रणिहितभुजं निर्दयाश्लेषहेतोर्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेषु । पश्यन्तीना न खलु बहुशो न स्थलीदेवताना मुक्ता- स्थूलास्तरु किसलयेष्वश्रुलेशा. पतन्ति ॥ २५ ॥ भित्त्वा सद्य. किसलयपुटान्देवदारुद्रुमाणा ये तत्क्षीरस्स्रुतिसुर- भयो दक्षिणेन प्रवृत्ता. । आलिङ्ग्यन्ते गुणवति मया ते तुषाराद्रिवाता पूर्वं स्पृष्ट यदि किल भवेदङ्गममेभिरस्त्वेति ॥ २६ ॥ सक्षिप्येत क्षण इव कथ दीर्घयामा त्रियामा सर्वावस्थास्वरपि कथ मन्दमन्दातप स्यात् । इत्थं चेत- श्श्रुतुलनयने दुर्लभप्रार्थन मे गाढोष्माभिः कृतमशरणं त्वद्वि- योगव्यथाभि. ॥ २७ ॥ कस्याख्याय व्यतिकरममम मुक्त- दुःखो भवेय को जानीते निभृतमुभयोरावयो. स्नेहसारम् । जानात्येकं शशधरमुखि प्रेमतत्त्वं मनो मे त्वामेवैतच्चि- रमनुगत तन्प्रिये कि करोमि ॥ २८ ॥ त्वद्रूपामृतपान- दुर्ललितया दृष्ट्या क्व विश्रम्यता त्वद्वाक्यश्रवणाभियोग- परयोः श्रव्यं कुत. श्रोत्रयो । एभिस्त्वत्परिरम्भनिर्भररसैैरङ्गेः कथ स्थीयता कष्ट त्वद्विरहेण सप्रति वयं कष्टामवस्था गताः ॥ २९ ॥ यत्त्वन्नेत्रसमानकान्ति सलिले मग्नं तदिन्दीवर मेघैरन्तरित प्रिये तव मुखच्छायानुकारी शशी । येऽपि त्वद्गमनानुकारिगतयस्ते राजहंसा गतास्त्वत्सादृश्यविनोद- मात्रमपि मे दैवेन न क्षम्यते ॥ ३० ॥ गूढालिङ्गनगण्ड- चुम्बनकुचस्पर्शादिलीलायितं सर्व विस्मृतमेव विस्मृतवतो बाले खलेभ्या भयात् । संलोपस्त्वधुना सुदुर्घटनामस्त- त्रापि नातिव्यथा यत्त्वद्दर्शनमप्यभूद्सुलभ तेनैव दूये भृशम् ॥ ३१ ॥ धन्यस्तन्वि स एष पाण्डिमवरश्वम्बन्कपोलस्थलं धन्य तन्वि तदेव कार्श्यमिह यत्प्रत्यङ्गमोलिङ्गति । धन्योऽय विरहानलस्तव मनो यस्यानुवृत्तेः पदं दूरे हन्त तया तु पातितया मादृग्जन सीदति ॥ ३२ ॥ न स्नानं न च भोजन न पठनं नान्यत्र सौख्य धृतिर्नान्यस्त्रीजन- सेवन न च कथानिद्राविलासोधमः । किंतु त्वा परिचिन्त- यामि सततं ध्यानेन चेतःस्थिता स्वमालोकनकामिकेलि- विधिना जीवामि कान्ते तव ॥ ३३ ॥ रात्रिः कालयुगोपमा मलयजो गन्धानिल. कि विष सोमः सूर्य इवाभवन्मलय- जालेपः स्फुलिङ्गोपम. । तिक्त. सुस्वरगीतवाद्यपरभृत्याराव- तादिध्वनिर्वज्रस्वाहतिरेव कर्णयुगले विच्छेदतो मे तव ॥ ३४ ॥ चन्द्रो द्वादश भास्कराः समभवन्ग्रात्रिर्युगाना शत मिष्ट तिक्तरस विलेपनमहो दीप्तानलो मे तव । विच्छेदान्मलयानल प्रियतमे किं कालकूटः श्रुतौ गीतादि- ध्वनिरेव वज्रसदृशोऽरण्यं विचित्रं गृहम् ॥ ३५ ॥ स्थाना- न्निर्गत्य दूर व्रजति मयि चिर मुक्तकण्ठ रुदित्वा पश्चादु- न्मृज्य नेत्रे प्रणतिमुपगता वेपमानाङ्गयष्टिः । कान्ते यन्मा- मवोच. प्रलयघनघटाटोपबद्धान्धकारे काले कापालिकोऽपि प्रवसति न गृहात्तन्मनो मे दुनोति ॥ ३६ ॥
दूतीं प्रति नायिकाप्रश्नाः
उल्लापयन्त्या दयितस्स दूती वध्वा विभूषा च निवेश- यन्त्या । प्रसन्नता कापि मुखस्स जज्ञे वेषश्रिया तु प्रिय- वार्तया नु ॥ १ ॥ अलमलमधृणस्स तस्स नाम्ना पुनरपि सैव कथा गत' स कालः । कथय कथय वा तथापि दूति प्रतिवचनं द्विषतोऽपि माननीयम् ॥ २ ॥ कथय निपुणे
१ छादित
२ भाषणम्
दूत्युपहासप्रश्नाः, नायिकां प्रति नायकावस्थाकथनम्, सूर्यास्तमनसमयवर्णनम् २९३
कस्स्नेग्दधः कथं नु कियच्चिर किमभिलिखित कि तेनोक्तं
कदा स इहैष्यति । इति बहुविधप्रेमालापप्रपञ्चितविस्तराः
प्रियतमकथाः स्वल्पेऽप्यर्थे प्रयान्ति न नष्टताम् ॥ ३ ॥
दूत्युपहासप्रश्नाः
पार्श्वीभ्या सप्रहाराभ्यामधरे व्रणखण्डिते । दूति सङ्ग्राम-
योग्यासि न योग्या दूतकर्मणि ॥ १ ॥ बहुनात्र किमुक्तेन
दूति मत्कार्यसिद्धये । स्वमासान्यपि दत्तानि वक्तव्येषु तु
का कथा ॥ २ ॥ किं त्वं निगूहसे दूति स्तनौ वक्र च
पाणिना । खण्डिता एव शोभन्ते शूराध्दरपयोधराः ॥ ३ ॥
त्व दूति निरगा. कुञ्जं न तु पापीयसो गृहम् । किशुका-
भरणं देहे दृश्यते कथमन्यथा ॥ ४ ॥ दूति त्वया कृत-
महो निखिल मदुक्तं न त्वादशी परहितप्रवणान्ति लोके ।
श्रान्तासि हन्त मृदुलाङ्गि गता मदर्थ सिध्यन्ति कुत्र सुकृ
तानि विना श्रमेण ॥ ५ ॥ रजन्यामप्यस्या सुरतपरिवृत्ताव-
नुचित मदीयं यद्वास. कथमपि हृतं तेन सुहृदा । त्वया
प्रत्यानीतं निजवसनदानात्पुनरिद कुतस्त्याहग्दूति स्खलित-
शमनोपायनिपुणा ॥ ६ ॥ निःशेषच्युतचन्दन स्तनतट
निर्मृष्टरागोऽधरो नेत्रे दूरमनञ्जने पुलकिता तन्वी तवेयं
तनुः । मिथ्यावादिनि दूति बान्धवजनस्याज्ञातपीडागमा
वापीं स्नातुमितो गतासि न पुनस्तस्याधमस्यान्तिकम् ॥ ७ ॥
दूतीदं नयनोत्पलद्वयमहो तान्तं नितान्तं तव खेदाम्भ.-
कणिका ललाटफलके मुक्ताश्रिय बिभ्रति । नि श्वासा.
प्रचुरीभवन्ति नितरा हा हन्त चन्द्रातपे यातायातवशाद्धथा
मम कृते श्रान्तासि कान्ताकृते ॥ ८ ॥ दूति श्वासविशेष
एष किमहो चण्डि त्वराधावनाद्धि भ्रष्टालकवल्लरी कथमहो
त्वन्नाथपाडार्पणात् । निर्मृष्टाधररागपल्लवरुचिस्त्वत्कार्यसज-
ल्पनाद्द्वास्तस्त्य किमङ्गसङ्गतमहो विश्वासहेतोस्तव ॥ ९ ॥
श्वास. किं त्वरिता गता पुलकिता कस्मात्प्रसाद. कृतः सस्ता
वेण्यपि पादयोर्निपतनान्नीवी गमादागमात् । स्वेदार्द्रं मुख-
मातपेन गलितं क्षामा किमित्युक्तिभिर्दुति म्लानसरोरुहा-
कृतिधरसौष्ठस्य किं वक्ष्यसि ॥ १० ॥ स्विन्नं केन मुख
दिवाकरकरैस्ते रागिणी लोचने रोषात्तद्भ्रुवनोत्थिताद्विलुलिता
नीलालका वायुना । भ्रष्टं कुङ्कुममुत्तरीयक्रषणात्क्लान्तासि
गत्यागतैर्युक्त तत्सकलं किमत्र वद हे दूति श्रुतस्याधरे
॥ ११ ॥ सायं स्नानमुपासितं मलयजेनाङ्ग समालेपित
यातोऽस्ताचलमौलिमम्बरमणिविश्रब्धमन्दा गति । आश्चर्य
तव सौकुमार्यमभितः क्लान्तासि येनाधुना नेत्रद्वन्द्वममीलन-
व्यतिकर शक्नोमि तेनासितुम् ॥ १२ ॥
१ क्षालितो रागो रक्तिमा यस्य २ अतिशयम् ३ अञ्जनरहिते
नायिकां प्रति नायकावस्थाकथनम्
पढगव्दलीनहृदयो रूपाल्कारगाभवनानपुणः । कविविरव
सचिन्नमुद्रस्तरुणि तवार्थे परं स युवा ॥ १ ॥ परिहरति
रति मतिं लुनीते स्खलतितरा परिवर्तते च भूय । इति
तव विषमा दशास्य देहं परिभवति प्रसभ किमत्र कुर्म
॥ २ ॥ विकिरति मुहु श्वासानासा पुरो मुहुरीक्षते प्रवि-
शति मुहु कुञ्जात्कुञ्ज मुहुर्बहु ताम्यति । रचयति मुहु
शय्या पर्याकुञ्जं मुहुरीक्षते मदनकदनक्लान्त कान्ते प्रियस्तव
वर्तते ॥ ३ ॥ मा मा द्रक्ष्यति वक्ष्यति स्रग्कथा प्रयङ्ग-
मालिङ्गनै. प्रीति यान्यति रस्यते सखि समागत्येति चिन्ता-
कुल । मार्ग पश्यति वेपते पुलकयत्यानन्दति स्विद्यति
प्रत्युद्गच्छति मूर्छति स्थिरतम पुञ्जे निकुञ्जप्रिय ॥ ४ ॥
पूर्वं यत्र सम त्वया रतिपतेरासादिता सिद्धयस्तस्मिन्नेव
निकुञ्जमन्मथमहातीथे पुनर्मामव । ध्यायस्त्वामनिशं जप-
न्नपि तवैवालापमन्त्रावलीर्भूयस्त्वत्कुचकुम्भनिर्भरणरीग्म्मा-
मृतं वाञ्छति ॥ ५ ॥
सूर्यास्तमनसमयवर्णनम्
मग्रसस्कारसपन्नास्तन्वदौदन्वर्तारप । एतत्रयीमयं
ज्योतिरादित्याख्यं निमज्जति ॥ १ ॥ तापनैरिव तेजोभि-
र्दग्धनिर्वाणमेचका । दिशो जाता. प्रतीची तु समुदाचरति
क्रमात् ॥ २ ॥ पुराणरश्मिजालेषु सस्नेष्वस्तावलम्बनम् ।
बिम्बमम्बुरुहा नेतुरम्बरान्दवलम्बते ॥ ३ ॥ विलोक्य सगमे
राग पश्चिमाया विवस्वत. । कृत कृष्ण मुख प्राच्या नहि
नार्यो विनेर्ष्याया ॥ ४ ॥ करिष्यति कलानाथ. कुतुकी कर-
मम्बरे । इति निर्वापयामास रविदीपं निशाङ्गना ॥ ५ ॥
नलीयमानैर्विहगैर्र्निमीलद्भिश्च पङ्कजै । विकमन्त्या च
मालत्या गतोऽस्तं ज्ञायते रवि. ॥ ६ ॥ अस्तं गतवति सैवि-
तरि भर्तरि मेधुपं निवेश्य कोशान्ते । कमलिन्योऽपि रमन्ते
किमत्र चित्रं मृगाक्षीणाम् ॥ ७ ॥ कृतोपकार प्रियबन्धुमर्क
मा द्राक्षम हीनाशुमध. पतन्तम् । इतीव मत्वा नलिनीवधू-
भिर्निमीलितान्यम्बुरुहेक्षणानि ॥ ८ ॥ साध्यरागरुधिरारुण-
माराह्नि.पपात रविमण्डलमन्धौ । क्रूरकालकैरवालविर्लून
वासरस्य सहसैव शिरो नु ॥ ९ ॥ नो रविर्न च तमो न
तमीशो न युतिर्गहगणो न च सध्या । यादशी प्रथमत.
किल सृष्टेस्तादृगेव भुवन श्रियमूहे ॥ १० ॥ मानुविम्बमिद-
मस्तगामि च प्रोद्यतं कुमुदबन्धुमण्डलम् । दृश्यते रतिपते.
प्रवासिना क्रोधरक्तमिव लोचनद्वयम् ॥ ११ ॥ स्थान-
माहिकमपास्य दन्तिन· सल्लकीविटपभङ्गवासितम् । आविभात-
१ सूर्ये २ भृङ्गम्, पक्षे,-मद्यपम् ३ खड्ग ४ छिन्नम्
२९४ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
चर णाय गृह्णते वारि वारिरुहबद्धषट्पदम् ॥ १२ ॥ पश्य पश्चिमदिगन्तलम्बिना निर्मितं कथमिदं विवस्वता । दीर्घया प्रतिमया सरोम्भसा तापनीयमिव सेतुबन्धनम् ॥ १३ ॥ उत्तरन्ति विनेकीर्य पल्वलं गाढपङ्कमतिवाहितातपा । दंष्ट्रिणो वनवराहयूथपा दष्टभङ्गुरविसाङ्कुर इव ॥ १४ ॥ एष वृक्षशिखरे कृतास्पदो जातरूपरसगौरमण्डल.। हीयमानमहुरत्ययातप पीवरोरु पिबतीव बर्हिण ॥ १५ ॥ पूर्वभागतमिरप्रवृत्तिभिर्व्यक्तपङ्कमिव जातमेकत । खं हृतातपजल विवस्वता भाति किंचिदिव शेषवत्सर. ॥ १६ ॥ आविशद्भिरुटजाङ्गणं मृगैर्मूलसेकसरसैश्च वृक्षकै । आश्रमा प्रविशदध्यधेनवो बिभ्रति श्रियमृदीरितामथ. ॥ १७ ॥ बद्धकोशमपि तिष्ठति क्षणं सावशेषविवरं कुरेशयम् । षट्पदाय वसतिं ग्रहीष्यते प्रीतिपूर्वमिव दातुमन्तरम् ॥ १८ ॥ दूरलङ्घ्यपरिमेयरश्मिना वारुणी दिगरुणेन भानुना । भाति केसरवतेव मण्डिता बन्धुजीवतिलकेन कन्यका ॥ १९ ॥ साध्यमस्तमितशेषमातपं रक्तलेखमपरा बिभर्ति दिक् । सपरायवसुधा सशोणित मण्डलाग्रमिव तिर्यगुत्थितम् ॥ २०॥ कोऽत्र भूमिवलये जनान्मुधा तापयन्सुरुचिरमेति संपदम् । वेदयन्निति दिनेन भानुमानाससाद चरमाचल तत ॥ २१ ॥ मध्यमोलनभे लसदशावेकतश्रुतिमुपेयुषि भानौ । द्यौरुवाह परिवृत्तिविलोला हारयष्टिमिव वासरलक्ष्मीम् ॥ २२ ॥ अंशुपाणिभिरतीव पिपासु. पद्मजं मधु भृश रसयित्वा । क्षीबतामिव गत. क्षितिमेभ्यँल्लोहितं वपुरुवाह पतङ्ग ॥ २३ ॥ मुक्तमूललघुरुज्झितपूर्व पश्चिमे नभसि सभृतसान्द्र । सौमि मज्जति रवौ न विरेजे खिन्नजिह्व इव रश्मिसमूह ॥ २४ ॥ कान्तदृत्य इव कुङ्कुमभागा. साय मण्डनमभि त्वरयन्त्यः । सादरं ददृशिरे वनिताभि. सौधजालपतिता रविभासः ॥ २५ ॥ अग्रसानुषु नितान्तपिशङ्गैर्भू रुहान्मृदुक रैरवलम्ब्य । अस्तशैल गहनं नु विवस्वानाविवेश जलधि नु मही नु ॥ २६ ॥ आकुलश्वलपतत्त्रिकुलानामारवैरनुदितौषसराग. । आययावहरिदश्वविपाण्डुस्तुल्यता दिनमुखेन दिनान्त ॥ २७ ॥ आस्थित स्थगितवारिदपङ्क्त्या सध्यया गगनपश्चिमभाग. । सोर्मिविद्रुमवितानविभासा रञ्जितस्य जलधे. श्रियमूहे ॥२८॥ प्राञ्जलावपि जने नतमूर्ध्नि प्रेम तत्प्रवणचेतसि हित्वा । सध्यानुविदधे विरमन्त्या चापलेन सुजनेतरमैत्री ॥ २९ ॥ अभितापसपदमथोग्णरुचिर्निजतेजमामसहमान इव । पयसि प्रपित्सुरपराम्बुनिधेरविरोधमस्तगिरिमभ्यपतत् ॥ ३० ॥ गतया पुरः प्रतिगवाक्षमुख दधती रतेन भृशमुत्सुकताम् । सुहुरन्तरालमुवमस्तगिरे सवितुश्च योषिदिममीत् दृशा ॥ ३१ ॥ विरलातपच्छविरनुष्णवपु परितो विपाण्डु दधदभ्र-
शिर । अभवद्गतः परिणति शिथिलः परिमन्दसूर्यनयनो दिवसः ॥ ३२ ॥ अपराह्नशीतलतरेण शनैरनिलेन लोलितलताङ्गुलये । निलयाय शाखिन इवाह्वयते ददुराकुलाः खगकुलानि गिर ॥ ३३ ॥ उपसध्यमास्त तनु सानुमत. शिखरेषु तत्क्षणमशीतरुच । करजालमस्तसमयेऽपि सतामुचितं खलूत्तरमेत्य पदम् ॥ ३४ ॥ नवकुङ्कुमारुणपयोधरया स्वकरावसक्तरुचिराम्बरया । अतिसक्तिमेत्य वरुणस्य दिशा भृशमन्वरज्यततुषारकर ॥ ३५ ॥ गतवत्यराजत जपाकुसुम्तवकद्युतौ दिनकरेऽवनतिम् । बहलानुरागकुरुविन्ददलप्रतिबद्धमध्यमिव दिग्मवलयम् ॥ ३६ ॥ द्रुतशातकुम्भनिभमशुमतो वपुरर्धमग्नवपुष. पयसि । रुरुचे विरञ्चिनखभिन्नबृहज्जगदण्डकैकतरखण्डमिव ॥ ३७ ॥ अनुरागवन्तमपि लोचनयोर्दधतं वपु. सुखमतापकरम् । निरैकासयद्रविमपेतवसु वियदालँयाँदपरदिग्गणिका ॥ ३८ ॥ अमितिग्मरश्मि चिरमा विरमादवधानखिन्नमनिमेषतया । विगलन्मधुव्रतकुलाश्रुजल न्यमीमीलदब्जनयन नलिनी ॥ ३९ ॥ अविभाव्यतारकमदृष्टहिमद्युतिबिम्बमस्तमितभानु नभः । अवसन्नातापमतमिस्रमभादपदोपँतैव विगुणस्य गुण. ॥ ४० ॥ रुचिधाम्नि भर्तरि भृश विमला परलोकमभ्युपगते विविशुः । ज्वलनं विषः कथमिवेतरथा सुलभोऽन्यजन्मनि स एव पति. ॥ ४१ ॥ महद्भिरोधैस्तमसामभिद्रुतो भयेऽप्यसम्मूढमतिर्भमन्क्षितौ । प्रदीपवेषेण गृहे गृहे स्थितो विखण्ड्य देहं बहुधेव भास्करः ॥ ४२ ॥ अयमसौ गगनाङ्गणदीपकस्तरकिकालभुजंगशिखामणि. । क्षणविडम्बितवाडवविग्रह. पतति वारिनिधौ विधुरो रविः ॥ ४३ ॥ अभिभूय सतामवस्थिति जडजेषु प्रतिपाद्य च श्रियम् । जगतीपरितापकृत्कथ जलधौ नावपतेदसौ रवि. ॥ ४४ ॥ परिपतति पयोनिधौ पतङ्ग सरसिरुहासुदरेषु म॑त्तभृङ्गः । उपवनतरुकोटरे विहगस्तरुणिजनेषु शनै शनैरनङ्गः ॥ ४५ ॥ शुचिरिति परित. प्रसिद्धिभाजि प्रकटिततेजसि दुर्जये कृशानौ । निजैवसुनिकुरम्बमस्तवेलाव्यतिकरवाञ्छिर्दधे सँरोजबन्धु ॥ ४६ ॥ जगदिव बहुलातपामितसं जनयितुमद्य जलाभिषेकशीतम् । परिधृत रविशातकुम्भकुम्भा प्रञ्चलति पश्चिमवारिधि दिनश्री. ॥ ४७ ॥ पतति रविरपूर्ववारिराशौ हृदि पथिकस्य यथात्मभूहुताश । प्रसरति चरमा तम.प्ररोह प्रतिपदमद्य यथा मनोविमोह ॥ ४८ ॥ अस्तावलम्बि रविबिम्बम तयोद्याद्रिचूडोन्मिषत्सकलचन्द्रतया च सायम् । सध्याप्रवृत्त-
१ अपूर्णे
१ प्रीतीयुक्तम्, पक्षे,-रक्तिमान्वितम् २ बहिनिष्कामयामास
३ अपेत गत वसु द्रविण तेजश्च यस्मात् ४ अपरदिगेव गणिका
५ निजद्रव्यममूहम्, पक्षे,-किरणसमूहम् ६ स्नापयामास ७ मूर्य
सूर्यास्तमनसमयवर्णनम् २९५
हरहस्तगृहीतकांसतालद्वयमेव समलक्ष्यत नाकलक्ष्मी ॥४९॥
यातोऽस्मि पद्मनयने समयो ममैष सुप्ता मयैव भवती
प्रतिबोधनीया । प्रैत्यायनामयमितीव सरोरुहिण्या. सूर्यो-
ऽस्तमस्तकनिविष्टकर करोति ॥ ५० ॥ कृत्वा प्रबुद्धकमला-
मखिला त्रिलोकीमम्भौनिधेर्विशति गर्भमसाविदानीम् ।
अन्तःप्रसुप्तहरिनाभिसरोजबोधकौतूहलीव भगवानरविन्द-
बन्धु ॥ ५१ ॥ पूर्वा क्षणक्रमनिरस्तसमस्तरागा हित्वा
निजान्तिकमुपेत्य रवौ सरागे । आलोक्य पुनरमुष्य धृत-
प्रसादा जाता चिरेण चरमा परमाणुरक्ता ॥ ५२ ॥ स्पृष्टे-
ल्लसत्किरणकेसरसूर्यबिम्बविस्तीर्णकर्णिकमथो दिवसारवि-
न्दम् । क्लिष्टाष्टदिग्दलकलापमुषावतारबद्धान्धकारमधुपावलि
सञ्चकोच ॥ ५३ ॥ पृथु गगनर्कबन्धस्कन्धचक्र किमेत-
त्किमु रुधिरकपाल कालकापालिकस्य । कललभरितमन्त.
कि नु तार्क्यण्डखण्ड प्रजनयति वितर्क साध्यमर्कस्य विम्बम्
॥ ५४ ॥ अयमपि खरयोबिक्कर्णकाषायमीपद्विसृमरतिमि-
रोर्णाजर्जरोपान्तमर्चि. । मदकलकलविङ्गीकाकुनान्दीकरेम्य
क्षितिरुहशिखरेभ्यो भानुमानुच्चिनोति ॥ ५५ ॥ गतवति
दिननाथे पश्चिमक्ष्माधरान्त विशिरकरमयूखैर्निर्भर दह्यमाना ।
परिहृतमिलितालि. पान्थकान्तेव दीना सपदि कमलिनी सा
हास्यहीना बभूव ॥ ५६ ॥ उदयगिरितटस्थ पद्मिनीर्बोध-
यित्वा मृदुतरकिरणाग्रैस्ता. स्वयं चोपभुज्य । मलिनमधुपस-
ङ्गात्तासु सजातकोप कृतकधिरविरोचिर्भानुरस्तं प्रयात
॥ ५७ ॥ अयमपि पुरुहूतप्रेयसीसूर्ध्नि पूर्ण. कलश इव
सुधांशु साधुनुल्लालसीति । मदनविजययात्राकालविज्ञापनाय
स्फुरति जलधिमध्ये ताम्रपात्रीव भानु ॥ ५८ ॥ रवेरस्त
तेजः प्रमुदयति खद्योतपटली मरालाली मूका कलकल-
परोलूकपटली । इदं कष्टं दृष्ट्वा चिरमसहमाना कमलिनी
भ्रमद्भृङ्गव्याजात्कवलयति हालाहलमिव ॥ ५९ ॥ सैरन्ध्री-
कुरकुष्ठकङ्कणसरद्वीरध्वनि. सचस्दूतूसूत्रितसंधिविग्रहविधि
सोल्लासलीलाधर. । वारस्त्रीजनसज्जमानशयन. संनद्धपुष्पा-
युधः श्रीखण्डद्रवधौतसौधशिखरो रम्य क्षणो वर्तते ॥६०॥
विश्लेषांकुलचक्रवाकमिथुनैरूत्पक्षमाक्रन्दित कारुण्यादिव
मीलितासु नलिनीष्वस्त च मित्रे गते । शोकेनेव दिगङ्ग-
नाभिरभित श्यामायमानैर्मुखैर्नि.श्वासानिलधूमवर्तय इवो-
द्गीर्णास्तमोराजय ॥ ६१ ॥ निर्यद्वासूरजीवपिण्डकरणं
बिभ्रत्कवोष्णे. करैर्माञ्जिष्ठ रविविम्बमम्बरतलादस्ताचल
चुम्बति । कि च स्तोकतभःकलापकलनास्यामायमान मना-
---
१ विश्वामोत्पादनम् २ कमलिन्या ३ वराट ४ दिवसरूपमर
विन्दम् ५ प्रकाशाभावेन परस्पर मिलिता ६ अङ्गिरस्ककलेवरम्
७ काल एव कापालिको भिक्षु ८ गरुड ९ वियोगाकुले
---
ग्धूम्श्यामापुराणचित्ररचनारूप जगज्जायते ॥ ६२ ॥
संध्याताण्डवचण्डदण्डपरशुप्रारब्धभीमभ्रमीवेगस्रस्तकपर्दवा-
सुकिफणामणिक्यगङ्गावहेम् । मग्न पाथसि पश्चिमस्य जलवे-
र्मार्तण्डविम्ब ततो ध्वान्तैर्भूतगणेरगाहि भुवन मन्ये तदन्वे-
षिभि ॥ ६३ ॥ पाश्चात्याम्बुघिट्टष्टपूर्ववडवासदर्शनात्कण्ठया
धावद्ध्वान्ततुरंगनिषुरखुरक्षुण्णोऽस्तशैलस्थले । तस्मादुच्छलि-
तेन धातुरजसा लिप्तान्युक्ताङ्गको मन्दांशु प्रियदर्शन खलु
सहप्ताशुर्दिदृशयते ॥ ६४ ॥ तद्रोडेऽन्तरसततान्धतमस
निर्मिद्य तिग्मांशुभि सल्लेत्तु बलिमद्भाग कृतमतिर्भानुर्जगाहे-
ऽम्बुविम् । अन्यत्सप्रति सनिपत्य वृणुते लोके तमोमण्डलं
कि चेतस नयत्यहो परिभव पाथोजिनी वल्लभाम् ॥ ६५ ॥
द्रागेन्द्रीमनुचुम्य सस्मितमुखीमामोदिनी पद्मिनी कृत्वासौ
परिरम्भसभ्रमपरिश्रान्ता च वारुखियम् । सरक्तो हिमभानु-
रद्य चरमा श्लिष्यत्यहो रागिणीं काश्मीरोपसत्ययोधर-
भरा कान्ता दिश वारुणीम् ॥ ६६ ॥ ध्माता भालतला-
नले. कवलिता कण्ठोत्थहालाहलैरालीढाथ जटाटवीवलयितै-
राशीविषाणा गणै. । कीर्णा भस्मभिगहतास्थिपटलैर्विद्धा
जटाग्रैरपि स्वीयामुज्झति माधुरी हरशिरोरत्न किमिन्दो.
कला ॥ ६७ ॥ आवासोत्सुकपक्षिण कलरूत कामन्ति
वृक्षालयान्कान्ता भाविवियोगभीरुरधिक क्रन्दत्ययं कातर ।
चक्राङ्गो मधुपा सरोजगहन धावन्त्युलूको मुद धत्ते चारुणता
गतो रविरसावस्ताचल चुम्बति ॥ ६८ ॥ अध्वान नैकचक्र.
प्रभवति भुवनभ्रान्तिदीर्घे विलङ्घ्य प्रात प्राप्सु रथो मे पुन-
रिति मनसि न्यस्तचिन्तातिभार । 'सध्याकृष्टावशिष्टस्वकर-
परिकरै स्पष्टहेमारपङ्कि व्याकृष्यावस्थितोऽस्तक्षितिभृति
नयतीवैष दिर्वक्रकर्मकः ॥ ६९ ॥ प्राचीमालम्बमाने घन-
तिमिरचये बान्धवे बन्धकीना सप्राप्ते च प्रतीची शशिकर-
निकरे वैरिणि स्वैरिणीनाम् । अर्धश्यामोपलार्धस्फटिकमिव
दिशामन्तराल विधत्ते कालिन्दीजहुकन्यामिलदमलजलस-
न्दसदोहमैत्रीम् ॥ ७० ॥ सध्यावध्यस्रगोण तनुदहनचिता-
ङ्गारमन्दार्कबिम्ब तारानारास्थिकीर्णे विशदनरकरङ्कायमाणे-
ज्वलेन्दू । हृष्यन्नक्तचरौघ घनतिमिरमहाधूमधूम्रानुकार
जात लीलाश्मशान जगदखिलमहो कालकापालिकस्य ॥७१॥
गाढ प्रौढाङ्गनाभि सुरतरतमन.समदोत्सारिताक्ष सुग्धाभि
स्रस्तनेत्रं रतिसमरभय चिन्तयन्तीभिरेवम् । पान्थानामङ्ग-
नाभि ससलिलनयनं शून्यचित्ताभिरुच्चै कष्ट दृष्टोऽस्तशैल
भृशमभजदय मण्डलश्चण्डरश्मे. ॥ ७२ ॥ व्योम्नस्तापिच्छ-
---
१ सध्याया कृष्टा उपसहृतास्तेभ्योऽवशिष्टो य स्वकरगणा परि
कर मयूहस्तद्रूपा स्पष्टा हेमनिर्मितानामराणा पङ्किर्यस्मिस्तत्
२ दिशा चक्र मण्डलम्, रथाङ्ग च
२९६ सुभाषितरत्नभाण्डागारम् [ ६ प्रकरणम्
गुच्छावलिभिरिव तमोवल्लरीभिर्वियन्ते पर्यन्ता प्रान्तवृत्त्या पयसि वसुमती नूतने मज्जतीव । वात्यासंवेगविष्वग्वित- तवलयितस्फीतधूम्याप्रकाशं प्रारम्भेऽपि त्रियामा तरुणयति निजं नीलिमानं वनेषु ॥ ७३ ॥
चक्रवाकावस्थानारख्यानम्
रतिकेलिकल कश्चिद्देश मन्मथमन्थरः । पश्य सुश्रु समाश्वस्ता कादम्बश्चम्बति प्रियाम् ॥ १ ॥ दृष्टामरस- केमरत्यजो क्रन्दतोर्विपरिवृत्तकण्ठयो । निम्नयो सरसि चक्रवाकयोरल्पमन्तरमनल्पता गतम् ॥ २ ॥ आतपे धृतिमतो सह वध्वा यामिनीविरहिणा विहगेन । सेहिरे न किरणा हिमरश्मेर्दु खिते मनसि सर्वमसद्यम् ॥ ३ ॥ गम्यतामुपगते नयनाना लोहितायति सहस्रमरीचौ । आससाद विरहव्य धरित्रीं चक्रवाकहृदयान्यमितान् ॥ ४ ॥ इच्छता सह वधू- भिरभेद् यामिनीविरहिणा विहगानाम् । आपुरेव मिथुनानि वियोग लङ्घ्यते न खलु कौलनियोगः ॥ ५ ॥ यच्छति प्रतिमुखं दयितायै वाचमन्तिकगतेऽपि शकुन्तौ । नीयते स्म नतिमुज्झितहर्ष पङ्कज मुखमिवाम्बुरुहिण्या ॥ ६ ॥ आयाति याति पुनरेव जलं प्रयाति पद्माङ्कुर च विचिनोति धुनोति पक्षम् । उन्मत्तवद्भमति कूजति मुक्तकण्ठः कान्ता- वियोगविधुरो निशि चक्रवाकः ॥ ७ ॥ एकेनाक्ष्णा प्रवित- तरुषा वीक्षते लम्बमानं भानोर्बिम्बं जलविलुलितेनापरेण स्वकान्तम् । अहश्छेदे दयितविरहाशङ्किनी चक्रवाकी द्वौ सकीर्णौ रचयति रसौ नर्तकीव प्रगल्भा ॥ ८ ॥ वापीतोय तटरुहुवनं पद्मिनीपत्रशय्या चन्द्रालोको विकचकुसुमामोद- हृद्य समीर । यत्रैतेऽपि प्रियविरहिणो दाहिनश्चक्रनाम्न- स्तत्रोपायः क इव भवतु प्राणसवारणो यः ॥ ९ ॥ चक्राह्वो विरही हतोऽपि हृदये बाणेन न त्यक्तवान्प्राणानप्राणसमास- मागमसुखध्यानैकतानश्रिरम् । स्वा छायामवलोक्य वारिणि गलद्रक्तामवेक्ष्य प्रिया भ्रान्तस्तद्भवणवेदनापरिरतः कथं मृत साम्प्रतम् ॥ १० ॥ तीरात्तीरसमुपैति रौति करुणं चिन्ता समालम्बते किंचिद्ध्यायति निश्चलेन मनसा योगीव युंक्ते क्षण । स्वा छायामवलोक्य कूजति पुन कान्तेति मुग्ध खगो धन्यास्ते भुवि ये निवृत्तमनसो धिग्दुःखितान्कामिनः ॥ ११ ॥ मित्रे कापि गते सरोरुहवने बद्धानने ताम्यति क्रन्दत्सु भ्रमरेषु वीक्ष्य दयिताक्षिष्ठं पुर सारसम् । चक्राहेन वियोगिना बिसलता नास्वादिता नोज्झिता वक्रे केवलमर्गलेव निहिता जीवस्य निर्गच्छतः ॥ १२ ॥ भङ्क्त्वा भोक्तु न मुङ्के कुटिलबिसलताकोटिभिन्दोर्वितर्कात्ताराकारास्तुषार्त. पिबति न पयसा विप्रुषैः पत्रसस्थाः । छायामम्भोरुहाणाम्-
लिकुलसबला वेत्ति सध्यामसव्या कान्ताविश्लेषभीरुर्दिनमपि रजनीं मन्यते चक्रवाकः ॥ १३ ॥
संध्यावर्णनम्
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रविर्गेरिकगण्डशैलः । तस्यैव पातेन विचूर्णितास सध्यारजोराजिरिवोजिहीते ॥१॥ विहिताञ्जलिर्जनतया दधती विकसत्कुसुम्भकुसुमारुणताम् । चिरमुज्झितापि तनुरोज्झदसौ न पितुप्रसूः प्रकृतिमात्मभुवः ॥ २ ॥ अथ सान्द्रसाध्यकिरणारुणित हरिहेतितिहृति मिथुन पततो । पृथगुत्पपात विरहार्तिदलद्धृदयस्रुतासृगनुलेपिसमिव ॥ ३ ॥ निलय श्रिय सततमेतदिति प्रथितं यदेव जल- जन्म तया । दिवसयात्यात्तदपि सुक्तमहो चपलाजन प्रति न चोद्यमद्. ॥ ४ ॥ दिवसोऽनुमित्रमगमद्द्बिलय किमिहास्यते बत मयावलया । रुचिमर्तुरस्य विरहाधिगमादिति सध्ययापि सपदि व्यगमि ॥ ५ ॥ मुग्धस्य केलिविजितखरचापयष्टेरात- न्वती रुचिमतीव सुधाकरस्य । रागोद्धुरा स्फुटसमुत्थित- तारकश्रीः संध्याविरस्ति ननु कापि पतिवरेव ॥ ६ ॥
रजनिवर्णनम्
व्योमपात्रमपि चैकपाणिना स्फुटोडुकुसुमानि बिभ्रति । अन्यपाणिकलतेन्दुदर्पणा कामिनीव रजनीयमागता ॥ १ ॥ नृपतिपुरुषशङ्कितप्रचार परगृहदूषणनिश्चिरैतकवीरम् । घन- मिरनिरुद्धसर्वभावा रजनिरिय जननीव संवृणोति ॥ २ ॥ अस्तोदयाचलविलम्बिरविन्दुबिम्बव्याजात्क्षणं श्रवणयोर्नि- हितारविन्दा । ताराच्छलेन कुसुमानि समुत्क्षिपन्ती सध्येय- मागतवती प्रमदेव काचित् ॥ ३ ॥ शशाङ्के सनद्धे भरत इव सध्यायवनिका तिरोभूत्वा पुष्पाञ्जलिमिव विकीर्योडु- निकरम् । कलं गायन्तीभि कुमुदवनभृङ्गीभिरधुना नभोरङ्गं प्राप्ता विहरति निशोलासकवधूः ॥४॥ उन्मुक्ताभिर्दिवसम- धुना सर्वतस्तामिरेव स्वच्छायाभिर्निचुलितमिव प्रेक्ष्यते विश्व- मेतत् । पर्यन्तेषु ज्वलति जलधौ रत्नसानौ च मध्ये चित्रा- ङ्गीय रमयति तमःस्तोमनीला धरित्री ॥ ५ ॥ ज्योत्स्ना- भस्माच्छुरणधवला बिभ्रती तारकास्थीन्यन्तर्धानव्यसनरसिका रात्रिकापालिकीयम् । द्वीपाद्दीपं भ्रमति दधती चन्द्रमुद्रा- कपाले न्यस्त सिद्धाञ्जनपरिमल लाञ्छनस्य च्छलेन ॥ ६ ॥
तमोवर्णनम्
लिम्पतीव तमोऽङ्गानि वर्षतीवाञ्जनं नम । असत्पुरुष- सेवेव दृष्टिनिष्फलता गता ॥ १ ॥ अविज्ञातविशेषस्य सर्व
१ दैवर्नियोग
२ सबद्धदृष्टि
३ विन्दव •
१ नाट्यनिपुणा नटीव रात्रि
२ अङ्गलेप
३ कौतुके
४ रात्रिरूपा योगिनी
तमोवर्णनम्
२९७
तेजोपहारिण । स्वामिनो निर्विवेकस्य तमसाश्च किमन्तरम् ॥ २ ॥
आपूरितमिदं श्यामतमसतमसैरिलम् । ब्रह्माण्डमण्डल भाति सकज्जलकरण्डवत् ॥ ३ ॥
तनुलग्ना इव ककुभ क्ष्मावलय चरणचारपात्रमिव । वियदपि चालिकदघ्नं मुष्टिग्राह्य तम कुरुते ॥ ४ ॥
अम्बरविपिनम्बिदानी तिमिरवराहोऽवगाहते जलवेः । रोमसु यटस्य लब्धास्तारकजलबिन्दवो भान्ति ॥ ५ ॥
घटितमिवाञ्जनपुञ्जैः पूरितमिव मृगमदक्षोदैः । ततमिव तमालतरुभिर्वृतमिव नीलांशुकैर्भुवनम् ॥ ६ ॥
औषसातपमयादपलीन वासरच्छविविरामपटीय । सनिपत्य शनकैरिव निम्नादन्धकारमुदवाप समानि ॥ ७ ॥
एकतामिव गतस्य विवेक. कस्यचिन्न महतोऽप्युपलेभे । भास्वता निदधिरे भुवनानामात्मनीव पतितेन विशेषा. ॥ ८ ॥
रञ्जिता नु विविधास्तरुशैला नामितं नु गगनं स्थगित नु । पूरिता नु विषमेषु धरित्री संहृता नु ककुभस्तिमिरैण ॥ ९ ॥
रात्रिरागमलिनानि विकास पङ्कजानि रहयन्ति विहाय । स्पष्टतारकमियाय नमःश्रीर्वस्तुमिच्छति निरापदि सर्व. ॥ १० ॥
नोर्ध्वमीक्षणगतिर्न चाप्यधो नाभितो न पुरतो न पृष्ठत । लोक एष तिमिरौघवेष्टितो गर्भवास इव वर्तते निशि ॥ ११ ॥
शुद्धमाविलमवस्थित चलं वक्रमाजंवगुणान्वितं च यत् । सर्वमेव तमसा समीकृतं धिङ्महत्त्वमसता हतान्तरम् ॥ १२ ॥
पिर्दधति ^१तिमिरे^२ समस्तलोक प्रलयमहाब्धिनिभे भृतोच्चनीचे। व्यरुचदुडुगणो वैलक्षरोचिर्र्बहुविधफेनसमूहत्तुल्यरूप. ॥ १३ ॥
पतिते पतङ्गमृगराजि निजप्रतिबिम्बरोषित इवाम्बुनिधौ । अथ नागयूथमलिनानि जगत्यरितस्तमांसि परितस्तरिरे ॥ १४ ॥
व्यसरन्नु भूधरगुहान्तरत. पटलं बहिर्बहलपङ्करुचि । दिवसावसानपटुनस्तमसो बहिरेत्य चाधिकमभक्त गुहा. ॥ १५ ॥
किमलम्बताम्बरविलघ्रमध. किमवर्धतोर्ध्वमवनीतकत । विससार तिर्यगथ दिग्भ्य इति प्रचुरीभवन्न निरधारि तम. ॥ १६ ॥
स्थगिताम्बरक्षितितले परितस्तिमिरे जनस्य दृशमन्धयति । दृधिरे रसाञ्जनमपूर्वमत. प्रिय वेश्मवर्त्म सुदृशो ददृशु ॥ १७ ॥
अवधार्य कार्यगुरुतामभवन्न भयाय सान्द्रतमसन्तमसम् । सुतनो. स्तनौ च दयितोपगमे तनुरोमराजिपथवेपथवे ॥ १८ ॥
ददृशेऽपि भास्कररुचाहि न य. स तमी तमोभिरभिगम्य तताम् । युतिमग्रहीद्ग्रहगणो लघव. प्रकटीभवन्ति मलिनाश्रयत. ॥ १९ ॥
अनुलेपनानि कुसुमान्यबला कृतमन्वय. पतिषु दीपशिखाः । समयेन तेन चिरसुप्तमनोभवबोधनं समवबोधियत ॥ २० ॥
विवस्वतानायिषतेव मिश्रा. खगोऽसँहृक्षेण सम जनानाम् । गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्यकारं ॥ २१ ॥
चरमगिरिनिकुञ्जमुष्णभानौ भगवति गच्छति विप्रयोगखिन्ना । मुकुलितनयनाम्बुजा धरित्री वपुषि बभार तमांसि शैवलानि ॥ २२ ॥
काश्मीरगौरवपुषामभिसारिकाणामाबद्धरेखममितोरुचिमञ्जरीभि । एतत्त्मालदलनीलतम तमिस्र तत्प्रेमहेमेमनिकषोपलता तनोति ॥ २३ ॥
उद्गामदिग्द्विरदचञ्चलकर्णपूरगण्डस्थलोञ्चलदलस्तवकाकृतीनि । मीलन्नभासि मृगनाभिममानभासि दिक्कन्दरेषु विलसन्ति तमांसि ॥ २४ ॥
सिन्धो सुधाशुशल परिगृह्य सध्याक्षोमकरी निपत्तिताम्बरभूरूहाग्रे । चञ्चुपुटेन चपलेन तया विकीर्णास्तारगामिषेण पतिता इव पक्षखण्डा ॥ २५ ॥
व्यसनिन इव विद्या क्षीयते पङ्कजश्रीर्गुणिन इव विदेशे दैन्यमायान्ति भृङ्गा । कुनृपतिरिव लोके पीडयत्यन्धकारो धनमिव कृपणस्य व्यर्थतामेति चक्षु ॥ २६ ॥
इदं नभसि भीषणभ्रमदुलूककोलाहलैर्निशाचरविलासिनीनिवहदत्तनेत्रोत्सवम् । प्ररिस्फुरति निर्भरप्रचुरपङ्कमोल्हसदग्राहकुलमासलप्रबलबन्धमन्ध तम. ॥ २७ ॥
पुर पूर्वमेव स्थगयति ततोऽन्यामपि दिश क्रमात्कामन्रिद्रुमपुरविभागास्तिरयति । उपेत. पीनत्व तदनु भुवनसेक्षणपथ तम सघातोऽय हरति हरकण्ठद्युतिहर. ॥ २८ ॥
अमुष्मिन्ध्वान्तद्रुमकुहरनीरन्ध्रभरिते तम.खण्डे पिण्डीकृतबहलकालायसघने । ^१यैतामद्यास्माकं कथमपि पुरोन्यस्तचरणं निमेषेऽप्युन्मेषे नहि नहि विशेषो नयनयो. ॥ २९ ॥
^२काँकोलः कलकण्ठिका कुवलय ^३काँदम्बिनी कर्दम. कंसारि ^४कॅबरी ^५कृपाणलतिका कस्तूरिका कज्जलम् । कालिन्दी कषपट्टिका ^६र्करिघटा कामारिकण्ठस्थली यस्यैते ^७र्करदा भवन्ति सखि तद्वन्दे विनिद्रं तम ॥ ३० ॥
कि भूमौ परित. स्फुरन्ति करिण. कस्तूरिकाया रसै. सिक्ता. कि निखिला दिश. किमखिल लिस मषीभिर्नभ । कि व्याए भुवन समस्तमपि च श्रीकण्ठकण्ठत्विषा कालिन्दीजलकान्तिभाजि निबिडे जातेऽन्धकारेऽधुना ॥ ३१ ॥
सद्यः सान्द्रमषीविलुप्तककुभ. क्षिग्धेन्द्रनीलद्रवव्यामीलन्नभसो निरन्तरमिलन्नीलीरसश्च्योतिन. । एते कोकिलकायकालिमहृतो लुम्पन्ति वृत्ति दृशोरुन्निद्राञ्जनपुञ्जमेचकरुचो ^८भीमास्तम प्रक्रमा ॥ ३२ ॥
चिन्वञ्चौरैश्चिकीर्षितानि घटयद्द्वेताल गोष्ठीसुखं तन्वानं ^९शैवसाधनोत्सवसरस निर्व्याजवीरात्मनाम् । कुर्वत्कामुकशानुसमनसा गुप्ताङ्गनासंगमं दृप्यत्कोकिलकालकण्ठमलिनं
१ तिरोधति सति
२ अन्धकारे
३ ववलकान्ति
४ किरणा
३८ सु र भा.
१ गच्छताम्
२ विषभेद
३ मेघपङ्कि
४ केशपाश
५ खङ्ग-लतिका
६ गजसमूह
७ करप्रदा
८ कर्तव्यकर्मणि
९ प्रेतसाधनविधि