तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)
Taittiriya Aranyaka Hindi
महर्षि वैशम्पायन द्वारा
स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)
२ प्रपाठके १० अनुवाकः । २४१
पय॑ आहुतिभिरेव तद्दे॒वाꣳस्त॑र्पयति॒ यद्यजूं॑ꣳषि घृ- ताहु॑तिभि॒र्यत्सामा॑नि॒ सोमा॑हुतिभि॒र्यद॑थर्वाङ्गिर॒सो मध्वा॑हुतिभि॒र्यद्ब्राह्म॑णा॒नीति॑हासा॒न् पुरा॑णा॒नि क- ल्पा॒न् गाथा॑ नारा॒शꣳसी॒र्मेदा॑हुतिभिरे॒व तद्दे॒वाꣳस्त॑- र्पयति॒ त ए॑नं तृ॒प्ता आयु॑षा॒ तेज॑सा॒ वर्च॑सा श्रि॒या यश॑- सा ब्रह्मवर्च॒सेना॒न्नाद्ये॑न च तर्पयन्ति^(८) ॥ १० ॥
ब्रह्मयज्ञं प्रशंस्य देवतृप्त्यापि प्रशंसति । ^{(८)}“यदृचोधीते ० तर्पयन्ति”^{(८)} इति । ऋगध्ययनं यदस्ति तेन क्षीराहुतिसमाना देवानां तृप्तिर्भवति । एवमुत्तरत्रापि योज्यं । ‘ते’ देवाः, ‘तृप्ताः’, सन्तः ‘एनं’ यजमानं, आयुरादिभिः ‘तर्पयन्ति’ ‘तेजः’ शरीरकान्तिः, ‘वर्चः’ बलं ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके दशमोऽनुवाकः ॥ १० ॥
२ G
| २४२ | तैत्तिरीये आरण्यके |
|---|
अथ एकादशोऽनुवाकः।
(१)ब्रह्म॑य॒ज्ञेन॑ य॒क्ष्यमा॑णः प्राच्यां दिशि ग्रामा॒दच्छ॑दि-
दर्श उदीच्यां॑ प्रागु॒दीच्यां वोदि॑त आ॒दि॒त्ये द॑क्षिणत
उप॑वीत्योपवि॒श्य हस्ता॑वव॒निज्य॑ त्रिराचा॑मेद्द्विः परि॑-
मृज्य॒ सकृ॑दुप॒स्पृश्य॒ शिर॑श्चक्षुषी नासि॑के॒ श्रोत्रे॒ हृद॑य-
मालभ्य॑^(१) ^(२)यत्त्रिराचा॑म॑ति॒ तेन॒ ऋचः॑ प्रीणाति॒ यद्द्विः॑
परि॑मृज॑ति॒ तेन॒ यजूं॑षि॒ यत्स॒कृदुप॑स्पृश॑ति॒ तेन॒ सा-
मा॑नि॒ यत्स॒व्यं पा॒णिं पादौ प्रोक्ष॑ति॒ यच्छिर॑श्चक्षुषी ना-
अथ एकादशोऽनुवाकः।
दशमे ब्रह्मयज्ञोऽभिहितः। एकादशे तत्प्रयोगोऽभिधी-
यते। (१)“ब्रह्मयज्ञेन ० हृदयमालभ्य”(१) इति। यः पुमान्
ब्रह्मयज्ञं करिष्यति सोऽयं 'ग्रामात्', प्राचीमुदीचीं ऐशानीं वा-
दिशं गच्छेत्*। गृहस्योपरि आच्छादनार्थानि तृणकटादीनि
छर्दीषि यावति दूरे तानि न दृश्यन्ते तावद्दूरम् 'अच्छदिद्दर्शः',
तत्र गत्वा सूर्ये अभ्युदिते सति प्रथमानुवाकोक्तप्रकारेण यज्ञो-
पवीतं कृत्वा† शुद्धप्रदेशे 'उपविश्य', हस्तद्वयं पूर्वं शुद्धमप्ये-
तदङ्गत्वेन पुनः प्रक्षाल्योदकं त्रिः पिबेत्‡ 'द्विः परिमृज्य',
* गच्छन् इति तै० पाठः।
† गृहीत्वा इति तै० पाठः।
‡ ततः चोष्ठौ इत्यधिकः तै० पाठः।
२ प्रपाठके ११ अनुवाकः। २४३
सिके॒ श्रोत्रे॒ हृद॑य॒माल॑भते॒ तेना॑थर्वाङ्गि॒रसौ ब्रा॑ह्म॒णा-
नी॑तिहा॒सान् पु॑रा॒णानि॒ कल्पा॒न् गाथा॑ नाराश॒ꣳसीः
प्रीणाति॑^(२) ।^(२)दर्भाणां॑ मह॒दुप॑स्ती॒र्योपस्थं॑ कृ॒त्वा प्राङ्-
शुद्ध्यर्थमुदकेन तदा हस्तं प्रक्षालयेत्, तत ओष्ठौ 'सकृदुपस्पृश्य', शिरःप्रभृतीन् हृदयपर्यन्तानवयवान् क्रमेण स्पृष्ट्वा दर्भाणां महदित्यादिना वक्ष्यमाणेन सहान्वयः ॥
अथाचमनादीन् प्रशंसति । ^(१)“यत् त्रिराचामति ० प्रीणाति”^(२) इति । अत्र सव्यपाणिपादयोः प्रोक्षणकथनादेव*, प्रोक्षणविधिरुन्नेतव्यः ॥
हृदयस्पर्शनोत्तरभाविकर्त्तव्यं विधत्ते । ^(२)“दर्भाणां ० कुरुते”^(१) इति । ‘दर्भाणां’, सम्बन्धि ‘महत्’ प्रभूतं, यथा भवति तथाऽऽसनं ‘आस्तीर्य’, तस्योपरि ‘उपस्थं कृत्वा’, उपस्थशब्द आसनविशेषं ब्रूते, आकुञ्चितस्य सव्यजानुन उपरि दक्षिणपादप्रक्षेपे सति यत् सुखावस्थानं भवति तत् कृत्वा । प्राङ्मुखः ‘आसीनः’, स्वकीयां शाखामधीयानः† दर्भाणामपांरसत्वमन्यत्राम्नातं, तासां यन्मेध्यं यज्ञियꣳ सदेवमासीत्, तदपोदक्रामत् ते दर्भा अभवन्निति । ‘ओषधीनां’, मध्ये शुद्धिहेतुत्वात् तत्सारत्वं ततो दर्भासनत्वादधीयानं‡ ‘ब्रह्म सरसं’, भवति ॥
* प्रशंसाबलादेवेति तै० पाठः । † शाखामधीयीत इति तै० पाठः
‡ शुद्धिहेतुत्वादपारक्यं तदर्भासनेऽधीयमानमिति तै० पाठः ।
2 G 2
| २४४ | तैत्तिरीय आरण्यके |
|---|
सोंनः स्वाध्या॒यमधी॑यी॒तापां वा ए॒ष ओष॑धीना॒ꣳ
रसो॒ यद्दर्भाः सर॑समे॒व ब्रह्म॑ कुरुते^{(३)} ^{(४)}दक्षि॑णोत्त॒रौ
पाणी॒ पादौ॑ कृ॒त्वा सप॑वित्रा॒वोमिति॑ प्रति॑पद्यत ए॒त-
अत्रोपक्रमे कञ्चिद्विशेषं विधत्ते । ^{(४)}“दक्षिणोत्तराँ • परममक्षरं”^{(४)} इति । दक्षिणः पाणिरुत्तरो ययोस्तौ ‘दक्षिणोत्तरौ’ वामं पाणिं दक्षिणजानुन ऊर्ध्वमुत्तानं कृत्वा तस्योपरि दक्षिणहस्तमवाञ्चं कुर्यात्, तादृशौ च* ‘पाणी’, पवित्रयुक्तौ कार्यौ†, तथा दक्षिणपादोऽपि वामपादस्योपरिस्थापनीयः । एवं कृत्वा ‘ॐमिति’ प्रणवोच्चारणेनोपक्रमं कुर्यात्, योऽयमोमित्येवं रूपो यजुर्मन्त्रः स ‘त्रयीं विद्यां’, ‘प्रति’ वेदत्रयस्य प्रतिनिधिरूपः अतएव प्रणवगतानामकारोकारमकारमात्राणां‡ । वेदत्रयरूपेणाध्ययनं§ आथर्वणिका आममन्ति, तस्य ह वै प्रणवस्य पूर्वा मात्रा पृथिव्यकारः, स ऋग्भि ऋग्वेदोऽथ द्वितीयान्तरिक्षं॥ स उकारः, स यजुर्भिर्यजुर्वेदस्तृतीया द्यौः, स मकारः, स सामभिः सामवेदैरिति । किञ्च ‘एषा’ प्रणवरूपा, सर्वा ‘वाक्’, अपि । अतएव छन्दोगा आमनन्ति, तद्यथा शङ्कुना सर्वाणि पर्णानि
* तावुभौ चेति तै० पाठः ।
† ‘कृत्वा’, इति तै० पाठः ।
‡ प्रणवगताकारोकारमकारार्द्धमात्राणां इति तै० पाठः ।
§ रूपत्वेन ध्यानं इति तै० पाठः ।
॥ स ऋग्भिर्यद्यन्तरिक्षं इति तै० पाठः ।
२ प्रपाठके ११ अनुवाकः। २१५
द्वे यजु॑स्त्र॒यीं वि॒द्यां प्रत्ये॒षा वागे॒तत् प॑र॒मम॒क्षरं॑^{(४)} ^{(५)}तदे॒तदृचा॒भ्युक्तं॑^{(५)} ^{(६)}ऋचो॒ अक्ष॑रे पर॒मे व्यो॑मन् य-
संतृणान्येवमोङ्कारेण सर्वा वाक् संतृणेति अश्वत्थपर्णेषु दृश्य- मानास्तन्तुदृष्टावयवाः शङ्कवः, तैर्यथा कृत्स्नानि पर्णानि व्याप्तानि, तद्वदोङ्कारेण सर्वा अपि वाग्व्याप्ता। ऐतरेयास्तु प्रणवादेरकारस्यैव सर्ववाग्व्याप्तिमामनन्ति। अकारो वै सर्वा वाक् सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवतीति। अतएव मातृकामन्त्रे सर्वानपि ककारादीन् वर्णानकारशिर- स्कानेव* पठन्ति। यस्माद्युक्तं प्रणवस्य सर्वात्मकत्वं, किञ्चैतत् प्रणवस्वरूपमुत्कृष्टमक्षरमविनश्वरं सर्ववेदान्तवेद्यं परब्रह्म वस्तु। अतएव पिप्पलादशाखायामधीयते, एतद्वै सत्यकामं परं चापरञ्च ब्रह्म यदोङ्कार इति। कठाश्च पठन्ति, एतदेवाक्षरं ब्रह्म एतदेवाक्षरं परमिति। तस्मात् प्रणवेनैव स्वाध्यायप्रा- रम्भो युक्तः॥
प्रणवं प्रशंस्यापरामृचमवतारयति। ^{(५)}“तदेतदृचाभ्युक्तं”^{(५)} इति। ‘तदेतत्’ परब्रह्मस्वरूपं प्रणवाक्षरं, कयाचित् ‘ऋचा’, स्पष्टम्, ‘उक्तं’॥
तामृचं दर्शयति। ^{(६)}“ऋचो अक्षरे ० समासते इति”^{(६)} इति। या एताः ‘ऋचः’, ताः सर्वाः ‘परमे’ उत्कृष्टे, ‘व्योमन्’
* षकारादिशिरस्कानिति तै० पाठः।
२४६ तैत्तिरीये आरण्यके
स्मि॑न् दे॒वा अधि॒ विश्वे॑ निषे॒दुर्यस्तन्न वेद॒ किमृचा॑ क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा॑सत॒ इति॑⁽६⁾ ⁽७⁾चो-
विशेषेण रचके, ‘अक्षरे’ प्रणवे, ‘निषेदुः’ आश्रिताः। अत एव कठशाखायामधीयते । सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति। यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीम्योमित्येतदिति। न केवलमृच एव तस्मिन् प्रणवे समाश्रिताः किन्तु ‘विश्वे’ सर्वे, ‘देवाः’, अपि ‘यस्मिन्’ प्रणवाक्षरे, ‘अधिनिषेदुः’ अधिकत्वेन निषण्णाः। अतएवोत्तरतापनीये देवानां परमात्मध्यानार्थं प्रणवपर्यवसानमुक्तं, आत्मानमनुष्टुभान्विष्य प्रणवेनैव तस्मिन्नवस्थिता इति। अनेनैव प्रकारेण ऋचो देवाश्च ‘यस्मिन्’ प्रणवे, ‘निषेदुः’, ‘तत्’ प्रणवाक्षरं, ‘यो न वेद’ स पुमानधीयानोऽपि* ‘ऋचा किं करिष्यति’, न खलु वृषरहितां केवलां कृषिं केचित् प्रार्थयन्ते। ‘य इत्’ ये पुनर्महात्मानः, ‘तत्’ प्रणवाक्षरं, ‘विदुः’, ‘ते’ महर्षयः, ‘इमे’ परिदृश्यमानाः परमहंसाः, ‘समासते’ सम्यगवतिष्ठन्ते। ऐहिकामुष्मिकविषयक्लेशरहिताः सुखिनो वर्त्तन्ते। तांस्तु परमहंसान् जाबालशाखाध्यायिन उदाहरन्ति। तत्र परमहंसा नाम संवर्त्तकारुणिश्वेतकेतुदुर्वासामुनिदाच्यजडभरतदत्तात्रेयरैवतकप्रभृतय
* सप्रणवमधीत्यापि इति तै० पाठः ।
२ प्रपाठके ११ अनुवाकः। २४७
नेव प्रायु॑ङ्क्त॒ भूर्भुव॒: स्वरित्या॑है॒तद्वै वाचः॑ स॒त्यं यद्वे॒व वाचः॑ स॒त्यं यदे॒तत् प्रायु॑ङ्क्त^(७) ^(८)अथ॑ सावि॒त्रीं गा॑य॒त्रीं त्रि॒रन्वा॑ह प॒च्छोऽर्ध॑र्च॒शोऽन॑वानग्ँ स॑वि॒ता श्रियः॑ प्रस-
इति। इत्याङ्गिरसमन्त्रेण प्रशस्तत्वात् प्रणवस्य वेदत्रयप्रतिनिधित्वं युक्तं ॥
तेन प्रणवेन प्रारभ्य पश्चात् पठनीयान् मन्त्रान् दर्शयति। ^(७)“त्रीणेव ० तत् प्रायुङ्क्त”^(७) इति। ‘भूर्भुवः स्वः’ इति यद्व्याहृतित्रयं, तल्लोकत्रयात्मकब्रह्मप्रतिपादकं, तत् ‘आह’ पठेत्। तेन त्रीनेव वेदान् प्रयुक्तवान् भवति। व्याहृतीनां वेदत्रयसारत्वेन प्रोक्तत्वात्*। एतच्च छन्दोगा अधीयते, स एतां त्रयीं विद्यां अभ्यतपत् एतस्यास्तप्यमानाया रसान्प्रावृहत्† भूरित्यृग्भ्यो भुव इति यजुर्भ्यः स्वरिति सामभ्य इति वेदत्रयसारत्वेन वाचःसम्बन्धि सत्यस्वरूपमित्युच्यते। अतस्तत् सत्यमेव प्रयुक्तवान् भवति ॥
व्याहृतित्रयादूर्ध्वं पठनीयं दर्शयति। ^(८)“अथ सावित्रीं ० प्रतिपद्यते”^(८) इति। इति ‘अथ’ व्याहृत्यनन्तरं, ‘सावित्रीं’ सवितृदेवताकां, गायत्रीच्छन्दस्कां तत्सवितुरित्यादिकामृचं च त्रिः पठेत्। तत्रायं प्रकारः, प्रथमं ‘पादशः’ पादे पादे
* प्रजापतिनोक्तत्वात् इति तै० पाठः
† रसान् प्राप्तवान् इति तै० पाठः ।
२४८ तैत्तिरीये आरण्यके
वि॒ता श्रिय॑मे॒वाप्नोत्यथो॑ प्र॒ज्ञाते॑यैव प्रति॑पदा॒ च्छन्दाँ॑- सि॒ प्रति॑पद्यते^(८) ॥ ११ ॥
विरम्य, पठेत् । ततः ‘अर्धर्चशः’ एकैकस्मिन्नर्द्धे विरम्य, पठेत् । ततः ‘अनवानं’ विरामरहितं यथा भवति, तथा पठेत् । तस्यामृचि प्रतिपाद्यो यः ‘सविता’, सोऽयं ‘श्रियः’, ‘प्रेरकः’, अतो ब्रह्मयज्ञानुष्ठायी ‘श्रियं प्राप्नोति’, एव। एवमेकस्मिन्न- हनि विधानमुक्तं ‘अथो’ अनन्तरं, तदा दिवसेषु प्रज्ञातयैव ‘प्रतिपदा’ पूर्वस्मिन् दिवसे किञ्चित् पठित्वा परेद्युरनुष्ठाना- यायमुपक्रम इति या प्रतिपत् प्रज्ञाता यः प्रारम्भप्रदेशो बुद्धौ स्थापितः तयैव प्रतिपदा प्रारम्भप्रदेशेन, ‘छन्दांसि’ वेदावयवान्, परेद्युः ‘प्रतिपद्यते’ प्रारभते । पूर्वेद्युर्यावद्व्यवसितं तत एवारभ्योत्तरेद्युरधीयीत न तु विप्रयुक्तं कञ्चिद्वेदभागं ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके एकादशोऽनुवाकः ॥ ११ ॥
२ प्रपाठके १२ अनुवाकः । २४६
अथ द्वादशोऽनुवाकः ।
(१)ग्रा॒मे मन॑सा स्वा॒ध्या॒यमधी॑यीत॒ दिवा॒ नक्तं॑ वा(१)
(२)इति॑ ह॒ स्माह॒ शौच॑ आ॒ह्नेयः॑(२) (३)उ॒तार॑ण्येऽब॒लं
अथ द्वादशोऽनुवाकः ।
यत् पूर्वमुक्तं प्राच्यां दिशि ग्रामाद्बहिरित्यादि । तत्राशक्तस्यानुकल्पं विधत्ते । (१)“ग्रामे मनसा • नक्तं वा”(१) इति । यदा बहिर्गन्तुमशक्तः ‘ग्रामे’, अधीते तदा ‘मनसा’, एव ‘अधीयीत’, उदित आदित्ये प्रारब्धुमशक्तश्चेत् ‘दिवा नक्तं अधीयीत’ ॥
कस्यचिन्महर्षेर्मते मुख्य एवायं पक्षोऽपीति दर्शयितुमेतमृषिमुदाहरति । (२)“इति ह स्माह • आह्नेयः”(२) इति । शुचिनामकस्य महर्षेः पुत्रः ‘शौचः’, इति । अह्निसंज्ञिताया मातुः पुत्रः ‘आह्नेयः’, महर्षिः ‘इति ह स्माह’ ग्रामे मनसेत्यादिकमपि मुख्यपक्षमेवेत्याह ॥
नियमान्तरेष्वशक्तस्यानुकल्पान् विधत्ते । (३)“उतारण्ये • स्वाध्यायमधीते” (३) इति । ग्रामे मनसाध्ययनमुक्तं* ‘अरण्ये’, अपि ‘अबलः’ अशक्तश्चेत्, मनसाधीयीत† । तमेवाबलं प्रति उत वाच इति पक्षान्तरमुच्यते । उच्चैरध्येतुमशक्तः केवलेन मनसा यदा निद्रालस्यचिन्तादिकं भवति तदानीं ‘वाचा’
* मनसा स्वाध्यायमुक्तमिति तै० पाठः ।
† अशक्तश्चेद्ग्रामेधीयीतेति तै० पाठः ।
2 H
२५० तैत्तिरीये आरण्यके
उत॒ वाचो॑त ति॒ष्ठन्नुत॒ व्रज॒न्नुतासी॑न॒ उत॒ शया॑नोऽधी- यी॒तैव स्वा॒ध्यायं तप॑स्वी पु॒ण्यो भ॑वति॒ य ए॒वं वि॒द्वा- न्स्वा॒ध्यायमधी॒ते॑ ⁽³⁾ ⁽⁴⁾नमो॒ ब्रह्म॑णे॒ नमो॑ अ॒स्त्व॒ग्नये॒ नम॑: पृथि॒व्यै नम॒ ओष॑धीभ्यः । नमो॒ वाचे नमो॑ वा॒- चस्पत॑ये॒ नमो॒ विष्ण॑वे बृह॒ते क॑रोमि⁽⁴⁾ ॥ १२ ॥
जिह्वास्पन्दनमात्रेण,'अधीयीत' । दर्भेष्वासीन इति* यदुक्तं त- च्चासनानिर्वन्धे शक्तिरहितस्य उत व्रजन्नित्यादयः पक्षाः। आलस्य परिहारायेतस्ततः शनैः 'व्रजन्', वा क्वचिदेव तिष्ठन्वा नियम- मन्तरेण स्वेच्छयैवापविश्य वा 'शयानः', वा स्वशक्त्यनुसारेण 'स्वाध्यायमधीयीतैव' । न त्वङ्गलोपानुसारेण प्रधानस्य लोपो न्याय्यः, तादृशस्वाध्याययुक्तोऽपि 'तपस्वी भवति', अध्ययनफलं प्राप्नोति, 'पुण्यः' पङ्क्तिपावनश्च, 'भवति' ॥
एतस्य ब्रह्मयज्ञस्याङ्गभूतं कञ्चिन् मन्त्रं प्रदर्शयति । ⁽⁴⁾ 'नमो ब्रह्मणे ० बृहते करोमि'⁽⁴⁾ इति । ब्रह्मशब्देन वेदः प्रजापतिर्वाोच्यते । वाक्शब्देन सरस्वती, 'वाचस्पतिः', बृह- स्पतिः । प्रशस्तत्वात् 'विष्णुः', 'बृहत्' । अस्य मन्त्रस्य विनियोग उपरिष्टाद्भविष्यति† ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके द्वितीयप्रपाठके द्वादशोऽनुवाकः ॥ १२ ॥
* प्रागासीन इति तै० F च पाठ ।
† विनियोगमुपरिष्टाद्वक्ष्यति इति तै० पाठः ।
२ प्रपाठके १३ अनुवाकः । २५१
अथ त्रयोदशोऽनुवाकः ।
(१)मध्यन्दि॑ने प्र॒बल॒मधी॑यीतासौ खलु॒ वा ए॒ष आ॑दि॒त्यो यद्ब्राह्म॑ण॒स्तस्मा॒त्तर्हि॒ तेजि॑ष्ठं तप॒ति॒ तदे॒षाभ्य॑क्ता^(१) । (२)चि॒त्रं दे॒वाना॒मुद॑गादनी॑कं चक्षु॑र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः । आप्रा॒ द्यावा॑पृथि॒वी अ॒न्तरि॑क्ष॒ꣳ सूर्य॑
अथ त्रयोदशोऽनुवाकः ।
तत्रैव ब्रह्मयज्ञे कञ्चिदन्यं विशेषं विधत्ते । ^(१)“मध्यन्दिने ० तदेषाभ्युक्ता”^(१) इति । मध्यन्दिनकाले 'प्रबलं' उच्चतरं यथा भवति तथा, 'अधीयीत' । योयं ब्रह्मयज्ञानुष्ठाता ब्राह्मणोऽस्ति सः 'एषः', 'असौ' दिवि दृश्यमानः,* 'आदित्यः', एव तत्प्राप्तियोग्यत्वात्, यस्मादादित्यरूपः 'ब्राह्मणः', 'मध्यन्दिने प्रबलमधीयीत', 'तस्मात्', तदात्मक आदित्योपि 'तर्हि' मध्यन्दिने काले, 'तेजिष्ठं' अतिशयेन तीक्ष्णं यथा भवति, तथा 'तपति' । 'तत्' एतदादित्यमाहात्म्यं प्रति, काचित् ऋक् 'अभ्युक्ता'† ॥
तामेतामृचं दर्शयति । ^(२)“चित्रं देवानामुदगादनीकं ० जगतस्तस्थुषश्चेति”^(२)इति । 'देवानां' दीप्यमानानां रश्मीनाम्, 'अनीकं' समूहं नानारूपमादित्यमण्डलं, 'चित्रं' कालभेदेना-
* दिवि विद्यमान इति तै० पाठः ।
† काचित् ऋगप्युदीरिता इति तै० पाठः ।
2 H 2
२५२ तैत्तिरीये आरण्यके
आ॒त्मा जग॑तः स्त॒स्थुष॑श्चेति॑⁽²⁾ ⁽²⁾स वा ए॒ष य॒ज्ञः स॒द्यः प्रता॑यते स॒द्यः सन्ति॑ष्ठते॒ तस्य॒ प्राक्सा॒यम॑वभृ॒थः⁽³⁾ ⁽⁴⁾नमो॒ ब्रह्म॑ण॒ इति॑ परिधानीयां॑ त्रि॒रन्वाह॑⁽⁴⁾ ⁽⁵⁾अ॒प
रुणशुक्लादिवर्णोपेतत्वात् चित्रं, तादृशं मण्डलम् ‘उदगात्’ पूर्वस्यां दिश्युदयं प्राप्नोत्, तच्च मण्डलम्न्धकारनिवारणोप- युक्तत्वात्* मित्रादीनां चक्षुस्थानीयं । तदर्थमेव लोकत्रयम् ‘आप्राः’ रश्मिभिरापूर्य वर्त्तते, तन्मण्डलवर्त्ती सूर्य्यरूपः पर- मात्मा ‘जगतः’ जङ्गमस्य, ‘तस्थुषः’ स्थावरस्य, ‘आत्मा’ जीवरूपेण शरीरेष्ववस्थितः । ‘इति’ अनेन मन्त्रेण, आदित्यमाहात्म्य- मवगन्तव्यं ॥
ब्रह्मयज्ञस्य इतरयज्ञवैलक्षण्यं दर्शयति । ⁽²⁾“स वा एषः० प्राक्सायमवभृथः”⁽³⁾ इति । अयं ब्रह्मयज्ञः यस्मिन्नहनि प्रारभ्यानुष्ठीयते तस्मिन्नेवाहनि समाप्यते नतु यज्ञान्तरवदित- रदिनेष्वनुगच्छति तस्मात् ‘प्राक्’ प्रातःकाले, प्रारब्धस्य तस्य यज्ञस्य ‘सायं’, ‘अवभृथः’ समाप्तिः ॥
समाप्तिकाले मन्त्रविशेषं विधत्ते । ⁽⁴⁾“नमो ब्रह्मणे ० त्रिरन्वाह”⁽⁴⁾ इति । परिधीयते समाप्यते यया सेयमृक् ‘परि-
* निवारणेनोपकारित्वात् इति तै० पाठः ।
२ प्रपाठके १४ अनुवाकः। २५३
उ॒प॒स्पृश्य॑ गृ॒हाने॑ति॒ ततो॒ यत्किञ्च॒ ददा॑ति॒ सा द॑क्षिणा॑^(५) ॥ १३ ॥
अथ चतुर्दशोऽनुवाकः।
^(१)तस्य॑ वा ए॒तस्य॑ य॒ज्ञस्य॑ मे॒घो ह॑वि॒र्धानं॑ वि॒द्युद॒ग्नि-
र्वर्ष॒ꣳ ह॒विस्त॑नयि॒त्नुर्वष॑ट्का॒रो यद॑व॒स्फूर्ज॑ति॒ सोऽनु॑-
धानीया', सा चात्र पूर्वानुवाके आम्नाता, ॐ नमो ब्रह्मणे इत्येषा, तां 'त्रिः', पठेत् ॥
तत्पाठादूर्ध्वं कर्त्तव्यतां दर्शयति । ^(५)“अप उपस्पृश्य ० सा दक्षिणा”^(५) इति । सेयं 'दक्षिणा', गृह एव नचारण्य इत्यर्थः ॥
इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके द्वितीयप्रपाठके त्रयोदशोऽनुवाकः ॥ १३ ॥
अथ चतुर्दशोऽनुवाकः।
ग्रहणाध्ययने यान्यनध्यायकारणानि* तानि ब्रह्मयज्ञाध्ययने स्वाध्यायं न निवारयन्तीति वक्तुन्तेषामनध्यायकारणानां यज्ञाङ्गतामुपचरति । ^(१)“तस्य वा एतस्य ० स्विष्टकृत्”^(१)
* अनध्ययनकारणानि इति तै० पाठः ।
२५४ तैत्तिरीये आरण्यके
वषट्का॒रो वा॒युरा॒त्माऽमा॑वा॒स्या॑ स्विष्ट॒कृत्^(१) ^(२)य ए॒वं वि॒द्वान्मे॒घे व॑र्षति वि॒द्योत॑माने स्तनय॑त्यवस्फू॒र्जति॑ पव॑माने वा॒याव॑मावा॒स्या॑याꣳ स्वाध्याय॒मधी॑ते* तप॑ एव तत् तप्यते॒ तपो॒ हि स्वा॒ध्याय॒ इति^(२) ^(३)उ॒त्तमं॒ नाकꣳ
इति । अनध्यायहेतूनापस्तम्बो दर्शयति । विद्युत् स्तनयितु- वृष्टिश्चापत्तौ यत्र सन्निपतेयुस्त्र्यहमन्ध्याय इति । सोय- मकालमेघो ग्रहणाध्ययने निषिद्धोऽपि ब्रह्मयज्ञाध्ययने स्वी- कार्य एव । यथा सोमयागे ‘हविर्धानं’, न यागविरोधि तथा तत्र ‘मेघः’, अपि । एवं विद्युदादौ द्रष्टव्यं । † अकाले महानु- त्पातरूपो ‘वायुः’ । ‘आत्मा’ यजमानस्थानीयः । स्पष्टमन्यत् ॥
अनध्यायहेतूनां‡ वर्जनीयत्वं निवार्य उपादेयत्वं दर्शयति । (२) “य एवं ॰ स्वाध्याय इति” (२) इति । मेघादयो विरोधिनो न भवन्तीति ‘यो विद्वान्’, सोयं सत्स्वपि मेघादिनिमित्तेषु ‘स्वाध्यायमधीयीत’, तदा ‘तपः’, तप्तं भवति । यस्मादयं ब्रह्मयज्ञः ‘स्वाध्यायः’ कृच्छ्रचान्द्रायणादिवत्तपोरूपः, तस्मान्न सन्त्यनध्या- याः । नहि चान्द्रायणादिकं मेघादिषु वर्ज्यते ॥
कदाचिदप्यवर्जनेनानुष्ठितस्य ब्रह्मयज्ञस्य फलं दर्शयति । (३) “उत्तमं ॰ सायुज्यं गच्छति” (३) इति । अनेन ब्रह्मयज्ञेन
* स्वाध्यायमधीयीतेति तै० पाठः ।
† “र्वातः” ग्रामग्रहादिदाहकः, इति तै० F च अधिकः पाठः ।
‡ अथ अनध्ययनहेतुना इति तै० पाठः ।
२ प्रपाठके १४ अनुवाकः । २५५
रोह॑त्युत्त॒मः समा॑नानां॒ भव॑ति॒ याव॑न्तरँ ह॒ वा इ॒मां वि॒त्तस्य॑ पू॒र्णां दद॒त् स्वर्गं॑ लो॒कं जय॑ति॒ ताव॑न्तं लो॒कं ज॑यति॒ भूया॑ꣳसं चा॒क्ष्यं॑ चाप॑ पुनर्मृ॒त्युञ्ज॑यति॒ ब्रह्म॑णः सायु॑ज्यं गच्छति⁽³⁾ ॥ १४ ॥
मरणादूर्ध्वं 'उत्तमं' स्वर्गम्, 'आरोहति', जीवनवेलायां पङ्क्तिपावनत्वात् 'समानानां', मध्ये 'उत्तमो भवति' । उत्तमः स्वर्ग एव प्रपञ्च्यते । वित्तेन 'पूर्णां', पृथिवीं ब्राह्मणेभ्यः 'द- दत्', पुरुषः 'यावन्तं', 'स्वर्गं', अनेकभोगोपेतं प्राप्नोति, 'तावन्तं', असौ प्राप्नोति । ततो 'भूयाꣳसं' अधिकमपि, प्राप्नोति 'अ- क्ष्यं' पुनरावृत्तिरहितञ्च, 'लोकं', प्राप्नोति । तत्प्राप्तेरूर्ध्वं 'पुनः', 'मृत्यु', न प्राप्नोति । किन्तु परब्रह्मणः 'सायुज्यं' मोक्षं, 'गच्छति' ॥
इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरा- रण्यके द्वितीयप्रपाठके चतुर्दशोऽनुवाकः ॥ १४ ॥
२५६ तैत्तिरीये आरण्यके
अथ पञ्चदशोऽनुवाकः ।
(१)तस्य॑ वा ए॒तस्य॑ य॒ज्ञस्य॒ द्वावे॑नध्या॒यौ यदा॒त्माऽशुचि॒र्यद्देशः॑ । (२)समृ॑द्धिर्देव॒तानि॑ । (३)य ए॒वं वि॒द्वान् म॑हारा॒त्र उप॒स्युदि॑ते व्रजँ॒स्तिष्ठ॒न्नासी॑नः॒ शया॑नोऽर॒ण्ये ग्रा॒मे वा॒ याव॑त्तर॒ꣳ॒ स्वा॒ध्या॒यमधी॑ते सर्वँ॑
अथ पञ्चदशोऽनुवाकः ।
ग्रहणस्वाध्याये यानि कारणान्यनध्यायस्य तान्यत्रापोद्य कारणान्तरमनध्यायस्य दर्शयति । (१)“तस्य ० यद्देशः” (१) इति । उक्तस्य ब्रह्मयज्ञस्य ‘द्वावनध्यायौ’, विद्येते ‘आत्मा’ ब्रह्मयज्ञस्य कर्त्ता, स्वयं ‘अशुचिः’, यदा भवति तदानीमेकोऽनध्यायः । ‘देशः’, वा मूत्रपुरीषादिभिः ‘अशुचिः’, भवति, स द्वितीयोऽनध्यायः । न तु कश्चित् तृतीयोऽनध्यायहेतुरस्ति ॥
अथ तस्य यज्ञस्य सुलभत्वं दर्शयति । (२)“समृद्धिर्देवतानि” (२) इति । ‘समृद्धिः’ सामग्री, सा च यज्ञान्तरेषु द्रव्यार्जनादिना सम्पाद्यते । इह तु ‘देवतानि,’ एव सामग्री, न तु बाह्यसाधनं किञ्चिदपेक्षितमस्ति ॥
ब्रह्मयज्ञेन तुष्टेषु दैवतेषु फलं भवत्येव तस्मादेवं भूते कालादिवैकल्यशङ्कां* परित्यज्य यज्ञानुष्ठाने फलसिद्धिं दर्शयति । (३)“य एवं ० एषाभ्युक्ता”(१) इति । अस्य यज्ञनिमित्तद्वयव्यति-
* तस्मादङ्गभूतकालादिश्शङ्कामिति तै० पाठः ।
२ प्रपाठके १५ अनुवाकः । २५७
लो॒कान् जय॑ति॒ सर्वाँन् लो॒कान॑नृ॒णोऽनु॒सञ्च॑रति॒ तदे॒- षाभ्यु॑क्ता^{(३)}। ^{(४)}अनृ॒णा अ॒स्मिन्न॑नृ॒णाः पर॑स्मिँ२ स्तृ॒- तीये॑ लो॒के अनृ॒णा स्या॑म । ये दे॑व॒याना॑ उ॒त पि॑तृ॒या-
रेकेणानध्यायकारणं नास्ति, सामग्री च न प्रयाससम्पाद्या विद्यते इति ‘एवं’, ‘विद्वान्’, पुमान् कालविषये आसना- दिनियमविषये देशविषये च अङ्गाजाड्यं परित्यज्य ‘याव- त्तरसं’ यावद्बलं यथाशक्ति, ‘स्वाध्यायं’, अधीयानः स्वापे- क्षितान् ‘सर्वान् लोकान्’, प्राप्नोति, तत्र तत्र लोके पुरु- षान्तरवदृणयुक्तो न भवति । किन्तु ‘अनृणः’, एव ‘अनु- सञ्चरति’, ‘तत्’ तस्मिन्ननृणस्यानुसञ्चारे, काचिदृक् च ‘उक्ता’, विद्यते ॥
तामेतामृचं दर्शयति । ^{(४)}“अनृणा • आचीयेमेति”^{(४)} इति। ‘अस्मिन्’ भूलोके, ‘परस्मिन्’ अन्तरिक्षे च, ‘तृतीये’ द्युलोके च, ब्रह्मयज्ञबलात्* ‘अनृणा स्याम’ । ऋणेऽपाकृते सति ‘देव- यानाः’ पन्थानः उत्तरमार्गविशेषाः, ‘पितृयाणाः’ पन्थानः दक्षिणमार्गविशेषाः, ऋणाभावेन प्रतिबन्धाभावात् ‘सर्वान्’, अपि मार्गान् सर्वतः प्राप्नुयाम । ऋषीणामृणं ब्रह्मयज्ञेनापो- द्यत इति तावत् सर्वेषां सम्मतं । देवपितृकार्ययोरसमर्थस्य तदुभयविषयमनृणमनेनैवापोद्यते । अत एव स्मर्यते । जप्येनैव तु संसिद्धेद्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्
* फलात् इति तै० पाठः ।
2 1
२५८ तैत्तिरीये आरण्यके
णा॒: सर्वा॑न् प॒थो अ॑नृ॒णा अ॒क्षीय॒मेति॑॥^(४)। ^(५)अ॒ग्निं वै जा॒तं पा॒प्मा जग्राह॒ तं दे॒वा आहु॑तिभिः पा॒प्मान॒मपा॑- घ्नन्नाहुती॒नां य॒ज्ञेन॑ य॒ज्ञस्य॑ दक्षि॑णाभि॒र्दक्षि॑णानां
मैत्रे ब्राह्मण* उच्यत इति। ततः सर्वान् पथो अनृणा अक्षी- येमेत्येतदुपपन्नं ॥
तदेतदनृणत्वं सम्भावयितुं पापस्पर्शराहित्येन स्वाध्यायं प्र- शंसति। ^(५)“अग्निं वै ॰ तदेषाभ्युक्ता”^(५) इति। योयं ‘अग्निः’, सृष्ट्यावुत्पन्नः तमुत्पन्नमात्रमेव सर्वः ‘पाप्मा’, ‘जग्राह’, अग्नि- र्हि पापिनां पापशोधनाय समुत्पन्नः । अत एव स्मृतिकाराः भाण्डादीनां पुनःपाकेन शुद्धिं ब्रुवते । यथा लोकेऽत्यन्तम- लिनं वस्त्रं अल्पजलेन यदा प्रक्षाल्यते तदानीं वस्त्रमालिन्यं सर्वं जले प्रविशति, तथा शोधनीयवस्तुगतः पाप्मा शोध- केऽग्नौ† प्रविष्टः ‘तं’ अग्निगतं पापं, ‘देवा आहुतिभिः’, वि- नाशितवन्तः । तदाहुतिगतं पापं कृत्स्नं ‘यज्ञेन’, यज्ञगतञ्च पापं ‘दक्षिणाभिः’, दक्षिणागतञ्च पापं प्रतिग्रहीत्रा ‘ब्राह्मणेन’, ब्राह्मणगतञ्च पापं तत्तन्मन्त्रगतैर्गायत्रादिछन्दोभिः, छन्दो- गतञ्च पापं स्वकीयशाखारूपेण ‘स्वाध्यायेन’ । न चास्य स्वाध्यायगतस्य पाप्मनो निवर्त्तकान्तरमन्वेष्टव्यं । तस्मात् ‘अप- हतपाप्मा स्वाध्यायः,’ न खलु कश्चिदपि पाप्मा स्वाध्यायं स्प्रष्टु-
* मन्त्रब्राह्मण इति तै० पाठः।
† शोधनेऽग्नौ इति तै० पाठः।
२ प्रपाठके १५ अनुवाकः। २५६
ब्राह्म॒णेन॑ ब्राह्म॒णस्य॒ छन्दो॑भिश्छन्द॑सः॒ स्वाध्या॑येना- प॑हतपाप्मा स्वाध्या॒यो दे॑वप॒वित्रं॒ वा ए॒तत् तं योऽनूत्- सृ॒जत्यभा॑गो वा॒चि भ॑वत्यभा॒गो नाके॒ तदे॒षाभ्यु॑क्ता^(५)। ^(६)यस्तित्या॑ज सखिवि॒द॒ᳵ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑
मोष्टे* यस्मात् 'एतत्' स्वाध्यायस्वरूपं, देवानामपि शोधकं। देवा हि पूर्वस्मिन् जन्मनि मनुष्या भूत्वा स्वाध्यायमधीत्य तद- र्थञ्चानुष्ठाय शुद्धाः सन्तो देवत्वं प्राप्ताः। 'तं' ईदृशं स्वाध्यायं, 'योऽनुत्सृजति' यः पुरुषः प्रारभ्य पश्चात् त्यजति, स पुमान् 'अभागो वाचि भवति' वाङ्मात्रनिष्पाद्यत्वेनाप्रयाससिद्धं स्वा- ध्यायाध्ययनं तथाविधायां प्रयासरहितायां महाफलहेतुभू- तायां वाच्यपि भाग्यं तस्य परित्यक्तुर्नास्ति, महाप्रयासनि- ष्पाद्ये ज्योतिष्टोमादिसाध्ये स्वर्गे भागं नास्तीति किमु वक्तव्यं। यो हि पाणिलब्धञ्चिन्तामणिमग्निमध्ये प्रक्षिपति स भाग्यहीन इत्यस्मिन्नर्थे न कोपि विप्रतिपद्यते। 'तत्' तस्मिन्, चिन्ताम- णिपरित्यागसदृशोऽयं स्वाध्यायपरित्याग इत्यस्मिन्नर्थे, काचि- दृक् 'अभ्युक्ता'॥
तामेतामृचं दर्शयति। ^(१)“यस्तित्याज ० पन्थामि- ति”^(१) इति। 'यः' पुमान्, वेदस्य वाङ्मात्रनिष्पाद्यमध्ययनं करोति तं पुमांसं वेदः समस्तपापक्षयद्वारेण मोक्षपर्यन्तो-
* द्रष्टुमोष्ट इति तै० पाठः।
212
२६० तैत्तिरीये आरण्यके
भागो॒ अस्ति॑ । यदीं॑ शृ॒णोत्यलकं॑ शृणोति॒ नहि
त्तमगतिप्रदानेन* प्रियं ‘सखायं’, इवातिस्नेहेन पाल- यति, तस्मादध्येतारं सखायं वेत्तीति ‘सखिवित्’ स्वाध्यायः, स्वयञ्च ‘तस्य’ पुरुषस्य, सखा अत्यन्तस्नेहेन कदाचिदप्यनपा- यात्। नहि निरन्तराध्यायिनं स्वाध्यायः कदाचिदपि परि- त्यजति, किन्तु दिने दिनेऽतिशयेन तस्याधीनो भवति†। तादृशं ‘सखिविदं’, अपि ‘सखायं’, ‘यस्तित्याज’ परित्यक्तवान्, ‘तस्य’ परित्यक्तुः, ‘वाच्यपि’, ‘भागो नास्ति’ आयासरहिते महाफले पाठेऽपि भाग्यं नास्ति, किमु वक्तव्यं महाप्रयाससा- ध्येऽनुष्ठाने‡ तत्फले वा। ‘यदीं’ यद्यपि, स्वाध्यायत्यागी कदा- चिद्विद्वत्सभायामुपविश्य बहूनि शास्त्राणि ‘शृणोति’, तदानीं ‘अलकं’ अलीकमनृतमेव, ‘शृणोति’, पुरुषार्थपर्यवसानाभा- वात्। नहि काव्यनाटकालङ्कारादिश्रवणेन वृथायुःक्षयम- न्तरेण कञ्चित् पुरुषार्थं पश्यामः। अत एव वाजसनेयिनः समामनन्ति। नानुध्यायाद्बहूञ्छब्दान् वाचो विम्लापनं हि तदिति। वेदव्यतिरिक्तस्य शब्दजालस्य कण्ठशोषमात्रपर्यवसा- यित्वमेव§ उपपाद्यते। यस्मादयं वेदत्यागी ‘सुकृतस्य पन्थां’ पु- ण्यानुष्ठानमार्गं, न जानाति तस्मात् कण्ठशोषमात्रपर्यवसानं।
* मोक्षपर्यन्तोत्तरोत्तरगतिप्रदानेनेति तै० पाठः!
† दिने दिने व्यतिशयो भवति इति तै० पाठः।
‡ महाप्रयाससाध्ये स्वर्गे इति तै० पाठः।
§ कण्ठशोषमात्रपर्यवसानत्वमेव इति तै० पाठः।