भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ
५५४तैत्तिरीये आरण्यके

अथ पञ्चत्रिंशोऽनुवाकः ।

$^{(१)}$प्र॒सार्य॑ स॒क्थ्यौ॑ पत॑सि । स॒व्यमक्षि॑ नि॒पेपि॑ च ।
मे॒ह क॑स्य च॒ नाऽम॑मत्$^{(१)}$ ॥ अनु० ३५ ॥

अथ षट्त्रिंशोऽनुवाकः ।

$^{(१)}$अत्रि॑णा त्वा क्रिमे हन्मि । क॒ण्वे॑न ज॒मद॑ग्निना ।
वि॒श्वाव॑सो॒र्ब्रह्म॑णा ह॒तः । क्रिमी॑णा॒ꣳ राजा॑ । अप्ये॑षा॒ꣳ


अथ पञ्चत्रिंशोऽनुवाकः ।

अथ शकुनिविषयमनुवाकमाह । $^{(१)}$"प्रसार्य सक्थ्यौ ० मेह कस्य च नाऽममत्"$^{(१)}$ इति । ग्रामगमनादौ शुभाशुभसूचकः पक्षी शकुनिः, हे शकुने 'सक्थ्यौ प्रसार्य' ऊरू प्रसृतौ कृत्वा, इह 'पतसि' । 'सव्यमक्षि' वामञ्चक्षुः, 'निपेपि च' पुनः पुनर्निमीलयसि च । तेन दोषेण 'इह' अस्मिन् देशे, 'कस्य च न' कस्यापि पुरुषस्य, 'माऽममत्' रोगो मा भवतु ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके पञ्चत्रिंशोऽनुवाकः ॥ ३५ ॥

अथ षड्त्रिंशोऽनुवाकः ।

कल्पः । यदि घर्मधुक् क्रिमिणा स्यात्, अत्रिणा त्वा क्रिमे हन्मीत्यनुवाकेनास्याः क्रिमीन् हन्यात् । अपि वा सार्वत्रिकमेतत् प्रायश्चित्तं क्रियेत इति । पाठस्तु । $^{(१)}$"अत्रिणा त्वा क्रिमे हन्मि ०

४ प्रपाठके ३६ अनुवाकः ५५५

स्थ॒प॑तिर्ह॒तः। अथो॑ मा॒ताऽथो॑ पि॒ता। अथो॑ स्थू॒रा अथो॑ क्षु॒द्राः। अथो॑ कृ॒ष्णा अथो॑ श्वे॒ताः। अथो॑ आ॒- शा॑तिका ह॒ताः। श्वे॒ताभिः॑ स॒ह सर्वे॑ ह॒ताः^(१) ॥ अनु० ३६ ॥

अथ सप्तत्रिंशोऽनुवाकः।

^(१)आ॒हरा॑वद्य॑। मृतस्य॑ ह॒विषो॒ य॒था॑। तत्स॒त्यं यद॒मुं


श्वेताभिः सह सर्वे हताः"^(१) इति । हे 'क्रिमे,' घर्मधुगादिवर्त्तिन्, 'अत्रिणा,' 'कण्वेन,' 'जमदग्निना,' च महर्षिणा अनुगृहीतः अहं त्वां 'हन्मि' । 'विश्वावसोर्ब्रह्मणा' विश्वावसुसंज्ञकस्य गन्धर्वस्य मन्त्रे- ण, 'क्रिमीणां,' 'राजा' स्वामी, 'हतः' । 'अपि,' च 'एषां' क्रिमीणां, 'स्थपतिः' अन्योऽपि राजव्यतिरिक्तः प्रभुः, 'हतः' । अपि च तव 'माता,' हता, तथा तव 'पिता' । अन्येपि क्रिमयः 'स्थूलाः,' 'क्षुद्राः,' 'कृष्णाः,' 'श्वेताः,' च नानाविधा 'हताः'। अपि च 'आशातिकाः' आगत्य शात्यमानाः अस्माभिरेव बाध्यमानाः गवाश्वादिशरीरेषु वर्त्तमाना दंशयूकादयः सर्वेपि, 'श्वेताभिः' क्रिमिजातिभिः, 'सह,' मारिताः ॥

इति सायणाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु- रारण्यके चतुर्थप्रपाठके षड्विंशोऽनुवाकः ॥ ३६ ॥

अथ सप्तत्रिंशोऽनुवाकः।

कल्पः । यमभिचरेत्तस्य लोहितमवदानं कृत्वा आहरावद्य

५५६ तैत्तिरीये आरण्यके

य॒मस्य॒ जम्भ॑योः। आर्द॑धामि तथा॒हि तत्। खण् फण्
म॑सि॑^{(१)} ॥ अनु० ३७॥

यत्र अष्टत्रिंशोऽनुवाकः।

^{(१)}ब्रह्म॑णा त्वा शपामि। ब्रह्म॑णस्त्वा श॒पथे॑न शपा-

शृतस्येत्यनुवाकेन जुहुयात् इति। पाठस्तु। ^{(१)}“आहरावद्य
० खण् फण् मसि”^{(१)} इति। ‘यथा’ यागकाले, ‘शृतस्य’ ‘हविषः’
पक्वं हविः, ‘अवद्य’ अवदाय, जुहु इति। तथा हे शत्रो लोहितं
द्वितीयं ‘आहर’ आनय। ‘अमुं’ शत्रुं, ‘यमस्य,’ ‘जम्भयोः’
दन्तयोर्मध्ये, ‘आदधामि’ स्थापयामि’ इति ‘यत्,’ ‘तत् सत्यं’।
‘तत्’ कार्यम्, ‘तथाहि’ तथैव अस्तु। दंशनध्वनेरनुकरणरूपौ
‘खण्फण्’ शब्दौ,* तौ यथा भवतस्तथा शत्रो मारितोसि ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके चतुर्थप्रपाठके सप्तत्रिंशोऽनुवाकः ॥ ३७ ॥

अथ अष्टत्रिंशोऽनुवकः।

कल्पः। यमभिव्याहरिष्यन् स्यात् त्रिरात्रावरं ब्रह्मचर्यं
चरित्वा आगत्य एनमभिव्याहरेत्, ब्रह्मणा त्वा शपामीत्य-
नुवाकेनेति। पाठस्तु। ^{(१)}“ब्रह्मणा त्वा शपामि ० अधरो मत्पद्य-
स्वामौ”^{(१)} इति। हे शत्रो त्वां देवदत्तनामानं ‘ब्रह्मणा’ मन्त्रेण,
‘शपामि’ शापयुक्तं करोमि। ‘ब्रह्मणः’ परमात्मवस्तुनः, ‘शपथेन’ शा-


* खट्फट्शब्दै। इति E चिह्नितपुस्तकपाठः।

४ प्रपाठके ३८ अनुवाकः। ५५७

मि। घोरे॑ण त्वा॒ भृगू॑णां॒ चक्षु॑षा प्रेक्षे॑। रौद्रे॑ण॒ त्वाऽङ्गिरसां॒ मन॑सा ध्यायामि। अ॒घस्य॑ त्वा॒ धा॑र॑या विद्ध्यामि। अध॑रो॒ मत्प॑द्यस्वा॒सौ^{(१)} ॥ अनु० ३८ ॥

अथ एकोनचत्वारिंशोऽनुवाकः।

$^{(१)}$उत्तुं॑द शिमिजावरि। तल्पैं॑जे तल्प॒ उत्तुं॑द। गि॒-


पसामर्थ्येन, त्वां 'शपामि' । 'भृगूणां' महर्षीणां, सम्बन्धिना 'घोरेण' उग्रेण, 'चक्षुषा,' त्वां 'प्रेक्षे' । 'अङ्गिरसां' महर्षीणां, सम्बन्धिना 'रौद्रेण' उग्रेण, 'मनसा,' 'त्वां,' 'ध्यायामि' । 'अघस्य' पापरूपस्य क्रूरस्यायुधस्य खङ्गरूपस्य, 'धारया;' त्वां 'विद्ध्यामि' । 'असौ' हे देवदत्तरूप, त्वं 'मत्' अभिचरितुः* पुरुषात्, 'अधरः,' 'पद्यस्व' अर्वाचीनः पतितो भव ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके अष्टत्रिंशोऽनुवाकः ॥ ३८ ॥

अथ एकोनचत्वारिंशोऽनुवाकः।

कल्पः। यं द्विष्यात्तस्य गोष्ठेष्वक्षतमोषधीन्निखनेत्, उत्तुद शिमिजावरीत्यनुवाकेन । अपि वा गोष्ठस्यैवादक्षिणं दार्वाङ्गमेतेनैव विचालयेदिति । पाठस्तु । $^{(१)}$“उत्तुद शिमिजावरि ॰


* अभिवदत इति E चिह्नितपुस्तकपाठः ।

५५८ तैत्तिरीये आरण्यके

री॒रनु॒प्रवे॑शय । मरी॑ची॒रुप॒ सन्नु॑द । याव॑दि॒तः पु॒र-
स्ता॑दु॒दया॑ति॒ सूर्य॑: । ताव॑दि॒तोऽमुन्ना॑शय । योऽस्मान्द्वे-
ष्टि॑ । यञ्च॑ व॒यं द्वि॒ष्मः^{(१)} ॥ अनु० ३९ ॥

अथ चत्वारिंशोऽनुवाकः ।

^{(१)}भूर्भुव॒: सुव॑ भूर्भुव॒: सुव॑ भूर्भुव॒: सुव॑: । भुवो-


यञ्च वयं द्विष्मः''(१) इति । कृषिमन्तरेण स्वयमेवोत्पन्ना 'शिसि-
जावरी,' हे तथाविधौषधे, 'उत्तृद' शत्रुमुत्कृत्य व्यथितं कुरु । हे-
'तल्पेजे' तस्य शयनस्थाने समुत्पन्ने ओषधे, तदीये 'तल्पे,' प्रविश्य तं
'उत्तृद' । ततो गृहात् भ्रष्टं कृत्वा 'गिरीननुप्रवेशय' । ततः 'मरीचीः'
दावाग्निरश्मीन्, 'उप' प्रापय्य, 'सन्नुद' सम्यक् निराकुरु । 'सूर्यः,'
यावता कालेन 'इतः' देशात्, 'पुरस्तात्' पूर्वस्यान्दिशि, उदेति,
'तावता, कालेन, 'इतः' देशात्, 'अमुं' द्वेष्टारं, द्वेष्यञ्च 'नाशय' ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजु-
रारण्यके चतुर्थप्रपाठके एकोनचत्वारिंशोऽनुवाकः ॥ ३९ ॥

अथ चत्वारिंशोऽनुवाकः ।

कल्पः । यद्युद्गाता पुरुषः साम गायेत्, अध्वर्युरेवैतेन साम्नो-
द्गायेत् । भूर्भुवः सुवरित्यनुवाकेनेति । पाठस्तु । ^{(१)}“भूर्भुवः सुवो

४ प्रपाठके ४१ अनुवाकः। ५५६

ऽधायि॒* भुवो॑ऽधायि॒ भुवो॑ऽधायि। नृ॒म्णायि॒ नृ॒म्णं नृ॒- म्णायि नृ॒म्णं नृ॒म्णायि नृ॒म्णं। नि॒धाय्यो॑ऽवापि नि॒- धाय्यो॑ऽवापि नि॒धाय्यो॑ऽवापि। ए अ॒स्मे अ॒स्मे। सु- वर्ण्ज्योतिः॑१) ॥ अनु० ४० ॥


अथ एकचत्वारिंशोऽनुवाकः।

(१)पृथि॒वी स॒मित्। ताम॒ग्निः समि॑न्धे। साऽग्निग्ं स-

भूर्भुवः सुवः • सुवर्णज्योतिः”(२) इति । एते सर्वे स्तोभविशेषाः । ऋचमन्तरेण स्तोभैरेव स्वरविशिष्टैः साम आगायेत् । गानार्था तत्र तत्रावृत्तिः । भूरादयस्त्रयो लोका इष्टार्थप्रदाः सन्तु, विशेषतः ‘भुवः,’ सकाशात् ‘अधायि’ सर्वमिष्टं सम्पादितं । नृभिर्मनुष्यैर्मन्यते, अभीष्टत्वेन स्मर्यते इति ‘नृम्णं’ सुखं, नृम्णे सुखे सत्यपि पुनः ‘नृम्णं’ सुखं, अस्तु । ‘निधाय्यः’ नितरां सम्पादनीयो भागः, ‘अवापि’ प्राप्तं । गत्यर्थो वातिधातुः । ‘ए’कारो देवदासम्बोधनार्थः । हे देवते ‘अस्मे’ अस्मासु, ‘सुवर्णज्योतिः’ सुवर्णसमानं ज्योतिः सम्पद्यतां ॥

इति सायनाचार्य्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके चत्वारिंशोऽनुवाकः ॥ ४० ॥


अथ एकचत्वारिंशोऽनुवाकः ।

सूत्रे अवान्तरदीक्षां व्याख्यास्याम इत्युपक्रम्याभिहितं, चतस्र


* भुवोद्वायि इति वाक्यं G, I, J चिह्नितपुस्तकानां मूलपाठे वर्त्तते, भाष्ये तु “भुवोऽधायि” इति पाठ एव दृश्यते ।
३ y

५६० तैत्तिरीये आरण्यके

मिन्धे॒ । ताम॒हꣳ स॑मिन्धे॒ । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अन्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑$^{(१)}$ । $^{(२)}$अ॒न्तरि॑क्षꣳ स॒मित् ॥ १ ॥ तां वायुः॒ समि॑न्धे । सा वायुꣳ॑ समिन्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा श्रि॒या । यश॑सा ब्रह्मवर्च॒सेन॑ । अन्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑$^{(२)}$ । $^{(३)}$द्यौः स॒मित् । तामा॑दि॒त्यः स॒मिन्धे ॥ २ ॥


औदुम्बरीः समिधो घृतान्वक्ता अभ्यादधाति, पृथिवी समिदित्येतैर्मन्त्रैरिति । तत्र प्रथमं मन्त्रमाह । $^{(१)}$“पृथिवी समित् ० अन्नाद्येन समिन्ताꣳस्वाहा”$^{(१)}$ इति । ‘पृथिवी,’ देवता, सम्यग्दीप्यमानत्वात् ‘समित्,’ इत्युच्यते । ‘तां’ पृथिव्याख्यां समिधं, ‘अग्निः,’ देवः, ‘समिन्धे’ सम्यग्दीपितवान् । ‘सा’ च पृथिव्याख्या समित्, ‘अग्निं,’ देवं, ‘समिन्धे’ सम्यग्दीपयति । ‘तां’ पृथिवीरूपां समिधं, ‘अहं,’ ‘समिन्धे’ सम्यक् प्रकाशयामि । ‘सा’ च देवता, मया ‘समिद्धा,’ सती, मां आयुरादिभिः ‘समिन्तां’* सम्यक् प्रकाशयतु । ‘तेजः’ शरीरकान्तिः, ‘वर्चः’ बाह्यदीप्तिः ॥

अथ द्वितीयतृतीयमन्त्रावाह । $^{(२)}$“अन्तरिक्षꣳसमित् ० अन्ना-


* समिन्द्धामिति D चिह्नितपुस्तकपाठः ।

४ प्रपाठके ११ अनुवाकः। ५६१

साऽऽदि॒त्यꣳ सम्मि॑न्धे। ताम॒हꣳ सम्मि॑न्धे। सा मा॒ स- म्मि॑द्धा। आयु॑षा॒ तेज॑सा। वर्च॑सा॒ श्रिया॑। यश॑सा ब्रह्मवर्च॒सेन॑। अन्नाद्ये॑न॒ सम्मि॑न्ताꣳ स्वाहा॑^(२)। ^(४)प्रा॒जा- प॒त्या मे॑ समि॒द॑सि सपत्न॒क्षय॑णी। भ्रातृ॑व्यहा मे॑ऽसि॒ स्वाहा॑^(४)। ^(५)अग्ने॑ व्रतपते व्र॒तञ्च॑रिष्यामि ॥ ३ ॥ तच्छ॑केयं॒ तन्मे॑ राध्यताम्। वायो॑ व्रतपत॒ आदि॑त्य व्रतपते। व्रतानां॑ व्रतपते व्र॒तञ्च॑रिष्यामि। तच्छ॑केयं॒


द्येन सम्मिन्ताꣳस्वाहा"^(२)। ^(३)“द्यौः समिद् ० अन्नाद्येन सम्मिन्ताꣳ स्वाहा”^(३) इति पूर्ववद्व्याख्येयौ ॥

चतुर्थं मन्त्रमाह। ^(४)“प्राजापत्या मे ० भ्रातृव्यहा मेऽसि स्वाहा”^(४) इति। हे समिद्, त्वं 'प्राजापत्या' प्रजापतिसम्बन्धिनी, 'सपत्नक्षयणी' वैरिविनाशिनी, 'मे' 'समिदसि' सम्यग्दीपिकाऽसि। तस्मात् 'मे' मम, 'भ्रातृव्यहा असि' शत्रुघातिनी भवसि। स्वाहु- तमिदमस्तु ॥

कल्पः। अथ देवता उपतिष्ठते, अग्ने व्रतपते व्रतं च- रिष्यामीति। पाठस्तु। ^(५)“अग्ने व्रतपते ० तन्मे राध्यतां”^(५) इति। हे 'व्रतपते' अवान्तरदीक्षारूपस्य व्रतस्य पालक अग्ने, 'व्रतं,' इदमहं 'चरिष्यामि'। त्वत्प्रसादात् 'तत्' व्रतं, कर्तुं 'शकेयं' शक्तो भूयासम्। 'मे' मदीयं, 'तत्' व्रतं, 'राध्यतां' समृद्धिं गच्छतु। वायो व्रतपत इत्येतस्मिन् उत्तरस्मिन् च व्रतं चरिष्या-

3 r 2

५६२ तैत्तिरीये आरण्यके

तन्मे॑ राध्यताम्^(५) । ^{(६)}द्यौः स॒मित् । तामा॑दि॒त्यः स- मि॑न्धे । साऽऽदि॒त्यꣳ स॑मिन्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा ॥ ४ ॥

वर्च॑सा॒ श्रिया॑ । यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑ । अ॒न्तरि॑क्षꣳ स॒मित् । तां वा॒युः स- मि॑न्धे । सा वा॒युꣳस॑मिन्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आयु॑षा॒ तेज॑सा । वर्च॑सा॒ श्रिया ॥ ५ ॥

यश॑सा ब्रह्मवर्च॒सेन॑ । अ॒न्नाद्ये॑न॒ समि॑न्ताꣳ स्वाहा॑ । पृ॒थि॒वी स॒मित् । ताम॒ग्निः स॑मिन्धे । साऽग्निꣳ स- मि॑न्धे । ताम॒हꣳ स॑मिन्धे । सा मा॒ समि॑द्धा । आ- यु॑षा॒ तेज॑सा । वर्च॑सा॒ श्रिया॑ । यश॑सा ब्रह्मवर्च॒सेन॑ ॥


मोत्यादिकमनुषज्यते । एतदर्थमेव चतुर्थमन्त्रे पुनराम्नातं । व्रतपत इत्युक्तस्य पुनरपि व्रतानामित्युक्तिः कृत्स्नव्रतस्वीकारार्था ॥

कल्पः । आवृत्तैर्मन्त्रैः समिध आधाय आवृत्तैर्देवता उपस्था- येति । पाठस्तु । ^{(६)}"द्यौः समित् • तदशकं तन्मे राधि"^{(१)} इति । व्रतावसाने कर्त्तव्यत्वात् 'अचारिषं', इत्यादिभूतार्थवाचिशब्दप्रयोगः। तद्धि चतुर्षु वेदव्रतेषु सौम्यव्रतमित्यभिधीयते । एतस्य प्रवर्ग्याङ्ग- त्वाभावेपि शुक्रीयकाण्डोक्तमन्त्रसापेक्षत्वात् अत्राम्नातं । एतच्च

४ प्रपाठके ४२ अनुवाकः । ५६३

अन्नाद्येन॒ समि॑न्ता॒ꣳ स्वाहा॑ । प्रा॒जाप॒त्या मे॑ स॒मिद॑सि सपत्नक्षयणी। भ्रातृ॑व्य॒हा मे॑ऽसि॒ स्वाहा॑ । आदि॑त्य व्रतपते व्र॒तम॑चारिषं । तद॑शकं॒ तन्मे॑ राधि । वायो॑ व्रतपतेऽग्ने॑ व्रतपते । व्रतानां॑ व्रतपते व्र॒तम॑चारिषं । तद॑शकं॒ तन्मे॑ राधि^{(१)} ॥ ६ ॥

स॒मित्, समि॑न्धे, व्र॒तं च॑रिष्यामि॒, तेज॑सा, श्रि॒या, यश॑सा ब्रह्मवर्च॒सेन॒, अ॒ष्टौ च॑ ॥ अनु० ४१ ॥


अथ द्विचत्वारिंशोऽनुवाकः ।

^{(१)}शन्नो॒ वातः॑ पवतां मा॒त॒रिश्वा॒ शन्न॑स्तपतु॒ सूर्य॑ः ।


सूत्रकारेण दर्शितं, अथैनं सर्वेषामनुवाकानां प्रभृतीरभिव्याहारयति, प्रथमोत्तमयोर्वोत्तमेनानुवाकेन शान्तिं कृत्वेति ॥

इति सायनाचार्यविरचिते माधवीये वेदार्थप्रकाशे यजुरारण्यके चतुर्थप्रपाठके एकचत्वारिंशोऽनुवाकः ॥ ४१ ॥


अथ द्विचत्वारिंशोऽनुवाकः ।

कल्पः । गामवसृज्य मदन्तीरुपस्पृश्योत्तमेनानुवाकेन शान्तिं कुर्वन्ति, एवं सायं प्रातः प्रवर्ग्योपसङ्गां चरन्तीति । तस्मिन्ननुवाके प्रथमं मन्त्रमाह । ^{(१)}“शन्नो वातः ० प्रतिधीयतां”^{(१)} इति ।

५६४ तैत्तिरीये आरण्यके

अहा॑नि॒ शम्भ॑वन्तु न॒ः शꣳ रात्रि॒ः प्रति॑धीयतां^(१) । ^(२)शमु॒षा नो॒ व्यु॑च्छतु॒ शमा॑दि॒त्य उदे॑तु नः । शि॒वा न॑ः शन्त॑मा भव सुमृ॒डी॒का सर॑स्वति । मा ते॒ व्योम॑ सं॒दृशि॑^(२) । ^(३)इ॒डायै॒ वास्तो॑सि वा॒स्तुम॑द्वा॒स्तुम॑न्तो भूयास्म॒ मा वास्तोश्छि॑त्स्म॒ ह्यवा॑स्तुः स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यञ्च॑ व॒यं


'मातरिश्वा' अन्तरिक्षनिवासी, 'वातः,' 'नः' अस्माकं, 'शं' सुखं, यथा भवति, तथा, 'पवतां' । 'सूर्यः,' अपि तथैव 'तपतु' । 'अहानि,' अपि 'नः' अस्माकं, सुखकराणि 'भवन्तु' । 'रात्रिः,' च सुखकरी सम्पद्यतां ॥

द्वितीयं मन्त्रमाह । ^(२)“शमुषा नो व्युच्छतु ० मा ते व्योम संदृशि”^(२) इति । 'उषा,' देवी, 'नः' अस्माकं, सुखकरी प्रभातं करोतु । 'आदित्यः,' चास्माकं सुखकरः 'उदेतु' । हे 'सरस्वति,' त्वं 'नः' अस्मान् प्रति, 'शिवा' अनुकूला, 'शन्तमा' अतिशयेन सर्वोपद्रवशमनी, 'सुमृडीका' सुष्ठु सुखकरी, च 'भव' । 'ते संदृशि' तव कटाक्षे सति, 'व्योम' सुखशून्यत्वं, 'मा,' भूत् ॥

तृतीयं मन्त्रमाह । ^(३)“इडायै वास्तु ० यं च वयन्द्विष्मः”^(३) इति । हे भूमे त्वं 'इडायै' धेनुरूपाया इडादेव्याः, 'वास्तु असि' निवासस्थानमसि । सर्वं जगत् तत्प्रसादात् 'वास्तुमत्' निवासस्थानयुक्तं भवतु । वयमपि तत्प्रसादात् 'वास्तुमन्तः' निवासस्थानयुक्ताः, 'भूयास्म' । 'वास्तोः,' निवासस्थानात् 'माच्छित्स्म' विच्छिन्ना मा-

४ प्रपाठके ४२ अनुवाकः । ५६५

द्वि॒ष्मः^{(३)} । ^{(४)}प्रति॒ष्ठाऽसि॑ प्रति॒ष्ठाव॑न्तो भूयास्म॒ मा प्र॑- ति॒ष्ठा या॑म्छि॒त्स्म ह्यप्र॑तिष्ठः॒ स भू॑या॒द्योऽस्मान्द्वेष्टि॒ यं चं व॒यं द्वि॒ष्मः^{(४)}} । ^{(५)}आ वा॑त वाहि भेष॒जं वि वा॑त वाहि॒ यद्रप॑ः । त्वꣳ हि वि॒श्वभे॑षजो दे॒वानां॑ दू॒त ईय॑- से^{(५)} । ^{(६)}द्वावि॒मौ वातौ॑ वात॒ आसिन्धो॒राप॑रा॒वत॑ः ॥१॥


भूयास्म । 'हि' यस्मात्, 'वयमेवंविधाः तस्मादस्माकं विपरीत: 'यः' द्वेष्टा, यश्च द्वेष्यः, सोऽयं 'अवास्तुः' निवासस्थानरहितो भूयात् ॥

अथ चतुर्थं मन्त्रमाह । ^{(४)}“प्रतिष्ठासि प्रतिष्ठावन्तः ० द्वेष्टि' यं च वयं द्विष्मः”^{(४)} इति । 'प्रतिष्ठा' आधारः । अन्यत् पूर्ववत् ॥

अथ पञ्चमं मन्त्रमाह । ^{(५)}“आ वात वाहि भेषजं ० दे- वानां दूत ईयसे”^{(५)} इति । हे 'वात' वायो, मे 'भेषजं', यथा भवति तथा, 'आवाहि' अस्मान् प्रति सर्वतो वातकुरु । हे 'वात,' 'यद्रपः' पापमस्ति, तत् 'विवाहि' विश्लेष्य गच्छ । यस्मात् 'त्वं,' 'विश्वभेषजः' इति विश्वस्य चिकित्सकः, 'देवानां दूतः,' च सन् 'ईयसे' गच्छसि ॥

अथ षष्ठं मन्त्रमाह । ^{(६)}“द्वाविमौ वातौ ० परान्यो वातु यद्रपः”^{(६)} इति । 'इमौ' लोके दृश्यमानौ, 'द्वौ वातौ,' 'आसिन्धोः' समुद्रसहिते प्रदेशे, 'आपरावतः' दूरवर्त्तिलोक-

५६६ तैत्तिरीये आरण्यके

दक्षं॑ मे अन्य॒ आ वा॑तु परा॒ऽन्यो वा॑तु॒ यद्रपः॑॥ (६) ।
^(७)यद॒दो वा॑त ते गृ॒हेऽमृत॑स्य नि॒धिर्हि॒तः । ततो॑ नो
देहि जीवसे॒ ततो॑ नो धेहि भेष॒जं । ततो॑ नो मह॒
आवह॑^(७) ^(८)वात॒ आ वा॑तु भेष॒जꣳ शं॒भूम॑यो॒भूर्नो॑
हृ॒दे । प्र ण॒ आयूं॑षि तारिषत्^(८) । ^(९)इन्द्र॑स्य गृ॒हो-


युक्ते देशे, 'वातः' सञ्चरतः । शान्तो वायुरेकः, तीव्रोऽपरः, तयोर्मध्ये 'अन्यः' एकः शान्तः, 'मे' मम, 'दक्षं आवातु' सुखं सम्पादयतु । 'अन्यः' तीव्रो वायुः, 'यद्रपः' मम यत्पापमस्ति, तत् 'परा वातु' विनाशयतु ॥

अथ सप्तमं मन्त्रमाह । ^(७)"यददो वात ० ततो नो मह आवह"^(७) इति । हे 'वात,' 'ते गृहे,' 'यददः' यः असौ, 'अमृतस्य निधिः,' 'हितः' स्थापितः, 'ततः' निधेः सकाशात्, 'नः' अस्माकं, 'जीवसे' जीवनाय, 'देहि' कियदप्यमृतं प्रयच्छ । 'ततः' अमृतात्, 'नः' अस्माकं, 'भेषजं देहि' औषधं सम्पादय । 'ततः' तस्मात्, 'नः' अस्माकं, 'मह आवह' तेजः सम्पादय ।

अथाष्टमं मन्त्रमाह । ^(८)"वात आवातु भेषजꣳ ० प्र ण आयूंषि तारिषत्"^(८) इति । अयं 'वातः' 'भेषजं,' यथा भवति तथा, 'आवातु' । 'नः' अस्माकं, 'हृदे' मनसे, 'शम्भूः' अनिष्टशान्तिं भावयन्, 'मयोभूः' सुखं च भावयन्, वर्त्ततां । 'नः' अस्माकं, 'आयूंषि' चिरकालजीवनानि, 'प्रतारिषत्' प्रकर्षेण वर्धयतु ॥

४ प्रपाठके ४२ अनुवाकः । ५६७


ऽसि॒ तं त्वा॒ प्रप॑द्ये सगुः साश्वः॑ । स॒ह यन्मे॒ अस्ति॒ तेन॑^(९) । ^(१०)भूः प्रप॑द्ये॒ भुवः॑ प्रप॑द्ये॒ सुवः॑ प्रप॑द्ये॒ भू- र्भुवः॒ सुवः॑ प्रप॑द्ये वा॒युं प्रप॑द्येऽना॑र्त्तां दे॒वतां॑ प्रपद्ये॒ऽ- श्मान॑माख॒णं प्रप॑द्ये प्र॒जाप॑तेर्ब्रह्मको॒शं ब्रह्म॑ प्रप॑द्य॒ ॐ प्रप॑द्ये^(१०) । ^(११)अ॒न्तरि॑क्षं म उ॒र्वन्तरं॑ बृ॒हद्म॒यः पर्व॑ताश्च॒


अथ नवमं मन्त्रमाह । ^(९)"इन्द्रस्य गृहोऽसि ० सह यन्मे अस्ति तेन"^(९) इति । अत्रेन्द्रशब्देन परमैश्वर्य्योगादादित्य उच्यते । तथा च ब्राह्मणं । असौ वा आदित्य इन्द्र एष प्रजा- पतिरिति । हे आदित्यमण्डल त्वं 'इन्द्रस्य गृहोऽसि' आदित्यस्य निवासस्थानमसि । 'तं' तादृशमादित्यगृहं, त्वां 'प्रपद्ये' प्राप्नोमि । कीदृशोऽहं, 'सगुः' गोसहितः, 'साश्वः' अश्वसहितः, अन्यदपि 'मे', 'यन्' वस्तु, विद्यते 'तेन सह', त्वां प्रविशामि ॥

अथ दशमं मन्त्रमाह । ^(१०)"भूः प्रपद्ये भुवः प्रपद्ये ० ब्रह्म प्रपद्ये ॐ प्रपद्ये"^(१०) इति । 'भूः प्रपद्ये' भूर्लोकदेवतां प्रपन्नोऽस्मि । एवमुत्तरत्रापि ययाव्यस्तानां प्रपत्तिस्तथा समस्ता- नामपि प्रपत्तिः । 'अनार्त्तां' इत्यनेन आरोग्यकरी देवतोच्यते । 'आखाणं' खनितुमशक्यं, 'अश्मानं' दृढं पाषाणं, 'प्रपद्ये' । पाषाण- वद्दार्व्यायास्थित्यर्थः । 'प्रजापते', सम्बन्धि 'ब्रह्मकोशं' सर्वमन्त्रा- धारभूतं, 'ब्रह्म' वेदस्वरूपं, प्रपद्ये । 'ॐ'कारेण परमात्मा उच्यते, तमपि 'प्रपद्ये' ॥

3 z

५६८ तैत्तिरीये आरण्यके

यया॑ वातः॒ स्व॒स्त्या स्व॒स्ति मां तया॑ स्व॒स्त्या स्व॒स्ति मा- नस॑ानि॥^{(११)}। ^{(१२)}प्रा॒णा॒पा॒नौ मृ॒त्योर्मा॑ पातं प्राणापा॒नौ मा मा॑हासिष्टं^{(१२)} ^{(१३)}म॒यि मे॒धां मयि॑ प्र॒जां मय्य॒ग्नि- स्तेजो॑ दधातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयीन्द्र॑ इन्द्रि॒यं


अथैकादशमन्त्रमाह। ^{(११)}“अन्तरिक्षं म उर्वन्तरं ० स्वस्ति मानसानि”^{(११)} इति। यदिदं 'अन्तरिक्षं', अस्ति तत् 'मे' मदर्थं, 'उर्वन्तरं' विस्तीर्णावकाशः, भूयात्। तस्मिन्नन्तरिक्षे 'अग्नयः' गार्हपत्यादयः, 'पर्वताः' मेर्वादयश्च, 'बृहत्' अधिकं सुखं यथा भवति तथा, वर्त्तन्तामिति शेषः। अत्रान्तरिक्षे सञ्चरन् 'वातः', 'यया स्वस्त्या' क्षेमहेतुभूतया क्रियया, 'मां', प्रति 'स्वस्ति' क्षेमं, प्रापयत्विति शेषः। 'तया स्वस्त्या' क्षेमहेतुभूतया क्रियया, 'मा- नसानि' अस्मदीयान्यन्तःकरणानि, 'स्वस्ति' क्षेमं, प्रापयत्विति शेषः॥

अथ द्वादशं मन्त्रमाह। ^{(१२)}“प्राणापानौ ० मा माहा- सिष्टं”^{(१२)} इति। हे प्राणापानदेवौ 'मृत्योः', सकाशात् मां 'पातं' रक्षतं। हे 'प्राणापानौ', युवां मां कदाचिदपि 'माहासिष्टं' मा- परित्यजतं॥

अथ त्रयोदशं मन्त्रमाह। ^{(१३)}“मयि मेधां मयि प्रजां ० सूर्यो भ्राजो दधातु”^{(१३)} इति। ग्रन्थतदर्थधारणशक्तिः 'मेधा', 'प्रजा' पुत्रादिः, 'तेजः' शरीरकान्तिः, तत्सर्वं 'अग्निर्मयि', सम्पा-

४ प्रपाठके ४२ अनुवाकः । ५६६

दं॑धातु॒ मयि॑ मे॒धां मयि॑ प्र॒जां मयि॒ सूर्यो॒ भ्राजो॑ दधातु^(१३) ॥ २ ॥

^(१४)द्युभि॑र॒क्तुभिः॑ परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः । तन्नो॑ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उत द्यौः^(१४) । ^(१५)कया॑ नश्चि॒त्र आभु॑वदू॒ती स॒दावृ॑धः॒ सखा॑ । कया॒ शचि॑ष्ठया वृ॒ता^(१५) ।


दयतु । 'इन्द्रियं' चक्षुरादिपाटवं, 'भ्राजः' दीप्तिजालं,* अन्यत् पूर्ववत्

अथ चतुर्दशं मन्त्रमाह । ^(१४)“द्युभिरक्तुभिः परिपातं ० पृथिवी उत द्यौः”^(१४) इति । हे 'अश्विनौ', 'सुभगेभिः' सौभाग्यैः युक्तैः, 'अस्मान् पातं', कीदृशैः, 'द्युभिः' द्योतमानैः, 'अक्तुभिः' रञ्जनहेतुघृतादिद्रव्ययुक्तैः, च 'अरिष्टेभिः' विनाशरहितैः । 'नः' अस्माकं, 'तत्' अश्विनोः पालनं, मित्रादयो 'मामहन्तां' अतिशयेन पूजयन्तु । 'सिन्धुः' समुद्रः ॥

अथ पञ्चदशं मन्त्रमाह । ^(१५)“कया नश्चित्र ० शचिष्ठया-वृता”^(१५) इति । कस्य प्रजापतेः सम्बन्धीनोत्यस्मिन्नर्थे 'का' इति शब्दः स्त्रीलिङ्गे वर्त्तते । 'ऊति'शब्दो रक्षावाची, 'कया' ऊत्या' प्रजापतिसम्बन्धिना रक्षणेन, 'चित्र आभुवत्' चित्रोऽयं यज्ञः 'नः'


* दीप्तिजातं इति D चिह्नितपुस्तके पाठः ।

५७०तैत्तिरीये आरण्यके

(१६)कस्त्वो॑ स॒त्यो मदा॑नां मꣳहि॑ष्ठो मत्सदन्ध॑सः । दृ॒ढाचि॑दारु॒जे* वसु॑।(१६) । (१७)अ॒भीषु णः॑ सखी॒नामवि॑ता जरितॄ॒णां । श॒तम॑वा॒स्यूति॑भिः।(१७) । (१८)वयः॑ सुप॒र्णा


अस्मान् प्रति, आगतः । कीदृशो यज्ञः, ‘सदावृधः’ सर्वदा वर्धमानः, ‘सखा’ सखिवत् प्रियतमः, स च यज्ञः ‘कया’ प्रजापतिसम्बन्धिन्या, ‘शचिष्ठया’ अतिशयितया शक्त्या, ‘वृता’ वर्त्तते ॥

अथ षोडशं मन्त्रमाह । (१६)“कस्त्वा सत्यः ० आरुजे वसु”(१६) इति । हे प्रवर्ग्‍य त्वां ‘कः’ प्रजापतिः, ‘मत्सत्’ मदयतु† हर्षयतु । कीदृशः प्रजापतिः, ‘सत्यः’ परमार्थभूतः, ‘मदानां’ हर्षकारणानामायुरादीनां, ‘अन्धसः’ अन्नस्य च, ‘मंहिष्ठः’ अतिशयेन वर्धयिता, ‘आरुजे’ सर्वतोऽनिष्टभङ्गार्थं, ‘वसु’ अपेक्षितं धनं, ‘दृढाचित्’ दृढमेव, करोत्विति शेषः ॥

अथ सप्तदशं मन्त्रमाह । (१७)“अभीषूणः ० ऊतिभिः”(१७) इति । हे प्रजापते ‘जरितॄणां’ जरणशीलानां, ‘सखीनां’ सखिवत्प्रियाणां, ‘नः’ अस्माकं, ‘शतमूतिभिः’ शतसङ्ख्याकैः रक्षणैः, ‘अभीषु’ सर्वतः, सुष्ठु ‘अविता भवासि’ रक्षिता भव ॥

अथाष्टादशं मन्त्रमाह । (१८)“वयः सुपर्णा ० निधयेव बद्धान्”(१८) इति । केचित् ‘ऋषयः’, ‘इन्द्रमुपसेदुः’, कार्यार्थप्रा-


* आऋजे इति D चिह्नितपुस्तकपाठः ।
† मोदयतु इति E चिह्नितपुस्तकपाठः ।

४ प्रपाठके ४२ अनुवाकः। ५७१

उप॑सेदुरिन्द्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः। अप॑ ध्वा॒न्तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य॑स्मान्नि॒धये॑व ब॒द्धान्(१८)॥ ३॥ (१८)शन्नो॑ दे॒वीर॒भिष्ट॑य॒ आपो॑ भवन्तु पी॒तये॑। शंयो- र॒भिस्र॑वन्तु नः(१९)। (२०)ईशा॑ना॒ वार्या॑णां॒ क्षय॑न्ती॒-

प्रिरुपमत्तिः। कीदृशा ऋषयः, 'वयः' पक्षिमूर्त्तिधारिणः, अतएव 'सुपर्णाः' शोभनपक्षोपेताः, 'प्रियमेधाः' अधीतस्य श्रुतस्य धारणशक्तिर्मेधाः तस्यां प्रीतियुक्ताः। 'नाधमानाः' किञ्चित्कार्यं याचमानाः। स एव याञ्ज्ञाप्रकारः स्पष्टीक्रियते। हे इन्द्र 'ध्वान्तं' अज्ञानलक्षणमन्धकारं, 'अपोर्णुहि' अपसारय। 'चक्षुः' ज्ञानलक्षणं दृष्टिं, 'पूर्धि' पूरय। 'निधयेव' शृङ्खलयेव, अज्ञानेन, 'बद्धान्', 'अस्मान्', 'मुमुग्धि' तस्मादज्ञानात् बन्धनान्मोचय॥

अथैकोनविंशं मन्त्रमाह। (१८)“शन्नो देवीरभिष्टय ० शंयोरभिस्रवन्तु नः”(१९) इति। 'आपः', देव्यः, 'नः' अस्माकं, 'अभिष्टये पीतये' अभीष्टाय पानाय, 'शं' सुखहेतवः, 'भवन्तु'। किञ्च 'नः' अस्माकं, 'शं' सुखं, यथा भवति तथा, 'शंयोः' दुःखवियोगः, यथा भवति तथा, 'अभिस्रवन्तु' सर्वतः प्रवहन्तु ॥

अथ विंशं मन्त्रमाह। (२०)“ईशाना वार्याणां ० याचामि भेषजं”(२०) इति। अहं 'अपः', देवीः प्रति, 'भेषजं' पापविनाश-

५७२ तैत्तिरीये आरण्यके

च॒र्षणी॒नां । अपो॑ या॑चा॒मि भेष॒जं(२०) । ^{(२१)}सुमि॒त्रा न॒ आप॒ ओष॑धयः सन्तु दुर्मि॒त्रास्तस्मै॑ भूयासु॒र्योऽस्मान् द्वेष्टि॒ यञ्च॑ व॒यं द्वि॒ष्मः(२१) । ^{(२२)}आपो॒ हि ष्ठा म॑यो॒भुव॒- स्ता न॑ ऊ॒र्जे द॑धातन । म॒हे रणा॑य॒ चक्ष॑से(२२) । ^{(२३)}यो


कारणमौषधं, 'याचामि', इति । कीदृशीरपः, 'वार्याणां' वर- णीयानां कामानां, 'ईशानाः' दातुं समर्थाः, 'चर्षणीनां' मनु- ष्याणां, 'क्षयन्तः' निवासहेतुभूताः ॥

अथैकविंशं मन्त्रमाह । ^{(२१)}“सुमित्रा न आपः ० यञ्च वयं द्विष्मः”(२१) इति । 'आपः', 'ओषधयः', च इत्येता द्विविधा देव- ताः, 'नः' अस्मान् प्रति, 'सुमित्राः' सुष्ठु स्निग्धाः, 'सन्तु' । 'यः' अस्मदीयः शत्रुः, 'तस्मै', 'दुर्मित्राः' दुर्हृदया विरोधिनः, 'सन्तु' ॥

अथ द्वाविंशं मन्त्रमाह । ^{(२२)}“आपो हि ष्ठा मयो भुवः ० महे रणाय चक्षसे”(२२) इति । 'हि'शब्द एवकारार्थः प्रसिद्धार्थो वा । हे 'आपः', यूयमेव 'मयोभुवः स्थ' सुखस्य भावयित्र्यो भवत । स्नान- पानादिहेतुत्वेन सुखोत्पादकत्वं प्रसिद्धं । 'ताः' तादृश्यो यूयं, 'नः' अस्मान्, 'ऊर्जे' रसाय, भवदीयरसानुभवार्थं, 'दधातन' स्थापयत । किञ्च, 'महे' महते, 'रणाय' रमणीयाय, 'चक्षसे' दर्शनीयाय, 'दधातन' अस्मान् परतत्त्वसाक्षात्कारयोग्यान् कुरुतेत्यर्थः ॥

अथ त्रयोविंशं मन्त्रमाह । ^{(२३)}“यो वः शिवतमो रसः ० उशतीरिव मातरः”(२३) इति । 'वः' युष्माकं, 'शिवतमः' शान्त-

४ प्रपाठके ४२ अनुवाकः ५७३

वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ । उ॒श॒तीरि॑व मा॒तरः॑ ।^{(२३)}। ^{(२४)}तस्मा॒ अर॑ङ्गमाम वो॒ यस्य॒ क्षया॑य॒ जि- न्व॑थ ॥ ४ ॥ आपो॑ जनय॑था च नः^{(२४)}। ^{(२५)}पृ॒थि॒वी शा॒न्ता साऽग्निना॑ शा॒न्ता सा मे॑ शा॒न्ता शुच॑ग्ं शमयतु^{(२५)}।


तमः सुखैकहेतुः, यो 'रसः', अस्ति । 'इह', अस्मिन् कर्मणि, 'नः' अस्मान्, 'तस्य', 'भाजयत' रसं प्रापयत । तत्र दृष्टान्तः, 'उशतीरिव मातरः' इति, कामयमानाः प्रीतियुक्ता मातरो यथा स्वकीयस्तन्यरसं प्रापयन्ति तद्वत् ॥

अथ चतुर्विंशं मन्त्रमाह । ^{(२४)}“तस्मा अरङ्गमाम ॰ जनयथा च नः”^{(२४)} इति । 'यस्य' रसस्य, 'क्षयाय' क्षयेण निवासेन, 'जि- न्वथ' यूयं प्रीता भवथ, 'तस्मै' रसाय, 'वः' युष्मान्, 'अरङ्गमाम' अलं भृशं प्राप्नुमः । किञ्च, हे 'आपः', यूयं 'नः' अस्मान्, 'जनयथ' प्रजोत्पादकान् कुरुत ॥

अथ पञ्चविंशं मन्त्रमाह । ^{(२५)}“पृथिवी शान्ता ॰ शुचग्ं शमयतु”^{(२५)}, इति । येयं 'पृथिवी', देवता, 'सा', इयं 'शान्ता' सर्वोपद्रवशमनयुक्ता, न केवलं स्वयमेव किन्तु 'अग्निना', देवेन सह, 'शान्ता' । तादृशी 'शान्ता', देवता, 'मे' मम, 'शुचं' शोकं, 'शमयतु' शान्तं करोतु ॥