भारतकोश
संग्रह पर लौटें

तैत्तिरीय आरण्यक (कृष्ण यजुर्वेद - सायणभाष्य व हिन्दी अनुवाद)

Taittiriya Aranyaka Hindi

महर्षि वैशम्पायन द्वारा

स्रोत: Taittiriya Aranyaka with Sayana Bhashya and Hindi Translation (उद्गम)

DevanagariHindipublished940 पृष्ठ

५६४ तैत्तिरीये आरण्यके

य॒ची छन्दा॑ꣳ॒स्यत्य॑मन्यत । तस्यै॒ वष॑ट्का॒रोऽभ्य॑स्य॒ शि- रो॑ऽच्छिनत् । तस्यै॑ द्वे॒धा रसः॒ परा॑पतत् । पृ॒थि॒वीमर्धः॑ प्रावि॑शत् । प॒शून॒र्धः । यः पृ॑थि॒वीं प्रावि॑शत् ॥ ३ ॥

स ख॑दि॒रोऽभ॑वत् । यः प॒शून् । सोऽजा॑ । यत् खा॑दि॒र्य्यभ्रिर्भव॑ति । छन्द॑सामे॒व रसे॑न य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति <sup>५)</sup><sup>(६)</sup>यदौदु॑म्बरी । ऊ॒र्ग्वा उ॑दु॒म्बरः॑ । ऊ॒र्जैव य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति । यद्वै॑ण॒वी । तेजो॒ वै वे॒णुः ॥ ४ ॥

तेज॑सैव य॒ज्ञस्य॒ शिरः॑ सम्भर॑ति । यद्वै॑कङ्क॒ती । भा ए॒वाव॑रुन्धे <sup>(६)</sup><sup>(७)</sup>दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्य॒भ्रि- माद॑त्ते प्रसू॑त्यै । अ॒श्विनो॑र्बा॒हुभ्या॒मित्या॑ह । अ॒श्विनौ॑ हि दे॒वाना॑म॒ध्वर्यू आस्ता॑म् । पू॒ष्णो हस्ता॑भ्या॒मित्या॑ह यत्यै॑ <sup>(७)</sup><sup>(८)</sup>वज्र॑ इव॒ वा ए॒षा । यद॒भ्रिः । अ॒भिर॑सि॒ नारि॑रसीत्या॑ह॒ शान्त्यै॑ <sup>(८)</sup> ॥ ५ ॥

<sup>(९)</sup>अ॒ध्व॒र॒क्लृप्त्यै॑ दे॒वेभ्य॒ इत्या॑ह । य॒ज्ञो वा अ॑ध्व॒रः । य॒ज्ञ- क्लृप्त्यै॑ दे॒वेभ्य॒ इति॒ वावैतदा॑ह <sup>(९)</sup><sup>(१०)</sup>उत्ति॑ष्ठ ब्रह्मणस्पत॒


एतन्मन्त्रस्य भाष्यं३८२पृष्ठे द्रष्टव्यं ।
,,३८२,,
,,३८३,,
,,३८३,,
१०,,३८४,,

५ प्रपाठके २ अनुवाकः। ५६५

इत्या॑ह॒। ब्रह्म॑णै॒व य॒ज्ञस्य॒ शिरोऽच्छैति॑^{(१०)}। ^{(११)}प्रैतु॒ ब्रह्म॑- ण॒स्पति॒रित्या॑ह। प्रेत्यै॒व य॒ज्ञस्य॒ शिरोऽच्छैति॑^{(११)}। ^{(१२)}प्र- दे॒व्ये॑तु सू॒नृतेत्या॑ह। य॒ज्ञो वै सू॒नृता॑^{(१२)}। ^{(१३)}अच्छो॑ वी॒रन्व॑र्यं प॒ङ्क्तिरा॑धस॒मित्या॑ह ॥ ६ ॥ पा॒ङ्क्तो हि य॒ज्ञः^{(१३)}। ^{(१४)}दे॒वा य॒ज्ञं न॑यन्तु न॒ इत्या॑ह। दे॒वाने॒व य॒ज्ञनियः॑ कुरुते^{(१४)}। ^{(१५)}देवी॒ द्यावा॑पृथिवी॒ अनु॑ मेमँसाथामित्या॑ह। आ॒भ्यामे॒वानु॑मतो य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति^{(१५)}। ^{(१६)}ऋ॒द्द्यास॑म॒द्य म॒खस्य॒ शिर॒ इत्या॑ह। य॒ज्ञो वै म॒खः। ऋ॒द्द्यास॑म॒द्य य॒ज्ञस्य॒ शिर॒ इति॒ वावैत- दा॑ह^{(१६)}। ^{(१७)}म॒खाय॑ त्वा म॒खस्य॑ त्वा शी॒र्ष्णा इत्या॑ह। नि॒र्दिश्यै॒वैन॑द्धरति^{(१७)} ॥ ७ ॥ ^{(१८)}त्रिर्ह॑रति। त्रयो॑ वा इ॒मे लो॒काः। एभ्य ए॒व लो॒केभ्यो॑ य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति। तूष्णीं च॑तु॒र्थँ हर॑ति। अ॒प- रि॑मितादे॒व य॒ज्ञस्य॒ शिरः॒ सम्भ॑रति^{(१८)}। ^{(१९)}मृ॒त्खनाद-


११एतन्मन्त्रस्य भाष्यं३८५पृष्ठे द्रष्टव्यं ।
१२,,३८५,,
१३,,३८५,,
१४,,३८५,,
१५,,३८५,,
१६,,३८६,,
१७,,३८६,,
१८,,३८६,,
५६६तैत्तिरीये आरण्यके

ग्रैं हरति । तस्मा॑न् मृत्खनः॑ क॑रुण्ड॑तमः^(१६)। ^(२०)इ॒यत्यग्र॑
आसी॒रित्या॑ह । अ॒स्यामे॒वाच्छं॑वट्का॒रं* य॒ज्ञस्य॒ शिरः॑
सम्भ॑रति^(२०) । ^(२१)ऊर्जं॑ वा ए॒तः॑ रसं॑ पृथि॒व्या उ॑पदी-
का॒ उद्दि॑हन्ति ॥ ८ ॥
 यद्व॑ल्मी॒कं । यद्व॑ल्मीकव॒पास॑म्भा॒रो भर्व॑ति । ऊर्ज॑-
मे॒व रसं॑ पृथि॒व्या अव॑रुन्थे । अथो॒ श्रोत्र॑मेव । श्रोत्रँ॑
ह्ये॑तत् पृ॑थि॒व्याः । यद्व॑ल्मीकः॑^(२१) । ^(२२)अब॑धिरो भवति ।
य ए॒वं वेद॑^(२२) । ^(२३)इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स
यच॑ यच॒ परा॑क्रमत ॥ ९ ॥
 तन्नाध्रि॑यत । स पू॑तीकस्त॒म्बे परा॑क्रमत । सो॑ऽध्रि-
यत । सो॑ऽब्रवीत् । ऊ॒तिं वै मे॑धा॒ इति॑ । तद्पूतीका॑नामूती-
क॒त्वं । यद्पूतीका॒ भव॑न्ति । य॒ज्ञायै॒वोतिं द॑धति^(२३) । ^(२४)
अ॒भ्रिजा॒ असि॑ प्र॒जाप॑ते॒ रेत॒ इत्या॑ह । य ए॒व रसः॑
प॒शून् प्रावि॑शत् ॥ १० ॥


सं.सन्दर्भपृष्ठटिप्पणी
१६एतन्मन्त्रस्य भाष्यं३८७ पृष्ठेद्रष्टव्यं ।
२०,,३८८,,
२१,,३८६,,
२२,,३८६,,
२३,,३८६,,
२४,,३९१,,

* अच्छंवषट्कारमिति J चिह्नितपुस्तकपाठः ।

५ प्रपाठके २ अनुवाकः । ५९७

तमे॒वाव॑रुन्धे^(२४) । ^(२५)पञ्चै॒ते सं॒भारा॑ भवन्ति । पाङ्क्तो॑ य॒ज्ञः । यावा॑ने॒व य॒ज्ञः । तस्य॒ शिरः॒ संभ॑रति^(२५) । ^(२६)यद् ग्रा॒म्याणां॑ प॒शूनां॒ चर्म॑णा॒ संभ॑रेत् । ग्राम्यान् प॒शूञ्छुचा॒ऽर्प॑येत् । कृ॒ष्णा॒जि॒नेन॒ संभ॑रति । आ॒र॒ण्याने॒व प॒शूञ्छुचा॒ऽर्प॑यति । तस्मा॑त् समा॒वत् प॒शूनां॑ प्र॒जाय॑मानानां ॥ ११ ॥

आ॒र॒ण्याः प॒शवः॒ कनी॑यांसः । शुचा॒ ह्यृ॑ताः^(२६) । ^(२७)लोम॑तः॒ संभ॑रति । अतो॒ ह्य॑स्य मेध्यं॑^(२७) । ^(२८)परि॑गृ॒ह्या॑र्यन्ति । रक्ष॑सामप॑हत्यै । ब॒हवो॒ हर॑न्ति । अप॑चितिमे॒वास्मि॑न्दधति । उद्व॑ते सिक॑तापो॒ते प॑रिश्रिते॒ निद॑धति॒ शान्त्यै॑^(२८) । ^(२६)मद॑न्तीभिरुप॑सृजति ॥ १२ ॥

तेज॑ ए॒वास्मि॑न्दधाति^(२९) । ^(३०)मधु॑ त्वा॒ मधु॑ला करो॒त्वित्या॑ह । ब्रह्म॑णै॒वास्मिं॒स्तेजो॑ दधाति^(३०) । ^(३१)यद्ग्रा॒म्याणां॑ पात्रा॑णां क॒पालैः॑ सँ॒सृजेत्॑ । ग्रा॒म्याणि॑


२५एतन्मन्त्रस्य भाष्यं३६१पृष्ठे द्रष्टव्यं ।
२६,,३६१,,
२७,,३६२,,
२८,,३६३,,
२६,,३६३,,
३०,,३६४,,
३१,,३६४.,,

५६८ तैत्तिरीये आरण्यके

पात्रा॑णि शुचा॒ऽर्पये॑त् । अ॒र्मक॒पालैः सꣳसृ॑जति । ए॒तानि॒ वा अ॑नुपजीवनी॒यानि॑ । तान्ये॒व शुचा॒र्पय॑ति⁽३१⁾ । ⁽३२⁾शर्क॑राभिः सꣳसृ॑जति धृत्यै॑ । अथो॒ शुन्ध्या॑य⁽३२⁾ ॥ ⁽३३⁾अ॒जलोमैः॒ सꣳसृ॑जति । ए॒षा वा अ॒ग्नेः प्रि॒या त॒नूः । यद॒जा । प्रि॒ययै॒वैन॑न्त॒नुवा॒ सꣳसृ॑जति । अथो॒ तेज॑सा⁽३३⁾ । ⁽३४⁾कृ॒ष्णा॒जि॒नस्य॒ लोम॑भिः सꣳसृ॑जति । य॒ज्ञो वै कृ॑ष्णाजि॒नं । य॒ज्ञेनै॒व य॒ज्ञꣳ सꣳसृ॑जति⁽३४⁾ ॥ ॥ १३ ॥

या॒ज्या॑यै(१), न जु॑हुयात्(२), आवि॑शत्(३), वेगाः(४), शान्त्यै(५), प॒ङ्क्तिरा॑ध॒समित्या॑ह(६), हर॑ति(७), दिहन्ति(८), परा॑क्रमत(९), आवि॑शत्(१०), प्र॒जाय॑मानानाः(११), सृजति(१२), शुन्ध्याय, अ॒ष्टौ च॑, १३ ॥ अनु० २ ॥


३२ एतन्मन्त्रस्य भाष्यं ३६४ पृष्ठे द्रष्टव्यं।
३३ ,, ३६४ ,,
३४ ,, ३६५ ,,

५ प्रपाठके ३ अनुवाकः। ५६६

अथ तृतीयोऽनुवाकः ।

(१)परि॑श्रिते करोति । ब्रह्म॒वर्च॒सस्य॒ परि॑गृहीत्यै^(१) । (२)न कु॒र्वन्न॒भिप्रा॑ण्यात् । यत् कु॒र्वन्न॒भिप्रा॒ण्यात् । प्रा॒णाञ्छु॒चार्प॑येत् । अ॒पह्याय प्राणि॑ति । प्रा॒णानां॑ गोपी॒थाय॑^(२) । (३)न प्र॑व॒र्ग्यं चा॑दि॒त्यं चा॒न्तरे॑यात् । यद॑न्त॒रेया॑त् । दु॒श्चर्मा॑ स्यात् ॥ १ ॥

तस्मा॒न् नान्त॑रा॒य्य॑म् । आ॒त्मनो॑ गोपी॒थाय॑^(३) । (४)वे॒णुना॑ करोति । तेजो॒ वै वे॒णुः । तेज॑: प्र॒वर्ग्य॑: । तेज॑सै॒व तेज॑: समर्ध॑यति^(४) । (५)म॒खस्य॒ शिरो॑ऽसीत्या॑ह । य॒ज्ञो वै मख॑: । तस्यै॒तच्छिर॑: । यत् प्र॑व॒र्ग्य॑: ॥ २ ॥

तस्मा॑दे॒वमा॑ह^(५) । (६)य॒ज्ञस्य॑ प॒दे स्थ इत्या॑ह । य॒ज्ञस्य॒ ह्येते॑ प॒दे । अथो॒ प्रति॑ष्ठित्यै^(६) । (७)गाय॒त्रेण॑ त्वा॒ छन्द॑सा करोमीत्या॑ह । छन्दो॑भिरे॒वैनं॑ करोति^(७) ।


एतन्मन्त्रस्य भाष्यं३६५पृष्ठे द्रष्टव्यं ।
,,३६५,,
,,३६५,,
,,३८६,,
,,३८६,,
,,३८७,,
,,३८७,,

4 D

४०० तैत्तिरीये आरण्यके

⁽८⁾त्यु॑द्धिं करोति । त्रयो॑ इ॒मे लो॒काः । ए॒षां लो॒का- ना॒माप्त्यै॑⁽८⁾ । ⁽९⁾छन्दो॑भिः करोति ॥ ३ ॥

वी॒र्यं॒ वै छन्दाँ॑सि । वी॒र्येणै॒वैनं॑ करोति⁽९⁾ । ⁽१०⁾य- जु॑षा वि॒लं क॑रोति व्या॒वृत्त्यै॑⁽१०⁾ । ⁽११⁾इय॑न्तं करोति । प्र॒जाप॑तिना य॒ज्ञमु॒खेन॒ सम्मि॑तम्⁽११⁾ । ⁽१२⁾इय॑न्तं क- रोति । य॒ज्ञपु॑रुषा॒ सम्मि॑तम्⁽१२⁾ । ⁽१३⁾इय॑न्तं करो- ति । ए॒ताव॒द्वै पुरु॑षे वी॒र्य॑म् । वी॒र्य॑सम्मितम्⁽१३⁾ ॥ ४ ॥

⁽१४⁾अपरि॑मितं करोति । अपरि॑मितस्याव॒रुद्ध्यै॑⁽१४⁾ । ⁽१५⁾प॒रि॒ग्री॒वं क॑रोति धृत्यै॑⁽१५⁾ । ⁽१६⁾सूर्य॑स्य॒ हर॑सा॒ श्राये- त्या॑ह । यथा॒ यजु॑रे॒वैतत्⁽१६⁾ । ⁽१७⁾अश्व॑श॒केन॑ धूपयति । प्रा॒जा॒प॒त्यो वा अश्व॑ः सयो॑नित्वाय॑⁽१७⁾ । ⁽१८⁾वृष्णो॑ अश्व॑स्य॒ निष्प॑दसीत्या॑ह । अ॒सौ वा आ॑दि॒त्यो वृषाश्व॑ः । तस्य॒ छन्दाँ॑सि॒ निष्प॑त् ॥ ५ ॥


एतन्मन्त्रस्य भाष्यं३९८पृष्ठे द्रष्टव्यं ।
,,३९८,,
१०,,३९६,,
११,,३९६,,
१२,,३९६,,
१३,,३९६,,
१४,,४००,,
१५,,४००,,
१६,,४००,,
१७,,४०२,,
१८,,४०२,,

५ प्रपाठके ३ अनुवाकः । ६०१

छन्दो॑भिरे॒वैनं॑ धूपयति^{(१८)}। ^{(१९)}अ॒र्चिषे॑ त्वा॒ शोचिषे॑ त्वेत्या॑ह । तेजो॒ एवास्मि॑न् दधाति । वा॒रु॒णीभि॒र्ऋग्भिः॑ । मै॒त्रियोपै॑ति शा॒न्त्यै^{(१९)}। ^{(२०)}सि॒द्ध्यै त्वेत्या॑ह । यथा॒ यजु॑रे॒वैतत्^{(२०)}। ^{(२१)}दे॒वस्त्वा॑ सवि॒तोद्व॑पत्वित्या॑ह । सवि॒तृप्र॑सूत ए॒वैनं॒ ब्रह्म॑णा दे॒वता॑भिरुद्व॑पति^{(२१)}। ^{(२२)}अप॑चमानः पृथि॒व्यामाशा॒ दिश॒ आपृ॑णेत्या॑ह ॥ ६ ॥

तस्मा॑द॒ग्निः सर्वा॒ दिशोऽनु॒विभा॑ति^{(२२)}। ^{(२३)}उत्ति॑ष्ठ बृ॒हन् भ॑वो॒र्द्धस्ति॑ष्ठ ध्रु॒वस्त्वमित्या॑ह॒ प्रति॑ष्ठित्यै^{(२३)}। ^{(२४)}ईश्व॒रो वा ए॒षोऽन्धो भ॑वितोः । यः प्र॑व॒र्ग्यमन्वीक्ष॑ते । सूर्य्य॑स्य त्वा॒ चक्षु॑षान्वीक्ष॒ इत्या॑ह । चक्षु॑षो गोपी॒थाय॑^{(२४)}। ^{(२५)}ऋ॒जवे॑ त्वा सा॒धवे॑ त्वा सु॒क्षित्यै॑ त्वा भू॒त्यै त्वेत्या॑ह । इ॒यं वा ऋ॒जुः । अ॒न्तरि॑क्षग्ँ सा॒धु । अ॒सौ सु॑क्षि॒तिः ॥ ७ ॥


१६एतन्मन्त्रस्य भाष्यं४०३पृष्ठे द्रष्टव्यं ।
२०,,४०४,,
२१,,४०४,,
२२,,४०५,,
२३,,४०५,,
२४,,४०६,,
२५,,४०६,,

4 D 2

६०२तैत्तिरीये आरण्यके

दिशो॒ भूति॑: । इ॒माने॒वास्मै॑ लो॒कान् क॑ल्पयति । अथो॒ प्रति॑ष्ठित्यै॑⁽२५⁾ । ⁽२६⁾इ॒दम॒हम॒मुमा॑मुष्याय॒णं वि॒शा प॒शुभि॒र्ब्रह्म॑वर्च॒सेन॒ पर्य्यू॑हामीत्या॑ह । वि॒शैवैनं॑ प॒शुभि॒र्ब्रह्म॑वर्च॒सेन॒ पर्य्यू॑हति⁽२६⁾ । ⁽२७⁾वि॒शेति॑ रा॒जन्य॑स्य ब्रूयात् । वि॒शैवैनं॒ पर्य्यू॑हति । प॒शुभि॒रिति॒ वैश्य॑स्य । प॒शुभि॑रे॒वैनं॒ पर्य्यू॑हति⁽२७⁾ । ⁽२८⁾अ॒स्र्यं॑ पा॑चम॒नाच्छृ॑णं ॥ ८ ॥

आच्छृ॑णत्ति । दे॒व॒चाक॑:⁽२८⁾ । ⁽२९⁾अ॒ज॒क्षी॒रे॒णाच्छृ॑णत्ति । पर॒मं वा ए॒तत्पय॑: । यद॑ज॒क्षीरं॑ । पर॒मेणै॒वैनं॑ पय॑सा॒च्छृ॑णत्ति⁽२९⁾ । ⁽३०⁾यजु॑षा॒ व्यावृ॑त्त्यै⁽३०⁾ । ⁽३१⁾छन्दो॑भि॒राच्छृ॑णत्ति । छन्दो॑भि॒र्वा ए॒ष क्रि॑यते । छन्दो॑भिरेव छन्दाँ॑स्या॒च्छृ॑णत्ति⁽३१⁾॥ ⁽३२⁾छृ॒न्धि वाच॑मित्या॑ह । वाच॑मे॒वाव॑रुन्धे । छृ॒न्ध्यूर्ज॑मित्या॑ह । ऊर्ज॑मे॒वाव॑रुन्धे । छृ॒न्धि ह॒विरित्या॑ह । ह॒विरे॒वाक॑:⁽३२⁾ । ⁽३३⁾दे॒व॒पु॒रश्च॑रसघ्यासं॒ त्वेत्या॑ह । यथा॒ यजु॑रे॒वैतत्⁽३३⁾ ॥ ९ ॥


२६ एतन्मन्त्रस्य भाष्यं ४०७ पृष्ठे द्रष्टव्यं ।
२७ ,, ४०७ ,,
२८ ,, ४०८ ,,
२९ ,, ४०८ ,,
३० ,, ४०८ ,,
३१ ,, ४०८ ,,
३२ ,, ४०९ ,,
३३ ,, ४०९ ,,

५ प्रपाठके ४ अनुवाकः। ६०३

स्या॒त्(१), य॒त् प्रव॑र्ग्यः(२), छन्दो॑भिः करोति(३), वी॒र्य॑सम्मितं(४), छन्दाँ॑सि॒ निष्पत्(५), पृ॒णोत्या॑ह(६), सु॒क्षितिः(७), अना॑च्छृणं(८), छन्दाँ॑ स्याच्छृ॑णत्ति(९), अ॒ष्टौ च॑ ॥ अनु० ३ ॥


अथ चतुर्थोऽनुवाकः ।

^(१)ब्रह्म॑न् प्रचरिष्यामो॒ होत॑र्घ॒र्मम॑भिष्टुहीत्या॑ह । ए॒ष वा ए॒तर्हि॒ बृह॒स्पति॑ः । यद् ब्रह्मा॑ । तस्मा॑ ए॒व प्रति॑प्रोच्य॒ प्रच॑रति । आ॒त्मनोऽना॑र्त्यै^(१) । ^(२)य॒माय॑ त्वा म॒खाय॑ त्वेत्या॑ह । ए॒ता वा ए॒तस्य॑ दे॒वता॑ः । ता- भि॑रे॒वैनं॑ सम॒र्धय॑ति^(२) । ^(३)मद॑न्तीभिः प्रोक्ष॑ति । तेज॑ ए॒वास्मि॑न् दधाति^(३) ॥ १ ॥

^(४)अ॒भि॒पूर्वं प्रोक्ष॑ति । अ॒भि॒पूर्व॑मे॒वास्मिं॒स्तेजो॑ दधाति^(४) । ^(५)त्रिः प्रोक्ष॑ति । त्र्यावृ॑द्धि य॒ज्ञः । अथो॑


एतन्मन्त्रस्य भाष्यं४१२ पृष्ठेद्रष्टव्यं ।
,,४१३,,
,,४१३,,
,,४१३,,
,,४१३,,

६०४ तैत्तिरीये आरण्यके

मेध्यत्वाय॑^(५) । ⁽६⁾होता॒ऽन्वाह॑ । रक्ष॑सामपह॑त्यै^(६) । ⁽७⁾अ॑नवा॒नं । प्रा॒णानाँ॒ सन्त॑त्यै^(७) । ⁽८⁾त्रि॒ष्टुभ॑: स॒तो-गी॒यचो॑रि॒वान्वा॑ह ॥ २ ॥

गाय॒त्रो हि प्रा॒णः । प्रा॒णमे॒व यज॑माने दधाति^(८) । ⁽९⁾सन्त॑तमन्वाह । प्रा॒णाना॒मन्नाद्य॑स्य॒ सन्त॑त्यै । अथो॒ रक्ष॑सामपह॑त्यै^(९) । ⁽१०⁾यत् परि॑मिता अनुब्रू॒यात् । परि॑मित॒मव॑रुन्धीत । अप॑रिमित॒ा अन्वा॑ह । अप॑रिमित॒स्याव॑रुद्ध्यै^(१०) । ⁽११⁾शिरो॒ वा ए॒तद्य॒ज्ञस्य॑ ॥ ३ ॥

यत् प्र॑व॒र्ग्यः॑ । ऊर्ज्यु॑ञ्जाः । यन्मौञ्जो वेदो भव॑ति । ऊर्जै॑व य॒ज्ञस्य॒ शिरः॒ समर्ध॑यति^(११) । ⁽१२⁾प्रा॒णाहुतीर्जुहो॑ति । प्रा॒णाने॒व यज॑माने दधाति^(१२) । ⁽१३⁾स॒प्त जु॑हो॑ति । स॒प्त वै शीर्ष॒ण्याः॑ प्रा॒णाः । प्रा॒णाने॒वास्मि॑न् दधाति^(१३) । ⁽१४⁾दे॒वस्त्वा॑ सवि॒ता मध्वा॑न॒क्ति॒त्याह॑ ॥ ४ ॥


एतन्मन्त्रस्य भाष्यं४१४पृष्ठे द्रष्टव्यं ।
,,४१४,,
,,४१४,,
,,४१५,,
१०,,४१५,,
११,,४१५,,
१२,,४१६,,
१३,,४१६,,
१४,,४१७,,

५ प्रपाठके ४ अनुवाकः। ६०५

तेज॑सै॒वैन॑मनक्ति^(१४)। ^{(१५)}पृ॒थि॒वीं तर्प॑सस्त्राय॒स्वेति॑ हि॒र॑ण्यमु॒पास्य॑ति। अ॒स्या अ॑नतिदा॒हाय॑^(१५)। ^{(१६)}शि॒रो वा ए॒तद्य॒ज्ञस्य॑। यत्प्र॑व॒र्ग्यः॑। अ॒ग्निः सर्वा॒ देव॑ताः। प्ल॒क्षाना॒दीप्त्योपास्य॑ति। दे॒वता॑स्वे॒व य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति^(१६)। ^{(१७)}अप्र॑तीशीर्णाग्रं भवति। ए॒तद्वै ब॒र्हिर्ह्यैषः^(१७)॥ ५॥

^{(१८)}अ॒र्चिर॑सि शो॒चिर॑सीत्या॑ह। तेज॑ ए॒वास्मि॑न्ब्रह्मवर्च॒सं द॑धाति^(१८)। ^{(१९)}सꣳसी॑दस्व म॒हाँꣳ अ॑सी॒त्याह॑। म॒हान् ह्येषः^(१९)। ^{(२०)}ब्रह्म॑वादि॒नो व॑दन्ति। ए॒ते वाव त ऋ॒त्विजः॑। ये द॑र्शपूर्णमा॒सयोः॑। अथ॒ क्क॑था होता॒ यज॑मानाया॒शिषो॒ नाशा॑स्त॒ इति॑। पु॒र॒स्ता॑दा॒शीः खलु॒ वा अ॒न्यो य॒ज्ञः। उ॒प॒रि॒ष्टा॑दाशी॒रन्यः॑^(२०)॥ ६॥

^{(२१)}अना॑धृष्या पु॒रस्ता॒दिति॒ यदे॒तानि॒ यजूं॒ष्याह॑।


१५एतन्मन्त्रस्य भाष्यं४१७पृष्ठे द्रष्टव्यं ।
१६,,४१७,,
१७,,४१८,,
१८,,४१८,,
१९,,४१६,,
२०,,४२१,,
२१,,४२१,,

६०६ तैत्तिरीये आरण्यके

शीर्ष॑त ए॒व य॒ज्ञस्य॒ यज॑मान॒ आशिषोऽव॑रुन्धे^(२१) । (२२)-
आयुः॑ पु॒रस्ता॑दाह । प्र॒जां द॑क्षिण॒तः । प्रा॒णं प॒श्चात् ।
श्रोत्र॑मुत्तर॒तः । विधृ॑तिमुप॒रिष्टा॑त् । प्रा॒णाने॒वास्मै॑
समीचो॑ दधाति^(२२) । (२३)ईश्वरो वा ए॒ष दिशो॒ऽनुन्म॑-
दितोः । यं दिशो॒ऽनु॒ व्यास्थापय॑न्ति ॥ ७ ॥
मनो॒रश्वा॑सि भूरि॑पु॒त्रेतीमा॒मभि॑मृशति । इ॒यं वै
मनो॒रश्वा॒ भूरि॑पुत्रा । अ॒स्यामे॒व प्रति॑तिष्ठत्यनुन्मा-
दाय^(२३) । (२४)सूप॒सदो॑ मे भूया॒ मा मा॑ हिꣳसीरित्या॑-
हाहि॑ꣳसायै^(२४) । (२५)चित॑ꣳ स्थ परि॒चित॒ इत्या॑ह ।
अप॑चितिमे॒वास्मि॑न् दधाति^(२५) । (२६)शिरो॒ वा ए॒त-
द्य॒ज्ञस्य॑ । यत्प्र॑व॒र्ग्यः॑ । अ॒सौ खलु॒ वा आ॑दि॒त्यः
प्र॑व॒र्ग्यः॑ । तस्य॑ म॒रुतो॑ र॒श्मयः॑ ॥ ८ ॥
स्वाहा॑ म॒रुद्भिः॒ परि॑श्रय॒स्वेत्या॑ह । अ॒मुमे॒वादि॒त्यꣳ
र॒श्मिभिः॒ पर्य्यू॑हति । तस्मा॑द॒सावा॑दि॒त्योऽमुष्मिं॑ल्लो॒के
र॒श्मिभिः॒ पर्य्यू॑ढः । तस्मा॒द्राजा॑ वि॒शा पर्य्यू॑ढः । तस्मा॒द्


२२एतन्मन्त्रस्य भाष्यं४२२पृष्ठे द्रष्टव्यं ।
२३,,४२३,,
२४,,४२३,,
२५,,४२४,,
२६,,४२४,,

५ प्रपाठके ४ अनुवाकः। १०७

ग्रामणीः सं॒जातैः पर्य्यू॑ढः^(२६)। ^(२७)अ॒ग्नेः सृ॒ष्टस्य॒ यतः। विक॑ङ्कतं॒ भा आ॑र्च्छत्। यद्वै॑कङ्क॒ताः परि॑धयो॒ भव॑न्ति। भा ए॒वाव॑रुन्धे^(२७)। ^(२८)द्वाद॑श भवन्ति ॥ ९ ॥ द्वाद॑श॒ मासा॑: संवत्स॒रः। सं॑वत्स॒रमे॒वाव॑रुन्धे^(२८)। ^(२९)अस्ति॑ त्रयोद॒शो मास॒ इत्या॑हुः। यत्त्रयोद॒शः परि॑धिर्भव॑ति। तेनै॒व त्र॑योद॒शं मास॒मव॑रुन्धे^(२९)। ^(३०) अ॒न्तरि॑क्षस्यान्त॒र्द्धिर॑सीत्या॑ह॒ व्यावृ॑त्त्यै^(३०)। ^(३१)दिवं॑ तर्प- सस्वाय॒स्वेत्यु॒परि॑ष्टाद्धिर॑ण्यमधि॒निद॑धाति। अ॒मुष्या अन॑तिदाहाय। अथो॒ आभ्या॑मे॒वैन॑मुभयतः॒ परि॑गृ- ह्णाति^(३१)। ^(३२)अर्हन् बिभर्षि साय॑कानि॒ धन्वे- त्या॑ह ॥ १० ॥ स्तौत्ये॒वैन॑मे॒तत्^(३२)। ^(३३)गाय॒त्रम॑सि॒ त्रैष्टु॑भमसि जाग॑तमसीति॑ धवि॒त्राण्याद॑त्ते। छन्दो॑भिरे॒वैनान्य-


२७एतन्मन्त्रस्य भाष्यं४२६पृष्ठे द्रष्टव्यं ।
२८,,४२६,,
२९,,४२७,,
३०,,४२७,,
३१,,४२७,,
३२,,४३०,,
३३,,४३०,,

4 E

६०८तैत्तिरीये आरण्यके

द॑त्ते॒^(३३)। ^(३४)मधु॑ मध्वि॒ति धू॒नोति॑ । प्रा॒णा वै मधु॑ । प्रा॒णमे॒व यज॑माने दधाति^(३४)। ^(३५)त्रिः परि॑यन्ति। त्रि॒वृद्घि प्रा॒णः^(३५)। ^(३६)त्रिः परि॑यन्ति। त्र्यावृ॒द्घि य- ज्ञः॥ ११ ॥ अथो॒ रक्ष॑सामप॑हत्यै^(३६)। ^(३७)त्रिः पुनः॒ परि॑यन्ति। षट् सम्प॑द्यन्ते। षड् वा ऋ॒तव॑ः। ऋ॒तुष्वे॒व प्रति॑तिष्ठ- न्ति^(३७)। ^(३८)यो वै घ॒र्मस्य॑ प्रि॒यान्त॒नुव॒माक्रा॒मेति॑ । दु॒श्चर्मा॑ वै स भ॑वति। ए॒ष ह॒ वा अ॑स्य प्रि॒यान्त॒नुव- माक्रा॑मति। यस्त्रिः परीत्य॑ चतु॒र्थं पर्यै॑ति। ए॒- ताꣲ ह॒ वा अ॑स्यो॒ग्रन्दे॒वा रा॑ज॒निराच॑क्राम॥ १२॥ ततो॒ वै स दु॒श्चर्मा॑ऽभवत्। तस्मा॒त् त्रिः प॒रीत्य॒ न च॑तु॒र्थं परी॑यात्। आ॒त्मनो॑ गोपी॒थाय॑। प्रा॒णा वै ध॒वित्रा॑णि^(३८)। ^(३९)अव्य॑तिषङ्गं धून्वन्ति। प्रा॒णाना- मव्य॑तिषङ्गाय॒ कॢप्त्यै^(३९)। ^(४०)विनिष॑द्यं धून्वन्ति।


३४ एतन्मन्त्रस्य भाष्यं ४३१ पृष्ठे द्रष्टव्यं ।

३५,,४३१,,
३६,,४३१,,
३७,,४३१,,
३८,,४३१,,
३९,,४३२,,
४०,,४३२,,

५ प्रपाठके ५ अनुवाकः। ६०६

द्वि॒क्ष्वेव॒ प्रति॑तिष्ठन्ति॑^{(४०)}। ^{(४१)}ऊ॒र्ध्वं धू॑न्वन्ति। सु॒वर्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै^{(४१)} ॥ ^{(४२)}सर्व॑तो॒ धून्व॑न्ति। तस्मा॑द॒यꣳ सर्व॑तः पवते^{(४२)} ॥ १३ ॥

द॒धा॒ति॒(१), इन्वा॒न्वाह॒(२), य॒ज्ञस्य॑(३), आ॒ह॒(४), ए॒षः(५), उ॒परिष्टा॑दाशी॒रन्यः॑(६), व्या॒स्था॒पय॑न्ति(७), र॒श्मयः॑(८), भव॑न्ति(९), धन्वेत्याह॑(१०), य॒ज्ञः(११), च॒क्राम्(१२), सम॑ष्ट्यै, द्वे च॑(१३), ॥ अनु० ४ ॥


अथ पञ्चमोऽनुवाकः।

^{(१)}अ॒ग्निष्ट्वा॒ वसु॑भिः पुर॒स्ताद्रो॑चयतु गाय॒त्रेण॒ छन्द॑सेत्या॑ह। अ॒ग्निरे॒वैनं॒ वसु॑भिः पुर॒स्ताद्रो॑चयति गाय॒त्रेण॒ छन्द॑सा^{(१)}। ^{(२)}स मा॑ रुचि॒तो रो॑चये॒त्याह॑। आ॒शिष॑मे॒वैतामाशा॑स्ते^{(२)}। ^{(३)}इन्द्र॑स्त्वा रु॒द्रैर्द॑क्षिण॒तो रो॑चयतु त्रैष्टु॒भेन॒ छन्दसेत्या॑ह। इन्द्र॑ ए॒वैनꣳ॑ रु॒द्रैर्द॑क्षिण॒तो रो॑चयति त्रैष्टु॒भेन॒ छन्द॑सा। स मा॑ रुचि॒तो रो॑चये॒त्याह॑। आ॒शिष॑मे॒वैतामाशा॑स्ते। वरु॑णस्त्वादि॒त्यैः


४१एतन्मन्त्रस्य भाष्यं४३३पृष्ठे द्रष्टव्यं ।
४२,,४३३,,
,,४३४,,
,,४३४,,
,,४३५,,

4 E 2

६१० | तैत्तिरीये आरण्यके


प॒श्चाद्रौ॑चयतु जाग॑तेन॒ छन्द॑सेत्या॒ह । वरु॑ण ए॒वैन॑मा-
दि॒त्यैः प॒श्चाद्रौ॑चयति॒ जाग॑तेन॒ छन्द॑सा ॥ १ ॥
स मा॑ रुचि॒तो रो॑चयेत्या॒ह । आ॒शिष॑मे॒वैतामा-
शास्ते । द्यु॒तानस्त्वा॑ मारु॒तो म॒रुद्भि॑रुत्तर॒तो रौ॑चय-
त्वाऽनु॑ष्टुभेन॒ छन्द॑सेत्याह । द्यु॒तान ए॒वैनं॑ मारु॒तो म॒-
रुद्भि॑रुत्तर॒तो रौ॑चयत्यानु॑ष्टुभेन॒ छन्द॑सा । स मा॑
रुचि॒तो रौ॑चयेत्या॒ह । आ॒शिष॑मे॒वैतामाशास्ते । बृ-
ह॒स्पति॑स्त्वा॒ विश्वै॑र्देवैरु॒परिष्टा॒द्रौच॑यतु पा॒ङ्क्तेन॒ छ-
न्द॑सेत्या॒ह । बृ॒हस्पति॑रे॒वैनं॒॑ विश्वै॑र्देवैरु॒परिष्टा॒द्रौच॑-
यति पा॒ङ्क्तेन॒ छन्द॑सा । स मा॑ रुचि॒तो रो॑चयेत्याह ।
आ॒शिष॑मे॒वैतामाशास्ते^(३) ॥ २ ॥

^(४)रोचि॒तस्त्वं दे॑व घर्म दे॒वेष्वसीत्या॑ह । रोचि॒तो
ह्येष दे॒वेषु॑ । रोचि॒षीया॒हं म॑नु॒ष्ये॒ष्वित्या॑ह । रोच॑त
ए॒वैष म॑नु॒ष्येषु॑^(४) । ^(५)स॒म्राड् घ॑र्म रुचि॒तस्त्वं दे॒वेष्वा-
युष्माँ॑स्तेज॒स्वी ब्र॑ह्मवर्च॒स्यसीत्या॑ह । रुचि॒तो ह्येष
दे॒वेष्वायुष्माँ॑स्तेज॒स्वी ब्र॑ह्मवर्च॒सी । रुचि॒तोऽहं म॑नु॒ष्ये॑-
ष्वायुष्माँ॑स्तेज॒स्वी ब्र॑ह्मवर्च॒सी भू॑या॒समि॑त्याह । रुचि॑त


४ एतन्मन्त्रस्य भाष्यं ४३६ पृष्ठे द्रष्टव्यं ।
५ ,, ४२७ ,,

५ प्रपाठके ६ अनुवाकः। ६११

ए॒वैष म॑नु॒ष्ये॑ष्वायु॒ष्माꣳस्तेज॑स्वी ब्रह्मवर्च॒सी भ॑वति^(५)। (६)रुग॑सि॒ रुचं॑ मयि॑ धेहि॒ मयि॒ रुगि॒त्या॑ह। आ॒शिष॑मे॒वैतामाशा॑स्ते^(६)॥ ^(७)तं यदे॒तैैर्यजु॑र्भीररो॑चयित्वा। रु॒चितो॑ घ॒र्म इति॑ प्र॒ब्रूया॑त्। अ॒रोचु॑कोऽध्व॒र्युः स्यात्। अ॒रोचु॑को॒ यज॑मानः। अथ॒ यदै॑नमे॒तैैर्यजु॑र्भी रोच॒यित्वा॑। रु॒चितो॑ घ॒र्म इति॒ प्राह॑। रोचु॑कोऽध्व॒र्युर्भव॑ति। रोचु॑को॒ यज॑मानः^(७)॥ ३॥

प॒ञ्चाद्रो॑चयति॒ जाते॑गन् छन्द॑सा(१), स मा॑ रु॒चितो॑ रो॑चयेत्या॒हाशिष॑मे॒वैतामाशा॑स्ते(२), शास्ते॒, अष्टौ च॑(३)॥ अनु० ५॥


अथ षष्ठोऽनुवाकः।

^(१)शिरो॒ वा ए॒तद्य॒ज्ञस्य॑। यत् प्र॑व॒र्ग्यः॑। ग्री॒वा उ॑प॒सदः॑। पु॒रस्ता॑दु॒पसदां॑ प्र॒वर्ग्यं॑ प्र॒वृण॑क्ति। ग्री॒वास्वेव य॒ज्ञस्य॒ शिरः॒ प्रति॑दधाति^(१)। ^(२)त्रिः प्र॒वृण॑-


एतन्मन्त्रस्य भाष्यं४३१ पृष्ठे द्रष्टव्यं ।
,,४३८ ,,
,,४४० ,,
,,४४१ ,,

६१२ तैत्तिरीये आरण्यके

क्ति। त्रय॑ इ॒मे लो॒काः। ए॒भ्य ए॒व लो॒केभ्यो॒ य॒ज्ञस्य॒ शिरोऽव॑रुन्द्धे^(२)। ^(३)षट् संप॑द्यन्ते। षड् वा ऋ॒तव॑: ॥ १ ॥
ऋ॒तुभ्य॑ ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्द्धे^(३)। ^(४)द्वाद॑शकृत्वः॒ प्रवृ॑णक्ति। द्वाद॑श॒ मासा॑: संवत्स॒रः। सं॑वत्स॒रादे॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्द्धे^(४)। ^(५)चतु॑र्विग्ंशतिः संप॑द्यन्ते। चतु॑र्विग्ंशतिरर्धमा॒साः। अ॒र्ध॒मासेभ्य॑ ए॒व य॒ज्ञस्य॒ शिरोऽव॑रुन्द्धे^(५)। ^(६)अथो॒ खलु॑। स॒कृदे॒व प्रवृ॑ञ्ज्याः। एक॒ग्ं॒ हि शिर॑:^(६) ॥ २ ॥
^(७)अ॒ग्नि॒ष्टो॒मे प्रवृ॑णक्ति। ए॒तावा॒न् वै य॒ज्ञः। यावा॑नग्नि॒ष्टोम॑:। यावा॑ने॒व य॒ज्ञः। तस्य॒ शिर॑: प्रति॒दधा॑ति^(७)। ^(८)नो॒क्थ्ये॑ प्रवृ॑ञ्ज्यात्। प्र॒जा वै प॒शव॑ उ॒क्थानि॑। यदु॒क्थ्ये॑ प्रवृ॒ञ्ज्यात्। प्र॒जां प॒शून॑स्य॒ निर्द॑हेत्^(८)। ^(९)विश्व॒जिति॑ सर्वपृ॒ष्ठे प्रवृ॑णक्ति ॥ ३ ॥
पृ॒ष्ठानि॒ वा अ॒च्यु॒तं च्या॑वयन्ति। पृ॒ष्ठैरे॒वास्मा॒ अच्यु॑तं॒ च्याव॑यि॒त्वाऽव॑रुन्द्धे^(९)। ^(१०)अप॑श्यं गो॒पामित्या॑-


एतन्मन्त्रस्य भाष्यं ४४१ पृष्ठे द्रष्टव्यं ।
,, ४४१ ,,
,, ४४१ ,,
,, ४४२ ,,
,, ४४२ ,,
,, ४४३ ,,
,, ४४३ ,,
१०,, ४४३ ,,

५ प्रपाठके ६ अनुवाकः । ६१३

ह । प्रा॒णो वै गो॒पाः । प्रा॒णमे॒व प्र॒जासु॑ वि॒र्या॑त- यति^(१०) । ^(११)अप॑श्यं गो॒पामित्या॑ह । अ॒सौ वा आ॑- दि॒त्यो गो॒पाः । स हीमाः प्र॒जा गो॒पाय॑ति । तमे॒व प्र॒जानां॑ गो॒प्तारं॑ कुरुते^(११) । ^(१२)अनि॑पद्यमानमि- त्याह ॥ ४ ॥

न ह्येष नि॒पद्य॑ते^(१२) । ^(१३)आ च॒ परा॑ च प॒थि- भि॒श्चर॑न्त॒मित्या॑ह । आ च॒ ह्येष परा॑ च प॒थिभि॒- श्चर॑ति^(१३) । ^(१४)स स॒ध्रीचीः॒ स विषू॑ची॒र्वसा॑न इ- त्या॑ह । स॒ध्रीची॑श्च॒ ह्येष विषू॑चीश्च वसा॑नः प्र॒जा अ॒भिविपश्य॑ति^(१४) । ^(१५)आवे॑रीवर्त्ति॒ भुव॑नेष्व॒न्तरित्या॑- ह । आ ह्येष वरी॑वर्त्ति॒ भुव॑नेष्व॒न्तः^(१५) । ^(१६)ऋ॒चं प्रा- वी॑र्मधुमा॒ध्वीभ्यां॑ मधुमा॒र्ध्वीभ्या॒मित्या॑ह । वा॒स॒न्ति- कावे॒वास्मा॑ ऋ॒तू क॑ल्पयति^(१६) । ^(१७)समि॒द्धिर॒ग्निना॑ गतेत्या॑ह ॥ ५ ॥


११एतन्मन्त्रस्य भाष्यं४४४पृष्ठे द्रष्टव्यं ।
१२,,४४४,,
१३,,४६४,,
१४,,४४५,,
१५,,४४५,,
१६,,४४५,,
१७,,४४६,,